वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 201–210

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 201–210

पृष्ठ 201

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 201 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४६ ] वेदार्थपारिजात भाष्यसहिता १६५ न समजानत समानज्ञाना नाभवन् । स च प्रजापतिरकामयत इमाः प्रजाः परस्परं सञ्जानीरन्निति । एवं arafear भिन्नोजनितत्वं दोषमालोच्य ताः प्रजाः समानोल्बाः समानमेकमेवोल्बं यासां तास्तथाविधा अकरोत् । किं तत्समानमुल्बमिति? तदाह - तासामूषानिति । उत्पद्यमानानां प्रजानामुल्बत्वेनोषान् कृतवा-नित्यर्थः । तथा चैकोल्बजनितत्वेन समानजातीयास्ताः प्रजाः समजानत ऐकमत्यं प्राप्ता आसन् । यस्मादेवं पुरावृत्तं तस्मादिदानीमपि समानोल्वानामेकमातृकाणां प्रजानां सम्मतिर्दृश्यत इत्यर्थः । देवैरित्यादि । देवैः सह समानजन्मा भवानीत्यनेनाभिप्रायेण हि यो यजमानो यजते तत् तथा सत्युल्ब संस्तुतानामूषाणां निवपनेन देवैः समानोल्बः समानजन्मा भवतीत्यर्थः । ' संज्ञानमसीति । समजानत होतेन कामधरणमिति पशवो वा ऊषाः पशवः कामधरणं मयि ते कामधरणं भूयादिति मयि ते पशवो भूयासुरित्येतत्तैः सर्वं गार्हपत्यं प्रच्छादयति योतिर्वै गार्हपत्या चितिरुल्बमूषा: सर्वां तद्योनिमुल्बेन प्रच्छादयति ' ( श ० ७ | १ | १८ ) । तस्मिन्निवपने मन्त्रं विधाय तदीयपदानि व्याचष्टे – संज्ञान-मिति । अत्र ' कर्णाधिकरणयोश्च ' ( पा ० सू ० ३।३।११७ ) इति करणे ल्युट् । समजानतेति । हि यस्माद्विप्रतिपन्नाः प्रजा एतेन ऊषरूपेणोल्बेन समजानत समानज्ञाना अभवन् तस्माद् हे ऊष, त्वं संज्ञानमसीति मन्त्रेण प्रतिपाद्य इत्यर्थः । मयि त इत्यादेरयमर्थः -- हे ऊष, यतस्त्वं कामधरणमसि, अतस्ते तव सम्बन्धि पगुरूपं कामधरणं कामप्रापणं मयि भूयादिति । मन्त्रवाक्यार्थस्य पर्यवसानमाह - मयि ते पशव इति । ते तव सम्बन्धिनः पशवो मयि भूयासुरित्येतदत्र प्रतिपाद्यमित्यर्थः । न्युप्तैरूषः प्रच्छादनं विधत्ते - तैरिति । तत्प्रच्छादनं प्रशंसति - योनिर्वा इति । गार्हपत्याग्निसम्बधिनी या चितिः, सा योनिः सर्वोत्पत्तिकारणम् । गार्हपत्याग्ने राहवनीयाग्न्युत्पत्तिहेतुत्वात् तदीय चयनस्याप्युत्पत्तिहेतुत्वाद् योनित्वेन स्तुतिः | उल्बमूषा इति ' तासामूषानुल्बमकरोत् ' ( श ० ७ | १ | १ | १७ ) इत्याम्नातम् । तत् तेन ऊषैः प्रच्छादनेन सर्वां कृत्स्नां योनिमेव आहवनीयाद्युत्पत्तये उल्बेन प्रच्छादितवान् भवतोति । ' अथ सिकता निवपति । अग्नेरेतद्वैश्वानरस्य भस्म यत्सिकता अग्निमु वा एतं वैश्वानरं चेष्यन् भवति न वा अग्निः स्वं भस्मातिदहत्यनतिदाहाय ' ( श ० ७ १ ११ ९ ) । सिकतानां निवपनं विधत्ते - अथेति । ऊषवत् सिकता बालुकानिक्षिपति । पृथिव्या दाहराहित्य हेतुत्वेनैतत् स्तौति - अग्नेरेतदिति । वैश्वानरस्य विश्वनरहितस्य अग्नेरेतद् भस्म यत् सिकताः । वैश्वानरं विश्वेषु नरेष्ववस्थितं हिरण्यगर्भात्मकमग्नि खल्वसो यजमानश्चेष्यन् भवति । यथा च चीयमानो वैश्वानरोऽग्निः पृथिवीं न दहेत् तथा च सिकतानां निवपनं पृथिव्या अनतिदाहाय अतिक्रम्य अतिशयितो वा दाहोऽतिदाहः, तद्राहित्याय भवति । न खल्वग्निः स्वकीयं भस्मातीत्य दहति किन्तु तेनैव छन्नः सन् दाहसमर्थो भवतीत्यर्थः । यद्वेव सिकता निवपति । अग्नेरेतद्वैश्वानरस्य रेतो यसिकता अग्नि वा एतं वैश्वानरं चेष्यन् भवति न वा अरेतस्कात्किञ्चन विक्रियतेऽस्मादेत सोऽधि विक्रियाता इति ' ( ० ७ | १ | १ | १० ) । पूर्वकण्डिकोक्तमनूद्य प्रकारान्तरेण स्तौति – यद्वेवेति । सिकता इति यत् एतद् अग्नेर्वैश्वा-नरस्य रेतः, वर्णसादृश्यात् । न वा अरेतस्कादिति न खल्वरेतस्काद् निर्वीर्यात् पुरुषात् किमपीषदपि विक्रियते उत्पद्यते । अतश्चेष्यमाणोऽग्नी रेतसोऽधि उपरि चितः सन् विक्रियात नानाविधफलसाधनयागहेतुत्वेन विकृतो भवेदित्यनेनाभिप्रायेण सिकतात्रिपनं कर्तव्यमित्यर्थः । ' अग्नेर्भस्मास्यग्नेः पुरीषमसीति । यातयाम वा अग्नेर्भस्मायातयाम्न्यः सिकता अयातयाममेवैनदेतत्करोति ताभिः सर्वं गार्हपत्यं प्रच्छादयति योनिर्वै गार्हपत्या चिती रेतः सिकताः सर्वस्यां तद्योनी रेतो दधाति ' ( श ० ७ | १ | १ | ११ ) । सिकतानिवपने मन्त्रं विदधाति - अग्नेर्भस्मेति । यातयाम वा इति । अग्नेर्भस्म यातयाम

