वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 251–260

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 251–260

पृष्ठ 251

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 251 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म०७८-७९ ] वेदार्थपारिजातभाष्यसहिता.२१५ अध्यात्मपक्षे - हे ओषधीः! ओषधय ओषधिरूपाः, वो युष्मान् देवीर्दीप्यमाना उपब्रुवे प्रार्थये । कथं प्रार्थनमिति तदाह - हे पुरुष आत्मानं तव सनेयं सहसम्भजनीयमश्वादिकमोषधिरूपा मातरोऽभिवर्धयन्ति, त्वया तु निश्चिन्तेन धर्मपरायणेन भवितव्यमिति । दयानन्दस्तु ' हे ओषधीः! ओषधय इति इव मातरः, अहं तनयो वो युष्मान् तत् पथ्यं वच उपब्रुवे । हे पुरुष, सुसन्तानाहं माता तव अश्वं गां वास आत्मानं च सततं सनेयं सम्भजेयम् ' इति, तदपि यत्किचित् परस्परासङ्गतेः । इतिशब्दस्य इवार्थकत्वं चिन्तनीयम् । केवलस्य जीवस्य अमूर्तत्वात् कथं तत्सम्भजनं सम्भवति? ॥ ७८ ॥

अश्वत्थे वो निषदनं पर्णे वौ वसतिष्कता ।

गोभाज इत्किलासथ यत्स॒मव॑य॒ पुरु॑षम् ॥ ७ ९ ॥

मन्त्रार्थ- पीपल की लकड़ी से निर्मित उपभृत् और सुपात्र तुम्हारा स्थान है, पलाशपत्र से निर्मित जुहू में तुम्हारा स्थान है । इस पात्र में हम हवि रखते हैं, होम के निमित्त जुहू में रखते हैं । हे हविभूत ओषधियों, निखय हो तुम सब आदित्य की उपासना करने वाली हो, क्योंकि अग्नि में वी हुई आहृति आदित्य को प्राप्त होती है । इस कारण तुम सब यजमान को अन्न आदि से पुष्ट करो ॥ ७ ९ ॥ ओषधिदेवताः, वो युष्माकम् अश्वत्थे निषदनम् अश्वत्थवृक्षछायायामुपवेशनस्थानं भवति । पर्णे पलाशवृक्षे वो युष्माकं वसतिर्निवासकारणं गृहं कृतम् । देवताधिष्ठितत्वाल्लोकेऽश्वत्थ वृक्षः प्रदक्षिणानमस्कारादिभिः पूज्यते, पलाशवृक्षश्च इध्मादिरूपेण यज्ञाङ्गत्वेनाद्रियते । ईदृश्योऽपि यूयं गोभाज इद् भवदीये स्थावररूपे भूमिभाज एव भूत्वा असथ स्थिताः किल । तत्किमर्थमिति चेदुच्यते-- इद् यस्मात् कारणादिमं यजमानं मनुष्यं सनवथ सनुथ अन्नदानेन पोषयथ । ' षणु दाने ' इत्यस्य लटि मध्यमबहुवचने रूपम् । शबोत्सर्गिकः । छान्दसी द्विविकरणता । यद्वा - हे ओषधयो व्रीहियवाद्याः यस्माद् यूयं पुरुषं यजमानं सनवथ सेवध्वे अन्नदानेन पोषयथ तस्माद् वो युष्माकमश्वत्थे आश्वत्थ्यामुपभृति स्रुचि हवीरूपेण निषदनं स्थानं भवति । पर्णे पलाशमय्यां जुह्वां युष्माकं वसतिः स्थितिर्होमार्थमध्वर्युणा कृता । अश्वत्थपूर्ण शब्दाभ्यां विकारार्थकप्रत्ययलोपश्छान्दसः । ' अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति ' ( नि ० २।२५ ) । हे हवीरूपा ओषधयः, यूयं गोभाज इत्किल । गोशब्देनादित्योऽभिधीयते । आदित्यभाजो यूयमिस्किल भवथ । ' अग्नी प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥ ' ( म ० ३।७६ ) इति मनूक्ते: । यद्वा -- अश्वत्थे फलिते सर्वोषधीनां फलवत्त्वाद् अश्वत्थे वो निषदनमित्युक्तिः । पर्णे पलाशे फलिते व्रीह्यादीनां फलितत्वेन च पर्गे वो वसतिष्कृता--इत्युक्तिः । अत एव यूयमुप्ताः सत्यो गोभाजो भूमिभाज एव किल असथ भवथ । असधातोर्लटि मध्यमपुरुष -बहुवचने छान्दसत्वादकारस्य शपश्चुलोपाभावे रूपम् | ' गौर्नादित्ये बलीवर्दे मखभेदविभेदयोः । स्त्रियां स्याद्विशि भारत्यां भूमौ च सुरभावपि ॥ ' इति कोशाद् गोपदस्य भूम्यर्थकत्वात् । अध्यात्मपक्षे - अश्वत्थे न श्वोऽपि स्थाता इत्यश्वत्थः संसारः तस्मिन् । हे ओषधयो जीवाः, वो युष्माकं निषदनं भवनं स्थानमित्यर्थः । पर्णे पत्रपुष्पफलादिनिमित्ता वो युष्माकं स्थितिः परमेश्वरेण कृता । यद्यस्मात् कारणाद् यूयं गोभाज गा इन्द्रियाणि गां गोविकारं देहं वात्मत्वेन भजन्तीति गोभाजः, इद् एव किल असथ भवथ । तस्मादश्वत्थे पर्णे वा युष्माकमवस्थानं स्थितिर्वा । अतः सर्वानर्थप्रशान्तये पुरुषं पूर्यते सर्वं जगदनेनेति पुरुषः परमात्मा, तम् । सर्वतोभावेन सेवध्वम् ।

पृष्ठ 252

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 252 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१६ शुक्लयजुर्वेदसंहिता [ अ ० १२ दयानन्दस्तु -- ' हे मनुष्याः, ओषधय इव यद् वोऽश्वत्थे देहनिषदनम् । पर्णे चलितपत्रे वसतिः कृता । तस्माद् गोभाज: क्लि पुरुषं देहं सनवथ ओषधीभिः सेवध्वम् ' इति, तदपि यत्किचित् सम्बोधन स्वकपोलकल्पितत्वात् अश्वत्थपदस्य देहार्थत्वे मानाभावाच्च । न च श्वोऽपि स्थाना न वेति सन्देहास्पदत्वेन देस्य तथात्वमिति वाच्यम्, संसारस्यापि तथात्वेन देहार्थग्रहणे विनिगमनाविरहात् । पर्णपदस्यापि चलितपत्र इति कथमर्थः? सर्वस्यैतस्य गौणार्थकत्वात् ॥ ७ ९ ॥

यत्रौष॑धीः स॒मम॑त॒ राजा॑न॒ः समि॑ताविव ।

विप्रः स उच्यते भि॒षप्र॑क्षो॒हामीव॒चात॑नः ॥ ८० ॥

मन्त्रार्थ -- हे ओषधियों, संग्राम में शत्रु पर विजय पाने के Fare आदि बनाकर राक्षस रूप वंध कहलाता है ॥ ८० ॥

