वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 221–230

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 221–230

पृष्ठ 221

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 221 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५८-५९ ] पारिजातभाष्यसहिता १८५ क्रियते, यथा वा सुखरूपयोरप्युभयोः सुखप्राप्तिराशास्यते, तथैवैकरूपयोरप्येकचित्तत्वादिकमाशास्यते - ' यस्थ प्रेक्षणमात्रतो जडधियां चैतन्यलाभोऽनिशं सर्वोत्कर्ष कलाकलापकलितश्रीविग्रहोद्योतितौ । तो श्रीनन्दनकन्यका-रघुवरी नित्यं सुखं प्राप्नुतां कुखागारमनोज्ञकेलिकलया लोकोत्तर श्रीयुती ॥ ' ( भुशुण्डिरामायणे, पू ० खण्डे १२२ अध्याये ) इति । एवं मनः कर्म संस्कारैरेको कृतं रेकीभूत हे पुरीष्य सर्वजीव पशुहितकारिन्, नोऽस्माकमधिपा आधिक्येन पालको भव । इषं त्वदुपासनोपयुक्तमन्नमूजं रसं घृतदुग्धादिकं च देहि । दयानन्दस्तु - ' हे स्त्रीपुरुषौ यथाहमाचार्यो वां सम्मनांसि सङ्कल्पविकल्पाद्यन्तःकरणवृत्तिरूपाणि मनांसि संव्रता संव्रतानि सत्यभाषणादीनि संचित्तानि संज्ञप्तानि धर्म्याणि कार्याणि समाकरमेकस्मिन् धर्मे सङ्गतानि समन्तादकरं कुर्याम्, तथैव युवामपि मम प्रियमाचरतम् । हे पुरीष्य अग्ने उपदेशक आचार्य, त्वं नो अधिपा अधिक: पालको भव । यजमानाय धर्मेण सङ्गन्तुं शीलाय इषमन्त्रादिकमूर्जं शरीरात्मबलं च धेहि ' इति, तदपि यत्किञ्चित्, आचार्यस्यान्यस्य वोपदेशकस्यान्नशरीरात्मादिबलधारणे सामर्थ्याभावात् ॥ ५८ ॥

अग्ने त्वं परीष्यां रयिमान -पष्टिमां २ ॥ असि । " शिवाः कत्वा दिशः सर्वाः स्वं योनि॑मि॒हास॑दः ॥ ५ ९ ॥ मन्त्रार्थ हे अग्निदेवता, तुम पशुसम्बन्धी, पशुहितकारक, धनवान् और पुष्टिमान् हो । तुम्हारे प्रसाद से हम पुष्टि और ऐश्वर्यं प्राप्त करें । तुम सब दिशाओं के लिये कल्याणकारक बनकर यहाँ अपने स्थान में स्थित रहो ॥ ५ ९ ॥ उख्याग्निदेवत्या उष्णिक | आर्षी एकाधिका अनियताक्षरपादा | हे अग्ने भगवन्, त्वं पुरीष्यः पुरीषा-दिभिर्युक्तः पशव्यो वासि । पांमुयुक्तो रयिमान् धनवान् पुष्टिमान् पोषणयुक्तश्चासि । सर्वा दिशः शिवाः शान्ताः कृत्वा इह अस्मिश्चयने स्वं योनिं स्वकीयस्थानमासदः प्राप्नुहि । अत्र ब्राह्मणम्- ' चतुभिः सन्निवपति । तद्ये चतुष्पादाः पशवस्तैरेवाभ्यामेतत्संज्ञां करोत्यथो अन्नं वै पशवोऽन्नेनैवाभ्यामेतत्संज्ञां करोति ' ( श ० ७ | १ | १ | ३ ९ ) । चतुर्मन्त्रकरणका मुख्याग्ने गर्हपत्य चितिमध्ये नित्रपनं विधत्ते - चतुभिः सन्निवपतीति । सन्निवपति नीचैः स्थापयति । तेन निवपनेन ये चतुष्पादाः पशवो गवाश्वादयस्तैरेवोपायनभूतैराभ्या मुख्य चित्यात्मकाभ्यामग्निभ्यां संज्ञां परस्परमैकमत्यं करोति । कारणान्तरमप्याह अथो इति । अन्नं वै पशवः, सम्भोजनीयत्वात् । अन्नेन पशुरूपेणैतत्संज्ञां करोति । अध्यात्मपक्षे - हे अग्ने परमेश्वर, त्वं पुरीष्यः पशव्यः सर्वजीव पशुहितकार्यंसि । रयिमान श्रीमानसि ऐश्वर्यमाधुर्याधिष्ठातृश्रिया लक्ष्म्या सम्पन्नोऽसि | पुष्टिमानसि ज्ञानवैराग्यैश्वर्यादिपोषणशक्तिमानसि । सर्वाः प्राच्यादिदिशस्तत्स्थाः प्रजाश्च शिवाः सुखमयीः कृत्वा इह संसारे स्वयोनिमभिव्यक्तिस्थानं विष्णु- शिव - राम-कृष्णादिप्रतिमा अधिष्ठाय आसद आस्व । दयानन्दस्तु - ' हे अग्ने यतस्त्वमिह पुरीष्य ऐकमत्यपालनेषु भवो रयिमान विद्याविज्ञानधनयुक्तः पुष्टिमान् प्रशस्त शरोरात्मबलसहितोऽसि तस्मात् सर्वा दिश उपदेष्टव्याः प्रजाः शिवाः कल्याणोपदेशयुक्ताः कृत्वा स्वं स्वकीयं योनिं सुखसाधकं दुःख विच्छेदकमुपदेशमिहास्मिन् संसारे आस्व ' इति, तदपि यत्किञ्चित्, स्वाभ्युहमात्रव्याख्यानात्, पुरीषपदस्य ऐकमत्यार्थे मानाभावात् । रयिमानित्यादिशब्दानामपि गौणार्थाश्रयणं निर्मूलमेव । दिश इत्यस्य प्रजाः, योनिरित्यस्य उपदेश इत्यादिस्थों मूर्खजनप्रतारणमात्रमेव ॥ ५ ९ ॥ २४

पृष्ठ 222

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 222 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८६ शुक्लयजुर्वेद संहिता [ अ ० १२ भव॑तं नः॒ सम॑न॒सि॒ सचे॑तसावरे॒पसौ । मा य॒ज्ञ ँ हि सिष्टं मा य॒ज्ञप॑ति जातवेदसौ शिवो भ॑वतमद्य नः ॥ ६० ॥

मन्त्रार्थ - है दोनों प्रकार की अग्नियों, हमारी कार्यसिद्धि के लिये एका मन और समान चित्त वाली बनो, हमारे ऊपर क्रोध न करो, यज्ञ को नष्ट मत करो, यज्ञपति को किसी प्रकार का नुकसान न पहुँचाओ । आज हमारे निमित्त आप लोग कल्याणकारक बनो ॥ ६० ॥

sinfuser मेध्याये तृतीयकण्डिकास्थले व्याख्यातापि पुनर्व्याख्यायते । आर्षी पङ्क्तिः, अनियताक्षर-पादत्वात् । द्वग्निदेवत्या । योऽग्निः पुरातनो गार्हपत्यो यश्वोख्यः, तौ युवां नोऽस्मदर्थं समनसौ मनसा सहितो सचेतसौ परस्परं समानचित्तौ, अन्यविषयतां मनसोऽपवार्यास्मदनुग्रहाभिमुखत्वं समनस्त्वम्, तस्मिन् अनुग्रहे परस्परविप्रतिपत्तिराहित्यं सचेतस्त्वम् । अरेपसौ अस्मद्विषये पापरहितौ । सत्यपि प्रामादिकेऽपराधे क्रोधराहित्य-मेव पापराहित्यम् । तादृशपापरहितौ भवतम् । ' रपो रिप्रमिति पापनामनी भवतः ' ( नि ० ४।२१ ) इति रेपः शब्दस्यापि पापार्थंता, शब्दसादृण्यात् अर्थान्तरानवगमाच्च । पापराहित्यमेव स्पष्टयति- ' मा यज्ञ १७ हि १७ सिष्टमित्यादिना । अस्मदीयं यज्ञादि कर्म मा हिंसिष्टं मा विनाशं कार्ष्टम् । यज्ञपति यजमानं च मा विनाशयतम् । हे जातवेदसौ युवामद्यास्मिन्ननुष्ठान दिने नोऽस्मदर्थं शिवो शान्तौ भवतम् । अध्यात्मपक्षे -- हे जातवेदसौ पावकोपमौ रामलक्ष्मणौ सीतारामी वा युवां यज्ञं यज्ञपतिं च आराधना-माधकं च माहिंसिष्टम् । कीदृशौ युवाम्? समनसो इत्यादि पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे विवाहितो स्त्रीपुरुषौ यवां समनसौ समानविचारौ, सचेतसो समानसंज्ञानौ, अरेपसौ अनपराधिनो भवतम् । यज्ञं सङ्गन्तव्यं धर्मं मा हिंसिष्टम् । यज्ञपतिमुपदेशेन धर्मरक्षकं मा हिंसिष्टम् | अद्य नोऽस्माकं जातवेदसी उत्पन्नाखिलविज्ञानो शिवो मङ्गलकारिणो भवतम् ' इति, तदपि फल्गु, तादृशसम्बोधने मूलाभावात् । यज्ञपतिमुपदेशेन धर्मरक्षकमित्यादिकमपि निर्मूलमेव ॥ ६० ॥

