वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 231–240

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 231–240

पृष्ठ 231

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 231 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६४-६५ ] वेदार्थपारिजातभाष्यसहिता १ ९ ५ ' घोरे ' इति सम्बोधनस्य पत्न्यामसङ्गतेः । घोरे मुखेऽन्नादिकं जहोमीत्यपि विशृङ्खलमेव, केषां बन्धानां तेन निवृत्तिरित्यनुक्तेश्च । यो भूमिरितियां प्रमन्दते तां स्वामहं विश्वतो निर्ऋतिमिति परि परिवेदेत्यत्र को भेदः? तयोः परस्परं वेदनं केन शब्देन लभ्यत इत्यप्यनुक्तेः । गौणार्थाश्रयणं तु दूषणमेव, यतो हि तन सार्वत्रिकम्, किन्तु प्रायिकम् ॥ ६४ ॥

यं ते देवी निर्ऋतिराबबन्ध पाशै ग्रीवास्व॑विच॒त्यम् । तं ते॒ विष्या॒म्यायु॑षो॒ न

मध्या॒दथे॑ पि॒तुम॑सि॒ प्रसू॑तः । नमो भूत्यै येदं च॒कार॑ ॥ ६५ ॥

मन्त्रार्थ - हे यजमान, निर्ऋति देवी ने तुम्हारे गृह में जो कभी न कटने वाला पाश बाँधा था, उस पाश को मैं तुम्हारे सामने इस अग्नि के मध्य डाल रहा हूँ । इस पाश से विमुक्त होकर तुम निर्ऋति की अनुज्ञा को प्राप्त करो, तुम्हारी रक्षा करने वाले इस अन्न का भक्षण करो । जिस देवी के प्रसाद से यह सब कुछ सम्पन्न हुआ है, उस ऐश्वर्य की देबी को हम नमस्कार करते हैं ॥ ६५ ॥

' शिक्य रुक्मपाशेण्ड्वा सन्दीः परेणास्यति यं व इति ' ( का ० श्री ० १७ २ ४ ) । शिक्यं रुक्मपाशः शणमय ', द्वे इण्ड्वे, आसन्दी च - एतानि नैर्ऋतोभ्य इष्टकाभ्यः पश्चाद् देशे प्रक्षिपेदिति सूत्रार्थः । यजमान-देवत्या त्रिष्टुप् । यजमानं प्रत्युच्यते - हे यजमान, निर्ऋतिर्देवी ते तव ग्रीवासु ग्रीवायाः सम्बन्धिषु प्रदेशविशेषेषु यं पाशं शिक्यरूपमा समन्ताद् बबन्ध बन्धितवती । कीदृशं पाशम्? अविचृत्यम् अच्छेद्यं मोचयितुं विनाशयितुं वा अशक्यं दृढम् ते त्वदीयग्रीवायां स्थितं तं पाशमनेन मन्त्रेण विष्यामि विमुचामि । स्यतिविपूर्वकोऽत्र विमोचनार्थः । तच्च विमोचनं तदीयस्यायुषो मध्यादारभ्य न भवति, किन्तु कृत्स्नेऽप्यायुषि । अथ पाशविमोकानन्तरं निर्ऋत्या देवतया प्रसूतोऽभ्यनुज्ञातस्त्वमेतं पितुमन्नमद्धि भक्षय । यद्वा-- आयुषो न मध्याद् आयुषोऽग्नेर्मध्याद् गार्हपत्य चयनादूर्ध्वमाहवनीय चयनात् पूर्वं न सम्प्रति इदानीमेव पाशं ' दूरीकरोमोत्यर्थः । नकारः सम्प्रत्यर्थः । ' अग्निर्वा आयुस्तस्यैतन्मध्यं यच्चितो गार्हपत्यो भवत्यचित आहवनीयः ( श ० ७ २ १ १५ ) इति श्रुतेरायुश्शब्देनाग्निरुच्यते । शेषं पूर्ववत् । ' उदपात्रं निषिच्यान्तरात्मेष्टक मुत्तिष्ठन्ति । नमो भूत्या इति ' ( का ० श्री ० १७ २२५ ) | आत्मा चेष्टकाश्चेत्यात्मेष्टकाः, तासामन्तरा इत्यन्तरात्मेष्टकम् शिक्यादिनिरसनानन्तरमात्मनो नैर्ऋतीष्टकानां च मध्ये उदपात्रं जलपूर्ण चमसं तूष्णीं निषिच्य निनीय ब्रह्मयजमानाध्वर्यवो नम इति मन्त्रेणोत्तिष्ठन्तीति सूत्रार्थः । भूतिदेवत्या एकपदा विराट् । या देवी इदं ऋतीष्टको धनलक्षणमग्निचयनलक्षणं वा कर्म चकार कृतवती, तस्यै भूत्यं श्ररूपिण्यं देव्यं नमोऽस्तु । अत्र ब्राह्मणम् – ' अथासन्दी १७ शिक्यम् । रुक्मपाशमिण्ड़वे तत्परार्धे न्यस्यति नैर्ऋतो वै पाशो निर्ऋतिपाशादेव तत्प्रमुच्यते यं ते देवी निर्ऋतिराबबन्ध पाशं ग्रीवास्वविनृत्य मित्यनेवंविदुषा हा विचृत्यस्तं ते विष्याम्यायुषो न मध्यादित्यग्निर्वा आयुस्तस्यैतन्मध्यं यच्चितो गार्हपत्यो भवत्यचित आहवनीयस्तस्माद्यदि युवाग्नि चिनुते यदि स्थविर आयुषो न मध्यादित्येवाहार्थतं पितुमद्धि प्रसूत इत्यन्नं वै पितुरथैतदन्नमद्धि प्रमुक्त इत्येतत् त्रिष्टुभिर्वो वै त्रिष्टुब् वत्रेणैव तत्पाप्मानं निर्ऋतिमपहते ' ( श ० ७ २ | १ | १५ ) | आसन्द्यादीनां भरणसमये तत्र प्रासनं विधत्ते - अथेति । अय समिदाधानानन्तरम्, या उख्याग्निधारणार्या आसन्दी यच्च उख्यधारणार्थं शिक्यम्, यश्च सौवर्णस्य रुक्मस्य प्रतिमोचनार्थं पाशः सूत्रम्, ये च इण्ड्वे अग्निसहिताया उखाया उभयतो धारणाय तृणमयो पिण्डो, तत्सवं नैर्ऋतीनां परार्धे पश्चाद्भागे न्यस्यति क्षिपेत् । यं ते देवीति तस्य