पृष्ठ 202

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 202 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६६ शुक्लयजुर्वेदसंहिता { अ ० १२ अगतसारं गतसारम्, रेवोरूपास्तु सिकता अयातयाम्न्योऽगतसाराः । तथा चैतेन सिकतानिवपनेन अयातयाम सारवदेव एतच्चयनं करोतीत्यर्थः । सिकताभिः प्रच्छादनं विधत्ते - ताभिरिति । यतो रेतःसंस्तुताः सिकताः, तस्मात् तासां गार्हपत्यायतने सर्वत्र प्रक्षेपेण सर्वस्यामेव योनी प्रजोत्पत्तिहेतुभूतं रेत एव दधाति सिक्तवान् भवति । ' अथैनं परिश्रिद्भिः परिश्रयति । योनिर्वै परिश्रित इदमेवैतद्रेतः सिक्तं योन्या परिगृह्णाति तस्माद्योन्या रेतः सिक्तं परिगृह्यते ' ( श ० ७ | १ | १ | १२ ) । शर्कराभिः परिश्रयणं विधत्ते - अथैनमिति । एनं गार्हपत्यप्रदेशं परिश्रिद्भिः परिश्रयन्त्येभिरिति परिश्रितः शर्करापरपर्यायाः सूक्ष्मपाषाणा इति सायणाचार्याः । तैः परिश्रयति परितो वेष्टयति । परिश्रयणं प्रशंसति -- योनिर्वा इति । योनिस्थानीयाः परिश्रित इत्यर्थः । इदमेव सिकतारूपं सिक्तं रेतः, एतद् एतया परिश्रिद्रूपया योन्या परिगृह्णाति । परितस्तथा धारयति यथा न विपद्यते । यस्मादेवं वैदिके कर्मणि, तस्मादेव कारणाद् लोके योषित्सु गर्भाशये सिक्तं रेतो योन्या परिगृह्यते परितो धार्यते । एतदुक्तं भवति - गार्हपत्य चितिसकाशाद् एषोत्पाद्यते आहवनीयचितिः । तदुत्पत्तावत्र न्युप्ता ऊषा उल्बम् सिकता रेतः, परिश्रित योनिः । अतः परिश्रयणान्तैः संस्कारैराहवनीयचितिर्गर्भावस्थां प्रतिपद्यत इति । ' यद्वेवैनं परिश्रिद्भिः परिश्रयति । अयं वै लोको गार्हपत्य आपः परिश्रित इमं तं लोकमद्भिः परितनोति समुद्रेण हैनं तत्परितनोति सर्वतस्तस्मादिमं लोक सर्वतः समुद्रः पर्येति दक्षिणावृत्तस्मादिमं लोकं दक्षिणावृत्समुद्रः पर्येति खातेन तस्मादिमं लोकं खातेन समुद्रः पर्येति ' ( श ० ७ | १ | १.१३ ) । एतदेव परिश्रयणमनूद्य प्रकारान्तरेण स्तौति यद्वेवैनमिति । अयं वै लोक इति । अयं भूलोकात्मकः खलु गार्हपत्योऽग्निः, तद्वाचिन्या भूरिति व्याहृत्या आहितत्वात् । आपः परिश्रित इति । परिश्रयणार्थाः शर्करा आप उदकात्मिकाः । शर्करायुक्ते हि भूप्रदेशे खननादाप उपलभ्यन्ते । तथा च गार्हपत्यस्य परिश्रिद्भिः परिश्रयणे सतीममेव भूलोकमद्भिः परितनोति परितो वेष्टयति । केनोपायेनाद्भिः परिवेष्टनमिति तदाह - समुद्रेणेति । तस्मादिममिति । यस्मात् परिश्रिद्भिर्गार्हपत्यस्य परिश्रयणं भूलोकस्य समुद्रेणावरणकरणम्, तस्मादिमं लोकं सर्वतः सर्वासु दिक्षु समुद्रः पर्येति परितो व्याप्नोति । परिश्रयणस्य प्रादक्षिण्यं विधाय स्तौति - दक्षिणावृदिति । दक्षिणा प्रदक्षिणम् आवृद् आवर्तनं यथा भवति, तथा परिश्रयेदित्यर्थः । तस्मात् कारणभूते परिभ्रयणे दक्षिणावृन्निदर्शनात् समुद्रोऽपीमं लोकं दक्षिणावृत् प्रदक्षिणावर्तनेन पर्येति परितो गच्छति । खाते देशे परिश्रयणं विधाय स्तौति - खातेनेति । गार्हपत्यायतनस्य परितः खातेन प्रदेशेन परिश्रिद्भिः परिश्रयेत् । तदुक्तमेव कात्यायनेन - ' मण्डलं छादयति ' ( का ० श्र ० १७ | १ | ५ ), परिश्रिद्भिः परिश्रयति पूर्ववदेकविशत्या चितः स्थेति ' ( का ० श्री ० १७ १.७ ) । अर्थान्मण्डलस्य समन्ततः परिखां निम्नां कृत्वा विष्टम्भनाथं चितिलग्नाः परिश्रितो निखातव्या इति । ' चितः स्थेति । चिनोति ह्येना परिचितः स्थेति परि नाचिनोत्यूर्ध्वचितः श्रयध्वमित्यूर्ध्वा उपदधदाह तस्मादूर्ध्व एव समुद्रो विजतेऽथ यत्तिरश्चीरुपदध्यात् सकृद्वैवेद सर्व समुद्रो निर्मृज्यान्न सादयत्यसन्ना ह्यापो न सूददोहसाऽधिवदति श ० ७ | १ | १ | १४ ) तस्मिन् परिश्रयणे मन्त्रं विधाय व्याचष्टे - चितः स्थेति । हि यस्मादेनाः शर्कराश्चिनोति स्थापयति, तस्माद् हे शर्करा यूयं चितः स्थ चीयमाना भवथेति समवेतार्थो मन्त्रभागः । परि ह्येना इति । यस्मादेना: परिश्रितश्चिनोति " तस्मात् परिचितः स्थ परितश्चीयमाना भवथेति । ऊर्ध्वा उपधदिति । परित ऊर्ध्वमुखा स्थापयन् ऊर्ध्वचितः श्रयध्वमिति मन्त्रभागं ब्रूयादित्यर्थः । समुद्रो विजत इति । अब्रूपाणां परिश्रितामूध्वमुखत्वात् तत्समुदायरूपः समुद्रोऽप्यूर्ध्व एव विजते । ' ओविजी भयचनयो: ' इति तौदादिकस्य रूपम् । कल्लोलैरूध्वं चलति समुद्र इत्यर्थः । न तु तिर्यक् कृत्स्नां भूमिमावृणोतीत्यर्थः । अत्र विजतिर्व्याप्तिकर्मा । तिर्यगुपधाने दोषमाह अथ यत्तिरस्वीरिति । यद्यदि