मा॒तेव॑ पु॒त्रं पृ॑थि॒वी परी॑ष्यम॒ग्नि स्बे योनवभारु॒षा ।: तां विश्वैर्देवैऋतुभः संविदा॒नः प्र॒जाप॑ति॑िवि॒श्वक॑र्मा॒ विम॑ञ्चतु ॥ ६१ ॥

मन्त्रार्थ - भूमिरूप मृत्तिका से निर्मित उखा पशुओं के हितकारी अग्नि को अपने गर्भस्थान में उसी प्रकार धारण करती है, जैसे माता अपने पुत्र को अपने गर्भ में धारण करती है । सम्पूर्ण देवता और ऋतुचक्र एक मत से उखा की प्रशंसा करते हैं कि इसने महान् कार्य किया । वृष्टि के निर्माता प्रजापति उस उखा को शिवय स्थान से मुक्त करें ॥ ६१ ॥

' सिकताभिः समम्बिलां कृत्वा मातेव पुत्रमिति शिक्याद्विमुच्या निवन्निधायासिश्चति पयो मध्ये तूष्णीम् ' का ० भ ० १७।१।२२ ) । रिक्तां शून्यामुखां सिकताभिः प्रपूर्यं समम्बिलां सममुखां कृत्वा सिकतापूरितां तां शिक्यात् पृथक्कृत्य मातेवेति मन्त्रेण अभ्रिवत् स्थापितस्योख्यस्याग्नेरुत्तरतोऽरनिमात्रे गार्हपत्यचितेरुपर्येवोखां निधाय सिकतापूर्णोखाया मध्ये तूष्णीं पयो दुग्धमा सिञ्चेदिति सूत्रार्थः । उखादेवत्या त्रिष्टुप् । यथा लोके माता पुत्रं बिभर्ति तथा पृथिवीरूपेयमुषा उखा स्वे योनी स्वकीयगर्भस्थाने पुरीष्यं पशव्यमेतमग्निमभा अभाषद् धृतवती । भृञो लुङि ' बहुलं छन्दसि ' ( पा ० सू ० ७१३२ ९ ७ ) इतोडागमाभावे सिचो विसर्गे तिपि लुप्ते रूपम् ॥ प्रजापतिः कृतकृत्यां कृतकार्यां तामुखां विमुञ्चतु शिव्यपाशाद्विमुक्तां करोतु । कीदृशः प्रजापतिः?

पृष्ठ 223

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 223 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६१ ] वेदार्थपारिजात भाष्य सहिता १८७ विश्वैर्देवैर्ऋऋतुभिश्च संजिदानः संवित्त इत्येकमत्यं गतः । अथवा अहो महत्कर्म । उखया कृतमिति संवादं कुर्वन् । पुनः कथम्भूतः प्रजापतिः? विश्वकर्मा विश्वं सृष्टिरूपं कर्म यस्यासौ ' अत्र ब्राह्मणम् – ' तां न रिक्तामवेक्षेत । नेद् रिक्तामवेक्षा इति निषेधति यद्रिक्तामवेक्षेत -तां न ग्रसेत रिक्तामिति हैनम् । ( श ० ७ | १ | १ | ४० ) | रिक्ताया उखाया अध्वर्युकर्तृकं यजमानकर्तृकं वा अवेक्षणं यद्रिक्तामिति । ' नेदिति परिभये ' ( नि ० १ ३ ४ ) | रिक्तामुखां नेदवेक्षेत पश्यतु नैव । विपक्षे बाधकमाह - आवपति । एनमवेक्षितारं ग्रसेत ह भक्षयेदेव । तर्हि किं कुर्यादित्यपेक्षायामाह - ' अथास्या सिकता , रेतोभूत ७ सिचति सा समम्बला अग्नेरेतद्वैश्वानरस्य रेतो यत्सिकता अग्निमेवास्यामेतद्वैश्वानर समगर्तत्वकरणं विधत्ते --स्यात् तस्योक्तो बन्धुः ' ( श ० ७ | १ | १ | ४१ ) । रिक्ताया उखायाः सिकताभिः यद् अथास्यामिति । अस्यां रिक्तायामुखायां सिकता आवपति यावद्विलं पूरयति । वैश्वानरस्याग्नेरेतद्रेतो सिति याः सिकताः शौक्ल्यसाम्यात् । एतद् एतेन सिकतानिवपनेनास्यामुखायां रेतोभूतं वैश्वानरमग्नि सा । अत्र समबिलेति स्थापयति । सा उखा समम्बिला भवेत् । समं निम्नोन्नतत्वरहितं बिलं मुखं यस्याः । स च ' योनिर्वा प्राप्ते पूर्वपदस्य मुमागमश्छान्दसः । समम्बिलत्वस्तावकोऽर्थवादः प्रागुक्त । इत्याह - तस्येति रेत इदम् ' ( श ० ६ | ४ | ४ | १ ९ ) इत्यादिना षष्ठे काण्डे प्रतिपादितः ' अर्थनां विमुञ्चति । अप्रदाहाय यद्धि युक्तं न विमुच्यते प्र तद्दह्यत एतद्वा एतद्युक्ता रेतोऽभाषदेतर्माग्नि ४२ ) । तमत्राजीजनदथापरं धत्ते योषा वा उखा तस्माद्यदा योषा पूर्व ७ रेतः प्रजनयत्यथापरं धत्ते ' ( श ० ७ १ | । १ | विमोक-उखायाः शिक्याद्विमोचनं विधत्ते - अथैनामिति । एनां सिकतायुक्तामुखां शिक्याद्विमुञ्चति पृथक्करोति खलु प्रयोजनमाह - अप्रदाहायेति । तत्रोपपत्तिमाह - यद्धीति । युक्तम् अश्वादि यद्वाहनं न विमुच्यते रेतोऽवस्थापन्नम् तत्प्रदह्यते उक्तमथं प्रकृते योजयति एतद्वा इति । एतद्वै एषा खलूषा युक्ता सती एतमग्निम् - उख्यं तमत्रेति । अत्रावसरे अभाषद् धृतवती । ततः कृतकार्यत्वाद् विमोकोपपत्तिः । धृतस्याग्नेः प्रजननमाह स्त्रीसाधम्यं प्रतिपादयति--तमुख्याग्निमजीजनत् प्रासोष्ट, उखेति शेषः । प्रजननानन्तरं रेतोधारणद्वारोखायाः पुत्रं पृथिवी अथापरमिति । अपरं सिकतात्मकं रेतो धत्ते धारयति । योषा वा उखेति । स्पष्टमन्यत् । ' मातेव पुरीष्यमिति । मातेव पुत्रं पृथिवी पशव्यमित्येतदग्नि स्वे योनावभारुखेत्यग्नि देवास्तदेनां, स्वे विश्वैर्देवैर्ऋतुभिः योनावभार्षी दुखेत्येतत्तां संविदानः विश्वैर्देवैर्ऋतुभिः संविदानः प्रजापतिविश्वकर्मा विमुञ्चत्वित्युतवो वै विश्वे ४३ ) । विहिते प्रजापतिविश्वकर्मा विमुञ्चति तामुत्तरतोऽग्नेनिदधात्यरत्निमात्रे तस्योक्तो बन्धुः ' ( श ० ७ | १ | १ | । पुरीष्यपदस्य पशव्यत्वमर्थः । अभा इति भृञः उखाविमोके मन्त्रमनूद्य व्याचष्टे - मातेव पुत्रमिति । प्रथमपुरुषैकवचने व्यत्ययेन लुङि रूपमित्याह - अभार्षीदिति । अभारुखा इत्युखा शब्दसामानाधिकरण्यात् हितमिति मन्त्रस्यायमर्थः -- येयमुखा मातां पुत्रमिव पृथिवी भूमिरूपा मृण्मयीत्वात् । पुरीष्यं पशव्यं सर्वस्य पशुभ्यो कर्ता प्रजापतिः, यावत् । तादृशमग्नि स्वे योनौ स्वकीये गर्भस्थाने, अभा अभार्षीद् धारितवती । विश्वकर्मा इदानीं कृतकृत्यां ऋतुभिर्यज्ञं प्रति गच्छविश्वैः सर्वैर्देवैः संविदानः, अहो महत्कर्म कृतमित्येवं संवादं कुर्वन् सती तामुखां विमुञ्चतु शिक्याद्विमुञ्चति, पृथक्कुरुत इत्यर्थः । स्पष्टमन्यत् । ' अथास्यां पय आनयति । एतद्वा एतद्रेतो धत्तेऽथ पयो धत्ते योषा वा उखा तस्माद्यदा यथा योषा तत्प्रति रेतो धनेऽथ पयो धत्तेऽधराः सिकता भवन्त्युत्तरं पयोधर १७ हि रेत उत्तरं पयस्तन्मध्य आनयति आसेचनं विधत्ते-पुरुषशीर्षमुपदध्यात् ' ( श ० ७ १ १ ४४ ) । सिकतापूर्णाया उखाया मध्ये तूष्णीं पयस रेत उखां अथास्यामिति । पयआसे के कारणमुपपादयति-- एतद्वा इति । एतत्खलु कारणम् - एतत्सिकतालक्षणं वा इति । सिकता-धत्ते धारयति, अथ तदनन्तरमिदमानीतं पयो धत्ते । लौकिकदृष्टान्तेन तत्स्पष्टयति - योषा