पृष्ठ 232

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 232 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ६ [ अ ० ] १२ मन्त्रः । तदेव सूचितं कात्यायनेन - ' शिक्य रुक्मपाशेण्ड्वासन्दीः परेणास्यति यं त इति ' ( का ० श्र ० १७२/४ ) इति । मन्त्रस्य पूर्वार्धेऽविनृत्यमिति पदस्याभिप्रायमाह - अनेवंविदुषा हेति । अनेवंविद्वान् उक्तार्थज्ञानरहितः, तेन अविचत्यः । चती हिंसाग्रन्थनयो: ' तौदादिकः । चर्तितुं विश्लेषयितुं न शक्यः । तदयमर्थः - हे यजमान, ते तव ग्रीवासु, अविनृत्यं विमोक्तुमशक्यं यं पाशं निर्ऋतिर्देवता आबबन्ध आबद्धवती, तं ते विष्यामीत्युत्तरत्र सम्बन्धः । तत्रत्यस्यायुः शब्दस्य विवक्षितमर्थमाह - अग्निर्वा आयुरिति । आयुषो दातृत्वादग्निरेवाश्रायु: -शब्देनोच्यते । तस्यैतन्मध्यमित्यादि । तस्य चीयमानस्य आयुः शब्दाभिधेयस्याग्नेः एतन्मध्यं मध्यशरीरं यद् गार्हपत्य चयनादृध्वं माहवनीय चयनात् प्राचीनं कर्म, तदत्र मन्त्रगतेन मध्यशब्देनोच्यत इत्यर्थः । फलितमाह--तस्मादिति । तस्मादायुः शब्दस्य चीयमानाग्निपरत्वाद् यूनः स्थविरस्य च यजमानस्य प्रयोगे आयुषो मध्यादिति मन्त्रभागस्य पाठो न विरुध्यते । यद्यायुः शब्देन यजमानस्य जीवनकालो विवक्षितः स्यात् प्रयोगे आयुष आदेरिति विपरिणमयितव्यम्, स्थविरस्य प्रयोगे त्वायुषोऽन्तादिति । मध्यादित्येवाहेत्येव- , तदा यूनः कारणेहग्विधपरिणामो व्यावर्त्यते । तथा च तृतीयपादस्यायमर्थ: -- हे यजमान, ते तव ग्रीवास्वाबद्धं शिक्यपाशं रुक्मपाशं च विष्यामि । ' स्पतिरुपसृष्टो विमोचने ' ( नि ० १११७ ) इति यास्कः तं विष्यामीत्यस्य विमुखामीत्यर्थः । आयुषश्चीयमानस्याग्नेर्मध्याद् गार्हपत्य चयनादूर्ध्वभाविनः कर्मकलापान्न । तथा च विमुचामीति । चतुर्थपादमनूद्य व्याचष्टे -- अथैतमिति । पितुशब्दोऽन्नवाची । अथ पाशविमोचनानन्तरमेतं पितुमग्निचयनफलभूतमनं प्रसूतो नितिदेवतयाऽनुज्ञातः सन् हे यजमान! त्वमद्धि, अशानेत्यर्थः । प्रमुक्त इत्येतदिति । प्रसूत इति मन्त्रपदेन प्रमोचनं विवक्षितमिति भावः । मन्त्रगतं छन्दः प्रशंसति वज्रो वै त्रिष्टुबिति । त्रिष्टुभ इन्द्रेण सहोत्पन्नत्वात् ( तै ० सं ० ७ | १ | १४ ) - त्रिष्टुभिरिति । त्रिष्टुभस्तत्तादात्म्यम् ।, वज्रस्य च तदायुधत्वात् ' तिस्र इष्टका भवन्ति | आसन्दी शिक्य, रुक्मपाश इण्डवे तदष्टावष्टाक्षरा गायत्री । गायत्रोऽग्नि-र्यावानग्निर्यावित्यस्य मात्रा तावतैव तत्पाप्मानं निर्ऋतिमपहते ' ( श ० ७ | २ | १ | १६ ) । संख्याद्वारेण प्रशंसति -- तिस्र इति । ' अथान्तरेणोदचमसं निनयति । वज्रो वा आपो इटकादीन् वज्रेणैव सम्भूयानूद्य निर्ऋतिमन्तर्धते नमो भूत्यं येदं चकारेत्युपोत्तिष्ठन्ति भूत्यं वा एतदग्रे देवा: कमकुर्वत तस्या तत्पाप्मानं भूत्या उ एवायमेतत्कर्म कुरुते तस्या एतन्नमस्करोत्यप्रतीक्षमायन्त्यप्रतीक्षमेव तत्पाप्मानं निर्ऋति एतन्नमोऽकुर्वन् ( श ० ७ | २ | १ | १७ ) । उदकस्य निनयनं विधत्ते -- अथान्तरेणेति । अथ आसन्द्यादीनां प्रासनानन्तरमन्तरेण जहति ' स्वात्मन इष्टकानां च मध्ये उदकपूर्ण चमसं निनयति निषिश्वति । तदेतत् कात्यायनेनोक्तम् निषिच्या... ( का ० श्र ० १७/२/५ ) इति । तत्प्रशंसति - बज्रो वा इति । नैर्ऋत्यो हि – ' उदपात्रं तासामात्मनश्च मध्ये वज्रसंस्तुतानामपां निनयनेन पापरूपां निर्ऋतिमन्तर्धते व्यवदधाति ता । इष्टकाः । परिहारायेत्यर्थः । निषेचनानन्तरमुपोत्थानं समन्त्रकं विधत्ते नमो भूत्या इति । या भूतिलक्षणा तत्संसर्ग-इदं नैर्ऋतेष्ट कोपधानरूपं कर्म चकार कृतवती, तस्यं भूत्यं श्रिये नमोऽस्त्विति मन्त्रार्थः । तत्रोदकनिनयन- देवता पूर्वकमुपोत्थानं कात्यायनः सूत्रितवान् | पुरावृत्तन्यायेन भूत्यर्थतां कर्मणः प्रदर्शयन् तनमस्कारपरतां व्याचष्टे - भूत्यै वा इति । भूत्यै भवनाय ऐश्वर्याय खलु एतत्कर्म देवा अग्रे प्रागकुर्वत मन्त्रस्य एतन्नमोऽकुर्वन् तद्वदेवायं यजमानोऽपि भूत्यर्थमेव एतत्कर्म कुरुते तस्यै एतन्नमः । तस्य एव भूये शालां प्रत्यागमनं धर्मविशिष्टं विधाय स्तोति - अप्रतीक्षमायन्तीति । प्रतिनिवृत्य नैर्ऋतस्थानस्येक्षणमकृत्वा कुरुते । उपोत्यानानन्तरं आयन्ति शालामा गच्छन्ति, तत् तेनाप्रतीक्षणेन निर्ऋतिरूपं पाप्मानमप्रतीक्षमेव प्रतीक्षणमकृत्वैव त्यजन्ति । जहति

पृष्ठ 233

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 233 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६५-६६ ] वेदार्थपारिजातभाष्यसहिता १ ९ ७ अध्यात्मपक्षे - हे साधक, निर्ऋतिदेवी साधिष्ठाना विद्या यं पाशमविनृत्यमविच्छेद्यं जननमरणा विच्छेदलक्षण बन्धनं ग्रीबासु जीवानां गलेष्वाबबन्ध तं ते बन्धनं पाशमायुषो जीवनकालस्य मध्यान्न इदानीमेव तथा निर्ऋतिरूपया विष्यामि मुचामि । अथ बन्धनमुक्तः सन्नतं पितुमन्नं सर्वानन्दरससाररूपं ब्रह्मात्मकमद्धि भक्षय ॥ देवतयाऽनुज्ञातो भगवदाभिमुख्ये जाते बन्धिकापि माया मुक्तौ ब्रह्मानन्दरसास्वादने साहाय्यमाचरति नृणां भवति महामहेश्वरी स्वीयया अविद्याशक्त्या बध्नाति विद्याशक्त्या च मोचयति । ' सैंषा प्रसन्ना वरदा ) मुक्तये ॥ सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ ' ( दु ० श ० १।५७-५८ भूत्य इति सप्तशत्युक्तः । अतस्तया प्रसूतोऽभ्यनुज्ञातः, नवीनप्रसूत इव पितुं परमभोग्यमत्ति या विश्वेश्वरी , तस्यं जगद्धात्री श्रीरूपिण्यै नमोऽस्तु । का सा? या महेश्वरी इदं सर्वं जगत् चकार कृतवती । स्थितिसंहारकारिणी, तस्यै नमः । पाशं दयानन्दस्तु - ' हे पते, निर्ऋतिरिव पृथिवी वा अहं ते तव ग्रीवासु कण्ठेषु यमविनृत्यममोचनीयं जीवनस्य अन्नस्य न धयं बन्धनमाबबन्ध आसमन्ताद् बध्नामि तं ते तवाप्यहं विष्यामि प्रविशामि । आयुषो sa विष्यामि । अथावयोर्मध्यात् कश्चिदपि नियमात् पृथङ् न गच्छेत् । यथाहमेतं पितुमन्नादिकमद्मि चकार तस्यै भूत्यं तथा प्रसूत उत्पन्नः सन् त्वमेनमद्धि । हे स्त्रि, या देवी त्वमिदं पतिव्रताधर्मेण सुसंस्कृतं । नहि नमो s हं करोमि इति, तदेतत् सर्वथाऽसम्बद्धम्, असङ्गतेः अस्य मन्त्रस्य दम्पत्योः संवादरूपत्वे मानाभावात् निर्ऋतिपदं पृथिवीतुल्य स्त्रीपरम्, ब्राह्मणेन अन्यथा व्याख्यानात् । सा पत्युः कण्ठेऽमोचनीयं पाशं सङ्गच्छते बध्नातीत्यत्रापि ? हिन्दी-न किचित् प्रमाणम्, सूत्रग्रन्थादिषु तदनुल्लेखात् । आयुषोऽन्तस्य न विष्यामीति कथमेतत् पदस्य भाषायामवस्थायाः साधनस्य अन्नस्य न समानाहं विष्यामीत्युक्तम्, तदप्यसङ्गतम्, षष्ठयन्तस्य विष्यामीत्यत्र कथं कर्तृत्वेनान्वयः? न च पाशे स्त्रियाः प्रवेशो दृश्यते । न च धर्ममय पदेनावयोर्मध्यात् एवं पाश इति कश्चिदपि वाच्यम्, तस्य ग्रीवासु बन्धनासम्भवात् । कथं वा तत्र स्त्रियाः प्रवेशः? मध्यादिति वेदबाह्यमेव । नियमात् पृथङ् न गच्छेदित्यादिकं सर्वं निर्मूलम्, वेदबाह्यत्वात् । यथाहं पितुमद्मि तथेत्यादिकमपि नात्यन्नमिति ' प्रसूत उत्पन्नस्त्वमद्धि ' इति किं केन श्लिष्यते । अनुत्पन्ने कथमदनप्रसक्ति:? न ह्यप्रसिद्धो भावार्थोऽपि मूलासम्बद्ध एव ॥ ६५ ॥

