वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 261–270
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 261–270
पृष्ठ 261
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ४ - ९ ६ ] वेदार्थपारिजातभाष्यसहिता २२५ याचीषधिदेवताः समीपस्थाः सत्य इदं मदीयं प्रार्थनारूपं वचः शृण्वन्ति, याश्च दूरं यथा भवति तथा परागता व्यवहिताः सत्य ईषच्छ्ण्वन्ति, हे वीरुधो विविधरोहणा लतारूपाः सर्वा ओषधयः, यूयं सङ्गत्य सङ्गत्येदं भूत्वा अस्यै ओषध्यं पृथिव्यं वा वीयं सामथ्यं पृथग् दत्त । अध्यात्मपक्षे - याः सन्निहिता असन्निहिता वा ओषधिरूपाः शमदमादयः सन्ति, तास्ताः सङ्गत्य अस्यै ब्रह्मविद्या सामयं दत्त । दयानन्दस्तु – ' हे विद्वांसो भवन्तो याश्चोपशृण्वन्ति याश्च दूरं परागतास्ताः सर्वा वीरुधः सङ्गस्य ari प्रसवन्ति तासां विज्ञानमस्यै कन्यायै सन्दत्त ' इति, तदप्यसङ्गतमेव यस्यै पूर्वं वीर्यदानमुक्तं तस्याः कन्यात्वायोगात् । सङ्गत्य एकीभूत्वेति संस्कृत व्याख्यानस्य हिन्दीभाषायां ( निकट प्राप्त कर ) इत्यर्थः कृतः,
सर्वमेव तदसङ्गतम्, प्रकृतिप्रत्ययार्थविरोधान् । सम्बोधनं च निर्मूलम् ॥ ९ ४ ॥
मारिषत्ता यस्मै चाहं खनमि वः । द्वि॒पाच्चतु॑ष्पाद॒स्माक॒ सवैमस्त्वनातुरम् ॥ ९ ५ ॥ मन्त्रार्थ - हे ओषधियों, रोग की चिकित्सा के लिये तुम्हारी जड़ की जरूरत है, इसलिये कोई तुम्हें खोदता है । वह खनन के अपराध से हानि को प्राप्त न हो । जिस रोगी की चिकित्सा के लिये तुम्हें खोदा गया है, वह भी हानि को प्राप्त न हो । हमारे सम्बन्धी स्त्री - पुत्र आदि द्विपद और चतुष्पद सब रोगरहित हों ॥ ९ ५ ॥ हे ओषधयः, वो युष्मान् खनिता चिकित्साये युष्माकं खननकर्ता मा रिषत् मा विनश्यतु । यस्मै रुग्णाय चिकित्सार्थं वो युष्मानहं खनामि युष्मन्मूलमादातुं खननं करोमि, स च मारिषत् । किं बहुना, अस्माकं सम्बन्धि द्विपात् स्त्रीपुंसम्, चतुष्पाद् गवादिप्राणिजातम्, सर्वमनातुरं रोगरहितमस्तु । यद्वा हे ओषधयः, वो युष्माकं चिकित्सा खनिता युष्मदीयं मूलं ग्रहीतुं खननस्य कर्ता मा रिषत् | अहं च यस्मै रुग्णाय चिकित्सार्थं वः खनामि युष्मन्मूलं ग्रहीतुं सोऽहमपि मा विनश्यामि । किं बहुना, अस्माकं सम्बन्धि सवं द्विपाच्चतुष्पाद् वा प्राणिजातंयुष्मानुपजीवति तत्सर्वमनातुरमस्तु । अध्यात्मपक्षे - हे ओषधयः पूर्वोक्ताः शमादिरूपाः, युष्माकं खनिता वेदादिशास्त्रपर्वतेभ्य उद्धर्ता मा रिषत् । यस्मै संसाररोगनाशाय अहं वो युष्मान् खनामि उद्धरामि सोऽहं मा विनश्येयमिति शेषः । सर्वमस्माकं सम्बन्धि प्राणिजातमनातुरमस्तु । शान्तस्य सर्वं वस्त्वनातुरमेव भवति । सम्पूर्ण जगदेव नन्दनवनम् । -दयानन्दस्तु – ' हे मनुष्याः, अहं यस्मै यामोषधीं खनामि सा खनिता सती वो युष्मान् मा रिषत् । यतो वोऽस्माकं च सर्वं द्विपात् चतुष्पादनातुरमस्तु ' इति, तदपि यत्किञ्चित् त्वद्रीत्या हि जडानामोषधीनां प्रार्थना निरर्थकैव ॥ ९ ५ ॥ ओषध॑य॒ सम॑वदन्त॒ सोमे॑न स॒ह
राज्ञो ।
यस्मै॑ कृ॒णोति॑ ब्राह्मणस्तथं राजन् पारयामसि ॥ ९ ६ ॥
मन्त्रार्थ -- अपने स्वामी सोम को ओषधियाँ कहती हैं कि ब्राह्मण जिस रोगी के निमित्त हमारे मूल, फल, पत्र आदि से चिकित्सा करता है, हे स्वामी सोम! उस रोगी को हम रोगरहित करती हैं ॥ ९ ६ ॥ २ ९
पृष्ठ 262
पाठ पढ़ें पाठ छिपाएँ
२२६ शुक्लयजुर्वेद संहिता | अ ० १२ ओषधय औषधिदेवता राज्ञा स्वस्वामिना सोमेन राज्ञा सह समवदन्त संवादं कृतवत्यः । सोमो हि ओषधीनां राजा । कथं संवादस्तमाह ब्राह्मणो यस्मै रुग्णाय कृणोति अस्मत्पत्रपुष्पमूलादिभिश्चिकित्सां करोति, हे राजन् स्वामिन् सोम, तं रुग्णं नरं वयं पारयामसि व्याधेरुत्तारयामः । सोमसंवादोऽयं व्याधिनाश-दाढर्यार्थम् । ' कृञ् हिंसायाम् ' इति सौवादिकस्य कृणोतीति रूपम् । अध्यात्मपक्षे - ओषधयः सोमेन राज्ञा समवदन्त । मनोऽधिष्ठात्रा सोमेन सह ओषधयः शमदमादिरूपाः समवदन्त, हे राजन्, यस्मै अस्वस्थाय अनात्मतादात्म्याभिमानिने ब्राह्मणो ब्रह्मविद्वरिष्ठः कृणोति चिकित्सां शमदमादिपूर्वक ब्रह्मज्ञानोपदेशेन तं वयमस्वस्थं पारयामः अपारसंसारसागराद् उत्तारयामः । दयानन्दस्तु - ' हे मनुष्याः, याः सोमेन राज्ञा सह वर्तमाना ओषधयः सन्ति, तद्विज्ञानार्थं भवन्तः समवदन्त परस्परं संवादं कुर्युः । हे राजन्, वयं वैद्या ब्राह्मणो वेदोपवेदविद् यस्मै ओषधीः कृणोति, तं रोगिणं रोगात्पारयामसि रोगसमुद्रात्पारं गमयेम ' इति, तदपि तुच्छम्, अन्यव्यापारेऽन्यस्य पारगमनहेतुत्वा-सम्भवात्, तद्विज्ञानमित्यध्याहारस्य निर्मूलत्वाच्च ॥ ९ ६ ॥