पृष्ठ 203

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 203 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः ४६ ] वेदार्थपारिजातभाष्यसहिता १६७ तिरश्चीस्तिर्यगना उपदध्यात, तदा समुद्रस्यापि तिरंगञ्जनेन यगपदेव इदं सर्वं जगत समुद्रो निर्मृज्याद् निःशेषेण प्रक्षालयेत्, समुद्रः सर्वमात्मसात् कुर्यादित्यर्थः । तत्र सादनं मददोहसाधिवदनं च इष्टकाधर्मतया प्रसक्तमत्र निषेधतिन सादयतीति । उपधानकाले मन्त्रेणोपधाय ततस्तया देवतयेत्यपहितस्य सादनम ' ता अस्य सूददोहस ' इति मन्त्रः सुददोहा: । तेनाधिवदनमुपरिष्टाद् वदनम्, सर्वेष्टकास्पधारणो धर्मः । उपहिताना-मिष्टकानां स्थिरीकरणं सादनम्, उपहितानामिष्टकानामपरि हस्तं निधाय ता अस्येति पठनं सुददोहसाधिवदनम्, तदुभयं परिश्रिदुपधाने न कर्तव्यम् । तत्र हेतु: - अस्ना ह्याप इति । क्वचित् क्वचित् सीदन्ति प्रवहण -शीलत्वादित्यर्थः । ' अस्थीनि वे परिश्रितः । प्राणः सददोहा न वा अस्थिष प्राणोऽस्त्येवेन यषा बह्वीरिष्टका उपदधात्येक १७-तद्रपं यदापोऽथ यद् बह्वयः परिश्रितो भवन्ति बहुशो हाप: ' ( श ० ७ | १ | १ | १५ ) । सुददोहसो निषेधम्प-पादयति - अस्थीनि वा इति । अस्यात्मिका हि परिक्षितः शर्कराः, तत्सादृश्यात् । ' ता अस्य सुददोहस: ' इति सुददोहः शब्दयुक्तो मन्त्रः सुददोहाः, स च प्राणात्मकः खलु । सृष्ठ शोभनम् उदम् उदकं दोग्धीति सुददोहाः । येन सिक्तः सन् रसो न शुष्यति, यस्मिन्नङ्गे प्राणः सञ्जातो नास्ति तत् काष्ठवत् शुष्कमेव भवति, अतः प्राण एव सुददोहाः । तथा च अस्थिसंस्थितासु परिश्रित्स नासौ कर्तव्यः । न खल्वस्थिषु प्राणः, अस्ति सच्चरति, नाडीष्वेव हि तत्सञ्चर इत्यर्थः । चितः स्थ इत्येकेनैव यजुषा बहनां परिचितां स्थापनमुपपादयति - एकेनेति । उपदधातीति चोदितत्वात् परिश्रितामिष्टकात्वम् अत एवापस्तम्ब: - ' सुघी सप्त स्वयमातृष्णाः शर्करा हिरण्येप्रकाः पञ्च घने का दूर्वास्तम्बः कर्म उलूखलं मसलं शूर्पमरमानः पशुशिरा १७ सि सर्पशिरश्चामृन्मयोरिष्टकाः ' ( आप ० श्र ० १६ | १३ | १० ) । एक ११ ह्येतदिति । आप इति यत् तदेकमेव हि रूपम् । एकरूपा एव हि लक्ष्यन्ते, अत एकेन यजुषा परिश्रिद्रपाणामपामुपधानं युक्तमिति । बहुगो हीति । हि यस्मात्, आपो बह्वयो बहुविधा:, तस्मात् तदात्मिकाः परिश्रितोऽपि बहुयो भवन्ति । बहुशब्दात् ' वोटो गुणवचनात् ' ( पा ० सू ० ४ | १ | ४४ ) इत्यनुवर्तनात् ' बह्वादिभ्यश्च ' ( पा ० सू ० ४ । १ । ४५ ) इति ङीपि रूपम् । ' त योनिः परिश्रितः । उत्बभूषा रेतः सिकता बाह्याः परिश्रितो भवन्त्यन्तरा ऊषा बाह्या हि योनिरन्तरमुल्वं बाह्य ऊषा भवन्त्यन्तराः सिकता बाहा हाल्नमन्तर ४ रेत एतेभ्यो वै जायमानो जायते तेभ्य एवैनमेतज्जनयति ' ( श ० ७ | १ | १ | १६ ) | परिश्रिदूपसिकतानां बाह्याभ्यन्तरभावं विधाय स्वति तद्वै योनिरित्यादिना । तत् तत्र ऊषसिकतापरिश्रित्सु मध्ये परिश्रितः शर्करा योनिर्गर्भनिर्गमनमार्गः | उल्बसंस्तुता ऊषाः, रेतः संस्तुताः सिकताः, अतो योनिसंस्तुतानां परिश्रितामुल्बात्मकेभ्य ऊषेभ्यो बाह्यत्वम्, ऊषाणां सिकताना- च तत आन्तरत्वमुपपन्नम् । एवमेव उल्ब संस्तुतत्वाद् ऊषाणां बाह्यदेशवर्तित्वम् रेतः संस्तुतत्वात् माभ्यन्तरत्वं युक्तमित्यर्थः । बाह्यं होति । लोकप्रसिद्धया उपपादनमेतत् । एतेभ्यो वेति । योन्युल्बरेतोभ्यः खलु जायमानो जन्तुर्जायते । तथा च एनमग्नि तेभ्य एव योन्यादिभ्य इदानीं जनयति । ' अथैनमतश्चिनोति । इदमेवैतद्रेतः सिक्तं विकरोति तस्माद्योनौ रेतः सिक्तं विक्रियते ' ( श ० ७ १११।१७ ) | इत्थं संस्कृतस्य गार्हपत्यायतनस्येष्टकाभिश्चयनं विधत्ते - अर्थनमिति । अथ अनन्तरं सिकतात्मना सिक्तस्य रेतसो यस्मात्कार्यरूपेण परिणामोऽपेक्षितः, अतः कारणाद् एनं व्युहनादिभिः संस्कृतं गार्हपत्यदेशमिष्ट-काभिश्चिनोति । इदमेव सिकतारूपेण सिक्तं रेत एतद् एतेन चयनेन विकरोति विकृतमवयवयुक्तं करोति । तस्मादिति लौकिक मुदाहरणम् । स चतस्रः प्राचीरुपदधाति । द्वे पश्चात् तिरश्च्यो द्वे पुरस्तात्तद्याश्चतस्रः प्राचीरुपदधाति स आत्मा तद्यत्ताश्चतस्रो भवन्ति चतुर्विधो ह्ययमात्माऽथ ये पश्चात्ते सक्थ्यौ ये पुरस्तात्ती

पृष्ठ 204

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 204 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६८ शुक्लयजुर्वेदसंहिता अ ० १२ बाहू यत्र वा आत्मा तदेव शिर: ' ( श ० ७ | १ | १ | १८ ) । विहितस्य चयनस्य निष्पत्तये इष्टकानामुपधानप्रकार विधत्ते- - स चतस्र इति । गार्हपत्यस्यायतनस्य मध्ये प्रथमं चतस्रः प्राची: प्रागायता इष्टका उपदध्यात् । ततः पश्चात् पश्चाद्भागे तिरश्च्यौ तिर्यगायते द्वे इष्टके उपध्यात् । तथा चतसृणां पुरस्तादपि द्वे तिरश्च्या उपदध्यात् । एतासु त्रिविधास्विष्टकास्ववयवक्लृप्तिं करोति - तद्याश्चतस्र इत्यादिना । स आत्मेति, मध्यदेह इत्यर्थः । चतुविधो ह्ययमिति त्वगसृङ्मांसास्थिभेदेन, मनोबुद्ध यहङ्कारचित्तैर्वा, जाग्रदाद्यवस्थाचतुष्टयेन वा आत्मनश्चाविध्यम् । सक्थ्याविति । सक्थिः श्रोणिः, तया च पादो लक्ष्यते । पश्चादुपहिते इष्ट के पादावित्यर्थः । पादपाणियुक्तस्यास्य शरीरस्य किं तर्हि शिर इत्यत आह- यत्र वेति । यत्र खल्वारमा मध्यदेहो वर्तते, तत्रैव शिरोऽप्यात्मन्येवान्तर्भूत-मित्यतो न पृथग् वक्तव्यमित्यर्थः । ' तं वा एतम् । अत्र पक्षपुच्छ्वन्तं विकरोति यादृग् वै योनो रेतो बिक्रियते तादृग्जायते तद्यदेतत्र पक्षपुच्छवन्तं विकरोति तस्मादेषोऽमुत्र पक्षपुच्छवान् जायते ' ( श ० ७ १ | १ | १ ९ ) । अत्र अस्मिन् गार्हपत्यस्थाने तमेव एतर्माग्न पक्षाभ्यां पुच्छेन च युक्तमेव विकरोति, मध्ये च चतस्रः, उभयपार्श्वयोर्द्वे द्वे इत्येवमुपधीय-मानत्वात् । यादृग्वा इति । योनी गर्भाशयेऽवस्थितं रेतो गर्भो यादृगाकारं विक्रियते विशिष्टावयवं क्रियते, जननसमयेऽपि तागाकार विशिष्टमेवापत्यं जायते । इत्थं लौकिकीं स्थितिमुक्त्वा प्रकृते योजयति - तद्यदिति । तत् तत्र एतमग्निम् अत्र गार्हपत्यायतनयोनौ यद् यस्मात् पक्षपुच्छवन्तं विकरोति सूक्ष्मरूपेण निर्मिमीते, तस्माद् एषोऽग्निरमुत्र आहवनीयस्थाने पक्षपुच्छवान् जायते जायमान उपलभ्यत इत्यर्थः । तं वै पक्षपुच्छवन्तमेव सन्तम् । न पक्षच्छवन्तमिव पश्यन्ति तस्माद्योनो गर्भ न यथारूपं पश्यन्त्यथैनममुत्र पक्षपुच्छ्वन्तं पश्यन्ति तस्माज्जातं गर्भं यथारूपं पश्यन्ति ' ( ० ७ | १ | १ | २० ) । न पक्षपुच्छमिव पश्यन्तीति सदामपि पक्षपुच्छाना-मदर्शनं योन्यामनभिव्यक्तेर्वा भवति । एतल्लोकिकोदाहरणेनोपपादयति - तस्मादिति । यथारूपमिति । विद्यमानं शिरः पादादिकं कृत्स्नं रूपमित्यर्थः । अथैनममुत्रेति । एनमनभिव्यक्तरूपमग्निम् अमुत्र आहवनीयस्थानेऽभिव्यक्तं पक्षपुच्छवन्तं यस्मात् पश्यन्ति तस्मादेव कारणाद् जननात् प्रागनभिव्यक्तावयवं गर्भ जातं जननादृध्वं यथारूपं यथावसितरूपमभिव्यक्तावयवं पश्यन्तीत्यर्थं । अध्यात्मपक्षे - हे परमेश्वर, त्वं संज्ञानं सम्यग् ज्ञायतेऽनेनेति संज्ञानं सम्यग् ज्ञानहेतुरसि । त्वं चाग्नेः पुरीषं पूरकमसि । अग्नेर्भस्म प्रकाशमसि । ' तमेव भान्तमनुभाति सर्वम् ' ( मुण्ड ० २ २ १० ) इति श्रुतेस्तस्य सर्वकारणत्वेनाग्नेरपि द्योतकत्वात्, ' ज्योतिषामपि तज्ज्योतिः ' ( भ ० गो ० १३ १७ ) इति भगवद्वचनात् । ते तव यत् कामधरणम् अभीष्टधारणसामर्थ्य मस्ति, तन्मयि भूयात् । हे ब्रह्मविदः, हे साधकाः, यूयं चितोऽभीष्ट-सञ्चेतारः । तथा परिचितः परितः सर्वतश्चेतारः । तथा ऊर्ध्वचित ऊर्ध्वं स्वर्गलोकम्, अथवा परब्रह्मकारणत्वाद् व्यापकत्वाद् भासकत्वाद् तच्चेतारस्तत्प्राप्तिपरायणा यूयं सर्वपुरुषार्थहेतुत्वेन परमार्थमेवाश्रयध्वम् । दयानन्दस्तु - ' हे विद्वन् त्वं यत् संज्ञानं प्राप्तोऽसि यत्त्वमग्नेः पावकस्य भस्मासि दग्धशेषोऽसि भस्मवद् दोषाणां भस्मकर्तासि । अग्नेविद्युतः पुरीषं पूर्णं बलमाप्तोऽसि तन्मां प्रापय । यस्य ते तव कामधरणं सङ्कल्पाना-माधरणमस्ति तत्कामधरणं मयि भूयात् । यथा यूयं विद्युदादिशुभगुणैश्चितः संचिताः स्थ भवत, परिचितः परितः सर्वतश्चेतार ऊर्ध्वचित ऊर्ध्वं चिन्वन्तः स्थ पुरुषार्थं चाश्रयध्वम्, तथा वयमपि भवेम ' इति, तदपि यत्किञ्चिदसङ्गतेः, मूले यदिति पदाभावात् । आप्तोऽसीत्यपि पदं मन्त्रबाह्यमेव । नापि भस्मासीत्यस्य दोषाणां भस्मकर्तासीत्यर्थः सम्भवति । तन्मां प्रापयेत्यपि मन्त्रबाह्यमेव । पूर्वमेकवचनम्, उत्तरत्र यूयं चितः परिचित इत्यादिकं बहुवचनं किमर्थम्? कथं च तत्सङ्गतिः? पुरुषार्थं चाश्रयध्वमित्यपि सङ्गतिशून्यमेव । तथा वयमपि भवेत्यादिकं सर्वमपि निर्मूलाध्याहारमूलकमेव ॥ ४६ ॥