नि॒वेश॑नः स॒ङ्गम॑नो॒ वसू॑नां॒ विश्वा॑ रू॒पाभिच॑ष्ट॒ शची॑भिः ।

दे॒व इ॑वसवि॒ता स॒त्यध॒र्मेन्द्रो न त॑स्था॒ सम॒रे प॑थ॒नाम् ॥ ६६ ॥

होने वाले मन्त्रार्थ- - यजमान को उसके घर में स्थिर रूप से रखनेवाला, धन - सम्पत्ति को से देने संयुक्त वाला, सम्पूर्ण अवश्य आहवनीय, फल से युक्त, अग्निहोत्र आदि शुभ कर्मों का सम्पादक यह अग्नि देवता अपने अपने कर्मों होकर शत्रुओं के साथ प्रणीता, आग्नीध्र, धिष्ण्य आदि रूपों को प्रकाशित करता है । सविता देवता के समान प्रकाशित उसी प्रकार युद्ध करता है, जैसे कि इम्ब्र असुरों के साथ युद्ध में प्रवृत्त होता है ॥ ६६ ॥

नैर्ऋतीष्टको-' अनपेक्षमेत्य शालाद्वार्योपस्थानं निवेशन इति ' ( का ० श्र ० १७ २२६ ) | ब्रह्मयजमानाध्वर्यवो पधानदेशात् पश्चादपश्यन्तः शालां गच्छन्ति । अध्वर्युरेत्य शालाद्वारि भवं गार्हपत्यचितिरूपमग्निमुपतिष्ठत निवेशयति यजमानं स्वगृहे इति सूत्रार्थः । विश्वावसुगन्धर्वदृष्टा इन्द्रदेवत्या त्रिष्टुप् । अयमग्निर्निवेशनो प्रजापशुरूपाणां सङ्गमनः स्थापयतीति निवेशनः । अथवा निविशन्तेऽस्मिन् प्राणिन इति निवेशनः । तथा वसूनां सत्योऽवश्यम्भाविफलोपेतो सङ्गमयति प्रापयतीति सङ्गमनः । सङ्गच्छन्ते वसून्यत्र वेति सङ्गमनः । सत्यधर्मा

पृष्ठ 234

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 234 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१ ९ ८ शुक्लयजुर्वेद संहिता [ अ ० १२ ' धर्मोऽग्निहोत्रादिलक्षणो यस्यासौ । सविता देव इव यथा सूर्यो देवस्तथा विश्वा विश्वानि रूपा रूपाणि आहवनीय दक्षिणाग्न्यतिप्रणीताग्नीप्रधिष्ण्यादीन्यभिचष्टे सर्वतः पश्यति । इन्द्रः परमेश्वर्यवान् । अत एव पथीनां परिपन्थिनां समरे युद्धे न तस्थौ स्वयमागत्य न तिष्ठति, किन्तु तदीयनामग्रहणमात्रेण ते पलायन्ते । कथंभूतानि रूपाणि? शचोभिः स्वैः स्वैः कर्मभिर्युक्तानि । अथवा यश्चाग्निः पथीनां पथिभिः परिपन्थिभिः सह समरे संग्रामे इन्द्रो न इन्द्र इव तस्थौ स्थितवान् । यथेन्द्रो युद्धेऽविचलस्तिष्ठति तद्वत् । तं वयं स्तुम इति शेषः । पथिनुशब्दस्य मार्गेऽर्थे वृत्तिः । इह तु गौण्या वृत्त्या स परिपन्थिवाचकः । मार्गबोधके पथिन्शब्दे ' भस्य टे: ' ( पा ० सू ० ७ १८८ ) इति सूत्रप्रवृत्तिः न परिपन्थिवाचके । तस्मादनेन सूत्रेण टिलोपाभावात् षष्ठीबहुवचने छान्दसे दीर्घे पथीनामिति रूपम् । यद्वा पृथिवीलोकसंस्तुतोऽयमग्निः, निवेशनो निविशन्ते ऽस्मिन्निति निवेशनः वसूनां धनानां सङ्गमनः सङ्गच्छन्तेऽस्मिन्निति सङ्गमनः, यश्चायं विश्वा विश्वानि सर्वाणि रूपाण्याहवनीय दक्षिणाग्न्यादोनि शचीभिः स्वैः कर्मभिर्युक्तानीति शेषः, अभिचष्टे अभितः पश्यति । कथं पश्यतीति चेत्, सत्यधर्मा देवः सविता sa अवितथकर्मकारी सूर्यो देव इव । यश्च इन्द्रो न इन्द्र इव । पथीनां पन्थिभिः सह समरे संग्रामे तस्थो, तं वयं स्तुम इति शेषः । तत्र ब्राह्मणम्- ' प्रत्येत्याग्निमुपतिष्ठते । एतद्वा एतदयथायथं करोति यदग्नी सामिचित एतां दिशमेति तस्मा एवं निहतेऽहि साथै ' ( श ० ७ | २ | १ | १८ ) । उपोत्थानानन्तरं शालां प्रत्यागमनं गार्हपत्योपस्थानं च विधत्ते - प्रत्येत्येति । नैर्ऋतस्थानात् प्रतिनिवृत्त्य गार्हपत्यमग्निमुपतिष्ठते । उपस्थानस्य प्रयोजनमाह - एतद्वा इति । एतद्वा एतस्मिन् समये खल्वेतदयथायथमयथास्वमन्याय्यं करोति । किं पुनरेतदिति? तदाह-यदग्नाविति । अग्नौ गार्हपत्यचितिरूपे शालाद्वार्ये सामिचिते अर्धंचिते एतां दिशं नैर्ऋतीमेति गच्छति । अहिंसा हिंसापरिहाराय । तस्मै गार्हपत्यचितिरूपायाग्नये एतद् निह्नुत एव अयथायथकरणजनितमपराधं शमयत्येव । ' यद्वेवोपतिष्ठते । अयं वै लोको गार्हपत्यः प्रतिष्ठा वै गार्हपत्य इयमु प्रतिष्ठाऽथैतदपथमिवेति देतां दिशमेति तद्यदुपतिष्ठत इमामेवैतत्प्रतिष्ठामभिप्रत्यत्यस्यामेवैतत् प्रतिष्ठायां प्रतितिष्ठति ' ( श ० ७ | २ | १ | १ ९ ) । प्रकारान्तरेणाप्युपस्थानस्य कर्तव्यतामाह - यद्वेवेति । अयं वा इति । गार्हपत्यः पृथिवीलोकात्मकः खलु प्रतिष्ठात्मकश्च सः । इयमु वै पृथिव्यपि खलु प्रतिष्ठा आस्पदम् । अथैतदिदानीमपथमिवैति अमार्गेणैव प्रतिपद्यते यदेतां ऋतनीं दिशमेति गच्छति । उपस्थानस्य प्रतिष्ठितिहेतुतां प्रतिपादयति तद्यदिति । एतद् एतेनैवोपस्थाननेमा प्रतिष्ठारूपां पृथिवीमेवाभिप्रत्येति साम्मुख्येन प्रतिपन्नो भवति । प्रतिष्ठायामस्यां प्रतितिष्ठति च चिरं स्थिति लभत इत्यर्थः । ' निवेशनः सङ्गमनो वसूनामिति । निवेशनो ह्ययं लोकः सङ्गमनो वसूनां विश्वा रूपाऽभिचष्टे शचीभिरिति सर्वाणि रूपाण्यभिचष्टे शचीभिरित्येतद्देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनामिति यथैव यजुस्तथा बन्धुः ' ( श ० ७ २ १२० ) । विहिते शालाद्वार्योपस्थाने मन्त्रमनूद्य व्याचष्टे - निवेशन इति | आधाराधेययोरभेदोपचारेणाग्नेः पृथिवोलोकत्वमित्यभिप्रेत्याह - निवेशनो ह्ययं लोक इति । शेषं निगव्याख्यातम् । अध्यात्मपक्षे यः परमेश्वरोऽग्निः श्रीरामः, निवेशन: निविशन्ते सर्वे जनाः सर्वाणि वस्तूनि वाऽत्रेति । सर्वाश्रयः सर्वकारणत्वात् सर्वाधिष्ठानत्वात् । वसूनां धनानां सङ्गमतः प्रापकः । देवो दीप्यमानः सविता सूर्य sa | सत्यधर्मा सत्योऽवितथो धर्मो विश्वसृष्ट्यादिलक्षणो भक्तादिपालन लक्षणो मुमुक्ष्वादिभ्यः स्वात्मप्रतिपादन-लक्षणो वा कर्म यस्य स । यश्च इन्द्रो न इन्द्र इव पथोनां पथिभिः परिपन्थिभी रावणादिभिः सह समरे तस्थौ यश्च विश्वा विश्वानि सर्वाणि रूपा रूपाणि मनुष्यान् मनुष्योपलक्षितान् जीवान्, रूपशब्दो मनुष्यार्थको निघण्टौ, शचीभिः प्रज्ञाभिः, अभिचष्टे अभिपश्यति तं वयं स्तुम इति शेषः ।