नाशयित्री बलासस्यार्शस उपचितमसि ।
अथो॑ श॒तस्य॒ यक्ष्मा॑णां पाकारोर॑सि॒ नाश॑नी ॥ ९ ७ ॥
मन्त्रार्थ - हे ओषषियों, तुम क्षय, अर्श, मेदरोग, श्वयथु ( सूजन ), श्लीपद आदि रोगों का नाश करमे वाली हो और क्षत आदि संकड़ों रोगों का तथा मुखपाक आदि रोगों का नाश करने वाली हो ॥ ९ ७ ॥ हे ओषधे, त्वं बलासस्य बलमस्यति क्षिपतीति बलासस्तस्य अशंसो मूलव्याधेर्नाशयित्र्यसि । किश्च उपचिताम् उपचीयन्ते शरीरेऽन्ये ये रोगास्ते उपचितः " तेषामपि नाशयित्र्यसि । अथो अपि च शतस्य यक्ष्माणां व्याधीनां शतस्यापि नाशिनी त्वमसि । पाकारोः क्षयव्याधेरपि नाशिनी त्वमसि । यद्वा - बलासस्य क्षयव्याधेः, अर्शसो गुदव्याधेश्च त्वं नाशयित्री । शरीरे ये उपचीयन्ते उपचिन्वन्ति वर्धयन्ति वा शरीरं ये ते उपचितः श्वयथुगडुश्लीपदादयस्तेषां नाशयित्री । अथो अपि यक्ष्माणां रोगाणां शतस्य असंख्यरोगाणां पाकारोः, अरुः क्षतमुच्यते । पाकेनारुः पाकारुः, मुखपाकक्षतादिस्तस्य नाशिनी त्वमसि । यद्वा पाकस्य अन्नपाकस्य अरुर् अदीप्तिर्मन्दाग्नित्वं तस्य च त्वं नाशिनी भवसि । ' रुच दीप्ती ' इत्यस्मात् ' अश्वादयश्च ' ( उ ०५।२ ९ ) इति डुनि ' रु: ' इति रूपम् । न रुः अरुः । अध्यात्मपक्षे - हे विरतिरूपोषधे, त्वं बलासस्य बलक्षपयितुः शोकस्य नाशयित्र्यसि । तथा मोहरूपस्य मूलव्याधेरपि क्षपयित्र्यसि । उपचितां रोगाणां यक्ष्माणां महारोगाणां शतस्य नाशयित्र्यसि । तथा पाकारोर्मन्दाग्नि-रूपस्य मन्दजिज्ञासुत्वादेरपि नाशिनी असि । दयानन्दस्तु - ' हे वैद्याः, या बलासस्य आविर्भूतकफस्य अर्शसो मूलेन्द्रियव्याधेः उपचितां वर्धमानानां रोगाणां नाशयित्र्यसि । अथो शतस्य अनेकेषां यक्ष्माणां महारोगाणां पाकारोर्मुखादिपाकस्यारोमंमंच्छिदः शूलस्य च नाशिनौ असि, तामोषधि यूयं विजानीत ' इति, तदपि तुच्छम्, अध्याहारादिदोष बाहुल्यात् एतमुपदेशं विनापि वैद्यानां तत्र स्वारसिकप्रवृत्तेः । मर्मच्छिदः शूलस्य इत्यत्र मूलं मृग्यम् ॥ ९ ७ ॥
पृष्ठ 263
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ८ - ९९ ] वेदार्थपारिजात भाष्यसंहिता
त्वां ग॑न्ध॒र्वा अ॑खन॑स्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामो॑षते॒ सोम॒ राजा॑ वि॒द्वान् यक्ष्मा॑दमुच्यत ॥ ९ ८ ॥
२२७ मन्त्रार्थ - हे ओषधियों, गन्धर्वो ने तुमको खोबा, इन्द्र और बृहस्पति ने तुमको खोदा । सोम राजा ने पाकर तुम्हारी सामर्थ्यं जानकर तुमको सेवन कर यक्ष्मा रोग से छुटकारा पाया । तुम्हारे गुणों के ज्ञाता तुमको अनेकों रोगों से मुक्त हुए हैं ॥ ९ ८ ॥ हे ओषधे, यतस्त्वमित्थंभूतासि, अतस्त्वां गन्धर्वा देवयोनिविशेषा अखनन् अभिलषितकामप्राप्त्यर्थं । खननमकुर्वन्, त्वामिन्द्रो बृहस्पतिश्चाखनत् । हे ओषधे, सोमो राजा विद्वान् त्वत्सामध्यं जानन् त्वामखनत् उपयुज्य च त्वां यक्ष्माद् महाव्याधेरमुच्यत मुक्तोऽभूत् । अध्यात्मपक्षे - हे विरते यतस्त्वमित्यंप्रभावासि, अतस्त्वां गन्धर्वा गाननिपुणा अखनन् अन्विष्टवन्तः ॥ ततो भगवद्गानपरायणाः सन्तो मुक्ता अभवन् । इन्द्रः परमैश्वर्यवान् चक्रवर्ती नरेन्द्रो देवराजश्च त्वामखनत् ' न सुखं देवराजस्य न सुखं चक्रवर्तिनः । यत्सुखं वीतरागस्य मुनेरेकान्तवासिनः ॥ ' इत्यभियुक्तोक्तेः । बृहस्पति-र्वाचस्पतिरपि त्वामखनत् त्वां विना वाचस्पत्यस्य नैरर्थक्यात् । ' पण्डिता बहवो राजन् बहुज्ञाः संशयच्छिदः । सदसस्पतयोऽप्येके असन्तोषात् ( अविरतेः ) पतन्त्यधः ॥ ' ( भा ० पु ० ७ १५२१ ) इति । सोमो राजा त्वां विद्वान् यक्ष्मान्महाव्याघे महान्मुक्तोऽभवत् । यद्वा सोम उमया सहितः शिवः, राजा सर्वोपरि राजमानस्त्वां विद्वान् यक्ष्मात् संसाररोगाद् मुक्तः सन् श्मशाने क्रीडतीति । दयानन्दस्तु – ' हे मनुष्याः, यया सेवितया रोगी यक्ष्मादमुच्यत । ओषधे यामोषधि यूयमुपयुङ्क्ष्वं तां त्वां गन्धर्वा गानविद्याकुशला अखनन् खनन्ति । इन्द्रः परमैश्वर्ययुक्तः, बृहस्पतिर्वेदवित्, सोमः सौम्यगुणसम्पन्नः, राजा प्रकाशमानो राजन्यस्त्वां खनेत् ' इत्यादि, तदपि निरर्थकम् । ' ओषधे ' इति सम्बोधनपदस्य व्यत्यये प्रमाणानुक्तेः, सायणादिकृत सरल व्याख्यानमुपेक्ष्य द्रविडप्राणायामतुल्यस्य व्यापारस्याकिश्चित्करत्वात् यया सेवितयेत्याद्यंशस्य निर्मूलत्वाच्च, गन्धर्वादिदेवजातेरपलापस्य शास्त्रविरुद्धत्वाच्च ॥ ९ ८ ॥
सहस्व मे अरा॑तीः सह॑स्व पृतनाय॒तः ।
सह॑स्व॒ सर्वं पाप्मानं सहमानास्योषधे ॥ ९९ ॥
मन्त्रार्थ -- हे ओषधियों, तुम शत्रुओं का तिरस्कार करने वाली हो, मेरे अदानशील शत्रु की सेना का तिरस्कार करो, संग्राम चाहने वाले शत्रुओं को जीतकर सारे अशुभ को दूर करो ॥ ९९ ॥
