वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 291–300

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 291–300

पृष्ठ 291

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 291 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४ ] वेदार्थ पारिजातभाष्यसहिता २५५ ' त रुक्म उपदधाति । असो वा आदित्य एष रुक्मोऽथ य एष एतस्मिन् मण्डले पुरुषः स एष तमेवैतदुपदधाति ' ( श ० ७ | ४ | १ | १७ ) । तस्य पुरुषोपधानस्याधारविशेषं विधाय स्तोति तं रुक्म इति । यो रुक्मः पुष्करपर्णे उपहितस्तस्य मध्ये तं हिरण्मयं पुरुषमुपदध्यात् | आदित्य मण्डलात्मको ह्येष ar | आदित्यमण्डलमध्ये यो हिरण्मयः पुरुष आस्ते 1 स एवैष उपधीयमानो हिरण्मयः पुरुषो रुक्म आदित्यमण्डले तमेव पुरुषमपहितवान् भवति । अत एव श्रूयते - ' एषोऽन्तरादित्ये हिरण्मयः पुरुषः ' ( छा ० उ ० १६/६ ) इति ' हिरण्यश्म श्रहिरण्यकेश आप्रणखाग्रात् सर्व एव सुवर्ण: ' ( छा ० उ ० ११६/६ ) इति च । ' उत्तानपदधाति । एतद्वै देवा अब्रुवन् यदि वा इमावर्वाञ्चा उपधास्यामः सर्वमेवेदं प्रधक्ष्यतो यद्य पराञ्चौ पराञ्चावेव तप्स्यतो यद्य सम्यञ्चावन्तरैवैतावेतज्ज्योतिर्भविष्यत्यथो अन्योन्य १० हि ७ सिष्यत इति तेऽर्वा-मन्यम्पादधुः पराञ्चमन्य स एष रश्मिभिरर्वाङ् तपति रुक्मः प्राणैरेष ऊर्ध्वः पुरुषः प्राञ्चमुपदधाति । प्राङ् तत्र ह्येषोऽग्निश्चीयते ' ( श ० ७ ४ १११८ ) । तत्रोपधाने पुरुषस्योपरिमुखत्वं विधत्ते - उत्तानमुपदधातीति आख्यायिकामाह - ' एतद्वै देवा अब्रवत्रिति । यदि खलु इमौ रुक्मपुरुषी अर्वाञ्च अधोमुखी उपधास्यामः, तदोभयोस्तेजसोः संसृष्टत्वे प्रबलतरी अधोमुखो सन्तौ सर्वमेवेदं जगत् प्रवक्ष्यतः । यदि पराञ्ची पराङ्मुखो उपरितना ऊर्ध्वंमखौ उपधास्यामः, तथा सति पराञ्चावेव पराङ्मुखावेव सन्तौ तप्स्यतः, अर्थात् सूर्यमण्डलाद्ये रुक्मपुरुषो लोकास्तत्रैव सूर्यप्रकाशः स्यात्, न त्वधस्तनेषु लोकेष्विति भावः । यदि सम्यञ्ची परस्पराभिमुखी उपदध्यामस्तदा एतावन्तरैव एतयोर्मध्य एव तदीयं ज्योतिर्भविष्यति । तथा च व्यवधानादुपरितनानधस्तनांश्च ज्योतिषा पुरुषज्योति: लोकान् न प्रकाशयेताम् । अथो अपि च अन्योन्यं हिसिष्यतः, रुक्मस्य तेऽर्वाञ्चमिति । प्रतिहन्येत, तेन च रुक्मज्योतिरिति परस्पर हिंसेत्यर्थ:: कथं तर्हि तावुपधेयाविति तत्राह , अन्यं - पुरुषं पराञ्चं ते देवा अन्यम् एकं सूर्यमण्डलात्मकं रुक्मम् अर्वाञ्चमधस्तान्निर्बाधम् उपादधुः रश्मिभिः किरणैरव ' पराङ्मुखमुत्तानमुपादधुरित्यनुषङ्गः । यस्मादेवं तस्मादेष मण्डलात्मक: सूर्यो प्राणात्मको मण्डलान्तरवर्ती पुरुषः प्राणिनां प्राणः सह ऊर्ध्वा अधोमुखस्तपति । स एव रुक्मात्मक एष ' ( तै ० आ ० १।१४ । १ ) वर्तते । अत एवान्यत्राम्नातम् -- सोऽसी तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति । हि यस्मादेवं इति । तस्य प्राङ्मुखत्वं विधाय स्तौति - प्राञ्चमिति । तमुत्तानं पुरुषं प्राञ्चं प्राङ्मुखमुपदध्यात् प्राङ्मुखः प्राक्रिस्कश्चीयते, तस्माद्धिरण्मय पुरुषस्यापि तथात्वं युक्तम् । ' हिरण्यगर्भः समवर्तताग्र इति । हिरण्यगर्भो ह्येष समवर्तताग्रे भूतस्य जातः पतिरेक आसीदित्येष दाधार ह्यस्थ कस्मै सर्वस्य भूतस्य जातः पतिरेक आसोत् स दाधार पृथिवीं द्यामुतेमामित्येष वै दिवं च पृथिवीं च देवाय हविषा विधेमेति प्रजापतिर्वै कस्तस्मै हविषा विधेमेत्येतत् ' ( श ० ७ ४ १।१ ९ इत्यादिना ) । यत्पूर्वमुक्तमृग्द्वयेन । हिरण्यगर्भो सुवर्णमयं पुरुषाकारमुपदध्यादिति, तत्र प्रथमामृचं पादशोऽनूद्य व्याचष्टे हिरण्यगर्भ परमेश्वरो ह्येष इति । एष हिरण्यपुरुषः सूर्यमण्डलान्तर्वर्ती हिरण्यगर्भः, अपञ्चीकृत भूततत्कार्याभिमानी सृष्ट्यादौ हिरण्यगर्भाख्यः हिरण्यगर्भः, स च हिरण्मयाण्डमध्ये गर्भवदवस्थानाद् हिरण्यगर्भ इत्युच्यते । अयमग्रे । प्रजापतिः प्रथमं समवर्तन प्रथमशरीरी जात इत्यर्थः, ' स वै शरीरी प्रथमः स वै पुरुष उच्यते ' इति स्मरणात् एव सन् एष ह्यस्येत्यादि । एष खलु हिरण्यगर्भोऽस्य सर्वस्य भूतभौतिकात्मकस्य कृत्स्नस्य जगतो जातावस्थ भूमिं च प्रकाशन-एकोऽसाधारणः पतिर्नियन्ता आसीत् । एष आदित्यात्मको हिरण्यगर्भः दिवं द्युलोकं पृथिवीं ईदृग्रूप वर्षणादिव्यापारेण दाधार धृतवान् । कस्मै देवायेति । किंशब्दादिह निरुक्तानिरुक्तकृत्स्नजगदात्मकत्वाद् इति निर्वक्तुमशक्यः प्रजापतिरेवोच्यते इत्याह- प्रजापति इति । , अग्रे अध्यात्मपक्षे - हिरण्यगर्भः हिरण्यं सर्वज्ञानलक्षणं ज्योतिर्गर्भवद् यस्मिन् स सर्वज्ञः परमेश्वरः सृष्टेः प्राक् समवर्तत । शेषं पूर्ववत् ।