पृष्ठ 224

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 224 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८८ शुक्लयजुर्वेदसंहिता [ अ ० १२ पयसोरधरोत्तरभाव मनूद्य स्तौति - अधराः सिकता इति । अधरं हि रेत इति गर्भाशयेऽधोभागे स्थितं पुरुषस्य रेतः स्त्रीवीर्यं शोणितरूपं पय उत्तरम् उपर्यवस्थितं सत् तत् पुंवीयं वेष्टयति । अत एव षाट्कोशिकस्य शरीरस्य त्वङ्मांसासृगाख्या बाह्यास्त्रयो धातवो मातृतो भवन्तीति स्मर्यते । तस्मात् सिकतापयसोर्बाह्यान्तरभावो गर्भोत्पत्तये सम्पद्यत इत्यर्थः । आनयनस्थानं विधत्ते - तन्मध्य इति । पय उखाया मध्ये आनयति आसिति । यथा तत्पयः प्रत्युपधानरामये पुरुषशीर्षमुपदध्यात् तथेत्यर्थः । ' प्रजापतिः प्रजा असृजत । स प्रजाः सृष्ट्वा सर्वमाजिमित्वा व्यस्त्र सत तस्माद्विस्रस्तात् प्राणो मध्यत उदक्रामदथास्माद्वीर्यमुदक्रामत् तस्मिन्नुत्क्रान्तेऽपद्यत तस्मात् पन्नादन्नमस्रवद्यच्चक्षुरध्यशेत तस्मादस्यान्नमस्रवन्नो ह तर्हि काचन प्रतिष्ठाऽऽस ' ( श ० ७।१।२1१ ) । उख्यरूपेण संस्कृतस्य गार्हपत्याग्नेविरारूपप्रजापत्यात्मकतां वक्ष्यन्नस्य प्रजापतेः संस्कृति वक्तुकामस्तच्छरीरविश्लेषं प्रतिपादयति - प्रजापतिरित्यादिना । प्रजापतिर्देव-मनुष्यादिरूपा बह्वीः प्रजाः सृष्ट्वा सर्वमाजि गन्तव्यं स्थानमित्वा व्याप्य श्रान्तः सन् व्यस्रंसत विस्रस्ताव-वो s भवत् । तस्माद्विस्रस्तात् प्रजापतिशरीराद् मध्यतः प्राणः प्राणापानादिपञ्चवृत्यात्मकः उदक्रामद् उत्क्रान्तोऽभवत् । अथ अनन्तरमेव तस्य प्रजापतेर्वीर्यं शुक्रमुदक्रामत् । तस्मिन् निर्गते सति स भूमी अपद्यत पतितोऽभवत् । तस्मात् पन्नात् पतितात् प्रजापतिशरीराद् अन्तरवस्थितमन्नम् अस्रवत् स्रुतमभवत् । यत् चक्षुरध्यशेत चक्षुषो मध्ये ज्योतिरवस्थितमभवदित्यर्थः तस्माज्ज्योतिषोऽस्य प्रजापतेरन्नं स्रुतमभवत् । तह तथा सति नैव खलु काचित् प्रतिष्ठा आस । तस्य प्रजापतिशरीरस्य विस्रस्तत्वात् किश्चिदपि प्रतिष्ठापदं न बभूवेत्यर्थः । ' ते देवा अब्रुवन् । न वा इतोऽन्या प्रतिष्ठास्तीममेव पितरं प्रजापति संस्करवाम सैव नः प्रतिष्ठा भविष्यतीति ' ( श ० ७ १ २ २ ) । अनन्तरं देवैः कृतमस्य संस्कारं वक्तुमाह - ते देवा इति । स्पष्टार्था sfusar | ' तेऽग्निमब्रुवन् । न वा इतोऽन्या प्रतिष्ठास्ति त्वयीयं पितरं प्रजापति संस्करवाम सेव नः प्रतिष्ठा भविष्यतीति किं मे ततो भविष्यतीति ' ( श ० ७ १ २ ३ ) | अथ देवास्तत्संस्कारार्थमग्नि प्रार्थितवन्तः । संस्काराद् मम किं प्रयोजनं भविष्यतीत्यग्नेः प्रश्न इति कण्डिकार्थः । तेऽब्रुवन् । अन्नं वा अयं प्रजापतिस्त्वन्मुखा एतदन्नमदाम त्वन्मुखानां न एषोऽन्नमसदिति तथेति तस्माद्देवा अग्निमुखा अन्नमदन्ति यस्य हि कस्य च देवताय जुह्वत्यग्नावेव जुह्वत्यग्निमुखा हि तद्देवा अन्नमकुवंत ' ( श ० ७ १ २ ४ ) । देवानामग्निमुखत्वं वरेण अग्निरङ्गी-कृतवानिति कण्डिकासंक्षेपार्थः । तथा च यथा प्रतिष्ठारूपस्य प्रजापतेः संस्कारस्तथैव चित्याग्नेरपि संस्कारः । तदर्थमेव समिधामहरहरभ्यादानम्, रुक्मप्रतिमोचनोखासम्भरणादीनां संवत्सरकालव्याप्त्यादिकमुक्तम् । अध्यात्मपक्षे - माता पुत्रमिव उखा बुद्धिः पुरीष्यमग्नि स्वे योनी गर्भाशये अभा अभाषत् । तां विश्व -कर्मा प्रजापतिॠतुभिर्गमनशीलविश्वैः सर्वैर्देवैः संविदानः, अहो महत्कर्म कृतमनयेति संवादं कुर्वन् विमुचतु मुक्तां करोतु | बुद्धिरेव बद्धघते, बुद्धिरेव मुच्यते, पुरुषस्य नित्यासङ्गचिद्रूपत्वादिति सांख्याः । वेदान्तिनां त्या तु साभासा बुद्धिरेव बन्धमोक्षभागिनी । दयानन्दस्तु -4 पृथिवी भूमिवद् वर्तमाना या उखा स्त्री स्वे योनी गर्भाशये पुरीष्यं पुष्टिकरेषु गुणेषु भवम् अग्नि विद्युतमिव सुप्रकाशं पुत्रं मातेव अभा धरति तां संविदानो सम्यगाज्ञापयन् बिश्वकर्मा अखिलोत्तमक्रियः प्रजापतिः परमेश्वरो विश्वैः सर्वैर्देवैदिव्यैर्गुणैर्ऋतुभिर्वसन्ताद्यैः सह सततं दुःखाद्विमुञ्चतु पृथग् रक्षतु ' इति, तदपि यत्किञ्चित् पुरीष्यमग्नि पुष्टिगुणेषु भवं विद्युतमिव सुप्रकाशमिति गौणार्थाश्रयणस्यैव दोषत्वात् । मातेव पुत्रमिति प्रत्यक्ष सम्बन्धमपहाय पुत्रमित्यस्याग्निविशेष्यत्व कल्पनमसङ्गतमेव । यदि सा योनों गर्भाशये पु बिर्भात, तदा मातेवेति दृष्टान्तोपादानमेवापार्थकं स्यात् ॥ ६१ ॥

