वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 241–250

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 241–250

पृष्ठ 241

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 241 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०७०-७१ ] दार्थपारिजात भाष्यसहिता २०५ बलकररसोपेता तथा विश्वेदेवैर्वृष्टेरीशानैर्मरुद्भिश्च गणदेव र नुमताऽभ्यनुज्ञाता तथा पयसा रसेन ऊर्जस्वतो । एवं स्तुते हे सीते, त्वमस्मान पिन्वमाना सेचनं कुर्वती, अन्नेनेति शेषः । तथा श्रुतिरेव व्याचष्टे - अन्नेनेति अभ्यावृत्स्व अतिशयेनाभिमुखमावृत्ता भवेति । अध्यात्मपक्षे -- सीता कृष्युपलक्षिता चिद्रूपा परमैश्वर्याधिष्ठात्री जनकनन्दिनी , ऊर्जस्वती विश्वैः दिव्यान्नरसवती सर्वैर्देवैरनुमता पूजिता घृतेन आज्येन मधुना क्षोद्रेण च समज्यतां सिक्ता भवतु । हे सीते भगवति साधकानन्तर्बहिः भृत्वा त्वं पयसा दुग्धादिभिः पिन्वमाना दिशः पूरयन्ती ऋद्धिसिद्धिसमृद्धिज्ञानविज्ञानादिभिः पूरयन्ती अस्मदभिमुखमावृत्ता भव । जलेन दुग्धेन अत्र दयानन्दः - ' विश्वैः सर्वैः देवैरन्नादिकामयमानैर्विद्वद्भिर्मनुष्येरनुमताऽनुज्ञापिता सिक्ता सेविता वा पयसा सीता साययन्ति वा ऊर्जस्वती ऊर्जः पराक्रमसम्बन्धो विद्यते यस्याः सा पिन्वमाना क्षौद्रेण शर्करादिना वा समज्यतां क्षेत्रस्थलोष्टान् क्षपयन्ति यया सा सीता काष्ठपट्टिका घृतेन आज्येन मधुना अभ्यावर्तताम् ' इति, तदपि यत्किचित् संयुज्यताम् । सा सीताऽस्मान् घृतादिना संयोक्ष्यतीति पयसाऽभ्याववृत्स्व प्रयोजनानुक्तेः । कथं च सा जहा प्रायते? तादृश्याः काष्ठमय्याः सीताया घृतदुग्धक्षोद्रादिभि: संयोजनस्य? सीता च लाङ्गलेन क्रियमाणा रेखेव कथं च सा प्रार्थिता सती अस्मान् घृतादिभि: संयोक्ष्यति - ' प्राचीं प्रथमा ११ सीतां कृषति ' ' सीता लाङ्गलपद्धतिः ' ( २ ९ । १४ ) इत्यमरकोषवचनात् । तथा च श्रुतिः । सायते क्षीयते खन्यते भूमिर्यया ( श ० ७२२२ ९ ) इति । ज्ञायतेऽनया यद् हलेन क्रियमाणा रेखेव ॥ ७० सोता ॥ लाङ्गलगत्या सैब सीता भवति, तथैव सायणादिभिर्व्याख्यातत्वात् पव॑रों लाङ्गल पर्वोश्वत् सु॒शेव॑धि॒ सोम॒पत्स॑रु । तदु॒द्व॑पति॒ गार्भाव॑ प्रक॒व्य॑ च॒ प्रस्थाव॑द्रथ॒वाह॑णम् ॥ ७१ ॥

मन्त्रार्थ - वह पूर्वोक्त फाल संयुक्त, लाग, स्थूल पुष्ट अंग बाली गाय और गमन में यजमान के निमित्त भूमि को खोदने वाला सुखकारक हल अति वेगवान् समयं रथवाहक अश्व आदि को प्राप्त करता है ॥ ७ ९ ॥ भवन्ति तथा कर्षणं इदं लाङ्गलमुद्वपति उद्गमयति प्रापयतीत्यर्थः । उद्धृतानि प्रौढलोष्ठानि कर्षकः यथा सुष्ठु सेवितुं शक्यम् । कुर्यादित्यर्थः । कीदृशं लाङ्गलम्? पवीरवद् वज्रवत् तीक्ष्णधारोपेतम् ॥ सुशेवं सोमपित्सरु सोमं पिबतीति सोमपा अतितीक्ष्णत्वेन सहसा भूमिभेदात् कर्षकाणां नास्ति प्रयास इत्यर्थः खननशीलं वा । अनेन कर्षणेन यजमानस्तस्मिन् सोमपि यजमानरूपायां भूमौ त्सरणशीलं पापनाशकं प्रसिद्धम् । प्रव्यं प्रकर्षेण फलाधिकये सति गवादिकं यजमानः प्राप्नोत्विति शेषः । तत्र गौरविरित्युभयं रथवाहणं फर्बितुं योग्या प्रफर्वी, तां प्रकन्यं प्रथमवयस्कां कन्यां पीवरी पुष्टाङ्गीम् । प्रस्थावत् प्रस्थानसमर्थं तत्पूर्वोक्तं रथं वोढुं योग्यमश्वादिकं तदानीमेवैतत्सर्वं यजमानस्य सुलभं यदा कृषिः समृद्धा भवेत् । यद्वा । अत एव लाङ्गलं हलं गां धेनुमव छागविशेषं रथवाहणं रथवाहक मश्वादिकमुद्वपति पवीरं उद्गमयति फालं तदस्यास्तीति प्रापयति पवीरवत् लाङ्गलं गवादिप्रापकम् । कीदृशं लाङ्गलम्? पवीरवत् पविर्धारास्यास्तीति ( निघ ० ३।६।१७ ) । सोमपित्सरु फालसंयुक्तम् । सुशेवं सु शोभनं शेवं सुखं यस्मात् तत् । ' शेवमिति सुखनाम ' ' भृमृशीतृ-सोमपि यजमाने त्सरु त्सरति नाशयति पापमिति त्सह, ' त्सर छद्मगतो ' इति धातोः शीलार्थे पा ० सू ० वरिस्सरित निश्चनिमिमस्जिभ्य उ: ' ( उ ० ११७ ) इत्युप्रत्ययः । ' हलदन्तात् सप्तम्याः संज्ञायास ' ( ६।३१ ९ ) इति विभक्तेरलुक् । ' आतो धातोः ' ( पा ० सू ० ६ | ४ | १४० ) इत्माकारलोपे हलन्तत्वात् । यजमान-