पृष्ठ 205

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 205 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४७ ] दार्थ पारिजात भाष्यसहिता

अयसो अग्निर्यस्मिन् सोम॒मिन्द्र॑ स॒तं द॒धे जठरै वावशा॒नः ।

सह॒स्रिय॒ वाज॒मत्यं॒ न सप्तं॑ सस॒वान् सन् स्त॑यते जातवेदः ॥ ४७ ॥

१६ ९ मन्त्रार्थ - यह वह अग्नि है, जिसकी सहायता से अग्निचयन की इच्छा करनेवाले इन्द्र ने अभिवव किये सहस्रों के योग्य अझ के समान भक्षण करने में मद न करनेवाले, हर्षकारक, तृप्तिकारक सोम को उबर में धारण किया ४७ । हे ॥ अग्निदेव, आप भी हवियों का भक्षण करते हुए ऋत्विक और यजमान द्वारा की गई स्तुति को सावधानी से सुनें ॥ ' मध्ये बृहतीश्चतस्रो दक्षिणोत्तराः प्राचीरुपदधाति दक्षिणत उदय सो अग्निरिति प्रत्यचम् ' ( का ० श्रौ ० १७ | ११८ ) । अध्वर्युर्मण्डलस्य दक्षिणभागे उदङ्मुख उपविश्य मण्डलमध्येऽधंबृहतीसंज्ञा ' ( का ० श्रौ ० षडङ्गुलोच्चा १६।७।१२ ) द्वादशाङ्गुलविस्ताराश्चतुर्विंशत्यङ्गलिदीर्घाश्चतस्र इष्टका दक्षिणोत्तराः ' अध्यात्मं चयनम् प्रत्यृच-इत्युक्तत्वाद् दक्षिणसंस्थाः प्राग्लक्षणाः, ' प्राचो दक्षिणोत्तरे ' ( का ० श्री ० १६ | ७ | २६ ) इत्युक्तत्वात् प्रागग्राश्चतस्त्र इष्टका मेकैकामुपदध्यादिति सूत्रार्थः । अर्थाद् गार्हपत्यस्य मध्यमप्रदेशे दक्षिणमारभ्य उत्तरापवर्गाः । पश्च ऋचो दक्षिणतः स्थित्वा उदङ्मुखः सन् अय सो अग्निरित्यादिभिश्चतसृभिर्ऋग्भिः क्रमेणोपदध्यात् कामयमान fararfarer आग्नेय्यस्त्रिष्टुभः । चतुर्थ्यनुष्टुप् । यस्मिन् गार्हपत्यरूपेऽग्नौ चिते सति वावशानः इति शेषः । इन्द्रः सुतमभिषुतं सोमं जठरे दधे स्वोदरे धारयिता स तादृशोऽयमग्निरिदानीमिष्टकाभिश्चीयत धनेन सम्मितं हे जातवेदोऽग्ने, त्वम् अत्यं न अश्वमिव सप्ति सन्ततगमनकुशलमश्वमिव सहस्रियं सहस्रसंख्याकेन एव यस्मिन् शरीरभूते वाजमन्नं ससवान् दत्तवान् यजमानेन स्तूयसे । यद्वा स चीयमानोऽग्निः । अयं भूलोक वृष्टिलक्षणा अपो दधे अस्मिन् लोके जठरे मध्ये वावशानः कामयमान इन्द्रः सुतमभिपुतं सोमं सरणशीलमत्यं तत्कार्यंभूता सततगामिनमश्वं न आधत्ते । कीदृशं सोमम्? सहस्रियं सहस्रोपकारकं वाजमन्नमब्लक्षणं सप्ति वेदितः, अग्ने! त्वं स्तूयसे इव ससवान् संभक्तवान् । गार्हपत्यरूपेण प्रथमं चितः सन् हे जातवेदः, जातानां आहवनीयात्मना चीयमानस्तद्धारणमन्त्रः प्रतिपाद्यसे । उव्वटाचार्यदृष्ट्या इष्टकोपधानं कुर्वन् अभिनयेन दर्शयति - अयं स इति । अयं स कामयमानः गार्हपत्योऽग्निश्चीयते । कथंभूतं, यस्मिश्चिते सत्यभिषुतं सोममिन्द्रो जठरे उदरे दधे धारयति । कीदृश इन्द्रः? वावशानः सम्प्रत्यर्थे । अनन्तरं सोमं दधे? सहस्त्रियं सहस्रार्हम्, वाजमन्नभूतं सर्वस्य जगतः अत्यं न सप्तिम् यस्मिन्नग्नो । नकारः चिते इन्द्रः सोमं जठरे भक्षणादेव प्रीतिकरम् । सप्तिं शरणं तृप्तिकरम् । ' षप समवाये ' न केवलं ऋत्विग्यजमानैः स्तूयस इति । धारयति किं तर्हि हे जातवेदः, त्वमपि ससवान् हवींषि संभजमानः सन् शानचि रूपम् । वष्टति वावशानः ' बहुलं छन्दसि ' ( पा ० सू ० २/४ ( ७६ ) इति शपः श्लौ द्वित्वेऽभ्यासदीर्घे ससवान् ' षण सम्भक्तौ ' इत्यस्मात् क्वत्रौ रूपम् । दक्षिणत उदङङासीन अत्र ब्राह्मणम् —'स चतस्रः पूर्वा उपदधाति । आत्मा ह्येवाग्रे सम्भवतः सम्भवति : १।२१ ) । आत्मा ह्येवाग्र उत्तरार्ध्या प्रथमामुपदधाति तथो हास्यैषोऽभ्यात्ममेवाग्निश्चितो भवति ' ( श ० ७ प्रथमतः १ सम्भवत्यभिव्यक्तो इति । यस्मात् शिरसा युक्तो मध्यदेह एव सम्भवत उत्पद्यमानस्य प्राणिनोऽग्रे धर्मविशेषमाह - दक्षिणत इति । भवति, तस्मादात्मसंस्तुता इष्टका: पूर्वमुपदध्यादिति युक्तमेव । तस्मिन्नुपधाने भवामुत्तर-गार्हपत्यायतनस्य दक्षिणदेशे उदङ्मुख आसीनश्चतसृणां मध्ये प्रथमामिष्टकामुत्तराद्धर्यामुत्तरार्धे भागेऽवस्थितामुपदध्यात् । ' दिक्पूर्वपदात् ठञ् च ' ( पा ० सू ० ४।३।६ ) इति सूत्रे खलु चकारादुत्तरार्धशब्दाद् दक्षिणतोऽवस्थितस्य यत्प्रत्ययः । उत्तरार्द्धार्थायाः प्रथममुपधाने प्रयोजनमाह तथो हेति । तथैव २२