पृष्ठ 225

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 225 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६२ ] अस॒न्वन्त॒मय॑ जमानमिच्छ वेदार्थपारिजात भाष्यसहिता

स्ते॒नस्ये॒त्यामन्वहि तस्करस्य ।

अन्यमस्मदिच्छ सा त इत्या नमो॑ देवि निर्ऋते॒ तुभ्य॑मस्तु ॥ ६२ ॥

मन्त्रार्थ -- हे नैर्ऋते, अलक्ष्मी की देवता! तुम सोम याग न करने वाले, हवि आदि से किसी प्रकार का afe कर्म न करने वाले पुरुषों के पास छिपकर चोर की तरह चली जाओ । हमसे अन्य पुरुष की इच्छा कर उन्हीं के

पास रहो, लौटकर यहाँ मत आओ । हे देवि, मैं तुमको नमस्कार करता हूँ ॥ ६२ ॥

पादमात्री र्हविष्यासन्नहोम व देशे दक्षिणोत्तराः कृत्वा ' नैर्ऋतीः कृष्णास्तुषपक्वास्तिस्रोऽलक्षणाः दिशि दक्षिणामुखोऽनुपस्पृशन्नसुन्वन्तमिति प्रत्यचं पराची: ' ( का ० श्री ० १७ | १ | २४ ) । ततोऽध्वर्युनैर्ऋत्यां जुहोति ' ( का ० श्री ० गत्वा राजसूये हविष्यासन्नहोमे यादृशो देशो विहितः --- ' स्वयं प्रदीर्ण ईरिणे वाग्नौ कृष्णवर्णास्तुषैरेव १५।१।१० ), तादृशे स्वयं प्रदीर्णे ईरिणे वा असुन्वन्तमिति त्रिभिर्मन्त्रनिर्ऋतिदेवत्याः पाकेन दक्षिणे पक्वा लक्षणहीनाः पादमात्रीस्तिस्र इष्टकाः पराचीरनात्ममुखीः स्वयं दक्षिणामुखः पूर्वमुत्तरां ततो । निधाय हस्तेन अनुपस्पृशन् उपदध्यादिति सूत्रार्थः । इत आरभ्य तिस्रः कण्डिका निर्ऋतिदेवत्यास्त्रिष्टुभः तं तादृशमिच्छ, निदेवि, असुन्वन्तं यः सोमयागं न करोति तमयजमानं यश्व हविर्यज्ञान करोति ग्रहीतुमिति शेषः । स्तेनस्य प्रच्छन्नचौरस्य तस्करस्य प्रकटचौरस्य च इत्यां गतिमन्विहि अनुगच्छ । पृष्ठतो गत्वा तावपि गृहाणेत्यभिप्रायः । सर्वथा सोमं सुन्वद्भयो हविर्यज्ञैश्च यजद्भूयोऽस्मदन्यमिच्छ, न त्वस्मानित्यभि-प्रायः । सा ते तव इत्या गतिर्दुष्टशिक्षार्थमेव । अतस्तुभ्यं नमोऽस्तु । अत्र ब्राह्मणम् -- ' अथातो नैर्ऋतीर्हरन्ति । एतद्वै देवा गार्हपत्यं चित्वा समारोहन्नयं वै लोको गार्हपत्य इममेव तल्लोक संस्कृत्य समारोहस्ते तम एवानतिदृश्यमपश्यन् ' ( श ० ७७२।१११ ) | आख्यायिका अथात इति । प्रयोजनप्रतिपादनपुरःसरं नैर्ऋतीनामिष्टकानामुपधानं विधित्सुस्तासां हरणं संग्रहेण प्रतिजानीते --अथ गार्हपत्यचयनानन्तरमतोऽस्मात् स्थानान्निर्ऋतिदेवताका इष्टका हरन्ति । एतद् एतस्मिन् खलु गार्हपत्य-चयनानन्तरकाले देवाः समारोहन् चयनेन संस्कृतं भूलोकमारूढाः । तेनतिदृश्यं दृश्यमतिक्रम्य द्रष्टुमशक्यं सर्ववस्त्वाच्छादकं पापरूपं तम एव सर्वत्रापश्यन् । ' तेऽब्रुवन् । उप तज्जानीत यथेदं तमः पाप्मानमपहना महा इति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेदं तमः पाप्मानमपहनामहा इति ' ( श ० ७ | २1११२ ) उप तज्जानीतेति । उपेत्य तमोऽपहन्तुमुपायं विचारयतेत्यर्थः । तदिच्छतेति । तच्चयन-मिच्छत यथा येन चयनेनेदं तमोरूपं पापं नाशयेमेत्यर्थः । ' ते चेतयमानाः । एता इष्टका अपश्यन् नैर्ऋतीस्ता उपादधत ताभिस्तत्तमः पाप्मानमपाघ्नत पाप्मा वै निर्ऋतिस्तद्यदेताभिः पाप्मानं निर्ऋतिमपाघ्नत निर्ऋतिरिति । तस्मादेता नैर्ऋत्यः ' ( श ० ७ | २ | ११३ ) | चेतयमाना इति चितिमिच्छन्त इत्यर्थः । पाप्मा वै दक्षिणापर दिगधिदेवता सा पाप्मा वै पापरूपैव । एतत्तादात्म्यमुपजीव्य पापापहति हेतुभूतानामिष्टकानां नैर्ऋत्य इति नाम निर्वृत्तम् । शेषं स्पष्टम् । ' तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं नु तत्तमः स पाप्मा देवैरेवापहतो पाप्मानं यत्वेतत् करोति यद्देवा अकुर्वंस्तत्करवाणीत्यथो य एव पाप्मा या निर्ऋतिस्तमेताभिरपहते तद्यदेताभिः निर्ऋतिमहते तस्मादेता नैर्ऋत्यः ' ( श ० ७ | २ | ३ | ४ ) । इत्थमाख्याविकया नैर्ऋतीनामुपधानस्य पापरूपतमो-निवृत्त्यर्थतां प्रतिपाद्य इदानीन्तनानुष्ठानस्यापि तदर्थतामाह- -- तद्वा एतत्क्रियत इति । तत् खलु एतद् इदानीं यजमानेन क्रियते यद् देवाः पुरा अकुर्वन् । यथा देवैरपहतो नाशितस्तमोरूपः स पाप्मा इदानीमप्यनुष्ठानेन निवर्तते । यत्त्वेतदिति । यत् खलु एतद् यजमानोऽनुतिष्ठति, देवैर्यत्कृतं तदहमपि करवाणीत्यनेनाभिप्रायेण

