वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 281–290
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 281–290
पृष्ठ 281
पाठ पढ़ें पाठ छिपाएँ
म ० ११३-११४ ] वेदार्थपारिजातभाष्यसहिता २४५ व्याचष्टे सं ते पयांसीति । अत्र पयः शब्दो रसपरः, वाजशब्दोऽन्नपरः । अभिमातिशब्देन पाप्मोच्यत इत्याह- पाप्मसह इत्येतदिति । तृतीयपादेऽमृतशब्दस्याभिप्रायमाह - प्रजात्यामिति । पुत्रपौत्रादिरूपेण यंत्र प्रजातिलक्षणा प्रजोत्पत्तिरूपा क्रिया सा अमृता । आप्यायमान इत्यनेन मन्त्रभागेन तस्यां प्रजात्याममृतत्वं स्थापयति । यस्मादेषं तस्मात् प्रजातिः प्रजोत्पत्तिः, अमृता मरणरहिता अविच्छिन्ना सार्वकालिकी वर्तत इत्यर्थः । चतुर्थपादे श्रवः शब्दस्यार्थमाह - चन्द्रमा वा अस्य दिवि श्रव इति । अस्य अधियज्ञं लतारूपेण वर्तमानस्य सोमस्य दिवि द्युलोके उत्तमम् उत्कृष्टं श्रवो नाम चन्द्रमा एवोच्यते । अस्य श्रवः शब्दाभिधेयतां प्रतिपादयति-स ह्येनमिति । अमुष्मिन् स्वर्गे लोके स खलु चन्द्रमा एनं सोमममृतात्मना पीयमानः सन् श्रावयति प्रख्यापयति, अतः श्रावयितृत्वात् श्रवः शब्देन स उच्यत इत्यर्थः । मन्त्रगतं द्वित्वं छन्दोविशेषं चानूद्य तस्य स्तावको वाक्यशेषः प्रागाम्नात इत्याह-- द्वाभ्यामिति । तथा च हे सोम, पयोऽन्नवृष्ण्यंराप्यायमानः सन् अमृता अमरणधर्मिण्ये प्रजात्यं पुत्रादिवृद्धयेऽविच्छित्तये वा यजमानस्य भव । दिवि उत्तमानि उत्कृष्टानि श्रवांसि अन्नानि आहुतिपरिणामजनितानि धिष्व धारय । लोकद्वयसंयोगं सम्पादयेति निर्गलितार्थः । अध्यात्मपक्षे - हे तथाविध सोम, पयांसि पातव्या रसाः, ते तव संयन्तु सङ्गच्छन्ताम् । तथैव वाजा अन्नानि वृष्ण्यानि वीर्याणि च संयन्तु । अभिमातिषाहः स्वरूपेणैव पाप्मतिरस्कर्तुस्तव प्रसादात् पयोवृद्धया आप्यायमानस्त्वं साधकस्य अमृताय अमृतत्वाय मोक्षपदप्राप्तये भव । ततो दिवि द्युलोके स्वप्रकाशे परमात्मनि श्रवांसि भगयशोरूपाण्यन्नानि धिष्व धारय । अत्र दयानन्दः - ' हे सोम, यस्मै ते पयांसि संयन्तु अभिमातिषाहो येऽभिमानयुक्तान् शत्रून् सहन्ते निवारयन्ति वाजा धनुर्वेदबोधजा वेगाः समुयन्तु वृष्ण्यानि वीर्याणि संयन्तु स आप्यायमानस्त्वं दिवि द्योतनात्मके परमेश्वरे अमृताय मोक्षसुखाय उत्तमानि श्रवांस्यन्नानि धत्स्व ' इति, तदपि यत्किञ्चित्, मनुष्यरूपाय सोमाय नाशीर्वादमात्रेण संयन्ति, न वा अभिमानिशत्रुमिवारणसमर्था वीरा धनुर्वेदबोधजा वेगाश्च आशीर्वादमात्रलभ्याः । तस्मान्निरर्थक प्रलापमात्रमेतत् ॥ ११३ ॥
आययस्व मदिन्तम् सोम॒ विश्वे॑भिरंशुभिः ।
भव नः स॒ प्रय॑स्तम॒ः सखा॑ वृ॒धे ॥ ११४ ॥
मन्त्रार्थ - अतिशय तृप्त अन्तःकरण वाले हे सोमदेव, अत्यन्त विख्यात कीर्ति वाले तुम सम्पूर्ण सूक्ष्म अंशों के द्वारा वृद्धि को प्राप्त करो और हमारी वृद्धि के निमित्त सहायक बनो ॥ ११४ ॥
दिन्तम, मदयति तर्पयतीति मदी, ' नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ' ( पा ० सू ० ३ | १ | १३४ ) इति ग्रह्मादित्वाणिनिः, यद्वा मदस्तृप्तिरस्यास्तीति मदी, ' अत इनिठनौ ' ( पा ० सू ० ५।२।११५ ) इतीन्, अतिशयेन मदी मदिन्तमः । ' नाद् घस्य ' ( पा ० सू ० ८ | २ | १७ ) इति नान्तात् परस्य तमपो नुडागमः । ईदृश हे सोम, त्वमात्मानमाप्यायस्व वर्धस्व । ततो विश्वेभिर्विश्वैः सर्वैरंशुभिः सूक्ष्मांशः सखा सखिभूतः सन्नोऽस्माकं वृधे वर्धनाय सखा सहायो भव । ' द्वघचोऽतस्तिङ: ' ( पा ० सू ० ६ | ३ | १३५ ) इति संहितायां दीर्घः । कीदृशस्त्वम्? सप्रथस्तमः, अतिशय सत्कीर्तिः । अध्यात्मपक्षे - हे मदिन्तम वर्पयितृतम सोम साम्बसदाशिव, त्वमस्मान् आप्यायस्व वर्धयस्व | कैः साधनैरित्याशङ्कयाह - विश्वेभिः सर्वैरंशुभिर्ज्ञानरूप रश्मिभिः । एवंभूत हे सोम, स त्वं नोऽस्माकं वृधे वर्धनाय सखा सहाय भूत्वा सप्रथस्तमो भव निरवच्छिन्न परब्रह्मरूपेण आविर्भूतस्वरूपो भव ।
पृष्ठ 282
पाठ पढ़ें पाठ छिपाएँ
२४६ शुक्लयजुर्वेद संहिता [ ".२ अ १२ दयानन्दस्तु - ' हे मदिन्तम सोम, त्वमंशुभिः किरणैः सूर्य इव विश्वेभिः साधनैराप्यायस्व । सप्रथस्तमः सखा मित्रः सन् नो वृधे वर्धनाय भव ' इति तदपि यत्किचित् जीवस्य कस्यचिदपि तादृशानन्दा-सम्भवात् । किश्च नात्राल्पज्ञ उपदेष्टा } तथा सति वेदे पौरुषेयत्वापत्तिः । न वा सर्वज्ञ: तथा सति नो वृधे भवेति प्रार्थनायोगात् । सुहृद्वाचकस्य मित्रशब्दस्य नित्यनपुंसकत्वं स्वीकुर्वाणोऽप्यत्र ' मित्रः ' इति प्रयुङ्क्ते । तदस्य बुद्धिवैशद्यम् ॥ ११४ ॥
आ ते॑ व॒त्स मनो॑ यमत् पर॒माच्चित् स॒धस्था॑त् । अग्ने॒ त्वां कामया गिरा ॥ ११५ ॥
मन्त्रार्थ - हे अग्निदेव, तुम्हारा वत्सस्वरूप यजमान तुम्हारी स्तुति करने को इच्छा वाली वेदवाणी के द्वारा उत्कृष्ट द्युलोक से तुम्हारे मम को अपनी तरफ आकृष्ट करता है ॥ ११५ ॥
