वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 301–310
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 301–310
पृष्ठ 301
पाठ पढ़ें पाठ छिपाएँ
म ० १३ ] वेदार्थं पारिजातभाष्यसहिता २६५ हे r ग्ने, ऊर्ध्वो भव ऊर्ध्वंस्तिष्ठ 1 । स्थित्वा च अध्यस्मद् अस्मत्त उपरि व्यवस्थितान् शत्रून् प्रतिविध्य प्रतिताडय | देव्यानि देवसम्बन्धीनि कर्माणि आविष्कृणुष्व प्रकाशीकुरुष्व । किञ्च यातुजूनां जवन प्रधानानां यातुधानानां स्थिरा स्थिराणि धनूंषि अत्रतनुहि अवतारय, शिथिलयेत्यर्थः । यज्ञस्य जामिं पुनरुक्तवचनम्, अजामिम् अपुनरुक्तवचनं कृत्वा शत्रून् प्रमृणीहि प्रमारय । पुनः पुनः ताडनमताडनं वा कृत्वा शत्रून् प्रमारये -त्यर्थः । जाम्यजामिशब्दी पुनरुक्तापुनरुक्तवचनो | अत्र कात्यायनः - ' कार्यमयी दक्षिणतः पाणिमात्रपुष्करां बाहुमात्री पादमात्र वा सामर्थ्याद् घृतपूर्णामग्नेष्ट्वेति ' ( का ० श्री ० १७ | ४ | १२ ) । कार्यः श्रीपर्णी । तन्निमितां पादमात्रदीर्घा षडङ्गलविपुलां प्रागग्रां घृतपूर्णां चमग्नेष्ट्वेति यजुषा ( वा ० सं ० १३ १३ ), अग्निमर्धेत ऋचा ( वा ० सं ० १३।१४ ) चोपदधाति । आग्नेयं यजुः । हे स्रुक्, अग्नेस्तेजसा त्वा त्वां सादयामि | ------अत्र ब्राह्मणम् — ' अथ स्रुचा उपदधाति । बाहू वै स्रुची बाहू एवास्मिन्नेतत् प्रतिदधाति " ( श ० ग्रा ० ७ | ४ | १।३६ ) । सुवोरुपधानं विधत्ते -- अथ स्रुचाविति । तत्प्रशंसति -- बाहू वा इति । ' जुहूर्दक्षिण हस्त उपभृत् सव्य: ' ( तै ० ब्रा ० ३ | ३ | १ | ५ ) इत्यादिश्रुत्यन्तरप्रसिद्धेः स्रुचो बहुरूपता । तथा सत्येतद् एतेन गुपधानेन, अस्मिन् हिरण्मयपुरुष बाहू एव प्रतिदधाति सन्दधाति । ' कार्यमयों दक्षिणत उपदधाति । ' ' आज्येन पूर्णा भवति... ( श ० ब्रा ० ७ | ४ | ११३७ ) । तत्र दक्षिणपार्श्वे उपधेयायाः स्रुचो वृक्षविशेषं विधत्ते -कार्यमयीमिति । कार्ष्मयः, काश्मरी, श्रीपर्णी, गम्भारिरिति समानार्थाः । कुम्भेर, खम्भारी इति लोके प्रसिद्धो वृक्षविशेषः । कार्यवृक्षेण निर्मिता स्रुक् । स्रुच आज्येन पूरणं विधाय स्तौति - आज्येन पूर्णा भवतीति । ' बज्रो वा आज्यं वज्रेणैवैतद् दक्षिणतो रक्षा ७ सि नाष्ट्रा अपहन्ति ' ( श ० ७ | ४ | १ | ३७ ) | ' अथौदुम्बरी-मुत्तरत उपदधाति ' ( श ० ७ | ४ | १ | ३८ ), ' यद्वेव स्रुचा उपदधाति ' ( श ० ७ | ४ | ११३ ९ ), ' तावब्रवीत् ' ( श ० ७ | ४ | १ | ४० ) इति ब्राह्मणकण्डिकासु चोरुपधानमनूद्य तयोर्बाहुरूपतोक्ता । तथाहि तत्र - ' प्रजापते-विस्रस्तस्याग्निस्तेज आदाय दक्षिणाकर्षत् सोऽत्रोदर मद्यत्कृष्ट्वोदरमत्तस्मात्कार्ष्मर्योऽथास्येन्द्र ओज आदायोदङ्ङुद-क्रामत् स उदुम्बरोऽभवत् ' ( श ० ७ | ४ | १ | ३ ९ ) । स्रुचोरुपधानमनूद्य तयोर्बाहुरूपतां वक्तुं तावत्तदुपादानयोर्वृक्षयो-रुत्पत्तिमाह - यद्वेवेत्यादिना । विस्रस्तस्य