वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 211–220
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 211–220
पृष्ठ 211
पाठ पढ़ें पाठ छिपाएँ
म ० ५११ वेदार्थपारिजातभाष्यसहिता १७५ हस्तं निधाय ' ता अस्य ' ( वा ० सं ० १२।५५ ) इति कण्डिकापठनं सूददोहसाधिवदनम् । सर्वासामिष्टकानामुपधाना-नन्तरं मन्त्रद्वयेन यथाक्रमं सादनं सुददोहसं च कुर्यात् । उपहितानां यजुष्मतीनामिष्कानां स्थिरीकरणं सादनम् । ता अस्य सुददोह इति मन्त्रः सूददोहा उच्यते । अस्य मन्त्रम्योच्चारणं कुर्यादिति सूत्रार्थः । अत्र हेतुमाह कात्यायनः -- ' अविशेषोपदेशात् ' ( का ० श्रो ० १६ | ७ | १५ ) इति । अविशेषेण इष्टकाविशेषमनारभ्य श्रतौ तयोरुपदेश: । अत इप्रकामात्रे तद्वयं कर्तव्यमित्यर्थः । प्राणेनैवैनमिति । एनमात्मानम् एतद् एतेन अधिवदनेन सन्तनोति संयोजयति । एतस्यैव विवरणं सन्दधातीति । ' अथ जघनेन परीत्य । उत्तरतो दक्षिणासोनोऽपरयो-क्षिणाम उपदधातीडामग्ने पुरु ८११ स ७ सनिं गोरिति पशवो वा इडा पशूनामेवास्मा एतामाशिषमाशास्ते शश्वत्तम ११ द्रवमानाय साधेति यजमानो वे हवमानः स्यान्नः सनुस्तनयो विजावेति प्रजा वे सनुरग्रे सा ते सुमति-स्मे हत्याशिषमाशास्ते ' ( श ० ७ १ १/२७ ) । पश्चिमार्थ्यं योरिष्टकयोरुपधानप्रकारमाह- अथ जघनेति । मध्ये कोपधानानन्तर्यमथशब्दार्थः । जघनेन परीत्य गार्हपत्यस्थानस्य पश्चात् परिक्रम्य उत्तरत उत्तरस्यां दिशि दक्षिणामुख आसीनः सन् अपरयोः पाश्चात्त्ययोरिटकयोर्दक्षिणां दक्षिणभागस्थामिष्टकामग्रे प्रथममुपदधाति ' इडामग्ने ' इति मन्त्रेण । ब्राह्मणानुसार मित्थं मन्त्रार्थ: - हे अग्ने, हवमानाय हवनं कुर्वते यजमानाय इडां पशुम् । जातावेकवचनम् । तथा च पाणिनिसूत्रम् - ' जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् ' ( पा ० सू ० १।२५८ ) इति । अर्थाद् गवाश्वादिपशून् साध साधय । पश्व विशेष्यते पुरुदंसमिति । बहुकर्महेतुभूतम् । अन्त्यलोपश्छान्दसः । शश्वत्तं पुत्रपौत्रादिरूपेण अविच्छेदेन सर्वदा वर्तमानम् । गो: सनिं गवादिपशूनां दातारम् । अस्मै यजमानाय साधय सम्पादय । अपि च नोऽस्माकं तनयः पुत्रः सूनुस्तत्त्रश्च विजावा विविधानां जनयिता स्यात् उत्पद्यता-मित्यर्थः । विपूर्वाज्जनेः ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२।७५ ) इति वनिप् 1 ' विश्वतोरनुनासिकस्यात् ' ( १० सू ० ६ | ४ ४ १ ) इत्यात्वम् । किं बहुना - हे अग्ने, ते त्वदीया सा सुमतिः सर्वश्रेयोनिदानभूता कल्याणी बुद्धि:, अस्मे अस्मासु भृतु भवत्वित्यर्थः । एतदर्थपरत्वेन मन्त्रं व्याचष्टे -- पशवो वा इडेति । इडा खलु मनो-दुहिता । तेनाप्य हुतैर्घतदधिमस्त्वामिक्षादिरूपैर्द्रव्ये रुत्पन्ना । एतच्च ' तत्पाकयज्ञेनेजे स घृत: ' ( श ० १४८/१७ ) इत्यादिना प्रथमकाण्डे प्रतिपादितम् । तथा च पशुप्रभवद्रव्येभ्य उत्पन्नत्वाद् इडायास्तद्वाचिना इडाशब्देन । कारणभूताः पशव एवोच्यन्ते । पुरुदंसादिविशेषणेषु लिङ्गव्यत्ययश्छान्दसः । पशूनामेवेति कर्मणि षष्ठी पशुविषयाम् आशिषं प्रार्थनाम् अस्मै यजमानाय अध्वर्युराशास्ते । यजमानो वै हवमान इत्युपयुक्तव्युत्पत्त्या हवमानशब्दो यजमानवाची प्रजा वै सूनुरिति तन्यशब्देन पुत्रस्य प्रतिपादितत्वात् तत्पुत्रादिरूपाः प्रजाः सूनुशब्देन प्रतिपाद्यन्त इत्यर्थः । अध्यात्मपक्षे - - हे अग्ने परमेश्वर, हवमानाय प्रेम्णा आह्नात्रे इडां पशून् अन्नं वा भगवदाराधनोपयुक्तं साध साधय सम्पादय । कीदृशीमिडाम्? पुरुदंसं पुरूणि बहूनि दंसांसि कर्माणि कर्तव्यानि यथा ताम् । गोः गोसम्बन्धिनीं सनि दुग्धदधिघृतादिलक्षणाम् शश्वत्तमं पुत्रपौत्रादिपरम्परायामविच्छेदेन वर्तमानम् । शेषं पूर्ववत् । दयानन्दस्तु - - ' हे अग्ने अध्यापक, ते सा सुमतिः अस्मे अस्माकं भूतु भवतु । यथा ते नोऽस्माकं च विजावा विविधैश्वर्यजनकः सूनुरुत्पन्नस्तनयः पुत्रः स्यात्, तथा त्वं तस्मै हवमानाय विद्यां स्पर्धमानाय इडां स्तोतुमही वाचं गोर्वाचः शश्वत्तममतिशयितमनादिरूपं वेदबोधं पुरुदंसं पुरूणि बहूनि दंसानि कर्माणि भवन्ति यस्मात्तं सनिं संविभागं साध साध्नुहि, अग्ने वयं च साध्नुयाम ' इति, तदपि यत्किञ्चित्, अध्यापक-
पृष्ठ 212
पाठ पढ़ें पाठ छिपाएँ
१७६ शुक्लयजुर्वेद संहिता [ अ ० १२ राजमन्त्रि पुरोहिताद्युपदेशस्य बहुधा वर्णितत्वात् । महतायासेन तत्साधनेऽपि न किचित् फलम् तस्य लौकिकत्वे लौकिकप्रमाणैरेव ज्ञातुं शक्यत्वात्, तदर्थं वेदोपदेशस्य नैरर्थक्यात् । निघण्टौ कर्मार्थकः सान्तोऽयं दंसस शब्दः । तमुदाजहार देवराजयज्वा - ' दस्मस्य चारुतममस्ति दंसः ' इति ( ऋ ० सं ० १।६२।६ ) | तथा च दंसानीति रूपमप्यसङ्गतमेव । विजावेत्यस्य विविधैश्वर्यजनक इत्यन्तर्भावितण्यर्थंकरणे किं मूलम्? ' सूनु: ' इत्यस्य उत्पन्न इति नार्थः, तस्य पुत्रे रूढत्वात् । हवमानायेत्यस्य विद्यां स्पर्धमानायेत्यर्थोऽपि न युक्तः, ब्राह्मणेन यजमान इत्यर्थस्य व्याख्यातत्वात् । गोर्वाचः शश्वत्तमं वेदबोधमित्यसङ्गतम्, वेदवाक्यजन्यस्य