' श्वेतेऽश्वे पुरस्तात्तिष्ठति श्वेताभावेऽश्वेतेऽश्वाभावेऽनडुहि, अग्निभ्यः प्रह्रियमाणेभ्योऽनुवाचयति ' ( का ० श्री ० १७।३।१ ९ -२० ) । प्राच्यां दिशि श्वेतेऽश्वे तदभावेऽश्वेतेऽश्वे तदभावेऽनडुहि तिष्ठति सत्यग्निभ्यः प्रह्रियमाणेभ्योऽनुब्रूहीति प्रेषितो होता आ ते वत्स इति तृचमनुवक्तीति सूत्रार्थ: । अयमभिप्रायः - क्वचित् पाकस्थे घृते कुशाग्राणि न्यज्य तैराज्याक्तैः कुशाग्रैश्चस्था इष्टकाः प्रोक्षेत् । इटाचर्मणः प्राच्यां दिशि श्वेतेऽश्वेते वा अश्वे तदभावेऽनडुहि तिष्ठति सत्यग्निभ्यः प्रह्रियमाणेभ्योऽनुब्रूहीति वाचयेत् । इदं चानुवाचनम् -'उत्तरवेदिप्रोक्षणाद्यासम्भारनिवपनात् कृत्वा ( का ० श्र ० १७ । ३ । २६ ) इति वक्ष्यमाणत्वादत्र पूर्वमाज्यं संस्कृत्य पञ्चगृहीतं गृहीत्वा आज्यप्रोक्षणीरुद्यम्य इष्टकाश्चोद्यम्य कुर्यात् । अग्निदेवत्यास्तिस्रो गायत्र्यः । आद्या वत्सारदृष्टा द्वितीया विरूपदृष्टा, तृतीया तु प्रजापतिदृष्टव । हे अग्ने, ते तव वत्सः प्रियभूतो यजमानस्त्वां कामया वां स्तोतुं काम्यया अनया गिरा वाचा परमाच्चित् सधस्थादुत्कृष्टादपि स्थानाद् मनः अन्तःकरणम् आ यमत् समन्तात् नियच्छति । यद्वा हे अग्ने, आयमद् गृहीतवान् ते तव वत्सः पयोजीवन-सामान्याद् ६ जमानो वत्सः, स हि पयोव्रतो भवति । पयोव्रतत्वाद् वत्स समस्त्वत्प्रियः । परमाद् उत्कृष्टात् । चिच्छन्दोऽप्यर्थः । उत्कृष्टादपि सधस्थात् सह तिष्ठति यस्मिंस्तत् सधस्थं द्युलोकम् ' सधमादस्थयोश्छन्दसि ' ( ६ | ३ | ९ ६ ) इति सहस्य सधादेशः । द्युलोके देवैः सह अग्निस्तिष्ठतीत्यर्थः । उत्कृष्टादपि द्युलोकाद् मन आहृत्येति शेषः । आ यमद् आयच्छति, मनोनिग्रहं करोतीत्यर्थः । ' इषुगमियमां छः ' ( पा ० सू ० ७ ३ ७७ ) इति छत्वाभावः, ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३२४ / ९ ७ ) इतीकारलोपश्च छान्दसी । केन कारणेन मन आयमति तत्राह - त्वाङ्कामया त्वां स्तोतुं कामयमानया गिरा वाचा । यद्वा त्वां कामयते स्तोतुमिच्छतीति स्वाङ्काम-स्तया, अलुक्समासश्छान्दसः । तत्र ब्राह्मणम् -'तर्द्धकेऽन्वाहुः । पुरीष्यासो अग्नयः प्रावर्णेभिः सजोषस इति प्रायणरूपं न तथा कुर्यादाग्नेयोरेव गायत्रीः कामवतीरनुब्रूयादा ते वत्सो मनो यमत्तुभ्यं वा अङ्गिरस्तमाग्निः प्रियेषु धामस्विति ' ( श ० ७ | ३ | २८ ) । तत्र होत्राऽनुवक्तव्यामृचमेकीयमतेनोपन्यस्य व्याचष्टे - तर्द्धक इति । तत् तत्र एके केचन ऋशाखाध्यायिनः ' पुरीष्यासो अग्नयः ' ( ऋ ० सं ० ३।२२1४ ) इत्येतामृचं होत्रानुवक्तव्यामाहुः । पुरीषशब्दस्य पशुपर्यायत्वात् पुरीष्यास इत्यस्य पशव्यास इति व्याख्यानम् । पशुभ्यो हिता इत्यर्थः । प्रावणेभिरिति पदस्यार्थमाह- प्रायणरूपमिति । प्रायणस्य प्रगमनकर्मप्रवृत्तेः प्राबणेभिरिति प्रशब्दोपेतं पदं सूचकम् । एतदेकीयमतं प्रतिषिध्य स्वमतमाह- -न तथा कुर्यादिति । आग्नेयीरग्निदेवताकाः कामवतीः कामशब्दोपेताः, गायत्रीर् गायत्रीच्छन्दस्का एव ऋचो ब्रूयात् । का पुनस्ता इत्याह - आते बत्स इत्यादिना ।
पृष्ठ 283
पाठ पढ़ें पाठ छिपाएँ
म ० ११५ ] वेदार्थपारिजातभाष्यसहिता २४७ ' आग्नेयीरत्वाह । अग्निरूपाणामुपायं कामवतीः कामानामुपायं गायत्रीर्गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतोभूत १७ सिनति तिस्रस्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनमेतद्रेतोभूत, सिति ताः सप्त सम्पद्यन्ते सह त्रिरनुक्ताभ्या सप्तचितिकोऽग्निः सप्तर्तवः संवत्सरः संवत्सरोऽग्नि-वाग्निर्यात्यस्य मात्रा तावत्तद् भवत्युपाश्वन्वाह रेतो वा अत्र यज्ञ उपा ७ श वै रेतः सिच्यते पश्चादनुब्रुवन्नन्वेति छन्दोभिरेवैतद्यज्ञं पश्चादभिरक्षन्नेति ' ( श ० ७ ३ २ ९ ) । आग्नेयीत्यादिधर्मानव-त्यानूद्य स्तौति - आग्नेयीरन्वाहेति । देवतारूपेणाग्निना तत्सम्बन्धिनां सर्वेषां रूपाणामुपाप्तिर्भवतीत्यर्थः । तथा नासामृचां कामशब्दोपेतत्वात सर्वकामोपाप्तिरपि भवति । रेतोभूतं सितीति । अस्यामवस्थायां रेतः-संस्तुतानां सिकतानां निवपमाद् रेतोरूपापन्नः खल्वयं चित्योऽग्निस्तादृशं सिञ्चति अङ्गप्रत्यङ्गयुक्तं संस्करोती-त्यर्थः । ऋत्विमनूद्य स्तौति - तिस्र इति । ताः सप्तेत्यादि । तास्तिस्र ऋचः सप्तसंख्याकाः सम्पद्यन्ते । सम्पत्ति-प्रकारमाह - सहेति । त्रिः त्रिवारम् अनुक्ताभ्याम् आद्योत्तमाभ्यां सह सप्तसंख्या सम्पद्यत इत्यर्थः । सप्तर्तवः संवत्सर इति । वसन्ताया: षट संसर्पाहस्पतिलक्षणः सप्तम ऋतु: । अनुवचने उपांशस्वरं विधाय स्तौति -उपा वन्वाहेति । यथा पार्श्वस्था जना न शृणुयस्तथाऽनुब्रूयादित्यर्थः । रेतः सेचनस्योपांशत्वं परैरज्ञायमान-त्वेन कर्तव्यत्वं लोके प्रसिद्धम् । तस्मादनुवचनमुपांश कर्तव्यमित्यर्थः । अनुवचनसमये होतुरनुगमनं विधत्ते-अनुवन्तीति । अनुवचनं कुर्वन् होता स्वयमपीष्टका अन्वेत्यनुगच्छति । सर्वेषां छन्दसां गायत्र्यामन्तर्भावात् तदन्तर्भुतेश्छन्दोभिरेवैत देतेनानुगमनेन यज्ञं पृष्ठतोऽभिरक्षन् अभितः सर्वतो रक्षःप्रभृतिभ्यो गोपायन् एति । ' अथाश्व १७ शवलं पुरस्तान्नयन्ति । एतद्वै देवा अबिभयुर्यद्वै न इह रक्षा ७ सि नाष्ट्रा न हन्युरिति त एतं वज्रमपश्यन्नमूमेवादित्यमसो वा आदित्य एषोऽश्वस्त एतेन वज्रेण पुरस्ताद्रक्षा ७ सि नाष्ट्रा अपहत्याभये -नाष्ट्रे स्वस्ति समाश्नुवत तथैवैतद्यजमान एतेन वज्रेण पुरस्ताद्रक्षासि नाष्ट्रा अपहत्याभयेऽनाष्ट्रे स्वस्ति समश्नुवत आगच्छन्त्यग्नि दक्षिणतः पुच्छस्य चितिमुपनिदधत्युत्तरतोऽश्वमाक्रमयन्ति ' ( श ० ७७३।