ओषधे, यतस्त्वमेवंभूतासि, अतस्त्वां याचे । सहस्व अभिभव मे मम अरातीः, नास्ति रातिर्दानं यासु ता अरातयोऽदानशीलाः शत्रुसेनाः ताः । तथा सहस्व अभिभव च पृतनायतः पृतनाः संग्रामान् कामयन्त इति पृतनायतः, तान् । सर्वं पाप्मानम् अशुभं च सहस्व अभिभव । ननु कथमभिभवकर्मणि त्वमस्माभिर्नियुज्यस इति चेत्, तत्राह - त्वं सहमानासि यतस्त्वमभिभवन शीलाऽसि, अतो नियुज्यसे । अध्यात्मपक्षे – हे ओषधे विरते, मे अरातीः कामादिशत्रून् सहस्व । पृतनायतोऽन्यान् क्रोधादीन् सहस्व । सर्व पाप्मानं मोहाज्ञानादिकं सहस्व । यतस्त्वं सहमानासि अभिभवनशीलासि ।
पृष्ठ 264
पाठ पढ़ें पाठ छिपाएँ
२२८ शुक्लयजुर्वेदसंहिता [ अ ० १२ दयानन्दस्तु – ' हे ओषधे, ओषधिवद्वर्तमाने स्त्रि यथौषधिः सहमानासि मे मम रोगान् सहते, तथा अरातीः सहस्व । स्वस्य पृतनायत आत्मनः पृतनां सेनामिच्छतः सहस्व । सवं पाप्मानं सहस्व ' इति, तदपि बालभाषितम्, स्त्रीषु तथा प्रार्थनाऽयोगात्, तासु पृतनायतः प्रतीकारासामर्थ्यात् ॥ ९९ ॥
दीर्घायु॑स्त ओषधे खनि॒ता यस्मै॑ च त्वा॒ खना॑म्य॒हम् ।
अथो॒ त्वं द॒र्घायु॑र्भूत्वा श॒तव॑शा॒ विरो॑ह॒तात् ॥ १०० ॥
मन्त्रार्थ - हे ओषधियों, तुम्हारा खनन करने वाला दीर्घायु हो, जिस रोगी के निमित्त तुम्हारा खनन किया गया है, वह भी दीर्घायु हो । तुम भी दीर्घायु होकर सैकड़ों अंकुर बाली होकर वृद्धि को प्राप्त करो ॥ १०० ॥
हे ओषधे, पुनरपि त्वां प्रार्थयामहे । अहं ते तव खनिता दीर्घायुर्भूयासम् । यस्मै च आतुराय त्वां खनामि स च दीर्घायुर्भूयात् । अथो अपि च त्वं दीर्घायुर्मुत्वा अनवखण्डितायुर्भूत्वा शतवल्शा शतं वल्शा अङ्कुरा यस्याः सा । बह्वकुरा सती विरोहताद् विरोह | ' तुह्योस्तातङ्ङा शिष्यन्यतरस्याम् ' ( पा ० सू ० ७/१/३५ ) इति तातङ्ङादेशः । अनवखण्डिता भूत्वा त्वमनेकैरङ्कुरैः सन्तिष्ठस्वेति प्रार्थना । अध्यात्मपक्षे – पूर्ववदेव व्याख्यानम् । विरतेरन्वेषकस्य यस्मै च तदन्वेषणं तस्य च दीर्घायुष्ट्वं जननमरणराहित्येन ब्रह्मात्मभावप्राप्तिः । विरतिः स्वयमपि ब्रह्मात्मभावप्राप्तिमूला तत्त्वसाक्षात्कार प्राप्तिद्वाराऽनव-खण्डितमूला बह्वङ्कुरा भवति, सर्वेषां साधनानां तन्मूलत्वात् । दयानन्दस्तु - ' हे ओषधे, ओषध इव मनुष्य, यस्य ते तव यामोषधीं खनिता सेविताहं यस्मै खनामि तया त्वं दीर्घायुर्भव । दीर्घायु भूत्वाऽयो त्वं या शतवल्शौषधिर्वर्तते, त्वा तां सेवित्वाऽथ सुखी भव तथा विरोहतात् ' इति, तदप्यव्यापारेषु व्यापारमात्रम्, कार्यकारणभावानुपपत्तेः । नहि वीरुधां गुणदोषज्ञो वीरुद् भवति । तेषामोषधी महं खनिता यस्मै पुरुषाय खनामि तस्मादपि त्वं दीर्घायुर्भवेति सर्वथाऽसम्बद्धं निरर्थकमेव ॥ १०० ॥
त्वम॑त्त॒मास्यो॑षधे सर्व वक्षा उपेतः ।
उपस्तिरस्तु सोऽस्माकं यो अ॒स्माँ अ॑भि॒दास॑ति ॥ १०१ ॥
मन्त्रार्थ - हे ओषधि, तुम श्रेष्ठ हो । तुम्हारे निकट के शाल, ताल, तमाल आदि बृक्ष तुम्हारे समीप में स्थित होकर उपद्रवों का निवारण कर छाया आदि के द्वारा सबका उपकार करते हैं । जो हमसे चिरकाल से द्वेष कर रहे हैं, वे हमारे अनुगत हों ॥ १०१ ॥
हे ओषधे, त्वमुत्तमा उत्कृष्टगुणासि । वृक्षा अन्ये साल - तमाल - वटाश्वत्थादयस्तव उपस्तय उप समीपे संहताः सन्त उपासका इव तिष्ठन्ति । अथवा उपस्त्यायन्ति उपकाराय उपद्रवनिरासाय च समीपे संहतास्तिष्ठन्तीत्युपस्तयो वृक्षा:, ' स्त्यं ष्टयै शब्दसङ्घातयोः ' । किञ्च यः कश्चिशरोऽस्मान् अभिदासति अभिहन्ति, सोऽस्माकमुपस्तिः समीपस्थ उपासको भवतु त्वत्प्रसादात् । ' दासृ दाने ' इत्यस्य रूपम् । अत्र ' दोऽवखण्डने ' इत्यस्य दानशब्दः तस्माद् हिंसार्थकता । अध्यात्मपक्षे --- हे ओषधे विरतिरूपे, त्वमुत्तमा संसाररोगस्य ओषधिरसि । तब वृक्षा अन्ये वृक्षा विवेक-
पृष्ठ 265
पाठ पढ़ें पाठ छिपाएँ
म ० १०१-१०२ ] वेदार्थपारिजात भाष्यसंहिता २२ ९ विज्ञानादय उपस्तयः संहतास्तव सेवकाः सन्ति । योऽस्मानभिदासति हिनस्ति स त्वत्प्रसादादस्माकमुपस्ति-रुपासको भवतु | दयानन्दस्तु - ' हे वैद्यजन, योऽस्मानभिदासति, अभीष्टं सुखं ददाति ' दासृ दाने ', स त्वमस्माकमुपस्तिः संहतिरस्तु | योत्तमोषधे ओषधिरस्ति, तव यस्य वृक्षा उपस्तयस्तेनोषधिनाऽस्मभ्यं सुखं देहि ' इति, तदपि यत्किचित् सम्बोधनस्य निर्मूलत्वात् । हे ओषधे, त्वमुत्तमासीति सरलतयाऽन्वये सम्भवे व्यत्ययेनार्थान्यथात्व-सम्पादनस्यायुक्तत्वात् ॥ १०१ ॥
इत्यारभ्याधीतानां मन्त्राणां व्याख्यानम् ।
मा मोहि सज्जनता यः पृ॑थि॒व्या यो वा दिव॑ स॒त्यध॑र्मा॒ व्यान॑ट् ।
