वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 271–280

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 271–280

पृष्ठ 271

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 271 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० १०५-१०६ ] वेदार्थ पारिजात भाष्यसहिता २३५ महिषस्य महतो जातमात्रव्यापकस्य च अग्नेभंगवतो रामचन्द्रस्य धारां धारिकां भक्तिमहमाददे । एतादृशी भक्तिर्मामाविशतु, तनूषु मदीयपुत्रपौत्रादिषु गोषु धेन्वादिषु चाविशतु । मदीयपशुपुत्रादयः सर्वेऽपि भक्तिपरायणा भवत्विति भावः । तत्प्रसादादेव हि अनिरामन्नरहितां व्याधियुक्तां सेदिमवसादरूपां जहामि परित्यजामि । दयानन्दस्तु – ' हे मनुष्याः यथाहमितोऽस्मात् पूर्वोक्ताद् विद्युत्स्वरूपाद् आदम् अत्तुं योग्यम् इषमन्नम् ऊजं पराक्रमं महिषस्य महत ऋतस्य सत्यस्य योनिं कारणं धारां धारिकां वाचं प्राप्नुयाम्, यथेयमिडूक मामाविशतु येन मम गोषु तनूषु प्रविष्टां सेदिं हिंसाम् अनिराम अविद्यमाना इरा अन्नभुक्तिर्यस्या ताम्, अमीवां रोगोत्पन्ना पीडां जहामि त्यजामि तथा यूयमपि कुरुत ' इति, तदपि न युक्तम्, श्रुतिविरोधात् । श्रुतौ तु आदमित्यस्य आदद इत्यर्थं उक्तः । महिषस्य महत इत्यपि श्रुतिविरुद्धम्, तया पूर्वोक्तरीत्या अन्यथा व्याख्यातत्वात् । इत इत्यस्य पूर्वोक्तविद्युत्स्वरूपाद् इत्यप्यनर्थः, इतः शब्दस्य पूर्वोक्तार्थत्वाभावात् । न च पूर्वमन्त्रे विद्युत्प्रसङ्गः, त्वया ' अग्ने ' इत्यस्य विद्वन् पुरुष इत्यर्थस्योक्तत्वात् । धारामित्यस्य धारिकां वाणीमित्यप्यसङ्गतोऽर्थः निर्मूलत्वात् । इरेत्यस्य नान्नभुक्तिरर्थः, निर्मूलत्वादेव | अमीवां रोगोत्पन्नां पीडामित्यपि निर्मूलम्, इरामीवशब्दयोर् अन्नरोगयोरेव प्रसिद्धत्वात् ॥ १०५ ॥

अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो ।

बृह॑न॒ शव॑सा॒ वाज॑मु॒क्थ्यं दधा॑सि दा॒शुषे॑ कवे ॥

W १०६ ॥ मन्त्रार्थ - हे कान्तिरूप धन वाले अत्यन्त प्रकाशशील अग्नि देवता, तुम यजमान के अभिप्राय को जानने वाले हो, तुम्हारी यज्ञीय प्रवृत्ति को देवताओं तक पहुँचाने वाला धूम और तुम्हारी कान्ति है । तुम हविर्दाता यजमान के निमित्त बल सहित, शस्त्र आदि से युक्त, यज्ञ के योग्य अन्न को देते हो ॥ १०६ ॥

' अग्ने तवेति सिकता न्युय छादयत्यात्मानम् ' ( का ० श्र ० १७।३।१४ ) । उत्तरवेदी सिकताः षड़चेन प्रक्षिप्य ताभिः पुच्छपक्षं विना आत्मानं छादयेदिति सूत्रार्थः । पावकाग्निदृष्टुं षड़चमग्निदेवत्यम् । आद्येद्वे विष्टापङ्क्ती | यस्या द्वितीयतृतीयपादो द्वादशाक्षरो आद्यतुर्यावष्टाक्षरी सा विष्टारपङ्क्तिः । हे अग्ने, तब श्रवस्त्वदीयत्वेन श्रूयमाणं वयोऽन्नं महि महदस्ति । हे विभावसो, विभा दीप्तिरेव वसु धनं यस्यासी विभावसुः, तत्सम्बुद्धी | तव अर्चयो दीप्तयो भ्राजन्ते । हे बृहद्भानो, बृहन्तो भानवो रश्मयो यस्यासौ बृहद्भानुः, तत्सम्बुद्धी | कविः क्रान्तदर्शी विद्वान् यजमानाभिप्रायज्ञः, तत्सम्बुद्धौ । तादृश हे अग्ने, दाशुषे हविर्दत्तवते यजमानाय उक्थ्यं शस्त्राद्युपेतयज्ञयोग्यं वाजमन्नं शवसा श्वदीयेन बलेन दधासि स्वयं ददासीत्यर्थः । वयो, वीयते भक्ष्य प्राणिभिरिति वयोऽन्नम् ' वी गतिव्याप्तिप्रजनकान्त्य सनखादनेषु • यद्वा वयो धूमः, तस्याहुति -परिणामद्वारेणान्नहेतुत्वात् । कीदृशं वयः? श्रवः श्रावयति कृतं कर्म द्युलोक इति श्रवो धूमः । धूमदर्शनादेव देवानां कर्मज्ञानम् । पुनः कथंभूतं तत्? महि महद् नभोव्यापित्वात् । अत्र ब्राह्मणम् -'अथोत्तरवेदिं निवपति । इयं वै वेदिद्यौरुत्तरवेदिर्दिशो लोगेष्टकास्तद्यदन्तरेण वेदि चोत्तरवेदिं च लोगेष्टका उपदधातीमी तल्लोकावन्तरेण दिशो दधाति तस्मादिमी लोकावन्तरेण दिशस्तां युगमात्री वा सर्वतः करोति चत्वारि शत्पदां वा यतरथा कामयेताथ सिकता निवपति तस्योक्तो बन्धुः ' ( श ० ७ | ३ | १।२७ ) | चोदकप्राप्तमुत्तरवेदिनिवपनमस्मिन् काले कर्तव्यमिति विधत्ते - अथेति । लोकेष्टकोप-धानानन्तर्य मथशब्दार्थः । तदुपपादयति- इयं वा इत्यादिना । इयं भूमिरेव महावेदिः, उत्तरवेदिद्युलोकात्मिका,