बोधस्य नित्यत्वासम्भवात् । जन्यत्वाभावे गोः सम्बन्धानुपपत्तिः ॥ ५१ ॥
अ॒यं ते योनिर्ऋत्वियो यत जातो अरोचथाः ।
त॑ जा॒नन्न॑ग्ने॒ आरो॒हाथा॑ नो वर्धया र॒यिम् ॥ ५२ ॥
मन्त्रार्थ - हे अग्निदेव, आप सायंकाल और प्रातःकाल प्रकट होते हो, कर्म काल में प्रज्वलित होते हो । गार्हपत्य अग्नि को अपना अंश मानते हुए आप उसमें प्रविष्ट होइये और हमारे निमित्त यज्ञ के साधनभूत धन को चारों ओर से बढ़ाइये ॥ ५२ ॥
इयं कण्डिका तृतीयेऽध्याये चतुर्दशे स्थाने व्याख्याताऽप्यत्र प्रकरणानुसारं पुनर्व्याख्यायते । अनुष्टुप् देव देववातदृष्टा आग्नेयी । हे अग्ने, अयमिष्टकारूपः पदार्थः, ते तव योनिरुत्पत्तिस्थानम् । ऋत्विय ऋतुकालिकस्त्रीपुरुषसङ्गम इव । अतो योनेर्यंत उत्पन्नस्त्वम् अरोचथा दीप्यमानोऽसि तं तथाविधयोनिं जानन्नव-गच्छन् आरोह प्राप्नुहि । अथ अनन्तरं नोऽस्माकं रयिं वर्धय । अत्र ब्राह्मणम् ' अथोत्तराम् । अयं ते योनिर्ऋत्वियो यतो जातो अरोचथा इत्ययं ते योनिर्ऋतव्यः सनातनो यतो जातोऽदीप्यथा इत्येतत्तं जानन्नग्न आरोहाथा नो वर्धया रयिमिति यथैव यजुस्तथा बन्धु: ' ( श ० ७ ११११२८ ) । अथ पाश्चात्त्ययोरुत्तरस्या इष्टकाया उपधानं विधत्ते -- अथोत्तरामिति । उपदधातीति शेषः । अथ मन्त्रार्थ: -- हे अग्ने, ऋत्विय ऋतो भवः सनातनोऽयं भूप्रदेशस्तव योनिरुत्पत्तिस्थानम् । यतो यस्माद्योनेर्जातः सन् अरोचथाः अदीप्यथाः, तं योनिभूतं देशं जानन् आरोह प्राप्नुहि । अथानन्तरं नोऽस्माकं र धनं वर्धय । ' ऋत्वियः ' इति मन्त्रपदस्यार्थमाह - ऋतव्य इति । ऋतौ भव इति विग्रहे ' छन्दसि घस् ' ( पा ० सू ० ५।१।१०६ ) इति घसि रूपम् । सनातन इति ऋतव्यपदव्याख्यानम् । ऋत्वात्मकस्य कालस्य सर्वदा विद्यमानत्वात् तत्र भवोऽग्निः सनातनो नित्य इत्यर्थः । तथा च जात इत्यनेन प्रादुर्भावमात्रं विवक्षितम्, नोत्पत्तिः । अरोचथा अदीप्यथा इति ' रुच दोप्तावभिप्रीतो च ' इति भौवादिकस्य रूपम् | अत्र दीप्त्यर्थो विवक्षितः । अध्यात्मपक्षे - हे अग्ने परमात्मन् अयमृत्खिय ऋतुकालोद्भवेन स्त्रीपुरुषसंयोगेन जातो देहः, ते योनिः स्थानम्, अभिव्यक्तिहेतुत्वात् । यतो जातः प्रादुतः सन् अरोचथा अदीप्यथाः । तं योनि जानन्नारोह afro प्राप्नुहि । अथानन्तरं नो स्मभ्यं रयिं ज्ञानभक्तिलक्षणं वर्धय । दयानन्दस्तु – ' हे अग्ने! अग्निरिव स्वच्छात्मन् यस्ते तव ऋत्विय ऋतुः समयोऽस्य प्राप्तः, योनिः दुःखवियोजकः सुखसंयोजको व्यवहारोऽस्ति यतो जातः प्रादुर्भूतः सन् अरोचथाः प्रदीप्येथाः, अथानन्तरं नो
पृष्ठ 213
पाठ पढ़ें पाठ छिपाएँ
१० ५२-५३ ] दार्थ पारिजातभाष्यसहिता १७७ ह्यस्मभ्यं रयिं प्रशस्तां श्रियं वर्धय ' इति, तदयुक्तम्, मनुष्याणामल्पज्ञानात्पशक्तिमत्वेन प्रार्थयितृभ्यः श्रियः प्रापकत्वायोगेन तेभ्यस्तादृशप्रार्थनायोगात्, ऋत्विययोनिपदाभ्यां यथासमय प्राप्तव्यवहारार्थंग्रहणे मानाभावाच्च । न च तादृशव्यवहारादेव तदुपपत्तिः तादृशव्यवहारासिद्धेः । अथपदार्थोऽपि तत्रासङ्गत एव तदवधित्व-सदानन्तर्याऽनिरूपणात् ॥ ५२ ॥
चिद॑सि॒ तय दे॒वत॑याङ्गिरस्वद् ध्रुवा सौद परिचिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रुवा सींद ॥ ५३ ॥
मन्त्रार्थ - हे इष्टका, तुम स्थापित की हुई हो । उस प्रसिद्ध वाक्रूप देवता द्वारा स्थापित होकर अंगिरा के समान दृढ़तापूर्वक इस स्थान में दृढ़ रहो । हे इष्टके, तुम सब ओर से भोगों का चयन करने वाली हो, उस प्रसिद्ध वरूप देवता द्वारा संपादित हुई हो, अंगिरा के समान दीर्घकाल तक निश्चल भाव से इस स्थान में स्थित रहो ॥ ५३ ॥
' चिदसीति पूर्वे दक्षिणतः प्रतिमन्त्रम् ' ( का ० श्र ० १७। १ । १२ ) । तत उत्तरस्मात् प्रदेशाद् अपरमार्गेण दक्षिणप्रदेशे गत्वा पूर्वे तिरश्च्यो उदग्लक्षणे दक्षिणतोऽवस्थित उदङ्मुखो दक्षिणसंस्थे तियंग्लक्षणे उपदध्यात् । चिदसीत्युत्तरां परिचिदसीति दक्षिणामिति सूत्रार्थः । इष्टकादेवत्ये द्वे यजुषी । चित् चिनोति भोगान् [ सम्पादयतीति चित् | अर्था हे इष्टके, त्वम् अभीष्ट भोगसम्पादयित्री असि । अथवा चीयत इति चित्, चिता स्थापितासि । या देवता स्वामभिमन्यते तया देवतया अनुगृहीता त्वं ध्रुवा स्थिरा भूत्वा सीद, तथा प्रसिद्धया वाग्रूपया देवतया सादिता सतीव सीद । तत्र दृष्टान्तः - अङ्गिरस्वत्, अङ्गिरोभिरुपहितेष्टकायां साधु वा भवति तद्वत् । यद्वा अङ्गिरस्वत् प्राणवत् । प्राणा यथा सर्वाङ्गेषु स्थितास्तथा ध्रुवा सती त्वं सीद निविशस्व । द्वितीयामुपदधाति परिचिदसीति । हे इष्टके, त्वं परितो भोगांश्चिनोतीति परिचिद् असि सम्पूर्णभोग-सम्पादिकासि । परितो वा चीयसे तथा देवतयेति पूर्ववद् व्याख्येयम् । यद्वा हे इष्टके, त्वं चित् चेतयमाना वागसि । या वाग्रूपा देवता त्वामभिमन्यते तया देवतया अङ्गिरस्वद् अङ्गिराः प्राणाः, ' प्राणो हि वा अङ्गानां रसः ' ( श ० १४ | ४ | १।