यश्चा॒पश्च॒न्द्राः प्र॑थ॒मो ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा विधेम ॥
१०२ ॥
मन्त्रार्थ - जो प्रजापति पृथ्वी को उत्पन्न करने वाला है, जो सत्य को धारण करने वाला है, द्युलोक की सृष्टि कर चुका है और जो आदिपुरुष जगत् के आह्लादक एवं वृतिसाधक जल को उत्पन्न करने वाला है, वह प्रजापति मुझे किसी प्रकार की हानि न पहुंचावे, उस प्रजापति के निमित्त यह आहुति अर्पित है, वह हमारी रक्षा करे ॥ १०२ ॥
' लोगेष्टकाः स्फ्येनाहृत्य बहिर्वेदेरनूकान्तेषूपदधाति तिष्ठन् मा मा हिसीदिति प्रत्यृचं प्रतिदिशं पुरस्तात् प्रथमम् ' ( का ० श्री ० १७ | ३ | १० ) । अध्वर्युंस्तिष्ठन् प्रत्यृचं सर्वासु दिवनूकान्तेषु पद्याप्रमाणानि प वेदेर्बाह्यत आनीयोपदध्यादिति सूत्रार्थः । मा मा हिसीदित्यादिभिश्चतसृभिर्ऋग्भिः पूर्वादिदिक्रमेण प्रादक्षिण्येन लोगेष्टकासंज्ञका लोकरूपा इष्टका उपदध्यात् । तदुक्तं शतपथब्राह्मणे - ' अथ लोगेष्टका उपदधाति । इमे वै लोक एषोऽग्निर्दिशो लोगेष्टका एषु तल्लोकेषु दिशो दधाति तस्मादिमा एषु लोकेषु दिश: ' ( श ० ७ | ३ | १।१३ ) । लोकानामुपधानं विधाय प्रशंसति - इमे वै लोका इति । इमे खलु ये पृथिव्यादयस्त्रयो लोका एष एव खल्वग्निरिति । लोकसंस्तुताभिः स्वयमातृष्णाभिर्युक्तत्वाल्लोकत एव सिद्धा लोष्टरूपा इष्टका लोकेष्टकाः । ता एव परोक्षतया लोगेष्टका इत्युच्यन्ते । तैत्तिरीयकेऽपि तथैवाम्नातम् - " दिग्भ्यो लोष्टान् समस्यति, दिशामेव वीर्यमवरुध्य ' ( तै ० सं ० २०२६ ) इति । लोकसम्बधिन्यः प्राच्यादिदिशः, ता लोकेष्टकाः । अतस्तदुपधानेन एष्वेव लोकेषु ता एव दिशः स्थापयति । तस्मात् कारणादिमाः प्राच्यादिदिश एषु लोकेषु दृश्यन्ते । ' बाह्येनाग्निमाहरति । आप्ता वा अस्य ता दिशो या एषु लोकेष्वथ या इमाँल्लोकान् परेण दिशस्ता अस्मिन्नेतद्दधाति ' ( श ० ७ | ३ | १ | १४ ) | वेदेर्बाह्यदेशेनेष्टकानामाहरणं विधाय स्तौति – बाह्येनाग्निमिति । अग्नि बाह्येनाग्निक्षेत्राद् बाह्यदेशेन एता इष्टका आहरति । आप्ता वेत्यादि । अस्याग्नेर्यजमानस्य वा ता दिश आप्ताः प्रामा या इमा एषु लोकेषु दृश्यन्ते । अथ या दिश इमान् लोकान् परेण एभ्यो लोकेभ्यो बहिर्वर्तन्ते, अस्मिन्नग्नौ एतदेतेन बाह्यदेशादाहरणेन दधाति धारयति । ' बहिर्वदेरियं वै वेदिः । आप्ता वा अस्यता दिशो या अस्यामथ या इमां परेण दिशस्ता अस्मिन्नेतद्दधाति ' ( श ० ७ | ३ | १ | १५ ) । आहरणस्याग्निक्षेत्रापेक्षया बहिर्देश सम्बन्धो विहितः, वैद्यपेक्षयापि तथात्वं विधत्ते - बहिर्वेदेरिति । अग्नेर्लोकत्रयात्मकत्वात् ततो बहिराहरणं लोकत्रयाद् बहिरवस्थितानां दिशामा प्तिहेतुरित्युक्तम्, इदानीं तु वेदेर्भूमिरूपत्वादस्या हिरवस्थिता यावत् दिशस्तासां प्राप्त्यर्थं वेदिबाह्य देशादाहरणमित्य भिप्रेतोऽर्थः । अथ या इमां परेणेत्यस्याः पृथिव्याः परेण परस्ताद् बहिरित्यर्थः । ' यद्वेव लोगेष्टका उपदधाति । प्रजापतेवित्रस्तस्य सर्वा दिशो रसोऽनु-
पृष्ठ 266
पाठ पढ़ें पाठ छिपाएँ
२३० शुक्लयजुर्वेदसंहिता 1 [ ० १२ ' ( श ० व्यक्षरत्तं यत्र देवाः समस्कुवंस्तदस्मिन्नेताभिर्लोगेष्टकाभिस्त ११, रसमदघुस्तथैवास्मिन्नयमेतद्दधाति विस्रस्तावयवस्य सर्वाः प्राच्यादि-७ | ३ | १ | १६ ) । प्रकारान्तरेण लोगेष्टकाविधानं स्तौति – यद्वेवेति । विस्रस्तस्य तथाविधं प्रजापतिं देवाः समस्कुर्वन् दिशोऽनुलक्ष्य तदीयो रसो व्यक्षरद् विविधमस्रवत् । यत्र यस्मिन् देशे तत् रसमदधुः स्थापितवन्तः, चित्याग्निरूपेण संस्कृतवन्तः तत्राग्न्यात्मके प्रजापतौ एताभिर्लोगेष्टकाभिस्तं । एवमेवास्मिन्नग्नावयं यजमानोऽप्येतं रसं दधाति धारयति, लोगेष्ट कोपधानेनेत्यर्थः सोऽत्यक्षरत् ' बाह्येनाग्निमाहरति । आप्तो वा अस्य स रसो य एषु लोकेष्वथ स्तौति य इमाँल्लोकान् - बाह्येनेति पराङ् । ' एनबन्यतरस्या-तमस्मिन्नेतद्दधाति ' ( श ० ७ | ३ | १०१७ ) | आहरणस्याग्निबाह्यत्वमनूद्य द्वितीया ' ( पा ० सू ० २ | ३ | ३१ ) इत्यनेना-मदूरेऽपश्चम्याः ' ( पा ० सू ० ५। ३ । ३५ ) इत्येनप् । अत एव -- ' एनपा रसोऽस्ति स आप्तो भवति । इमान् ग्निमित्यत्र द्वितीया । अग्नेर्बाह्यदेशेनेत्यर्थः । तेन एषु लोकेषु, तमस्मिन् यो एतेन दधातीत्यर्थः । ' बहिर्वेदेरियं पृथिव्यादिलोकान् विहाय पराङ् यः परागतो रसो भवति सोऽत्यक्षरत्तमस्मिन्नेतद्दधाति ' ( श ० ७ । ३।१।