पृष्ठ 235

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 235 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६६-६७ ] वेदार्थ पारिजातभाष्यसहिता १ ९९ दयानन्दस्तु -- ' यः सत्यधर्मा सविता देव इव ईश्वरतुल्यो निवेशनो यः स्त्रियां निविशते सङ्गमनः सम्यगान्ता शचीभिः प्रज्ञाभिः कर्मभिर्वा वसूनां पृथिव्यादीनां पदार्थानां विश्वा सर्वाणि रूपाणि, अभिचष्टे अभिपश्यति? इन्द्रो न सूर्य इव समरे संग्रामे पथीनां गच्छतां सम्मुखे तस्थौ स एव गृहाश्रमाय योग्यो भवति ' इति तन्न, असङ्गतेः श्रुतिसूत्रविरोधात् सङ्गमन इत्यस्य स्त्रियां गन्नेत्यर्थकत्वे मानाभावात् । नाद्यत्वे कश्चन पृथिव्यादीनां पदार्थानां सर्वरूपाभिद्रष्टा, तत्किं न कश्चनापि गृहाश्रभयोग्यः? धन्येयं सुमति:? धन्यमिदं च व्याख्यानम् ॥ ६६ ॥

सीरा॑ युञ्जन्ति क॒वयो॑ य॒गा वित॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑ सु॒म्न॒या ॥ ६७ ॥

मन्त्रार्थ - बुद्धिमान्, अग्निविद्या में कुशल, कृषि कर्म के मर्म को जानने वाले विद्वान् देवलोक में सुख प्राप्त करने के लिये हल और बैल को खेती के लिये जोतते हैं, युगों का भिन्न - भिन्न विस्तार करते हैं ॥ ६७ ॥

' दक्षिणामग्निश्रोणिमपरेण तिष्ठन् युज्यमानमभिमन्त्रयते सीरा युञ्जन्तीति ' ( का ० श्री ० १७/२/११ ) । चितेर्दक्षिणश्रोणेः पश्चिमे तिष्ठन्नध्वर्युः प्रतिप्रस्थात्रोत्तरांसं षड्भिर्दशभिश्चतुर्विंशत्या वा वृषैर्युज्यमान मोदुम्बरं ह द्वाभ्यामभिमन्त्रयत इति सूत्रार्थः । सीरदेवत्ये सोमपुत्र बुध द्वे गायत्री त्रिष्टुभौ । कवयः सीराः सोराणि लाङ्गलानि हलानि युञ्जन्ति सज्जीकुर्वन्ति वृषैर्योजयन्ति वा । तथा युगा युगानि पृथग् नाना एकैकं विस्तारयन्ति । कीदृशाः कवयः? धीरा धैर्मोपेताः, अनलसा इत्यर्थः । किमर्थम्? देवेषु देवताविशेषेषु सुम्नया, सुम्नमिति सुखनामा, सुम्नं सुखमिच्छतीति सुम्नायति, सुम्नायतीति सुम्ना तथा हेतुभूतया देवानां सुखं कर्तुमित्यर्थः । अथवा चतुर्थ्या यादेशः । देवानां सुखाय, सुखप्राप्तय इत्यर्थः । सीरकविशन्द्रयोर्वहुत्वं पूजार्थम्, तयोरेकत्वात् । युगानि तु बहूनि भवन्ति । तत्र ब्राह्मणम् -'प्रत्येत्य प्रायणीयेन प्रचरति । प्रायणीयेन प्रचर्यं सीरं युनक्त्येतद्वा एनं देवाः संस्करिष्यन्तः पुरस्तादन्नेन समार्धयस्तथैवनमयमेतत् संस्करिष्यन् पुरस्तादन्नेन समर्धयति सीरं भवति सेर हैतद्यत् सीरमिरामेवास्मिन्नेतद्दधाति ' ( श ० रारार ) । ' अथ प्रायगीयं निर्वपति ' ( श ० ७ २२1१ प्रायणीयशेषेण ) इति शालाद्वार्योपस्थानमभिधाय विहितस्य प्रायणीयहविषः प्रचारं विधत्ते - प्रत्येत्येति । प्रायणीयेन समर्धनद्वारा प्रचर्य प्रचारं कृत्वा सीरं हलं युनक्ति युञ्ज्यात् । विहिते सीरयोजने प्रजापतेः सीरलक्षणेनान्नेन चयनेन देवकर्तृकं संस्कारं प्रतिपादयति - एतद्वा एनमिति । एतद् एतस्मिन्नवसरे एनं पितरं प्रजापति वित्रस्तावयवं संस्करिष्यन्तो देवाः पुरस्तात् ततः प्रागेव सीरलक्षणेनान्नेन समृद्धमकुर्वन् । एवमेवायं यजमानोऽप्येनं प्रजापति चित्याग्निरूपेण संस्करिष्यन् ततः प्रागेव सोरलक्षणेनान्नेन समर्धयति । नामनिर्वचनेन तस्यान्नरूपता-माविष्करोति - सीरं भवतीत्यादिना । इरया अन्नेन सह वर्तत इति सेरम् एतदेव पारोक्ष्येण सीरमित्युच्यते । अतः कर्षण साधनत्वेन सीरस्य विधानादिरामन्नमेवास्मिन् संस्क्रियमाणे चित्याग्निरूपे प्रजापतौ, एतद् एतहि दधाति स्थापयति । ' औदुम्बरं भवति । ऊर्ध्वं रस उदुम्बर ऊर्जेवैनमेतद्रसेन समर्धयति मौञ्जं परिसीयं । त्रिवृत् ऊं तस्योक्तो बन्धुः ' ( श ०७२ / २ / ३ ) । सीरोपादानभूतं वृक्षविशेषं विधाय स्तौति - औदुम्बरं भवतीति उदतिष्ठत् ' बलकरमन्नम्, तदात्मको रस एव उदुम्बरवृक्षात्मना परिणतः, ' देवा वा ऊर्ज व्यभजन्त तत । उदुम्बर परिसीयं परितः ( ० ३ | २ | १ | ३३ ) इति श्रुतेः । सीरयोजनार्थानां रज्जूनां प्रकृतिद्रव्यं विधत्ते -- मौखमिति च सीरस्य योजनायोपयुज्यमानं दाम मौजं मुञ्जतृणैर्निमितं त्रिवृत् त्रिगुणं च कर्तव्यम् । मौञ्जस्य त्रिवृत्वस्य । स्तावकं ' सैषा योनिरग्नेर्यन्मुखः ' ( ० ६ | ३ | १ | २६ ) इत्यादिवाक्यं प्रागाम्नातमन्त्रानुसन्धेयमित्यर्थः