पृष्ठ 292

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 292 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५६ शुक्लयजुर्वेद संहिता [ अ ० १३ दयानन्दस्तु – ' हे मनुष्याः, यथा वयं योऽस्य भूतस्य जातः जनकः, कर्तरि क्तः, पतिरेको हिरण्यगर्भोऽग्रे समवर्ततासीत्, हिरण्यानि सूर्यादीनि ज्योतींषि गर्भे मध्ये यस्य सः, ' ज्योतिर्वे हिरण्यम् ' ( श ० ६ | ७ | १ | १ ) इति श्रुतेः । स इमां सृष्टि रचयित्वोतापि पृथिवीं प्रकाशरहितं भूगोलादिकं द्यां प्रकाशमयं सूर्यादिकं दाधार, तस्मै कस्मै सुखरूपाय देवाय परमेश्वराय हविषा विधेम, तथा यूयमप्येनं सेवध्वम् ' इति, तदपि यत्किचित्, अध्याहार-बाहल्यात् । हिरण्यानि सूर्यादीनि तेजांसि गर्भे मध्ये यस्येत्यप्यसङ्गतम्, परमेश्वरस्य निर्विकारस्य निरवकाशस्य सूर्याद्याधारत्वायोगात् । सिद्धान्ते तु दर्पणे प्रतिबिम्बस्येव निरवकाशेऽपि चिदात्मनि सूर्याद्याधारत्वमुपपद्यते । न च

तव तथा अपसिद्धान्तापातात् । एवमन्यान्यपि दूषणान्युह्यानि ॥ ४ ॥

द॒प्सइच्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वैः ।

समानं योनिमने सञ्चरन्तं द्र॒प्सं ज॑होम्यन॑ स॒प्त होः ॥ ५ ॥

मन्त्रार्थ - जो प्रथम उत्पन्न हुआ हिरण्यपुरुष सबका मुख्य कारण है, जिसका कोई आदि नहीं है और जो धारण के निमित्त सोचता है, द्युलोक के साथ वह सम्पूर्ण स्वरूप वाले त्रिलोकी में विचरण करते हुए प्रसिद्ध आदित्य का रूप धारण कर अन्तरिक्ष को मनुष्य आदि के भूलोक को भी आहुति के परिणाम स्वरूप रस से सोंचता है, उस आदित्य को मैं सब दिशाओं में स्थापित करता हूँ ॥ ५ ॥

आदित्यदेवत्या देवश्रवोदृष्ट्रा त्रिष्टुप् । द्रव्यान्तरसङ्घटनेन स्फुरितो हिरण्यपुरुषावयवलेशो द्रप्सः, स पृथिवीमन्तरिक्षमनु चस्कन्द गच्छति । स च द्रप्सो हुतः सन् स्थानत्रयेण सञ्चरति - द्युलोकेऽन्तरिक्षलोके भूलोके च । तदभिप्रेत्यैव स्मर्यते - ' अग्नी प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठने । आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः ॥ ' ( म ० ३।७६ ) इति । सोऽयमर्थो द्यामित्यादिनाभिधीयते । द्यामिमं च योनिमनु अन्तरिक्ष-रूपमिदं स्थानमनुसञ्चरति । यश्च पूर्वो योऽपि पृथिवीमन्तरिक्षमनु चस्कन्देति पूर्वोक्तस्थानविशेषः, तमप्यनु-सञ्चरति । समानं सदृशं स्वस्य योग्यं योनिं द्युलोकमादित्यस्थानमनुसञ्चरति । तमिमं त्रिषु स्थानेष्वनुसञ्चरन्तं द्रप्स जुहोमि मनसा हुतमिव भावयामीत्यर्थः । कुत्र होम इति तदुच्यते - अनु सप्त होत्रा इति । यस्यां दिशि द्रप्सः पतितः, तद्व्यतिरिक्ताः सप्त दिशः सन्ति । तास्वनुक्रमेण जुहोमि, यथायं द्रप्सो हुन आदित्यादि-स्थानत्रये सञ्चरन्नुपकरोति तथा भावयामीत्यर्थः । यद्वा अनुजुहोमि सप्त होत्रा इति विभक्तिव्यत्ययः । सप्तसु होत्रा दिक्षु स्थापयामि, हिरण्यपुरुषरूपेण सर्वदिक्षु सूर्यमेव स्थापयामीत्यर्थः, ' असौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुमादित्यं दिक्षु प्रतिष्ठापयति ' ( श ० ७ | ४ | १ | २० ) इति श्रुतेः । पूर्वादिचतस्रो दिशः, अध एका, उपर्युका, मध्य एका चेति सप्त दिशः । उव्वटाचार्यरीत्या अस्यामृच्यादित्यः सवं बिभत पालयतीत्युच्यते । य आहुतिपरिणाम रसनिधानभूतो द्रप्स आदित्यश्चस्कन्द पृथिवीमन्तरिक्षमुदकरूपेण स्कन्दति गच्छति मनुष्यादिधारणाय, यश्च द्युलोकमनुस्कन्दति गच्छत्याहुतिपरिणामभूतेन रसेन देवादिधारणाय । इमं च य इमं योनिं स्थानं भूलोकमनुस्कन्दत्यागच्छत्याहुतिग्रहणाय एवं समानं योनि सर्वेषां तुल्यं स्थानं लोकत्रयमनुसञ्चरन्तं द्रप्समादित्यं सप्त होत्रा अनु सञ्जुहोमि । यद्वा यश्चेमं लोकं स्कन्दत्याहुतिग्रहणाय यश्चानुस्कन्दति पूर्वयोनिममुं लोकं सुकृतिनां तर्पणाय, तमेव समानं योनि स्थानमनुसञ्चरन्तं द्रप्समादित्य-मनुजुहोमीत्यादि पूर्ववद् व्याख्येयम् । अत्र ब्राह्मणम् -'द्रप्सश्चस्कन्द पृथिवीमनु द्यामिति । असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं च स्कन्दतीत्यमूमितीमामिमं च योनिमनु यश्च पूर्वं इतीमं च लोकममुं चेत्येतदथो यच्चेदमेतहिं चीयते यच्चादः