२१ ) इति श्रुतो तन्नामव्युत्पत्तेः सोऽस्यास्तीत्यङ्गिरस्वत् । ' तसो मत्वर्थे ' ( पा ० सू ० १।४।१ ९ ) इति भत्वाद्भुत्वाभावः । क्रियाविशेषणमेतत् । तेन युक्तं यथा भवति तथा वाग्देवतया युक्तासि, सा त्वं ध्रुवा सती सीद निषण्णा भव । परिचिदसि परितो भोगांश्चिन्वाना सम्पादयमाना परिचीयमाना वा वागसीत्यर्थः । अत्र ब्राह्मणम् - ' सक्थ्यावस्यैते । ते नानोपदधाति नाना सादयति नाना सूददोहसाऽधिवदति नाना ही क्यो द्वे भवतो द्वे हीमे सक्थ्यो पश्चादुपदधाति पश्चाद्धीमे सक्थ्यावग्राभ्या स १७ स्पृष्टे भवत एव हमे सक्थ्यावग्राभ्या ै, सथ्स्पृष्टे ' ( श ० ७ १ १ २ ९ ) । एतयोः पाश्चात्ययोरिष्टकयोरुपधानसादमादीनां पृथक् कर्तव्यतामाह - सक्थ्यावित्यादिना । अस्याग्नेः सक्थ्यौ श्रोण्यौ एते इष्टके, अतस्ते नाना पृथग् उपदध्यात् । सादन सूद दोहसाधिवदने अपि पृथक् कर्तव्ये । तत्र कारणमाह -- नाना हीमे इति । इमे मनुष्यसम्बन्धिन्यौ सक्थ्यो । छान्दसं स्त्रीत्वम् । हि यस्माद् नाना पृथग् असंश्लिष्टे भवतः, तस्मात् तत्संस्तुतयोरिष्टकयोरप्यसंश्लेषो युक्त इत्यर्थः । द्वित्वमनूद्य स्तौति --- द्वे भवत इति । पश्चाद्भागोपधानमनूद्य स्तौति - पश्चादिति । पश्चाद्धीमे इति । हि यस्माद् इमे दृश्यमाने पुरुषसम्बन्धिन्यौ सक्थ्यो पश्चात् शरीरस्य अपरभागे भवतः, तस्मादनयोः पश्चादुपधानं युक्तम् । अग्रप्रदेशेन तयोः परस्परं संसर्गं विधत्ते - अग्राभ्यामिति । आत्मसमीपेऽग्रप्रदेशः, तत्रैते संस्पृष्टे भवत इत्यर्थः । एवं हीमे इति लौकिकं निदर्शनम् । ' अथ तेनैव पुनः परीत्य । दक्षिणत उदङ्ङासीनः पूर्वयोरुत्तरामग्र उपदधाति चिदसि तया देवतयाऽङ्गिरस्वद् ध्रुवा सीदेत्यथ दक्षिणां परिचिदसि तया देवतयाऽङ्गिरस्वद् ध्रुवा २३
पृष्ठ 214
पाठ पढ़ें पाठ छिपाएँ
१७८ शुक्लयजुर्वेद संहिता [ अ ० १२ सीदेति ' ( ० ७ | १ | १ | ३० ) । पूर्वाद्वयोरुपधान प्रकार माह- अथ तेनैवेति । येन मार्गेण पाश्चात्त्ययोरुपधाने परिक्रमणं कृतम्, तेनैव पुनर्दक्षिणगतः परिक्रम्य तत्रोदङ्मुख आसीनः पूर्वयोरिष्टकयोमध्येऽग्रे प्रथममुत्तरामुपदधाति । तत्र मन्त्रः - -- चिदसीति । अनन्तरं दक्षिणामुपदधाति । तत्र मन्त्रः - परिचिदसीति । मन्त्रयोरर्थस्तुक्त एव । चिदसीति मन्त्रेणोपहितानामिष्टकानां तदभिमानिन्या वाग्देवतया स्थिरीकरणं सादनम् । ' बाहू अस्यैते । ते नानोपदधाति नाना सादयति माना सूददोहसाऽधिवदति नाना हीमो बाहू द्वे भवतो होमी बाहू पूर्वार्ध उपदधाति पुरस्ताद्धीमी बाहू अग्राभ्या स स्पृष्टे भवत एव हीमो बाहू अग्राभ्या स्पृष्टौ स वा इतीमा उपदधातीतीमे इतीमे तद्दक्षिणावृत् तद्धि देवत्रा ' ( श ० ७ | १ | १ | ३१ ) | बाहू अस्यते इति ' सक्थ्यावस्थते ' इतिवद् व्याख्येयम् । एतासामिष्टकानामुपधानस्य प्रादक्षिण्यमुपनयेन दर्शयन् स्तोति - सवा इतीमा इति । इमा मध्ये उपधीयमानाश्चतस्र इष्टका आत्मन उत्तरार्धमारभ्य दक्षिणा उपदधाति । इमे पाश्चात्त्ये इष्ट इति प्रथमं दक्षिणाद्ध पश्चादुत्तराद्धर्घामित्यनेन क्रमेणोपदधाति । तथा इमे पौरस्त्ये इष्टके प्रथम -मुत्तराद्ध पश्चाद्दक्षिणाद्धर्यामित्यनेन क्रमेणोपदधाति । तत् तथा सति दक्षिणावृत् प्रादक्षिण्येन वर्तनं भवति । तत् खलु देवत्रा देवेषु योग्यमित्यर्थः । ' अष्टाविष्टका उपदधाति । अष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानग्नि-वयस्य मात्रा तावन्तमेवैनमेतच्चिनोति पञ्चकृत्वः सादयति पञ्चचितिकोऽग्निः पचतवः संवत्सरः संवत्सरोऽ-निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोत्यष्टा विष्टकाः पञ्चकृत्वः सादयति तत्त्रयोदश त्रयोदश मासाः संवत्सरस्त्रयोदशाग्नेश्चितिपुरीषाणि यावानग्निर्यावत्यस्य मात्रा तावत् तद् भवति ' ( श ० ७। १ । १।३२ ) । अथोपहितानामिष्टकानां सम्भूय संख्यां प्रशंसति - अष्टाविष्टका इति । गायत्रोऽग्निरिति । अष्टाक्षरपादेन गायत्रीच्छन्दसा सह प्रजापतिमुखादुत्पन्नत्वादग्नेर्गायत्रत्वम् ' तमग्निर्देवता न्वसृज्यत गायत्रीच्छन्द: ' ( तै ० सं ० ७१1१1४ ) इति तैत्तिरीयश्रुतेः । अथोपहितानामिष्टकानां सम्भूय संख्यां प्रशंसति - अष्टाविष्टका उपदधातीति । अध्यात्मपक्षे हे चिद्रूपे परदेवते, त्वं चिदसि विविधभोगसम्पादिकासि 1 त्वं तया प्रसिद्धया प्राणरूपयाइ-परदेवतया सहाङ्गिरस्वत् प्राणा यथा सर्वाः सर्वाङ्गेषु स्थितास्तथा ध्रुवा स्थिरा सती त्वं सीद निषण्णा भव, हृदय इति शेषः । ' त्वं भावयोग परिभावित हृत्सरोज आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ' ( भा ० पु ० ३१ ९ / ११ ) इति श्रीमद्भागवतमहापुराणवचनात् । हे परदेवते, त्वं परिचिदसि परितः सर्वतः सम्पूर्णस्वर्गापवर्गादिसम्पादि-कामि । तया हिरण्यगर्भरूपया बुद्ध्यभिमानिन्या ध्रुवा निश्चला सीद, हृदय इति शेषः । दयानन्दस्तु - ' हे कन्ये, या चिदसि संज्ञप्तासि तया देवतया दिव्यगुणप्रापिकया सह अङ्गिरस्वत् प्राणवद् ध्रुव सीद । हे ब्रह्मचारिणि, या त्वं परिचिदसि विद्यापरिचयं प्राप्तासि तया धर्मानुष्ठानयुक्तया क्रियया देवतया दिव्यगुणप्रदयासह हिरण्यगर्भवद् ध्रुवा निष्कम्पा सोद अवतिष्ठस्व ' इति, तदपि यत्किश्चित् कन्याब्रह्मचारिण्योः सम्बोधने । तयेत्यस्य मानाभावात् चित्परिचित् - शब्दयोः श्रुतिसूत्ररीत्या इष्टकापरत्वेनार्थान्तरत्वायोगात् धर्मानुष्ठानयुक्त क्रिययेत्यर्थोऽपि निर्मूल एवं सिद्धान्तरीत्या या त्वामभिमन्यते तयेति व्याख्यानस्य सूत्रसम्मतत्वेन तद्भिन्नार्थायोगात् ॥ ५३ ॥