पृष्ठ 236

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 236 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०० शुक्लयजुर्वेद संहिता | अ ० १२ ' सोऽग्नेर्दक्षिणा ', श्रोणिम् । जघनेन तिष्ठन्नुत्तरस्या९९ सस्य पुरस्ताद्युज्यमानमभिमन्त्रयते सीरा युञ्जन्ति कवयो युगा वितन्वते पृथगिति ये विद्वा ७ सस्ते कवयस्ते सीरं च युञ्जन्ति युगानि च वितन्वते पृथग्धरा देवेषु सुनयेति यज्ञो वै सुम्नं धीरा देवेषु यज्ञं तन्वाना इत्येतत् ' ( श ० ७२ २ ४ ) | युज्यमानस्य सीरस्य स्थान विशेष विशिष्टमभिमन्त्रणं विधत्ते -- सोऽग्नेरिति । चेप्यमाणस्याग्नेर्यावान् भूभागः शौल्बेन मानेन चतुरस्री-कृतस्तस्य दक्षिणां श्रोणि जघनेन दक्षिणापरेण तस्य पश्चात् तिष्ठत् उसरांसस्याग्निक्षेत्रसम्बन्धिन उत्तरपूर्वकोणस्य पुरस्ताद् युज्यमानं सीरं युगबलीवर्दादिभिः सह रज्ज्वा बध्यमानं ' सीरा युञ्जन्ति ' इति मन्त्रद्वयेन अभिमन्त्रयते । अभिमन्त्रणं नाम मन्त्रेण स्मर्यमाणस्यार्थस्य ईक्षणपूर्वकमनुसन्धानम् । उक्तं हि - ' मन्त्रमुच्चारयन्नेव मन्त्रार्थ -त्वेन संस्मरेत् । सेक्षणं तन्मना भूत्वा स्यादेतदनुमन्त्रणम् ॥ एतदेवाभिमन्त्रणलक्षणं चेक्षणावधि । ' इति । अत्र सीरयोजनस्य तदभिमन्त्रणस्य च भिन्नदेशकर्तव्यकर्मतया यौगपद्याय कर्तृभेदोऽवसीयते । तत्राभिमन्त्रणस्य संस्कार्यंतया प्रधानत्वात् सीरयोजनमध्वर्युः कुर्यात्, तत्संस्कारात्मकमभिमन्त्रणं तु द्वितीयः प्रतिप्रस्थाता कुर्यात् । उक्तं हि सूत्रभाष्यकृता कर्कोपाध्यायेन - ' प्रतिप्रस्थाताभिमन्त्रयते सीरा युञ्जन्तीत्यनेन मन्त्रेण योजने तु प्रधानत्वादध्वर्युः ' ( का ० श्री ० १७।२।११ इत्यत्र ) इति । मन्त्रस्य पूर्वार्धमनूद्य व्याचष्टे - सीरा युञ्जन्तीति । ये विद्वांसस्ते कवय इति मन्त्रगतेन कविशब्देन सीरयोजनप्रकारं सम्यग्जानानास्तदभिज्ञा विवक्षिताः । सीरं चेति । मन्त्रगतस्य ' सीरा ' इत्यस्य व्याख्यानं सीरमिति । मन्त्रे सीरशब्दात् परस्य द्वितीयैकवचनस्य ' सुषां सुलुक् ' ( पा ० सू ० ७ १ / ३ ९ ) इत्याकारादेशः । युगानि चेति । ' शेश्छन्दसि बहुलम् ' ( पा ० सू ० ६ ११७० ) इति युगशब्दात् परस्य शेर्मंन्त्र लोप इत्यर्थः । तेन तत्रयुगा वितन्वत इति पाठः । उत्तरार्धमनूद्य व्याचष्टे - धीरा देवेष्विति । सुम्नशब्देन सुखमुच्यते । तद्धेतुत्वाद् यज्ञोऽपि सुम्नशब्दाभिधेयः । तदाह ब्राह्मणम् - यज्ञो वै सुम्नमिति । तस्मात्परस्य द्वितीयैकवचनस्य यादेशः । तदयं मन्त्रार्थः --- कवपस्तदभिज्ञाः सीरं च युञ्जन्ति कर्मणो योग्यं बध्नन्ति षड्वादशादिसंख्यानामनडुहां योजनाय पृथग् भेदेन युगानि च वितन्वते विस्तारयन्ति । किं कुर्वन्तः? देवेषु सुम्नमग्निचयनलक्षणं यज्ञं तन्वाना विस्तारयन्त इति । अत एव धीरास्तदुपायभूतया धिया युक्ता इति । अध्यात्मपक्षे - धीराः धियं बुद्धिमीरयन्ति प्रेरयन्तीति धीराः, देवेषु परमेश्वरे, पूजायां बहुवचनम्, मनो युञ्जन्ति योजयन्ति तदर्थं पृथग यमनियमादिसाधनानि वितन्वते विस्तृण्वन्ति । किमर्थम्? सुम्नया सुम्नं पारमार्थिकं ब्रह्मात्मकं सुखं प्राप्तुम् । क इव? कवयो यथा सुखार्थं सीराणि हलानि युगानि च बलीवर्दादिभिर्योजयन्ति तद्वत् । दयानन्दस्तु ' हे मनुष्याः, यथा धीराः कवयः सीरा हलानि युगा युगानि च युञ्जन्ति, सुम्नया सुम्नेन सुखेन देवेषु विद्वत्सु पृथग्वितन्वते विस्तृणन्ति तथा सर्वेरेतदनुष्ठेयम् ' इति, तदपि यत्किञ्चित्, यथा धीरा हलं युञ्जन्ति सुखाय तथैव सर्वैरपि कर्तव्यमित्यस्यानुक्तत्वात् निरर्थकत्वाच्च । साधारणहलप्रयोगस्य लोक-। यच्च भावार्थे - ' यथा योगिनो नाडीषु परमेश्वरं समाधियोगेनोपकुर्वन्ति, तथैव कृषिकर्मद्वारा प्राप्तत्वात् सुखोपयोगः कर्तव्यः ' इति, तदपि तथैव प्रकृतमन्त्रे तदर्थबोधकपदाभावात् । युञ्जन्तीति क्रियापदं सीराणि जन्तीति गतार्थमेव ॥ ६७ ॥

युक्त सीरा वियु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीज॑म् ।

ग॒रा च॑ अ॒ष्टिः सभ॑रा॒ अस॑नो॒ नेदी॑य इत्स॒भ्यः प॒क्वमेया॑त् ॥ ६८ ॥

पृष्ठ 237

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 237 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६८ ] मैदा पारिजात भाष्यसहिता २०१ मन्त्रार्थ - है कर्षकगण, तुम हकों को जोतो, हल के जुए, शम्या और योक्ता आदि का विस्तार करो । कर्षण संस्कार करते समय इस स्थान में ' या औषधी: ' इस मन्त्र का उच्चारण करते हुए चमस द्वारा संस्कृत श्रीहि आदि के बीजों का वपन करो । व्रीहि आदि अन्नसमूह पलवान् होकर पुष्ट हो, पके हुए भाग्य को शीघ्र ही दराती से काटकर हमारे घर में ले आओ ॥ ६८ ॥