तुम सब चिकित्सा करने वाले वैद्य के पास उसी प्रकार जाती हो, जैसे राजा लिये जाता है । वह चिकित्सा करने वाला वंद्य तुम्हारी सहायता से ही पुरोडाश, रोगों का नाश करता है । औषधि देकर रोग का नाश करने वाला यह ब्राह्मण हे ओषधीः ओषधयः, यत्र यस्मिन् क्षेत्रे यूयं समग्मत फलप्रदानाय सङ्गता भवत 1 क इव राजानः समिताविव यथा युद्धे प्रतिपक्षिणः सेनां जेतुं परस्परमनुक्कुला राजानः सङ्गच्छन्ते, एवं सङ्गता भवत । ओषधीषु तादृशीष्वोषधीषु विप्रो मेधावी रसवीर्यविपाकाभिज्ञो यः पुरुषः स भिषगुच्यते । क्षुदादिरोगस्य चिकित्सको s भिधीयते । कथं भिषक्त्वमिति तदुच्यते - रक्षोहा पक्वाभिरेताभिरोषधीभिः पुरोगमं रक्षो हन्ति तदुपद्रवं रोगं निवारयति । अमीवचातन ओषधिजन्यपथ्यादिभिरमीवो रोगान् चातयति नाशयतीत्यमीवचातनः । ' चातयतिर्नाशने ' ( नि ० ६ | ३० ) | यद्वा राजानः समिताविव यथा राजानः समिती संग्रामे शत्रून् जेतुं समागच्छन्ति, तद्वदित्यर्थः । यस्मिन् पुरुषे भैषज्यकर्तरि यूयं समागच्छत व्याधि जेतुं विप्रः स भवदाश्रितो ब्राह्मणो भिषग् वैद्य उच्यते । कीदृशो विप्रः? रक्षोहा रक्षांसि हन्तीति रक्षोहा । यथा रक्षोघ्नं पुरोडाशं कृत्वा रक्षसां हन्ता रक्षःकृतोपद्रवानां नाशकः, तथा अमीवचातन ओषधिदानं रोगनाशकः । समग्मतेति सम्पूर्वस्य गमेर्लुङि मध्यमपुरुषबहुवचने ' पुषादिद्युतालुदितः परस्मैपदेषु ' ( पा ० सू ० ३।११५५ ) इति ब्लेरङि ' गमहनजनखन घसां लोपः विङत्यन डे ' ( पा ० सू ० ६ ४ ९ ८ ) इति छान्दस उपधालोपे रूपम् । अध्यात्मपक्षे - यत्र देशे काले वा ओषधीर ओषधयः संसाररोगदाहकाः शमदमादयः श्रवणमनन-निधिध्यासनतत्त्वसाक्षात्काराः सम्भाव्यन्ते, तत्र राजानो यथा समिती संग्रामे सन्नद्धा सङ्गच्छन्ते तथैव हे साधकाः, यूयं समग्मत सङ्गच्छध्वम् । यस्तासु विप्रो मेधावी प्रविष्टबुद्धिः स भिषक् संसाररोगनिवारको वैद्य उच्यते । स च रक्षोहा अज्ञानकामादिरक्षसां हन्ता । अमीवचातनः सर्वरोगनाशकः सर्वतोभावेना-श्रयणीय इति शेषः । दयानन्दस्तु - ' हे मनुष्याः, यूयं यत्रोषधीः सोमाद्याः सन्ति ता राजानः समिताविव समग्मत प्राप्नुत । यो रक्षोहा दुष्टानां रोगाणां हन्ता अमीवचातनोऽमीवान् रोगान् शातयति सः । वर्णव्यत्ययः । विप्रो भिषग् भवेत् स युष्मान् प्रत्युच्यते तद्गुणान् प्रकाशयेत् तास्तं च सदा सेवध्वम् ' इति, तदपि न, सम्बोधनस्य निर्मुलत्वात् । स युष्मान् प्रत्युच्यते, तद्गुणान् प्रकाशयेत्, तास्तं च सदा सेवध्वमित्यादिकं मन्त्रबाह्यमेव । यत्तूच्यते --- ' उपदिश्येत लेट्प्रयोगोऽयम् ' इति, तदपि न स भिषगुच्यत इति कर्मणि प्रत्ययेनैवोपपत्ती लेट्लकारा-श्रयणस्य निरर्थकत्वात् ॥ ८० ॥

पृष्ठ 253

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 253 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८१-८२ ] अश्वावती वेदार्थपारिजातभाष्यसहिता

सौमाव॒तीम॒ जय॑न्त॒मुदजसम् ।

आवि॑त्त॒ सर्वा॑ ओष॑धीरस्मा अरिष्टतांतये ॥ ८१ ॥

२१७ मन्त्रार्थ- --- इस यजमान के अरिष्ट का नाश करने वाली, अश्व आदि पशुगण के लिये उपयोगी, सोमयाग के लिये उपयोगी, बल और प्राण का सम्पादन करने वाली, तेज का सम्पादन करने वाली सभी योवधियों को मैं भली प्रकार से जानता हूं ॥ ८१ ॥