पृष्ठ 272

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 272 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३६ शुक्लयजुर्वेद संहिता [ अ ० १२ भवति । लोकेष्टकात्मिका दिशः । एवं च वेद्युत्तरवेद्योर्मध्ये लोकेष्टकोपधानं इत्यर्थः द्यावापृथिव्योर्मध्ये । उत्तरवेदेः दिशां परिमाणं स्थापनाय विधत्ते - तां तस्मात् कारणाद् इदानीमनयोर्लोकयोर्मध्ये दिशो लक्ष्यन्त ' अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतं युगमात्रीमिति । षडशीत्यङ्गुलपरिमितं युगम् । उक्तं ह्यापस्तम्बेन – कुर्यादित्येकं परिमाणम्, ' चत्वारिंशत्पदां षडशीतिर्युगं चास्य ' इति । सर्वतः सर्वासु दिक्षु तावन्मात्रामुत्तरवेदि । अनयोः प्रमाणयोर्मध्ये यथा कामयेत वा ' इति परिमाणान्तरम्, चत्वारिंशत्पदानि प्रमाणमस्याः सा तथोक्ता । तस्योक्त इति । तस्य तथा कुर्यात् । सिकतानिवपनं विधत्ते -- अथेति । उत्तरवेदिनिवपनानन्तर्यमथशब्दार्थः ९ ) इत्यादिः प्रागाम्नातः । ' ता सिकवानिवपनस्य स्तावको वाक्यशेष: - ' वैश्वानरस्य भस्म ' ( श ० ७ ११११ भवति उत्तरवेदी निवपति । योनिर्वा उत्तरवेदियनो वद्रेतः सिञ्चति यद्वै योनौ रेतः सिच्यते तत्प्रजनिष्णु रेतः सम्भवति ' ताभिः सर्वमात्मानं प्रच्छादयति सर्वस्मिस्तदात्मन् रेतो दधाति तस्मात् - ता सर्वस्मादेवात्मनो उत्तरवेदाविति । अग्निवपनक्षेत्रे ( श ० ७ | ३ | १ | २८ ) । निवपनस्य स्थानविशेषं विधाय स्तौति उत्तरवेदिरिति । निखिलयागो-युगमात्रीत्यादिलक्षणा योत्तरवेदिनियुक्ता तस्यां सिकता निवपति । योनिर्वा सिकतानां निवपनेन योनावेव रेतः त्पत्तिकारणाहवनीयस्थानत्वाद् उत्तरवेदिरपि योनिः । तत् तेन उत्तरवेदौ भवति । अस्यात्मभागस्य सिक्तं भवतीत्यर्थः । यत् खलु योनौ गर्भाशये रेतः सिच्यते, तत् प्रजनिष्णु प्रजननशीलं आत्मनि रेतो दधाति ताभिः प्रच्छादनं विधत्तं - ताभिः सर्वमिति । तत् तेन प्रच्छादनेन सर्वस्मिन्नेव देहाद् रेतः सम्भवति । स्थापयति । तस्मादेव कारणात् सर्वस्मादेव हस्तपादादिसर्वावयवसहितादात्मनो अत एव मन्त्रवर्ण: - ' अङ्गादङ्गात् सम्भवसि हृदयादधिजायसे ' इति । ' अग्ने तव श्रवो वय इति । धूमो वा अस्य श्रवो वयः स ह्येनममुष्मिल्लोके श्रावयति महि भ्राजन्ते अर्चयो विभावसविति महतो भ्राजन्तेऽर्चयः प्रभूवसवित्येतद् बृहद्भानो शवसा वाजमुक्थ्यमिति बलं इत्येतत् वै शवो ' बृहद्भानो बलेनान्तमुक्थ्यमित्येतद्दधाति दाशुषे कव इति यजमानो वै दाश्वान् दधासि अग्ने यजमानाय तब श्रवो कव वय इतीति । ( ० ७ | ३ | १ | २ ९ ) अस्मिन्निवपने ' अग्ने तव ' इति षडूचं सूक्तं करणत्वेन विधत्ते - खलु । तत्र श्रवः पदस्याभिप्रेतार्थमाह -धूमो वा अस्येति । अस्याऽग्नेः श्रवः श्रवणहेतुर्वयः स्वरूपं प्रख्यापयति धूमो वै धूमः । आकाशे एतदुपपादयति - स ह्येनमिति । एनमग्निम् अमुष्मिन् स्वर्गे लोके स खलु धूमः श्रावयति यज्ञीयं धूमं दृष्ट्वा यागार्थमग्नय आहिता इति द्युलोकवर्तिनो देवा बुध्यन्त इत्यर्थः । अतोऽन्तर्भावितण्यर्थात् शृणोतेः श्रावयत्यनेनेति करणे ' ऋदोरप् ' ( पा ० सू ० ३।३।५७ ) इत्यप् प्रत्यये श्रव इति व्याचष्टे रूपम् — । महतो महि भ्राजन्त इति महत्प्रातिपदिकस्याच्छब्दलोपे महौति सप्तम्यन्तं पदम् । अत्र व्यत्ययेन षष्ठीति । भ्राजन्त इति । विभाशब्दस्य तेजोवाचकत्वं प्रसिद्धम्, अत्र तु भूयस्त्वमेव विवक्षितमित्याह - प्रभूवसवित्येतदिति वै शव शवः शब्दस्य बलमर्थः ( निघ ० २२ ९ ३ ), वाजशब्दस्य चान्नमर्थं ( निघ ० २७२ ) इत्याह - बलं । तथा इत्यादिना । दाशुषे इति पदस्यार्थमाह - यजमानो वै दाश्वानिति । तच्चतुर्थ्यां दाशुषे इति विभावसो, चायमृगर्थः – हे अग्ने, तव सम्बन्धी श्रवो धूम आहुतिपरिणामरूपत्वाद् वयो देवानामन्नम् । कि ।, हे हे बृहद्भानो प्रभूतधनसम्पन्नाग्ने दीप्तिधनाग्ने वा महि महतस्तव अर्चयः अर्चीषि भ्राजन्ते दीप्यन्ते आहुति दत्तवते महादीप्ते हे कवे क्रान्तदर्शिन् शवसा बलेन सहितमुक्थ्यम् उक्थाहं प्रशस्यं वाजमन्नं दाशुषे यजमानाय दधासि प्रयच्छसि । अध्यात्मपक्षे - हे अग्ने परमात्मन् तव श्रवो यशो वयो भक्तानामन्नम् । हे ज्ञानधन महि महतस्तव वाजं अर्चयो ज्ञानप्रकाशा भ्राजन्ते दीप्यन्ते । हे महाप्रकाश कवे सर्वज्ञ शबसा बलेन सहित, उक्था है प्रशस्यं

पृष्ठ 273

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 273 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १०६ - १०७ ] वेदार्थपारिजातभाष्यसहिता २३७ भक्तानामभीष्टमन्नं स्वस्वरूपं प्रयच्छसि 1 ' अहमन्नमहमन्नमहमन्नम्, अहमन्नादोऽहमन्नादोऽहमन्नादः ' ( तै ० उ ० ३ | १० | ६ ) इति श्रुतेः । दयानन्दस्तु - हे बृहद्भानो, बृहन्तो भानवो विद्याप्रकाशा यस्य तत्सम्बोधने, अग्निवद्विद्या प्रकाशयुक्त विभावसो, यो विविधायां कान्त्यां वसति तत्सम्बुद्धी । हे कवे बुद्धिमन् विद्वन् यतस्त्वं शवसा बलेन साकं दाशुषे दातुं योग्याय विद्यार्थिने उक्थ्यं वक्तुं योग्यं वाजं विज्ञानं दधासि धारयसि तस्मात्तवाग्नेरिव महि पूजितुं योग्यं श्रवः श्रोतुं योग्यं शब्दं वयो जीवनं अर्चयो दीप्तयो भ्राजन्ते ' इति, तदयुक्तम्, पूर्वोक्तश्रुतितद्वयाख्यानविरुद्धत्वात्, गौणार्थाश्रयणाच्च ॥ १०६ ॥

पा॒व॒कव॑र्चाः शुक्रव॑च॒ अन॑नवर्चा उदिषि भानुना॑ ।

पु॒त्रो मा॒तरा॑ वि॒र॒न्नुपा॑वसि पू॒र्णाक्षि॒ रोद॑सी उ॒भे ॥ १०७ ॥

मन्त्रार्थ - हे अग्ने, तुम शोधक दीप्ति वाले, निर्मल कान्ति वाले और पूर्ण शक्ति वाले हो । तुम अपनी दीप्ति से उत्कृष्टता को प्राप्त हो तथा चारों ओर विचरण करते हुए देवता और मनुष्य सहित सारे जगत् की रक्षा करते हो । जैसे पुत्र वृद्ध हुए माता - पिता की रक्षा करता है, उसी प्रकार तुम माता - पिता रूप द्यावापृथिवी का धूमपुंज द्वारा, अर्थात् हवि के द्वारा लोक का और जल के द्वारा भूमि का पालन करते हो ॥ १०७ ॥