हे कर्षकाः, सीरा लाङ्गलानि युनक्त योजयत । ' तप्तनतनयनाश्च ' ( पा ० सू ० ७ १/४५ ) इति थस्य तबादेशे श्नसोरल्लोपाभावे युनक्तेति रूपम् । युगा युगानि वितनुध्वं विस्तारयत । कृते कर्षणेन संस्कृते इह अस्मिन् योनी स्थाने बीजं व्रीह्यादिकं यूयं वपत । किञ्च तद्वीजं गिरा आशीर्वादरूपेण मङ्गलवाक्येन युक्तं बीजं वपतेति सम्बन्धः । श्रुष्टिस्तत्र निष्पन्नः स्तम्बो नोऽस्मदर्थं सभरा असत् फलभारयुक्तोऽस्तु । पक्वं च फलं धान्यं नेदीय इद् अन्तिकमेव अल्पकालनिष्पाद्यमेव सत् सृण्यः सृण्या लवनसाधनेन दात्रेण लूनं सद् आ इत्याद् अस्मत्समीपमागच्छतु । यद्वा गिरा ' ओषधीः ' ( वा ० सं ० १२७५ ) इत्यादिकया मन्त्रवाचा चकाराच्चमसेन च वपत । तथा वपत यथा श्रुष्टिरन्नजातिव्रह्मादिका सभरा आनमितफलाः भृञः ' सर्वधातुभ्योऽसुन् ' ( उ ४।१८८ ) इत्यसुन्प्रत्यये रूपसिद्धिः सान्तोऽयं स्त्रीलिङ्गशब्दः, भरा: फलपुष्टिः, तया सह वर्तमाना सभरा व्रीह्यादिजातिः फलव्रातपोषयुक्तास्तु, ' वाग्वै गीरन्न १ ९ श्रृष्टि: ' ( श ० ७१२/२/५ ) इति श्रुतेः । सृण्यो दात्रान् पक्वमौषधम् आ इयात् आगच्छेत् । अतिघनत्वादोषधीनां निकटतमं दात्रं भूमेश्च दापूर ( दानम् ) पक्वमौषधमागच्छेद् यथा तथा वपतेत्यर्थः । यद्वा हे यजमानपुरुषाः, सीरा हलानि युक्त योजयत विशेषेण योक्त्रप्रभृतिभिविस्तारयत । इह क्षेत्रे योनौ स्थाने कृते संस्कृते सति बीजं व्रीह्यादि पत निःक्षिपत । केन साधनेनेत्यपेक्षायामाह -- गिरा चेति । गिरा वाचा या ओषधीरित्यादिवक्ष्यमाणमन्त्ररूपया काराचमसेनापि वपतेत्यर्थः । श्रुष्टिर्वीह्यादिकान्नजातिः सभरा फलकृतेन भरसा भरणेन सह वर्तत इति समराः, अभिमतफलेति यावत् । तादृशी नोऽस्माकं यथा असद् भवेत्, इत्शब्दोऽनर्थकः, तथा सृण्योऽङ्कुशा-कारस्य लवनसाधनस्य दात्रस्य नेदीयोऽन्तिकतमं पक्वं व्रीह्याद्यन्नं यथा आ इयाद् आगच्छेत्, तथा वपतेति सम्बन्धः । ' सृणिरङ्कुशो भवति सरणात्, अङ्कुशोऽञ्चतेराकुखितो भवतीति वा ' ( नि ० ५।२८ ) इति यास्कः । तत्र ब्राह्मणम्- ' युक्त सीरा बि युगा तनुध्वमिति । युञ्जन्ति हि सीरं वि युगानि तन्वन्ति कृते योनो वपतेह बीजमिति वीजाय वा एषा योनिष्क्रियते यत्सीता यथा ह वा अयोनो रेतः सिञ्चेदेवं तद्यदकृष्टे वपति गिरा च श्रृष्टिः सभरा असत इति वाग्वै गीरन्न श्रुष्टिर्वेदीय इत्सृण्यः पक्वमेयादिति यदा वा अन्नं पच्यतेऽथ तत्सृण्योपचरन्ति द्वाभ्यां युनक्ति गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः ' ( श ० ७ २२५ ) । अयं द्वितीयोऽभिमन्त्रणमन्त्रः । पुरा परोक्षवदुक्तोऽत एवास्य पादेन प्रत्यक्षवदुच्यते । हे यजमानपुरुषाः, सीरा सीरं विभक्तेराकारः । युक्क्त बध्नीत । इरित्संज्ञकस्य युजे रोधादिकस्य लोटि मध्यमपुरुषबहुवचने तबादेशेन रूपम् | युगा युगानि वितनुध्वं विस्तारयतेति । द्वितीयपादमनूद्य व्याचष्टे - बीजाय वा इति । बीजवपनाय सीतारूपा योनिर्विधीयते । विपक्षे दोषमुद्भावयति - यथाह वा इति । अकृष्टेऽलिखिते यद् यदि पति तर्ह्ययोनी गर्भाशयादन्यत्र यथा रेतः सेकस्तथा व्यर्थं भवेदित्यर्थः । तृतीयपादनूद्य तन्मध्यपातिनोर्गीः श्रुष्टि-शब्दयोरर्थमाह - वाग्वै गीरन्नं श्रुष्टिरिति । ' स दक्षिणमेवाग्रे युनक्ति । अथ सव्यमेवं देवत्रेतरथा मानुषे षड्गवं भवति द्वादशगवं वा चतुर्विशतिगवं वा संवत्सरमेवाभिसम्पदम् ' ( श ० ७ रारा ६ ) । विहिते सीरयोजने दक्षिण सव्ययोर्धर्ययोः पौर्वापयं विधते स दक्षिणमेवाग्र इति । सीरयोजनेऽनडुहां वैकल्पिकं संख्यात्रितयं विधते - षड्गवमित्यादिना । षड़तु द्वादशमास चतुविशतिपक्षसम्पत्त्यात्मकः संवत्सरः । तमभिलक्ष्य त्रयोऽप्येते पक्षा उपपन्ना इत्यर्थः । २६

पृष्ठ 238

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 238 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०२ शुक्लयजुर्वेदसंहिता | अ ० १२ इव यूयं अध्यात्मपक्षे - हे धीराः, सीरा हलानि युगानि च रज्ज्वादिभिर्बलीवर्देयजयमानाः बीजं वपन्ति तथैव कर्षका यमनियमादिभिः यमै नियमैश्च मन इन्द्रियाणि च योजयत । यथा कृते कृष्टे योनौ क्षेत्रकर्षका गिरा वेदान्तवाक्येन, परिष्कृते मनसि वेदान्तश्रवणादिलक्षणं बीजं वपत । केन साधनेन? इत्याकाङ्क्षायामाह सभराः श्रुष्टिरभिमतफला चकारात् षड्विधैलिङ्गस्तात्पर्यनिर्धारणेन च वपत । यथा बीजवपनेन कर्षकाणां पक्वमन्नम् आ इयात् व्रीह्मादिका अन्नजातिः स्यात्, यथा च कर्षकाणां सृण्यो दात्रस्य नेदीयोऽन्तिकतमं असत् स्यात्, ययाऽङ्कुशस्य अन्तिकतमं तथैव भरसा पुष्ट्या सहिता सभरा श्रुष्टिर्ब्रह्मात्मव्याप्तिर्ब्रह्मसाक्षात्कृतिः, पक्वमन्तमिव मोक्षाख्यं फलं हस्तगतं भवति । नाडीर्वा युगा-दयानन्दस्तु - ' हे मनुष्याः, यूयमिह साधनानि वितनुध्वम् । सीरा हलादीन्युपकरणानि वा वपत । इहास्यां भूमौ बुद्धी वा न्युपासनयुक्तानि कर्माणि वा युनक्त । कृते कर्षिते योनौ क्षेत्रे अन्तःकरणे स्वसुविचारेण च सभराः बीजं यवादिकं सिद्धिमूलं गिरा च कृषियोगकर्मोपयुक्तया सुशिक्षितया वाचा सृण्यः क्षेत्रयोगानुगता समानधारणपोषणाः श्रुष्टिः शीघ्रं भवत । ' श्रृष्टीति शीघ्रनामसु ' ( नि ० ६ । १२ ) । याः तद् इद् एव एयात् ' यवादिजातय उपासनावृत्तयस्ताभ्यो यन्नेदीयोऽतिशयेनान्तिकम्, असद् अस्तु पक्वं भवेत् इति कथमर्थ इति, तदपि यत्किञ्चित् निर्मूलत्वात् । याः सृण्य इत्यस्य क्षेत्रयोगानुगता ॥ ६८ यवादिजानय ॥ इत्यनिरूपणात् । धर्मपरत्वं तु श्रुतिसूत्रसम्मतम्, ब्रह्मपरत्वमपि श्रुतिसम्मतम्