पृष्ठ 242

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 242 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०६ शुक्लयजुर्वेदसंहिता | अ ० १२ निमित्तं भूमिं त्सरति खनति वा । यद्वा सोमः पीयतेऽनेनेति सोमपिश्चमसः, तस्य त्सरु निष्पादकं सोमपित्सरु | नहि लाङ्गलकर्म विना सोमचमसाः स्युः । ईदृशं लाङ्गलं गवादि गमयति । कीदृशीं गामवि च? प्रफव्यं प्रकर्षेण फर्वति फरफरध्वनि कुर्वन् गच्छतीति प्रफर्वी, ताम् । ' वा छन्दसि ' ( पा ० सू ० ६ | १ | १०६ ) इत्यमि पूर्वसवर्णदीर्घाभावे यणादेशः । युवतित्वादतिवेगवतीमित्यर्थः । तथा पीवरीं स्थूलां पुष्टाङ्गीम् । कीदृशं रथवाहनम्? प्रस्थावत् । प्रस्थानं प्रस्था गतिः, साऽस्यास्तीति प्रस्थावत् प्रयाणसमर्थम्, उत्कृष्टजवोपेत मित्यर्थः । तत्र ब्राह्मणम्- ' अथोत्तरार्धेन प्राचीम् । लाङ्गलं पवीरवदिति लाङ्गल रयिमदित्येतत् सुशेव, सोम पित्सवित्यन्नं वै सोमस्तदुद्वपति गामवि प्रफव्यं च पीवरी प्रस्थावद् रथवाहणमित्येतद्धि सर्वं सीतोद्वपति ' ( श ० ७२/२/११ ) अथोत्तरपार्श्वे प्रागपवर्गां तृतीयां सोतां विधत्ते - अथोत्तरार्धेनेति । सप्तम्यर्थे ' कर्तृकरणयोस्तृतीया ' ( पा ० सू ० २।३।१८ ) इति सूत्रस्थात् ' प्रकृत्यादिभ्य उपसंख्यानम् ' इति वार्त्तिकात् तृतीया । तत्र मन्त्रं विधत्ते - लाङ्गलमिति । तत्र प्रथमपादे भूमेः खननेन श्रीरूपान्ननिष्पादनद्वारा फालस्य साधनत्वाल्लक्षणया पवीरवद् रयिमदिति व्याचष्टे - लाङ्गलं रयिमदिति । द्वितीयपादे ' सोमपित्सरु ' इति पदैकदेश-भूतस्य सोमशब्दस्यान्नमर्थ इत्याह- अन्नं वै सोम इति । उत्तरार्धपरिष्ठितस्य पदार्थजातस्य सीतैवोद्गम-यित्रीत्याह -- एतद्धि सर्वं सीतोद्वपतीति । उद्वपति उद्गमयतीत्यर्थः । एतदनुसारी मन्त्रार्थस्तु - लाङ्गलं हलं पत्रीरवत् पविः धारा सा अस्यास्तीति पवीरं फाल, रो मत्वर्थे, छान्दसं दीर्घत्वम्, तदस्यास्तीति पवीरवत्, फालसंयुक्तमित्यर्थः । सुशेवं सुष्ठु शोभनं शेवयति सुखयति तत् सुशेवम् । ' शेवमिति सुखनाम ' ( निघ ० ३।६।१७ ) | सोमपित्सरु सोमं पिबतीति सोमपा यजमानः, तस्मिन् सोमपि यजमानेसरति पापादिकं नाशयतीति सोमपित्सरु | यद्वा सोममन्नं पाति रक्षतीति सोमपाः तस्मिन् वर्तमानमशनायादुःखं त्सरति नाशयतीति तथा । श्रुतेरभिमतमेतद् व्याख्यानम् । सोमपीत्यत्र ' हलदन्तात् सप्तम्याः संज्ञायाम् ' ( पा ० सू ० ६ / ३ / ९ ) इति विभक्तेरलुक् छान्दसः । यदित्थंभूतं लाङ्गलं तत् कर्तृ गवादिरथ-वाहनान्तमुद्रपति उद्गमयति । गां गोजातिम्, अवि मेषजातिम्, प्रफव्यं प्रथमयुवतिम तरुणीमित्यर्थः । फर्वतिर्गतिकर्मा | प्रकर्षेण फर्ध्या गम्या प्रफर्व्यः, छान्दसो ह्रस्वः, तां प्रफर्व्यम् । कीदृशीं ताम्? पीवरीम् उन्नतस्तनकपोलाम् । प्रस्था प्रस्थानम्, तद्वदुत्कृष्टजवोपेतं रथवाहणम् अश्वम्, रथं वहतीति रथवाहनं यानम् । अध्यात्मपक्षे - लाङ्गलं सीताप्रादुर्भाव साधनमुपासनं कर्म वा पवीरवद् बुद्धिरूपफालयुक्तं सुष्ठु सुखकरं सोम पित्सरु सोमपि यजमाननिमित्तं पूर्वोक्त वेदशास्त्ररूप भूमि त्सरति खनतीति सोमपित्सरु तद्रूपं तदुपासनं गां. कामरूपाम्, अवि रक्षणसाधनं दिव्यास्त्रादिकम् प्रथमयुवति पीवरीमुच्छूनस्तनकपोलां दृढां परमात्मबुद्धि वा प्रस्थावद् उत्कृष्टजवोपेतं रथवाहणमश्वं च उद्वपति उद्गमयतीत्यर्थः । सर्वसमृद्धिमुद्गमयतीति यावत् । दयानन्दस्तु – ' हे कृषीबलाः, यूयं यत् सोमपित्सरु ये सोमयवाद्योषधीः पालयन्ति तान् त्सरयति कुटिलं गमयति तत् । पवीरवत् पवीरः फालो विद्यते यस्मिन् तत् । सुशेवं सुष्ठु सुखकरं लाङ्गलं सीरा पश्चाद्भागे दाय संयोज्यं काष्ठं प्रफव्यं प्रफवितुं योग्यं प्रस्थानवत् प्रशस्तं प्रस्थानं यस्यास्ति तत् । रथवाहणं रथं वहति येन तत् । येन अविं रक्षणादिहेतुं पीवरीं यया पाययन्ति तां स्थूलां गां पृथिवीमुद्वपति उत्खनति, तद्यूर्य साध्नुत ' इति वदपि यत्किञ्चित् तद्यूयं साध्नुतेत्यध्याहारे मानाभावात् असङ्गतेश्च सोमरक्षकान् किं किमर्थं कुटिलं चालयतीत्यनुक्तेः । लाङ्गलं रथवाहनं कथं भवति? पोवरीमित्यस्य यया पाययन्ति तामिति द्रविडप्राणायामेन पृथिवी रूपाया गोविशेषणत्वेऽपि नार्थसङ्गतिः । पृथिव्याः स्थूलत्वबोधनस्यापि व्यावर्त्य -भावाद् वैयथ्यमेव ॥ ७१ ॥

पृष्ठ 243

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 243 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७२ ] इन्द्र यादवभ्यां पृष्णे वेदार्थपारिजातभाष्यसहिता मित्राय वरुणाय च । प्रजाभ्यः ओष॑धीभ्यः ॥ ७२ । २०७ मन्त्रार्थ - हे मनोरथ को पूरा करने वाली सोते! मिश्र, वरुण, इन्द्र, दोनों अश्विनीकुमार और पूषा देवता प्रजाओं के भोगार्थ और औषधियों के निमित्त अपेक्षित भोग का सम्पादन करें ॥ ७२ ॥