हे अग्ने, त्वं पावकवर्चाः पावकं शोधकं वर्षो दीप्तिशक्तिर्यस्य स: । शुक्रवर्चाः शुक्रं शुक्लं निर्मलं वर्चो दोप्तिशक्तिर्यस्य सः । अनूनवर्चाः अनूनमहीनं वर्चो यस्य सः पूर्णशक्तिरन्यूनशक्तिर्वा । भानुना दीप्त्या भासा उदियषि उत्कर्षं गच्छसि । किञ्च, हे अग्ने, त्वमुभे रोदसी द्यावापृथिव्यौ विचरन् परिचरन् उप सङ्गम्य अवसि पालयसि सदेवमनुष्यं जगद्रक्षसि, पृणक्षि च तयोः सम्पर्कमपि करोषि । परिचरणे दृष्टान्तः -- पुत्रो मातरा यथा यथा लोके शास्त्रीय मार्गेणानुशिष्टः पुत्रो मातरा मातरौ मातापितरौ परिचरति तद्वत् । यद्वा उभे रोदसी पूर्णाक्ष पूरयसि हविषा द्यां वृष्ट्या भूमि पूरयसीत्यर्थः । तं त्वां स्तुम इति वाक्यशेषः । अत्र ब्राह्मणम् - ' पावकवर्चाः शुक्रवर्चा इति । पावकवर्चा ह्येष शुक्रवर्चा अनूनवर्चा उदिष भानुनेत्यनूनवर्चा उद्दीप्यसे भानुनेत्येतत्पुत्रो मातरा विचरन्नुपावसीति पुत्रो ह्येष मातरा विचरन्नुपावति पृणक्षि रोदसी उभे इतीमे वै द्यावापृथिवी रोदसी ते एष उभे पृणक्ति धूमेनामूं वृष्टघेमाम् ' ( श ० ७ | ३ | १।३० ) । द्वितीयामृचं पादशो व्याचष्टे - पावकवर्चा इति । उदियर्षीत्यस्यार्थमाह - उद्दीप्यस इति । अग्नेरुद्गमनं नामोर्ध्वज्वलनम्, अत उद्दीप्यस इत्यर्थे पर्यवस्यति । पृणक्ति संयुक्त करोति । केन किमिति तत्राह - धूमेनेति । द्यावापृथिव्योमंध्ये वर्तमानोऽयमग्निर्धूमेनोद्गच्छता अमूं दिवं पृणक्ति, आहुतिद्वारा जनितया वृष्ट्या व इमां पृथिवीं संयोजयति । तथा चायं मन्त्रार्थः - पावकवर्चाः शोधकदीप्तिः, शुक्रवर्चा निर्मलदीप्तिः, अनूनवर्चा न्यूनतारहिततेजस्कश्च सन् हे अग्ने, त्वं भानुना तेजसा उदियष उद्गच्छसि उद्दीप्यसे । द्यावापृथिव्योर्मध्ये जातत्वात् तयोः पुत्रो भूत्वा मातरा सकलभूतानां निर्माय द्यावापृथिव्यों विचरन्नुपावसि समीपगतो रक्षसि । यथा लौकिकः पुत्रो मातृसमीपे सञ्चरन् तां रक्षति तद्वत् । रक्षणप्रकारोऽभिधीयते -- उभे रोदसी द्यावापृथिव्यो क्रमाद् धूमेन वृष्ट्या च पृणक्षि संयोजयसि ।

पृष्ठ 274

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 274 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३८ सम्पर्क करोषि । त्वे इषि॒ [ अं ० १२ शुक्लयजुर्वेदसंहिता सद॑धुर्भूरि॑वर्प॑सश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥ १०८ ॥

मन्त्रार्थ -- हे जल देवता के पौत्र अग्निदेव, ( जल से वृक्ष और वृक्षों के मथन से उत्पन्न होने से यह जल देवता का पौत्र कहलाता है । ) हे प्रज्ञावान्, यज्ञीय कर्मों के निमित्त स्थापित हुए तुम श्रेष्ठ स्तुतियों से हृष्ट - पुष्ट बनो । अनेक रूप वाले, बहुत प्रकार की रक्षा करने वाले तुमसे तर्पित श्रेष्ठ जाति और कुल में उत्पन्न हुए यजमानों ने तुममें हविरूप अन्न की आहुति दी है ॥ १०८ ॥

तिस्रः सतोबृहत्यः । यस्या आद्यतृतीयो द्वादशाणौ द्वितीयचतुर्थावष्टाणों सा सतोबृहती । ऊर्जोऽन्नस्य नपान पातयतीत्यविनाशयिता तादृश हे जातवेदो जातप्रज्ञानाग्ने, धीतिभिर्दीप्तिभिर्हितो युक्तः सन् सुशस्तिभिः शोभनाभिः स्तुतिभिर्मन्दस्व हृष्यस्व । भूरिवसः भूरीणि वर्षांसि येषां ते नानारूपा यजमानाः त्वे त्वयि इषो हविर्लक्षणान्यन्नानि सन्दधुः सम्पादितवन्तः । ईदृशा यजमानाश्चित्रोतयश्चित्रास्त्वया कृता ऊतयो रक्षा येषां ते । वाजाता वामं वननीयं सम्भजनीयं जातं जन्म येषां ते । देशतो जातितः कुलतो वा विशिष्टजनिमन्त इत्यर्थः । उव्वाचार्य रीत्या तु ऊर्कशब्देनाप उच्यन्ते, नपाच्छब्देन च पौत्रः । अद्भूयो वनस्पतयो जायन्ते तेभ्योऽग्निर्जायते, एवमपां नपादग्निरुच्यते । जातवेदो जातप्रज्ञानः सुशस्तिभिः शोभनैः स्तवैः स्तुत इति शेषः । मन्दस्व दीप्यस्व मोदस्व, हृष्टो भवेति शेषः । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु ' इति धातुः । धोतिभिः कर्मनिमित्तभूतहितो निहितः स्थापितः । कुतो हर्ष इत्याह-- भूरिवर्पस इति । भूरीणि बहूनि वर्षांसि रूपाणि येषां ते जगदात्मत्वेनोपगता बहुरूपा यजमानाः त्वे त्वयि इषो हविर्लक्षणान्यन्नानि सन्दधुः जुहुवुः । ' वर्प इति रूपनाम ' ( निघ ० ३।७।३ ) । कीदृशा यजमानाः? चित्रोतश्चित्राणि चायनान्तयोऽवनानि तर्पणानि येषां ते, अथवा चित्रा नानाविधा ऊतयो s वनानि येषां ते चित्रोतयः । त्वया तर्पिता रक्षिता वेत्यर्थः । अत्र ब्राह्मणम् – ' ऊर्जो नपाज्जातवेदः सुशस्तिभिरिति । ऊर्जो नपाज्जातवेदः सुष्टुतिभिरित्येतन्मन्दस्व धीतिभिहित इति दीप्यस्व धीतिभिर्हित इत्येतत्त्वे इषः सन्दधुर्मुरिवर्पस इति त्वे इषः सन्दधुर्बहुवस अध्यात्मपक्षे - हे अग्ने परमात्मन् रामचन्द्र, त्वं पावकवर्चाः शुक्रवर्चा अनूनवर्चा इत्यादेः पूर्ववद् व्याख्यानम् । भानुना प्रतापेन उदियषि उत्कर्ष प्राप्तोषि, उद्दीप्यसे वा । यथा पुत्रोऽनुशिष्टो मातरौ मातापितरो विचरन् परिचरन् उप समीपमागत्य अवति रक्षति, तथा उभे रोदसी द्यावापृथिव्यौ विचरन् दण्डकादिषु विचरन् उपावसि मानुषरूपेण समीपमागत्य जगति स्थितः सन् सर्वं जगद्रक्षसि । पृणक्षि उभे पूरयसि यज्ञेनामूं दिवं धनधान्यादिभिरिमां च पूरयसि । सर्वैः काकगृध्रवानरभल्लूक निषादको लभिल्लकिरातदेवर्ण्यादिभिश्च दयानन्दस्तु - ' हे जन यतस्त्वं यथा पुत्रो ब्रह्मचर्यादिषु विचरन् सन् विद्यामवाप्नोति 1 यथा भानुना धर्मप्रकाशेन पावकवर्चाः पावकस्य पवित्रोकारिकाया विद्युतो वर्चो दीप्तिरिव वर्चोऽध्ययनं यस्य सः, शुक्रवर्चाः शुक्रस्य सूर्यस्येव वर्चो न्यायाचरणं यस्य सः, अनूनवर्चा न विद्यते ऊनं न्यूनं वर्चो विद्याभ्यासो यस्य स राजा न्यायं करोति, यथा उभे रोदसी सम्बध्नीत, तथा विद्याम् उद् इयषि प्राप्नोषि राज्यं पृणक्षि, मातरा मातापितरौ उपावसि रक्षसि, तस्मात् त्वं धार्मिकोऽसि ' इति, तदपि तुच्छम् तादृशसम्बोधने मानाभावात्, यथादिशब्दस्य मूलेऽभावाच्च, न्यायं करोषि धार्मिकोऽसीत्यादीनां मन्त्रबाह्यत्वाच्च ॥ १०७ ॥