पृष्ठ 293

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 293 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५-६ ] वेदार्थपारिजातभाष्यसहिता २५७ पूर्वमचीयतेति समानं योनिमनु संचरन्तमिति समान ह्येष एतं योनिमनु संचरति द्रप्स जुहोम्यनु सप्त होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु प्रतिष्ठापयति ' ( श ० ७ | ४ | ११२० ) । द्वितीयामृचमनूद्य व्याचप्रे - - द्रप्सश्च स्कन्देति । असो वा आदित्य इत्यादि । द्रप्सो द्रवानुदबिन्दून् किरणैः ) साति भक्षयतीति, द्रवणेन प्सानीयो वा, द्राक् प्सानीयो वा । ' घञर्थे कविधानम् ' ( पा ० सू ० ३।३।५८.२ घञर्थे कः । पृषोदरादित्वाद् द्रादेशः । स दिवं च पृथिवीं च स्कन्दति गच्छति शोषयति वा । ' स्कन्दिर् । गतिशोषणयोः ' इति भौवादिकस्य रूपम् । स्कन्दन प्रकार विशेषमभिनयेन दर्शयति- इत्यमूमितीमामिति इत्यनेनोर्ध्वगमनप्रकारेणामूं दिवं व्याप्नोति इत्यनेन प्रकारेणाधोमुखः किरणैः प्रकाशनेनेमां पृथिवीं व्याप्नोतीत्यर्थः । द्वितीयपादमनूद्य व्याचप्रे इमं च योनिमिति । इमं चाहवनीयाख्यं योनिं यश्च पूर्वश्चितो । गार्हपत्यः । तदुभयं द्यावापृथिव्यात्मकमसावादित्यो व्याप्नोतीत्येतदर्थंपरतां व्याचष्टे - इमं च यदिदं लोकमिति चीयते लोकरूपतामुक्त्वा चितिद्रयरूपतामाह - अथो इति । अपि च एतहि एतस्मिन् समये सूर्यो आहवनीयाख्यं स्थानम्, यच्चादो विप्रकृष्टं गार्हपत्याख्यं स्थानं पूर्वमचीयत एतदुभयं हिरण्मयपुरुषरूपः व्याप्नोतीत्यर्थः । तृतीयपादमनूद्य व्याचष्टे - समानं योनिमिति । एष सूर्यः समानमेकविधमेतं व्याचष्टे योनि -स्थानमनुलक्ष्य सञ्चरति } प्राच्यां दिश्युद्यन् एकेनैव मार्गेण प्रतिदिवस सचरतीत्यर्थः । चतुर्थपादमनूद्य । द्रप्स जुहोमीति । तं सचरन्तं द्रव्यं प्राच्यां दिश्युद्यन्तं तद्व्यतिरिक्तासु सप्तस्वपि दिक्षु जुहोमि प्रतिष्ठापयामि ' अनुर्लक्षणे ' ( पा ० सू ० ११४ | ८४ ) इत्यनोः कर्मप्रवचनीयत्वम्, ' कर्मप्रवचनीययुक्ते द्वितीया ' ( पा ० सू ० २।३।८ ) इति होत्राशब्दाद् द्वितीया । ' द्वाभ्यामुपदधाति ( श ० ७ | ४ | ११२१ ) । मन्त्रद्वित्वमनूद्य स्तौति-द्वाभ्यामिति । अध्यात्मपक्षे - यः पूर्वः प्रथमः, मुख्य इति यावत् । द्रप्सो द्रवान् अविद्योपस्थापितान् भोगान् प्साति भक्षयतीति द्रप्सश्चिदादित्यांशो भोक्ता जीवः, पृथिवीमन्तरिक्षं द्यां द्युलोकं चानुलक्ष्य चस्कन्द गच्छति । इमं भूलोकं योनिं स्थानं चस्कन्द । एवं समानं योनि लोकत्रयमनुसञ्चरन्तं द्रप्स सप्त होत्रा अनुजुहोमि । सप्तसु दिक्षु स्थापयामि, उपाधितादात्म्यापोहेन सर्वव्यापकं ब्रह्म चिदादित्यरूपेणानुसन्दधामीत्यर्थः । दयानन्दस्तु -- ' हे मनुष्याः यथाहं यस्य सप्त पश्च प्राणा मन आत्मा चेति होत्रा आदातारः, यः पृथिवीं भूमि द्यां प्रकाशमिमं च योनिं कारणं चानु यः पूर्वो द्रप्सो हर्ष उत्साहः, ' हृप विमोहन हर्षंणयोः ', अनु चस्कन्द ' प्राप्नोति तस्य योनिं स्थानमनु सञ्चरन्तं समानं द्रप्यं सर्वत्राभिव्याप्तभानन्दमनु जुहोमि गृह्णामि, तथैनमादत्त असौ वा इति, तदपि यत्किञ्चित्, मनुष्याणां सम्बोध्यत्वस्य पञ्चप्राणमन आत्मनां सप्तहोत्रत्वस्य च निर्मूलत्वात्, ' आदित्यो द्रप्सो दिशः सप्त होत्रा: ' इत्यादिश्रुतिविरोधाच्च ॥ ५ ॥

नमो॑ऽस्तु स॒र्वेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ ।

ये अ॒न्तरि॑क्षे ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ६ ॥

मन्त्रार्थ -- पृथ्वी के अनुगत जो नक्षत्र आदि लोक हैं, उनके निमित्त मेरा नमस्कार । जो लोक अन्तरिक्ष में वर्तमान हैं, जो सम्पूर्णं द्युलोक में आश्रित हैं, उन नक्षत्रों के निमित्त भी मैं नमस्कार करता हूँ ॥ ६ ॥

' उपतिष्ठते यजमानो नमोऽस्त्विति ' ( का ० श्री ० १७।४।६ ) । यजमानो हिरण्यपुरुषं पश्यन् इत आरभ्य ऋक्यं पठेदिति सूत्रार्थः । सर्पदेवत्यास्तिरोऽनुष्टुभः । ये केचित् सर्पाः पृथिवीमनुगतास्तेभ्यः सर्पेभ्यो ३३

पृष्ठ 294

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 294 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५८ शुक्लयजुर्वेद संहिता [ अ ० १३ नमोऽस्तु । अन्तरिक्षलोके वर्तमाना ये सर्पा दिवि द्यलोके वा वर्तमाना वासुकिप्रभृतयस्तेभ्यः सर्पेभ्यो नमः । यद्वा ये के च ये केचित् सर्पाः सर्पन्तीति सर्पा लोकाः, ' इमे वै लोकाः सर्पाः ' ( श ० ७ | ४ | १ | २५ ) इति वक्ष्यमाणश्रुतेः सर्पशब्देन लोका उच्यन्ते । तत्र ब्राह्मणम् — ' अथ सर्पनामैरुपतिष्ठते । इमे वै लोकाः सर्पास्ते हानेन सर्वेण सर्पन्ति यदिदं ि सर्वेषामु ष देवानामात्मा यदग्निस्ते देवा एतमात्मानमुपधायाविभयुर्य न इमे लोका अनेनात्मना न सर्वेयुरिति ' ( श ० ७ | ४ | १ | २५ ) । ' त एतानि सर्पनामान्यपश्यन् । तैरुपातिष्ठन्त तैरम्मा इमल्लोकानस्थापयंस्तैरनमयन् यदनम-यंस्तस्मात् सर्वनामानि तथैतद्यजमानो यत् सर्वनामरुपतिष्ठत इमानेवास्मा एतल्लोकान् स्थापयती माँल्लोकान्नम-यति तथो हास्यंत एतेनात्मना न सर्पन्ति ' ( श ० ७ | ४ | १ | २६ ) । यजमानकर्तृकं हिरण्य पुरुषस्योपस्थानं विधत्ते - अथ सर्पनामैरिति । नमोऽस्तु सर्पेभ्य इत्याद्याः सर्वनामाख्या मन्त्राः । अथैतत्सर्वनामभिरुपस्थानं लोकत्रयस्थापन हेतुत्वेनाख्यायिकया प्रतिपादयति- इमे वै लोका इत्यादिना । यदिदं लोकत्रयवर्त प प्राणिजातमस्ति, अनेन सर्वेण सह पृथिव्यादयस्ते लोकाः सर्पन्ति । तस्मात् सर्पणनिमित्तात् सर्पशब्दाभिधेया लोका इत्यर्थः । तथा चित्याग्निरिति यदस्ति एष एव खलु सर्वेषां देवनामात्मा । अतस्ते देवा एनमात्मानं हिरण्मय पुरुषमुपधायाबिभयुर्भयं प्राप्ताः । यद्वै न इत्यादिना भयस्वरूपप्रतिपादनम् । यदि खलु नोऽस्माकमनेनात्मना सह इमे लोका न सर्पेयुस्तर्हि अस्मदीयस्यात्मनो लोकसम्बन्धविरहाद् आश्रयो न स्यादित्येवं भीतास्ते देवा एतानि ' नमो s स्तु ' इत्यादीनि सर्वनामान्यपश्यन् दृष्ट्वा च तैरुपस्थानं कृतवन्तः । तेन चोपस्थानेनास्मै हिरण्मयपुरुषरूपायाग्नये इमान् पृथिव्यादिलोकान् अस्थापयन्, तैः स्थापितैर्लोकैरनमयन् वशीकृतवन्तः । यदन-मयन्निति सर्पनामाख्यानिर्वचनम् । सर्पाणां नमनहेतुत्वाच्च सर्पनामानीत्यर्थः । तथैवैतदित्यादिनाख्यायिका सिद्धार्थस्य दान्तिके योजनम् । सर्पनामभिरुपस्थाने सत्यस्य यजमानस्य एते लोका एतेन चित्याग्निरूपेण आत्मना न सर्पन्ति, किन्त्ववतिष्ठन्त इत्यर्थः । ' यद्वेव सर्पनामैरुपतिष्ठते । इमे वै लोकाः सर्पा यद्धि किञ्च सर्पत्येष्वेव तल्लोकेषु सर्पति तद्यत्सर्वनाम -रुपतिष्ठते यैवैषु लोकेषु नाष्ट्रा यो व्यध्वरो या शिमिदा तदेवैतत्सर्व शमयति ' ( श ० ७ | ४ | ११२७ ) | तदेव प्रकारान्तरेण स्तौति -- यद्वेवेति । यदिदं किञ्च स्थावरजङ्गमात्मकं प्राणिजातमस्ति 1 तत्सर्वमेष्वेव लोकेषु सर्पति चलति, अतः सर्पणाधिकरणत्वात् सर्पा लोकाः । तत् तथा सति सर्पनामाख्यैर्मन्त्रैरुपतिष्ठत इति यदस्ति तत् तेन एष्वेव लोकेषु वर्तमानं नाष्ट्रादिकं शमयति । नाष्ट्रा नाशकारिणी आसुरी प्रजा । व्यध्वरो व्यधनशीलो दन्दशूकादिः । शिमिदा विषहेतुतावृश्चिकादिः । ' नमोऽस्तु सर्पेभ्यः । ये के च पृथिवीमनु ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नम इति य एवैषु त्रिषु लोकेषु सर्पास्तेभ्य एतन्नमस्करोति ' ( श ० ७ | ४ | १ | २८ ) । तत्र प्रथमं सर्वनाममन्त्रमनूद्य तात्पर्यं व्याचष्टे -- नमोऽस्त्वित्यादिना । एषु त्रिषु लोकेषु ये सर्पणशीला दन्दशूकाद्याः प्राणिनस्तेभ्य एतन्नमस्करोतीति मन्त्रार्थः । पृथिवीमनु ' इत्यत्र ' अनुर्लक्षणे ' ( पा ० सू ० १ ४ ८४ ) इत्यनोः कर्मप्रवचनीयत्वम् | ' कर्मप्रवचनीययुक्ते द्वितीया ' ( पा ० सू ० २२३८ ) इत्यनेन पृथिवीमित्यत्र द्वितीया । अध्यात्मपक्षे -- सार्वात्म्यविवक्षया परस्यैकस्यैव सर्पणशीलत्वादिविविधरूपतां दन्दशूकादिरूपेण प्रदश्यं तेभ्यो नमस्करणम् । तेषां च देवविशेषत्वेन पृथिव्यां दिव्यन्तरिक्षे च सर्पणं सम्भवत्येव । दयानन्दस्तु — ' ये के चात्र सर्पाः सन्ति तेभ्यो नमोऽन्नमस्तु । ये चान्तरिक्षे ये दिवि ये च पृथिवीमनुसर्पन्ति तेभ्यः सर्पेभ्यो नमोऽन्नमस्तु ' इति, तदपि यत्किञ्चित् दिव्यन्तरिक्षे च के जीवाश्चरन्ति 2 कथं च तेभ्योऽन्नं न