लोकं पृ॑ण चि॒द्रं प॒णाथो॑ सीद ध्रुवा त्वम् ।
इन्द्रा॒ग्नीत्वा बृह॒स्पति॑र॒स्मिन् योना॑वसीषवन् ॥ ५४ ॥
मन्त्रार्थ - हे इष्टके, तुम गार्हपत्य चयनस्थान में पूर्व इष्टिकाओं से अमाक्रान्त होकर इस स्थान को पूर्ण करो और दृढ़ होकर स्थित रहो । इन्द्र देवता, अग्नि देवता और दृहस्पति देवता ने इस स्थान में तुमको स्थापित किया है || ५४ ॥
पृष्ठ 215
पाठ पढ़ें पाठ छिपाएँ
म ० ५४ ] वेदार्थपारिजातभाष्यसहिता १७ ९ ' तिसुषु लोकम्पृणासु मन्त्रो दशसु च द्वयोर्वा दशस्वेकस्यां च ' ( का ० श्री ० १७ । १ । १७ - १८ ) । प्रथमं तिसृषु लोकम्पृणासु तूष्णीमुपहितासु ततो दशसु च लोकम्पृणासु मन्त्रः प्रवर्तते । अथवादी द्वयोरिष्टकयोरुपहितयोः, ततो दशसुपहितासु तत एकस्यामुपहितायां मन्त्रः प्रवर्तते । वारद्वयं वारत्रयं वा मन्त्रपाठ इति सूत्रार्थः । एवमेव विशीष्टका गार्हपत्ये स्युरिति । अत्र ब्राह्मणम् – ' अथ लोकम्पृणामुपदधाति । तस्या उपरि बन्धुस्तिस्रः पूर्वास्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावन्तमेवैनमेतच्चिनोति दशोत्तरास्तासामुपरि बन्धुर्वे वाऽग्रेऽथ दशाथैकामेव हि चिति चिन्वन्ति तास्त्रयोदश सम्पद्यन्ते तस्योक्तो बन्धुः ' ( श ० ७ | १ | १ | ३३ ) | लोकम्पृणाया इष्टकाया उपधानं विधत्ते -अथेति । एवमष्टाविष्टका उपधायानन्तरमवशिष्टे गार्हपत्य चिविस्थाने लोकम्पृणाख्यामिष्टकामुपदधाति, लोकं शिष्टं स्थानं पृण पूरयेति तन्मन्त्रे ( वा ० सं ० १२१५४ ) प्रतिपादनात् । तस्या लोकम्पृणाया उपरि उपरिष्टाद् अष्टम-austard ' असो वा आदित्यो लोकम्पृणा ' ( श ० ८ ७ २२१ ) इत्यादिः स्तावको वाक्यशेष आम्नास्यत इत्यर्थः । सकृदुच्चरितेन लोकम्पृणेति मन्त्रेण तिसृणां युगपदुपधानं विधत्ते --- तिस्रः पूर्वा इति । तत्प्रशंसति -त्रिवृदग्निरिति । स श्रान्तस्तेपानो मृद शुष्कापम् ' ( श ० ६ | १ | १ | १३ ) इत्यादिश्रुतिष्वग्ने स्त्रिवृत्त्वं प्रतिपादितम् । अतोऽग्नेस्त्रिवृत्त्वसंख्यायोगात् तिसृणामुपधानं युक्तमित्यर्थः । अथ तेनैव सकृदुच्चरितेनैव मन्त्रेण दशानामिष्ट-कानामुपधानं विधत्ते - दशोत्तरा इति । उत्तरा उपरिभाविनीरित्यर्थः, उपदधातोति शेषः । तासामुपरीति । तासां दशानामिष्टकानां यादृशी संख्या तत्स्तावकोऽर्थवादो भविष्यतीत्यर्थः । पूर्वं त्रयोदशानां लोकम्पृणानां द्वेधा विभागेनोपधानमभिधाय त्रेधा विभागपक्षमाह - द्वे वाग्रे इति । एतच्च पक्षद्वयं सूत्रकृतापि दर्शितम् - तिसृषु लोकम्पृणासु मन्त्रो दशसु च द्वयोर्वा दशस्वेकस्यां च ' ( का ० श्र ० १७ | १ | १७-१८ ) । मन्त्रार्थश्चोपरिष्टादुक्त एव । द्वितीयं पक्षं लौकिकेन निदर्शनेनोपपादयति - एवं हीति । यत्र हि काष्ठादिभिश्चितिर्निर्मीयते, तत्रैवमेव हि चिति चिन्वन्ति । मूलाग्र भागयोर्द्वे काष्ठे प्रथमं तिर्यक् स्थापयन्ति । पश्चात्तयोरुपर्युपर्यन्यानि सर्वाणि प्रागग्राण्यवशिष्टानि स्थापयन्ति । उपरिष्टाच्चलनाभावायैकं पुनः स्थापयन्ति । तस्मात्तदनुसारेणायं पक्ष उक्त इत्यर्थः । वासां लोकम्पृणानां संख्यां सम्भूयानूद्य प्रागुक्तं वाक्यशेषं दर्शयति - तास्त्रयोदशेति । ' त्रयोदश मासाः संवत्सरः ' इत्यादिरुक्तो वाक्यशेषोऽत्रापि योजनीय इत्यर्थः । ' ता उभय्य एकविंशतिः सम्पद्यन्ते । द्वादश मासाः पवर्तवस्त्रय इमे लोका असावादित्य एकवि, शोऽमुं तदादित्यमस्मिन्नग्नौ प्रतिष्ठापयति ' ( श ० ७ | १ | १ | ३४ ) | पूर्वाभिरिष्टकाभिः सहैतासां संख्यां सम्भूय प्रशंसति--ता उभय्य इति । उभय्य उभयविधाः । ' अयछ सो अग्निः ' इत्यादिभिर्मन्त्रः प्रागुपहिता अष्टौ, लोकम्पृणा-त्रयोदशेति मिश्रिता एकविंशतिर्भवन्ति । एकविंश इत्येकविंशतिसंख्यापूरक: । ' तस्य पूरणे डट् ' ( पा ० सू ० ५२०४८ ) इति डटि ' ति विशतेडिति ' ( पा ० सू ० ६ । ४ । १४२ ) इति तिलोपे पररूपे रूपसिद्धिः । तत् तेन एकविंशतिसंख्यासम्पादनेन अमुं द्युलोकस्थमेवादित्यमस्मिन् चितेऽग्नौ प्रतिष्ठापयति । एकविंशतिसंख्या योगा-च्चीयमानोऽग्निस्तदात्मको भवतीत्यर्थः । ' एक वि ७ शतिर्वेव परिश्रितः । द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका अयमग्निरमुतोऽध्येकविश इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति तद्यदेता एवमुपदधात्येतावेवैतदन्योन्यस्मिन् प्रतिष्ठापयति तावेतावन्योन्यस्मिन् प्रतिष्ठितो तो वा एतावत्र द्वावेकवि १५ शौ सम्पादयत्यत्र ह्येवेमी तदोभी भवत आहवनीयश्च गार्हपत्यश्च ' ( श ० ७ | १ | १ | ३५ ) | परिश्रितां संख्यामनूद्य स्तौति - एकविंशतिरिति । ' उ ' ' एव ' इत्यनयोर्यणादेशे ' वेव ' इति रूपम् । उशब्दोऽप्यर्थे । परिश्रितो गार्हपत्यचितेः परितः चिताः शर्करा येविंशतिसंख्या एव भवन्ति । तत्रापि मासादिलोकान्ता विशतिः पूर्ववत् । अयमेव चीयमानोऽग्निः अमुतः अमुत्र परिश्रिति, एकविंश एकविंशतिसंख्यापूरक: । अधिः सप्तम्यर्थानुवादी । तत् तथा सतीममेकविशमग्नि