२।१० ) । इष्टका-हरणसमये श्वेताश्वस्य पुरतो नयनं विधत्ते - अथाश्वमिति । अश्वस्य आदित्यरूपवज्रात्मकत्वं कथयंस्तस्य पुरस्तान्नयनं यज्ञविघातक रक्षोनिबर्हणहेतुत्वेन स्तौति - एतद्वा इत्यादिना । असो वा आदित्य एषोऽश्व इति । विरारूपस्य प्रजापतेश्चन्द्रसूर्यौ हि चक्षुषी, अश्वश्च तदीयाच्चक्षुष उत्पन्नः । तथा च श्रूयते - ' प्रजापतेरक्ष्यश्व-यत्तत्परापतत्ततोऽश्वः समभवत् ' ( श ० १३ | ३ | १ | १ ) । तथा तैत्तिरीयेऽपि -- ' अमुमादित्यमश्वं श्वेतं भूतं दक्षिणा-मनयन ' ( तै ० ब्रा ० १२६ ८ ) । आगच्छन्त्यग्निं दक्षिणत इति । अश्वप्रमुखास्ते ऋत्विग्यजमाना इष्टकाभि: सहाग्निसमीपमागच्छेयुः आगत्य चाग्निचितिक्षेत्रं पच्छस्य दक्षिणभागे चर्मणा हृतां चितिमुपनिदधति, चित्यर्थ-मानीता इष्टकाः स्थापयन्तीत्यर्थः । तस्याग्निपुच्छ्स्योत्तरभागे तमश्वमाक्रमगन्ति । आक्रमणानन्तरं पुनस्तमश्व-मग्नेरुत्तरार्धेनाग्निक्षेत्रस्योत्तरभागे परिश्रिदाख्याः शर्करा अन्तरेण परिश्रितामग्नेश्च मध्यप्रदेशे प्राङ्मुखं नयन्ति । तेन प्राचीदिकसम्बन्धिनं पाप्मानमादित्यात्मकाश्वलक्षणेन वत्रेणापहन्ति । पुनस्तमश्वं पूर्वस्यां दिश्यग्नेः परिश्रितां च मध्ये दक्षिणा दक्षिणतो निहितमुखमित्यर्थः । तं प्रत्यचमित्यादावेवमेव योज्यम् । एवं चतसृषु दिक्ष्वाक्रमणेन सर्वाभ्य एव दिग्भ्यो रक्षांसि विनाश्यानन्तरमेनमश्वं प्रागुदङ्मुखं विमुञ्चति । तं प्रत्यचं यन्तम् । एतां चितिमवप्रापयत्यसो वा आदित्य एषोऽश्वः... ' ( श ० ७।३।२।१२ ) । तस्याश्वस्य प्रत्यङ्मुख-नयनसमये चितेरवघ्रापणं विधत्ते - तं प्रत्यञ्चमिति । यथा सोऽश्वश्चितिमवजिघ्रति, तथा तं प्रेरयेदित्यर्थः । तदेतदिष्टकानामादित्येऽवप्रापणं प्रजासु प्राणप्रतिष्ठापनहेतुत्वेन स्तौति - असो वा आदित्य एषोऽश्व इति । अध्यात्मपक्षे — हे अग्ने परमेश्वर, ते तव वत्सो बत्सवत् प्रिय उपासकः परमाच्चित् सधस्थाद् उत्कृष्टा-दपि द्युलोका गिरा वेदवाचा, मन आहृत्येति शेषः । आयमद् आयच्छति गृह्णाति । त्वत्कृपया दुष्करमपि चित्त-
पृष्ठ 284
पाठ पढ़ें पाठ छिपाएँ
२४८ शुक्लयजुर्वेदसंहिता | अ ० १२ निग्रहं सम्पादयतीत्यर्थः । कीदृश्या वाचा? स्वाङ्कामया त्वां कामयते स्तोतुमिच्छति या सा त्वाङ्कामा तया स्वरस्तुतिप्रवणया इति यावत् । दयानन्दस्तु - ' हे अग्ने विद्वन्, त्वाङ्कामया यया त्वां कामयते तया गिरा वाचा यस्य ते मनः परमा-दुत्कृष्टात् चिद् अपि सधस्थात् समानस्थानाद् वत्सो गोरिव अयमत् उपरमेत, स त्वं मुक्ति कथं नाप्नुयाः ' इति, तदपि यत्किञ्चित् ' विद्वन् ' इति सम्बोधनस्यैव निर्मूलत्वात् श्रुतिसूत्रविरोधाच्च ॥ ११५ ॥
तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा॑ः सु॒क्षि॒तय॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥ ११६ ॥
मन्त्रार्थ - हे अतिहविभक्षक अग्निदेवता, सम्पूर्ण प्रसिद्ध स्वगं आदि सुन्धर स्थानों को देने वाली ये अनेक प्रकार की स्तुतियाँ हमारी अभिलाषा को पूर्ण करने वाले तुम्हारे निमित्त हमने की हैं ॥ ११६ ॥
हे अङ्गिरस्तम, अन्यते जीव्यते येन तद् अन् अन्नम्, अन् गिरति स्वात्मसात् करोतीत्यङ्गिराः, अतिशयेन अङ्गिरा अङ्गिरस्तमः, तत्सम्बुद्धी, हे अग्ने! तुभ्यं यजमानः कृता या: पृथग नानाभूता विश्वाः सर्वाः सुक्षितयः सुष्ठु शोभना क्षितिर्निवासो यासां ताः स्थानकरणानुप्रदानवत्यो देवता याथात्म्य चिन्तनगर्भाः । अथवा सुष्ठु क्षितिर्याभ्यस्ताः स्वर्गादिशुभस्थान प्रदाः स्तुतयः कामाय अभिलाषपूरणार्थं तुभ्यं त्वयि येमिरे नियम्यन्ते, यजमानैरिति शेषः । कर्मणि लिट् । यजमाना इह कामनापूर्त्यै द्युलोकावाप्त्यं च मन्त्रैस्त्वामेव स्तुवन्तीति भावः ॥ ११६ ॥
अग्निः प्रयेषुधर्म
भू॒तस्य॒ भव्यस्य । स॒म्राडेको विररा॑जति ॥ ११७ ॥
इति श्रीमाध्यन्दिनीयायां वाजसनेयिसंहितायां द्वादशोऽध्यायः ॥
मन्त्रार्थ- -- उत्पन्न और उत्पद्यमान यजमानों की कामनाओं को पूर्ण करने वाले, सम्यक् प्रकार से विराजमान अग्नि देवता अपने प्रिय स्थानों में बिना किसी की सहायता के सम्राट् के समान विराजमान रहते हैं ॥ ११७ ॥
१२ वाँ अध्याय समाप्त । अग्निर्भुतस्य उत्पन्नस्य भव्यस्य भविष्यतश्च जनस्य कामः कामपूरकः । कथम्भूतोऽग्निः? सम्राट्, सम्यग् राजत इति सम्राट् । पुनः कथंभूतः? कामः काम्यत इष्यते सर्वेर्यष्टुमिति कामः । अथवा भूतस्य भव्यस्य च सम्राड् ईश्वरः । प्रियेष्वभिरुचितेषु धामसु स्थानेषु एकः सहायनिरपेक्षः सन् त्रिराजति विशेषेण दीप्यते । अध्यात्मपक्षे - योऽग्निः परमेश्वरो रामचन्द्रो भूतस्य भव्यस्य तदुपलक्षितस्य सर्वस्यैव सम्राट परमेश्वरः, कामः काम्यते सर्वैरपि परप्रेमास्पदतयेति कामः । प्रियेष्वभिरुचितेषु धामसु स्थानेषु, एकोऽसहायो विराजति देदीप्यते, अन्यनिरपेक्ष एव सर्वकामपूरको भगवान् रामचन्द्र इति यावत् । दयानन्दस्तु - ' यो मनुष्यः पावक इव वर्तमानः सम्राट् सम्यक् प्रकाशकः, एकोऽद्वितीयः सभेशः परमेश्वर इव भूतस्य भव्यस्य आगामिसमयस्य प्रियेष्विष्टेषु धामसु जन्मस्थाननामसु विराजति स एव राज्येऽभिषेचनीयः ' इति, तदपि यत्किञ्चित्, गौणार्थाश्रयणात्, अध्याहारस्यापि निर्मूलत्वात् ॥ ११७ ॥