पृष्ठ 206

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 206 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७० शुक्लयजुर्वेद संहिता [ अ ० १२ अध्वरेष अग्निः, अभ्यात्मम् आत्माभिमुखमेव चितो भवति । चतसृणामुपाधानेऽयं सो अग्निरित्याद्याश्चत्वारो मन्या विधीयन्ते । ' अयं सो अग्निः । यस्मिन् सोममिन्द्रः सतं दध इत्ययं वै लोको गार्हपत्य आपः सोमः सतोऽस्तिल्लोकेऽप इन्द्रो धत्त जठरे वावशान इति मध्यं वै जठर ७ सहस्रियं वाजमत्यं न सप्तिमित्यापो वै सहस्रियो वाजः ससवान्त्सन्तस्त्यसे जातवेद इति चितः संश्चीयसे जातवेद इत्येतत् ' ( श ० ७ | १ | १ | २२ ) । एतदर्थपरतां मन्त्रस्य प्रतिपादयति- अयं वै लोक इत्यादिना । मध्यं वै जठरमिति । देहमध्यवाचिना जठरशब्देन भूलोकस्य मध्यमत्र लक्ष्यते । आपो वै सहस्रिय इति । उपकाराणां सहस्रेण सम्मितः सहस्रियः, ' सहस्रेण सम्मितौ घः ' ( पा ० सू ० ४ | ४ | १३५ ) । तथाविधो वाजोऽन्नमब्लक्षणं विवक्षितम् । अध्यात्मपक्षे - अयमपरोक्षः प्रत्यगात्मा सोऽग्निः परोक्षः परमात्मा यस्मिन् परमात्मनि सति इन्द्रः सुतमभिषुतं सोमं वावशानः कामयमानो जठरे दधे धारयति तस्मिन् सत्येव वर्णाश्रमलक्षणस्य धर्मस्य प्रवृत्तेः । कीदृशं सोमम्? सहस्रियं सहस्रार्हम् । शेषं पूर्ववत् । अत्यं न अश्वमिव सरणशीलं हे जातवेदः, जातं सर्वं वेत्तीति जातवेदाः, तत्सम्बुद्धौ । हे परमेश्वर, ससवान् हवींषि संभजमानः सन् सर्वैः स्तूयसे । दयानन्दस्तु -- ' हे जातवेद प्राप्तविज्ञान विद्वन्, यथा ससवान् दानं ददत् सन् स्तूयसे तथाऽहमपि भवेयम् । यथा च अयमग्निः इन्द्रः सूर्यश्च यस्मिन् सोमं सर्वोषध्यादिरसं दधाति तथा सुतं निष्पन्नं जठरे उदरेऽहं दधे धरे । सोऽहं वावशानो भृशं कामयमानः सन् न यथा सहस्रियं वाजसहस्रेषु भवं वाजमन्नादिकम् । अत्यम् अतितुं व्याप्तुं योग्यं सप्तिम् अश्वं दधे तादृशस्त्वं भव ' इति, तदपि यत्किञ्चित्, लुप्तोपमालङ्कारत्व-कल्पनस्य प्रकृते निर्मूलत्वात् । सहस्रियं सहस्रप्राप्ता भार्या इत्यादि भाष्यं तु सर्वथाप्यशुद्धमेव, तदीयैरेव तदस्वीकारात् ॥ ४७ ॥

अग्ने॒ यत्ते॑ दि॒वि वचैः पृथि॒व्यां यदोष॑धीष्व॒प्स्वा यजत्र ।

येना॒न्तरि॑क्षमव॑त॒तन्य॑ त्वे॒षः स भा॒नुर॑र्ण॒वो न॒चक्षाः ॥ ४८ ॥

मन्त्रार्थ - मर्यादा से यजनयोग्य हे अग्निदेव, द्युलोक में जो सूर्यरूप ज्योति है, भूमि में अग्निस्वरूप, औषधियों में भास्करस्वरूप और जल में प्रभारूप जो ज्योति है, जिसने विद्युत्स्वरूप से विशाल अन्तरिक्ष लोक को व्याप्त किया है, इस विश्व की प्रकाशिका सब ओर गमनशील, मनुष्यों के शुभाशुभ कर्म को देखने वाली जो सूर्यरूप दीप्ति है, ये सब महानारायणस्वरूप आपको ही विभूतियाँ हैं ॥ ४८ ॥

हे आयजत्र! मर्यादा यज्ञनिष्पादक, इष्टका रूप अग्ने वा यत्ते तव वर्चस्तेजो दिवि द्यलोके सूर्यरूपेण वर्तते, पृथिव्यां वह्निज्वालारूपेण वर्तते, तथा यत्तेज ओषधीषु परिपाकत्वाकारेण वर्तते, अप्सु वडवानलरूपेण वर्तते येन त्वदीयवर्चसा विद्युद्रूपेण उरु विस्तीर्णमन्तरिक्षमाततन्य सर्वतो विस्तारितवानसि प्रकाशितवानसी -त्यर्थः । त्वेषः तिषां दीप्तीनां समूहः, स त्वदीयवर्चः समूहो भानुर्भासकः, अर्णवः समुद्र इव विस्तीर्णो नृचक्षाः मनुष्यान् प्रख्यापयिता, तथाविधतेजोरूपामिष्टकामुपदधामीति शेषः । यद्वा हे आ यजत्र, मर्यादया यजनीय, यते तव दिवि वर्च आदित्यात्मकं ज्योतिर्यच्च पृथिव्यामग्निलक्षणं वर्चो यच्चौषधीषु यच्चाप्स्वन्तर्व्यवस्थितम्, एतान्युक्तानि वचसि लघीयांसि 1 येन तु वर्चसा उरु विस्तीर्णमन्तरिक्षम् आततन्य आतनोषि त्वेषः त्वेषयति प्रकाशयति सकलं विश्वमिति त्वेषः स भानुः, महस्तद्वचः । अर्णवः अर्णासि उदकानि सन्ति यत्रेत्यर्णवो वायुः ' अर्णसो लोपश्च ' ( पा ० सू ० ५।२।१० ९ -२ ) इति वार्त्तिकेन मत्वर्थीयो वः, सलोपश्च । यद्वा अर्णवः अर्णस्वान्