पृष्ठ 226

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 226 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ० शुक्लयजुर्वेद संहिता [ अ ० १२ तदनुष्ठीयत इत्यर्थः । न केवलमनुकरणमात्रं तथाविधफलसाधनमपीत्याह -- अथो इति । उक्तमर्थमनूद्य नैर्ऋतीनामिष्टकानां तमोऽपहन्तृत्वद्वारा नाम निब्रूते - तद्यदेवाभिरिति । ' यद्वेवैता नैर्ऋतीर्हरन्ति । प्रजापति विस्रस्तं यत्र देवाः समस्कुर्वंस्तमुखायां योनौ रेतोभूतमसिञ्चन् योनिर्वा उखा तस्मा एता संवत्सरे प्रतिष्ठा समस्कुर्वन्निममेव लोकमयं वै लोको गार्हपत्यस्तस्मिन्नेनं प्राजनयंस्तस्य यः पाप्मा यः श्लेष्मा यदुल्वं यज्जराय तदस्यताभिरपाघ्नंस्तद्यदस्यैताभिः पाप्मानं निर्ऋतिमपा-घ्नंस्तस्मादेता नैर्ऋत्यः ' ( श ० ७ २ ११५ ) | प्रयोजनान्तरं वक्तुं नैर्ऋतीनां हरणमनुवदति-- यद्वेवंता इति । ' यत् उ एव ' यस्मादेव प्रयोजनान्तराद् एता नैर्ऋतीरिष्टका हरन्ति तदुच्यत इति शेषः । आख्यायिकया तत्प्रतिपादयति - प्रजापतिमिति । यदा खलु देवा विस्रस्तं विश्लिष्टावयवं प्रजापति समस्कुर्वन् पुनरजनयन्, तदा तं प्रजापतिमुखालक्षणायां योनौ उख्याग्निरूपेण रेतोभूतमसिञ्चन् । योनिर्वा उखेति । उख्याग्नेस्तत उत्पत्तेः । तस्मा एतामिति । तस्मै प्रजापतये संवत्सरे उख्याग्निभरणेन नीते सत्येतां प्रतिष्ठां प्रतितिष्ठत्यनेनेति प्रतिष्ठा भूलोकात्मकं पादद्वयमजनयन्नित्यर्थः । ननु संवत्सरेऽतिक्रान्ते गार्हपत्य एव चीयते, न भूलोकस्योत्पत्तिरित्याशङ्कय तयोस्तादात्म्य माह -- अयं वै लोक इति । तस्मिन्नेनमिति । तस्मिन् भूलोकात्मके गार्हपत्ये एनं प्रतिष्ठारूपं प्रजा-पत्यवयवं प्राजनयन् उदपादयन् । तस्य प्रजायमानस्य यः पाप्मा शरीरे लिप्तः, यः श्लेष्मा, यच्च उल्बम् आन्तरं गर्भवेष्टनम्, तत्सवं पाप्मरूपम् । अस्य प्रजापतेरेताभिरिष्टकाभिरपाघ्नन् अपहतवन्तः तेनापि नैर्ऋत्य इति नाम सम्पन्नम् | ' तर्थवैतद्यजमानः । आत्मानमुखायां योनौ रेतोभूत सिवति योनिर्वा उखा ( श ०७२।१।६ ) । इतिहाससिद्धमर्थं दृष्टान्तीकृत्य दान्तिके योजयति - तथैवैतदिति । यथा प्रजापतिमुदीरितरीत्या देवाः समस्कुर्वन्, तथैवेदानीं यजमानोऽपि प्रजापतिरूपमात्मानमुखायां योनी रेतोभूतं सिञ्चतीत्यादि पूर्ववद्योज्यम् । ' पादमात्र्यो भवन्ति । अधस्पदमेव तत्पाप्मानं निर्ऋति कुरुतेऽलक्षणा भवन्ति यद्वै नास्ति तदलक्षणमसन्त-मेव तत्पाप्मानं निर्ऋति कुरुते तुषपक्वा भवन्ति नैर्ऋता वै तुषा नैर्ऋतैरेव तन्नैर्ऋतं कर्म करोति कृष्णा भवन्ति कृष्ण हि तत्तम आसोदयो कृष्णा वै निर्ऋतिः ' ( श ० ७ २ ११७ ) । इत्थं पापरूपस्य तमसो गर्भसम्बन्धि-श्लेष्मोल्बादिरूपस्य च पाप्मनो निर्हरणहेतुत्वेन नैर्ऋतीरिष्टकाः प्रशस्य तासां लक्षणमाह - पादमात्र्य इति । विशत्यधिकशताङ्गुलिपरिमितः पुरुषः, तस्य दशमोंऽशः पादः, स प्रमाणं यासां ताः पादमात्र्यः । तदुक्तं कात्यायनेन -- ' पञ्चारनिर्दशवितस्तिविंशतिशताङ्गुलः पुरुषो द्वादशाङ्गुलं पदम् ' ( का ० शु ० ८२ ) । तत्परिमाणं प्रशंसति - अधस्पदमिति । एतदेतेन नैर्ऋतीनां पादमात्रपरिमाणकरणेनाधस्पदं पादस्याधस्तादेव निर्ऋतिरूपं पाप्मानं कृतवान् भवतीत्यर्थः । एतेन पादमात्र्य इत्यत्र पादशब्दोऽङ्घ्रिपर्यायः, न तु चतुर्थांशवाचक इति व्याख्यातं भवति । अलक्षणा भवन्ति, ग्यालिखितादिकं लक्षणम्, तद्रहिता भवेयुरित्यर्थः । तदुपपादयति -यद्वै नास्तीति । यत्खल्वभाव प्रतियोगि तद् निःस्वरूपत्वादलक्षणं व्यावर्तक चिह्नरहितम्, अतोऽत्रालक्षण-करणेन निर्ऋति पाप्मानमसन्तं करोति, अभावप्रतियोगिनमेव करोति । ननु पाके सतीष्टकान्तरलक्षण-वस्वमासामवर्जनीयमित्याशङ्क्य तासां पाकप्रकारमाह - तुषपक्वा भवन्तीति । तत्प्रशंसति - नैर्ऋता वा इति । दर्शपूर्णमासप्रकरणे - ' अथ तुषान् प्रहन्त्यपहत रक्ष इति ' ( श ० १ | १ | ४ | २१ ) इति रक्षः सम्बन्धस्याम्नातत्वात् तुषाणां नैर्ऋतत्वम् । तासां काष्ण्यं विधत्ते - कृष्णा भवन्तीति । तत्र कारणमाह - कृष्णं होति । अहन्तव्यस्य • तमसः कृष्णवर्णत्वात् तदभिमानिन्या निर्ऋतिदेवतायाश्च तादृग्वर्णत्वात् ताः कृष्णा भवन्तीत्यर्थः । ' ताभिरेतां दिशं यन्ति । एषा वै नैर्ऋती दिङ् नैर्ऋत्यामेव तद्दिशि निर्ऋति दधाति स यत्र स्वकृतं वेण श्वभ्रप्रदरो वा स्यात्तदेना उपदध्याद्यत्र वा अस्या अवदीर्यते यत्र वास्या ओषधयो न जायन्ते निर्ऋति हास्य तद्गृह्णाति नैर्ऋत एव तद् भूमनिर्ऋति दधाति ताः पराचीर्लोकभाजः कृत्वोपदधाति ' ( श ० ७/२/१८ ) |