इति वेदार्थपारिजाते द्वादशोध्यायः । -:: -
पृष्ठ 285
पाठ पढ़ें पाठ छिपाएँ
त्रयोदशोऽध्यायः मयि॑ गृह्णाम् अ॒ग्निएं रायस्पोषा॑य सुप्रजास्त्वाय॑ सुवीर्याय । माम॑ दे॒वता॑ः सचन्ताम् ॥ १ ॥
मन्त्रार्थ - मैं यजमान सबसे सामर्थ्य की प्राप्ति के लिये अग्निदेव को पहले धन की पुष्टि के लिये, श्रेष्ठ पुत्र आदि को प्राप्ति के लिये तथा उत्तम
अपनी आत्मा में धारण करता हूँ । देवगण मेरी सहायता करें ॥ १ ॥
तत्र द्वादशेऽध्याये उखाधारणगार्हपत्य चयनक्षेत्रकर्षणौषधवपनादिमन्त्रा उक्ताः । अधुना त्रयोदशेऽध्याये पुष्करपर्णाद्युपधानमन्त्रा उच्यन्ते । ' उत्तरवेदिप्रोक्षणाद्या सम्भारनिवपनात् कृत्वोत्तरवेदिमपरेण तिष्ठन् यजमानो मयि गृह्णामीति जपति ' ( का ० श्री ० १७।३।२६ ) । ' उत्तरवेदिं प्रोक्षतीन्द्र घोषस्त्वेति प्रतिमन्त्रम् ' ( का ० श्र ० ५ | ४ | १० ) इत्यारभ्य ' अग्नेः पुरीषमिति निवपति ' ( का ० श्र ० ५।४।१५ ) इत्येतदन्तं कृत्वा उत्तरवेदेः पश्चात्तिष्टन् यजमानो मयि गृह्णामीति जपति । अग्निदेवत्या ककुप् । यस्या मध्यपादो द्वादशकः, आद्यतृतीयावष्टको सा ककुप् । अत्र मध्यश्चतुर्दशस्तेन द्वधिका । अहं यजमानः, अग्रे प्रथमम् मीत अहमित्यर्थे, मयि आत्मनि, अग्नि गृह्णामि धारयामि ततोऽग्नि चिनोमीति शेषः । किमर्थमग्निचयनमिति चेत्-- रायस्पोषाय रायो धनस्य पोषाय पुष्ट्यर्थम् । पुनः किमर्थम्? सुप्रजास्त्वाय सुष्ठु शोभनाः प्रजा यस्यासौ सुप्रजाः, तस्य भावः सुप्रजास्त्वम्, दीर्घश्छान्दसः तस्मै । शोभनपुत्रादिनिष्पत्त्य इत्यर्थः । सुवीर्याय सुष्ठु शोभनं वीर्यं सुवीर्यम्, तस्मै । शोभनशक्तय इति यावत् । उकारोऽप्यर्थे । किव, देवता उ अपि मां सचन्तां सेवन्ताम् । उकार एवार्थको वा । देवता मामेव सचन्ताम् । तत्र ब्राह्मणम् – ' आत्मन्नग्नि गृह्णीते चेष्यन् । आत्मनो वा एतमधि जनयति यादृशाद्वै जायते तादृङ्ङेव भवति स यदात्मन्नगृहीत्वाग्नि चिनुयाद् मनुष्यादेव मनुष्यं जनयेन्मर्त्यान्मर्त्यमनपहतपाप्मनोऽनपहतपाप्मानमथ यदात्मन्नग्नि गृहीत्वा चिनोति तदग्नेरेवार्ध्याग्न जनयत्य मृतादमृतमपहतपाप्मनोऽपहतपाप्मानम् ' ( श ० ७ | ४ | ११ ) । अग्निग्रहणसत्यसामगान पुष्करपर्णोपधानानि पूर्वस्मिन् ब्राह्मणे संग्रहेण विहितानि । तथाग्निग्रहणं प्रपञ्चयति--आत्मन्नग्निमित्यादिना । चेष्यन् चयनं करिष्यन्नध्वर्युः । आत्मनोऽधि, अधिः पञ्चम्यर्थानुवादी, आत्मनः सकाशात् खल्वध्वर्युः, एतं चित्याग्नि जनयति । इयं खलु लोकस्थितिः । यादृशाद् मनुष्यादिशरीराद् गर्भो जायते स तादृङ् निष्पद्यते । सति ह्यात्मन्नग्निग्रहणेऽध्वर्युरग्न्यात्मको भवति । तस्मादध्वर्योर्जायमानश्चित्याग्निरपि साक्षादग्निरूपो भवति । शिष्टं स्पष्टमेव । स गृह्णाति । मयि गृह्णाम्यग्रे अग्निमिति तदात्मन्नेवाग्रेऽग्नि गृह्णीते रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति तदु सर्वा आशिष आत्मन् गृह्णीते मामु देवताः सचन्तामिति तदु सर्वान् देवानात्मन् गृह्णीते तद्यत्किञ्जनात्मनोऽधि जनयिष्यन् भवति तत्सर्वमात्मन् गृह्णीते स वै तिष्ठन्नात्मन्नग्नि गृहीत्वाऽनुपविश्य चिनोति पशुरेष यदग्निस्तस्मात् पशुभिस्तिष्ठन् गर्भ धित्वाऽनूपविश्य जायते ' ( श ० ७ | ४ | १ | २ ) । समन्त्रकमग्निग्रहणं विधत्ते - स गृह्णातीति । मयि गृह्णामीति ग्रहणमन्त्रः । तत्र मयोत्यस्मच्छन्दश्रवणादात्मन्यने-ग्रहणं निगदसिद्धमित्याह -- तदात्मन्नेवेति । रायस्पोषो धनसमृद्धिः । सुप्रजास्त्वं शोभनपुत्रपौत्रादियुक्तत्वम् । शोभनवीर्ययोगः सुवीर्यम् । तत् तेन मन्त्रभागेनोक्तलक्षणाः सर्वा आशिषः फलात्यात्मनि स्वीकरोति । तृतीयभाग-मनूद्य व्याचष्टे - मामु देवता इति । यक्ष्यमाणदेवता माम् उ एव सचन्तां मदीययज्ञमेव सेवन्तामित्येतेन ३२
पृष्ठ 286
पाठ पढ़ें पाठ छिपाएँ
२५० शुक्लयजुर्वेदसंहिता [ अ ० १३ मन्त्रभागेन देवतानामात्मनि ग्रहणं कृतं भवति । चयनसमये तूपवेशनं तस्य विधत्ते - अनूपविश्य चिनोतीति । यत्र यत्रेकामुपदधाति तं तं देशं गत्वा तत्समीपे उपविश्य चिनुयादित्यर्थः । एतदुभयं स्तौति - पशुरेष इति । पशुरुपो षोऽग्निः । तस्मादेव हि कारणाद् गवादिलक्षणः पशुस्तिष्ठन्नेव गर्भ धत्ते अनूपविश्य विजायते प्रभूते । अतोऽग्निग्रहणं गर्भधारणभूतत्वात् तिष्ठतैव कार्यम् । चयनं तु प्रसवरूपत्वादुपविष्टेनैवेति तात्पर्यम् । अध्यात्मपक्षे - हे अग्ने परमेश्वर, अहं मयि स्वात्मनि, अग्नि सर्वषामग्रगण्यं परमात्मानं गृह्णामि त्वंपदार्थे तत्पदार्थमभेदेनानुसन्दधामि । किमर्थम्? रायस्पोषाय मोक्षलक्ष्म्याः