अश्वावती काचिदोषधिजातिः । अथवा अश्वाः सन्त्यस्यां सा अश्वावती, ' मन्त्रे सोमाश्वेन्द्रिय विश्वदेव्यस्य मतो ' ( पा ० सू ० ६ | ३ | १३१ ) इति दीर्घः, तामश्वावतीम् । ओषधिसमृद्धौ सत्यां धनवत्त्वं तथात्वे अश्वा लभ्यन्त इत्यर्थः । अन्या काचिदोषधिः सोमावती । सोमः सोमयागोऽस्यामस्तीति सोमावती । यस्याः सत्त्वे धनबाहुल्येन सोमयागः सुलभः सा सोमावती, ताम् । अपरा काचिदोषधिजातिरूर्जयन्ती, ऊर्जं बलं प्राणचेष्टां या करोतीत्यूर्जयन्ती, ' ऊर्ज बलप्राणनयो: ' । उदोजा अन्या जातिः । उद् उत्कृष्टमोजोधातुरङ्गे यस्याः सा उदोजास्ताम्, या अन्नद्वारेण शरीरस्थमोजोधातं पोषयति सा उदोजाः । ताः सर्वा ओषधीरहमा वित्सि सर्वतो लब्धवानस्मि वेद्मि वा । वेत्तेर्लङि आत्मनेपदे उत्तमपुरुषैकवचने इडभावे अवित्सीति रूपम् । किमर्थम्? अस्मा अस्य यजमानस्य अरिष्टतातये । रिषतिर्माशनार्थः, रेषणं रिट्रं भावे क्तः, न रिष्टमरिष्टमनाशो मङ्गलमिति यावत, अरिष्टं करोतीत्यरिष्टतातिः, ' शिवशमरिष्टस्य करे ' ( पा ० सू ० ४ । ४ । १४३ ) इति तातिप्रत्यये रूपम् । अथवा क्रियत इति करः क्रियामात्रम्, भाव इत्यभिप्रायः, अरिष्टस्य करो भावोऽरिष्टतातिः, तस्मै यजमानस्य हिसाराहित्याय । यद्वा तननं वातिविस्तारः, अरिष्टस्य मङ्गलस्य तातिविस्तारस्तस्मै । सर्वा ओषधीरिति बहुवचनानुरोधेनाश्वावतीमित्यादावपि बहुवचनमृह्यम् । तथा च या ओषधयोऽश्ववत्योऽश्वसम्पादिन्यः, सोमवत्यः सोमयागसम्पादिन्यः, ऊर्जयन्त्यो बलप्राणसम्पादिन्यः उदोजस उत्तमौजः सम्पादिन्यस्ताः सर्वा अहमा वित्सि जानामि । विदित्वा चास्मै अरिष्टतातयेऽस्य यजमानस्यारिष्टविनाशमङ्गलविस्ताराय भैषज्यं करोमीति शेषः । अध्यात्मपक्षे - अस्मे अस्य साधकस्य अरिष्टतातये मङ्गलविस्ताराय अहं सर्वा भौतिकीराध्यात्मिकीश्च ओषधीर्जानामि । कास्ता इत्याकाङ्क्षायां पूर्वोक्तोऽर्थः । अश्वावतीम् अश्वः सूर्यः, विवस्वदयुतप्रकाशाम् । सोमावतीं परःशतसुधामयूखशीतलाम् । ऊर्जयन्तीं बलप्रदात्रीम्, उत्कृष्टपराक्रमसम्पादयित्रीं कुण्डलिनी-महमा वित्सि जानामि, तस्या ज्ञानेन अनुभवेन ध्यानेन सर्वारिष्टनिवृत्तिसम्भवात् । एकैव सा सर्वोषधिकार्य-कारिणी, अतः सर्वा ओषधीरिति बहुवचनेन निर्दिश्यते । दयानन्दस्तु - ' हे मनुष्याः यथाहमरिष्टतातये रिष्टाणां हिंसकानां रोगाणामभावाय अश्वावती प्रशस्तशुभगुणयुक्तां सोमावती बहुरससहितामूजयन्तीं बलं प्रापयन्तीमुदोजसमुत्कृष्टपराक्रमं महौषधीमावित्सि जानीयाम्, यतः सर्वा ओषधी मह्यं सुखप्रदाः स्युः, तथा अस्मे यूयमपि प्रयतध्वम् ' इति, तदपि यत्किचित् सम्बोधनस्याध्याहृतांशानां च निर्मूलत्वात् । अश्वशब्दस्य प्रशस्तगुणार्थत्वं च चिन्त्यम् । उदोजसमित्यस्य उत्कृष्टपराक्रममिति व्याख्यानम् हिन्दीभाष्ये तु उत्कृष्टपराक्रमवर्धनीमिति व्याख्यानमिति परस्परं विरोधः । उत्कृष्टपराक्रममित्यस्य केन सम्बन्ध इति च नोक्तम् ॥ ८१ ॥

उच्छुष्मा॒ ओष॑धीनां॒ गावों गोष्ठादिबेरते । धन॑॑ सनि॒ष्यन्ती॑नामा॒त्मानं तवं पुरुष ॥ ८२ ॥

२८

पृष्ठ 254

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 254 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१८ शुक्लयजुर्वेद संहिता [ अ ० ] १२ वाली ओषधियों की सामयं उसी मन्त्रार्थ - हे यज्ञपुरुष, तुम्हारे शरीर के प्रति घनरूप हवि को देने की इच्छा प्रकार प्रकट होती है, जैसे कि गाय अपने बाड़े में से निकलती है ॥ ८२ ॥

पुरुष हे यज्ञपुरुष, तब आत्मानं शरीरं प्रति धनं हवीरूपं सनिष्यन्तीनां ? गावो गोष्ठादिव दातुमिच्छन्तीनामोषधीनां । यथा गावो गोष्ठात् सकाशात् शुष्मा तदुपभोगजन्यबलविशेषा उदीरते उद्गच्छन्ति । कथमिव । ' ईर गतौ कम्पने च ' । उदुपसर्गस्य क्रियया स्वनिवासस्थानाद् गृहादेररण्यदेशं प्रति उदीरते उद्गच्छन्ति, तद्वत् । कथमिव? गोष्ठादिव सम्बन्धः । यद्वा - ओषधीनां शुष्मा वीर्याणि सामर्थ्यान्युदीरते प्रकाशोभवन्ति प्रति धनं सनिष्यन्तीनां निष्क्रान्ता गाव इव । किं कुर्वतीनाम्? हे पुरुष, तव त्वदीयमात्मानं संविभजमानानामिति यावत् । अध्यात्मपक्षे - हे पुरुष साधक, तव आत्मानं प्रति धनमैश्वर्यं सनिष्यन्तीनां उद्गच्छन्ति दातुमिच्छन्तीनां । कथमिव? पूर्वोक्तानामोषधीनां कुण्डलिनीरूपाणां वा शुष्मा बलानि सामर्थ्यान्युदीरते गोष्ठा गाव इव । संभजन्तीनामोषधीनां दयानन्दस्तु - ' हे पुरुष देहिन् या धनं यद् धिनोति वर्धयति तत् । समिष्यन्तीनां किरणा वा गोष्ठादिव तवात्मानं सोमयवादीनां शुष्माः प्रशस्त बलकारिण्यः, अर्शआदित्वादच् । गावो धेनवः यत्किञ्चित्, यद्धिनोति तद्धनमिति शरीराद्यधिष्ठातारमुदीरते वत्सान् प्राप्नुवन्ति, तास्त्वं सेवस्व ' इति, तदपि शुष्मा उदीरत इति व्युत्पत्त्या धनपदेन ऐश्वर्यवर्धकार्थबोधासम्भवात् । पुरुषविशेषणे पुंलिङ्गतापत्तिश्च क्रियान्वयोपपत्तौ ताः सेवस्वेति क्रियाध्याहारस्यासङ्गतत्वाच्च ॥ ८२ ॥

इष्कृ॑तिर्नाम॑ वो मा॒तार्थो यय स्थ॒ निष्कृ॑तीः ।

सीराः पतत्रिणः स्थन यदामयति निष्कृथ ॥ ८३ ॥

मन्त्रार्थ - हे ओषधियों, निष्कृति नाम वाली तुम्हारी माता है, तुम व्याधि को दूर करने वाली हो, अन्न के सहित वर्तमान, गमनयुक्त और प्रसरणशील हो, अत: तुम सब मनुष्यों में स्थित रोगों का निवारण करो ॥ ८३ ॥