विशिलावयवस्य प्रजापतेस्तेज आदाय गृहीत्वा अग्निर्दक्षिणतोऽकद् अनैषीत् । स अग्निरत्र कार्यवृक्षे उदरमद् उत्कृष्टम् अरमद् अवात्सीदित्यर्थः । कृषेर्धातो रमेव कार्यशब्दो निष्पन्नः । सा च निष्पत्तिर्वर्णविकारेण द्रष्टव्या । अथ अग्निनिर्गमनानन्तरम् अस्य विस्रस्तावयवस्य प्रजापतेरोज आन्तरं वीर्यं स्वीकृत्य इन्द्र उत्तरामुखः सन् उत्तरभागे उदक्रामत्, उत्क्रमणात् स उदुम्बरो वृक्षो जातः । अनन्तरम् - ' तावब्रवीत् । उपमेतं प्रति म एतद्धत्तं येन मे युवमुदक्रमिष्टमिति ताभ्यां वै नौ सर्वमन्नं प्रयच्छेति तो वै मा बाहू भूत्वा प्रपद्येथामिति तथेति ताभ्यां वै सर्वमन्नं प्रायच्छत्तावेनं बाहू भूत्वा प्रापद्येतां तस्माद् बाहुभ्यामेवान्नं क्रियते बाहुभ्यामद्यते बाहुभ्या सर्वमन्नं प्रायच्छत् ' ( श ० ७ | ४ | १ | ४० ) । ततस्तावग्नीन्द्रौ प्रजापतिरब्रवीत् । मा उपेतम् उपगच्छतम् । एतद् मदीयमङ्गं प्रतिधत्तं पुनः सन्धानेन संस्कुरुतम् । येन कारणेन मे मदीयशरीराद् युवमुदक्रमिष्टमिति । प्रजापतिवाक्यावसाने इतिशब्दः । ताभ्या-मित्यादि तयोरग्नीन्द्रयोर्वाक्यम् । हे प्रजापते, ताभ्यां वै खलु नो आवाभ्यां सर्वमन्नं प्रयच्छ तहिं आवां त्वामुपगच्छावेति । ' युष्मदस्मदोः षष्ठोचतुर्थीद्वितीयास्थयोर्वानावी ' ( पा ० सू ० ८ | १ | २० ) इति चतुध्यन्तस्य नोभावः । पुनः प्रजापतिरब्रवीत् हे अग्नीन्द्रो, तो युवां बाहू भूत्वा मा मां प्रपद्येथां प्रविशतामिति । तो अग्नीन्द्रावपि तथास्तु इत्यब्रूताम् । एवं तौ वशीकृत्य प्रतिज्ञातप्रकारेण प्रजापतिः सर्वमन्नं ताभ्यां प्रायच्छत् । तो अग्नीन्द्रावपि बाहू भूत्वा एनं प्रजापतिं प्रापद्येतां प्राप्तवन्तौ । हि यस्मात् प्रजापतिरुक्तक्रमेण सर्वमन्नं प्रायच्छत्, तस्मादेव कारणाद् अम्ननिष्पादनम् अन्नादनं च बाहुकरणकं लोके दृश्यते । ' स कार्ष्मर्यमयीं दक्षिणत ३४
पृष्ठ 302
पाठ पढ़ें पाठ छिपाएँ
२६६ शुक्लयजुर्वेदसंहिता [ अ ० १३ उपदधाति । अग्नेष्टवा तेजसा सादयामीति यदेवास्य तदग्निस्तेज आदाय दक्षिणाऽकर्षत्तदस्मिन्नेतत् प्रतिदधाति ' ( श ० ७ | ४ | १ | ४१ ) । इत्थं कार्ष्मर्योदुम्बरयोरुत्पत्तिमग्नेरिन्द्रस्य च बाहुरूपतां प्रतिपाद्य तदुपजीवनेन आग्नेय-मन्त्रेण कार्य मय्याः स्रुच उपधानं विधत्ते - स काष्यं मयीमिति । अध्यात्मपक्षे - हे अग्ने भगवन् श्रीराम, ऊर्ध्वो भव आन्तरबाह्योभयविधशत्रुनिग्रहाय उद्युक्तो भव । नि अस्मद् अस्मत्त उपरि वर्तमानान् बाह्यान् आन्तरांश्च शत्रून् प्रतिविध्य प्रतिताडय । स्वीयानि देव्यान्यलौकिका सामर्थ्यान्याविष्कृणुष्व प्रकटय । यातुजूनां यातुधानानां स्थिरा स्थिराणि दृढानि शस्त्रास्त्राण्यवतनुहि अवसन्नानि कुरु । किश्च यज्ञस्य जामिम् अजामि वा पुनः पुनस्ताडितमताडितं वा कृत्वा शत्रून् प्रभृणीहि । हे साधक, अग्नेर्भगवतः श्रीरामस्य तेजसा त्वा त्वां सादयामि