पुष्ट्यर्थम् । सुप्रजास्त्वाय शोभनब्रह्मवित्पुत्र-शिष्यादिप्राप्त्यर्थम् । सुवीर्याय शोभनसामर्थ्यासिद्धयर्थम् । मामु मामेव ब्रह्मात्मभावापन्नं देवताः सचन्तां सङ्गच्छन्ताम्, ' यस्यास्ति भक्तिर्भगवत्यकिञ्चना सर्वेर्गुणैस्तत्र समासते सुराः ' ( भा ० पु ० ५ | १८/१२ ) इति श्रीमद्भागवतोक्तेः । दयानन्दस्तु – ' हे कुमाराः कुमार्यश्च, यथाहमग्रे मयि आत्मनि रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय अग्नि परविद्वांसंगृह्णामि येन मामु देवता विद्वांसो गुणा वा सचन्तां समवयन्तु ' इति, तदपि यत्किञ्चित्, एतादृशार्थस्य नैकधा प्रतिपादितत्वात् । परमविदुषो ग्रहणमपि कीदृशम्? शुश्रूषाध्ययनादिकं संतोषादिसम्पादनं वा? नाद्यः, तज्जनितविद्यादिप्राप्यत्वे रायस्पोषादिकं प्रति तस्यान्यथासिद्धत्वात् । नान्त्यः, तस्य तदहेतुत्वात् ॥ १ ॥
अ॒पा॑
पृ॒ष्ठम॑सि॒ योनि॑र॒ग्नेः स॑मु॒द्रम॒भितः पिन्व॑मानम् ।
वर्ध॑मानो म॒हाँ २ आ च॒ पुष्करे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥ २ ॥
मन्त्रार्थ - हे पुष्करपणं, तुम जल के ऊपर रहने से पृष्ठ रूप हो, अग्नि के निमित्त पिण्ड के कारण हो । सूखी जमीन को सींचता हुआ यह जल समुद्र की और वृद्धि को प्राप्त करे, समुद्र के जल में सब तरह से समा जाय । हे पत्र, तुम द्युलोक के परिमाण की दीर्घता से विस्तार को प्राप्त करो ॥ २ ॥
' पुष्करपर्णमुपदधाति स्तम्बे पूर्ववत् ' ( का ० श्री ० १७ | ४ | १ ) । ततोऽध्वर्युः कुशस्तम्बोपरि कमलिनीपत्र -मुपधाति पूर्ववदित्युखासम्भरणवत् । तेन ' अपां पृष्ठम् ' इति मन्त्रेण पुष्कर इत्यन्तेन उपधानं ' दिवो मात्रया ' इति मन्त्रेण तस्य मार्जनमिति सूत्रार्थः । व्याख्यात पूर्वेयं कण्डिका एकादशेऽध्याये एकोनत्रिंश्याम् । अत्र ब्राह्मणम् -'अपां पृष्ठमसि योनिरग्नेरिति । अपा हीयं पृष्ठ योनिर्हीयमग्नेः समुद्रमभितः पिन्वमानमिति समुद्रो हीमामभितः पिन्वते वर्धमानो महाँ २ आ च पुष्कर इति वर्धमानो महीयस्व पुष्कर इत्येतद्दिवो मात्रया वरिम्णा प्रथस्वेत्यनुविमाष्टर्यसौ वा आदित्य एषोऽग्निन हैतमन्यो दिवो वरिमा यन्तुमर्हति द्यौर्भूस्वैनं यच्छेत्येवैतदाह ( श ० ७ | ४ | ११ ९ ) । पुष्करपर्णोपधाने मन्त्रं विधाय पदशो व्याचष्टे - अपां पृष्ठमसीति । इयं पृथिवी अपामुपर्यवस्थानात् पृष्ठवत् पृष्ठम् । अतो हे पुष्करपर्ण, त्वमपामुदकानां पृष्ठ मि पृष्ठभागो भवसि । योनिर्हीयमिति । चित्यस्याग्नेर्योनिः पृथिवी, इष्टकोपादानत्वात् । हे पुष्करपर्णं, त्वमग्ने-स्तादृशी योनिरसीति प्रथमपादार्थः । समुद्रो होमामिति । इमां पृथिवीमभितः सर्वतः पृथिव्याः सर्वासु दिक्षु समुद्रः पिन्वते सिञ्चति । ' पिवि सेचने ' इति भौवादिको धातुः । महच्छब्दस्य व्याख्यानं महीयस्वेति । ' महीङ् पूजायाम् ' कण्ड्वादिः । हे पुष्करपर्ण, आसमन्ताद् महोयस्व पूजितो भव । अनुविमाष्ति, चतुर्थपादावसाने पुष्करपर्णमुपदधानस्तस्यानुलोम्येन विमार्जनं कुर्यात् । नो हैतमन्य इति । द्युलोकव्यति-
पृष्ठ 287
पाठ पढ़ें पाठ छिपाएँ
म ० २ ] वेदार्थपारिजातभाष्यसहिता २५१ रिक्तोऽन्यो वरिमा, भाववाचिना तहल्लक्ष्यते, उरुतरः पदार्थः । एतमग्नि तो खलु यन्तुमर्हति । तथा च ' दिवो मात्रया वरिम्णा ' इति इत्थंभावे तृतीया । अतोऽयमर्थः - हे पुष्करपर्ण, त्वं द्युलोको भूत्वा एतमग्नि यच्छ यमय । ' अथ रुक्मपदधाति । असो वा आदित्य एष रुक्म एष हीमाः सर्वाः प्रजा अतिरोचते रोचो ह वै तछ, रुक्म इत्याचक्षते परोक्षं परोक्षकामा हि देवा अमुमेवैतदादित्यमुपदधाति स हिरण्मयो भवति परिमण्डल एकवि ७ शति निर्बाधस्तस्योक्तो बन्धुरधस्तान्निर्बाधमुपदधाति रश्मयो वा एतस्य निर्बाधा अवस्तादु वा एतस्य रश्मयः ' ( श ० | ७ ४ | १ | १० ) । आकाशात्मना स्तुतस्य पुष्करपर्णस्य मध्ये सूर्यमण्डलात्मना ध्यातव्यस्य रुक्मस्योपधानं विधत्ते- - अथ रुक्ममिति । एष परिदृश्यमान आदित्यो रुक्म इमाः सर्वाः प्रजा अतिरोचते, अतो रोच इति तस्य नाम सम्पद्यते । तदेव पारोक्ष्येण रुक्म इत्युच्यते । स रुक्मः सुवर्णमयः कार्यः परिमण्डलो वर्तुलाकृतिः, एकविंशतिनिर्बाध एकविंशति संख्या क: पुलकैर्युक्तः कार्यः । ' तं पुष्करपर्ण उपदधाति । योनिर्वै पुष्करपणं योनावे-वैनमेतत्प्रतिष्ठापयति ' ( श ० ७ | ४ | १ | ११ ) । तस्य रुक्मस्य पुष्करपर्णमध्ये उपधानं विधत्ते - तं पुष्करपर्ण इति । ' यद्वैव पुष्करपर्णं उपदधाति । प्रतिष्ठा वै पुष्करपर्णमियं वै पुष्करपर्णमियम वै प्रतिष्ठा यो वा अस्यामप्रतिष्ठितोऽपि दूरे सन्न प्रतिष्ठित एव स रश्मिभिर्वा एषोऽस्यां प्रतिष्ठितोऽस्यामेवैनमेतत्प्रतिष्ठायां प्रतिष्ठापयति ' ( श ० ७।४।१।