' हे ओषधयः, वो युष्माकम् इष्कृतिर्निष्कृतिः । ' निशब्दो बहुलम् ' ( ३ | १ | १७ ) इति प्रातिशाख्यसूत्रेणोप-सर्गेकदेशस्य नकारस्य लोपः । निष्क्रयणं क्षुदादिविनाशनमेव माता मातृवदुत्पत्तिनिमित्तम्, क्षुदादिकं निवारयितुमेव युष्माकमुत्पत्तिः । वो युष्माकं माता निष्कृतिनाम्नी वा । यूयं व्याधिनिष्क्रमणाः । निष्करोति व्याधि नाशयतीति निष्कृतिः । अथो अपि चैवं सति यूयं निष्कृतिर्निष्कृतयः क्षुदादिविनाशका भवथ । सीरा इरा अनेन सह वर्तन्त इति सीराः सहस्य सादेशे टिलोप इकारदीर्घछान्दसः । यद्वा सीराः क्षुदादीनामपसार-यित्र्यः । यद्वा सीरं हलं निष्पादकत्वेन यासु ताः सीराः । पतत्रिण्यः पतत्रं पतनमस्मान् प्रत्यागमनं तदस्त्यासामिति पतत्रियः । तेनागमनेनोपेता इत्यर्थः । स्थन भवथ । ' वा छन्दसि ' ( पा ० सू ० ६ १।१०६ ) इति पूर्वसवर्णदीर्घः । अस धातोर्लोटि मध्यमपुरुषबहुवचने ' तप्तनतनथनाश्च ' ( पा ० सू ० ७ १ ४५ ) इति थस्य थनादेशः । यद् यस्माद् आमयति आमयाविनि ' अम रोगे ' चुरादिः शत्रन्तः, नरे स्थितं रोगं निष्कृथ नाशयथ । यद्वा यत् क्षुदादिकं रोगवद् बाधते, तन्निष्कृथ नाशयथ । करोतेर उविकरणे लुप्ते लटि रूपम् । अध्यात्मपक्षे - हे पूर्वोक्ता अश्वावत्यादयः, कुण्डलिनीरूपा वा, वो युष्माकं माता जननी निष्कृतिः सर्वव्याधिविनाशिनी चितिरूपिणी, यस्याः साक्षात्कारात् सर्वानर्थंनिवृत्तिसद्भाबाद यूयमपि निष्कृतयः

पृष्ठ 255

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 255 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८३-८५ ] वेदार्थ पारिजात भाष्यसहिता २१ ९ सर्वव्याधिविनाशिन्यः, ' कारणगुणाः कार्यगुणानारभन्ते ' इति न्यायात् । सीरा अभीष्टानन्दात्मक दिव्यान्नसहिता पतत्रिणीः प्रसरणशीलाः स्थन भवथ । यद् यत आमयति भौतिकाध्यात्मिक रोगवति पुरुषे स्थितं रोगं संसारं वा निष्कृथ नाशयथ । --दयानन्दस्तु – ' हे मनुष्याः, यूयं या वो युष्माकमिष्कृति निष्कर्त्री माता जननीव ओषधिर्नाम वर्तते, तस्याः सेवका इव ओषधीः सेवितारः स्थ । पतत्रिणीः पतितुं गन्तुं शीलाः सीरा नद्य इव निष्कृती ः प्रत्युपकारान् सम्पादयन्तः स्थन भवत । अयो यदामयति रोगयति तन्निष्कृथ नितरां कृथ कुरुत ' इति, तदपि न युक्तम्, सर्वस्यैतस्य लोकसिद्धत्वात्, अध्याहा र बाहुल्य सापेक्षत्वाच्च ॥ ८३ ॥

अति विश्वः परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।

ओष॑धीः प्राच॑च्यव॒र्यत्किञ्च॑ त॒न्वा॒रप॑ः ॥ ८४ ॥

मन्त्रार्थ - सब ओर से रोगों को दबाकर बैठने वाली रोगनाशक सम्पूर्ण औषधियाँ जब भक्षित होकर देह को यात करती हैं, जैसे कि दस्यु गोष्ठ को व्याप्त करते हैं, उस समय वे शरीर में स्थित सिर की व्यथा, गुल्म, अतीसार आदि पाप के फल के रूप में उत्पन्न हुए सभी रोगों का नाश करती हैं ॥ ८४ ॥

परिष्ठाः परि उपरि तिष्ठन्तीति परिष्ठाः शरीरस्योपरि स्थिता उदरमध्ये प्रविष्टा विश्वाः सर्वा ओषधयः, अति अजीर्णादिदोषमतिलध्य अक्रमुः क्रान्ता देहे व्याप्ता भवन्ति, तत्र दृष्टान्तः - स्तेन इव व्रजमिति । यथा रात्रौ गुप्तश्चोरो गोष्ठ उपविश्य गामपहर्तुं सावधानी गोशालायां सर्वत्र व्याप्नोति तद्वत् । तन्वः शरीरस्य सम्बन्धी यत्किञ्चिद् सः पापं शरीरे शिरोव्यथा गुल्मातिसाररूपं पापफलं यत्किञ्चिदस्ति तत्सर्वमोषधीर् । सर्वा ओषधयः प्राचुच्यवः प्रच्यावयन्ति विनाशयन्ति । यद्वा परिष्ठाः परि सर्वतो व्याधीनधिष्ठाय तिष्ठन्तीति ओषधीर् ओषधयो यदा अक्रमुर् आक्राम्यन्ति, भक्षिताः सत्यो देहं व्याप्नुवन्ति । झेरुस छान्दसः । कथमिव? स्तेन इव व्रजं यथा तस्करो व्रजमत्यक्रमत्, एवं परिमुमोचयिषया ओषधयो रोगानपहर्तुमत्यक्रमुः । अथ अनन्तरमेव ओषधयो यत्किचित् तन्वः शरीरस्य रपः पापजनितं व्याधि प्राचुच्यवः प्रच्यावयन्ति नाशयन्ति । ' रपो रिप्रमिति पापनामनी भवतः ' ( नि ० ४।२१ ) | अचुच्यवुरिति ' च्युङ् गनो ' इत्यस्य णिजन्तस्य लुङि ' णिश्रित्रुभ्यः कर्तरि चङ् ' ( पा ० सू ० ३ । १ । ४८ ) इति चलेश्चङादेशे रूपम् । ओषधयो दयानन्दस्तु - ' हे मनुष्याः, यूयं या परिष्ठाः सर्वतः स्थिता विश्वाः सर्वा ओषधीः सोमयवाद्या प्राचुच्यवुः व्रजं गोस्थानं स्तेना अत्यक्रमुः अतिक्रामन्ति यत् किञ्च तन्वो रपः पापफलमिव रोगाख्यं दुःखं तत्सत्रं, प्रच्यावयन्ति ता युक्त्योपयुञ्जीध्वम् ' इति, तदपि तुच्छम् दृष्टान्तानुपपत्तेः स्तेनस्य व्रजप्रवेशे भित्तिस्फोटानुक्तेः उपयुञ्जीध्वमित्यस्य कल्पनाप्रसूतत्वाच्च ॥ ८४ ॥।

यद॒मा वा॒जय॑न्न॒मोष॑ध॒र्हस्त॑

आधे ।

आ॒त्मा यक्ष्मा॑स्य नश्यति पुरा जीवगुभो यथा ॥ ८५ ॥

मन्त्रार्थ - जिस समय मैं इन औषधियों का पूजन करता हुआ इन्हें अपने हाथ में लेता हूँ, उस समय यक्ष्मा ही रोग खाने से पहले ही उसी प्रकार नष्ट हो जाता है, जैसे कि वध के निमित्त ले जाया जा रहा प्राणी वध से पहले अपने को मरा हुआ मानलेता ॥ ८५ ॥