पृष्ठ 216
पाठ पढ़ें पाठ छिपाएँ
१८० शुक्लयजुर्वेदसंहिता [ अ ० १२ मुष्मिन् एकविंशे आदित्ये प्रतिष्ठापयति । तदेव विवृणोति तद्यदित्यादिना । तत् तत्र यद् यस्माद् एताः परिश्रित इष्टकाश्च एवं प्रत्येकमेकविंशतिसंख्याका उपदधाति एतद् एतेन कारणेन एतावेव अग्न्यादित्यो, अन्योन्यस्मिन् प्रतिष्ठापयति । अत एवेदानीं तावेतौ अन्योन्यस्मिन् प्रतिष्ठितौ दृश्येते । आदित्यो रात्रावग्नि प्रविश्य प्रतितिष्ठति, अग्निश्चोद्यन्तमादित्यं प्रविश्य प्रतिष्ठितो भवति । एतच्च अग्निहोत्रब्राह्मणे ( श ० २ | ३ | १ | ३ स्थले ) प्रतिपादितम् । तयोरुभयोरप्यत्र सन्निधानमाह - तौ वा इति । परिश्रिदिष्टकासंख्यया द्वयोरेकविशयोरत्र सम्पादनादिमो अग्न्यादित्यो उभौ अप्यत्र चित्याग्नो सन्निहितौ भवतः । तत्राहवनीय चिति-रूपेण आदित्यः, गार्हपत्य चितिरूपेणाग्निरिति तयोर्विभाग इत्यर्थः । अथ कण्डिकार्थो निरूप्यते - लोकम्पृणादेवत्यानुष्टुप् । हे लोकम्पृणेष्टके, त्वं लोकं पृण गार्हपत्य चयनप्रदेशे पूर्वष्टकाभिरनाक्रान्तमवशिष्टस्थानं पूरय । तथा छिद्रं पृण किञ्चिदपि छिद्रं यथा न दृश्यते तथा पूरय, संश्लिष्टा भवेत्यर्थः । ' पृण प्रीणने ' तुदादिः । अथो अपि च ध्रुवा दृढा सती त्वं सीद तिष्ठ । किन, इन्द्राग्नी बृहस्पतिश्चैते देवा अस्मिन् योनौ स्थाने त्वाम् असीषदन् सादितवन्तः । सदेश्चङ् । नहि मानुषोऽध्वर्युस्त्वां सादितुं शक्नोतीति भावः । अध्यात्मपक्षे --- हे चिद्रूपे भगवति, लोकं लोकान् । जातावेकवचनम् । पृण तपंय । परमेश्वरानुग्रहेणैव सर्वतृप्तिर्भवति, ' एष ह्येवानन्दयाति ' ( तै ० उ ० २७ ) इति श्रुतेः । छिद्रं ज्ञानभक्त्यादिन्यूनत्वं पृण पूरय । अथो अपि च, ध्रुवा दृढा सती त्वं सीद साधकानां हृदये निषण्णा भव । इन्द्राग्नी बृहस्पतिश्च । इन्द्रः पराक्रमदेवता, अग्निः प्रकाशदेवता, बृहस्पतिः प्रतिभादेवता । त्वाम् अस्मिन् योनौ साधकानां हृदये असीषदन् सादयन्तु । तासां देवतानामनुग्रहेण चिद्रूपा परदेवता निश्चला सती हृदये राजते । दयानन्दस्तु - ' हे कन्ये यां त्वामस्मिन् विद्याबोधे योनौ बन्धविच्छेदके मोक्षप्रापके इन्द्राग्नी मातापितरौ, बृहस्पति हत्या वेदवाचः पालिकाध्यापिका असीषदन् प्रापयन्तु तस्मिन् त्वं ध्रुवा दृढनिश्चया सीद । छिद्रं छिनत्ति यत्तत् छिद्रं न्यूनत्वं पूण पिपूर्हि । लोकं सम्प्रेक्षितव्यं पृण तर्पय ' इति, तदपि यत्किचित् कन्यायाः सम्बोधने मानाभावात्, ' योनिपदस्य बन्धविच्छेदको मोक्षप्रापकश्चार्थी ' इत्यत्र मानाभावात् । इन्द्राग्नी इत्यस्य मातापितराव इत्यपि निर्मूलम् । सम्प्रेक्षणीयान् पुरुषान् कन्या कथं तर्पयिष्यति? कथं च तस्य धर्मानुगुण्यमिति विद्वांसो विदाङ्कुर्वन्तु ॥ ५४ ॥
ता अ॑स्य सू॒ददोहस॒ः सोम॑द्ध् श्रीणन्ति॒ पृश्न॑यः ।
जन्म॑न् दे॒वानां॒ विश॑स्त्रिष्वारो॑च॒ने दि॒वः ॥ ५५ ॥
मन्त्रार्थ लोक सम्बन्धी अनेक प्रकार के देवताओं के जन्म वाले संवत्सर में तीन सवनों के करते हैं ॥ ५५ ॥
जल और अन्न से संयुक्त व प्रसिद्ध जल के अधिष्ठातृ देवता मध्य में इस यज्ञसम्बन्धी सोम को सम्यक् प्रकार से परिप er ' नित्ये सादनसूददोहसा उपधानादुत्तरे तया देवतया ता अस्येति ' ( का ० श्र ० १६ | ७ | १४ ) । ' चिदसि तया देवतया ' ( वा ० सं ० १२/५३ ) इति मन्त्रेण सादनमुपहितानामिष्टकानां स्थिरीकरणम्, ' ता अस्य ' ( वा ० सं १२ ५५ ) इति सूददोहसाधिवदनम् । इष्टकाया उपरि हस्तं निधाय उक्तमन्त्रोच्चारणं सुददोहसाधि-बदनम् । एते नित्ये सर्वत्रेष्टकासु कर्तव्ये इति सम्भूय हित्राणां सूत्राणामर्थः । इन्द्रपुत्र प्रियमेधदृष्टा अब्देवस्या नुष्टुप् । दिवो द्युलोकस्य स्वर्गस्य रोचने प्रकाशके, अस्य यजमानस्य जन्मन् जन्मनि जन्मनिमित्तभूते सति
पृष्ठ 217
पाठ पढ़ें पाठ छिपाएँ
म ० ५५ ] दार्थ पारिजातभाष्यसहिता १८१ देवानां सम्बन्धिन्यो विशः प्रजारूपाः पृश्नय अल्पगोसदृशाः सूददोहसोऽन्नस्य दोहयित्रयस्ता इष्टकास्त्रिषु प्रातः सवन - मध्याह्नसवन- सायंसवनेषु आ समन्तात् सोमं श्रीणन्ति पक्वं कुर्वन्ति । यद्वा दिवो द्युलोकसम्बन्धिनो दिवश्च्युता वा सुददोहस: सूदाश्च आपश्च दोहसश्च अन्नानि चेति सूददोहसः । अथवा सूदेन सहिता दोहसः सूददोहसः । पृश्नयो नानाविधाः । ताः प्रसिद्धा अस्य विशो यज्ञस्य सम्बन्धिनं सोममाश्रीणन्ति सम्यङ् मिश्रयन्ति पक्वं कुर्वन्ति । ' श्रीञ् पाके ' क्रयादिः । अथवा पृश्नयोऽन्नरूपाः, ' आपो वै सूदोऽन्नं दोह: ' ( श ० ८ | ७ | ३ | २१ ), ' यज्ञो वै विश: ' ( श ० ८/७/३/२१ ), ' अन्नं वै पृश्नि: ' ( श ० ८ | ७ | ३ | २१ ) इति श्रुतिभ्यः । अत्रागत्य व्रीह्यादिधान्यनिष्पादका इत्यर्थः । कदा श्रीणन्तीति चेत्, देवानां जन्मन् जन्मनि, संवत्सर इत्यर्थः । ' संवत्सरो वै देवानां जन्म ' ( श ० ८ | ७ | ३ | २१ ) इति श्रुतेः । संवत्सरे संवत्सरे सोमयागस्तदभिप्रायमेतत् । त्रिषु आरोचने त्रिषु आरोचनेषु । ' सवनानि वै त्रीणि रोचनानि ' ( श ८ ७ ३२१ ) इति हि श्रुतिः । वचनव्यत्ययः । यज्ञपरिणामभूता अन्नोत्पादिका आपो दिवः सकाशादस्मिल्लोके पतित्वोषधिवनस्पत्यन्नभूताः सत्यः सोमस्योप-कुन्तीति भावः । अत्र ब्राह्मणम् -- ' वा अस्य सुददोहस इति । आपो वै सुदोऽन्नं दोहः सोम श्रीणन्ति पृश्नय इत्यन्नं वै पृश्नि जन्मन् देवानामिति संवत्सरो वै देवानां जन्म विश इति यज्ञो वै विशो यज्ञे हि सर्वाणि भूतानि विष्टानि face रोचने दिवइति सवनानि वै त्रीणि रोचनानि सवनान्येतदाहानुष्टुभा वाग्वा अनुष्टुव वागु सर्वे प्राणा वाचा चैवैने एतत्प्राणेन च सन्तनोति सन्दधाति सा वा एषैका सती सुददोहा: सर्वा इष्टका अनुसञ्चरति प्राणो वै
दोहास्तस्मादयमेक एव प्राणः सन् सर्वाण्यङ्गानि सर्वमात्मानमनुसञ्चरति ' ( श ० ८ | ७ | ३ | २१ ) । अस्य
यजमानस्य या आपः सवनेषु दधामीति समुदायार्थप्रसिद्ध्यर्थं पदार्थानाचष्टे आपो वै सूदोऽन्नं दोह इत्यादिना । स्यन्दतीति सूदः संघोदकसंघातः, ' अप एव ससर्जादौ तासु बीजमवासृजत् ' ( म ० स्मृ ० ११८ ) इत्यादिधर्म-शास्त्रेषु प्रसिद्धः । स एव कार्येषु भोग्येष्वाद्यभावेन अन्नरूपेण परिणतः । उपजीव्यत्वादन्नं वृत्तमिति प्रकारेण दोहोऽन्नम् । दोग्धि प्रपूरयति कामानिति दोहोऽन्नम् । प्रसन्नमन्यत् । अध्यात्मपक्षे - दिवो द्युलोकस्य रोचने प्रकाशमये स्थाने अस्य साधकस्य जन्मन् जन्मनिमित्ते कर्मों-पासनादौ सति देवानां सम्बन्धिन्यो विशः प्रजाः पृश्नयोऽल्पगोसदृशाः सुददोहसः सूदस्य उदकादिसहितस्य अभीष्टान्नादेर्दोहयित्र्यस्त्रिषु प्रातरादिसवनेषु आ समन्तात् सोमं सोमोपलक्षितमभीष्टं भक्ष्यभोज्यादिकं श्रीणन्ति पचन्ति । भगवदुपासकानां भगवदनुग्रहबलेन सर्वानुकूल्यं सम्पद्यत इत्यर्थः । दयानन्दस्तु- - या देवानां दिव्यानां विदुषां यतीनां सूददोहसः सूदाः सुष्ठु पाचका दोहसो गवादि-दोग्धारश्च यासां ताः पृश्नयः सुस्पर्शास्तन्वङ्ग्यः पत्न्यः । अत्र स्पृशधातोर्निप्रत्ययः सलोपश्च । जन्मन् द्वितीये विद्याजन्मनि विदुत्वा दिवो दिव्यस्य गृहाश्रमस्य सोमं सोमरसान्वितं पाकं श्रीणन्ति परिपक्वं कुर्वन्ति ता ब्रह्मचारिण्य आरोचने रुचिकरे व्यवहारे त्रिषु भूतभविष्यद्वर्तमानकालेषु सुखदा भवन्ति, विशः प्रजाश्व प्राप्नुवन्ति ' इ ते, तदपि यत्किचित् अस्य सर्वस्य व्यवहारस्य लोकप्राप्तत्वेनाज्ञातज्ञापके वेदे तदप्रतिपादनात् । देवा मनुष्य भिन्ना देवयोनय इत्युक्तमेव । सूद इति शब्दस्य पाचक एवार्थः । सुष्ठु पाचक इत्यर्थः कुतः? तद्वाचकस्य कस्यापि पदस्य मन्त्रेऽभावात् । सूदा दोहसश्च यासामिति बहुव्रीहिरण्यसंगतः, परस्परमसम्बद्धेषु पदेष्वेकार्थीभावाभावात् समासायोगात् यत्रान्यपदार्थता विश्राम्यति तादृशस्य पदस्याभावाच्च । न च पृश्नय इति पदे विद्यमाने कथमेवं वक्तुं सुशकमिति वाच्यम्, तत्पदस्यार्थान्तरत्वात् । ' पृश्निरादित्यो भवति ' इति तत्र भगवान् यास्कः । ' घृणिपृश्निपाणि ' ( उ ० ४।५२ ) इत्यादिना हि पृश्निशब्दः संसाध्यते । तस्य च अल्पतनुरर्थः, ' पृश्निरल्पतनौ ' ( अ ० को ० २२६४८ ) इत्यमरकोषात् । तथा च पत्नीरूपोऽर्थोऽस्य शब्दस्य
पृष्ठ 218
पाठ पढ़ें पाठ छिपाएँ
१८२ शुक्लयजुर्वेद संहिता [ अ ० १२ कथङ्कारमपि नायाति । वामनो हि सर्वैरपि स्प्रष्टुं सुशकः । दिव इत्यस्य दिव्यो गृहाश्रम इत्यर्थोऽपि निर्मूल एव । सुखदा इत्यपि निर्मूलम् श्रुतिविरोधात् । श्रुतौ हि ' आपो वै सूदोऽन्नं दोह: ' इति व्याख्यातम् ॥ ५५ ॥
इन्द्रं॒ विश्वा॑ अवोवृधन् र॒थीत॑मरथीनां वाजांना समु॒द्रव्य॑चय॒ क्ष
गिरः॑ ।
सत्प॑त॒ पति॑म् ॥ ५६ ॥
मन्त्रार्थ --- सम्पूर्ण ऋक्, यजुः और साम रूप स्तुतियां समुद्रवत् व्यापक, सब रथियों के मध्य में अत्यन्त रथी, अन्न के पति, निज धर्म में रहने वालों के पालक इन्द्र को वर्धित करती हैं ॥ ५६ ॥
' चात्वालदेशात् पुरीषं निवपतीन्द्रं विश्वा इति ' ( का ० श्री ० १७ | १ | १ ९ ) चात्वालस्थानान्मृदमानीय गार्हपत्यचितेरुपरि क्षिपतीति सूत्रार्थः । इन्द्रदेवत्या मधुच्छन्दसुत जेतृदृष्टाऽनुष्टुप् । विश्वाः सर्वा गिरोऽस्मदीयाः स्तुतय ऋग्यजुः सामलक्षणाः, इन्द्रम् अवीवृधन् वर्धयन्ति । कीदृशमिन्द्रम्? समुद्रव्यचसम्, समुद्रवद् व्यचो व्याप्तिर्यस्यासौ समुद्रव्यचाः तम् । समुद्रवद् व्याप्तिमन्तं विविधानं नानागति वा अक्षोभ्यबलं वा । रथीनां रथयुक्तानां योद्धृणां मध्ये रथीतममतिशयेन रथवन्तम् रथयुद्धे लब्धातिशयमित्यर्थः । वाजानामन्नानां स्वामिनम् । सत्पतिं सतां सन्मार्गवर्तिनां पालकम् । तथा वाजानामन्नानां पतिं पालकम् । रथीतममित्यत्र ' ईद्रथिन: ' ( पा ० सू ० ८/२०१७ ) इति घे परे रथिन ईदादेशः । अत्र ब्राह्मणम् -'अथ पुरीषं निवपति । तस्योपरि बन्धुस्तच्चात्वालवेलाया आहरत्यग्निरेष यच्चात्वाल-स्तथो हास्यैतदाग्नेयमेव भवति सा समम्त्रिला स्यात् तस्योक्तो बन्धुः ' ( श ० ७ | १ | ११३६ ) | पुरीषनिवपनं विधत्ते - अथ पुरीषमिति । इष्टकासन्धिषु छिद्रपूरणार्थाः पांसवः पुरीषम् । तस्मात्तासामुपरि प्रक्षिपतीत्यर्थः । तस्योपरि बन्धुरिति तस्य पुरीषनिवपनस्य प्रयोजन प्रतिपादको वाक्यशेषः - ' इन्द्रं विश्वा अवीवृधन् ' ( श ० ८ | ७१३०७ ) इति । तन्मन्त्रविधिश्चोपरिष्टादष्टमकाण्डावसान आम्नास्यत इत्यर्थः । ' इन्द्रं विश्वा अवीवृधन्निति । इन्द्र १७ हि सर्वाणि भूतानि वर्धयन्ति समुद्रव्यचसं गिर इति महिमानमस्यैतदाह रथीतम रथीनामिति रथितमो ह्येष रथिनां वाजाना " सत्पतिं पतिमित्यन्नं वै वाजा अन्नाना सत्पति पतिमित्येत-दैन्द्राऽनुष्टुभा निवपत्यंन्द्र हि पुरीषं तदेतदर्धमग्नेर्यत्पुरीषमर्धमंष्टकम् ' ( श ० ८ ७ ३ ७ ) । प्रसन्ना कण्डिका । इयमेव कण्डिका बन्धुरित्यर्थः । पुरीषाहरणं विधत्ते - तच्चात्वालवेलाया इति । उत्तरवेद्यर्थानां पांसूनां निर्हरणस्थानं चात्वाल उत्तरवेद्यंसदेशः, तस्य या वेला समीपदेशः, ततः पुरोषमाहरेदित्यर्थः । तत्प्रशंसति -अग्निरेष इति । आहवनीयाग्न्याधारोत्तरवेदिहेतुत्वाच्चात्वालस्याग्न्यात्मकता । तथो हेति । तथैव खलु सत्यस्य चित्याग्ने रेतत्पुरीषमप्याग्नेयमग्निसम्बद्धमेव भवति । इत्थं पुरीषान्ता गार्हपत्यचितिरुक्ता । अध्यात्मपक्षे - इन्द्रं परमैश्वर्यशीलं परमात्मानं विश्वाः सर्वा गिर ऋगादिलक्षणाः स्तुतयः, अवीवृधन् वर्धयन्ति प्रोत्साहयन्ति । कीदृशमिन्द्रम्? समुद्रव्यचसं समुद्रवद् जलधिवद् आकाशवच्च व्यापकं सर्वगतं वा । पुनः कीदृशम्? रथीनां रथयोद्धृणां मध्ये रथीतमं विनापि रथेन योद्वारम् तस्य निरतिशयवीर्यशालित्वात् । वाजानामन्नानां पति स्वामिनं सत्पति सज्जनानां सन्मार्गस्थानां पालकम् । दयानन्दस्तु - ' हे स्त्रीपुरुषाः यूयं यथा विश्वा अखिला गिरो वेदविद्यासंस्कृता वाचः समुद्रव्यचसं समुद्रस्य व्यचसो व्याप्त इव यस्मिन् तम् वाजानां संग्रामाणां मध्ये रथीतममतिशयेन प्रशस्तरययुक्तम्, सत्पति " सत ईश्वरस्य वेदस्य धर्मस्य वा पालकमवीवृधन् पालयेयुः तथा सर्वान् वर्धयत ' इति, तदपि यत्किचित् •
पृष्ठ 219
पाठ पढ़ें पाठ छिपाएँ
म ० ५६-५७ ] दार्थ पारिजातभाष्यसहिता १८३ सम्बोधनस्य निर्मूलत्वात् । न च समुद्रव्यचसस्तादृशसंग्रामाणां वीराणां मध्ये कश्चिद् रथीतम: प्राकृतः वचनं पुरुष उपलभ्यते, यं विश्वा गिरो वर्धयेयुः । न वा तादृशवर्धनमन्येषां सम्भवतीति निरर्थकमेव स्यात् । भावार्थस्तु सर्वथा मुलमन्त्रासम्बद्ध एव ॥ ५६ ॥
समित? सङ्गृल्पेथा ' ' सम्प्रियौ रोचिष्ण समनस्य मनौ । इषमूर्जमभि संवस [ नौ ] ॥ ५७ ॥
! मन्त्रार्थ- - समान प्रीति वाले, कान्तिमान्, परस्पर श्रेष्ठ चित्त वाले हे उखापात्रो और चिति के अग्नि देवताओ हुए, आप लोग अन्य घृत आदि रस का उपभोग करते हुए, अर्थात् हमारे बिये हुए अन्न और रस को स्वीकार करते एक मन होकर मिलो, एक संकल्प वाले हो जाओ ॥ ५७ ॥
' समम्बिलां कृत्वोख्यं निबपति समितमिति ' ( का ० श्री ० १७ | १ | २० ) | समम्बिलं मुखं यस्याः सा समम्बिला ताम् । विभक्त्यलुक् छान्दसः । गार्हपत्यचितिं पुरोषनिवपनेन समम्बिलामिष्टकोच्चतासमां कृत्वा परिश्रित्समां कृत्वा उख्यमग्नि गार्हपत्य चितेर्मध्ये नीचैः स्थापयेत् चतुभिर्मन्त्रैरिति सूत्रार्थः । तथा च ब्राह्मणम् - ' सा समम्बिला स्यात् तस्योक्तो बन्धु: ' ( श ० ७ | १ | १ | ३६ ) । सा गार्हपत्यचितिः समम्बिला समं समानं बाह्यान्तरभावेन न्यूनाधिकाकाररहितं बिलं परितः प्रान्तप्रदेशो यस्याः सा । तस्य बिलसाम्यस्य बन्धुः । स्तावको वाक्यशेष उखानिर्माणप्रस्तावे ( श ० ६ | ५ | २ | २० ) आम्नात इत्यर्थः । चतस्रो द्वयग्निदेवत्याः समितमित्यु ष्णिगेकाधिका, अनियताक्षरपादरवेऽप्यष्टाविंशत्यक्षरत्वात् । यदिदं गार्हपत्यचयनमभिहितं तस्मिन् उख्याग्निनिर्वचनवेलायां द्वावग्नी सम्पद्येते । पूर्वसिद्धोऽग्निरेकः, उख्योऽग्निरपरः । तावुभौ सम्बोध्येदमुच्यते । हे अग्नी, युवामुभी समितं सङ्गतौ भवतम् । सङ्गत्य च सङ्कल्पेथाम् एकसङ्कल्पो भवतम् । यद्वा सम्यग्यज्ञस्य । कल्पनं निष्पादनं कुरुतम् । कीदृशी युवाम्? सम्प्रियो सम्यक् परस्परं प्रीतियुक्तौ । रोचिष्णू दीप्यमानौ अभितः सुमनस्यमानो परस्परं सौमनस्यं प्राप्तौ परस्परं शोभनचित्तयुक्तो । इषमन्नमूर्जं रसं वा अभिसंवसानो सम्पादयन्तौ । इषमन्नम् ऊर्जमुपसेचनं घृतदुग्धदध्यादि, अभिसंवसानी अभ्यवहरन्तौ भुञ्जानौ सम्यक् या । उपवसतीत्यादौ भौवादिकस्य वसेर्भोजननिषेधे वृत्तिर्दृष्टा । आदादिकस्य तु वसेर्भोजननिवृत्तिमपहाय भोजनरूपेऽर्थान्तरे वृत्तिः । ' रुच् दीप्तावभिप्रोतो च ' इति धातो: ' अलंकृन्निराकृञ्... ( पा ० सू ० ३।२।