१२ ) । प्रकारान्तरेण पुष्करपर्णे रुक्मोपधानं स्तौति - यद्वेवेति । प्रतिष्ठा आस्पदम् । यो वा अस्यामिति । यः खल्वस्यां पृथिव्यामप्रतिष्ठितः प्रतिष्ठितो न भवति, स दूरदेशे वर्तमानोऽप्यप्रतिष्ठितः प्रतिष्ठारहितो निरालम्बन एव भवति । आकाशे वर्तमानस्य सूर्यस्य पृथिव्यामनवस्थानादेतेन पुष्करपर्णोपधानेन एनं रुक्मरूपमादित्यं पृथिवीरूपायामेव प्रतिष्ठायां प्रतिष्ठापयति । ' इन्द्रो वृत्र, हत्वा नास्तृषीति मन्यमानोऽपः प्राविशत्ता अब्रवीद्विभेमि वै पुरं मे कुरुतेति सोपा रस आसोत्तमूर्ध्व समुदीहंस्तामस्मै पुरमकुर्वस्तद्यदस्मै पुरम कुर्वंस्तस्मात्पूष्करं पुष्कर, ह वै तत्पुष्करमित्याचक्षते परोक्षं परोक्षकामा हि देवास्तद्यत्पुष्करपर्ण उपदधाति यमेवोस्मं तमापो रस, समुदोहन्या-मस्मै पुरम कुवंस्तस्मिन्नेवैनमेतत्प्रतिष्ठापयति ' ( श ० ७ | ४ | १ | १३ ) । नास्तृषि न खल्वमद्यापि वृत्रमहिंसिषमिति विपर्यस्तमतिः सन्नित्यर्थः । स इन्द्रोऽपः प्राविशत् ता अब्रवोच्च अहं वृत्राद्विभेमि । बिभ्यतो मम पुरं भयरहित-मावासस्थानं हे आपः, यूयं कुरुत | आपश्चैतद्वचः श्रुत्वा यः स्वकीयो रसः प्रातिस्विक आसीत्, तमूर्ध्वं समुदोहन समुदक्षिपन् । तमेव रसं पुष्करपर्णात्मना परिणतं निवासस्थानमकुर्वन् । यस्मादेवं पूरक्रियत तस्मात्तस्य पुष्कर-मिति नाम सम्पन्नम् । पूः क्रियतेऽनेनेति व्युत्पत्तेः पुष्करमिति प्रयोक्तव्ये पुष्करमिति प्रयोगस्तु पारोक्ष्यकरणायेति संग्रहार्थः । एवं पुष्करनामनिर्वचनं कृत्वा प्रकृते योजयति --- तद्यत्पुष्करपर्ण इति । अस्मै इन्द्राय यमेव तं रस-मापः पुरा समुदौहन् समुत्क्षिप्तवत्यः, तदनन्तरमस्मा एवेन्द्राय यां पुरं पुष्करपर्णात्मिकां अकुर्वंस्तस्मिन्नेव उभयरूपे स्वाश्रये रुक्मरूपेणावस्थितमिन्द्र शब्दाभिधेयमेनं सूर्यमेतेन प्रतिष्ठापयतीत्यर्थः । अध्यात्मपक्षे -- हे अग्ने परमेश्वर, त्वमपामबुपलक्षितानां लोकानां पृष्ठमधिष्ठानमसि । अग्ने भौतिकस्य योनिः कारणमसि । पिन्वमानं सिञ्चन्तं समुद्रमभितः सर्वतो वर्धमानो महान्, ततोऽपि ज्यायानसीत्यर्थः । पुष्करे हृदयकमले दिवमात्रया वरिम्णा उरुत्वेन उरोर्महतो भावेन आप्रथस्व । दयानन्दस्तु - ' हे विद्वन्, यस्त्वमभितोऽपां व्यापकानां प्राणानां जलानां वा पृष्ठमधिकरणं समुद्रं पिन्वमान-मन्तरिक्षमिव सागरं पिन्वमानं सिमानमग्नेविद्यदादेर्योनिः कारणं दिवो द्योतमानस्य मात्रया यया सर्व मिमीते पुष्करे वर्धमानो महांश्चासि, सोऽस्मासु वरिम्णा प्रथस्व ' इति, तदपि यत्किञ्चित् गौणार्थाश्रयणात् । यदुक्तमयं मन्त्रः ( श ० ७ | ४ | ९ | १ ) इत्यत्र व्याख्यात इति, तत्तु मूर्खजनप्रतारणमेव, तत्रास्याव्याख्यानात् ॥ २ ॥
पृष्ठ 288
पाठ पढ़ें पाठ छिपाएँ
२५२ शुक्लयजुर्वेद संहिता ब्रह्म॑ ज॒ज्ञानं प्र॑थ॒मं परस्ताद्वि सीमतः सरुचौ वे॒न आ॑वः । [ [ अ ० ] १३ स बुध्न्या॒ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ः ॥ ३ ॥
मन्त्रार्थ - पूर्व दिशा में सबसे प्रथम प्रकट हुए आदित्य रूप ब्रह्म ने भूगोल के मध्य से आरम्भ कर सुन्दर रुचि वाले अन्य सभी लोकों में अपने प्रकाश को फैलाया है । यह कमनीय मेधावी सूर्य अवकाश युक्त और जगत् के वासस्थान अन्तरिक्ष में स्थित दिशाओं तथा उनमें विद्यमान मूर्त घट, पट आदि और अमृतं वायु आदि के उत्पत्ति स्थान ब्रह्माण्ड को प्रकाशित करता है ॥ ३ ॥
' तस्मिन् रुक्ममधः पिण्डं ब्रह्म जज्ञानमिति ' ( का ० श्री ० १७ | ४ | २ ) । तस्मिन् पुष्करपर्णे पूर्वं कण्ठे धृतं सौवर्ण रुक्मं पिण्डस्याधस्तात् प्राङ्मुखोऽध्वर्युरुपदध्यादिति सूत्रार्थः । एतदर्थंकं ब्राह्मणमग्र उद्धरिष्यते । आदित्य-देवत्या त्रिष्टुप् । प्रथमं जज्ञानम् आदी उत्पन्नम्, जनेर्लिट: कानजादेशे रूपम् इदं रुक्मस्वरूपं ब्रह्म परिवृढम् अत्यन्तं महदित्यर्थः । तस्य रुक्मस्य दृष्टान्तत्वेन सूर्यः प्रपञ्च्यते । पुरस्तात् पूर्वस्यां दिश्यवस्थितः, वेनः कमनीयः सूर्यः सीमतः सर्वस्यां सोम्नि सुरुचः शोभनरश्मीन् वि विशेषेण आवः आवृणोत् । अस्य रुक्मस्य उपमा उपमानभूता विष्ठा विशेषेणावस्थिताः, बुध्न्या बुध्ने मूले पृथिवीरूपे भवाः, यदा ये सन्ति तदा तानपि सेवन्ते । विवो विवृतवान् प्रकाशितवानित्यर्थः । यद्वा ब्रह्मलक्षण आदित्यो जज्ञानम् अधियज्ञं यजमानः प्रथमं पुरस्तात् प्राच्यां दिशि जायते । ततोऽनन्तरं विसीमतः सीमतो मध्यतो मर्यादातः सुरुचः सुरोचनानिमान् लोकान् वेनः कान्तो मेधावी वा आदित्यः, बुध्नमन्तरिक्षं तत्र भवा बुध्न्या दिशः, उपमा उपमीयन्ते आसु स्थितानि भूतानीत्युपमा दिशः अस्य जगतो विष्ठा विविधं स्थानं सतश्च विद्यमानस्य मूर्तस्य स्थानम्, असतश्च अमूर्तस्य वावानं विवाविवृणोति । आदित्य एव लोकान् दिशो भूतानि चाभिव्यनक्ति, नान्य इति स्वोयेन कर्मणा स एव स्तूयते । अत्र ब्राह्मणम् —'ब्रह्म जज्ञानं प्रथमं पुरस्तादिति । असो वा आदित्यो ब्रह्माहरहः पुरस्ताज्जायते वि सोमनः सुरुचो वेन आवरिति मध्यं वै सीमेमे लोका: सुरुचोऽसावादित्यो वेनो यद्वै प्रजिजनिषमाणोऽवेनत्त-स्माद्वेनस्तानेष सीमतो विवृण्वन्नुदेति स बुध्न्या उपमा अस्य विष्ठा इति दिशो वा अस्य बुध्न्या उपमा विष्ठास्ता ह्येष उपवितिष्ठते सतश्च योनिमसतश्च विवरितीमे वै लोकाः सतश्च योनिरसतश्च यच्च ह्यस्ति यच्च न तदेभ्य एव लोकेभ्यो जायते त्रिष्टुभोपदधाति त्रष्टुभो ह्येष सादयित्वा सुददोहसाऽधिवदति तस्योक्तो बन्धुः ' ( श ० ७।