१८ ) । वै वेदिः । आप्तो वा अस्य स रसो योऽस्यामथ य इमां पराङ् स्तौति --- बहिर्वेदेरिति । ' स्पयेनाहरति । वज्रो बहिर्वेदेरित्येतदप्यनूद्य पृथिवीसकाशाद् बहिभुंतरसस्थापन हेतुत्वेन ७ | ३ | १ | १ ९ ) । इत्थं लोकेष्टकानामाहरणेऽग्ने-वै स्पयो वीर्यं वै वज्रो वित्तिरियं वीर्येण वै वित्ति विन्दते ' ( श ० वज्रो वै स्फ्य इति । त्रेधा भग्नस्य वैदेश्च बाह्य देशो विहितः । तत्र साधनं विधाय स्तौति -- स्फ्येनेति । वज्रं प्राहरत् स त्रेधा व्यभवत् वज्रस्यांशत्वात् स्पयस्य वज्रात्मकता । तथा च तैत्तिरीयकम् - - ' इन्द्रो इति वृत्राय । वृत्रासुरवधहेतुत्वात् स वज्रो स्फ्यस्तृतीय, रथस्तृतीयं यूपस्तृतीयम् ' ( तै ० सं ० ५।२६ १-२ ) च स्पयेनाहरन् वज्ररूपेण वीर्येणैव वित्ति बीर्यात्मकः । इयं वेदिलक्षणा भूमिवित्तिर्लब्धव्या धनरूपा । तथा लब्धव्यां भूमि विन्दते लभते । वेदेवंहिः प्रदेशाद् एवं विस्तरशः श्रुत्यर्थनिरूपणेन सूत्रार्थः स्फुटतरं विज्ञायते । तथाहि - अध्वर्युः स्फ्येन पूर्वादिषु तिष्ठन् मन्त्र-लोगेष्टकाश्चतुरो मृत्खण्डान् पद्याप्रमाणानानीयात्मनो दक्षिणोत्तरपूर्वापरमध्य पृथिव्या सूत्रप्रान्तेषु धरित्र्या जनिता जनयिता ' जनिता चतुष्टयेनोपदध्यात् । हिरण्यगर्भदृष्टा कदेवत्या त्रिष्टुप् । यः प्रजापतिः व्याप्तवान् । यश्च चन्द्रा आह्लादिका मन्त्रे ' ( पा ० सू ० ६ | ४ | ५३ ) इति णिचो लोपः । यश्च दिवं द्युलोकं व्यानट् उत्पादितवान् । कीदृशः प्रजापतिः? जगत्कारणभूता अपो जलानि प्रथम आदिभूतः सन् जजान जलसृष्टिद्वारा सत्यस्य धारयिता । स प्रजापतिर्मा हिंसीद प्रथमः, शरीरीति शेषः । पुनः कीदृश:? सत्यधर्मा सत्यं धरतीति हविर्दद्मः । हविर्दानाद् मा वधीदिति । मावधीद् । मा माम् । यतः कस्मै काय प्रजापतये हविषा विधेम । हविषेत्यत्र विभक्तिव्यत्ययः । कशब्दस्य देवतावाचकत्वेन सर्वनामत्वाभावात् ' स्मै ' आदेशश्छान्दसः भगवान् शङ्कराचार्यः । तथा च विदधातिर्दानार्थः । अत्र ' एकस्मै ' इत्यस्य स्थाने छान्दस एकारलोप च प्रथमे इति केवले तथा । साधारणे समानेऽल्पे कस्मै एकस्मै प्रधानाय प्रजापतिदेवायेत्यर्थः । ' एकोऽन्यार्थे प्रधाने आपनीयानां कारणभूतानां जननेन संख्यायां च प्रयुज्यते ॥ ' इति शिष्टाः । यद्वा यश्चाप । आपनीयः प्रथमः शरीरी मनुष्यान् जनितवान् इति कारणे कार्योपचारः इति प्रजापतिर्वै पृथिव्यं अत्र ब्राह्मणम् -'स पुरस्तादाहरति । मा मा हि सोज्जनिता व्यानडिति यः पृथिव्या यो वा दिव, सत्यधर्माऽसृजते -जनता मा मा हिसीत् प्रजापतिरित्येतद्यो वा दिव सत्यधर्मा परिश्रित आत्मन्नु-त्येतद् ' ' कस्मै देवाय हविषा विधेमेति प्रजापतिर्वै कस्तस्मै हविषा विधेमेत्येतत्तामाहृत्यान्तरेण दधाति ' ( श ० ७ ३।१।२० ) । पदधाति स यः प्राच्यां दिशि रसोऽत्यक्ष रत्तमस्मिन्नेव दद्यात्यथो प्राचीमेवास्मिन्नेतद्दिशं
पृष्ठ 267
पाठ पढ़ें पाठ छिपाएँ
म ० १०२ - १०३ ] वेदार्थपारिजातभाष्य सहिता -२३१ पूर्वस्माहिग्भागादाहरणं समन्त्रकं विधत्ते स पुरस्तादाहरतीति । पुरस्तात पूर्वस्या दिशः सकाशाल्लोकेष्टकां स्पयेन आहरति । ' दिक्शब्देभ्यः समीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्ततिः ' ( पा ० सू ० ५।३।२७ ) इति पञ्चम्यर्थे अस्तातिः । तत्र मन्त्रः - ' मा मा हिंसोदिति । यः पृथिव्या जनिता जनयिता स मा मां मा हिंसीद् मा वधिष्ट । य इति सर्वनाम्ना सर्वजगत्कारणत्वेन प्रसिद्धः प्रजापतिरेव प्रतिपाद्यत इत्याह- प्रजापतिर्वा इति ॥ पृथिव्यं इति षष्ठयर्थे चतुर्थी । जनिता जनयिता । उक्तमथं योजयति मा मा हिंसीत् प्रजापतिरित्येतदिति द्वितीयपादमनूद्य तत्र व्यानडिति क्रियापदस्यार्थमाह - यो वा दिवमिति । यो दिवं द्युलोकं कारणवाचिना व्यानट् व्याप्नोत् शब्देन । व्यापनमत्र सर्जनमेवेत्याह -- असृजते त्येतदिति । चन्द्रा आह्लादिका आपो रेतोरूपाः । अनेन पुरुषत्रचपो भवन्ति ' कार्यंभूता मनुष्या एवोच्यन्ते । अत एव छान्दोग्ये समाम्नातम् - ' पञ्चम्यामा हतावापः प्रजापतिरेव ( छा ० उ ० ५।९ ।१ ) इति । पर्यवसितार्थमाह-- मनुष्यान् प्रथम इति । सर्वप्राणिभ्यः । पूर्वमुत्पन्नत्वात् स्मृतं च - ' स वै शरीरी प्रथमः । अत एवाम्नातम् - ' हिरण्यगर्भः समवर्तताग्रे ( वा ० सं ० १३४ ) इति इति । निरुक्तानिरुक्तरूपेणा-प्रथम: ' इति । चतुर्थपादमनूद्य ' क ' इति शब्दस्यार्थमाह- प्रजापतिर्वै क देवाय । अत्र ' कर्मणा यमभिप्रति निर्धारितस्वरूपत्वात् किंशब्दः प्रजापतेर्वाचक इत्यर्थः । एवं भूतो यस्तस्मै ' इति । अर्थात् क्रियया स सम्प्रदानम् ' ( पा ० सू ० १ ४ | ३२ ) इति सूत्रे वार्तिकम् - " क्रियाग्रहणमपि कर्तव्यम् । तं देवं विधेम परिचरेम । यमभिप्रति तस्यापि सम्प्रदानसंज्ञा भवतीति वातिकेण कर्मणः सम्प्रदानत्वाच्चतुर्थी । परिश्रि-विदधातिः