शुन सुफाला विकृ॑षन्तु भूमिं शुनं नाशा॑ अ॒भय॑न्तु॒ वा॒हैः ।

शुनोसोरा हविषा तोश॑माना सुपिप्प॒ला ओष॑धीः कर्तन॒स्मे ॥ ६ ९ ॥

आदि को मन्त्रार्थ - हे सुन्दर फलक वाले हल, तुम पृथ्वी को सुखपूर्वक जोतो । फलक वाले मनुष्य बैल हुए हमारी लेकर सुखपूर्वक विचरण करें । हे वायु और आदित्य देवताओं, आप लोग जल से भूमि को सींचते ओषधियों को सुन्दर फलों से भर दो ॥ ६ ९ ॥ ' आत्मनि कृषत्यनु परिश्रिच्छुन सुफाला इति प्रत्यचम् ' ( का ० श्री ० १७/२/१२ तस्याः ) प्रान्तं । परिश्रित्संलग्नं बलीवर्दानां हलेनात्मनि भूमि कृषेत्, न पक्षपुच्छयोः । हलस्याग्रे महतीं मौजी त्रिवृतं रज्जुं बद्ध्वा पुरुषा अग्रतो नयन्ति । स्कन्धे युगे बध्नीयात् । बलीवर्दास्त्वग्निक्षेत्राद्वहिरेव तिष्ठन्ति । सीरं च कर्षणवेलायामध्वर्यु शुनमिति तथा च चितिस्थाने परिश्रित्समीपे चतुभिर्ऋत्विग्भिर्दक्षिणपश्चिमोत्तरपूर्वेषु चतस्रः सीता: कृषति मन्त्रेणेति सूत्रार्थः । कुमारहारितदृष्टाः सीतादेवत्याश्चतस्रः । द्वे त्रिष्टुभौ तृतीया पङ्क्तिश्चतुर्थ्यनुष्टुप् । सुफालाः । सुशोभनाः फाला लाङ्गला ग्रस्थित लोहविशेषाः ' त्रिफला विशरणे ' इत्यस्मात् णिजन्तात् पचादेराकृतिगणत्वादच् ‘ फाल: सीरोपकरणोत्प्लवयोः फालमंशुके ' इति रामाश्रम्यामुद्धृतम् । भूमिं शुनं सुखं यथा स्यात्तथा, ' शुन मिति सुखं सुखनाम ' ( निघ ० ३ | ६ | ११ ), विकर्षन्तु कर्षणं कुर्वन्तु । कीनाशा हुलिनः कर्षका वाहैर्बलीवर्देः सह शुनं । शुनो यथा स्यात्तथा अभियन्तु अभितो गच्छन्तु प्रवर्तयतां वा । शुनासीरा हे शुनासीरो विभक्तेर्डाऽऽदेशः । तोशतिर्वधकर्मा । वायुः, सीर आदित्यः तावुभौ युवामेव क्षेत्रे कृष्टे हविषा उदकेन तोशमाना तोशमानौ सुपिप्पलाः शोभनफलोपेता ओषधीः अस्मे अस्मभ्यं कर्तन कुरुतम्, बीजावापं कुरुतमित्यर्थः । कुरुते ति वचनव्यत्ययः । तस्य तनबादेशः । ' कीनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनोः ' । ' शुनो वायुः । शू इत्यन्तरिक्षे | सीर आदित्यः सरणात् ' ( नि ० ९ ३५ ) इति यास्कः । पिप्पलं फलम् ।

पृष्ठ 239

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 239 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६ ९ ] वेदार्थ पारिजातभाष्यसहिता २०३ तत्र ब्राह्मणम् --- ' अथैनं विकृषति । अन्नं वै कृषिरेतद्वा अस्मिन् देवाः संस्करिष्यन्तः पुरस्तादन्नमदधु-स्तथैवास्मिन्नयमेतत्संस्करिष्यन् पुरस्तादन्नं दधाति ' ( श ० ७२/२७ ) । चित्यग्निक्षेत्रमध्ये विकर्षणं विधत्ते -अर्थनमिति । एनमात्मानम् । तदेव कर्षणमन्नात्मना स्तौति - अन्नं वा इति । अन्नं खलु कृषिस्तद्धेतुत्वात् । कृष्ट एव हि सम्यगन्नं पच्यते । कर्षणमेव तद्देवकर्तृकालाधनतया स्तौति -- एतद्वा इति । पुरस्तात् चयनात् प्रागेव देवाः संस्कारं करिष्यन्तोऽस्मिन्नात्मन्ये तदेतेन कर्षणेनान्नमेव स्थापितवन्तः, तथैवायं यजमानोऽपीति । स वा आत्मानमेव विषति । न पक्षपुच्छान्यात्मंस्तदन्नं दधाति यदु वा आत्मन्नन्नं धीयते तदात्मानमवति तत्पक्षपुच्छान्यथ यत्पक्षपुच्छेषु नैव तदात्मानमवति न पक्षपुच्छानि ' ( श ० ७२२८ ) । पक्षपुच्छानि विहायात्मन्येव कर्षणं विधत्ते स वा आत्मानमिति । तत् तेन विकर्षणेन आत्मन् आत्मनि अन्नमेव स्थापितवान् भवति । अथात्मन्यन्नाधानं स्तौति - यदु वा इति । आत्मनि यदेवान्नं धीयते स्थाप्यते तदेवान्नं पक्षपुच्छ. सहितमात्मानं रक्षति । पक्षपुच्छेष्वन्नाधानं त्वकिञ्चित्करमित्याह अथ यदित्यादिना । ' स दक्षिणार्धेनाग्नेः । अन्तरेण परिश्रितः प्राचीं प्रथमा सीतां कृषति शुन, सुफाला विकृषन्तु भूमि, शुनं कोनाशा अभियन्तु वारिति शुन शुनमिति यद्वै समृद्धं तच्छुन १७ समर्धयत्येवैनामेतत् ' ( श ० ७२ ९ ) । अथ परिश्रितां समीपे आत्मनो दक्षिणभागेऽन्तरतः प्रागायतां सीतां विधत्ते स दक्षिणार्धेनेति । परिश्रितोऽन्तरेण तत्संलग्नमेव चित्याग्नेरात्मनो दक्षिणार्धेन दक्षिणपार्श्वे प्रागपवर्गां प्रथमां सीतां लाङ्गलपद्धति कृषेत् । ' अन्तरान्तरेण युक्ते ' ( पा ० सू ० २ | ३ | ४ ) इति परिच्छिदे द्वितीया । मन्त्रं विधाय तन्मध्यपातिशुनशब्दस्य समृद्धार्थकता प्रथमसीतायाः समर्धनमाह -- शुनं सुफाला इत्यादिना । अध्यात्मपक्षे - शोभनफाला लाङ्गलायाः शुनं सर्वसुखकारक मैहिकामुष्मिकं मोक्षरूपं च सुखं यथा स्यात्तथा भूमि कृषन्तु ध्यानादीनि साधनानि हृदयभूमि विलिख्य मलापसारणं कुर्वन्त्वित्यर्थः । कीनाशा जनकादयः कर्षका यजमाना वाहैर्बलीवर्देः सह शुनं यथा स्यात्तथा अभियन्तु । सिद्धा मलविक्षेपादिनिवारणार्थं साधकैः समागच्छन्त्वित्यर्थः । शुनासीरा शुनासीरौ वाय्वादित्यो हविषोदकेन भूमि तोशमाना तोशमानी ओषधीः सुपिप्पलाः कर्तन कुरुतम् । ' अन्नं वै कृषि: ' इति पूर्वोक्तश्रुत्या अन्नरूपैव कृषिरुक्ता । तत एव चयनात् प्राग् आत्मन्यन्नाधानाय कर्षणेन देवा इव चयनाख्ययज्ञे इदानीन्तनोऽपि यजमान आत्मन्यन्नमादधाति । सीता लाङ्गलपद्धतिः, संवान्नस्य हेतुः सैव च कृषिः । शुनासीरौ वाय्वादित्यो अन्तर्भुतौ स्तो यस्मिन्नसो शुनासीर:, स शुनासीरः सीरध्वजो जनको वैदेहः । अर्शआद्यच् । तादृशेन कर्षणेनैव सर्वैश्वर्यपरिपूर्णाया भूमेः सकाशात् सीतां सर्वैश्वर्यजनयित्रीं लाङ्गलपद्धति तदुपलक्षितां सीतोपनिषदुक्तामनन्तसत्तासामान्यरूपां सम्पत्ति लक्ष्मी मोक्षलक्ष्मीमष्टसिद्धिनव निधिरूपां कल्पवृक्ष - चिन्तामणि - कामधेनुरूपां सस्यपत्रपुष्पफलपल्लवाढ्यां शाकम्भरीरूपां वेदरूपां प्रकृतिरूपां च प्रादुश्चक्रे । यद्वा साधको यमनियमादीन् वाहान् योजयित्वा अभ्यासलाङ्गलस्थसुमति-फालेन पुनः पुनः परिकृष्य परिष्कृता बुद्धिरूपायां भूमौ गुरूपदेशरूपं बीजं निक्षिपति । ततश्च सर्वैश्वयपितां रामोपेतां सीतां लभते । लोकेऽपि सैव लाङ्गलपद्धतिरूपेण सर्वेश्वयं दात्रीति । सुफालाः शोभनाः सीराग्रस्था लोहविशेषाः शुनं सुखं यथा स्यात्तथा भूमि विकृषन्तु । कीनाशाः शुनं सुखवाहैः सहाभियन्तु । हे शुनासोरा शुनासोरौ युवाम्, अस्मे अस्मभ्यम्, सुपिप्पला ओषधीः कर्तन कुरुतम् । लौकिकेन पुरुषार्थेनोपासिता कृष्यधिष्ठात्री सीतैव श्रियं प्रयच्छति । यद्वा शोभनबुद्धिरूपाः फाला वेदपुराणादिरूपां भूमिं शुनं सुखेन विकृषन्तु । कीनाशाः कृषीबलाः साधका वार्यमनियम रूपैर्बलीवर्वैः सह तत्राभितो यन्तु । हे शुनासीरों वाय्वादित्यो ज्ञानवैराग्यरूपौ हविषा एकाग्रतारूपेण जलेन भूमि तोशमानो सिञ्चन्ती उपदेशरूपा व्रीह्यादिका ओषधीर्ब्रह्मात्मसाक्षात्कार-फलवती: कुरुतमित्यर्थः ।