पृष्ठ 256

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 256 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२० शुक्लयजुर्वेद संहिता [ अ ० १२ यद् यदाऽहं वाजयन् वाजमन्नमिच्छन्नहमिमा ओषधीर्हस्ते आदधामि तदानीमेव यक्ष्मस्य क्षुदादिरोगस्य आत्मा स्वरूपं पुरा नश्यति । भोजनादोषधिभक्षणात् प्रागेव नष्टमदृश्यं भवति । तत्र दृष्टान्तः - यथा लोके arat र्जीव भो जीवित एव मारणार्थं गृह्यत इति जीवगृप् तस्य जीवितस्य शशादेर्ग्रहणात् पुरा प्रागेव स यथा भीतः कर्णाभ्यां नेत्रे पिधाय भूमिसंश्लिष्टो मृत इव तिष्ठति तद्वत् । यद्वा -- यदा यदेव इमा ओषधीर्वाजयन् पूजयन् मानयन् अहं हस्ते आदधे स्थापयामि तदैव यक्ष्मस्य आत्मा भक्षणात् प्रागेव नश्यति । जीवगृभो जीवन्नेव हिंसाथं यो गृह्यते पशुर्वा अन्यो वा मनुष्यादिराघातस्थानं नीयते स जीवगृप् तस्य प्रागेव विषादाद् मृतोऽहमिति मन्यमानस्य आत्मा यथा नश्यति नष्टप्रायो भवति, तथौषधी हस्ते धृतायां व्याधेरात्मा नश्यतीत्यर्थः । अध्यात्मपक्षे - यद् यदा इमाः पूर्वोक्ताः शमदमादिसहिताः कुण्डलिन्युपासनारूपा वा सर्वा ओषधीः, वाजयन् मानयन् अहं हस्त आदधे उपासनार्थम् अङ्गीकर्तुमिच्छामि तदैव भौतिकस्य आध्यात्मिकस्य च रोगस्य आत्मा स्वरूपं नश्यति । शेषं पूर्ववत् । दयानन्दस्तु -- ' हे मनुष्याः, यथा पुरा वाजयन् प्रापयन् अहं यद् या इमा ओषधीर्हस्त आदधे याभ्यो जीवभो यो जीवं गृह्णाति तस्य व्याधेर्यक्ष्मस्य क्षयस्य राजरोगस्य आत्मा तत्त्वमूलं नश्यति, तथा भवन्तस्ताः सक्त्योपयुञ्जताम् ' इति, तदपि यत्किचित् सिद्धान्तरीत्याऽध्याहारमन्तरैव व्याख्यानसम्भवे निर्मूलाध्याहार-स्याकिञ्चित्करत्वात् जीवस्यामृर्तत्वाद् व्याधिभिर्ग्रहीतुमशक्यत्वात् । अत एव व्याधिभिर्देह एव नश्यति, न जीव इति सिद्धान्तः ॥ ८५ ॥

यस्यषधीः प्र॒सप॒थाङ्ग॑मङ्गं परु॑ष्परुः ।ततो॒ यक्ष्मं विबाध॑ध्व उ॒ग्रो म॑ध्य॒म॒शीरि॑व ॥ ८६ ॥

मन्त्रार्थ - हे औषधियों, तुम जिस रोगी के अंग - अंग में, प्रन्थि - प्रन्थि में फैलती हो, तब यक्ष्मा आदि रोगों को उसी प्रकार नष्ट कर देती हो, जिस प्रकार देह के मध्य में मर्म भाग को पीड़ा देने वाला उम्र रुद्र युगान्त में त्रिशूल के मध्य भाग से जगत् को पीड़ा देता है ॥ ८६ ॥

हे ओषधीः! ओषधयः यस्य रोगिणोऽङ्गमङ्ग प्रत्यङ्गं सर्वाण्यङ्गानीति यावत् । परुष्परुः परुष्प्राब्दः पर्ववचनः । प्रतिपरुः सर्वाणि पर्वाणीति यावत् । सर्वान् ग्रन्थीन् यूयं प्रसर्पथ प्रगच्छथ व्याप्नुथ ततोऽङ्गपर्व -समुदायाद् यक्ष्मं रोगं यूयं विबाधध्वे निवर्तयथ । तत्र दृष्टान्तः --- मध्यमशीमध्ये देहमध्ये भवतीति मध्यमो देहमर्मभागः, तं शृणाति निस्तोति मध्यमशीमंमंघातक उम्रो बद्धगोधाङ्गुलित्राण उद्गर्णशस्त्रः क्षत्रियो यथा शत्रुं बाधते, एवं यूयमपि रोगिणो रोगं बाधध्वमित्यर्थः । यद्वा उग्रो रुद्रो देवः, स यथा त्रिशूलस्य मध्यमेन शूलेन शृणाति हिनस्तीति मध्यमशीः, स यथा युगान्ते सर्वं जगद् भस्मसात्करोति, एवं यूयमपि व्याधि विबाधध्व इत्यर्थः । ‘ गृ निगरणे ' इति तौदादिकस्य क्विपि ' ऋत इद् धातोः ' ( पा ० सू ० ७ १ १०० ) इति ऋकारस्येदादेशे ' उरण् रपरः ' ( पा ० सू ० १ । १ । ५१ ) इति रपरत्वे च रूपसिद्धिः । अध्यात्मपक्षे - हे ओषधयः, पूर्वोक्ता यस्यातुरस्य अङ्गमङ्गं परुष्परुः प्रसर्पथाः, ततोऽङ्गादिसमुदायाद यक्ष्मं दैहिकं मानसं च रोगं विबाधध्वे । अन्यत् पूर्ववत् । दयानन्दस्तु – ' हे मनुष्याः, यूयं यस्य अङ्गमङ्गं परुष्परुः प्रति वर्तमानं यक्ष्मं तस्य उग्रो मध्यमशीरिव यो मध्यमानि मर्माणि शृणातीति विबाधध्ये तत ओषधीः प्रसर्पथ विजानीथ ता वयं सेवेमहि ' इति, तत्तुच्छम्, मनुष्याणां सम्बोधने मानाभावात्, बाह्याध्याहारापेक्षया ओषधीरित्यस्य सम्बोधनत्वे विपरिणामस्य लाभवात्, तासामेव प्रत्यङ्कं प्रतिपरुः प्रसर्पणसम्भवात् । न च मनुष्याणां व्याधिबाधने सामर्थ्य मस्ति, ओषधीनामेव

पृष्ठ 257

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 257 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८६-८८ ] वेदार्थपारिजात भाष्यमहिता २२१ तथाविधसामर्थ्यस्य प्रसिद्धत्वात् । प्रसर्पणस्य ज्ञानार्थता असिद्धैव । उग्र इत्यस्य क्वान्वय:? न चोग्र इति यक्ष्मणो विशेषणम्, नपुंसकत्वापातात् । अत एव तीव्रमिति तद्व्याख्यानमप्यसङ्गतम् ॥ ८६ ॥