हे कामदुधे, काम्यन्त इति कामा भोगा मनोरथा वा, तान् दोग्धि प्रपूरयतीति कामदुधा लाङ्गलपद्धतिः, तत्सम्बुद्धौ । मित्राय सूर्याय वरुणाय जलाधिष्ठात्रे देवाय, इन्द्राय देवराजाय, अश्विभ्याम्, पूष्णे तन्नामकाय देवाय, प्रजाभ्य ओषधीभ्यः प्रजार्थमोषधिनिष्पत्त्यर्थं च काममपेक्षितं भोगं धुक्ष्व निष्पादय । अत्र ब्राह्मणम्- ' अथ पूर्वार्धन दक्षिणाम् । कामं कामदुधे धुव मित्राय वरुणाय च । इन्द्रायाश्विभ्यां पूष्णे प्रजाभ्य ओषधीभ्य इति सर्वदेवस्या वै कृषिरेताभ्यो देवताभ्यः सर्वान् कामान् धुक्ष्वेत्येतदित्यग्रे कृषत्यथेति । अत्यत तद्दक्षिणावृत् तद्धि देवत्रा ' ( श ० ७२१२ ) । पूर्वपार्श्वे दक्षिणापवर्ग चतुर्थी सीतां विधत्ते - अथ पूर्वार्धनेति । तत्र मन्त्र: - ' कामं कामदुधे ' ( वा ० सं ० १२/७२ ) इति । मन्त्रार्थस्तुक्त एव । इतिशब्दो मन्त्रसमाप्तिद्योतक । कुषेः सर्वदेवतासम्बन्धद्वारा मन्त्रोक्तदेवताभ्यः कामप्रपूरणमाशास्यमिति मन्त्रतात्पर्यमाह--सर्वदेवत्या वै कृषिरिति । इत्थं दक्षिणादिचतसृषु दिक्षु प्रादक्षिण्येन कृतं कर्षणमभिनयेन निर्दिश्य स्तौति - इत्यग्र इति । अथ अनन्तरम् । इति अनेन प्रकारेण । अथ जघनार्धेन इत्युक्तलक्षणेन पश्चिमत उदीचीं कृषति । अथ उत्तरार्धेन उत्तरतः त्राची कृषति । अथ पूर्वार्धन पूर्वस्यां दिश्युदग्दक्षिणायता सीतां कृषति । तदेवं सति दक्षिणावृत्प्रादक्षिण्येन आवृत्तिर्भवति । तत्खलु देवत्रा देवसम्बन्धिति कर्मणि योग्यं भवति । ' चतस्रः सोता यजुषा कृषति । तद्यच्चतसृषु दिवन्नं तदस्मिन्नेतद्दधाति तद्वै यजुषाऽद्धा वै तद्यद्यजुरद्धो तद्यत्रिमा दिशः ' ( श ०७२।२।१३ ) । उक्तं कर्षणं समन्त्रकमनूद्य स्तोति - चतस्र इति । स दक्षिणार्धेन इत्यादिना चतसृषु दिक्षु क्रमेण प्रोक्ताश्चतस्रः सीताः शुनं सुफाला विकृषन्तु भूमिमित्यादिना यजुषा यजुर्वेदपठितेन मन्त्रेण कृषति । प्रागादिषु दिक्षु यत् प्रसिद्धं कृष्टपच्यं व्रीहियवादिकमन्नमस्ति तदस्मिन्नग्नौ यजमाने वा एतेन कर्षणेन दधाति । यजुर्मन्त्रेण कर्षणं प्रकारान्तरेण स्तौति - वृद्वा इति । तत्खलु कर्षणं यजुषा क्रियते । यजुरिति यदस्ति तद् अद्धा वै अनुष्ठेयार्थप्रकाशकत्वात् प्रत्यक्षतो विस्पष्टम् । इमाः प्रागाद्या दिशश्च प्रत्यक्षत्वाद् विस्पष्टतराः, अतो यजुषो दिशां चाद्धात्वसाम्याद् दिक्षु यजुषा कर्षणं युक्ततरमिति भावः । ' तिस्रस्तिस्रः सीताः कृषति ' ( श ० ७ | २ | २ | १५ ), ' द्वादश सीतास्तूष्णीं कृषति ' ( श ० ७/२/२/१६ ) इत्यादिभिः सीतापदेन लाङ्गलपद्धतय एव विहिताः । सीतापदेन लोष्ठादिनाशक काष्ठ विशेषादिग्रहणं दयानन्दस्यासङ्गतमेव । एतच्चानुपदमेव तदर्थालोचने आलोच्यते । अध्यात्मपक्षे - हे सीतोपलक्षिते कामप्रपूरिके, मित्रादिभ्यः कामं धुक्ष्व पूरय । दयानन्दस्तु - ' हे कामदुघे पाचिके, त्वं भूमिरिव सुसंस्कृतेरन्नैमित्राय सुहृदे वरुणाय उत्तमविदुषे च अतिथये इन्द्राय परमैश्वर्ययुक्ताय अश्विभ्यां प्राणापानाभ्यां पुष्णे पुष्टिकराय प्रजाभ्यः स्वसन्तानेभ्य ओषधीभ्यः सोमयवादिभ्यः काममिच्छां धुव पिपूहि ' इति, तदपि निरर्थकमेव, असङ्गतेः " पाचिकाया ओषधीनामिच्छा-पूरकत्वासम्भवात् । प्राणापानयोरिच्छापूरकरवे जाते कृतमन्येषासुल्लेखेन । यश्च पुष्टिकरस्तस्य कामपुरकत्वं कथं तस्यां सम्भवति? तस्मात् सीतैव कामदोग्ध्री । लाङ्गलपद्धत्याः पारम्पर्येण तदधिष्ठात्र्याः सीताया अपि परमैश्वर्यात् सुतरां सर्वकामपूरकत्वम् ॥ ७२ ॥

पृष्ठ 244

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 244 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२०८ शुक्लयजुर्वेदसंहिता [ २०१२ विम॑च्यध्वमघ्न्या देवयाना अग॑न्म॒ तम॑सस्पा॒रम॒स्य ज्योतिरापाम ॥ ७३ ॥

मन्त्रार्थ -- देवताओं के निमित्त कार्य करने वाले मारने के अयोग्य हे बलीवदं! जगत् की स्थिति के लिये तुम कृषि कार्य का सम्पादन करो । तुम्हारी कृपा से हम क्षुधा, पिपासा आदि से उत्पन्न हुए दुःख के पार को प्राप्त हो गये हैं, हम ज्योतिस्वरूप परमात्मा को प्राप्त हुए हैं ॥ ७३ ॥

' अहो विमुच्य विमुच्यध्वमिति, पशुवदुत्सृज्य दक्षिणाकालेऽध्वर्यवे ददाति ' ( का ० श्री ० १७ / २ / २१-२२ ) । बृषान् हलाद्विमोच्य पशुवदित्यैशानीं दिशं प्रति विसृजत्यध्वर्युः । यजमानश्च सुत्यायां ससीरांस्वानध्वर्यवे ददातीति सूत्रार्थः । विमोचने मन्त्रः | आर्षी गायत्री पादानियमात् । हे अघ्न्या अहन्तव्या गावो बलीवर्दाः, यूयं विमुच्यध्वम् । मुचेः कर्मकर्तरि यक् । लोटि रूपम् । युगानि मुचत । देवयाना देवेभ्यो देवार्थं यानं कृष्याद्युद्यमो येषां ते तथोक्ताः । यद्वा देवयान मार्गहेतुभूताः कर्मद्वारा तत्प्रापका यूयमस्य क्रियात्मकस्य तमसः परं पारं तीरं वयमगन्म गताः स्मेति संवदध्वमिति शेषः । यद्वा क्षुत्पिपासाद्युद्भूतस्य दुःखस्य पारं समाप्ति प्राप्ताः स्मेति । अतो वयं ज्योतिः सुखाभिव्यञ्जकं यज्ञलक्षगं परमात्मरूपं वा ज्योतिः । आपाम प्राप्तवन्तः । तत्र ब्राह्मणम् -'अथैनान् विमुञ्चति । आस्वा तं कामं यस्मै कामायनान् युङ्क्ते विमुच्यध्वमध्या इत्यन्या हैते देवा देवयाना इति देव २१ ह्येभिः कर्म करोत्यगन्म तमसस्पारमस्येत्यशनाया वै तमोऽगन्मास्या अशनायायै पारमित्येतज्ज्योतिरापामेति ज्योतिर्ह्यप्नोति यो देवान् यो यज्ञमर्थनानुदीचः प्राचः प्रसृजति तस्योक्तो बन्धुस्तानध्वर्यवे ददाति स हि तैः करोति तांस्तु दक्षिणानां कालेऽनुदिशेत् ' ( श ० ७ २२।२१ ) | कर्षणानन्तरमनडुहां विमोचनं विधत्ते -- अर्थनानिति । यस्मै खलु प्रयोजनाय एनान् पूर्वं युक्तवान् तं कामं कर्षणलक्षणं प्रयोजनमाप्त्वा लब्ध्वा तेषां विमोचनं युक्तमिति शेषः । विमोचने मन्त्रं विधाय व्याचष्टे -विमुच्यध्वमिति । ' अघ्न्या इति गोनाम ' ( निघ ० २ | ११ | १ ) । एते खल्वनड्वाहो देवत्रा देवेष्वघ्न्या अहन्तव्याः, देव-सम्बन्धिनो गाव इत्यर्थः । देवं ह्येभिरिति । एभिरनडुद्भिर्देवं देवसम्बन्धि कर्षणलक्षणं कर्म करोति । तस्माद्देवान् याति प्राप्नोत्येभिरिति व्युत्पत्या देवयाना इत्यनडुद्विशेषणं युक्तमिति भावः । द्वितीयं पादमनूद्य तत्रत्यतम: -शब्दस्य विवक्षितमर्थमाह- अगमेति । अशनस्येच्छा अशनाया क्षुरपीडा । ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३ १ ८ ) इति क्यचि ' अशनायोदन्य ' ( पा ० सू ० ७ | ४ | ३४ ) इति निपातनात् ' क्यचि च ' ( पा ० सू ० ७ | ४ | ३३ ) इति ईत्वाभावे, ' अप्रत्ययात् ' ( पा ० सू ० ३ ३३१०२ ) इत्यकारप्रत्यये ' अशनाया ' इति रूपम् । स्पष्टमन्यत् । ज्योति-हत्यादि । यो हि हविः प्रदातृत्वेन यज्ञं तत्रत्यान् देवांश्च प्राप्नोति एष हि ज्योतिर्ज्योतिर्मयं स्वर्गादिभोगयोग्यं शरीरमाप्नोति, सुकृतां वा एतानि ज्योतींषि ' ( तै ० सं ० ५ | ४ | १ | ३ ) इति श्रुतेः । अतोऽत्र मन्त्रे ज्योतिरावाम इति ज्योतिराप्तिप्रतिपादनं युक्ततरमित्यर्थः । उत्तरपूर्वस्यां दिशि तेषामनडुहां प्रस्थापनं विधत्ते - अथैनानुदीच इति । अथ विमोचनानन्तरमेवानडुह उदीच उदङ्मुखान् प्राचः प्राङ्मुखांश्च कृत्वा प्रसृजति प्रस्थापयति । तत्स्तावकं प्रागाम्नातं वाक्यशेषमतिदिशति तस्योक्त इति । ' एषा होभयेषां देवमनुष्याणां दिग् यदुदीची प्राची ' ( श ० ६/६ २/३ ) इत्यादि । तेषां दक्षिणाकाले दानं विधत्ते - तानध्वर्यव इति । अध्वर्योरेव सम्प्रदानत्वे कारणमाह - स होति । अध्वर्युहि तैरनडुद्भिः कर्षणं करोति, तस्मादध्वर्यवे दानं युक्तमित्यर्थः । तस्मिन् दाने कालविशेषं विधत्ते - तांस्त्विति । ऋत्विक्परिक्रयहेतवो दातव्या गावो दक्षिणाः । तासां यः कालो माध्यन्दिन-सनात्मक स्तस्मिन् तानननुहोऽनुदिशेष दद्यात् । अध्यात्मपक्षे - हे अया गाव इन्द्रियाणि यूयं देवयाना देवस्य कार्यब्रह्मणः परब्रह्मणश्च प्राप्तिसाधन-भूताः कर्मानुष्ठानद्वारा श्रवणादिद्वारा तत्तद्ब्रह्मप्राप्तिहेतुत्वात् । विमुच्यध्वम् उपरता भवत । त्वत्प्रसादाद्