दीयत इत्याद्यनुक्तेः । शतपथब्राह्मणसङ्गतिस्तुक्तैव ॥ ६ ॥

पृष्ठ 295

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 295 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७-८ ] वेदार्थ पारिजात भाष्य सहिता या इष॑वो यातुधानानां ये वा वन॒स्पति॒ २ रन् । ये वा॑ऽव॒टेष शेर॑ते॒ तेभ्यः॑ ७ स॒र्वे॑भ्यो॒ नमः॑ ॥ ७ ॥

२५ ९ वृक्ष आदि वनस्पतियों के मन्त्रार्थ- - राक्षस गणों के साथ जो सर्प बाण रूप से रहते हैं, या जो सर्प चन्दन, भित हैं और जो बिलों में शयन करते हैं, उन सबको मैं नमस्कार करता हूँ ॥ ७ ॥

याः सर्वजातयो यातुधानानां यातुं यातनां तीव्रवेदनां परेषां कृते दधति ये ते यातुधाना रक्षःप्रभृतयः बिलेषु, तेषामिषवो बाणरूपेण वर्तन्ते । ये चान्ये वनस्पतीन् चन्दनादिवृक्षान् अनुवेष्ट्य स्थिताः, ये चान्येऽवटेषु शेरते, तेभ्यः सर्पेभ्यो नमोऽस्तु । अत्र ब्राह्मणम् — ' या इषवो यातुधानानामिति । यातुधानप्रेषिता हैके दशन्ति ये तेभ्य वा वनस्पती एतन्नमस्करोति २ रनु । ये ' वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नम इति ये चैव वनस्पतिषु सर्पा ये चाऽवटेषु शेरते ( श ०७ । ४ । १ । २ ९ ) । स्पष्टार्थं ब्राह्मणम् । अध्यात्मपक्षे - सार्वात्म्य प्रदिदर्शयिषया तत्तत्सर्पाद्यात्मना स्थिताय परमात्मन एवैतन्नमस्करणम् । गतयः, ये वा दयानन्दस्तु - हे मनुष्याः, यूयं या यातुधानानां ये यान्ति परपदार्थान् वज्रं दधति प्रक्षिपत तेषामिषवो ' इति, तदपि न वनस्पतीननु वर्तन्ते, ये वावटेषु शेरते, तेभ्यश्चञ्चलदुष्टप्राणिभ्यो नमो ' इत्याख्येषु च शेरते, तेषां कृते सङ्गतम् । अनेके महात्मानो वनस्पतीनाश्रित्य तिष्ठन्ति, अवटेषु लोके ' भूइंधरा गतयो भवन्ति, जीवानां गति-वज्रप्रहारोपदेशस्यासङ्गतत्वात् । न च केचनापि सर्पाः परधनापहारिणामिषवो ॥ ७ ॥

रूपत्वायोगात् ' यातुधान प्रेषिता हैके दशन्ति ' इति श्रुतिविरोधाच्च

ये वामी रो॑च॒ने दि॒वो ये वा सूर्यस्य रश्मिषु॑ ।

येषा॑म॒प्सु॒ सद॑क॒स्तं तेभ्यः॑ स॒पे॑भ्यो॒ नमः॑ ॥ ८ ॥

जो सूर्य की मन्त्रार्थ - जो सर्प सम्पूर्णं द्युलोक के दीप्तिमय स्थान में हैं, जो हमें नहीं दिखाई पड़ते सर्पों अथवा को मैं नमस्कार किरणों में निवास करते हैं, जिन्होंने जल में अपना स्थान बनाया है, उन सभी प्रकार के करता हूँ ॥ ८ ॥

दिवो द्युलोकस्य रोचने दोप्तस्थाने ये चामी सर्पा अस्माभिरदृश्यमानाः ' सन्ति रोचनो , तथा ह नामैष सूर्यस्य लोको रश्मिषु यत्रष ये सर्पा वसन्ति येषां सर्पाणामप्सु जलेषु सदः स्थानं कृतम्, तेभ्यः सर्पेभ्यो नमोऽस्तु, एतत्तपति ' ( ० ७ १।१।२४ ) इति श्रुतेः । नम अत्र ब्राह्मणम् -- ' ये वामी रोचने दिवः । ये वा सूर्यस्य रश्मिषु येषामप्सु सदस्कृतं तेभ्यः सर्पभ्यो तस्मादु इति यत्र यत्रैते तदेवैभ्य एतन्नमस्करोति नमो नम इति यज्ञो वै नमो यज्ञेनैवैनानेतन्नमस्कारेण । तृतीयं नमस्यति सर्पनाममन्त्रमनूद्य हायज्ञियं ब्रूयान्नमस्त इति यथा हैनं ब्रूयाद्यज्ञस्त इति तादृक् तत् ' ( श ० ७ ४ । सम्बन्धिनि १ । ३० ) रोचने रोचमाने स्थाने मन्त्रत्रयतात्पर्यं व्याचष्टे - ये वामीति । सर्वत्र वाशब्दश्चार्थे । दिवो द्युलोकस्य सदनं स्थानं कृतमस्ति, तेभ्यः ये च अमी सर्पाः सूर्यस्य रश्मिषु च ये वर्तन्ते येषां सर्पाणामप्सु उदकमध्ये सदः सर्पा वर्तन्ते तत्र तत्रैव एभ्यः सर्पेभ्यो नम इति । यत्र यत्रेत्यादिना मन्त्रत्रयतात्पर्य कथनम् । यत्र यत्र देशे एते नम इति पुनः पुनर्नम: -सर्पेभ्यो नमो नम इति त्रिष्वपि मन्त्रेषु पठितानां नमः शब्दानां संग्रहार्था पुनरुक्तिः । नमो