साकं य॑क्ष्म प्रपंत चाषैण किकिदीविनां ॥ साकं वात॑स्य॒ घ्राज्या॑ सा॒कं न॑श्य नि॒हाया ॥ ८७ ॥

मन्त्रार्थ - हे व्याधियों, तुम कफ से रुके कण्ठ से उठे शब्द के द्वारा क्रीड़ा करने वाले श्लेष्म रोग और पित्त रोग के साथ इस शरीर से निकल जाओ, वात रोग के साथ नष्ट हो जाओ । सर्वांग वेदना से रोगी का जो हाहाकार है, उस दुःख के साथ तुम सब नष्ट हो जाओ ॥ ८७ ॥

हे यक्ष्म, यक्षयते लोकान् यक्ष्यते वा लोकैः प्राणत्यागभीतैरिति यक्ष्म राजरोगः । औणादिको मनिन्, तत्सम्बुद्धौ । किकिदीविना श्लेष्मावरुद्धकण्ठजन्यध्वनेरनुकरणार्थोऽयं किकिशब्दः । किकिना ध्वनिविशेषेण दोव्यति व्यवहरतीति किकिदीविः तेन श्लेष्मजन्येन व्याधिना । चाष: ' चष भदाणे ' चषते व्याकुलान् कृत्वा सर्पशावकानपि भक्षयतीति चाषः पक्षिविशेषः । तद्वत्तीव्रत्वात् पित्तजन्यरोगोऽपि चाषः तेन । अर्थात् श्लेष्मजन्येन पित्तजन्येन च व्याधिना साकं त्वं प्रपत प्रपलायस्व प्रकर्षेण नष्टो भव । तथा वातस्य वातीवि वातः, ' हसिमृ... ' इत्यादिना औणादिकस्तन् । अर्थाद् वातजन्यो व्याधिस्तस्य । ध्राज्या गत्या व्याध्या सह नष्टो भव । तथा निहाकया नितरां हतोऽस्मि हा कष्टमिति यया पीडया शब्दं करोति सा निहाका सर्वाङ्गवेदना, तया साकं नश्य नष्टो भव । यद्वा हे यक्ष्म, त्वं चाषेण पक्षिणा साकं प्रपत प्रणश्य प्रकर्षेण गच्छ वा । कीदृशेन चाषेण? किकिदीविना किकीत्यनुकरणशब्दः तेन दीव्यतीति किकिदीविस्तेन । स हि चाषस्तवोचितः सार्थः । वातस्य धाज्या गत्या साकं प्रपत वातगतिवत् पलायस्व । किञ्च निहाकया नितरां हन्ति कायमिति निहाका निर्ऋतिः कृच्छ्रापत्ति, तया सह नश्य । यद्वा हे यन, त्वं निहाकया हा कष्टं कया ओषध्या निहतोऽहमिति शब्द करोति यस्यां साऽवस्था निहाका, तामवस्थामापन्नः, विभक्तिव्यत्ययः, त्वं नश्य । वातस्य धाजिर्वात रोगस्तया, अर्थात् त्वं कफवातपित्तरोगैः सह प्रपत गच्छ । अध्यात्मपक्षे - हे यक्ष्म, अस्वास्थ्यमूलाज्ञान! त्वमित्यादि पूर्वव्याख्यानवत् । दयानन्दस्तु -- ' हे चिकित्सो विद्वन् किकिदीविना किं किं ज्ञानं दीव्यति ददाति यस्तेन चाषेण भक्षणेन, ' चष भक्षणे ', साकं यक्ष्म रोगराजः प्रपत प्रपतति यथा तस्य वातस्य धान्या गत्या साकमपनश्य । निहाकया नितरां हातुं योग्यया साकं दूरीभवेत् तदर्थं प्रयतस्व । हे वैद्य विद्वन्, ज्ञानवर्धकेन आहारेण साकमौषधियुक्तेन पदार्थैर्यक्ष्म प्रपतनश्यति यथा तस्य वातस्य भ्राज्या गत्या सह नश्येत्, निहाकया निरन्तरं हातुं योग्यया पीडया सार्धं नश्येत् तथा प्रयतस्व । ' कि ज्ञाने ' इत्यस्मात् सन्वति डी कृते ' किकि: ' इति, तदपि न, सम्बोधनस्य निर्मूलत्वात्, मूलमन्त्रगतस्य यक्ष्मेतिपदस्य सम्बोधनत्वे सम्भवत्यध्याहार बहुलकल्पनायोगाच्च ॥ ८७ ॥

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।

ताः सर्वाः संविदाना इदं मे प्राव॑ता॒ वच॑ः ॥ ८८ ॥

मन्त्रार्थ - हे ओषधियों, तुम्हारे बीच में से कोई एक ओषधि दूसरी की रक्षा करे, रक्षित हुई कोई दूसरी ओषधि रक्षा करने के लिये समीप आवे, अर्थात् आपस में मिलकर तुम रोगनिवारण की शक्ति को बढ़ानो, तुम सब परस्पर एकमति होकर मेरी इस प्रार्थना को स्वीकार करो ॥ ८८ ॥

पृष्ठ 258

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 258 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२२ शुक्लयजुर्वेदसंहिता [ अ ० ] १२ है ओषधयः, वो युष्माकं मध्ये अन्यः काचिदोषधिव्यक्तिरन्यामोषधिव्यक्तिमवत्तु । तथा रक्षिता परस्पर- सा अन्य अन्यस्या रक्षिकाया उपावत समीपमागत्य तामप्यवतु । पुरुषवचनव्यत्ययः । संहत्यकारित्वात् यूयं मे मम इदं रक्षकत्वमुचितमेव । ताः सर्वास्तथाविधा ओषधयः संविदानाः परस्परमैकमत्यं गताः सत्यो aat वाक्यं प्रार्थनारूपं प्राबत प्रकर्षेण रक्षत | यद्वा अन्या अन्यस्याः प्रभावमवतु अध्यात्मपक्षे - हे दैवीसम्पद्रूपाः शमदमादिरूपाः संसाररोगनाशका ओषधयः, वो युष्माकमन्या अन्यामवतु, सर्वासां सम्भूयसंसाररोगनिवर्तकत्वे परस्परोपकार्योपकारकभावस्य युक्तत्वात् । शेषं पूर्ववत् । ताः सर्वा दयानन्दस्तु - ' हे स्त्रियः, संविदानाः परस्परं संवादं कुर्वाणा यूयमिदं मे वचः प्रावत ॥ ओषधीरन्या अन्यस्या इवोपावत । यथान्याऽन्यां रक्षति तथा वोऽध्यापिकाऽवतु ' इति, तत्त्वतीबोपहासास्पदम् । ता इति एतादृशसम्बोधनकल्पनायां स्त्रीलिङ्गदर्शनमात्रस्य मूलत्वात्, अस्मिन् मन्त्रे ओषधिशब्दस्याभावाच्च पदेन तत्परामर्शेऽपि सादृश्यार्थकपदाभावेन तासां दृष्टान्तत्वानुपपत्तेश्च ॥ ८८ ॥