परिचरणार्थ: । एवमाहृताया इष्टकायाः स्थानविशेषे उपधानं विधत्ते - तामाहृत्येति - स य इति । त्संज्ञानामुपहितानां शर्कराणामभ्यन्तरदेशे आत्मनि तामुपदध्यात् स्थापयेत् । तस्य प्रयोजनमाह सुतोऽभवत्, एतेनोपधानेन स यः प्रसिद्धो यो रसो विस्रस्तात् प्रजापतिशरीरात् प्राच्यां दिश्यत्यक्षरद् अतिक्रम्य दिशमस्मिन् तमेव रसमस्मिन् प्रजापतिरूपेऽग्नौ पुनः स्थापयति । अथो अपि च प्राचीं दिक्सम्बन्धात्तामेव स्थापितवान् भवति । अध्यात्मपक्षे- - यः पृथिव्या जनयिता यः सत्यधर्मा सत्यधारकः सत्यं धर्मः प्रधानभूतः सर्वादिः प्राप्तिसाधनं सन् जजान यस्य सः । यश्च दिवं द्युलोकं व्यानट् व्याप्तवान् ततोऽपि सूक्ष्मा यश्चाह्लादिका अपः प्रथमः सन् प्रजापतिरूपं तं परमात्मानं हविषा परिचरेम । च चन्द्रा-दयानन्दस्तु -- ' यः सत्यधर्मा जगदीश्वरः पृथिव्या जनिता, यो वा दिवं सूर्यादिकमपो देवाय हविषा वायुं वयं विधेम स चन्द्रादिलोकान् व्यानट् व्याप्तोऽस्ति, तं यो जजान यस्मै कस्मै सुखस्वरूपाय व्यानड् इत्य सृजति प्रथमो जगदीश्वरो मा मा हिसीत् ' इति, तदपि यत्किचित् श्रुत्या अपश्चन्द्रा इति मनुष्या च व्याख्यातत्वात् ॥ १०२ ॥
अ॒भ्याव॑र्तस्व पृथवि य॒ज्ञेन॒ पय॑सा स॒ह । व॒पां ते॑ अ॒ग्निरि॑षि॒तो अ॑रोहत् ॥ १०३ ॥
I मन्त्रार्थ - हे पृथिवि यज्ञ और उसके फल वृष्टि के साथ तुम हमारे सामने आओ, परितृप्त हुए प्रजापति से प्रेरित अग्नि तुम्हारे पृष्ठ देश में आरोहण करे ॥ १०३ ॥
अग्निदेवत्या उष्णिक् । हे पृथिवि, यज्ञेन यज्ञसाधनभूतेन हविषा यद्वा अस्मच्चिकीर्षितेन यज्ञेन इषितः पयसा यज्ञफलभूतेन दुग्धादिभोगेन च सह अभ्यावर्तस्व आभिमुख्येनागच्छ । कस्मात् कारणात्? इत्यत आह-प्रजापति प्रेषितोऽग्निस्ते तव वपां त्वचं पृष्ठं वपासदृशमिमं प्रदेशमरोहद् आरोहतु । अनयर्चा दक्षिणे लोगेष्ट कोप-
पृष्ठ 268
पाठ पढ़ें पाठ छिपाएँ
२३२ शुक्लयजुर्वेद संहिता [ अ ० १२ धानम् । यद्वा इषित इच्छावानग्निः, ते वपां त्वदीयवपासदृशमिमं प्रदेशम् अरोहद् आरोह्तु यज्ञेन यागसाधनेन पयसा पयोलक्षणेन रसेन सह अभ्यावर्तस्व । इषितः प्रेरितो दीप्तोऽयमग्निस्ते स्वीकरोतु वषां त्वदीयं । यद्वा तरुगुल्मादिरूपं पृष्ठम् अरोहद् आरोहति } अधितिष्ठतीति यावत् । तथा च ब्राह्मणम् -'अथ दक्षिणतः । अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सहेति यथैव यजुस्तथा बन्धुर्वपान्ते अग्निरिषितो अरोहदिति यहै कि वास्या सास्यं वपा तामग्निरिषित उपादीप्तो रोहति तामाहुत्यान्तरेण पक्षसन्धिमात्मन्नुपदधाति स यो दक्षिणायां दिशि रसोऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो दक्षिणामेवास्मिन्नेतद्दिशं दधाति ' ( श ० ७।३।१।२१ ) । दक्षिणस्या दिश आहरणं समन्त्रकं विधत्ते - अथ दक्षिणत इति । ' पञ्चम्यास्तसिल् ' ( पा ० सू ० ५३७ ) इति पञ्चम्यर्थे तसिल् । आहरतीति शेषः । अथवा पूर्वदिग्विभागाद्यदाहरणं तदनन्तरं दक्षिणस्या दिशः सकाशाल्लोकेष्टकामाहरतीत्यर्थः । ' अभ्यावर्तस्व ' इति तन्मन्त्रः । पूर्वाधं निगद-व्याख्यातम् । उत्तरार्धमनूद्य तत्र वपाशब्दार्थमाह - य किञ्चेति । अस्यां पृथिव्यां यदेव किञ्चिद्वस्तु तरुगुल्मादिकं दृश्यते, सैवास्यै वपा विधेया । यत्किञ्चेति नपुंसकलिङ्गस्य आर्थिको निर्देशः सेति स्त्रीलिङ्गरूपेण विहितः । स च विधेयापेक्षः । एवमेव कविकुलगुरु: कालिदासोऽपि व्याजहार - ' शैत्यं हि यत्सा प्रकृतिर्जलस्य ' इति । इषितः, प्रेरितः, दीप्तः, उपादीत इतिशब्दैरिषितपदार्थ उक्तः । आहृतायास्तस्याः स्थानविशेषे विधत्ते - हृत्येति । लोकां दक्षिणदिग्विभागाद् बहिर्वेदेराहृत्य पक्षसन्धिमन्तरेण दक्षिणपक्षस्य उपधानं आत्मभागस्य च यः सन्धिप्रदेशः, तस्याभ्यन्तरे आत्मभागे स्थापयेदित्यर्थः । अनेनापि पूर्ववद् रसस्थापनं दिक्-स्थापनं चात्र कृतवान् भवतीत्याह -- स यो दक्षिणायामिति । अध्यात्मपक्षे - हे पृथिवि सीताविशिष्टे, त्वं यज्ञेन तत्फलेन पयसा रसेन भोगेन च सहास्मानभ्यावर्तस्व । अग्निरिषित इच्छातो राक्षसचमूनाशकोऽग्निरूपी रामचन्द्रस्ते वषां तत्तुल्यां त्वत्त आविर्भूतां सीतां जानकीम् अरोहत् प्राप्नोतु । दयानन्दस्तु - ' हे मनुष्य, त्वं या पृथिवी भूमिर्यज्ञेन सङ्गमनेन पयसा जलेन च सह वर्तते, तामभ्यावर्त-स्वाभिमुख्येनावर्तस्व तस्या उपयोगं कुरु । यस्ते वपां वपनमिषितः प्रेरितोऽग्निररोहद् उत्पादयति, स गुणकर्मस्वभावतः सर्वैर्वेदितव्यः ' इति, तदपि यत्किञ्चित्, ' पृथिवि ' इति सम्बोधनपदस्य व्यत्यासे मानाभावात् अभ्यावर्तस्वेत्यस्योपयोगं कुरु, वपामित्यस्य वपनमित्यादिव्याख्यानं निर्मूलम्, वपाशब्दस्याङ्गविशेषे । सोऽग्निः सर्वैर्वेदितव्य इत्यपि निर्मूलमेव ॥ १०३ ॥ रूढत्वात् ।