पृष्ठ 296

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 296 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६० शुक्लयजुर्वेदसंहिता [ [ अ ० ] १३ शब्दप्रयोगेण एतान्नमस्करोति । नमस्कारं स्तौति - यज्ञो वै नम इति । देवतोद्देश्येन द्रव्यत्यागो यज्ञः, स यथा देवताप्रीतिकरस्तद्वन्नमस्कारोऽपीति तस्य यज्ञात्मकता । तथा च यज्ञात्मकेन नमस्कारेण एतान् सर्पान् नमस्यति पूजयति । नमसः पूजायामर्थे ' नमोवरिवश्चित्रङः क्यच् ' ( पा ० सू ० ३ | १ | १ ९ ) इति क्यचि रूपम् । प्रासङ्गिकं किञ्चिदाह श्रुतिः - तस्मादिति । यस्मादेवं नमस्कारप्रतिपादको नमः शब्दोऽपि यज्ञात्मकः प्रयुज्यते, तस्मादेव कारणाद् अयज्ञियं यज्ञानहं हे देवदत्त नमस्तुभ्यमित्येवं न ब्रूयात् । कथं तर्हि ब्रूयात्? ' भो देवदत्त नमस्ते ' इत्येव ब्रूयात् । तस्य वचनस्य यज्ञियत्वमाविष्करोति - यथा खल्वेनमतिथिं ब्रूयाद् यज्ञस्ते कल्पित इति तादृक् तत्सदृशमेव नमस्ते इति वचनम् । अध्यात्मपक्षे - परस्यैव सर्वात्मत्व दिदर्शयिषया पूर्ववदेव व्याख्यानम् । दयानन्दस्तु – ' हे मनुष्याः येऽमो दिवो विद्युतो रोचने दीप्तौ सूर्यस्य रश्मिषु येषां वाप्सु सदस्कृतं तेभ्यः सर्पेभ्यो दुष्टप्राणिभ्यो नमो वज्रं दत्त ' इति, तदपि यत्किञ्चित् गौणार्थाश्रयणात् पूर्वोक्तशतपथश्रुति-विरोधाच्च ॥ ८ ॥

कृ॒णुष्व पाज॒ प्रसि॑ति॒ न पृथ्वीं या॒हि राजे॒वास॑व॒२इमे॑न ।

तृष्वीमनु प्रसिति ब्रूणानोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥ ९ ॥

मन्त्रार्थ - हे अग्निदेव, आप शत्रुओं का नाश करने वाले हो, आप उनकी तरफ बढ़ो । जैसे सहायवान् राजा हाथी पर चढ़कर शत्रुओं पर आक्रमण करता है, वैसे ही तुम आगे बढ़ो । पक्षियों को पकड़ने के लिये जैसे जाल बिछाया जाता है, वैसे ही तुम अपने बल का विस्तार करो, मजबूत जाल में शत्रुओं को फँसाने वाले राक्षसों को तुम शिक्षा दो ॥ ९ ॥

' उपविश्य पञ्चगृहीतं जुहोति पुरुषे कृणुष्व पाज इति प्रत्यूचं प्रतिदिशं परिसर्पम् ' ( का ० श्री ० १७ | ४ | ७ ) । अध्वर्युराज्यं संस्कृत्य पञ्चगृहीतमादायात्मानमारुह्य पुरुषान्तिके उपविश्य प्रतिदिशं गत्वा पुरुषस्योपरि पञ्चभिर्जुहोतीति सूत्रार्थः । पञ्चगृहीत भाज्यं हिरण्मये पुरुषे कृणुष्व पाज इत्यादिभिः पञ्चभिर्ऋग्भिः क्रमेण प्रागाद्यूर्ध्वान्तं पञ्चदिशोऽभिलक्ष्य जुहुयादित्यर्थः । वामदेवदृष्टा राक्षोघ्नाः प्रतिसरा अग्निदेवत्याः पञ्च त्रिष्टुभः । प्रतिसरशब्देनाग्निदेवत्या रक्षोन्ना मन्त्रा उच्यन्ते । ' पाज इति बलनामसु ' ( निघ ० २ ९ ( २ ) । हे अग्ने, पाजो बलं कृणुष्व कुरुष्व । तत्र दृष्टान्तः --- पृथ्वीं विशालां प्रसिति न प्रसितिमिव । प्रसितिर्जालम्, ' पाजः पालनात्प्रसितिः प्रसयनात् तन्तुर्वा जालं वा ' ( निरु ० ६ । १२ ) इति यास्कोक्ते:, ' षिञ् बन्धने ' प्रसीयन्ते प्रबध्यन्ते पक्षिणो मृगा वा यया सा प्रसितिः, ताम् । नकार इवार्थकः । अर्थाद् मृगबन्धनहेतुभूतां वागुरामित्र पृथ्वीं प्रसारितामतोऽनन्तरं याहि । पक्षिग्रहणाय प्रसारितं जालमिव शत्रु ग्रहणाय बलं प्रसारयेत्यर्थः 1 । ततो राजेव नृप इव अमवान् सहायवान् इभेन गजेन याहि शत्रून् प्रति गच्छ । अमन्तीत्यमाः सेवकाः । ' अम् गत्यादिषु ' आदिशब्देन गतेः परयोः शब्दसम्भक्तिरूपयोरर्थयोर्ग्रहः, ' अम् गतौ शब्दे सम्भक्तौ च ' इति तात्पर्यार्थः । अमाः सन्ति यस्यासी अमवान् । तृष्वीं क्षिप्रगामिनीम् । ' वृष्विति क्षिप्रनामसु ' ( निघ ० २ | १५ | १० ) । प्रसिति प्रकृष्टसेना द्रूणानो हिंसन् । ' ट्रूञ् हिंसायाम् ' द्रूणीतेऽसाविति दूणानः, शानच् प्रत्ययः । अस्ता शत्रूणां क्षेप्तासि, अतो रक्षसो राक्षसान् तपिष्ठरतिसन्तापकैर्बाणैविध्य ताडय । अर्थाद हे अग्ने, मृगबन्धनाय प्रसारितां पृथ्वीं च वागुरां रक्षोनिरोधाय प्रौढबलां कुरु । अमात्ययुक्तो गजेन सहितो राजेव रक्षसामुपरि याहि । क्षिप्रगामिनी परकीय-सेनामनु पृष्ठतो गत्वा पलायनविशिष्टायां धावयिता भव । पलायमानान् राक्षसान बाणैस्तीक्ष्णैविध्य |