पृष्ठ 245

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 245 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७३-७४ ] arj पारिजातभाष्यसहिता २० ९ वयं तमसो s विद्यातत्कार्यलक्षणस्य तमसः पारमगन्म प्राप्ताः । ज्योतिरपरब्रह्मलक्षणं परब्रह्मलक्षणं वा आपाम प्राप्तवन्तः । दयानन्दस्तु - ' हे मनुष्याः, यथा यूयमघ्न्या देवयाना याभिर्देवान् दिव्यान् भोगान् प्राप्नुवन्ति ताः प्राप्य संस्कृतान्यन्नानि भुक्त्वा रोगेभ्यो विमुच्यध्वम्, तथा वयमपि विमुच्येमहि । यथा यूयं तमसः पारं रात्रेः पारं प्राप्नुत तथा वयमगन्म । यथा यूयमस्य सूर्यस्य ज्योतिः प्रकाशं व्याप्तुत तथा वयमप्यापाम ' इति, तदपि वेदमन्त्राणां लोकायतिकत्वापादनमेव, तादृशसम्बोधने मानाभावात्, ' अघ्न्या ' ' ' इति नव गोनामानि ' ( निघ ० २।११ ) इति निघण्टुविरोधाच्च, श्रुति सूत्रविरोधाच्च, देवपदस्य दिव्यभोगा अर्थ इत्यस्य साधयित्-मशक्यत्वाच्च । लोके तु लौकिका एव भोगा इति कुतो भोगानां दिव्यत्वम्? मनुष्ययोनेभिन्ना देवयोनिरिति ' भूमिकाभागे देवतावादप्रसङ्गे प्रोक्तत्वाच्च । सुसंस्कृतान्यन्नानि देवयाना इत्यपि निर्मूलमेव । वाचकलुप्तोपमा-लङ्काराश्रयणमपि निर्मलमेव । अस्य सूर्यस्य ज्योतिः पशवोऽपि प्राप्नुवन्त्येवेति तदाम्रेडनं व्यर्थमेव ॥ ७३ ॥

स॒जुरब्द अय॑वोभिः स॒जूरु॒षा अरु॑णोभिः । स॒जोष॑सावश्विना वसोभिः स॒जूः सूर एतंशेन सर्वैश्वानर इडया घतेन स्वाहा ॥ ७४ ॥

मन्त्रार्थ - जलों का वाता, मास - अधिमास आदि अवयवों के साथ विद्यमान संवत्सर हमारे ऊपर प्रीतियुक्त हों । प्रातःकाल को अविष्ठात्री उषा देवता अरुण वर्ण वाली गायों से प्रीति युक्त हो, अश्विनीकुमार चिकित्सा कार्य से,. सूर्य घोड़े से और वैश्वानर अग्नि पृथ्वी और घृत से प्रोति युक्त हों । इन सब देवताओं के निमित हम श्रेष्ठ आहुतियाँ देते हैं ॥ ७४ ॥

' पञ्चगृहीतेनोद्गृह्णन्नभिजुहोति सजुरब्द इति ' ( का ० श्र ० १७ ३२ ) । तदानीं संस्कृतेम जुह्वा पश्चगृहीतेन आज्येन कृष्टात्ममध्यस्थापितकुशस्तम्बे सुचमूर्ध्वा कुर्वन् जुहोति सजुरब्द इति मन्त्रेणेति सूत्रार्थः । लिङ्गोक्तदेवत्यं यजुः । ब्राह्मी अनुष्टुप् छन्दः । अब्द: अपो जलानि ददातीत्यब्दः संवत्सरः । स हि अपो ददाति । अयवोभिः यवा अर्धमासाश्च अथवा मासाश्च अयवसः तैः । छान्दसं निपातनम् । सजूः जोषणं जुट् प्रीतिः । सह जुषा वर्तत इति सः । समाना जुड्वा यस्यासौ सजूः । जुषतेः सम्पदादित्वाद् भावे क्विप् । मासार्धमासः प्रीतियुक्तो भवत्विति शेषः । तथा उषाः प्रातरधिष्ठात्री देवता अरुणीभिः अरुणवर्णाभिः गोभिः सः प्रीतियुक्ता भवतु | अश्विना अश्विनौ देवभिषजो दंसोभिः कर्मभिश्चिकित्सादिभिः सजोषसौ प्रीतिमन्त भवताम् । सूरः सूर्यः एतशेन अश्वेन सजूस्तुष्टो भवतु । वैश्वानरोऽग्निरिडया पृथिव्या सजूः प्रीतो भवतु, तस्य पृथिव्यधिष्ठानत्वात् । गौर्वागन्नं च इडाशब्देनोच्यन्ते । अत्र तु इडाशब्देन पृथिव्येव ग्राह्या । कथङ्कारमेतेषां सजोषणम्? इत्युच्यते -- घृतेन स्वाहेति । एभ्योऽब्दादिभ्यो घृतेन स्वाहा सम्पद्यतामिति शेषः । इदं घृतमेतेभ्यः सुहुतमस्त्विति भावः । अत्र ब्राह्मणम् —'अथ दर्भस्तम्बमुपदधाति । एतद्वै देवा ओषधीरुपादधत तथैवैतद्यजमान ओषधीरुपधत्ते ' ( श ० ७२ ३ १ ) । अथ कुशस्तम्बोपधानं विधत्ते - अथ दर्भस्तम्बमिति । एकमूलोऽनेकशाखः स्तम्ब इत्युच्यते । दर्भाणां स्तम्बो दर्भस्तम्बः । तमात्ममध्ये पक्षपुच्छातिरिक्त चितिमध्ये तूष्णीमुपदधाति स्थापयेदित्यर्थः । तदुपधानं देवोषध्युपधानद्वारा स्तौति - एतद्वा इति । ' यद्वेव दर्भस्तम्बमुपदधाति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायत उभयं वेतदन्नं यद्दर्भा आपश्च ह्येता ओषधयश्च या वै वृत्राद्वीभत्समाना आपो धन्व दृभन्त्य उदायंस्ते दर्भा अभवन्यद्द्द्भन्त्य उदायंस्तस्माद्दर्भास्ता हैताः शुद्धा मेध्या आपो वृत्राभिप्रक्षरिता यद्दर्भा २७