१६६ ) इत्यादिना ताच्छील्यादा विष्णुचि प्रथमाद्विवचने रूपम् । अध्यात्मपक्षे – हे रामलक्ष्मणो बलरामकृष्णी वा, युवामुभी समितं सङ्गतो भवतम् । सङ्कल्पेथां समानसङ्कल्पौ भवतम् । भक्ताभीष्टसिद्धेः सम्यक् कल्पनं निष्पादनं कुरुतम् । कीदृशो? सम्प्रियौ परस्परं सुष्ठुप्रीतियुक्तौ रोचिष्णू दीप्यमानौ, सुमनस्यमानो सौमनस्यं प्राप्ती, इषमन्नमूर्जं रसं भक्तैः समर्पितम् अभिसंवसानी भुञ्जानो, अभितः सम्यक् सम्पादयन्तौ वा । एवं राधाकृष्णौ सीतारामौ लक्ष्मीविष्णू पार्वती-परमेश्वरौ वा सम्बोध्य मन्त्रार्थो व्याख्यातव्यः । दयानन्दस्तु - ' हे विवाहित स्त्रीपुरुषौ युवां सम्प्रियो परस्परं सम्यक् प्रीतियुक्तो रोचिष्णू विषयासक्ति-विरहृत्वेन देदीप्यमानो सुमनस्यमानी सुमनसो सखायौ विद्वांसाविव आचरन्तो संवसानी सम्यक् सुवस्त्रालङ्कारे-राच्छन्नो सन्तो इषमिच्छां समितम् एकीभावं प्राप्नुतम् । ऊर्जं पराक्रमम् अभिसङ्कल्पेथां समानाभिप्रायेण कल्पेथां समर्थयेताम् ' इति, तदपि यत्किचित् तादृशसम्बोधने मानाभावात् । चयनकर्मपक्षे तु ब्राह्मणं प्रमाणम् । परमात्मपक्षे - ' सर्वे वेदा यत्पदमामनन्ति ' ( कठोप ० ११२ १५ ) इति श्रुतिः प्रमाणम् ॥ ५७ ॥
पृष्ठ 220
पाठ पढ़ें पाठ छिपाएँ
१८४ शुक्लयजुर्वेदसंहिता
सं वा॒ मनः॑सि॒ सं वृता समं चित्तान्याकरम् ।
अग्ने॑ पु॒रोष्याध॒पा भ॑व॒ त्वं न॒ इष॒मूर्ज॒ यज॑मानाय धेहि ॥ ५८ ॥
[ अ ० १२ मन्त्रार्थ - है दोनों अग्नियो, तुम्हारे मम को मैं सब प्रकार से संगत करता है, व्रत को संगत करता है, मंगल संस्कारों को संगत करता है । हे पशुसम्बन्धी गृहस्थ के कार्यसाधक अग्निबेथ, आप हमारे अधिपति हो । हमारे यजमान के निमित्त अन्न और बल प्रदान करो ॥ ५८ ॥
उपरिष्टाद् बृहती । अष्ट- सप्तमव त्रयोदशाक्षरपादत्वात् एकाधिका । हे पूर्वोक्तो चित्योख्यो अग्नी, वां युवयोर्मनांसि मनोज्न्यान् सङ्कल्पान् सं सर्वतः संगतान् आकरं करोमि । तथा व्रतानि कर्माणि समाकरम् । ' व्रतमिति कर्मनाम ' ( निघ ० २ ११७ ) । तथा चित्तानि समाकरम् । हे पुरीष्य पांसुयुक्ताग्ने मिलितोभयाग्निस्वरूप! नोऽस्माकमधिपा अधिकं पालयिता भव । तादृशस्त्वं यजमानाय इषमन्नमूर्जं रसं च धेहि देहि । यद्वा--वां युवयोर्मनांसि मनोबुद्धयहङ्कारान् । बहुवचनादेवं व्याख्यानम् । समाकरं सङ्गतान् करोमि । करोतेर्लंङ्युत्त-मैकवचने व्यत्ययेन शपि ' अकरम् ' इति रूपम् । तथा संव्रता व्रतानि कर्माणि समाकरम् । तथा समु चित्तानि मनोगत संस्कारान् समाकरं सङ्गतान् करोमि । उकारः समुच्चयार्थः । एवं मनः कर्मसंस्कारैरेकीभूतमग्नि प्रार्थये -- हे पुरीष्य पशव्य अग्ने, त्वं नोऽस्माकं अधिपा अधिपतिरधिकः पालको भव । इपमनं अजं तदुपसेचनं दध्यादि च यजमानाय धेहि देहि । अत्र ब्राह्मणम् -'व्याममात्री भवति । व्याममात्रो वै पुरुषः पुरुषः प्रजापतिः प्रजापतिरग्निरात्मसम्मितां तद्योनिं करोति परिमण्डला भवति परिमण्डला हि योनिरथो अयं वै लोको गार्हपत्यः परिमण्डल उ वा अयं लोक: ' ( श ० ७ | १ | ११३७ ) । गार्हपत्यचितेः परिमाणं विधत्ते - व्याममात्रीति । तत् प्रशंसति व्याममात्रो वा इति । व्यायम्यतेऽस्मिन बाहुद्वयमिति व्युत्पत्त्या व्यायाम इति शब्दो निष्पद्यते । स एवात्र वर्णलोपेन व्याम इत्युच्यते । स च तिर्यक्प्रसारितो बाहू यावत्परिमाणो भवतः तस्य परिमाणविशेषस्य संज्ञा । चतुररनिर्व्याम इति प्रसिद्धम् । व्याममात्रः पुरुषः पुरुषः प्रजापतिरित्यादि ब्राह्मणं स्पष्टम् । ' अथैनो सन्निवपति | संज्ञामेवाभ्या-मेतत्करोति समित, सङ्कल्पेथा सं वां मनांसि सं व्रताग्ने त्वं पुरीष्यो भवतं नः समनसाविति शमयत्येवैन वेतदहि, सायं यथा नान्योन्य ११ हि स्याताम् ' ( श ० ७ | १ | १ | ३८ ) । गार्हपत्य चितिरूपस्याग्ने-रुख्याग्नेश्च चतुभिर्मन्त्रैः संसर्जनं विधत्ते - अर्थनः विति । अथ गार्हपत्यचयनानन्तरम् एनौ चित्योख्यरूपावग्नी, निवपति सङ्गमयति । इकाभिश्चिते गार्हपत्यधिष्ण्ये उख्यमग्नि स्थापयतीत्यर्थः । सनिवपतोति संशब्द-सूचितमर्थमाह-- संज्ञामेवेति । आभ्यामग्निभ्यां संज्ञामग्निद्वयकर्तृकं संज्ञानम्, अर्थात् परस्परंकमत्यमेतेन सन्निवपनेन करोति । तत्र करणभूतानां चतुर्णा मन्त्राणां प्रतीकग्रहणं करोति समितमिति । समितमिति प्रथमस्य प्रतीकम् संवामिति द्वितीयस्य, अग्ने त्वं पुरीष्य इति तृतीयस्य, भवतं न इति चतुर्थस्य । मन्त्राणां तात्पर्यमाह - शमयत्येवैनाविति । परस्परं विद्विषाणी एनौ अग्नी एतेन मन्त्रकरणकेन निवपनेन शमयत्येव शान्तावेव करोति । तच्च शमनमहिंसायै हिंसापरिहाराय भवति । अध्यात्मपक्षे - पूर्ववद् व्याख्येयम् । हे रामलक्ष्मणौ बलरामकृष्णौ सीतारामौ राधाकृष्णौ पार्वतीपरमेश्वरौ षा वां युवयोर्मनांसि मनःसङ्कल्पान् सर्वतः सङ्गतान् करोमि । व्रतानि कर्माणि सृष्टिस्थित्यादीनि तदर्थं दैत्य -वादीनि भक्तरक्षणादीनि चैकरूपाणि करोमि । समु चित्तानि समानान् संस्कारान् करोमि । यद्यपि स्वाभाविक-सेव तयोः समानमनस्त्वादिकम्, तथापि यथा सदा विजयादिशीलस्यापि भगवतो विजयाद्याशंसा भक्तैः