पृष्ठ 297

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 297 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ९ ] वेदार्थपारिजात भाष्यसहिता ३६१ यद्वा - हे अग्ने, पृथिवीं विशालां प्रसिति वागुरामिव पृथुजालमिव वा बलं कुरुष्व अमवान् अमात्मवान् भूत्वा अभ्यमनवान् वा अभ्यमनं शत्रूणां भयादप्रतिपक्षकरणम् । गृहवान् वा भूत्वा शत्रून् प्रति इभेन हस्तिना तद्भवेन बलेन वा राजेव याहि । तृष्वीमनुप्रसितिं द्रूणानस्तृष्व्या प्रसित्या शत्रून् हिंसन् । विभक्तिव्यत्ययः । यतश्च त्वं तृष्ट्या क्षिप्तया प्रसित्या तन्तुना जालेन वा दूणानो हिंसन् अस्ता क्षेप्ता असि विकटः कृतास्त्रोऽसि, अतो ब्रवीमि विध्य ताडय छिन्धि रक्षसो राक्षसान् तपिष्ठैस्तप्ततमः प्रहारैः । यद्वा अतीव तप्ततमैरतिशयेन क्लेशक रेर्बाणादिभिः । पक्षिग्रहणाय प्रसारितं जालमिव शत्रुग्रहणाय बलं प्रसारय । ततो राजेव नृप इव अमात्यादिसेवकयुक्तराजेव याहि । अस्ता शत्रूणां क्षेप्तासि, अतो रक्षसो विध्य ताडय । तपिष्ठेः तपन्ति तापयन्ति वेति तप्तृणि, अतिशयेन तप्तृणि तपिष्ठानि, तेस्तादृशैरायुधैः, तृष्व्या क्षिप्रया प्रसित्या वागुरयेव अनुद्रूणानः शत्रून् मारयन्निति मन्त्रार्थः । अत्र ब्राह्मणम् -- ' अथैनमुपविश्याभिजुहोति । आज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः सर्वतः परिसर्प १५,. सर्वाभ्य एवैनमेतद्दिग्भ्योऽन्नेन प्रीणाति ' ( श ० ७ । ४ । १।३२ ) । अभिहोमं विधत्ते - अर्थनमिति । एनं हिरण्मय -पुरुषम् अभिजुहोति अभितः सर्वासु दिक्षु उपरिहोमेन संस्कुर्यात् । तत्र द्रव्यं विधत्ते -- आज्येनेति दिशं परिक्रम्य । आहुति - । पचकार्थं पञ्चगृहोतमाज्यं त्रुचि गृहीत्वा तेनाभिजुहुयादित्यर्थः । सर्वतः परिसर्प तां तां अभीक्ष्ण्ये णमुल् | परिसर्पणस्य प्रयोजनमाह - सर्वाभ्य इति । सर्वाभ्यो दिग्भ्यः सकाशादेनं पुरुषमन्नेन प्रीणाति । ' यद्वेवैनमभिजुहोति । एतद्वै देवा एतमात्मानमुपधायाबिभयुर्यद्वै न इममिह रक्षा, सि नाष्ट्रा न हन्युरिति त एतान् राक्षोघ्नान् प्रतिसरानपश्यन् कृष्णुष्व पाजः प्रसिति न पृथ्वीमिति राक्षोघ्ना वै प्रतिसरास्त एतैः प्रतिसरः सर्वाभ्यो दिग्भ्यो रक्षा सि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतमात्मान समस्कुर्वत तथैवैतद्यजमान एतैः प्रतिसरः सर्वाभ्यो दिग्भ्यो रक्षाछसि नाष्ट्रा अपहत्याभयेनाष्ट्र एतमात्मान, संस्कुरुते ' ( श ० ७ ४ । १।३३ ) । मन्त्रविध्यर्थमनुवदति – यद्वेवैनमिति । कृणुष्व पाज इत्याद्यान् राक्षोघ्नान् पञ्च मन्त्रान् विधातुमाख्या-यिकामाह-- एतद्वै देवा इति । यद्वै न इममिति । नः अस्माकम् इमम् आत्मानम् इह अस्मिन्नवसरे नाष्ट्रा रक्षांसि यद्येनोपायेन न हन्युः, स उपायः क इति विचारितवन्त इत्यर्थः । राक्षोघ्नान् प्रतिसरानित्यादि । राक्षसान् प्रति अस्त्ररूपेण सरन्ति गच्छन्तोति प्रतिसरा: ' कृणुष्व पाजः ' इत्याद्या मन्त्राः । प्रसिद्धी वैशब्दः । सा च ' अस्तासि विध्य रक्षसस्तपिष्ठः ' इत्यादि मन्त्रवर्गेरवसेया । तथैवैतदित्यादिना उक्तार्थदृष्टान्तमुखेनाभिहोममन्त्रविधिः । ' आज्येन जुहोति । वज्रो वा आज्यं वज्रेणैवैतद्रक्षासि नाष्ट्रा अपहन्ति पञ्चगृहीतेन पञ्च चितिकोऽग्निः पञ्चर्तवः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैतद्रक्षा सि नाष्ट्रा अपहत्याग्नेयीभिरग्निर्वे ज्योती रक्षोहाऽग्निनैवैतद्रक्षास नाष्ट्रा अपहन्ति त्रिष्टुभिर्वत्रो वै त्रिष्टुब् तद्रासि नाष्ट्रा अपहन्ति सर्वतः परिसर्प सर्वाभ्य एवैतद्दिग्भ्यो रक्षाछसि नाष्ट्रा अपहन्ति ' प्रतिपाद्य द्रव्यमुखेनापि तत्प्रतिपादयति- - वज्रो वा इति । ( श ० ७ | ४ | १ | ३४ ) | मन्त्रद्वारा रक्षोहननहेतुतां ' घृतं खलु वै देवा वज्रं कृत्वा सोममध्नन् ' ( तै ० सं ० ६ २ २ ) इति तैत्तिरीयके प्रसिद्धं घृतस्य वज्ररूपत्वमत्र वैशब्दो द्योतयति | आज्यस्य अग्निज्वालाहेतुत्वादपि वज्रत्वम् । पञ्चर्तवः संवत्सर इति हेमन्त शिशिरयो-मसाभिप्रायेण । मन्त्रदेवताद्वारेणाथं प्रशंसति --- आग्नेयोभिरिति । छन्दोद्वारेण स्तौति - त्रिष्टुभिरिति । ' पश्चादग्नेः प्राङासीनः । अथोत्तरतो दक्षिणाथ पुरस्तात् प्रत्यङ्ङथ जघनेन परीत्य दक्षिणत उदासीन-स्तद्दक्षिणावृत् तद्धि देवत्राऽथानुपरीत्य पश्चात् प्राङासीनस्तथो हास्येतत् प्रागेव कर्म कृतं भवति ' ( श ० ७ | ४ | १ | ३५ ) । पश्चादग्नेरित्यादिना परिसर्पणप्रकार उच्यते । अग्नेः पश्चात् प्रतीच्यां दिशि प्राङ्मुख उपविष्टः सन् प्रथमेन मन्त्रेण पुरुषमभिजुहोति । अथोत्तरभागे दक्षिणामुख उपविष्टः सन् द्वितीयेन

पृष्ठ 298

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 298 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१२ शुक्लयजुर्वेदसंहिता [ अ ० १३ मन्त्रेणाभिजुहोति । अथ पुरस्तात् प्राच्यां दिशि प्रत्यङ्मुख उपविष्टस्तृतीयेन मन्त्रेण । अथ यथेतं प्रतिनिवृत्य जघनेन परीत्य पुरुषस्य पश्चाद्भागेन परिक्रम्य दक्षिणतो दक्षिणस्यां दिश्युदङ्मुख उपविष्टश्चतुर्थेन मन्त्रेणाभिजुहोति । तद्दक्षिणावृदिति । एवं क्रियमाणे सति होमस्य प्रादक्षिण्येन वृत्तिरुपपन्ना भवति । तत्खलु प्रादक्षिण्यं देवत्रा देवसम्बन्धिनि कर्मणि योग्यम् । अथ अनन्तरम् अनुपरीत्य दक्षिणदिक्सकाशात् प्रतीची दिशं गत्वा तत्र प्राङासीनः पञ्चमेन मन्त्रेणाभिजुहुयात् । तथैवं सति ह्यस्यैतदभिहोमाख्यं कर्म प्रागप-वर्गं कृतं भवति । अध्यात्मपक्षे - हे अग्ने, प्रशस्ताङ्गवान् श्रीराम, पृथिवीं विशालां प्रसृति वागुरामिव पाजो वानरर्क्षवलं कुरुष्व । ततोऽमवान् सुग्रीवजाम्बवदादिसहायवान् राजेव इभे इभेन, विभक्तिव्यत्ययः, इभकोटिप्रबलेन हनुमता शत्रून् रावणादीन् याहि । यतस्त्वममोघ बाणानामस्ता प्रक्षेप्तासि तृष्वीं क्षिप्रसितिं वेगवतीं वागुरां शत्रुबन्धन-हेतुभूतां शत्रुसेनां वा गुणानो हिंसन् तपिप्ठेरतिशयेन सन्तापकैरायुधं रक्षसो रावणप्रभृतीन् विध्य ताडय, विनाशयेत्यर्थः । दयानन्दस्तु हे सेनापते, त्वं पाजो बलं कृणुष्व । प्रसृति जालं न इव पृथिवीं भूमि याहि । यतस्त्वमस्ता प्रक्षेप्ताऽसि तस्मादिभेन हस्तिना अमवान् अमा अमात्या बहवः सचिवा विद्यन्ते यस्य स भवान् राजेव तपिष्ठैरति-शयेन सन्तापकरैः शस्त्रेः प्रसिति जालं संसाध्य रक्षसश्च द्रूणानी हिंसन् तृष्वीं क्षिप्रगतिमनु विध्य तदपि यत्किञ्चित् सेनापतेः सम्बोधने मानाभावात्, अमशब्दस्य सचिवार्थकत्वे मूलाभावात् ताडय शतपथ- ' इति, श्रुतिविरोधश्च ॥ ९ ॥