पृष्ठ 240

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 240 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०४ शुक्लयजुर्वेद संहिता [ ० १२ दयानन्दस्तु - ' ये कीनाशा: ये श्रमेण क्लिश्यन्ति ते कृषीबलाः । फालाः फलन्ति भूमि विस्तीर्णां कुर्वन्ति ते । वाहैः वहन्ति यैस्ते वाहास्तैर्वृषभादिवाहनैः सह वर्तमाना हलादिभिर्भूमि विकृषन्तु विलिखन्तु । शुनं सुखमभियन्तु प्राप्नुवन्तु । हविषा शुद्धघृतादिना तोशमाना सन्तुष्टिकरी तुष्टो वर्णव्यत्ययेन शः, शुनासीरो सुनो वायुः, सरत्यन्तरिक्षे इति सीर आदित्यः तावेव अस्मे अस्मभ्यं सुपिप्पलाः सुशोभनानि पिप्पलानि फलानि यासु ताः ओषधीर्यवादीन् कर्तन कुर्वन्तु । ताभिः सुशुनं च प्राप्नुयुः ' इति, तदपि यत्किचित, ' तोशमानी शुनासीरो ' इति द्विवचनासङ्गतेः । हिन्दीभाष्ये तु वायुसूर्यसदृशानि कृपिसाधनानीत्युक्तम् । तथा च कथं द्विवचनसङ्गतिः? कथं च साधनानां वायुसूर्य तुल्यत्वम्? कथं च तोषकत्वमिति? शुनासीरा इत्यत्र ' देवताद्वन्द्वे च ' ( पा ० सू ० ६।३: २६ ) इति पूर्वपदस्यानङ्ङादेशः । महीधरस्य पूर्व दीर्घवचनं चिन्तनीयमिति तत्तुच्छम्, अत्र पूर्वपदे आनङ्ङादेश एव महीधराभिमतः । यतस्तेन सूत्रमुद्धतम् - ' देवताद्वन्द्वे च ' इति । असत्यानङ्ङादेशे दोर्घासम्भवः । तथा लेखनं तु लेखकप्रमादादिति मन्तव्यम् ॥ ६ ९ ॥

घृ॒तेन॒ सीता॒ मधु॑ना॒ सम॑ज्यतां॒ विश्वदे॑वैरनु॑मता म॒रुद्भिः ।

ऊर्जेस्वती पयसा पिन्वमाना॒स्मान् स॑ते॒ पय॑सा॒भ्याव॑व॒त्स्व ॥ ७० ॥

मन्त्रार्थ -- सम्पूर्ण देवगण से अंगीकृत यह हल की फाल मधुर घृत, अर्थात् अमृतमय जल से सिंचित हो । दिशाओं को पूरित करती हुई सब प्रकार से अनुकूल बनो, परिपुष्ट होकर सतेज हों । हे फाल, इस प्रकार तुम अमृतमय हे फाल, तुम ओज, अन्न तथा दूध - दही, घृत आदि से खेत में उत्पन्न होनेवाली सम्पूर्ण ओषधियां अमृत जल से मल का संचय करके हमारी कामनाएं पूरी करो ॥ ७० ॥

इयं सीता लाङ्गलपद्धतिः मधुना मधुरेण, घृतेन उदकेन, समज्यतां संसिन्यताम् । अतः सा सीता विश्वैर्देवैर्मरुद्भिश्च अनुमता समीचीनेयमित्यङ्गीकृता सा पुनरूजस्वती रसवती पयसा जलेन पिन्बमाना आप्यायिता वर्तते । हे सीते, जलेनाप्यायिता त्वमस्मात् प्रत्यभ्यावृत्स्व अभित आवृत्ता भव । यद्वा पयसा पयोदधिघृतादिभिः पिन्वमाना दिशः पूरयन्ती सती पयसा दुग्धादिभिः सह अस्मदभिमुखा सती आवृत्ता अस्मदनुक्कुला भवेत्यर्थः । ववृत्स्वेति ' वृतु वर्तने ' इत्यस्मात् ' बहुलं छन्दसि ' ( पा ० सू ० २/४/७३ ) इति शप: श्लो लोटि रूपम् । उव्वटाचार्यरीत्या - घृतेन उदकेन मधूदकेन समज्यतां संसिच्यताम् । विश्वैः सर्वैर्देवै-रभ्यनुज्ञाता, मरुद्भिश्चानुज्ञाता । मरुतो ह वै वर्षास्वीशते । एवं क्षारोदकेन सिक्ता अभ्यनुज्ञाता मरुदादिभिः । शेषं पूर्ववत् । अत्र ब्राह्मणम् -'अथ जघनार्धेनोदीचीम् । घृतेन सोता मधुना समज्यतामिति यथैव यजुस्तथा बन्धु-विश्वैर्देवैरनुमता मरुद्भिरिति विश्वे च वै देवा मरुतश्च वर्षस्येशत ऊर्जस्वती पयसा पिन्वमानेति रसो वै पय ऊर्जस्वती रसेनान्नेन पिन्वमानेत्येतदस्मान् सीते पयसाऽभ्याववृत्स्वेत्यस्मान् सोते रसेनाभ्यावृत्स्वेत्येतत् ' ( श ० ७ २ २ १० ) । ततो दक्षिणश्रोणेरारभ्योदगपवर्गा पश्चिमपार्श्वे द्वितीयां सीतां विधत्ते - अथ जघनार्धे -नेति । तत्र मन्त्रं विधत्ते - घृतेनेति । तत्र प्रथमपादो निगदव्याख्यातः । द्वितीयपादेऽनुमतेतिशब्दस्य विश्वेदेवानां मरुतां च वृष्टेरीशितृत्वं प्रयोजकमिति व्याचष्टे - विश्वे च वं देवा इति । तृतीयपादे पयः शब्दस्य रसोऽर्थं इति ब्याचष्टे - रसो वै पय इति । तत्रैव पिन्यमानेति पदमध्याहृत्यान्नपदेनान्वेतीति व्याचष्टे - अन्नेन पिन्वमाने-त्येतदिति । ततश्च मन्त्रस्यायमर्थः -- सीता पश्चिमत उदीची क्रियमाणा लाङ्गलपद्धतिमंधुना घृतन मधुरेणोदकेन समज्यतां संसिध्यताम् । ' घृतमित्युदकनाम जिघर्तः सितिकर्मणः ' ( नि ० ७२४ ) इति हि यास्कः ।