४।१।१४ ) । तस्मिन् रुक्मोपधाने मन्त्रं दर्शयति-- ब्रह्म जज्ञानमिति । ब्रह्म जज्ञानं प्रादुर्भूतम् । ननु जनिरिति षड्भावविकारेषु गण्यते -- जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यतीति षड् भावविकाराः । औपनिषदं ब्रह्म तु विक्रियारहितम् । कथं तस्य जनिक्रियायोगो मन्त्रेण प्रतिपाद्यते? इत्याशङ्क्य व्याचष्टे - असो वा आदित्यो ब्रह्मेति । अत्र प्रादुर्भाव एव जनेरर्थो न तुत्पत्तिः । अयमर्थः - ब्रह्म सगुणं सद् द्युलोकस्थ आदित्यो भूत्वा प्रत्यहं पुरस्तात् पूर्वस्यां दिशि जायते उदेति । जज्ञानमिति जनेलिट: ' लिटः कानज्वा ' ( पा ० सू ० ३।२।१०६ ) इति कानजादेशे रूपम् । द्वितीयपादे क्रमेण पदार्थानाह – मध्ये वा इति । सीमत इति पदं यत्सीमेति प्रातिपदिकं तन्मध्यमाचष्टे । सुरुचः सुष्ठु रोचन्ते सवितृप्रकाशेन दीप्यन्त इति सुरुचः पृथिव्यादिलोकाः । असावादित्यो वेन इति यद्वेनोऽसावुच्यते तन्नामनिर्वचनं करोति - यद्वा इति । यस्मात् कारणात् प्रजिजनिषमाणः प्रजनितुं प्रादुर्भवितुमुदेतुमिच्छन्, अवेनत् कान्तियुक्तोऽभवत्, तस्माद्वेनति दीप्यत इति । अत एव यास्कोऽप्याह ' वेनो वेनतेः कान्तिकर्मणः ' ( निरु ० १० ३८ ) । इत्थं पदार्थानुक्त्वा वाक्यार्थमाह-- तानेष इति । तान् सुरुक्छब्दा-भिधेयान् पृथिव्यादिलोकान्, एष सूर्यः सीमतो मध्यतो व्यावो व्यावृणोद् उदयेन प्रकाशितवान् । तृतीयपादमनूद्य
पृष्ठ 289
पाठ पढ़ें पाठ छिपाएँ
म ० ३-४ १ वेदार्थपारिजातभाष्यसहिता २५३. व्याचष्टे - स बुध्न्या इति । बुध्नो मूलं तत्र भवा बुध्न्याः पादाः । ते चास्य सूर्यस्य दिगात्मकाः, रश्मिप्रसरण -हेतुत्वात् । ता बुध्न्यशब्दाभिधेया दिनः । उपमा उप समीपे स्वगतिभेदेन निर्मिमीत इत्युपमाः सूर्यः । तथा ता दिशोऽलक्ष्य वितिष्ठते विविधं पूर्वपश्चिमादिदिग्भेदहेतुत्वेनावतिष्ठत इति विष्ठाः । तिष्ठतेर्माच ' आतो मनिन्-क्वनिवनिपश्च ' ( पा ० सू ० ३।२ | ७४ ) इति विच् । एवंभूतः सूर्यः सतो लोकत्रयात्मकस्य भावरूपस्य, असतोऽभावात्मकस्य च योनिमुत्पत्तिस्थानं विवः विवृणोति । सदसच्छन्दयोश्च भावाभावपरतां व्याचष्टे - यच्च ह्यस्ति यच्च नेति । छन्दोद्वारेण प्रशंसति - त्रिष्टुभेति । त्रष्टुभो ह्येष इति । ' गायत्री वै पृथिवी त्रैष्टुममन्त-रिक्षम् ' ( तै ० सं ० ५ | २ | १ | १ ) इत्यादिश्रुतेः । द्वितीय स्थानत्वाच्चान्तरिक्षस्य त्रिष्टुपसम्बन्ध: । तत्र सरत-स्त्रिष्टुप्छन्दस इन्द्रेण सहोत्पत्तेश्व इन्द्रात्मक एष सूर्योऽपि त्रैष्टुभः । अध्यात्मपक्षे - ब्रह्मसत्यज्ञानादिलक्षणं सीमतः सीमानं मर्यादां मध्यभागमारभ्य सुरुचः सुरोचनानि-माल्लोकान् विविशेषेण आव: स्वप्रकाशेन विवृतानकरोत् । कीदृशं ब्रह्म? प्रथममादौ सूर्यरूपेण पुरस्तात् पूर्वस्यां दिशि जायमानं प्रादुर्भूयमानम् यद्वा सर्वप्रकाशिकाया बुद्धेरपि प्रथमं सर्वप्रकाशेभ्यः पुरस्ताद् जज्ञानं सर्वप्रकाशकत्वेन प्रसिद्धम्, ' तमेव भान्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति ' ( मुण्डको ० २२।१० ) इति श्रुतेः । किञ्च वेनः कमनीयः सर्वप्राणिभिरिष्यमाणो बुध्न्याः बुध्ने अन्तरिक्षे भवा दिशो विवः विवृणोति | सर्वसाक्षित्वेन सूर्यरूपेण वा सतो विद्यमानस्य मूर्तस्य योनिः स्थानम् असतोऽमूर्तस्य वाय्वादेश्च प्रभवं विवः प्रकाशयति । बुध्न्याः पुनः कीदृशीः? उपमाः, उप समीपे मान्ति भूतानि यासु ताः, सावकाशा इत्यर्थः । अत एवास्य जगतो विष्ठा विविधस्थानभूताः, विविधं तिष्ठन्ति यासु ताः । दयानन्दस्तु – ' यत् पुरस्ताद् जज्ञानं सर्वस्य जनकं विज्ञात् प्रथमं विस्तृतं विस्तारयितृ ब्रह्म सर्वेभ्यो बृहद् यः सुरुचः सुप्रकाशमानः सुष्ठु रुचिविषयश्च वेनः कमनीयः यस्यास्य बुध्न्या बुध्न्ये जलसम्बन्धेऽन्तरिक्षे भवाः सूर्यचन्द्रपृथिवीतारकादयो लोका उपमा उपमिमते याभिस्ताः सन्ति, सर्वभावः स विसोमतः विसमातो मर्यादातः सतश्च विद्यमानस्य व्यक्तस्य असतश्च अविद्यमानस्य अव्यक्तस्य कारणस्य च महत्त्वादेर्योनि स्थानम् आकाशं विवो विवृणोति तत्सर्वेरुपासनीयम् ' इति, तदपि यत्किञ्चित् पुरस्तादित्यस्य सृष्ट्याद्यर्थत्वे मानाभावात्, ' अहरहः पुरस्ताज्जायते ' ( श ० ७ | ४ | १ | १४ ) इति श्रुतिविरोधाच्च । जज्ञानं सर्वस्य जनकमित्यप्य-शुद्धम्, क्रियापदविरोधात् । यः सुरुचः सुप्रकाशमानमित्यप्यसङ्गतम्, ' इमे लोका: सुरुच: ' ( श ० ७ | ४ | १ | १४ ) इति श्रुतिविरोधात् । वेनः कमनीय इत्यप्यसङ्गतम्, ' आदित्यो वेन ' ( श ० ७१४ | १ | १४ ) इति श्रुति-विरोधात् । प्रथममित्यस्य विस्तृतो विस्तारकर्ता चेत्यप्यसङ्गतम्, प्रसिद्धार्थत्यागे मानाभावात् । बुध्न्या अन्तरिक्षस्थाः सूर्यचन्द्रादय इत्यपि व्यर्थम् ' दिशो वा अस्य बुध्न्या: ' ( श ० ७ | ४ | १ | १४ ) इति श्रुति-विरोधात् । विष्ठा विविधस्थलस्थिता उपमा ईश्वरज्ञानदृष्टान्त भूता लोका इत्यप्यशुद्धम्, योनिं कारणं गृह्णाती त्यप्यशुद्धम्, विवो विवृणोतीति स्वव्याख्यानविरोधश्च ॥ ३ ॥