ऊर्जो नपाज्जातवेदः सुशस्तिभि॒िर्मन्द॑स्व धी॒तिभि॑ह॒तः ।

पृष्ठ 275

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 275 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १०८ - १० ९ ] वेदार्थपारिजातभाष्यसहिता २३ ९ इत्येतच्चित्रोतयो वामजाता इति यथैव यजुस्तथा बन्धु: ' ( श ० ७ | ३ | १ | ३१ ) । इदं ब्राह्मणं तृतीयामचं व्याचष्टे । एतद्रीत्या मन्त्रार्थस्तु – हे ऊर्जा नपाद बलकरस्य अम्नग्सस्य न पातयितः, पौत्र वा सुशस्तिभिः सुष्टुतिभि रमत्युक्ताभिहृष्टो भूत्वा हितो निहिनस्त्वं धीतिभिः कर्मभिः प्रभाभिर्वा मन्दस्व दीप्यस्व । त्वे त्वयि खलु इष इष्यमाणान्यन्नानि सन्दधुः संहितानि बभूवुः । इषो विशेष्यन्ते - भूरिवर्पस इति । भूरिवसो बहुरूपाश्चित्रतयो विचित्ररक्षणोपेताः, वामजाताः प्रशस्तजननोपेताः । अध्यात्मपक्षे - हे जातवेदः, जाता आविर्भूता वेदा यस्मादसो जातवेदास्तत्सम्बुद्धौ । हे सर्वज्ञ परमेश्वर, ऊर्जोऽनस्य रसस्य वा नपाद् अविनाशयितः, सुशस्तिभिः सुष्टुतिभिर्धीतिभिः कान्तिभिश्च हितो भक्तः स्वहृदये सुनिहित: सुसंस्थापितो मन्दस्व मोदस्व । कुतो मोद इति तत्राह - त्वे त्वयि भक्ता इषोऽन्नानि भक्तिरसाक्तानि विविध निवेदनीयानि दधुः समर्पितवन्तः । कोदृशा भक्ता:? भूरिवसो नानारूपा देवर्षिमनुष्य पशुपक्ष्यादयः, चित्रोयश्चित्राणि स्वस्कृतानि विचित्राप्युतयोऽवनानि रक्षणानि येषां ते । वामजाता विशिष्टदेशजातिकुलोत्पन्ना इत्यादि पूर्ववत् । दयानन्दस्तु - ' है जातवेदस्तनय, नपात्र विद्यते पातो धर्मात्पतनं यस्य सः, यस्मिंस्त्वे त्वयि भूरिवर्पसो बहूनि प्रशंसनीयानि रूपाणि यासु ताः, चित्रोतयश्चित्रा आश्चर्यवद्रक्षणाद्याः क्रिया यासु ताः, वामेषु प्रशस्येषु कुलेषु कर्मसु वा जाता: प्रसिद्धाः, ' वाम इति प्रशस्यनामसु ' ( निघ ० ३२८ / ९ ), मात्रादयोऽध्यापिका इषो s न्नादीनि सन्दधुः । सुशस्तिभिः शोभनाभिः प्रशंसाभिः क्रियाभिः सह धीतिभिः स्वाङ्गुलीभिः ' धीतय इत्यङ्गुलिनामसु ' ( निघ ० २२५५७ ), आहूतस्त्वम् ऊर्जा नपाद् ऊर्जः पराक्रमस्य नपाद्धितः सदा मन्दस्व ' इति, तदपि यत्किञ्चित् जातवेदःपदस्य पुत्रार्थत्वे मानाभावात् समासार्थस्यान्यपदार्थस्यान्यस्यापि ग्रहणसम्भवे पुत्रपदार्थग्रहणे विनिगमनाविरहात् । तथैव भूरिवसः चित्रोतयः वामजाता इत्यादिपदैरध्यापिकादिग्रहणे मूलाभावः,

विनिगमनाविरहादेव । श्रुतिविरोधश्च दुस्तरः ॥ १०८ ॥

इरज्यन्न॑ग्ने प्रथयस्व जन्तुभि॑र॒स्मे राया॑ अमर्त्य ।

स द॑श॒तस्य॒ वपु॑षो॒ विरा॑जसि प॒णक्षिं सान॒सि॒ क्रतु॑म् ॥ १० ९ ॥

मन्त्रार्थ – हे मरणधर्मरहित अग्निदेवता हवि देने वाले प्राणियों के द्वारा प्रदीप्त हुए तुम हमारे निकट अनेक प्रकार के धन और ऐश्वयं का विस्तार करो । तुम दर्शनीय चित्याग्नि रूप शरीर के मध्य में विशेष रूप से प्रदीप्त होते हो, सभी प्राणियों के चिरन्तन संकल्प को पूर्ण करते हो ॥ १० ९ ॥ हे अमर्त्य अमरणधर्मन्नग्ने, अस्मे अस्मासु रायो धनानि त्वं प्रथयस्व विस्तारय । कोदृशस्त्वम्? जन्तुभिः पुरोडाशादिहविःप्रदेः प्राणिभिरध्वर्य्यादिभिरिरज्यन् दीप्यमानः । किन, एवंभूतस्त्वं दर्शतस्य दर्शनीयस्य वपुषश्चित्याग्निरूपस्य शरीरस्य मध्ये विराजसि विशेषेण दीप्यसे । यद्वा विभक्तिव्यत्ययेन दर्शतेन दर्शनीयेन वपुषा ज्वालालक्षणेन शरीरेण विराजसि सानसि चिरन्तनं क्रतुं सङ्कल्पं पृणक्षि, सर्वेष्टं ददासीत्यर्थः । यद्वा है अग्ने, जन्तुभिः प्रशस्तजननैर्मनुष्य ऋत्विग्भिः, इरज्यन् दीप्यमानः प्रथयस्व विस्तीर्णो भव । स्वार्थिको णिच् । हे अमर्त्य मरणरहिताग्ने, त्वत्प्रसाद् अस्मे अस्माकं रायो धनानि सन्तु । ब्राह्मणे तु अस्मे रयिं दधद् इत्यर्थंतो व्याख्यातम् । तथाविधः स त्वं दर्शतस्य दर्शनीयस्य वपुषो ज्वालारूपशरीरस्य शोभया अतिशयेन विराजसि विशेषेण दीप्यसे, तथा सानसिं सनातनं नित्यफलविषयं क्रतुं यजमानसङ्कल्पं पृणक्षि फलेन संयोजयसि ।