पृष्ठ 227

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 227 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६२ ] दार्थ पारिजात भाष्यसहिता १ ९ १ तासामुपधानार्थं दिग्विशेषमभिनयेन दर्शयति - ताभिरेतामिति । ताभिरिष्टकाभिः सह एतां दक्षिणां दिशं यन्ति गच्छेयुः । एषा खलु नैर्ऋती निर्ऋतिदेवताधिष्ठिता दिक् । तथा सति स्वकीयदिश्येव एतां निर्ऋति दधाति । तत्रापि देशविशेषमाह -- स यत्रेति । स अध्वर्युः, नैर्ऋत्यां दिशि यत्र यस्मिन् स्थाने स्वकृतं स्वयमेव सञ्जातम् इरिणं निस्तृणम् ऊषरस्थानं वा भवति, श्वप्रप्रदरो वा श्वभ्राकारेण प्रदीर्णः प्रदेशो वा भवेत्, तत् तस्मिन् स्थाने एना नैर्ऋतीरुपदध्यात् । तादृकस्थानस्य निर्ऋतिदेवताधिष्ठितत्वमाह - यत्र वा इति । यत्र खल्बस्याः पृथिव्याः सम्बन्धिनि स्थाने आत्मा अवदीर्यते भिद्यते यत्र वा ओषधयो न जायन्ते तदेतत् स्थानद्वयं निर्ऋतिगृहीतम् । तथा च निर्ऋतिसम्बद्धे स्थाने एव नैर्ऋतीनामुपधानेन निर्ऋति स्थापितवान् भवति । धर्मविशेषं विधत्ते- -ar: पराचीरिति । पराञ्चनाः स्वस्वानभिमुखा यथा भवन्ति, तथा लोकभाजः कृत्वा ता इष्टका उपदध्यात् । ' असुन्वन्तमयजमानमिच्छेति । यो वैन सुनोति न यजते तं निर्ऋतिर्ऋच्छति स्नेनस्येत्यामन्विहि तस्करस्येति स्तेनस्य चेत्यामन्विहि तस्करस्य चेत्येतदथो यथा स्तेनस्तस्करः प्रलायमेत्येवं प्रलाय मिहीत्यन्य-मस्मदिच्छ सा त इत्येत्य नित्थंविद्वा९९ समिच्छेत्येतन्नमो देवि निर्ऋते तुभ्यमस्त्विति नमस्कारेणैवैनामपहते ' ( श ० ७ २ ११ ९ ) । तिसृणामिष्टकानां त्रयो मन्त्राः, तान् क्रमेण प्रदर्शयन् व्याचष्टे - असुन्वन्तमिति । यो वै न सुनोतीति । यः पुरुषः सोमाभिषवं न करोति, यश्च दर्शपूर्णमासादिभिर्हविर्यज्ञेन यजते, तं निर्ऋतिः पापदेवता ऋच्छति प्राप्नोति । तस्मान्निर्ऋति सम्बोध्य ' असुन्वन्तमयजमानमिच्छ ' इति मन्त्रपाठो युक्त इत्यर्थः । स्तेनस्य चेत्यामिति । प्रच्छन्नचोरः स्तेनः " प्रत्यक्षं परेषां धनमपहरति यः स तस्करः । अनयोः परस्परविलक्षण-स्वादविद्यमानमपि ' च ' शब्दमध्याहृत्य योजयति । स्तेनस्य तस्करस्य च या इत्या गतिः, तां गति है निर्ऋते, त्वमन्विहि । ' इण् गतौ ' इत्यस्माद् भावे क्यप् । ' ह्रस्वस्य पिति कृति तुक् ' ( पा ० सू ० ६ १२७१ ) इति तुकि साधुः । एतदेव विवृणोति - अथो इति । अपि च यथा स्तेनस्तस्करश्च प्रलायं प्रलोय प्रलीय अदृश्यो भूत्वा एति गच्छति, एवं हे निर्ऋने, त्वमपि प्रलाय मदर्शन मिहि गच्छेति मन्त्रभागस्याभिप्रायः । प्रलायमिति ' आभीक्ष्ण्ये णमुल् च ' ( पा ० सू ० ३/४/२२ ) इति सूत्रेण ' लोङ श्लेषणे ' इत्यस्य णमुलन्तम् । अनित्थंविद्वांस-मिति । इत्थमनेन प्रकारेण उक्तमर्थं यो न वेत्ति सोऽनित्थंविद्वानत्रान्यशब्देन विवक्षित इत्यर्थः । हे निर्ऋते, अस्मत्तोऽन्यं त्वत्स्वरूपानभिज्ञम् इच्छ । सा तादृशी अविद्वद्विषयैव खलु ते तव इत्या गतिरिति मन्त्रभागस्यार्थः । नमो देवि निर्ऋते इत्यन्तिमपादे नमस्कारप्रतिपादनात् तेनैव नमस्कारेणेनां निर्ऋति मपहतेऽपबाधते, अपसारयतीत्यर्थः । अध्यात्मपक्षे हे निर्ऋते मृत्यो, त्वमसुन्वन्तमयजमानमिच्छ, तयोरमृतत्वप्राप्तिपथप्रवृत्तत्वात् । स्तेनस्य तस्करस्य च इत्यां गतिमन्विहि, पृष्ठतो गत्वा तानपि गृहाणेत्यर्थः । अस्मत्तोऽन्यमिच्छतु सा ते इत्या गतिः । सुन्वतामस्माकं यष्टृणां स्वधर्मानुष्ठानजनितजिज्ञासातत्त्वज्ञानैरेव मृत्योरतितरणसम्भवात् । निर्ऋते देवि, तस्यै तुभ्यं नमः । दयानन्दस्तु हे निर्ऋते देवि, सदाचारेण पृथिवोतुल्ये त्वमस्मद् अस्मत्तः स्तेनस्य अप्रसिद्धचोरस्य तस्करस्य प्रसिद्धचोरस्य सम्बन्धिनं विहायान्यमिच्छ । असुन्वन्तमभिषवादिक्रियारहितमय जमानमदातारं मेच्छ । यामित्याम् एतुमहीं क्रियाम्, अन्विहि अनुगच्छ सेत्या तेऽस्तु । नमश्च तस्यै तुभ्यमस्तु ' इति, तदपि बालभाषितम्, मुख्यार्थत्यागाद् गौणार्थग्रहणाच्च । हे पृथिवीतुल्ये विदुषि स्त्रि, त्वं स्तेनस्य तस्करस्य सम्बन्धिनमस्मत्तोऽन्य-मिच्छेतिक उपदिशति? पतिरन्यो वा? यदि पतिस्तर्हि किमत्र नियोगो विवक्षितः? यद्यङ्गीकरोषि तहि धन्योऽसि! श्लाघनीयस्ते संन्यासिवेषस्य नियोगः । असुन्वन्तमयजमानं मेच्छेति व्याख्यानं स्वाच्छन्द्यम् ( निरङ्कुशस्वम् ) एव ते द्योतयति, मूलेऽन्वेषणेऽपि तदनुपलम्भात् ॥ ६२ ॥

पृष्ठ 228

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 228 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ २ शुक्लयजुर्वेदसंहिता ॥ अ ० १४

नमः सुतै निर्ऋते तिग्मतेजोऽय॒स्मय विचृता ब॒न्धर्मेतम् ।

य॒सेन॒ त्वं य॒भ्या संविदा॒नोत्त॒मे नाके॒ अधि॑रोहयैनम् ॥ ६३ ॥

मन्त्रार्थ - हे सण तेजवाली घोर कर स्वभाव वालो निर्ऋति देवता, तुम्हारे निमित्त लौह पास के समान दृढ़ इस जन्ममरण रूप अज्ञान का छेदन करो । अग्नि और निरन्तर नमस्कार 1 यजमान को उत्कृष्ट स्वर्गलोक में स्थापित करो ॥ ६३ ॥ पृथ्वी के साथ एक मत होकर इस