याः फलिनीर्या अफला अपुष्पा याश्च॑ पष्पिणः । बृहस्पतिप्रसूतास्ता नौ मुञ्च॒त्व ँह॑सः ॥ ८ ९ ॥ मन्त्रार्थ - जो ओषधियाँ फलवाली हैं, या फल से रहित हैं, जो ओषधियाँ फूलवाली हैं, अथवा फूलों से रहित ) ॥ ८ ९ ॥ हैं, वे सब ओषधियाँ प्रजापालक परमात्मा की प्रेरणा से हमारे पापों को दूर करें ( रोगों को दूर करें या ओषधयः फलिनीः फलिन्यः फलवत्यः, विभक्तिव्यत्ययः, ताः सर्वा ओषधयो बृहस्पतिप्रसूता बृहस्पति-प्रेरिताः सत्यो नोऽस्मानंहसः पापाद् रोगाद् मुञ्चन्तु मोचयन्तु । अध्यात्मपक्षे - हे ओषधयः, युष्मासु काश्चन संसाररोगनिवर्तिकाः, काश्चन फलवत्यः तथा साक्षात् फलवत्यो फल-सम्पादयित्र्यः, यथा सन्तोषेण असन्तोषनिवृत्तिः, वस्तुयाथात्म्यज्ञानेन भ्रान्तिनिवृत्तिः, काश्चन फलजन-न दृश्यन्ते यथा हिंसासत्यादयः, किन्तु पर्यवसाने स्वास्थ्यनिर्वर्तकाः, काश्चन पुष्पवत्योऽदृष्टोत्पत्तिद्वारा सर्वा बृहस्पतिप्रसूता ज्ञान-यियो नित्याग्निहोत्रादयः, काश्चन अपुष्पाः, या दृष्टफला विवेक विचारादयस्ताः विज्ञानाधिष्ठातृदेवेन प्रेरिता नोऽस्मान् संसाररूपाद् अंहसो मोचयन्तु । बृहस्पतिप्रसूता बृहतां दयानन्दस्तु --- ' हे मनुष्याः, याः फलिनीर्बहुफला याश्चाफला याः पुष्पिणीर्बहुपुष्पा, तथा युष्मापि पतिनेश्वरेण उत्पादिता नोंहसो मुञ्चन्तु मोचयन्तु ' इति, तदपि न, तथा सम्बोधनासिद्धेः मोचयन्त्वित्यस्याप्रामाणिकत्वाच्च ॥ ८ ९ ॥ मुञ्चन्त॑मा I

वरुण्यादुत ।

अथो॑ य॒मस्य॒ पङ्क्शात् सर्वस्माद् देवकिल्बिषात् ॥ ९ ० ॥

से पैदा होने वाले मन्त्रार्थ - हे ओषधियों, आप सब हमें शपथ के कारण होने वाले पाप से, जल क्रीड़ा होने वाले पापों से हमें छुड़ाओ ॥ ९ ० ॥ रोग से, यम सम्बन्धी पाप से और भी सभी प्रकार के देबापराध आदि से पैदा | शपथ्यात् शपथे भवं इमं मन्त्रमारभ्य द्वादशमन्त्रा अनारभ्याधीताः । एतेषां लिङ्गबलाद्विनियोगः अपि च वरुण्याद् वरुणे भवं वरुण्यम्, शपथ्यं तस्मात्, किल्बिषात् पापाद् मामोषधयो मुञ्चन्तु माचयन्तु । अथो

पृष्ठ 259

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 259 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ९ ० - ९ २ ] वेदार्थपारिजातभाष्यसहिता २२३ तस्माद् वरुणापराधनिमित्तात् पापाद मां चन्तु । उत अथो अपि च यमस्य यमसम्बन्धिनः पङ्खीशात् यमबन्धन निमित्तात् पापात्, पड्वीशशब्दो बन्धनवचनः मां मुञ्चन्तु । अथो अपि च सर्वस्माद् देवकिल्बिषाद् देवतापराधनिमित्तात् पापाद् मां मुञ्चन्तु । अध्यात्मपक्षे – हे शमदमसत्यादिरूपा ओषधयः, यूयं मां शपथ्यादिभ्यो मुञ्चन्तु तासां सवे तत्प्रसङ्गानापत्तेः । दयानन्दस्तु - ' हे विद्वांसः भवन्तो यथौषधयो रोगात् पृथग् रक्षन्ति, तथा शपथ्यात् शपथे भवात् कर्मणः, वरुण्याद् वरुणे भवादपराधात्, उतापि यमस्य न्यायाधीशस्य पड्वीशाद् न्यायविरोधाचरणात् सर्वस्माद्देवकिल्विषाद् मां मुञ्चन्तु यथा, तथा युष्मानपि रोगेभ्यो मुञ्चन्तु ' इति, तदपि तुच्छम् अध्याहार-बाहुल्यात् यथौषधयो रोगात् पृथग् रक्षन्तीत्यस्य मूलेऽभावात् । न च विद्वांसोऽपि शपथ्यादिभ्यः पापेभ्यो रक्षन्ति तथा सति व्यवस्थाकोपप्रसङ्गात् । किञ्च यथा विद्वांसो भवन्तो मां शपथ्यादिभ्यो रक्षन्तु तथा युष्मान् रोगेभ्यो मुवन्त्विति दृष्टान्तः कथमुपपद्यते? रोगेभ्यः सेविता ओषधयः स्वयमेव मुञ्चतेति व्याख्याने प्रार्थनाया वैयर्थ्यमेव । पड्वीशपदस्य न्यायविरुद्धाचरणं कथमर्थः? अयमर्थो निर्मूल एव । बन्धनार्थकत्वं तु बृहदारण्यके प्रसिद्धम् । तथाहि - ' अथ ह प्राण उत्क्रमिष्यन् यथा महासहयः सैन्धवः पड़वीशशकुन् संवृदेव हैमान् प्राणान् संववई ' ( बृ ० उ ० ६।१।१३ ) इत्यत्र बन्धनार्थत्वं तस्य दृश्यते । तथा च पपड़, ' पश बन्धने ', तस्य वीः प्रजन उपक्रम इति यावत् तमेव श्यति तनूकरोतीति पड्वीशो दृढबन्धनम् । तथा चोटमहीधरादीनामाचार्याणां पदवी अधुनातनानां कृते दवीयसी ॥ ९ ० ॥