पृष्ठ 276

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 276 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४० शुक्लयजुर्वेद संहिता [ अ ० १२ तथा च ब्राह्मणम् – ' इरज्यन्नग्ने प्रथयस्व जन्तुभिरिति । मनुष्या वै जन्तवो दीप्यमानोऽग्ने प्रथस्व मनुष्य-रित्येतदस्मे रायो अमत्यम्मे रयिं दधदमर्त्येत्येतत् स दर्शतस्य वपुषो विराजसीति दर्शतस्य ह्येष वपुषो विराजति पृणक्षि सानसिं क्रतुमिति पृणक्षि सनातनं क्रतुमित्येतत् ' ( श ० ७३ | १ | ३२ ) । चतुर्थीमृचमनूद्य व्याचष्टे - मनुष्या वै जन्तव इति । जायन्ते पुरुषार्थोपयोगित्वेनोत्पद्यन्त इति जन्तवो मनुष्याः, न तु कृमिकीटपतङ्गादयः । इरज्यतिः कण्वादितिकर्मा | राय इत्यस्यार्थमाह - रयि दधदिति । सानसिशब्दः सनातनपर्याय इति श्रुत्यैवोक्तम् - सनातनं क्रतुमिति । ब्राह्मणानुसारी अर्थस्तुक्त एव । अध्यात्मपक्षे - हे मर्त्य अग्ने परमेश्वर, अस्मे अस्मासु रायः श्रियः प्रथयस्व । जन्तुभिः प्राणिभिर्मनुष्य-देवगन्धर्ववानरगृध्रादिभिश्च इरज्यन् स्तुत्यादिभिर्दीप्यमानः स त्वं दर्शतस्य दर्शनीयस्य वपुषः श्रीरामादि-शरीरस्य शोभातिशयेन विराजसि । तादृशेन चिदानन्दमयेन शरीरेण वा विराजसि विशेषेण दीप्यसे । सानसिं चिरन्तनं क्रतुं सङ्कल्पं जन्मजन्मान्तरैर्भावितं त्वत्प्राप्तिसम्बन्धिनं सङ्कल्पं पृणक्षि पूरयसि । पृणक्षीति दानकर्मसु ( निघ ० ३।२०।६ ) । दयानन्दस्तु --- ' हे अमर्त्याग्ने, य इरज्यन् ऐश्वर्यं कुर्वन् । ' इरज्यतीति ऐश्वर्यं कर्मसु पठितः ' ( निघ ० २।२१।१ ) । त्वं दर्शतस्य दृष्टुं योग्यस्य वपुषी रूपस्य ' वपुरिति रूपनामसु ' ( निघ ० ३।७४ ) । सानसिं सनातनीं क्रतुं प्रज्ञां पृणक्षि सम्बध्नासि तत्रैव विराजसि, सोऽस्मे अस्मभ्यं जन्तुभिर्मनुष्यादिप्राणिभी रायः श्रियः प्रथयस्व विस्तारय ' इति, तदपि न सङ्गतम्, द्रष्टुं योग्यस्य रूपस्य सनातनीं प्रज्ञां बध्नासीत्यस्य निरर्थकत्वात् । नहि देवानां सनातनी प्रज्ञा सम्भवति तस्या अनित्यत्वात् । रूपे च कथं तस्य सम्बन्धः? विषयत्वेन आश्रयत्वेन वा? नाद्यः, अवैशेष्यात् । नान्त्यः, अनुपपत्तेः । तत्रैव विराजसीत्यपि न, पुरुषस्य तदाधारत्वायोगात् । अन्यदपि व्याख्यानं ताहमेव ॥ १० ९ ॥ इष्कर्तार॑मध्व॒रस्य॒ प्रचे॑तसं क्षय॑न्त॒ राध॑सो महः । राति वा॒मस्य॑ सु॒भगा॑ म॒हीमिषं॒ दधा॑सि सान॒सि र॒यिम् ॥ ११० ॥

मन्त्रार्थ - यज्ञ की रचना करने वाले और श्रेष्ठ चित्त वाले हे अग्निदेव, तुम यज्ञ स्थान में निवास करने वाले यजमान के निमित्त श्रेष्ठ धन - सम्पत्ति और श्रेष्ठ ऐश्वर्ययुक्त धनधान्य रूपी चिरन्तन धन प्रदान करो, क्योंकि तुम्हीं इन सबके स्वामी हो ॥ ११० ॥

हे अग्ने, अध्वरस्य यज्ञस्य इष्कर्तारं निष्पादकम् । ' निस् ' उपसर्गस्य नकारस्य ' निशब्दो बहुलम् ' ( वाज-सनेयिप्रातिशाख्य ३ | १८ ) इति नकारलोपः । प्रचेतसं प्रकृष्टचित्तयुक्तं क्षयन्तं विशिष्टस्थाने निवसन्तम्, ' क्षि निवासगत्योः ' । यजमानं प्रति वामस्य वननीयस्य महो महतो राधसो धनस्य रातिं दानं त्वं दधासि ददासि | किन, सुभगां सुष्ठु भजनीयां महीं महतीमिषमन्नं च ददासि । सानसिं पुराणं रयिं धनम् अस्मर्यमाणविषयं निधानलक्षणं च दधासि निधि दर्शयसीत्यर्थः । उव्वटाचार्य रीत्या - राधसो मह इति सप्तम्यर्थे षष्ठयो । राधसि महति स्तुमः । महाधननिमित्तं प्रार्थयामह इति यावत्, अथवा धननिमित्तं महत्त्वनिमित्तं वा, केशेषु चमरी हन्तीतिवत् । स त्वं राति दानं दधासि । कस्य सम्बन्धिनीम्? वामस्य वननीयस्य दातुः सम्बन्धिनीम् । कथंभूताम्? सुभगाम् । भगशब्दो धनवचनः । महीमिषं महतीं वृष्टिमन्नं वा दधासि । सानसिं पुराणं रयिम् अस्मर्यमाणविषयं निधानलक्षणं दधासि ।

पृष्ठ 277

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 277 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ११०-१११ ] वेदार्थपारिजात भाष्यसहिता २४१ अत्र ब्राह्मणम् - ' इष्कर्तारमध्वरस्य प्रचेतसमिति | अध्वरो वै यज्ञः प्रकल्पयितारं यज्ञस्य प्रचेतसमित्येतत् क्षयन्त राधसो मह इति क्षयन्त राधसि महतीत्येतद्रातिं वामस्य सुभगां महीमिषमिति राति वामस्य सुभगां महतीमिषमित्येतद्दधासि सानसिं रयिमिति दधासि सनातन रयिमित्येतत् ' ( श ० ७ ३ | १।३३ ) । पञ्चमीमृचं व्याचष्टे -- इष्कर्तारमिति । ' निष्कर्तारमध्वरस्य ' ( तै ० सं ० ४/२/७३ ) इति तित्तिरिणाम्नातम् । उपसर्गादिन कारलोपश्छान्दसः । इष्कर्तारं निश्चयेन निःशेषेण वा अध्वरस्य यज्ञस्य कर्तारं यज्ञस्य प्रकल्पयितारम् । द्वितीयपादे राधसो महइति षष्ठ्यन्तयोः सप्तम्यर्थतामाह - राधसि महतीति । तृतीयपादे महीतिशब्दस्य महती -शब्दपर्यायतामाह-- महतोमिषमिति । तदयं निर्गलितोऽर्थः - इष्कर्तारं यज्ञस्य निःशेषेण कर्तारम्, अत एव प्रचेतसं प्रकृष्टज्ञानवन्तम् । ' राध इति धननाम ' ( निघ ० २।१० १७ ) महति प्रभृते राधसि धने धनविषये क्षयन्तम्, ' क्षय तिरैश्वर्य'कर्मा ' ( निघ ० २।२१ ३ ) | ईश्वरत्वेन सन्तम्, ममेति शेषः । तादृशं मां यजमानं प्रति हे अग्ने, सुभगां सुष्ठु भजनीयां महीं महतीम् इषमन्त्रं सानसिं चिरन्तनं गवाश्वादिपशुरूपं च दधासि । अध्यात्मपक्षे हे पूर्वोक्त अग्ने, अध्वरस्य अश्वमेधादेरिणकर्तारं निष्कर्तारं प्रचेतसं प्रकृष्टप्रज्ञावन्तं सर्वज्ञं महति राधसि धने क्षयन्तम् ईश्वरत्वेन सन्तं यस्त्वं वामस्य वननीयस्य अभीष्टफलस्य राति दानं सुभगां सुष्टु भजनीयां महीं सानसिं पुराणं रयिं धनं दधासि ददासि तं त्वा पूर्वोक्तं रामचन्द्रं परमेश्वरं स्तुम इति शेषः । दयानन्दस्तु - ' हे विद्वन्, यस्त्वमध्वरस्याहिंसनीयस्य वर्धितुं योग्यस्य यज्ञस्य इष्कर्तारं निष्कर्तारं प्रचेतसं प्रकृष्टप्रज्ञम्, ' चेत इति प्रज्ञानामसु ' ( निघ ० ३ ९ ३ ) | वामस्य प्रशस्यस्य महो महतो राधसो धनस्य राति दातारं क्षयन्तं निवसन्तं सुभगां शोभनैश्वर्यप्रदां महीं पृथिवीम् इषमन्नादिकं सानसिं पुराणं रयिं च दधासि तस्मादस्माभिः पूज्योऽसि ' इति, तदेतदसाम्प्रतम्, तस्मादित्यादेर्मन्त्रबाह्यत्वात् । न च यस्तादृशं धनं धारयति स पूजनीयो भवति, रागप्राप्ते कर्मणि प्रवृत्तेः स्वाभाविकत्वेनाचोदनीयत्वात् । यज्ञोऽपि त्वद्रीत्या वायुशुद्धि-साधनत्वेन लौकिक एव ॥ ११० ॥