हे निर्ऋते, दक्षिण - पश्चिम - मध्य गताऽवान्तरदिगभिमानिनि देवते निर्ऋतिः । ' ऋतिर्गतौ घृणायां च स्पर्धायां च शुभेऽपि च ' इति, नियता ऋतिर्घुणा यस्यां सा ( अ ० को ० ११ ९ / २ ) इत्यभिधानात् ' निर्ऋतिः स्यादलक्ष्म्यां स्त्री दिशां रभसात् पालान्तरे ' स्यादलक्ष्मीस्तु निर्ऋतिः ' इति मेदिनीकोषात् ' निर्ऋतिर्निरुपद्रवे | अलक्ष्म्यां दिक्पतो चापि ' ( अनेकार्थसंग्रहे, त्रिस्वरतान्ते पुमान् ' ( मे ० ६/२/११७ ) इति हेमचनाच्च । अथवा मिर्ऋतिः कृच्छापत्तिः, भूमिर्वा: हे तिग्मतेजः २८८ श्लोकः ) सा तिग्मतेजास्तत्सम्बुद्धौ । ते तुभ्यं सु सुष्ठु शोभनं यथा स्यात्तथा नमोऽस्तु | तिग्मं अयस्मयम् तीक्ष्णं दुःसहं तेजो यस्याः दृढम् एतमस्मदोर्य बन्धं जन्ममृतिरूपमज्ञानं स्वर्गप्राप्तिप्रतिबन्धकमिमं पाप्मानं अयोनिमितशृङ्खलावद् विनाशयेत्यर्थ: । ' चूती हिंसाग्रन्थनयो: ' नौदादिकः । ' द्वयचोऽतस्तिङः ' ( पा ० सू वा विचृत विच्छिन्धि दीर्घः । ततस्त्वं यमेनाग्निना यम्या पृथिव्या च संविदाना ऐकमत्यं गता सती, ० ६।३।१३५ ) इति मन्त्रे संहितायां सर्वसुखोपेते दुःखमात्ररहिते स्वर्ग, अधिरोहय स्थापय । अजस्य जीवभावलक्षणो एवं जनित्वा यजमानम् उत्तमे उत्कृष्टे नाके Parent बन्ध एव लौहशृङ्खलावद् दृढः । म्रियते मृत्वा जायते, अत्र ब्राह्मणम् -- ' नमः सु ते निर्ऋने तिग्मतेज इति । तिग्मतेजा वै निर्ऋतिस्तस्था विचता बन्धमेतमित्ययस्मयेन ह् वै तं बन्धेन निर्विध्नाति यमेन त्वं यम्या एवन्नमस्करोत्ययस्मयं यस्याभ्या हो सर्वं यतमाभ्यां स्वसंविदानेत्येतदुत्तमे नाके अधिरोहयनमिलि संविदानेत्यग्निर्वे यम इयं स्वर्गे लोके यजमानमधिरोहयेत्येतत् ' ( श ० ७/२/१/१० ) । तिग्मतेज स्वर्गो वै लोको नाक: तिग्मजा वा इति । द्वितीयपादमा व्याचत्रे अयस्मयमिति । इति विशेषणस्य प्रसिद्धिमाह -' मय तयोर्भाषायामभक्ष्याच्छादनयो: ' ( पा ० २० ४ ३ १४३ ) इति अयमा लोहेन निर्मितो बन्धोऽयस्मयः । निर्ऋति • बध्नाति यं बन्धनीयं मन्यते । तस्माद् निर्ऋते, अयस्मयमेतं विकारार्थे मयट् । तादृशेन बन्धेन युक्ता । यमयमीशब्दयोर्विवक्षितमर्थमाह - अग्निर्वे यम इति । अन्तः बन्धं विचत विमुञ्चेति प्रार्थना दग्निर्यमः, तदधिष्ठितत्वादियं पृथिव्येव यमी । इयमपि हि आश्रितं प्रविष्टेन सता कृत्स्नजगन्नियमना-यमेनाग्निना दम्या पृथिव्या च संविदाना सञ्जानाना त्वमिति तृतीयभागस्यार्थः सर्वं जगन्नियच्छति । तथा आभ्यां उत्तमे नाक इति । कं सुखं न कम् अकं दुःखं तदस्मिन्नास्तीति नाकः । चतुर्थं पादमनूद्य व्याचष्टे -दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् स्वर्गाख्यो ॥ ' लोकः । उक्तं हि - ' यन्न इति । अध्यात्मपक्षे हे ते भूमिकालोपलक्षिते चिद्रूपे भगवति महेश्वरि नमस्कारोऽस्तु । हे तिग्मतेजः तिग्मानि दुष्प्रेक्ष्याणि तेजांसि यस्याः ते तुभ्यं सु शोभनो जननमरणाविच्छेदलक्षणं बन्धं विचृत विच्छिन्धि तत्त्वज्ञानप्रदानेनेति शेषः सा । तिग्मतेजास्तत्सम्बुद्धौ । एतं यम्या पृथिव्या संविदाना ऐकमत्यमुपगता एनमुपासकं त्वत्स्वरूपाभिज्ञं यमेन नियामकेन धर्मराजेन रहिते मोक्षलक्षणे स्वर्गे, अधिरोहय स्थापय, अनात्मतादात्म्यनिराकरणेन स्वरूपावस्थितं वा उसमे उत्कृष्टे नाके दुःखलेशेनापि सम्पादयेत्यर्थः ।

पृष्ठ 229

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 229 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६३-६४ ] वेदार्थ पारिजातभाष्यसहिता १ ९ ३ दयानन्दस्तु - ' हे निर्ऋते नितरामृतं सत्यं यस्यां तत्सम्बुद्धौ निरन्तरसत्याचरणयुक्ते स्त्रि, यस्यास्ते तिग्मतेज: तिग्मानि तेजांसि यस्मात् तत् अयस्मयं सुवर्णादिमयं नमोऽन्नादिकमस्ति सा त्वमेतं बन्धं बध्नाति येन तं बन्धं सुविचृत विमुञ्च यमेन न्यायाधीशेन यम्या न्यायकर्त्या च संविदाना सम्यक् कृतप्रतिज्ञा सत्येन पतिमुत्तमे नाके आनन्दे भोक्तव्ये अधिरोहय ' इति, तदपि तुच्छम् लोकसिद्धत्वात् । पत्नी पतिमानन्दभोगाया-धिरोहयतीत्येतल्लो सिद्धमेव पाशविकं ज्ञानम्, न वेदेनोपदेष्टव्यम्, प्रत्यक्षानुमानाभ्यामज्ञातेऽर्थं एव वेदस्य तात्पर्यात् । किमात्र सम्बोधनीया स्त्री भिन्ना, यमी च भिन्ना । किं सर्वाः स्त्रियो न्यायाधीशेन न्यायक च सम्यक् कृतप्रतिज्ञाः पतिमानन्दाया धिरोहन्ति? कि, न्यायप्राप्तिरेकेनापि सम्भवति, तदर्थं यमयम्यो-ग्रहणस्य को हेतुः? पतिपदमपि मूले नास्ति । अयस्मयमिति सापेक्षं पदम् श्रुतं बन्धमपहायाश्रुत भूषणादि-कल्पनं निर्मूलमेव ॥ ६३ ॥

यो घोर आ॒सन् जहोम्ये॒षां बन्धानामवसर्जना यां त्वा जनो भूमिरिति प्रमन्व॑ते॒ निर्ऋतं त्वाहं परिवेद विश्वतः ॥ ६४ ॥

मन्त्रार्थ -- हे विषम स्वभाववाली क्रूर निर्ऋति देवता, तुम इन यजमानों के स्वगंगति के प्रतिबन्धक पापों का नाश कर सको, इसके लिये तुम्हारे मुख में आहुति के समान इष्टका को स्थापित करता हूँ । यह सारी भूमि तुम्हारी है । शास्त्र के ज्ञाता सभी मनुष्य इस बात को जानकर तुम्हारी स्तुति करते हैं । मैं तो तुमको निर्ऋति देवी के रूप में हो जाता है || ६४ ॥ हे घोरे क्रूररूपे निर्ऋतिदेवि, यस्यास्ते तव आसन आसनि आस्ये मुखे जुहोम्याहुतिवदिष्टकामुपदधामि किमर्थं यजमानस्य बन्धानां परलोकप्राप्तिप्रतिबन्धकानां पाप्मनामवसर्जनाय विनाशाय यां त्वां जनो जन्तुमात्ररूपः शास्त्र संस्काररहितो भूमिरिति प्रमन्दते भूमिनिर्ऋतिर्देवीति स्तोति प्रशंसति । ' मदि स्तुतिमोदमदस्वप्नकान्ति-गतिषु ' इति भौवादिको धातुः । चन्द्रस्तु ' मदि जाडये ' इत्येव पपाठ । अहं तु शास्त्राभिज्ञतया तादृशीं त्वां विश्वतः सर्वथापि निर्ऋतिमेव परिवेद सम्यग् जानामि । तत्र तावन्निर्ऋतिरित्येतद्देवताया नामधेयम् । अवयवार्थं -व्युत्पादनेन तु सर्वदेवसाधारणाद् देवयजनस्थानाद् निः निष्कृष्य स्वतन्त्रे देशे ऋतिः प्राप्तिर्यस्याः सा निर्ऋतिः । तदिदं प्रकारद्वयमभिप्रेत्य विश्वत इत्युक्तम् अवयवार्थरूढ्यर्थभेदादित्यर्थः । यद्वा हे घोरे विषमशीले, एषां बन्धानामवसर्जनाय विमोचनाय यस्यास्ते आसन आस्ये मुखे जुहोमि हविः, सा स्वमेतान् बन्धान् अस्मत्तः, अवसृजेति शेषः । यां त्वां जनः सर्वसाधारणो जन्तु भूमिरिति कृत्वा प्रमन्दते स्तौति, प्रतिष्ठा भूतानां जनयित्री मातेव बिभर्तीत्यादिगुणैस्तां त्वामहमपि तैरेव गुणैः स्तौमि । किश्च 7 निर्ऋति त्वामहं परिवेद जानामि विश्वतः सर्वतः । नतरां नातिशयेनैव हि विदित आमन्त्रितो वा हिनस्ति बाधते, इत्यत एतान् बन्धानस्मत्तोऽवसृजेति । अत्र ब्राह्मणम् --- ' यस्यास्ते घोर आसञ्जुहोमीति । घोरा वै निर्ऋतिस्तस्या एतदासज्जुहोति यत्तद्देवत्यं कर्म करोत्येषां बन्धानामवसर्जनायेति ये बन्धंबंद्धो भवति यां त्वा जनो भूमिरिति प्रमन्दत इतीयं वै भूमिरस्यां वै स भवति यो भवति निर्ऋति त्वाऽहं परिवेद विश्वत इति निर्ऋतिरिति स्वाऽहं परिवेद सर्वत इत्येतदियं वे निर्ऋतिरियं वं तं निरर्पयति यो निर्ऋच्छति तद्यथा वे ब्रूयादसावामुष्यायणोऽसि वेद त्वा मा मा हि • सी-रित्येवमेतदाह नतरा हि विदित आमन्त्रितो हिमस्ति ' ( श ० ७२ | १ | ११ ) | यस्यास्त इति तृतीयो मन्त्रः । तत्र प्रथमपादस्य तात्पर्य माह-- घोरा वा इति । निर्ऋतिः पापदेवतात्वात् पापस्य च दुःखहेतुत्वाद् घोरा तीव्रा । तथा च तद्देवत्यमेतत् कर्म करोतीति यदेतदेतेन तस्या निर्ऋतेर् आसन् आस्ये जुहोति दुःसहा २५