हिरण्यगर्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक आसीत् ।
सदाधार पृथिवीं द्यामुतेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥ ४ ॥
मन्त्रार्थ -- हिरण्यपुरुषरूप ब्रह्माण्ड में गर्भ रूप से अवस्थित प्रजापति हिरण्यगर्भ प्राणी मात्र की उत्पत्ति के प्रथम कारण हैं । वे उत्पन्न होते ही बाद में उत्पन्न हुए इस सारे जगत् के स्वामी हैं । वे ही अन्तरिक्ष, द्युलोक और भूलोक नामक तीनों लोकों का निर्माण कर उन्हें धारण करते हैं । उस प्रजापति के निमित्त हम आहुति देते हैं ॥ ४ ॥
पृष्ठ 290
पाठ पढ़ें पाठ छिपाएँ
२५४ शुक्लयजुर्वेद संहिता [ अ ० १३ ' उत्तानं प्रान हिरण्यपुरुषं तस्मिन् हिरण्यगर्भ इति ' ( का ० श्री ० १७४ | ३ ) । तस्मिन् रुक्मे प्राञ्चमुत्तानं सुवर्णमयं पुरुषाकारमुपदध्यात् ऋद्वयेनेति शेष इति सूत्रार्थः । हिरण्यगर्भदृष्टा प्रजापतिदेवत्या त्रिष्टुप् । हिरण्यगर्भो हिरण्ये हिरण्यपुरुषरूपे ब्रह्माण्डे गर्भो गर्भरूपेणावस्थितः समष्टिसूक्ष्मशरीराभिमानी हिरण्यगर्भः प्रजापतिः, भूतस्य प्राणिमात्रस्य अग्रे पूर्वं समवर्तव प्राणिजातोत्पत्तेः पुरा स्वयं शरीरधारी बभूव । स च जात उत्पन्नमात्र एक एव उत्पत्स्यमानस्य सर्वस्य जगतः पतिर् ईश्वरः स्वामी पालको वासीत् । अत एव पृथिवीं द्यां विस्तीर्णां दिवं दाधार धृतवान् । उतापि इमां प्रत्यक्षां भूमि दाधार । तादृशाय कस्मै प्रजापतये देवाय वयं हविषा विधेम परिचरेम । यद्वा हिरण्यं गर्भो गर्भरूपेण ब्रह्माण्डरूपेणावस्थितः, अथवा हिरण्यं ब्रह्माण्डं गर्भे यस्य सः, सर्वस्यैव प्रपञ्चस्य चित्कवलितत्वात् । स एव पृथिवीमन्तरिक्षं द्यां द्युलोकमुतापि चेमां भूमि दाधार धारयति । ' पृथिवीत्यन्तरिक्षनामसु ' ( निघ ० १ ३ ९ ) । तत्र ब्राह्मणम् -- ‘ अथ पुरुषमुपदधाति । स प्रजापतिः सोऽग्निः स यजमानः स हिरण्मयो भवति ज्योतिर्वे हिरण्यं ज्योतिरग्निरमृत हिरण्यममृतमग्निः पुरुषो भवति पुरुषो हि प्रजापतिः ' ( श ० ७।४।१।१५ ) । रुक्ममध्ये हिरण्मय पुरुषस्योपधानं विधत्ते -- अथ पुरुषमिति । स उपधेयः पुरुषः प्रजापतिः स्थूलप्रपञ्चाभिमानी विराडात्मकः, स एवाग्निः सूक्ष्मप्रपञ्चाभिमानी हिरण्यगर्भात्मकः, यजमानस्य तद्रूपप्राप्तेर्यजमानात्मकोऽपि स एवेत्यर्थः । तस्य हिरण्यविकृतित्वं विधाय स्तौति -- स हिरण्मय इति । ज्योतिर्वा इति । भास्वररूपोपेतत्वाद् ज्योतिरात्मकं हिरण्यम् । तथाऽत्यन्ताग्निसंयोगेऽपि समुच्छित्त्यभावादमृतममरणस्वभावं हिरण्यम् । चीयमानो-ऽग्निरप्येतदुभयात्मक इति हिरण्मयत्वं युक्तम् । पुरुषरूपतामनूद्य प्रतिपादयति -पुरुषो भवतीति । हि यस्माच्चित्याग्निरूपेण संस्कर्तव्यः प्रजापतिः पुरुषविधस्तत्प्रतिरूपत्वाद् हिरण्मयस्योपधेयस्य पुरुषाकृतिर्युक्त-त्यर्थः । ' यद्वेव पुरुषमुपदधाति । प्रजापतेवित्रस्ताद्रम्या तनूर्मध्यत उदक्रामत्तस्यामेनमुत्क्रान्तायां देवा अजहुस्तं यत्र देवाः समस्कुर्वस्तदस्मिन्नेता रम्यां तनूं मध्यतोऽदधुस्तस्यामस्य देवा अरमन्त तद्यदस्येतस्या - रम्यायां तवां देवा अरमन्त तस्माद्धि रम्य, हिरम्य ह वै तद्धिरण्यमित्याचक्षते परोक्षं परोक्षकामा हि देवास्तथे-वास्मिन्नयमेता " रम्यां तनूं मध्यतो दधाति तस्यामस्य देवा रमन्ते प्राणो वा अस्य सा रम्या तनूः प्राणमेवास्मिन्नेतं मध्यतो दधाति ' ( श ० ७७४ | १ | १६ ) । एतदेव पुरुषोपधानमनूद्य मनःप्राणाद्यात्मक ूक्ष्म-शरीरस्थापन रूपेण स्तौति - यद्वेवेति । प्रजापतिर्हि पुरा वित्रस्त शरीरोऽभूत् । तथाविधात्तस्माद्रमणीया ज्ञानक्रियाशक्तिरूपा सूक्ष्मा तनूर्मध्यतः शरीरमध्याद् उदक्रामद् उद् ऊर्ध्वं निरगमत् । तस्यामूर्ध्वं निष्क्रान्तायां प्रजापतिमेनं चक्षुराद्यभिमानिनो देवा आदित्यादय:, अजहुः अत्यजन् । ' ओहाक् त्यागे ' इत्यस्य रूपम् । तं तथाविधं प्रजापति देवास्तत्पुत्रा यत्र यस्मिन् प्रदेशे समस्कुर्वन् चित्याग्निरूपेण संस्कृतवन्तः, तत् तत्र अस्मिन् प्रजापती एतां निष्क्रान्तां रम्यां तनूं मध्यतोऽदधुः स्थापयाञ्चक्रुः । अस्य प्रजापतेस्तस्यां तन्वां पुरा निष्क्रान्ता इन्द्रियदेवता अरमन्त पुनः प्रविश्यातिष्ठन्नित्यर्थः । उक्तार्थोपजीवनेन हिरण्यनामनिर्वचनं करोति तद्यदस्येति । एतस्यां हितायां स्थापितायां ज्ञानक्रियाशक्त्युपेतत्वेन रमणीयायां तन्वां यस्माद्देवा अरमन्त्र, तस्माद् हितेऽस्मिन् रमत इति व्युत्पत्त्या हिरम्यमिति नाम सम्पन्नम् । तदेव पारोक्ष्येण हिरण्यमित्युच्यते । ' पृषोदरादीनि यथोपदिष्टम् ' ( पा ० सू ० ६ | ३ | १० ९ ) इति रूपसिद्धिः। अत एवाह यास्कः -- - ' ' हिरण्यं कस्मात् ' इति प्रक्रम्य ' हितरमणं भवतीति वा ' ( निरु ० २।१० ) । एवं पुराकल्पमभिधाय प्रकृते योजयति - तथैवास्मिन्नित्यादिना । अयं यजमान एतां रम्यां तनूं मध्यतो दधाति । तस्यामस्यां देवा रमन्ते । का पुनरसी रम्या तनूरिति तामाह-- प्राणो वा अस्य सा रम्या तनूः प्राणमेवास्मिन्नेतं मध्यतो दधातीति । प्राणापानादिपञ्चवृत्त्यात्मकः प्राणोऽस्य प्रजापतेरेव रम्या तनूः, अतस्तत्स्थापनमेव कृतं भवतीति ।