अग्ने॒ यत्ते॑ शु॒क्रं यच्च॒न्द्रं यत्पू॒तं यच्च॑ य॒ज्ञिय॑म् । तद् दे॒वेभ्यो॑ भरामसि ॥ १०४ ॥
मन्त्रार्थ - हे अग्निदेव, तुम्हारा जो अंग शुक्ल वर्ण का है और दीप्तिमान् है, जो ज्योति चन्द्रमा के समान आह्लाद देने वाली है, जो ज्योति पवित्र है, गृहकार्य के योग्य है, सब प्रकार से श्लाघनीय उस ज्योति को देवकार्य की सिद्धि के लिये हम सम्पादित करते हैं ॥ १०४ ॥
अग्निदेवत्या गायत्री पश्चाल्लोगेष्ट कोपधाने विनियुक्ता । हे अग्ने, यत्ते त्वदीयमङ्गं शुक्रं सारं शुक्लं शुद्धं दीप्तिमद्वा, यच्चन्द्रमाह्लादकरं यदन्यत् पूतं पवित्रं यच्चान्यदङ्गं यज्ञियं यज्ञार्हम्, तत्सर्वं श्लाघ्यरूपं देवेभ्यो देवानामर्थे, अथवा देवेभ्यः सकाशाद् भरामसि भरामः सम्पादयामः । अत्र ब्राह्मणम् – ' अथ पश्चात् । अग्ने यत्ते शुक्रं यच्चन्द्रं यत्पूतं यच्च यज्ञियमितीयं वा अग्निरस्य तबाह तद्देवेभ्यो भरामसीति तदस्मै देवाय कर्मणे हराम इत्येतत्तामाहृत्यान्तरेण पुच्छसन्धिमात्मन्नुपदधाति स यः
पृष्ठ 269
पाठ पढ़ें पाठ छिपाएँ
म ० १०४ - १०५ ] वेदार्थपारिजातभाष्यसहिता २३३ प्रतीच्यां दिशि रसोऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो प्रतीचीमेवास्मिन्नेतद्दिशं दधाति स न सम्प्रति पश्चादाहरे-नेद्यज्ञपथाद्रसमाहराणीतीत इवाहरति ' ( ० ७ | ३ | १ | २२ ) । प्रतीच्यां दिशि समन्त्रकं लोकेष्टकाया आहरणं विधत्ते - अथ पश्चादिति । अथ अनन्तरं प्रतीच्या दिशः सकाशात् स्फ्येन लोकेष्टकामाहरतीति शेषः । तत्र मन्त्रः - ' अग्ने यत्ते ' इति । अत्राग्निशब्देन तदधिष्ठिता भूमिरेवाभेदोपचारेणोच्यत इत्याह- इयं वा अग्निरिति । अस्यै पृथिव्यं इति तादर्थ्ये चतुर्थी । पूर्वार्धेन प्रार्थनं पृथिव्यर्थमित्यर्थः । तदस्मै देवायेति । एतदग्निचयनाख्यं कर्मैवात्र देवशब्दार्थः । चितिरूपावयवभेदापेक्षया बहुवचनमित्यभिप्रायः । तथा चायमर्थ: - हे पृथिवि त्वदीयं यत् शक्रं रसवदङ्गं यच्च चन्द्रम् आह्लादकरं यच्च पूतं शुद्धं यज्ञियं यज्ञार्हं च यदस्ति तदस्मै अग्न्याख्याय देवाय कर्मणे आहराम इति । तां चेष्टकामाहृत्यान्तरेण पुच्छात्मसन्धिमिति पक्ष्याकारस्य चित्याग्नेः पुच्छस्यात्मभागस्य च यः सन्धिः, तमन्तरेण तस्य मध्ये आत्मन आत्मन्युपदधाति । तेन प्रतीचीदिग्गतं रसं तां दिशं च स्थापितवान् भवतीति पूर्ववद् व्याख्येयम् । साक्षात्पश्चादाहरणं निषेधति - स न सम्प्रतीति । स अध्वर्युः सम्प्रति मुख्या या प्रतीची दिक्, तत्सकाशात्राहरेत् । निषेधाभिप्रायमाह - नेद्यज्ञपथादिति । यज्ञस्य पन्था यज्ञपथः, अग्नेः पाश्चात्त्य देशो हविर्द्धानादिः । ततः सकाशान्नैव रसमाहराणीति । यदि खलु तादृग्विधात् साक्षात् पश्चाद्भागादाहरेत् तर्हि प्रजापतिसम्बन्धिनो विस्रस्तरसस्याहृतत्वात् तत्र करिष्यमाणो यज्ञो नीरसः स्यात् । कथं तहिं तत्राहरणमित्यत आह- इत वेति । इतः प्रतीच्या दिश इव न तु साक्षात् प्रतीच्या दिशः, उत्तरापरस्या दिश आहरेदित्यर्थः । तदुक्तं कात्यायनेन --- ' उत्तरापरस्याः पश्चात् ' ( का ० श्री ० १७ | ३ | ११ ) । अपरस्यां दिश्युपधानार्थं वायव्यकोणा • हिर्वेष्टका आनीयोपदध्यादिति तदर्थः । अध्यात्मपक्षे - हे अग्ने, हे श्रीराम, यते शुक्रं सारं शुक्लं वाङ्गं यच्च चन्द्रं चन्द्रवदाह्लादकं रूपं यच्च पूतं शुद्धं सर्वशुद्धिहेतुत्वाद् यच्च यज्ञियं यज्ञादिभिः समर्हणीयत्वाद् यज्ञियं यज्ञयोग्यं यजनीयं वा तत्सर्वं श्लाघ्यरूपं देवेभ्यो देवेभ्यो हिताय भरामसि हृदये धारयामः । दयानन्दस्तु - ' हे अग्ने विद्वन् यत् पावकस्य शुक्रमाशुकरं यच्चन्द्रं हिरण्यवदानन्दप्रदं यच्च पूतं पवित्रं यच्च यज्ञियं यज्ञानुष्ठानाहं स्वरूपमस्ति, तत्ते देवेभ्यो दिव्यगुणेभ्यो भरामसि भरेम ' इति, तदपि यत्किञ्चित् विदुषि मनुष्ये तादृशगुणासम्भवात् । देवशब्दस्य दिव्यगुणार्थत्वमपि चिन्त्यमेव, योनिविशेषस्य देवस्य युक्तिप्रमाणाभ्यां साधितत्वात् ॥ १०४ ॥
इष॒मूर्ज॑म॒हम॒त ं आद॑म॒तस्य॒ योनि॑ महि॒षस्य॒ धारा॑म् ।
आ मा॒ गोषु॑ विश॒त्वा त॒नूषु जहमि सेदिमनि॑रा॒ममी॑वाम् ॥ १०५ ॥
मन्त्रार्थ- - सत्य की उत्पत्तिके कारण अन्न और उसके उपसेचन दही, दूध, घृत आदि को 1 महत् इच्छा वाले अग्नि की आहुति को इस प्रदेश में, उदीची दिशा में मैं भक्षण करता हूँ । ये मुझमें प्रवेश करें, मेरे पुत्र आदि के शरीरों में, धेनु आदि पशुओं में प्रवेश करें । अन्न के अभाव में क्लेशदायक व्याधियों का मैं परिहार करता हूँ ॥ १०५ ॥