पृष्ठ 207

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 207 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४८-४९ ] वेदार्थ पारिजात भाष्यसहिता १७१ अरणवान् गमनवान्, प्रसरणशील इति यावत् ' वायुः सः ' ( श ० ७ १ १ २३ ) इति श्रुतेः । नृचक्षाः नृणां शुभाशुभकर्मद्रष्टा, ईदृशो यस्ते भानु, तमेवेष्टकारूपमुपदधामीति शेषः । एतेन त्रिस्थानोऽग्निः स्तूयते । अत्र ब्राह्मणम् -- ' अग्ने यत्ते दिवि वर्च इति । आदित्यो वा अस्य दिवि वचः पृथिव्यामित्ययमग्निः पृथिव्यां यदोषधीष्वस्वा यजत्रेति य एवोपधिषु चाप्सु चाग्निस्तमेतदाह येनान्तरिक्षमुर्वाततन्थेति वायुः स त्वेषः स भानुरर्णवो नृचक्षा इत्येतत् ' ( श ० ७ १११।२३ ) । द्वितीयं मन्त्रं भागशोऽनूद्य व्याचष्टे - अग्ने यत्त इति । आदित्यो वा अस्य दिवि वर्च इति । हे अग्ने, यत्ते त्वदीयं वर्च आदित्यरूपं दिवि वर्तते तथा पृथिव्यां भूलोके यद्वच दाह - पाक - प्रकाशन समर्थमग्न्यात्मकं ज्योतिः ओषधीषु तरुगुल्माद्यासु अप्सु उदकेषु, आकारः समुच्चये, जाठर वाडवरूपेण च यद्वर्तते, हे यजत्र यजनीयाग्ने, येन वाय्वात्मना त्वदीयेन रूपेण उरु विस्तीर्णमन्तरिक्ष-माततन्य आतनोषि हे अग्ने! त्वेषो दीप्यमानो महान् सोऽग्निर्वाय्वादिरूपेण लोकत्रयं व्याप्यावस्थितः, त्वदीयो भानुः प्रकाशः, अर्णवः समुद्रोपमः सन् नृचक्षाः सर्वेषां नृणां द्रष्टा प्रकाशको भवति । अध्यात्मपक्षे - हे अग्ने परमेश्वर, यत्ते वर्चो दिवि पृथिव्यादिषु सूर्याग्निवाय्वादिरूपेण लोकत्रयं व्याप्य वर्तते स भानुः प्रकाशः समुद्रोपमः सर्वेषां नृणां प्राणिनां प्रकाशकः, परमेश्वरस्यैव । दित्यादिरूपेण सर्वप्रकाशक-त्वात् ' यदादित्यगतं तेजो जगद् भासयतेऽखिन् । यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकम् ॥ ' ( भ ० गी ० १५।१२ ) इति गीतोक्तेः । दयानन्दस्तु– ' हे यजत्र संगन्तुं योग्याग्ने, यद् यस्य वाग्नेरिव दिवि द्योतनात्मके विद्युदादौ वर्षो विज्ञानप्रकाशः, यत् पृथिव्यां यदोषधीषु यवादिपु अप्सु प्राणेषु जलेषु वा वर्चोऽस्ति, येन नृचक्षा नॄन् चक्षते स भानुः प्रभाकरः, अर्णवः असि बहून्युदकानि विद्यन्ते यस्मिन् स अर्णवः, त्वेषः प्रकाशोऽस्ति, येनान्तरिक्षमाकाश-मुरु बहु आततन्य समन्तात्तनुषे, तथा स त्वं तदस्मासु आहि ' इति, तदपि यत्किञ्चित्, मनुष्ये विदुषि मन्त्रोक्त-विशेषणासङ्गतेः । तस्याग्ने इति सम्बोधनमपि न सङ्गतम्, गौणार्थाश्रयणप्रसङ्गात् । दिवीत्यनेन विद्युतो ग्रहणम्, वर्च इत्यनेन तद्विषयं विज्ञानग्रहणमपि निष्प्रमाणमेव । पृथिव्योषध्यप्सु वर्चोऽपि ज्ञानात्मकमेव तेजो गृह्यत इत्यपि निर्मूलमेव, तेन च कोऽयं नृचक्षा भानुः कथं चार्णवः, त्वेषोऽपि यदि ज्ञानात्मक एव, तदा कथं परस्परं हेतुहेतुमद्भावः? अन्तरिक्षस्य स्वत एव विस्तीर्णत्वेन कथं तस्य विस्तारकरणं सम्भवति? ॥ ४८ ॥

अदिवो अर्णमच्छाजिवा॒स्यच्छ दे॒वाँ २ अ॑चित्रे॒वाये ।

या रौचने पुरस्तात् सूर्य॑स्य॒ यश्च॒वस्ता॑दु॒व॒तिष्ठ॑न्त॒ आप॑ः ॥ ४ ९ ॥

मन्त्रार्थ - हे अग्निदेव, द्युलोक सम्बन्धी जल को आप अभिमुख होकर प्राप्त करें । बुद्धीन्द्रियों के प्रेरक प्राणरूप देवताओं के प्रति आप गमन करें, दीप्तिरूप मण्डल में वर्तमान सूर्य के ऊपर और नीचे जो जल है, उन सबके मध्य में आप विराजमान हों । अभिप्राय यह है कि इन सब रूपों को आप ही धारण करते हैं ॥ ४ ९ ॥ हे इकारूपाग्ने, दिवः सकाशाद् अर्णमुदकम् अच्छाभिमुख्येन जिगासि प्राप्नोषि यागद्वारेण वृष्टि सम्पादय-सोत्ययः । ये देवा धिष्ण्याधारास्तान् देवानाभिमुख्येन ऊचिषे हविः स्वीकुरुषे इत्यर्थः । त्वय्यत्रोपहितायाम् आहुता इव देवा आगत्य हविः स्त्रीकरिष्यन्ति । सूर्यस्य देवस्य रोचने दीप्तिरूपे मण्डले सति या आपः परस्ता-दर्ध्वदेशे उपतिष्ठन्ते वर्तन्ते, याश्चावस्तादधोभागे वर्तन्ते, ताः सर्वास्त्वयि उपहितायामिह गामभ्येष्यन्तीति शेषः । यद्वा हे अग्ने, रिवः सम्बन्धि अर्णमुदकम् अच्छा जिगासि । ' अच्छाभेराप्तुमिति शाकपूणि: ' ( नि ० ५।२८ ) ।