पृष्ठ 246

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 246 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१० शुक्लयजुर्वेदसंहिता [ अ ० १२ स्तौति - यद्वेवेति । य़ यदु दर्भास्तेनोषधय उभयेनैवैनमेतदन्नेन प्रीणाति ' ( श ० ७ २ ३ २ ) । तदेव प्रकारान्तरेण सर्वस्मै कृत्स्नाय अन्नाय तदुप-एष आहवनीयोऽग्निश्चीयते, एष जायत उत्पद्यत एव । स एष जायमानोऽग्निः वेतदिति । उभयविधत्वमेव विवृणोति -भोक्तुं जायते । नामनिर्वचनद्वारा दर्भाणामुभयविधान्नत्वमुच्यते - उभयं ' तस्मादु हैका आपो बीभत्साञ्चक्रिरे ' या वै वृत्रादिति । ' वृत्रो ह वा इदं सर्वं वृत्वा शिश्ये ' इत्युपक्रम्य जुगुप्साश्रयत्वाद्विकुर्वाणा ( श ० १।१।३।४-५ ) इत्यादिना प्रथमकाण्डे दर्भोत्पत्तिरुक्ता । या आपो वृत्रासुराद्वीभत्समाना ' ( नि ० ५।५ ) धन्व अन्तरिक्षं दृभन्त्यो गुम्फनं कुर्वन्त्य उदायन् उद्गतवत्यः, ' धन्वान्तरिक्षम् । धन्वन्त्यस्मादापः ङीप् ' ( पा ० सू ० ४ ११५ ) इति यास्कोक्तेः । दृभन्त्य इति तौदादिकात् ' हभी ग्रन्थे ' इति धातोः शतरि ' ऋनेभ्यो इति ङीपि प्रथमाबहुवचने । ते दर्भा अभवन् आप एव दर्भत्वमाप्ता इत्यर्थः । ' ते ' । इति ताः प्रशंसति- पुंल्लिङ्गत्वं दर्भापेक्षम् । यस्माद् दृभन्त्यो गुम्फनं कुर्वन्त्य उद्गतवत्यः, तस्माद्दर्भणादापो दर्भा दर्भपदवाच्याः स्पष्टयति – आपोऽवृत्राभि-ता ता इति । एता आपः शुद्धाः शुद्धिसाधनभूताः, तथा मेध्या मेधार्हाः । तदेव तेन कारणेन ओषधयः । प्रक्षरिता इति । न वृत्रादभिप्रक्षरिता अभिप्रस्रुताः किन्तु उ पुनर्यद् यस्माद् दर्भाः प्रीणाति । दर्भाणामोषधित्वमन्यत्राप्याम्नायते - ' ओषधयो बहि: ' इति । एनं चित्याग्निमेतद् एतेनोभयविधेनान्नेन ' सीतासमरे । वाग्वै सीतासमरः प्राणा वै सीतास्तासामय १७ समयो वाचि वै प्राणेभ्योऽन्नं धोयते सर्वेणैवास्मिन्ने-मध्यतो मध्यत एवास्मिन्नेतदन्नं दधाति तूष्णीमनिरुक्तं वै तद्यत्तूष्णी ११ सर्वं वा अनिरुक्त कृष्टाः सीता समृच्छन्ते तदन्नं दधाति ' ( श ० ७ २३३ ) । तदुपधानं क्षेत्रे विधाय स्तौति - सीतासमर इति । सोतासमरस्याध्यात्मं सङ्गच्छन्ते यत्रासौ सोतापमरः क्षेत्रमध्यप्रदेशः, तत्रोपदध्यादिति शेषः । अधियज्ञिकस्य कथमित्यपेक्षायां तदुपपादयति-मुखरूपतामाह - वाग्वा इति । वागायतनत्वाद् वाङ्मुखं खलु सीतासमरः नाडीरूपाणां । सीतानामयं मूखलक्षणः प्राणा वा इति । प्राणाः खलु सीता नाड्यः, तत्सञ्चारितत्वात् । तासां सङ्गच्छन्ते । ततः समयः सङ्गमः, सम्यगयन्ते सङ्गच्छन्ते यत्र सोऽयं समयः । मुखे हि सर्वे प्राणा नाड्यः स्थाप्यते, मुखेनैव हि किमित्याकाङ्क्षायामाह - वाचि वा इति । वाचि वै मुखे एव प्राणेभ्योऽर्थेऽन्नं धीयते -- मध्यत इति । सप्तम्यर्थे जग्धेऽन्ने प्राणानामाप्यायनस्य सद्भावात् । सीतासमरेऽपि मध्यदेश उपदध्यादित्याह -तसिल् । अस्मिन् चित्याग्नौ मध्य एव एतद् एतेनान्नं स्थापितवान् भवति । उपधाने मन्त्राभावमाह तूष्णीमिति । अन्यत् स्पष्टम् । रसो ' अथैनमभिजुहोति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अम्नाय जायते सर्वस्यो अस्यैष यदाज्यमपांच ह्येष ओषधीनां च रसोऽस्यैवैनमेतत्सर्वस्य रसेन प्रीणाति यावानु वै रसस्तावानात्मानेनैवैन- मात्रा तत्सर्वेण प्रीणाति पञ्चगृहोतेन पञ्चचितिकोऽग्निः पञ्चर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य । अभि-तावतैवैनमेतदन्नेन प्रीणाति ' ( श ० ७ १२ १३ १४ ) | अभिहोमं विधत्ते --- अथैनमभीति । एनं दर्भस्तम्बम् विश्वस्य रसः । होमे आज्यं द्रव्यं विधातुं स्तौति - सर्वस्यो अस्यैष इति । यद् आज्यं सर्पिः, एषोऽस्य सर्वस्य । रसत्वोप-रसत्वमेवोपपादयति- अपां च हीति । गोभिरपां पानादोषधीनां च भक्षणाद् हि आज्यमुत्पद्यते विधत्ते-पादनस्य प्रयोजनमाह - अस्यैवैनमिति । एनं चित्याग्नि प्रीणाति तर्पयति । आज्यस्य चितिः पञ्चगृहीतत्वं । अयवोभिरिति पञ्चगृहीतेनेति । पञ्चगृहीतत्वं स्तौति पश्चचितिकोऽग्निरित्यादिना । ' सजूरब्द इति पुरीष, सजूः पुरीष, सजूरुषा इति चितिररुणीभिरिति पुरीष " सजोषसावश्विनेति चितिर्द ११ चितिः सोऽभिरिति स्वेति पुरीष ११ हेति सूर इति चितिरेतशेनेति पुरीष सर्वेश्वानर इति चितिरिडयेति पुरीषं घृतेनेति त्रयोदशधा विभज्य चिति: ' ( श ० ७ २२३८ ) । अभिहोमं बहुधा प्रशस्य तत्र मन्त्रं विधाय व्याहृतिरूपेण मन्त्रार्थ: - अब्दः संवत्सरः, चितिपुरीषात्मना स्तौति - सजूरब्द इति चितिरित्यादिना । तदनुसारेणायं