अवपतन्तीरवदन् दिव ओष॑धयस्परिं ।

यं जीवमश्नर्वाम है न स रिष्याति पूरुषः ॥ ९ १ ॥

मन्त्रार्थ --- द्युलोक से भूमि पर आती हुई ओषधियों ने कहा कि जिस प्राणी को हम व्याप्त करती हैं, वह कभी नष्ट नहीं होता ॥ ९ १ ॥ द्युलोकात् पतन्तो वृष्टिबिन्दव ओषधिरूपेणोत्पद्यन्ते । तथा च -- यावन्तः स्तोका अवापद्यन्त तावती-रोषधयोऽजायन्त ' ( तै ० ब्रा ० २ | १ | १ | १ ) इति तैत्तिरीयाग्निहोत्रब्राह्मणवचनम् । तद्रीत्यवात्रापि दिवः परि स्वर्गस्योपरितनप्रदेशादवयतोरवयत्योऽधस्ताद् भूमौ पतन्त्य ओषधय समवदन्त परस्परं सम्यगेतद्वचन-मुक्तवत्यः । कीदृशं तद्वचनमिति तदुच्यते - यं जीवं प्राणिनमश्नवामहै व्याप्नुमः, स पुरुषो न रिष्यतीति । पूरुष इत्यत्र छान्दसो दीर्घः । रिष्यतीति लेटि रूपम् । अध्यात्मपक्षे - दिवः परि द्युलोकात् सकाशाद् भूमौ साधकानुग्रहार्थमवाचीनं पतन्त्यः शमाद्यभिमानिन्यो देवता अवदन् - यं जीवं साधकं वयं शमादयोऽश्नवामहै स पुरुषो न रिष्यति न म्रियते जननमरणाविच्छेद-लक्षणायाः संसृतेर्मुक्तो भवतीत्यर्थः । दयानन्दस्तु - ' वयं या दिवोऽवपतन्तीर् ओषधयः सन्ति, या विद्वांसः पर्यवदन् या भ्यो यं जीवमश्नवाम है, ताः संसेव्य स पुरुषो न रिष्याति कदाचिद् रोहिंसितो न भवति ' इति, तदपि तुच्छम्, प्रत्यक्षं मन्त्रगतं कर्तृपद-मुपेक्ष्य विद्वांस इत्यध्याहारस्याप्रामाणिकत्वात् । पर्यंवदन्नित्यस्य उपदेशार्थतापि चिन्त्या ॥ ९ १ ॥

या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।

तासा॑मसि॒ स्वम॑त्त॒मार॒ कामा॑य॒ श हृदे ॥ ९ २ ॥

पृष्ठ 260

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 260 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२४ शुक्लयजुर्वेदसंहिता [ अ ० १२ मन्त्रार्थ -- जो सोम की पत्नियां हैं, अनन्त असंख्यात शुभ गुणों से युक्त ओषधियां हैं, उनके मध्य में हे ओषधि, तुम सबसे उत्तम हो । इच्छित रोग की निवृत्ति में समर्थ तुम मन से रोग - मिवृत्ति के द्वारा हमकों सुख देने वाली बनो ॥ ९ २ ॥ या ओषधीर् ओषधयः, सोमराज्ञीः सोमो राजा यासां ताः सोमराज्ञ्यः, बह्वीर् बघोऽनन्ताः शतविचक्षणाः शतं विचक्ष्यन्ते प्रोच्यन्त इति शतविचक्षणाः, बहुवीर्या वा । शतं विचक्षणाः स्तोतारो यासां ताः शतविचक्षणाः सन्ति, तासामोषधीनां मध्ये हे ओषधे, त्वमुत्कृष्टासि अतः कामाय अभीप्सिताय अरमलमत्यर्थं समर्थासि | ततो हृदे हृदयाय शं सुखकारिणी, भवेति शेषः । अध्यात्मपक्षे - सोमराज्ञीः सोमस्तत्प्रधानः शमो राजा यासां ता दयादिरूपा या ओषधयः सन्ति, कीदृश्यः? बह्वघोऽनन्ताः शतविचक्षणाः शतवीर्या बहुस्तोतृका वा, तासां मध्ये ब्रह्मसाक्षात्कृतिरूपे है ओषधे, त्वमुत्कृष्ट कामाय अभीष्टब्रह्मप्रापणाय अरं समर्थासि, हृदे हृदयाय शं शान्तिरूपासि । 1 दयानन्दस्तु - ' हे स्त्रि, यतस्त्वं याः शतविचक्षणा बह्वीः सोमराज्ञीर् ओषधीः सन्ति, तासामुत्तमा विदुष्यसि, तस्मात् शं कल्याणकारिणी हृदे हृदयाय अरं कामाय भवितुमर्हसि ' इति, तदपि यत्किचित् सम्बोधनस्यैव निर्मूलत्वात् । मूले सोमराज्ञीर् ओषधीः, तासां त्वमुत्तमाऽसीति प्रत्यक्षसम्बन्धमपहाय तासां त्वं विदुष्यसीति सम्बन्धकल्पनस्य स्वैरित्वमेव बोधयति ॥ ९ २ ॥ या ओष॑धीः सोमराज्ञीविष्ठिताः पृथि॒वीमनु॑ । : बृहस्पतिप्रसूता अ॒स्यै सन्द॑त्ते॑ वी॒र्य॒म् ॥ ९ ३ ॥ मन्त्रार्थ - जो सोम की पत्नी ओषधियां पृथ्वी पर नाना प्रकार से स्थित हैं, बृहस्पति द्वारा प्रेरित वे ओषधियां हमारी लाई हुई इस औषधि को पराक्रम दें, अर्थात् इसको वीर्यसंपन्न कर दें ॥ ९ ३ ॥ याः सोमराज्य ओषधयः पृथिवीमनु विष्ठिता विविधं स्थिताः, ता यूयं बृहस्पतिप्रसूता बृहस्पतिना प्रेरिताः सत्य:, अस्ये मद्गृहीतायै ओषध्यै वीयं सामर्थ्यं सन्दत्त प्रयच्छत । ' अस्य पृथिव्यं ' इति काण्व संहिताभाष्यम् । तच्च चितिक्षेत्राभिप्रायेण द्रष्टव्यम् । अध्यात्मपक्षे-- याः पूर्वोक्ता ओषधयः सोमराज्ञ्यः पृथिवीं व्यवहारभूमिमनु विष्ठिताः, बृहस्पतिना प्रेरितास्ता अस्य ब्रह्मविद्यायं वीर्यं प्रपञ्चोन्मूलनसामर्थ्यं सन्दत्त । दयानन्दस्तु - ' हे विवाहित पुरुष, याः सोमराज्ञी बृहस्पतिप्रसूता ईश्वरस्य निर्माणादुत्पन्ना ओषधीः पृथिवीमनु विष्ठितास्ताभ्योऽस्य पत्न्यै वीयं देहि । हे विद्वांसः, यूयमेतासां विज्ञानं सर्वेभ्यः सन्दत्त ' इति, तदपि न किचित् असङ्गतेः । निर्माणादुत्पन्ना इत्यसङ्गतिः । ताभ्योऽस्यै वीयं देहीत्यस्य कोऽभिप्रायः? एतासां विज्ञानमित्यादिकं तु मन्त्रबाह्यमेव ॥ ९ ३ ॥

याश्वे॒दम॑पतृ॒ण्वन्ति॒ याचं वरं परोगताः ।

सर्वा॑ स॒ङ्गत्य॑ वीरुधा॒ोऽस्यै सन्द॑त्त॒ वी॒र्य॒म् ॥ ९ ४ ॥

मन्त्रार्थ - जो ओषधियां हमारे पास हैं, अथवा हमसे दूर हैं, वे हमारे इस वचन को सुन रही होंगी । वे सारी वनस्पतियां मिलकर हमारे द्वारा गृहीत इस ओषधी में बल का आधान करें ॥ ९ ४ ॥