पृष्ठ 208

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 208 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७२ शुक्ल यजुर्वेद संहिता [ अ ० ] १२ अभिगास आभिमुख्येनाप्तुं गच्छसि । ' गा स्तुती ' जुहोत्यादिः । स्तुतिश्रवणार्थं गमनमपि स्तुतिरेव देवानित्यत । ' निपातस्य आह-च ' ( पा ० सू ० ६ | ३ | १३६ ) इति संहितायां दीर्घः । अच्छा देवानभिजिगासि । कतमान् । तान् देवांश्च धिष्ण्यान् इति । धियो बुद्धीरिन्द्रियाणि इष्णन्ति प्रेरयन्तीति धिष्ण्याः प्राणाख्या देवाः देवा धिष्ण्या त्वमच्छा जिगासि अभिगच्छसि । किञ्च, ऊचिषे उच्यन्ते, ब्रूञः कर्मणि लिट् । पुरुषवचनयोव्यत्ययः । ये धियः प्रेरकाः, ' प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति ' ( श ० ७ १ १ २४ ) इति श्रुतेः । किञ्च, रोचने दीप्तिरूपे मण्डले वर्तमानस्य सूर्यस्य परस्ताद् उपरिष्टाद् या आप उपतिष्ठन्ते, अवस्तात् सूर्यस्याधस्ताच्च या आप उपतिष्ठन्ते, ताश्च त्वमभिगच्छसि त्वमेवैतं रूपैः परिणमसोत्यर्थः । अत्र ब्राह्मणम् –'अग्ने दिवो अर्णमच्छा जिगासीति । आपो वा अस्य दिवोऽर्णस्ता एष धूमेनाच्छेत्यच्छा देवां २ ऊचिषे धिष्ण्या य इति प्राणा वै देवा धिष्ण्यास्ते हि सर्वा धिय इष्णन्ति या रोचने परस्तात् सूर्यस्य ता यश्चावस्तादुपतिष्ठन्त आप इति रोचनो ह नामैष लोको यत्रैष एतत्तपति तद्याश्चैतं परेणापो याश्चावरेण एतदाह ' ( श ० ७ | १ | १ | २४ ) | ब्राह्मणानुसारेणायमर्थ: -- हे अग्ने, अस्य दिवोऽन्तरिक्षस्य सम्बन्धि अर्णमुदकं मेघस्थम् अच्छ अभिलक्ष्य धूमेन जिगासि व्याप्नोषि । तथा अध्यात्मं ये प्राणरूपा धिष्ण्या धिय इष्णन्ति व्याप्नुवन्तो वर्तन्ते तान् देवान् त्वं जाठराग्निरूपेण ऊचिषे समवैषि । ' उच समवाये ' दिवादिः । तथा या आपो रोचने रोचमाने सूर्यलोके वर्तमानस्य सूर्यस्य परस्ताद् उपरिभागे वर्तन्ते, याश्चावस्तादधोभागे उपतिष्ठन्ते वर्तन्ते, आसामाश्रयित्वं प्राप्नोषीति शेषः । उक्तार्थपरतां मन्त्रस्य दर्शयति- आपो वा अस्य दिवोऽर्ण इति । एष धूमेनेति । एष भूम्यां पार्थिवरूपेणावस्थितः, अग्निरित्यर्थः । प्राणा वै देवा इति I । दीव्यन्ति विषय-प्रकाशान् जनयन्तीति देवाः प्राणा इन्द्रियाणि । ते हि सर्वा इति । हि यस्मात् ते प्राणाः सर्वा धियः शब्दादि-विषयाणि सर्वाणि ज्ञानानि इष्णन्ति आभीक्ष्ण्येन व्याप्नुवन्ति । ' इष आभीक्ष्ण्ये ' इति क्रयादिको धातुः । तस्मादेते धिष्ण्याः । शेषं स्पष्टम् । अध्यात्मपक्षे -- हे अग्ने परमेश्वर, त्वं सर्वात्मकत्वात् तत्तद्रूपेण तत्तदाप्नोषीति पूर्ववद् व्याख्येयम् । --दयानन्दस्तु - ' हे अग्ने विद्वन्, यस्त्वं दिवः प्रकाशाद अणं विज्ञानं या आपः प्राणा जलानि ये धिष्ण्याः वा सूर्यस्य सन्ति रोचने प्रकाशे परस्तात् परा याश्चावस्ताद् अधःस्था उपतिष्ठन्ते वा अच्छ जिगासि अभिष्टौषि येषिन्ति ब्रुवन्ति ते धिषणास्तेषु साधवो धिष्ण्याः, धिष्धातोर्बाहुलकाद् औणादिकः कनिन्, उपदेष्टा ततो यत् भवेत्यस्य , सन्ति तान् देवान् प्रत्यर्णमच्छ, ऊचिषे वक्षि, स त्वमस्माकमुपदेष्टा भव ' इति तदपि यत्किचित्? मनुष्याणा-मन्त्रबाह्यत्वात् । सूर्यस्य रोचने परस्तादधस्ताच्च या आपो विद्यन्ते, ताः को मनुष्यो विजानाति देवाः स्वयमेव मल्पज्ञत्वेन तदनुपपत्तेः । वक्तारो विद्यार्थिन एव धिष्ण्या देवा इत्यत्रापि मूलं चिन्त्यम् । त्वद्रीत्या पा ० विद्वांसो भवन्ति, ते कुतो विद्यार्थिनः स्युः? ' ये दिधिषन्ति ' इति स्वामिदयानन्दप्रयोगोऽपि ' अदभ्यस्तात् ' ( सू ० ७ १ ४ ) इति सूत्रविस्मरणमूलक एव, अतोऽशुद्धः शब्दार्थकस्य विषेर्जुहोत्यादितया प्रक्रियापि प्रथमपुरुषबहुवचने ' सानसि दिधिषतोति प्रयोगस्य शुद्धत्वात् । धिषधातोर्बाहुलकाद् औणादिकः कनिन् ततो यदिति वर्णसिपर्णसितण्डुल ० ' ( उ ० ४। १०७ ) इत्यादिसूत्र विस्मरणमूलिका, अस्मिन् सूत्रव्याख्याने धिष्ण्यशब्दस्य तेनैवान्यथा साधनात् ॥ ४ ९ ॥ पुरीष्यासो अ॒ग्नयः॑ प्राव॒णेभिः स॒जोष॑सः । जुषन्ता॑ य॒ज्ञम॒द्रऽनमीवा इर्षो म॒हीः ॥ ५० ॥

पृष्ठ 209

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 209 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५० ] मन्त्रार्थ हे अग्निदेव, आप पशुओं के

इस इष्टरूप यज्ञ का आप सेवन कीजिये ।

परिपूर्ण है ॥ ५० ॥

वेदार्थपारिजात भाष्य सहिता १७३ हितकारी हैं । स्नेह के कारण आप कभी इनकी हिंसा नहीं करते । यह यज्ञ क्षुधा और तृष्णा का निवर्तक है और धन - धान्य से अनुष्टुप् । हे अग्नय इष्टकारूपाः, इष्टकापेक्षयैव बहुवचनम् । अस्मदीयमिमं यज्ञं जुषन्तां सेवन्ताम् । कोदृशा अग्नयः? पुरीष्यासः पुरीषे पांसुरूपे भवाः । यद्वा पुरीषेभ्यः पशुभ्यो हिताः । ' आज्जसेरसुक् ' ( पा ० सू ० ७ ११५० ) इति जसोऽसुगागमः । प्रावणेभिः प्रकर्षेण वनन्ति सम्भजन्ति विषयानिति प्रावणानि मनांसि तैः । संहितायां ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ ३ | १३७ ) इति दीर्घः । ' बहुलं छन्दसि ' ( पा ० सू ० ७ | १ | १० ) इति बाहुलकाद् भिस ऐस्भावे ' बहुवचने झल्येत् ' ( पा ० सू ० ७ । ३ । १०३ ) इत्येवं रूपसिद्धिः । सजोषसः परस्परं समानप्रीतयः, मनसा प्रीतियुक्ता इत्यर्थः । यद्वा प्रावणैः प्रुङ् गर्ता ' इत्यस्मात् ' हश्च व्रीहिकालयोः ' ( पा ० सू ० ३ | १ | १४८ ) इत्यत्र सूत्रे चकारग्रह्णात् प्युटि वृद्धावनादेशे णत्वे तृतीयाबहुवचने रूपम्, गमनैरित्यर्थः, लोकव्याप्तिभिरिति भावः । शास्त्रेषु कालस्य गम्भीरवेगादिकं स्मर्यते । तथा च श्रीमद्भागवते - ' कालेन सर्वत्र गभीररंहसा ' ( भा ० पु ० १२५।१८ ) इति । सजोषसः समानसेविनः परस्परं समानप्रीतयः । अद्रुहो हिंसारहिताः । अनमीवाः क्षुधापिपासादिरोगरहिताः, क्षुधादिनिवर्तिकाः । इषोऽभीष्ट -प्राप्तिहेतवः । महीः प्रौढाः । तथाविधा अग्निरूपा इष्टकाः, उपदधामीति शेषः । तत्र ब्राह्मणम्- ' पुरीष्यासो अग्नय इति । पशव्यासोऽग्नय इत्येतत्प्रावर्णेभिः सजोषस इति प्रायणरूपं प्रायण? ह्येतदग्नेर्यद् गार्हपत्यो जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीरिति जुषन्तां यज्ञमद्रुहोऽनशनाया इषो महीरित्येतत् ' ( श ० ७ १ १/२ ) । उक्तार्थपरतां मन्त्रस्य व्याचष्टे - पशव्यासोऽग्नय इति । प्रावणेभिरिति मन्त्रगतः प्रशब्द: प्रायणरूपं प्रायणस्य प्रगमनस्य प्रारम्भस्य रूपम् । गार्हपत्यचितिश्च अग्नेरग्निचयनस्य प्रायणं प्रारम्भः । अतः प्रशब्दोपेतो मन्त्रोऽत्र योग्य इत्यर्थः । अनमीवा इत्यस्यार्थमाह -- अनशनाया इति । अशनेच्छा अशनाया क्षुत्पीडा, सा न विद्यते यासां ताः । ' अशनायोदन्यधनायाः ' ( पा ० सू ० ७ | ४ | ३४ ) इति बुभुक्षायां क्यचीत्वाभावो निपात्यते । तथा चार्थः सम्पद्यते । पुरीषं पूरयति पयःप्रभृतिभिर्लोकमिति पुरीषं पशुः । बहुवचने पशवः । तेभ्यो हिताः पुरीष्याः, तथाविधा अग्नयः । प्रावणेभिः प्रवणसम्बन्धिभिर्गार्ह-पत्यचितिसम्बन्धिभिः सम्भजनयुक्तैस्तैर्देवैः सजोषसः समानप्रीतयः सन्तोऽस्मदीयं यज्ञं जुषन्तां सेवन्ताम् । अहो द्रोहरहिताः, अनमीवा अशनायादिरहिताः, महीः महतीः, इषः अन्नानि, अस्मभ्यं प्रयच्छन्त्विति शेषः । अध्यात्मपक्षे -- पुरीष्यासः पूरयन्ति हव्यकव्यादिभिर्देवपित्रादिलोकमिति पुरीषा जीवरूपाः पशवः, तेभ्यो हिताः पुरीष्यासः पशव्या अग्नयः प्रावर्णेभिः श्रीरामकृष्णादिरूपेण अनेकधा अभिव्यक्तिप्रकर्षेण आसमन्ताद् वनन्ति सम्भजन्ति भगवन्तमिति प्रावणानि तैः स्वविषयैर्भक्तमनोभिः सजोषसः समानप्रीतयः, इममस्मदीयमचं नलक्षणं यज्ञं जुषन्ताम् । कोदृशा अग्नयः? अद्रुहः रक्षकाः । तथा इषः अन्नादिभक्तीश्च जुषन्ताम् । कथम्भूता इषः? अनमोवा नास्ति अमीवा क्षुदादिव्याधिर्याभिस्ताः, अर्थात् क्षुदादिनिवर्तिकाः । पुनः कथंभूताः? मही: महतीः, बहुला इति यावत् । दयानन्दस्तु - ' सर्वे मनुष्याः प्रावणेभिविज्ञानः सह वर्तमाना अनमीवा अरोगाः, अद्रुहो द्रोहरहिताः, सजोषसः समानप्रीतयः, पुरीष्यासः पूर्णासु गुणक्रियासु भवा अग्नय इव सन्तो यज्ञं विद्याविज्ञानदानग्रहणाख्यम्, महीः महतीः इष इच्छा जुषन्ताम् ' इति, तदपि यत्किचित् गौणार्थाश्रयणात्, रागप्राप्तार्थंविधानायोगाच्च ॥५० ॥