पृष्ठ 247

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 247 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७४-७५ ] वेदार्थपारिजातभाष्यसहिता २११ अयवोभिर्मासैरधंमासश्च सजूः समानजोषणः । यवा अयवाश्चार्धमासा मासाश्चोच्यन्ते, अर्धमासा एव वा, ' पूर्वपक्षा वै यवा अपरपक्षा अथवा ' ( श ० ८ | ४ | २ | ११ ) इति श्रुतेः । उषा रात्रेरपरः कालः | अरुणीभिररुण-वर्णाभिर्गोभिः सजुः समानजोषणः । ' अरुण्यो गाव उषसम् ' ( निरु ० १११५ ) । अश्विना नासत्यौ देवी दंसोभिः कर्मभिः सजोषतौ समानजोषणौ । सूरः सूर्यः । एतशेन हरितवर्णेनाश्वेन सजूः । ' एतश इति श्रश्वनामसु पठितः ' ( निघ ० १।१४।१० ) । वैश्वानरो विश्वनरनेता अग्निः, इडया अग्नाय्या, घृतेन आज्येन हविषा च सजः । स्वाहा इदमाज्यं सुहुतमस्तु । अध्यात्मपक्षे - यथा अब्दादयो मासार्धमासादिभिः प्रीतिमन्तः, तथैव स्वाहा परमेश्वरे स्वात्मसमर्पणरूपो ज्ञानयोग घृतेन स्नेहेन भक्त्या सजूः प्रीतिमान् इति शेषः । भवतीत्यर्थः । दयानन्दस्तु - ' हे मनुष्याः, वयं सर्वे स्त्रीपुरुषा यथाऽवयोभिमिश्रिताभिश्चितैरन्नः क्षणादिभिः कालावयवैः सजूः सह वर्तमानोऽब्दः संवत्सरोऽरुणीभी रक्तप्रभाभिः सजूः उषाः प्रभातो दंसोभिः कर्मभिः सजोषसावश्विनौ एतशेनाश्वेनेव व्याप्तिशीलेन वेगवता किरणनिमित्तेन वायुना सजूः संयुक्तः । सूर्य इडया अन्नादिरूपया पृथिव्या घृतेन जलेन स्वाहा सत्येन वागिन्द्रियेण सजुर्वैश्वानरश्च वर्तते तथैव प्रीत्या वर्तामहे ' इति, तदपि यत्किचित् तथैव प्रीत्या वर्तामह इत्यस्याप्रामाणिकत्वात्, स्वाहापदस्य सत्यार्थत्वे मानाभावाच्च, श्रुतिसूत्रविरोधाच्च ॥ ७४ ॥

या ओष॑ध॒ः पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियुगं पुरा ।

मने॑न॒ ब॒भ्रुणा॑म॒हश॒तं धामा॑नि स॒प्त च ॥ ७५ ॥

मन्त्रार्थ --- सृष्टि के आदि में जो ओषधियां वसन्त, वर्षा और शरद ऋतु में पहले उत्पन्न हुई थीं, वे ही ओषधियां अब भी जगत् की उत्पत्ति और पालन में समर्थ हैं । पाक से पीली हुई इस तरह की ओषधियों की संख्या सैकड़ों है, उनमें व्रीहि, गोधूम आदि सात प्रधान ओषधियों के नाम मैं जानता हूँ ॥ ७५ ॥

' या ओषधीरिति तृचैर्वपत्युदपात्रवत् ' ( का ० श्री ० १७।३।७ ) | या ओषधीरित्यारभ्य पञ्चभिस्तृचः, अर्थात् पञ्चदशभिर्ऋग्भिरुदचमसोन्नयनवत् सर्वोषधं वपति । एकैकचमसस्थाने एका ऋक् । धान्यानि च चमसेनैव वपेन्न तु हस्तेन, औदुम्बरेण चमसेन चतुःस्रक्तिनेति चमसस्य वपनकरणत्वेन श्रवणादिति सूत्रार्थः । इत आरभ्य यो अस्मानभिदासतीत्यन्ता सप्तविंशतिरनुष्टुभ ओषधिदेवत्याः । तत्र पूर्वाः पञ्चदश ऋचोऽथर्वपुत्र-भिषग्दृष्टाः । शेषा मुञ्चन्तु मेत्याद्या द्वादश बन्धुदृष्टा, अनारभ्याधीताः । पादानां न्यूनाधिक्ये व्यूहाधिक्ये कार्ये । त्रियुगं त्रयाणां युगानां समाहारस्त्रियुगम् । युगशब्दः कालवाची । त्रिकालं वर्षाशरद्वसन्तेवि कालत्रय-मुद्दिश्य पुरा सृष्ट्यादौ देवेभ्यः सकाशाद् ओषधय पूर्वाः प्रथमा भाविनीभ्य आद्या जाता उत्पन्नाः । किमर्थं जाता:? इत्याकाङ्क्षायामाह - देवेभ्य इति । देवेभ्य ऋतुभ्यः, ' ऋतवो वै देवाः ' ( श ०७२ / ४।२६ ) इति श्रुतेः । ऋतव ओषधियुक्ताः कर्तव्या एतदर्थम् । बभ्रूणां प्राणिभरणसमर्थानां परिपाकेन पिङ्गलवर्णानां वा तासामोषधीनां शतं धामानि स्थानभेदान् जातिभेदान् असंख्यान् सप्त च विशेषाकारेण ग्राम्यान् आरण्यांश्च सप्त धान्यभेदान् अहं मनै नु मन्ये जानामि । मनै इति मन्यतेर्लोटि आत्मनेपदे उत्तमैकवचने शपि ' एत ए ' ( पा ० सू ० ३ / ४ / ९ २ ३ ) इत्यकारे रूपम् । यद्वा संवत्सरोपलक्षितमेकैकं स्थानम् । ' शतायुर्वे पुरुषः ' इति श्रुत्यनुसारेण वर्षात्मकानि शिरःस्थानि मुखङ्नासा श्रोत्राख्यानि सप्त स्थानानि, ' य एवेमे सप्त