तव॑ च॒मास॑ आशु॒वा प॑त॒न्त्यन॒स्पृश धृष॒ता शोशु॑चानः ।

तपूष्यग्ने जुह्वा पतङ्गानस॑न्दितो विसृ॑ज॒ विष्व॑गल्काः ॥ १

मन्त्रार्थ- हे अग्नि देवता, आपकी जो शीघ्रगामी ज्वालाएँ पवन से इधर - उधर चलायमान प्रगल्भ ज्वालासमूह से प्रकाशमान आप तपाने वाले राक्षसों और पक्षियों को जला डालो | सुचा से हूयमान होती अखण्डित हैं, उस होकर आप सर्व तिरछो, ऊँची - नीची ज्वालाओं को राक्षसों के नाश के लिये छोड़ो, पतंगों के समान राक्षस आपमें प्रविष्ट होकर नष्ट हो जाँय ॥ १० ॥

हे अग्ने, तब ये भ्रमासो भ्रमणशीला विस्फुलिङ्गा वातोद्भूता ज्वालासमूहा शीघ्रगमनाः । आगुशब्दात् परस्य जस: ' सुपां सुलुक ' ( पा ० सू ० ११/३२ ) वा आशुया आशवः आशु यान्तीत्यागुयाः शीघ्रयातारः पतन्ति गच्छन्ति स्वपूंषि तपन्ति सन्तापयन्तीति इत्यादिना यादेशः । अथवा रक्षांसि तानि पतङ्गान् पतन्तः सन्तो गच्छन्तीति पतङ्गाः पिशाचास्तांश्च अनुस्पृश स्पर्शनं वपूंषि तापयितृणि दहेत्यर्थः । कीदृग्भूतस्त्वम्? धृषता प्रगल्भेन ज्वालौघेन शोशुचानः, अत्यन्तं शुच्यते कुरु वैरूप्यादिनिराकरणेन , ज्वालाभिस्तान् पूतीभवतीति शोच्यते, शोशुच्यत इति शोशुचानो देदीप्यमानः | ' ईशुचिर पूतोभावे ' यङन्तात् शानच् । जुह्वा स्रुचा हूयमान इति शेषः । असन्दितः अखण्डितः सन् विष्वक् सर्वतस्तिर्यग् इति दैवादिकाद् मधश्च उल्का ज्वाला रक्षांविघाताय विसृज विविधरूपेण उत्पादय । ' दोऽवखण्डने ' ऊर्ध्व-सम्पूर्वक: सन्दितः नञ्समासे असन्दितः । छन्दस्त्वात् ल्यबभावः । इत्युव्वाचार्या महीधराचार्याश्च इत्यस्य निष्ठायां दितः, । अध्यात्मपक्षे- ' सर्वे वेदा यत्पदमामनन्ति ' ( कठो ० ११२।१५ ) इति रीत्या परमात्मैवात्राग्निपदेन सम्बोध्यते । हे अग्ने, खलवनदवाग्ने! ये तव भ्रमासो श्रीरामरूपेणावतीर्णः भ्रमणशीला वानरभटा आशुयाः

पृष्ठ 299

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 299 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १०-११ ] aar पारिजातभाष्यसहिता २६३ शीघ्रगमना मनोजवा राक्षसेष पतन्ति तै पतड़ान पतन्तो गच्छन्ति ये ते पतङ्गास्तान पिशाचाश्च शोशुचानो तपुंसि भृशं तापयितृणि रक्षांसि शत्रूंच अनुस्पृण सन्दह । धषता घटेन प्रगल्भेन वानरर्क्षभटसमूहेन विष्वक् सर्वतः उल्का देदीप्यमानः सुचा सुगादिभिधा समर्च्यमान इति शेषः । असन्दितः अखण्डितः विद्युत्पातानिव बाणसमूहान् विसृज रक्षोविघातायेत्यर्थः । यथा दयानन्दस्तु ' हे अग्ने सेनापते, शोशुचानो भशं पवित्राचरणस्त्वं ये तव भ्रमासो भ्रमणशीला वीरा विष्वक् सर्वत आश्याः शीघ्रगमना उल्का विद्यत्पातास्तथा शत्रुषु पतन्ति तान् धषता दृढेन सैन्येन अनुस्पृश अनुगतो भव । असन्दितः अखण्डितः सन् जहा आज्यहवनसाधनतया अग्नेः अग्निरिव वर्तमानस्त्रपूषितापा सम्बोधनस्य इव शत्रूणामुपरि सर्वतो विद्युतो विसृज । पतङ्गान सुशिक्षितानश्वान् कुरु ' इति, तदपि यत्किञ्चित् अप्रामाणिकत्वात्, ' धृषता ' इत्यस्य दृढेन सैन्येनेति व्याख्यानस्य निर्मुलत्वात् निघण्टुरीत्या पतङ्गशब्दस्या-श्वार्थकत्वेऽपि ' सुशिक्षितान् कुरु ' इत्यस्य निर्मूलत्वात् ॥ १० ॥

प्रति॒ि स्पशो विसृ॑ज॒ तूर्णितमो भवो पार्यावंशो अस्या अदब्धः ।

----यो नौ हरे असो यो अन्त्यग्ने मा किंष्टे व्यथि॒राद॑धर्षोत् ॥ ११ ॥

मन्त्रार्थ हे अग्निदेवता, हमारा दूर देश में जो शत्रु स्थित है, अथवा वर्तमान में निकट है, आप उसकी तरफ कर तीव्र गति से बढ़कर उसे बाँध लो | आप हमारी प्रजा के रक्षक बनो । कोई भी शत्रु आपको पराजित न सके ॥ ११ ॥