पृष्ठ 210

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 210 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१७४ शुक्लयजुर्वेद संहिता [ अ ० ] १२

इग्ने पुरु॒स॑ स॒नं गोः श॑श्वत्त॒मध् हव॑मानाय साध ।

स्यान्न॑ स॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भूत्व॒स्मे ॥ ५१ ॥

मन्त्रार्थ - हे अग्निदेव, बहुत कर्मों के साधन रूप अन्न को, निरन्तर विद्यमान धेनु सम्बन्धी दान को, अर्थात् वृध, दही, घृत आदि को हवन करने वाले यजमान के निमित्त आप प्रदान कीजिये । हमारे यहाँ प्रजावान् औरस पुत्र हो । हे अग्निदेव, यह आपकी अन्न, गौ, पुत्रदान विषयक सुन्दर बुद्धि हमारे प्रति हो ॥ ५१ ॥

' अपरेण परिक्रम्य परिक्रम्य चयन मिडामग्न इति पश्चिमे प्रतिमन्त्रमुत्तरतः ' ( का ० श्री ० १७ | १ | ११ ) । अर्धबृहतीनामपरेण परिक्रम्योत्तरतोऽवस्थितो दक्षिणामुख उपविष्टः पश्चिमे पश्चादुपहिते तिरश्च्यो तिर्यग्लक्षणे उदक्संस्थे पादमात्र्यौ पद्ये इष्टके उपदध्यादिति सूत्रार्थः । तत्र इडामग्न इति मन्त्रेण दक्षिणाम्, अयं त इति मन्त्रेणोत्तराम् । द्वे आग्नेय्यो त्रिष्टुबनुष्टुभो । हे अग्ने, हवमानाय होतुं प्रवृत्ताय यजमानाय गोः सनिं गवादिपशूनां दानं साध सम्पादय । कीदृशं दानम्? इडां सर्वेरोड्यं प्रशंसनीयम् । पुनः कीदृशम्? पुरुदंसं बहुधा दर्शनीयम्, शश्वत्तमम् अत्यन्ताविच्छेदेन वर्तमानम् । किञ्च त्वत्प्रसादान्नोऽस्माकं सूनुः पुत्रो भवतु । कीदृशः सूनुः? तनयः तनूभव:, औरस इति यावत् । पुत्रसामान्यस्य सूनुशब्देनोक्तत्वाद् दत्तकाद्यन्यतमपुत्रव्यावृत्तये विशेषविवक्षया तनयशब्दः प्रयुक्तः । पुनः कीदृश:? विजावा विविधानां जनयिता । हे अग्ने तव सा सुमतिस्तथाविधानुग्रहबुद्धिः, अस्मे अस्मासु भूत् भवतु । यद्वा- हे अग्ने, हवमानाय ह्वयति आह्वयति देवान् जुहोति वा देवानुद्दिश्येति हवमानो यजमानस्तस्मै इडाम् अन्नं साध साधय सम्पादय । कीदृशीमिडान? पुरुदंसं पुरुणि बहूनि दंसांसि कर्माणि यया सा पुरुदंसास्तां पुरुदंसमिति प्राप्ते टिलोपश्छान्दसः । ' दंस इति कर्मनामसु ' ( निघ ० २।११३ ) । बहुकर्मसाधनभूतमन्नमिति यावत् । गो: सनि धेनुसम्बन्धि दानं पयोदधिघृतादिकं शश्वत्तमं शाश्वविकतमम्, अनपायीति यावत् । सोपसेचनं शाश्वतिकमन्नं यजमानाय देहीत्यर्थः । ननु ' पशवो वा इडा ' ( श ० ७ १ १ २७ ) इति श्रुता इडापदेन पशव उक्ताः कथमत्रान्नमर्थः क्रियत इति देश, तद्वलीवर्देरुत्पाद्यमानत्वेन औपचारिकया वृत्त्या तथोक्तेः । किञ्च, गोऽस्माकं यजमानानां सूनुस्तनयः औरसः पुत्रः स्यादस्तु त्वत्प्रसादादित्यर्थः । औरसव्यतिरिक्तव्यावृत्त्यर्थं तनयशब्दः । यद्वा तनोत्यग्निहोत्रादि-कर्माणीति तनयः, धर्मनिष्ठ इत्यर्थः । विजावा विविधरूपेण पुत्रपौत्राद्यात्मना जायत इति विजावा प्रजावानित्यर्थः । ' विड्वनोरनुनासिकस्यात् ' ( पा ० सू ० ६ | ४ | ४१ ) इति धातोराकारः । हे अग्ने, ते तव गोपुत्रादिविषया सुमतिः शोभना बुद्धिरनुग्रहेण अस्मे अस्मासु भूत् भवतु । व्यत्ययेन शपो लुक् । अस्मे इत्यत्र विभक्तेः शे आदेशे ' शेषे लोप: ' ( पा ० सू ० ७ २२ ९ ० ) इति लोपे रूपसिद्धिः । ' नानोपदधाति । ये नाना कामा आत्मंस्तांस्तद्दधाति सकृत्सादयत्येकं तदात्मानं करोति सूददोहसाऽधिवदति प्राणो वै सूद दोहा: प्रागेनैवैनमेतत् सन्तनोति सन्दधाति ' ( श ० ७ ११११२६ ) । एतासामिष्टकानां क्रमेण कृतमुपधानमनूद्य स्तौति-नानोपधातीति । नाना पृथगेकैकेष्टकामुपदध्यात् । तेन य आत्मनि स्थिता नानाविधाः कामास्तान् सर्वान् असङ्कीर्णं पृथगेव दधाति स्थापयति । सादन सुददोहसोः सकृत्त्वं विधाय स्तौति -- सकृत् सादयतीति । तथा देवतयेति यत्सादनं तच्चतसृणामिष्टकानां सम्भूय सकृदेव कर्तव्यम् । अत एव सर्वेष्ट कोपधानसाधारण-धर्मश्वेन सादनसूददोहसौ कात्यायनेनोक्तौ । तथाहि तत्सूत्रम् - - ' नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति ' ( का ० श्री ० १६ | ७ | ४ ), ' अविशेषोपदेशात् ' ( का ० श्र ० १६/७/१५ ) इति । उपहितानामिष्टकानां ' चिदसि ' ( वा ० सं ० १२१५३ ) इति मन्त्रेण स्थिरीकरणं सादनम्, इष्टकानामुपरि