पृष्ठ 248

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 248 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१२ शुक्लयजुर्वेदसंहिता [ अ ० १२ शीर्षन् प्राणास्तानेतदाह ' ( श ० ७७२२४।२६ ) इति श्रुतेः । नराणां शतवर्षपर्यन्तमिन्द्रियाणामोषधिभिस्तप्यं-माणत्वात् तासां तत्स्थानत्वम् । तत्र ब्राह्मणम्- ' या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरेत्यृतवो वै देवास्तेभ्य एतास्त्रिः पुरा जायन्ते वसन्ता प्रावृषि शरदि मनै नु बभ्रूणामहमिति सोमो वै बभ्रुः सौम्या ओषधय औषधः पुरुषः शतं धामानीति यदि शतायुः शतार्घः शतवीर्य एतानि हास्य तानि शतं धामानि सप्त चेति य एवेमे सप्त शीर्षन् प्राणास्ता नेतदाह ' ( श ० ७ २ ४ २६ ) | अथ बीजावापमन्त्रपदानामनुवादपूर्वकमभिप्रायं व्याचष्टे -या ओषधी-रित्यादिना । देवेभ्यस्त्रियुगं पुरा इत्यस्य मन्त्रभागस्याभिप्रायमाह - ऋतवो वै देवा इति । या ओषधीः ओषधयः सृष्ट्यादा पन्नास्ता देवेभ्य ऋतुभ्यो वसन्तादिभ्यः पुरा पूर्वं वसन्तप्रावृटशरदामादिषु संवत्सरमध्ये त्रियुगं त्रिकालं जायन्त इत्यर्थः । उत्तरार्धमनूद्य व्याचष्टे - मनै नु बभ्रूणामिति । अमृतरूपेण सर्वेषां भरणाद् बभ्रुः सोमः । ओषधयोऽपि सोमदेवताकत्वादत्र बशब्दाभिधेयाः, तादृगोषधिपरिणामविशेष एव पुरुषो मनुष्य-शरीरमिति तत्तादात्म्यम् । अयमर्थ: --- बभ्रूणां सौम्यानामोषधीनां सम्बन्धीनि वक्ष्यमाणानि, अहं नु अद्य मन मन् जानामि । कानि पुनस्तानि मन्तव्यानीत्याशङ्कय चतुर्थपादं व्याचष्टे --- शतं धामानीति । ओषधीपरिणामस्य पुरुषस्य शरीरस्य यदिदं शतसंवत्सरं जीवनम् एवं शतसंख्याका अर्घाः पूजाप्रयोजनानि यानि च तन्निष्पादकानि शतसंख्याकानि वीर्याणि सामर्थ्यानि, एतानि खल्वस्य ओषधिविकारस्य शरीरस्य तानि मन्त्रोक्तानि शतसंख्याकानि धामानि ' धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति ' ( निरु ० ९ १२८ ) इति धामशब्दस्य त्रयोऽर्था यास्केनोक्ताः । ' जन्मान्यत्राभिप्रेतानि ' इत्यपि तत्रैव यास्केनोक्तम् । सप्त चेति । य एवेमे सप्तसंख्याकाः शीर्षन् शीर्षण सम्बद्धाश्चक्षुः श्रोत्रादिरूपाः प्राणाः सप्त चेत्येतत् तानेव प्राणान् प्रतिपादयतीत्यर्थः । एवमुक्तलक्षणानि शतसंख्याकानि धामानि सप्त शीर्षण्यान् प्राणांश्च ओषधीनां सम्बन्धित्वेन जानामीत्यन्वय इति श्रीसायणाचार्यः । अध्यात्मपक्षे - तानि सर्वाण्यहं मने ब्रह्मविवर्तत्वाद् ब्रह्मत्वेन मर्न मन्ये जानामि, अधिष्ठानसत्तातिरिक्तायाः efore त्ताया अनङ्गीकारात् । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' अहं या ओषधीः सोमाद्या देवेभ्यः पृथिव्यादिभ्यस्त्रियुगं वर्षत्रयं पुरा पूर्वा जाता प्रसिद्धाः, या भ्रूणां भरणानां धारकाणां रोगिणां शतं शतसंख्याकानि सप्त च धामानि मर्मस्थानानि व्याप्नुवन्ति ता नु मनं शीघ्रं जानीयाम् ' इति तदपि यत्किश्चित् त्रियुगमित्यस्य वर्षत्रयार्थकत्वे मानाभावात् धामानीत्यस्य स्थानार्थकत्वेऽपि मर्मस्थानानि व्याप्नुवन्तीत्यर्थकत्वे मानाभावात् पूर्वोक्तश्रुतिव्याख्यानविरोधाच्च ॥ ७५ ॥

श॒तं व अम्ब धार्मानि स॒हस्र॑मु॒त नो॒ ८

रुहः ।

कृत ॥ ७६ ॥

अध शतक्रत्वो यु॒यमि॒मं मे॑ अग॒दं मन्त्रार्थ - हे माता के समान हमारा पालन करने वाली औषधियों, तुम्हारे असंख्य हैं । तुम्हारे बल से जगत् के सारे कार्य होते हैं, अतः हे अनन्तकार्थसाधक यजमान को क्षुधा, पिपासा आदि कः प्रकार के रोगों से रोग से पीड़ित न हो ॥ ७६ ॥

सेकड़ों नाम हैं और तुम्हारे अंकुर औषधियों, तुम सब मेरे इस विमुक्त करो, अमोद हमारा यह यजमान किसी प्रकार के

पृष्ठ 249

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 249 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७६-७७ ] वेदार्थ पारिजात भाष्यसहिता २१३ हे अम्ब! मातृस्थाना ओषधयः, वो युष्माकं धामानि जातिभेदाः क्षेत्राणि वा शतं सन्ति । उत अपि च वो युष्माकं रुहः प्ररोहा अङ्कुराश्च सहस्रं सन्ति । शतसहस्रशब्दाभ्यामपरिमितत्वमुपलक्ष्यते । अधा अथैवं बहुभेदोपेतत्वेऽपि सति शतसङ्ख्याका ऋतवो याभिर्युष्माभिर्निष्पाद्यन्ते तादृश्यः शतक्रत्वः शतं क्रतवः कर्माणि याभिस्ताः शतक्रत्वः । शतक्रतुशब्दात् प्रथमाबहुवचने जसि ' जसि च ' ( पा ० सू ० ७ | ३ | १० ९ ) इति प्राप्तस्य गुणस्य छान्दसत्वादभावे यणि रूपम् । शतक्रत्वो यूयं मे मदीयमिमं यजमानमगदं क्षुत्पिपासादि रोगरहितं कुरुत । ' अधा ' इत्यत्र ' निपातस्य च ' ( पा ० सू ० ६ । ३ । १३६ ) इति संहितायां दोर्घः । उव्वटाचार्यास्तु -हे ओषधयः! अश्वमातरः शतक्रत्वो युष्माकं धामानि जन्मानि उतापि च सहस्रं वो युष्माकं रुहो विरोहणानि सन्ति । अधा अथैवं सति हे शतक्रत्वो बहुकर्माणो यूयमिमं प्रजापति यजमानं वा मे सम्बन्धिनमगदमव्याधि कृत कुरुत । करोतेश्छान्दसत्वात् शपो लुकि कृतेति रूपम् । अत्र ब्राह्मणम् -'शतं वो अम्ब धामानि । सहस्रमुत वो रुह इति यदिद शतधा च सहस्रधा च विरूढा अधा शतक्रत्वो यूयमिमं मे अगदं कृतेति यमिमं भिषज्यामीत्येतत् ' ( श ० ७ | २ | ४ | १७ ) । द्वितीयस्या ऋचः पूर्वार्धमनूद्य व्याचष्टे - शतं वो अम्बेति । इदम् इदानीं शतधा शतप्रकारेण सहस्रधा सहस्रप्रकारेण च far उत्पना ओषधयो दृश्यन्त इति यदेतद् एतेनार्धन प्रतिपाद्यत इत्यर्थः । अम्ब हे मातः ओषधयः, वो युष्माकं धामानि स्थानानि शतं शतसंख्याकानि । उतशब्दोऽप्यर्थे । तथा वो युष्माकं रुहः प्ररोहा अंकुरा अपि सहस्रं सहस्रसंख्याका इति । द्वितीयार्धमनूद्य तात्पर्यमाह - अधा शतक्रत्व इति । अधशब्दो देती । हे शतक्रत्वः शतकर्माण ओषधयः । यूयं मदीयमिमं पुरुषमगदं व्याधिरहितं कृत कुरुत । यमिममातुरमिदानीमहं भिषज्यामि चिकित्सामि । ' भिषज् चिकित्सायाम् ' इति कण्ड्वादीयधातो रूपम् । चिकित्सकोऽनेन मन्त्रेण आतुरस्य ओषधीः प्रार्थयेदित्यपि सिद्धयति । अध्यात्मपक्षे - हे अम्ब कृष्युपलक्षितसोमादिसर्वोषध्यधिष्ठात्रि सीते मातः शतमनन्तानि वो युष्माक-मोषधिरूपाणां धामानि स्थानानि क्षेत्राणि वा सन्ति, उतापि सहस्रं सहस्राण्यनन्तानि वो विरोहणानि । अध अतो हे शतक्रत्व: शतकर्माणो यूयमिमं मे मदीयं शिष्यं यजमानमातुरं वा अगदं ज्वरादिरोगरहितं कामादिदोषरहितं वा कृत कुरुत । दयानन्दस्तु - ' हे शतक्रत्वः! शतं क्रतवः प्रज्ञा: क्रिया येषां तत्सम्बुद्धी, तादृशा मनुष्या यूयं यासां शतमुत सहस्रं रुहो नाड्यङ्कुराः सन्ति, ताभिर्म मम इमं देहमगदं रोगरहितं कृत कुरुत । अध स्वयं वो युष्माकं देहान गदान् कुरुत । यानि वोऽसंख्यानि धामानि गर्भस्थानानि तानि प्राप्नुत । हे अम्ब, त्वमप्येवमाचर ' इति, तदपि निरर्थकम् अज्ञस्यैवं वचनानुपपत्तेः, विज्ञस्य स्वयमेव तथाचरणसम्भवेन तादृग्वचनायोगात्, अम्बामात्रस्य तथावगमाभावेन तथोक्त्ययोगाच्च, अध्याहारबाहुल्याच्च ॥ ७६ ॥