ऋ॒तावा॑नं महिषं वि॒श्वद॑श॑तम॒ग्निधि॑ सु॒म्नाय॑ दधिरे पु॒रो जनः ।

श्रुत्कर्ण॑ स॒प्रथ॑स्त॒मं त्वा ग॒रा दे॑व्य॒ मानु॑षा युगा ॥ १११ ॥

मन्त्रार्थ - हे अग्निदेव, बुद्धिमान् मनुष्यों ने पूर्णमासी, अमावस्या आदि पर्वों में वेदवाणी द्वारा सत्यस्वरूप, महान् गुण शाली, संसार के दर्शनीय, कर्णों से प्रार्थना सुनने वाले, अतिकीर्तिमान्, देवताओं के हितकारी तुमको यज्ञ के निमित्त पूर्व भाग में स्थापित किया है ॥ १११ ॥

उपरिष्टाज्ज्योतिः । यस्यास्त्रयः पादा द्वादशाक्षराश्चतुर्थोऽष्टाक्षरः सोपरिष्टाज्ज्योतिः । मानुषा मनुष्याः जना जन्तवो मनुष्यजातियुक्ता जन्तव ऋत्विग्यजमानाः । पुरः पूर्वस्मिन् काले युगा गिरा योग्यया स्तुतिरूपया वाचा विभक्तेराकारः, सुम्नाय सुखार्थम् । ' सुम्नमिति सुखनामसु ' ( निघ ० ३ | ६ | १६ ) । अग्निमत्र दधिरे स्थापितवन्तः । कीदृशमग्निम्? ऋतावानं सत्यवन्तं यज्ञवन्तं वा । पुनः कीदृशम्? महिषं महान्तम् । पुनः कीदृशम्? विश्वदर्शतं सर्वतो दर्शनीयम् । पुनः कीदृशम्? श्रुत्कर्णम् शृण्वत्कर्णम् । यद्विज्ञाप्यते तत्सत्यमेव कर्णाभ्यां श्रुत्वा सम्पादयतीत्यर्थः । पुनः कीदृशम्? सप्रथस्तमम् प्रथनं प्रथः कीर्तिः, ' प्रथ प्रख्याने ' भौवादिकादस्मात् ' सर्वधातुभ्योऽसुन् ' ( उ ० ४।१८८ ) । इत्यसुन्प्रत्ययः प्रथसा सह वर्तमानः सप्रथाः, अतिशयेन सप्रथाः सप्रथस्तमस्तम्, अतिकीर्तिमन्तम् । पुनः कीदृशम्? दैव्यम्, देवेभ्यो हितम् । ३१

पृष्ठ 278

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 278 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४२ शुक्ल यजुर्वेद संहिता [ अ ० १२ दधिरे स्थापितवन्त इति सम्बन्धः । यद्वा युगा युगैः कालदर्श पौर्णमासादिनिमित्तः । गिरा वेदवाचा कृत्वा सुम्नाय सुखाय सुखप्राप्तिहेतवे यज्ञाय त्वामग्नि पुरोऽग्रतः पूर्वभागे आहवनीयरूपेण दधिरे स्थापितवन्तः । कीदृशमग्निम्? ऋतावानम् ऋतमस्यास्तीति ऋतावान् तं सत्यवन्तम्, छान्दसो दीर्घः । ' छन्दसोवनिपो च वक्तव्यौ वंश्च मतुप् च ' ( पा ० सू ० ५।२।१० ९ - ३ ) इत्यस्त्यर्थे वन्प्रत्ययः । श्रुत्कणं शृणोत्याह्वानं श्रुत्वा चानुतिष्ठति यः स श्रुत्कर्णः । यद्वा शृणुत इति श्रुतौ क्विप् । श्रुतौ कर्णौ यस्य तम् । यद्विज्ञाप्यते भक्तैस्तत्सत्यमेव कर्णाभ्यां श्रुत्वा सम्पादयतीत्यर्थः । महिषं महान्तम् । महति आद्रियते सर्वानिति महिषः ' अविमह्योष्टिषच् ' ( उ ० ११४६ ) इति ' मह पूजायाम् ' इत्यस्मात् टिषच्प्रत्ययः 1 तम् । विश्वदर्शतं विश्वस्य दर्शनीयम् । अत्र ब्राह्मणम् -'ऋतावानमिति । सत्यावानमित्येतन्महिषमित्यग्निर्थे महिषो विश्वदर्शतमिति विश्वदर्शतो ह्येोऽग्न सुम्नाय दधिरे पुरो जना इति यज्ञो वै सुम्नं यज्ञाय वा एतं पुरो दधते श्रुत्कर्ण १ ९ सप्रथस्तमं स्वा गिरा दैव्यं मानुषा युगेत्याशृण्वन्त, सप्रथस्तमं त्वा गिरा देवं मनुष्या हवामह इत्येतत् ' ( श ० ७ | ३ | १ | ३४ ) । षष्ठोमृचमनूद्य पादशो व्याचष्टे - ऋतावानमिति । यद्यपि ऋतसत्ययोर्मानसवाचिक-यथार्थसङ्कल्पनतद्भाषणरूपत्वाद् भेदोऽस्ति तथाप्यत्र तादृशो भेदो न विवक्षित इत्याह- सत्यावानमेतदिति । अग्निर्वै महिष इति ' सहीदं जातो महान् सर्वष्णात् ' ( श ० ७ ३।१।२२ ) इति तन्नामनिर्वचनस्य प्रागाम्नातत्वात् । यज्ञो वै सुम्नमिति । यद्यपि सुम्नशब्दः सुखवाची ( निघ ० ३।६।१६ ), तथाप्यत्र प्रकरणात् तत्साधनं यज्ञ एव तस्यार्थः । श्रुत्कर्णपदं व्याचष्टे - आशृण्वन्तमिति । श्रवणशीलकर्णोपेतम्, आसमन्तात् शृण्वन्तमिति यावत् । ' गिरा ' इति विशिष्टसाधन श्रवणाद् योग्यक्रियाध्याहारेण वाक्यं पूरयति - मनुष्या हवामह इत्येतदिति । तदयगृचो निर्गलितोऽर्थः --- सत्यवन्तं महान्तं सर्वेषां दर्शनीयम् एवंभूतमग्निम् ऋत्वि-ग्यजमानलक्षणा जनाः सुम्नाय सुखसाधनाय यज्ञाय पुरो दधिरे पुरस्कुर्वन्ति । वयमपि श्रुत्कर्णम् अभिमत-फलप्रार्थनं सम्यक् शृण्वन्तं सप्रथस्तमम् अतिशय कोर्तिमन्तं दैव्यं देवं देवहितं वा त्वां गिरा स्तुतिरूपया वाचा हवामहे आह्वयामः । आह्वानकर्तारो विशेष्यन्ते - मानुषेति । मानुषाणि मनोः सम्बन्धीनि युगा युगानि युगलानि भूत्वा, जायापत्यात्मना युगलभूता मनुष्या इत्यभिप्राय इति शतपथे सायणाचार्यः । अध्यात्मपक्षे - मानुषाः सम्बन्धिनो मानुषाः अग्निम् अग्रगामिनं परमात्मानं रामचन्द्रं पुरो दधिरे पुरस्कुर्वन्ति । कीदृशमग्निम्? ऋतावानं सत्यवन्तं सत्यव्रतं सत्यव्रतप्राप्यं महिषं महान्तं सन्तं सर्वलोकब्यापकं विश्वदर्शतं सर्वैर्देर्शनीयम् । यं सुम्नाय परमार्थसुखाय जनाः पुरो दधिरे हे अग्ने भगवन् श्रुत्कर्ण भक्तकृत-प्रार्थनां श्रुत्वा चानुतिष्ठति यस्तं सप्रथस्तमम् अतिशय कीर्तिमन्तं त्वां गिरा वेदलक्षणया दिव्यया वाचा दैव्यं देवेभ्यो हितं त्वां प्रसादयाम इति शेषः । दयानन्दस्तु -- ' हे मनुष्य, यथा जना गिरा वाचा सुम्नाय सुखाय दैव्यं देवेषु विद्वत्सु कुशलं श्रुत्कणं श्रुतो श्रवणसाधको कर्णौ यस्य बहुश्रुतस्य तं विश्वदर्शतं सर्वविद्याबोधस्य द्रष्टारं सप्रथस्तमं प्रथसा विस्तरेण सह वर्तमानः सप्रथाः, तमतिशयितम् ऋतावानम् ऋतं सत्यं बहु विद्यते यस्मिंस्तं महिषमग्नि महान्तं विद्वांसं मानुषा विद्याविज्ञानेन प्रादुर्भूता मनुष्या युगा युगानि वर्षाणि कृतादीनि वा पुरो दधिरे, तथैव विद्वांसमेतानि च त्वं धेहीति त्वां शिक्षयामि ' इति, तत्तुच्छम् तादृशसम्बोधनस्य निर्मूलत्वात्, विश्वपदस्य सर्वविद्याबोधार्थत्वे मानाभावात् । जना इत्यस्यापि विद्याविज्ञानेन प्रादुर्भूता मनुष्या इत्यपि स्वाभ्युहमात्रम्, निर्मूलत्वात् । पूर्वोक्तश्रुतिव्याख्याविरुद्धं चैतद् व्याख्यानम् ॥ १११ ॥