अत्र तृतीयपादस्य प्रथमं व्याख्यानम् यच्छब्दयोगात् । यः अघशंसः अघं पापं शंसतीच्छनीति तथाविधः, अस्मद्रोही अथवा अघस्य पापस्य शंसः शंसक उत्कीर्तकः कश्चन दुर्जनो दूरे वसतीति शेषः । यश्च अन्ति समीपे वसति तं प्रति हे अग्ने! स्पशः स्पशन्ति बध्नन्तीति स्पशस्तान् ' स्पश बाधनस्पर्शनयोः ' इति भौवादिकस्य रूपम् । प्रणिधीन् गुप्तधानकान विसृज प्रेरय । अपि च, अस्या अस्मदीयाया विशः प्रजायाः पाय: पालको भव । पातीति पायुः । कीदृशस्त्वम्? तुणितमः, तूर्णं वेगोऽस्यास्तीति तुर्णी, अतिशयेन तुर्णी तूणितमो वेगवत्तरः । अदब्धः अनुपहिंसितः । एवं चेत्थमस्मदनुग्रहार्थं प्रवृत्तस्य ते मा कि: मा कश्चिद् इत्यस्य स्थाने ' किः ' इति प्रयोगशछान्दसः । अथवा माकिरित्यव्ययपदं परिवर्जने । व्यथिः व्यथयतीति व्यथिः पीडकः शत्रुः । आदधर्षीद् माधाष्टयं कार्षीत् । अर्थाद् दूरस्थान समीपस्थांचास्मच्छत्रून् प्रति त्वरितं बन्धकान् प्रेरय । केनाप्यहिंसितो -स्मत्प्रजापालको भव, राक्षसाच त्वां प्रति घटा मा सन्त्वित्यर्थः । ' ञिधषा प्रागल्भ्ये ' इति लुङि छान्दसं द्वित्वम्, अभावच माङ्योगादिति काण्वभाष्ये सायणः । अघशंसः पापस्योत्कीर्तको दुर्जन इत्युक्टाचार्यः | अध्यात्मपक्षे हे अग्ने निशाचरचमूदाहक रामचन्द्र, नोऽस्माकं दूरे बाह्यो योऽघशंस चौरादिः, यश्चान्ति समीपे अघशंसः कामादिनिष्ठेच्छुः शत्रुरस्ति, तं प्रति स्पशो बन्धनकृतः प्रणिधीन् विसृज । तूर्णितमः अतिशयं त्वरन् अदब्धः कस्याप्यनुपहसितो विशः प्रजायाः पायू रक्षको भवा भव । हे भगवन्, एवमस्माकमनुग्रह प्रवृत्तस्य ते तव व्यथिर्व्यथयिता शत्रुः, मा कि: मा कश्चिद् आदधर्षीत् प्रत्यनीको भवतु । दयानन्दस्तु - ' हे अग्ने अग्निवच्छत्रुदाहक, ते तव नोऽस्माकं च यो व्यथिर्व्यथकः शत्रुः, अघशंसः योऽघं पापं कर्तुं शंसति स स्तेनः, दूरे विप्रकृष्टे अन्ति निकटेऽस्ति यथा सोऽस्मान् माकि: निषेधे, अत्र मकिधातोर्बाहुल-कादित्र नुमभावश्च दधर्षीत् धर्षेत, तं प्रति त्वं तूर्णितमः अतिशयेन त्वरितः सन् भव, स्पशो बन्धनानि विसृज,

पृष्ठ 300

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 300 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६४ शुक्लयजुर्वेदसंहिता [ अ ० १३ अस्या विशः प्रजायाः पायुः रक्षकः अदब्धोऽहिंसको भव ' इति, तदपि न युक्तम्, मनुष्य विशेषस्य संबोधने मानाभावात् । नह्यल्पज्ञो दूरस्थान् अन्तिकस्थांश्च शत्रून् ज्ञातुं प्रभवति न वा तेषु बन्धनानि प्रक्षेप्तुं शक्नोतीति व्यर्थमेतत् प्रार्थनम् ॥ ११ ॥

उद॑ग्ने तिष्ठ् प्रत्यात॑नु॒ष्व॒ यो नो अरा॑तिथं समिधान चक्रे

न्य॒मित्राँ २ ओषतात् तिग्महेते ।

नी॒चा तं ध॑क्ष्यत॒सं न शुष्कम् ॥ १२ ॥

मन्त्रार्थ - हे अग्निदेवता, आप जागृत होकर अपनी ज्वालाओं का विस्तार करो । है उत्साहरूप आयुध वाले, आप शत्रुओं को पूरी तरह से भस्म कर दो । हे दीप्तिमान्! हमारे जो शत्रु दान का प्रतिषेध करते हैं, उनको पूरी तरह से भस्म कर दो । जिस प्रकार आप सूखे अलसी के पौधों को भस्म कर देते हैं, उसी तरह से हमारे शत्रुओं का

नाश कर दो ॥। १२ ॥

हे अग्ने, त्वम् उत्तिष्ठ । ततः प्रत्यातनुष्व ज्वाला विस्तारय । हे तिग्महेते तिग्मास्तीक्ष्णा उत्साहवन्तो तयो वज्रोपमा वाणा यस्यासौ तिग्महेतिः, तत्सम्बुद्धौ उत्साहवदायुध । ' हेतिर्वज्रनामसु पठितः ' ( निघ ० २ | २०१३ ) | अमित्रान् शत्रूश्च नि नितराम् ओषताद् दह । ' तुह्योस्तातङ्ङा शिष्यतरस्याम् ' ( पा ० सू ० ७ ११३५ ) इति तादेशः । हे समिधान, समिन्धे दीप्यते साविति समिधानस्तत्सम्बुद्धी । हे दीप्यमानाग्ने, यो नोऽस्माकम् अरातिं चक्रे दानं प्रतिषेधति तं नीचा नीचः कृत्वा धक्षि दह । ' दह भस्मोकरणे ' इति भौवादिकाद् लोटि मध्यमैकवचने ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७३ ) इति शपो लोपे ' दादेर्धातोर्घः ' ( पा ० सू ० ८२/३२ ), ' खरि च ' ( पा ० सू ० ८ | ४ | ५५ ), ' आदेशप्रत्यययो: ' ( पा ० सू ० ८ | ३ | ५ ९ ) इति घत्व -चव - षत्वानि । छान्दसत्वाद्विकाराभावः । धक्षीति रूपम् । तत्र दृष्टान्तः - शुष्कम् अतसं न शुष्कवृक्षमिव । अतसो वृक्षः । अदातारं दानप्रतिषेधकं वा निर्दहेत्यर्थः । अध्यात्मपक्षे - हे अग्ने रामचन्द्र त्वमुत्तिष्ठ भक्तानां रक्षायं सन्नद्धो भव । प्रत्यानुष्व शस्त्रास्त्रजालान् विस्तारय । हे तिग्महेते वज्रोपमायुध, अमित्रान् शत्रून् बाह्यान् आन्तरांश्च न्योषताद् नितरां दह् । यश्च नोऽस्मभ्यमरातिमदानं चक्रे अश्रद्धालुः सन् न दातुमिच्छेत्, हे समिधान देदीप्यमान देव तं नीचा नीचैः कृत्वा अतसं न शुष्कं वृक्षमिव दह । दयानन्दस्तु - ' हे अग्ने सभाध्यक्ष, त्वं राजधर्म उत्तिष्ठ धार्मिकान् प्रत्यानुष्व । हे तिग्महेते तिग्मा तीव्रा हैतिर्वज्रो दण्डो वा यस्य सः, अमित्रान् धर्मद्वेष्टृन् शत्रून् न्योषतात् । हे समिधान सम्यक् तेजस्विन्, यो नोऽराति शत्रु चक्रे करोति तं नीचा न्यग्भूतं कृत्वा शुष्कमतसं न काष्ठमिव धक्षि ' इति, तन्न, सम्बोधनस्याप्रा-माणिकत्वात् । अक्षरार्थस्तु सायणादिकृता नेवार्थाननुसरति ॥ १२ ॥

ऊर्ध्वो भ॑व॒ प्रति॑वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने । अव॑ स्थि॒रा त॑नु॒हि यातन

जामिमजा॑सि॒ ऽमृ॑णीहि॒ शत्रून् । अग्ने॒ष्ट्वा तेज॑सा सादयामि ॥ १३ ॥

मन्त्रार्थ - हे अग्निदेवता, हमारे ऊपर आक्रमण करने के लिये तत्पर उद्धत शत्रुओं को देव सम्बन्धी कर्मों को प्रकट करें, राक्षसों के स्थिर धनुषों को प्रत्यंचा रहित करें, ताड़ित अताड़ित सभी आप दण्डित करें, का नाश करे । हे स्रुक् देवता, मैं अग्नि के तेज से आपको भरता हूँ ॥ १३ ॥ प्रकार के शत्रुओं