ओष॑धीः प्रति॑मोदध्वं पुष्प॑वतोः प्र॒सुव॑रीः ।

अश्वा॑ इव स॒र्जत्व॑रीव॒रुधः पारयि॒ष्णवः॑ ॥ ७७ ॥

मन्त्रार्थ - - हे औषधिगण, पुष्पों से युक्त फल उत्पन्न करने वाली, घोड़ों के समान वेग से गमन करने वाली, अनेक प्रकार की व्याधियों का निवारण करने वाली, फलपाकान्त के सिवाय बहुत काल तक कर्मपरायण तुम सब हमारे ऊपर प्रसन्न रहो, अश्व के समान वेग से शीघ्र पुष्पवान् और फलवान् बनो ॥ ७७ ॥

पृष्ठ 250

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 250 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१४ शुक्लयजुर्वेद संहिता [ अ ० १२ ओषधीः हे ओषधयः, यूयं प्रतिमोदध्वं प्रहृष्यत । कीदृश्यो यूयम्? पुष्पवतीः पुष्पवत्यः पुष्पैरुपेताः । पुनः कीदृश्यः? प्रसूवरीः प्रसुवते जनयन्ति फलानोति प्रसूवरीः प्रसूवर्यः फलप्रसववत्यः । प्रोपसृष्टसूतेः ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२ / ७५ ) इति वनिपि ' वनोर च ' ( वा ० सू ० ४ १1७ ) इति ङोपि रान्तादेशे च रूपम् । अश्वा इव संग्राम्या अश्वा इव सजित्वरीः सह जयन्ति तच्छीला इति सजित्वरीः सजित्वर्यः । यथा अश्वाः संग्रामे जयशीलास्तथा फलपाकपर्यन्तत्वाद् जयशीला भूत्वा वीरुधो विविधं व्याधि रुन्धन्तीति वीरुधो ' ( पा ० सू ० ६ । ३ । १३७ ) इति दीर्घः । अथवा विविधं विभिन्नव्याधिनिवारिकाः । ' अन्येषामपि दृश्यते रोहन्तीति वीरुधः । न्यङ्क्वादिगणे ' वीरुत् ' शब्दपाठान्निपातनाद् दीर्घत्वमिति पदमञ्जरी । अथवा विविधं रोचत इति वोरुत् । ' नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ' ( पा ० सू ० ६ | ३ | ११६ ) इति दीर्घः । पारयिष्णवः पारयन्ति तच्छीला इति पारयिष्णवः । फलपाकानन्तरमपि बहुकालं यावत् कर्मपरायणशीलाः । भवताऽस्माकमिति शेषः । ' णेश्छन्दसि ' ( पा ० सू ० ३ | २ | १३७ ) इति पार तीर कर्मसमाप्तौ ' इति चौरादिकात् पारधातोरिष्णुचि रूपम् । तत्र ब्राह्मणम् – ' ता एता एकव्याख्यानाः । एतमेवाभि यथैतमेव भिषज्येदेतं पारयेत्ता अनुष्टुभो बीजवपनार्था भवन्ति वाग्वा अनुष्टुब्वागु सर्वं भेषज सर्वेणैवैनमेतद्वेषजेन भिषज्यति ' ( श ० ७।२।४।२८ ) । ता एता ऋच एकव्याख्यानाः समानव्याख्यानाः । अतो न पृथग् व्याख्यायन्त इत्यर्थः । अध्यात्मपक्षे हे ओषधयः, यूयं प्रतिमोदध्वं प्रहृष्टा भवत, युष्मदोयपत्रपुष्पफलादीनां भगवति समर्पणात् । पुष्पवतीः प्रशस्त भगवत्समर्पणादि पुष्पवत्यः प्रसूवरोः प्रशस्तफलवत्यः । अश्वा इव भगवत्समर्पित-पुष्पफलवत्त्वेन परमपदफलविजयित्रयो वीरुधो विविधरोगनाशयित्र्यः पारयिष्णवो जीवानां संसारपारतारयित्र्यः, भवतेति शेषः । अनेनैव मन्त्रेण भक्ता भगवति पुष्पाणि पुष्पमालाश्च समर्पयन्ति । दयानन्दस्तु – ' हे मनुष्याः, यूयमश्वा इव सजित्वरीः शरीरैः संयुक्ता रोगान् जेतुं शीला वीरुधः सोमादीन् पारयिष्णवो रोगजदुःखेभ्यः पारं नेतुं समर्थाः पुष्पवतीः प्रशस्तपुष्पवतीः सुखप्रसाविका ओषधीः संसेव्य प्रतिमोदध्वम् ' इति, तदपि तुच्छम् हे मनुष्या इति सम्बोधने मानाभावात् श्रुतिसूत्रादिविरोधाच्च, पारयिष्णव इति पदस्य कर्मतयाऽन्वयायोगात् ॥ ७७ ॥

--ओषधीरिति मातरस्तद्वौ

देवी॒रुप॑ब्रुवे ।

स॒नेय॒मश्वं गां वास॑ आ॒त्मानं तव॑ पुरुष ॥ ७८ ॥

मन्त्रार्थ - हे जगत् का निर्माण करने वाली, दिध्य गुणों से युक्त सम्पूर्ण ओषधियों, आगे बताई गई विधि से हम तुम सबसे प्रार्थना करते हैं । हे यज्ञपुरुष, आपके प्रसाद से मैं अश्व, गौ, वस्त्र आदि से सम्पन्न हो रोगों से रहित शरीर को प्राप्त कर सकूं, यज्ञपुरुष से की गई इस प्रार्थना को ओषधियां सावधानी से सुनें । ७८ ॥ ओषधीः, हे ओषधयः, यूयमितीत्थमशन - दान - व्याध्यपगमादि कुर्वन्त्यो मातरो जगन्निर्मात्र्यो हे देव्यः, वो युष्मान् देवीरित्यमुना प्रकारेण तत् प्रसिद्धं मदभीष्टमुपब्रुवे उपसङ्गम्य प्रार्थये । हे पुरुष यज्ञपुरुष, तब कृपया अश्वं तुरङ्गं गां घेनुं वास उत्तमवस्त्रमात्मानं सुशरीरं च सनेयं सम्भजेयम् । यज्ञपुरुषो यदश्वादिकृते प्रार्थ्यते तदोषधिभिरनुमन्यतामित्यर्थः । यद्वा - हे मातरः मातृसमाना देवीर्देवाः, इतिशब्दोऽत्र हेत्वर्थः । यस्मादोषधी -मोषधयस्तस्माद्वो युष्मान् उपब्रुवे प्रार्थये । कथं प्रार्थनमिति तदुच्यते - हे पुरुष, तव त्वदीयं सनेयं सह नेतव्यमश्वं तुरङ्गं गां पशुं वासो वस्त्रं स्थानं वा आत्मानं शरीरमेतत्सर्वमोषधयोऽभिवृद्धि प्रापयन्त्वित्यह मोषधीः प्रार्थये । हे ओषधयो यूयं यजमानाश्वादिकं वृद्धि प्रापयतेत्यर्थः ।