पृष्ठ 279

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 279 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ११२ ] वेदार्थ पारिजात भाष्यसहितां २४३

आप्या॑यस्व समे॑तु ते वि॒श्वत॑ः सोम॒ वृष्ण्य॑म् । भवा॒ वाज॑स्य सङ्ख्थे ॥ ११२ ॥

मन्त्रार्थ हे सोम, सब ओर से सब प्राणियों की उत्पत्ति करने वाला तेज तुमको प्राप्त हो । तुम अपने वीर्य से सब प्रकार से परिवर्धित होकर यज्ञ आदि सत्कार्य के उपयोगी अन्न की प्राप्ति के निमित्त हमारे निकट आओ ॥ ११२ ॥

' आप्यायस्वेति सिकतालम्भनमृग्भ्याम् ' ( का ० श्रो ० १७ | ३ | १५ ) | आत्मनि विस्तारिताः सिकताः स्पृशति ऋद्वयेनेति सूत्रार्थः । गोतमदृष्टाः सोमदेवत्यास्तिस्र ऋचो गायत्रीत्रिष्टुबुष्णिक छन्दस्काः । एतासु तृतीयस्या विनियोगः सूत्रे नास्ति । हे सोम, त्वम् आप्यायस्व सर्वतो वर्धस्व 1 । विश्वतः सर्वस्माद् वृष्ण्यं वीर्यं सर्वोत्पत्तिद्वीजं ते तव समेतु समागच्छतु । तेन च वीर्येण आप्यायस्व सर्वतो वर्धस्व । ते तव वृष्ण्यं वीर्यं विश्वतः सर्वस्मात् समेतु सम्प्राप्नोतु । किन, वाजस्य अन्नस्य सङ्गथे सङ्गमननिमित्तं भव, अन्नमस्मासु सङ्गमयेत्यर्थः । यद्वा हे सोम, आप्यायस्व अस्मानभिवर्धय । विश्वतः सर्वतो वृष्ण्यं बीयं ते समेतु त्वामागच्छतु । ततस्त्वं सर्व-भूतोत्पत्तिना वृष्ण्येन वीर्येण युक्तो भवेत्यर्थः । वाजस्य अन्नस्य सङ्गथे सङ्गमने निमित्तं भव, अन्नभावं प्राप्नुहि अन्नं वा प्राप्नुहि । अत्र ब्राह्मणम् -'ता एता यजुष्मत्य इष्टकाः । ता आत्मन्नेवोपदधाति न पक्षपुच्छेष्वात्मन् ह्येव यजुष्मत्य इष्टका उपधीयन्ते न पक्षपुच्छेषु न सादयति नेद्रेतः प्रजातिछ " स्थापयानीति ' ( श ० ७ | ३ | १ | ४४ ) । लोकेष्टकावत् सिकतानामप्यात्मभाग एवोपधानं विधत्ते ता एता इति । सिकतानामपीष्टकात्वाद् इतरेष्टकास्विव प्रसक्तं सादनं निषेधति - न सादयतीति । ' तया देवतया ' इति मन्त्रेण स्थापनं सादनम्, तन्न कर्तव्यम् । निषेधकारणमाह-नेद रेत इति । प्रजाति प्रजोत्पत्तिकारणं रेतः शुक्रं नैव क्वचिदपि स्थापयानीत्यभिप्रायेणेत्यर्थः । सादने हि तत् क्वचिदेकत्रैव प्रतिष्ठितं स्यात्, न तु चलितं सद् गर्भाशये प्रविशेत् । ' अथैना आप्यानवतीभ्यामभिमृशति । इदमेवे -तद्रेतः सिक्तमाप्याययति तस्माद्योनौ रेतः सिक्तमाप्यायते सौमीभ्यां प्राणो वै सोमः प्राणं तद्रेतसि दधाति तस्माद्रेतः सिक्तं प्राणमभिसम्भवति पूयेद्ध यहते प्राणात् सम्भवेदेषो हैवात्र सूददोहा: प्राणो वै सोमः प्राणः सूददोहा: ' ( श ० ७ | ३ | १ | ४५ ) । समन्त्रकमेतासामभिमर्शनं विधत्ते - अथैना इति । आप्यानवतीभ्याम् आप्यायनक्रियावतीभ्याम्, ' आप्यायस्व, सं ते ' ( वा ० सं ० १२।११२-११३ ) इति ऋग्भ्यामित्यर्थः । इदमेवैतत् सिकतात्मकं सिक्तं रेत आप्याययति धातुयुक्तमन्त्रकरणकाभिमर्शनेन आप्याययति प्रवर्धयति । यत एवं तस्मात् स्त्रीणां योनी पुरुषः सिक्तं रेत आप्यायते शरीराकारेण परिणतं सद्वर्धते । मन्त्रसम्बन्धिदेवताद्वारेण प्रशंसति --- सौमीभ्यामिति । सोमोऽनयो-देवतेति ताभ्यामृग्भ्यामभिमृशतीत्यर्थः । प्राणो वै सोम इति । प्राणस्य तावदुदकमयत्वं प्रसिद्धम्, ' आपोमयः प्राणः ' ( छा ० उ ० ६।५।४ ) इति श्रुतेः । सोमोऽप्यमृतमय रसात्मकतया प्राणोपादानत्वात् प्राण एव । तत् तेन सौमीभ्यामभिमर्शनेन सिकतात्मके सिक्ते रेतसि सोमात्मकं प्राणमेव स्थापयति । यत्तु प्राणादृते रेतः सिच्यते, तत् पूयेद् ह न शरीराकारता तस्य सम्पद्येतेत्यर्थः । अस्याभिमर्शनस्य सुददोहसाधिवदनकार्यकरत्वात् तदात्मकता -माह - एषो हैवात्रेति । यत् सौमीभ्यामभिमर्शनमेषैवात्र सिकतोपधाने सुददोहा: । ' ता अस्य सूददोहसः ' इति मन्त्रकरणकमधिवदनम् । कथमन्यस्यान्यात्मतेत्यत आह- प्राणो वा इति । अभिमर्शन मन्त्रप्रतिपाद्यस्य सोमस्य सूददोहसश्च प्राणात्मकत्वसाम्यादित्यर्थः । ' आप्यायस्व समेतु ते । विश्वतः सोम वृष्ण्यमिति रेतो व वृष्ण्य-माध्यायस्व समेतु ते सर्वतः सोम रेत इत्येतद् भवा वाजस्य सङ्गथ इत्यन्नं वै वाजो भवान्नस्य सङ्गथ इत्येतत् सं ते या सि समु यन्तु वाजा इति रसो वै पयोऽन्नं वाजाः ' ( श ० ७ | ३ | १ | ४६ ) | प्रथमामृचमनूद्या-प्रसिद्धार्थं पदं व्याचष्टे - आप्यायस्वेति । वृषा सेचनसमर्थो युवा, तत्र भवं वृष्ण्यमिति व्युत्पत्तेर्वृष्ण्यशब्देन रेतः