पृष्ठ 230

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 230 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ४ शुक्लयजुर्वेदसंहिता [ २०१२ प्रक्षिपति । एवं च प्रथमपादस्यायमर्थ: हे घोरे निर्ऋते यस्यास्तव आस्ये जुहोमि तां त्वामित्युपरि सम्बन्धः द्वितीयपादमनूद्य एषामितीदंशब्दनिर्देश्यमाह - बन्धेरिति । शिक्यपाश रुक्मसूत्रादिभिर्दुःखहेतुभिः पापैर्वा । द्धो भवति यजमानः, एषां बन्धानां निर्ऋतिबन्धहेतुभूतानां पापानामवसर्जनाय विश्लेषाय जुड़ोमीति सम्बन्धः । तृतीयपादमनूद्य तत्र भूमिरिति विशेषणस्य तात्पर्यमाह - यां त्वेति । हे निर्ऋते, जनो लोको यां त्वा भूमिर्भवनहेतुः समृद्धितर्वा इति प्रमन्दते स्तोतीति तस्य पादस्यार्थः । इयं वा इत्यादि । इयं खलु पृथिवी निर्ऋतिरूपा भूर्भुवनहेतुः । कुत एतदित्याह -- अस्यां वा इति । यो भवत्युत्पद्यते समृद्धयते वा स अस्यां पृथिव्यामाधारभूतायां खलु भवति । तस्माद् भवनाधिकरणत्वाद् भूमिनाम्ना स्वं स्तूयस इत्यर्थः मुपन्यस्य स्वस्य विशेषज्ञतां चतुर्थपादेनाह - निर्ऋति त्वेति । अत्र विश्वशब्दः सर्वशब्दपर्याय एव । जनवाद- न तु जगद्वाचीत्यभिप्रेत्य व्याचष्टे - निर्ऋतिरितीति । अयमभिप्रायः- तृतीयपादे भूमिशब्दादुत्तरत्वेन पठित शब्दोऽत्रानुषज्यते । अहं पुनस्त्वा त्वां निर्ऋतिः सर्वतो निरर्पणहेतुरातिकारणमिति परिवेद परितो इति-जानामि । एवं निर्ऋति त्वेति द्वितीयान्तं निर्ऋतिपदमिति शब्दानुषञ्जनेन व्याख्यायैतदुपपादयति-इति! यो निःशेषेण ऋच्छत्यातिं प्राप्नोति तं पुरुषमियमेव देवता निरर्पयति निर्ऋति प्रयुङ्क्ते इयं वा ऋच्छतेः प्रयोजकव्यापारे ' हेतुमति च ' ( पा ० सू ० ३ | १/२६ ) इति णिचि. ' अतिही ' । निरुपपदाद् इति कि निरर्पयतीति रूपम् । अतो निरर्पणादियमेव पृथिवी निर्ऋतिरित्युच्यते । अतो भवत्याः ( पा ० सू ० ७/३/३६ ) जानामीत्यर्थः । एतज्ज्ञानस्य सदृष्टान्तं प्रयोजनमाह - तद्यथेति । तत् तत्र अरण्यादौ चोरादिष्वागतेष्वसौ स्वरूपं सम्यगहं त्वमेत-नामासि, अमुष्य यजदत्तस्य पुत्रोऽसि त्वामहं जानामि, मामां माहितीर्मा बाधिष्ठा इत्यागतं एवमेव खल्वेतति त्वाहमित्यादिना निर्ऋतेः स्वरूपप्रतिपादनम् । नामग्रहणस्य प्रति यथोच्यते, विदितो ज्ञातः, नामगोत्रादिना आमन्त्रित आहूतश्चोरादि आत्मीयत्वेन आह्वातारं फलमाह - नतरामिति । हिनस्ति बाधते, एवमेव निर्ऋतिनामग्रहणादेनं यजमानं निर्ऋतिनं बाधत इत्यर्थः पुरुषं । नतरामतिशयेन नैव द्युच्चारणेन परिचये जाते मां ज्ञातवानयं शासनाधिकारिभ्यो निवेदयिष्यतीति भयातिरेकाच्चोरो यद्यप्यद्यत्वे नामगोत्रा-तादृशं पुरुषम्, तथाप्यात्मीयत्वेन ज्ञानाद् भयाभावे परित्रात्येव न बाधते, ' विज्ञाय हिनस्त्येव न चोरताम् ' इत्यभियुक्तोक्तेः । निर्ऋतेस्तत्त्वज्ञानेन निर्ऋतेरप्यात्मा भूत्वा तद्भयात् सेवितश्चोरो मंत्री मेति ' नोपस्पृशति । पाप्मा वै निर्ऋतित् पाप्मना स ७ स्पृशा इति न सादयति प्रतिष्ठा प्रमुच्यत एवेत्यर्थः । प्रतिष्ठापयानीति न सदूदोहसाऽधिवदति प्राणो वे सूददोहा नेत् पाप्मानं प्राणेन व सादनं नेत् पाप्मानं ( श ० ७ | २ | १ | १२ ) । उपस्पर्शन - सादन - सुददोहसामिष्टकान्तरवदासु प्रसक्तानां निषेधं करोति सन्तनवानि - नोपस्पृशतीत्यादिना सन्दधानीति ' सुप्रसन्ना afuser | । अध्यात्मपक्षे - हे घोरे सर्वसंहारिणि महेश्वरि यस्यास्ते तव आस्ये मुखे मविद्याकामकर्मणामवसर्जनाय मोचनाय हविर्जुहोमि, यां त्वां जनो भूमिः सर्वभवनाधारत्वाद् एषां बन्धानां बन्धनहेतुना-स्तौति तां त्वां निर्ऋतिमित्यहं विश्वतः सामस्त्येन परितो वेद जानामि । ऋतमेव ऋतिः भूमिरिति निष्कृष्टा प्रमन्द निर्ऋतिस्तां मृत्योरपि मृत्युरूपां सर्वाधिष्ठानभूतां संविदं त्वामहं जाने, ' यस्य ब्रह्म च । ऋति ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ ( कठोप ० ११२/२४ ) इति श्रुतेः क्षत्रं च उभे भवत भूमिरूपां सर्वकारणरूपां वा जानते, तत्त्वज्ञास्तु प्रपञ्चातीत विशुद्धज्ञानाभिन्नपरमसत्यरूपैव त्वमसीति । सामान्यजनास्वा । दयानन्दस्तु - - ' हे घोरे दुष्टानां भयङ्करि पनि, यस्यास्ते आसन आस्ये मुखे एषां निरोधकानामवसर्जनाय अमृतात्मकमन्नादिकं जुहोमि । यो जनो भूमिरिति यां त्वां प्रमन्दते बन्धानां दुःखकारकत्वेन वामहं विश्वतो निर्ऋति पृथिवीतुल्यां परि सर्वप्रकारेण वेद सा त्वमपीत्थं मां विद्धि ' इति, तदपि आनन्दयति यत्किश्चित् , तां,