आशीः प्रायो मन्त्रः । दैवी त्रिष्टुप् । पादत्रयस्योत्तरतो लोकेष्टकोपधाने विनियोगः । इषमन्नम् ऊर्ज तदुपसेचनं पयोदधिघृतादिकम् ऋतस्य सत्यस्य योनिं स्थानं विद्यात्रयं महिषस्य महत इच्छावतोऽग्नेर्धारां धारणामाहुति वा इतोऽस्मात् प्रदेशादुदीच्या दिशः सकाशादहमादमयि भक्षयामि स्वीकरोमि वा । ' अद भक्षणे ' ३०
पृष्ठ 270
पाठ पढ़ें पाठ छिपाएँ
२३४ शुक्लयजुर्वेदसंहिता [ अ ० १२ इत्यस्य लङि रूपम् । किञ्च, एतत्सर्वमिडादिकं मामाविशतु आगत्य जहामि प्रविशतु सेदिमिति । ' तनूषु ( का ० मदीयपुत्रादिशरीरेषु श्रो ० १७ | ३ | १२ ) गोषु मदीयधेन्वादिपशुषु चाविशतु । ' उत्तरस्याः सिकताः प्रमाष्टि इरा अनं यस्यां सा अनिरा अन्नरहिता, उत्तरलोकेष्टकातः सिकताः पातयतीति तदर्थः । अनिराम अविद्यमाना अन्नाभावरोगदुःखानि मे मा सन्त्विति । ताम् । अमीवां व्याधियुताम् । सेदिमवसादमहं जहामि त्यजामि | । यद् इषमनं यच्च ऊर्जं तदुपसेचनं यद्वा अस्मिन् मन्त्रे विशेषणविशेष्यभावाद् यत्तद्भयां वाक्यं परिपूर्यते । यच्च ऋतस्य सत्यस्य योनि स्थानं दध्यादिकं तदहमित उदीच्या दिशः सकाशाद् आदम् आददे गृहीतवान् उदीच्या दिशः, एतत् तिस्रो विद्या तद् अहमाददे । यच्च महिषस्य महन इच्छावतोऽग्नेर्धारामाहुतिमहमाददे च मा आविशतु । सिकताः सर्वम् आ मा गोषु विशतु मदीयगोषु मा आविशतु तनूषु मदीयपुत्रपौत्रादिकासु स्थापयामि । सेदिमवसादम् । अनिरामनन्ताम् प्रध्वंसयत्यग्रेतनेन मन्त्रेण । जहामि परित्यजामि, उदीच्यां दिशि सर्वस्य वस्तुजातस्य सीमा । अनिरा अमवां व्याधिम् । इराशब्देन अन्नप्रभवा पृथिवी लक्ष्यते । सा, हि महिषस्य महतोऽग्नेर्धारां धारणमिषमन्नमूर्जं सीमारहिता, अनन्तेति यावत् । यद्वा ऋतस्य यज्ञस्य योनि स्थानम् । रसं च इतोऽस्मात् प्रदेशादहमादं स्वीकरोमि । एतत्सर्वं मामाविशतु पूर्ववदन्यत् आदद इत्येतदृतस्य योनिमिति तत्र ब्राह्मणम्- ' अथोत्तरतः । इषमूर्जं महमित आदमितोषमूर्जममित महिषः स हीदं जातो महान् सर्वमेष्णादा मा गोषु सत्यं वा ऋत ै, सत्यस्य योनिमित्येतन्महिषस्य धारामित्यग्निर्वे सेदिमनिराममीनामिति सिकताः विशत्वा तनूष्वित्यात्मा वै तनूरा मा गोषु चात्मनि च विशत्वित्येतज्जहामि दधाति तस्मादेतस्यां दिशि प्रजा अशनायुकास्ता-प्रध्व १७ सयति तद्यैव सेदिर्याऽनिरा यामीवा तामेतस्यां दिशि उदीचीमेवा-माहृत्यान्सरेण पक्षसन्धिमात्मन्नुपदधाति स य उदीच्यां दिशि रसोऽत्यक्षरत्तमस्मिन्नेतद्दधात्यथो आहरणं विधत्ते अथोत्तरत इति । स्मिन्नेतद्दिशं दधाति ' ( श ० ७ | ३ | १ | २३ ) । उत्तरस्या दिश - आदद इत्येतदिति । मनसा आहरतीति शेषः । ' इषमूर्जम् ' इत्याहरणमन्त्रः । आदमिति क्रियापदस्यार्थमाह योनिमिति मन्त्रभागे तादृशो भेदो न विवक्षित यथार्थं सङ्कल्पनमृतम्, यथार्थं भाषणं सत्यम्, अत्र तु ऋतस्य अग्निर्वै महिषः । कथमग्नेर्महिषशब्दाभिधे-इत्यभिप्रेत्याह – सत्यं वा ऋतमिति । महिषस्य धारामिति । जातमात्र एव महानतिरिक्तो भूत्वा सर्व यतेत्याशङ्कय तन्निर्ब्रते - स हीदमिति । सः खल्वग्निरिदमिदानीम्, जातो सम्पन्न इत्यर्थः । ' इष आभीक्ष्ण्ये ' जगद् ऐष्णाद् व्याप्नोत् । अतो महत्त्वादेषितृत्वाच्च महिषशब्दाभिधेयः योजयति - आ मेति । तथा इत्यस्माल्लङि रूपमैष्णादिति । तृतीयपादमनूद्य तत्र तनूशब्दस्यार्थमभिधाय दिशः सकाशादहमाददे । किं विशिष्टम्? चायं निर्गलितोऽर्थः - इष्यमाणमन्नमूर्जं बलकरं रसमितोऽस्या उदीच्या महिषस्य महतो जातमात्रव्यापकस्याग्नेर्धारां ऋतस्य सत्यस्य यथार्थफलस्य यज्ञस्य योनिं कारणम् । सम्बन्धः । ईदृशो च सा मामुद्दिश्य मदीयासु धाराप्रवाहभूतां तद्वत् साधितां धारणामाहुति वा अहमादद इति सिकतानां प्रध्वंसनं विधत्ते - जहामीति । गोषु तनूषु शरीरेष्वाविशत्विति चतुर्थपादेन सम्बद्धयते । तस्यां दिशि हानि: या च अनिरा, इरा अन्नम् मन्त्रस्यार्थमाह - तद्यैवेति । तत् तत्र यैव खलु सेदिरवसादापरपर्याया अमीवा रोगात्मिका पीडा, तामेतस्यामुत्तरस्यां ( निघ ० २०७: १३ ) अन्ननामसु तदभावरूपा पीडा, या च स्थापयामीति । इरादीनां तत आहृतत्वादिति भावः । दिश्येतन्मन्त्रकरणकेन सिकता प्रध्वंसनेन जहामि परित्यजामि दिशि प्रजा अशनायुका अशनाया एतच्च तत्कार्यदर्शनादवगम्यत इत्याह- तस्मादिति । एतस्यामुत्तरस्यां पूर्ववत् । अशनेच्छा क्षुधा, तया पीडिता अशनायुका दृश्यन्ते । तामाहृत्येत्यादि योनिं कारणम् अध्यात्मपक्षे ऋतस्य मोक्षाख्यस्य सत्यफलत्वात् सत्यस्य ब्रह्मात्मसाक्षात्कारस्य गुरूपदिष्ठाद्वेदाद्वा आदम् आददे । इषमिष्यमाणमुपासनरूपम् अन्नम् ऊर्जं बलकर महमितोऽस्माद् गुरूपदेशाद्