पृष्ठ 280

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 280 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४४ शुक्लयजुर्वेद संहिता [ अ ० १३ प्रतिपाद्यत इत्यर्थः । पदार्थमुक्त्वा वाक्यार्थं योजयति - सर्वतः सोम रेत इत्येतदिति । अन्नं वै वाज इति । वाजशब्दस्य ' वज व्रज गती ' इत्यस्माद् व्युत्पन्नस्य मत्यर्थत्वादत्र च तत्प्रतिपादकत्वायोगाद् रूढ्या वाजशब्देनान्न-मुच्यते । अत एव वाजशब्दोऽन्ननामसु पठ्यते - ' अन्धः । वाजः । पयः ' ( निघ ० २ | ७ | १-३ ) । तथा च हे सोम, त्वमाप्यायस्व वर्धस्व, अस्मान् वा वर्धय । त्वदीयं वृष्णस्त्वत्सम्बन्धि रेत इममग्नि विश्वतः सर्वतः समेतु प्राप्नोतु । अन्नस्य सङ्गमनाय त्वमस्माकं भवेति मन्त्रार्थः । अध्यात्मपक्षे - हे सोम साम्बसदाशिव, त्वमाप्यायस्व आत्मानमस्मांश्च वर्धयस्व । विश्वतः सर्वतो वृष्ण्यं वीर्यं समेतु त्वयि समागच्छतु सर्वाश्रयत्वात् । तेन वीर्येण आप्यायस्व सर्वं वर्धयस्व । किञ्च, वाजस्यान्नस्य सङ्गथे सङ्गमननिमित्तं भव, सर्वकारणत्वात् सर्वपोषकत्वाच्च । दयानन्दस्तु —— हे सोम कान्तियुक्तराजपुरुष, तादृशस्य विदुषः सङ्गात् ते वृष्ण्यं वृष्णो वीर्यवतः कर्म विश्वतः सर्वतः समेतु सङ्गच्छताम् । तेन त्वमाप्यायस्व वर्धस्व । वाजस्य विज्ञानवेगाभ्यां संग्रामस्य वेत्ता सन् सङ्गथे युद्धे विजयी भव ' इति, तदपि सारशून्यम्, निर्मूलकल्पनाजालप्रायत्वात् । सोमकान्तियुक्तराजपुरुषबोध-करवं सोमशब्दस्य गौणार्थाश्रयणमेव । अन्वयाद्यनुपपत्तेस्तदयुक्तमेव । नात्र कश्चन तादृशो विद्वान् प्रसक्तो न च तत्सङ्गादेव वृष्ण्यसङ्गमो दृश्यते, न वा संग्रामवेदनेनैव जयो लभ्यते, शस्त्रास्त्रादिबलप्रयोगसाध्यत्वाद् विजयस्येति ॥ ११२ ॥

सं ते॒ पया॑सि॒ सम॑ यन्तु॒ वाजा॒ सं वृष्ण्या॑न्यभिमाति॒षाहः ।

आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवा॑धि॒स्युत्त॒मानि॑ धिष्व ॥

११३ ॥

मन्त्रार्थ - हे सोम, पीने योग्य यह रस तुम्हारे सम्पर्क से पापनाशक शक्ति को प्राप्त करे, यजमान को अन की संगति प्राप्त हो, वीर्य तुमको प्राप्त हो । दूध, अन्न और बीयं से वृद्धि को प्राप्त होते हुए तुम अमरण धर्म को प्राप्त कराने बाले हो और धुलोक में श्रेष्ठ आहुति के परिणामस्वरूप अन्न को धारण करने वाले हो ॥ ११३ ॥

हे सोम, तव पयांसि पातव्यानि क्षीरादीनि संयन्तु सम्प्राप्तानि भवन्तु । उतापि च वाजा अन्नान्यपि संयन्तु । वृष्ण्यानि रेतांस्यपि संयन्तु । कीदृशस्य तव? अभिमातिषाहः अभिमाति पाप्मानं सहते तिरस्करोती-त्यभिमातिषाट्, तस्य । षत्वं छान्दसम् । हे सोम, क्षीरादिसम्पत्ती सत्यां स्वयं पयोऽन्नवृष्ण्यंराप्यायमानो वर्धमानोऽमृताय यजमानस्यामृतत्वाय देवभावाय भवेति शेषः । तथा प्रजात्यं यजमानस्य पुत्रादिवृद्धयै यजमानस्य भव । अमृतशब्देन श्रुत्या प्रजातिर्व्याख्याता । तथा च श्रुतिः --- ' प्रजात्यां तदमृतं दधाति तस्मात् प्रजातिरमृतेति ' ( श ० ७ | ३ | १ | ४६ ) | एवं चामृतायामरणधर्मिण्यं प्रजात्यं पुत्रादिवृद्धये यजमानस्य भवेति । दिवि द्युलोके उत्तमानि उत्कृष्टानि श्रवांस्यन्नानि आहुतिपरिणामजनितानि धिष्व धारय सम्पादय । ' धि धारणे ' इति तौदादिकस्य रूपम् । विकरणव्यत्यय आत्मनेपदं च छान्दसम् । धत्स्वेत्यर्थे ' सुधितवसुधितनेमधित धिष्वधिषीय च ' ( पा ० सू ० ७।४।४५ ) इति निपातनं वा । -अत्र ब्राह्मणम् —'सं ते रसाः समु यन्त्वन्नानीत्येतत् सं वृष्ण्यान्यभिमातिषाह इति स रेता सि पाप्मसह इत्येतदाप्यायमानो अमृताय सोमेति प्रजात्यां तदमृतं दधाति तस्मात् प्रजातिरमृता दिवि श्रवा-स्युत्तमानि धिष्वेति चन्द्रमा वा अस्य दिवि श्रव उत्तम स ह्येनममुष्मिँल्लोके श्रावयति द्वाभ्यामाप्याययति गायत्र्या च त्रिष्टुभा च तस्योक्तो बन्धुः ' ( श ० ७ | ३ | १ | ४६ ) । द्वितीयामाप्यानवती मनूद्याप्रसिद्धार्थानि पदानि