प्रतिष्ठापयामि । दयानन्दस्तु - ' हे अग्ने विद्वन् राजन्, यतस्त्वमूध्वं उत्कृष्टो भव शत्रून् प्रति विध्य अस्मत् स्थिरा निश्चलानि देव्यानि देवद्विद्भिनिर्वृत्तानि वस्तूनि, आविष्कृणुष्व प्राकटयं कुरुष्व, सुखानि तनुहि विस्तृणुहि, यातुजूनां ये यान्ति ये च जवन्ते तेषां जामि भोजनयुक्तम् अजामि भोजनरहितम् अवतनुहि विनाशय, जमुधातोर्वपादिभ्य इञ, शत्रून प्रमृणीहि । तस्मादहं त्वा अग्नेस्तेजसा सादयामि ' इति, तदपि न सङ्गतम्, तादृशसम्बोधनस्य स्वकपोलकल्पितत्वात् देवपदेन वेदेषु योनिविशेषस्य ग्रहणमिति भूमिकायां विस्तरशः साधितत्वात् । ' वसिव पयज ' इत्यादि के औणादिके सूत्रे न वपादिगणः प्रस्तुतः । अत एव दयानन्दोयभाष्यटिप्पण्यामस्याः प्रक्रियायाः प्रामादिकत्वमेवोक्तम् । अपरोऽपि दोषः । इञ्प्रत्यये आद्युदात्तेन भाव्यम् । अस्ति चात्र पदेऽन्तोदात्तता । जाम्यजामिशब्दाभ्यां भोजनाभोजन युक्तस्थानग्रहणे मानाभावश्च ॥ १३ ॥
अ॒ग्निर्मर्धा दि॒वः ककुत्पति॑ पृथि॒व्या अ॒यम् । अ॒पात॑सि जिन्वति इन्द्रस्य त्वज॑सा सादयामि ॥ १४ ॥
मन्त्रार्थ - यह अग्नि स्वर्गलोक का सिर के समान प्रधान देवता है, बेल के कन्धे के समान सर्वोन्नत एवं जगत् का महान् कारण है । सूर्य रूप से प्रकाश देने के कारण यह पृथ्वी का पालक है । यह जल के सार भाग को पुष्ट करता है, अर्थात् द्युलोक से गिरते हुये वर्षा के जल से अन्न आदि के पकाने की शक्ति देता है, अथवा आहुति के फल से वर्षा को उत्पन्न करता है । हे अग्निदेवता, आपको मैं इन्द्र के तेज से आध्यायित करता हूँ ॥ १४ ॥
तृतीयेऽध्याये व्याख्याता च द्वादशीयं कण्डिका । तत्र! ' एवमौदुम्बरीमुत्तरतो दधिपूर्णामिन्द्रस्य स्वेति ' ( का ० श्रो ० १७: ४।१३ ) । एवंविधामेवोदुम्बरीं दधिपूर्णां स्रुचमुत्तरस्यामुपदधाति, इन्द्रस्य त्वेति यजुषा भुव इति ऋचा च । इन्द्रदेवत्यं यजुः । हे स्रुक्, इन्द्रस्योजसा तेजसा त्वां सादयामि स्थापयामि । तत्र ब्राह्मणम् -'अथौदुम्बरीमुत्तरत उपदधाति । इन्द्रस्य त्वौजसा सादयामीति यदेवास्य तदिन्द्र ओज आदायोदङ्ङुदक्रामत् तदस्मिन्नेतत् प्रतिदधाति भुवो यज्ञस्य रजसश्च नेतेत्येष उ स इन्द्रः सा यदाग्नेय्यग्निकर्म ह्यथ यत्त्रिष्टुप् त्रष्टुभो हीन्द्र ऐन्द्राग्नोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनामेतदुपद-धातीन्द्राग्नी वै सर्वे देवाः सर्वदेवत्योऽग्निर्यावानग्नियावत्यस्य मात्रा तावतैवैनामेतदुपदधाति दध्ना पूर्णा भवत्यैन्द्रं वै दधि स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणाति ' ( श ० ७ | ४ | १ | ४२ ) । एवं दक्षिणभागे कार्ष्ममय्युपधानमुक्त्वा तथैवोत्तरभागे औदुम्बर्युपधानमिन्द्रदेवत्येन यजुषा कर्तव्यमित्याह -- अथौदुम्बरीमिति । अत्रैव मन्त्रान्तरं विधत्ते भुवो यज्ञस्येति । एष उ स इन्द्र इति । एष खलु चित्योऽग्निः स प्रसिद्ध
पृष्ठ 303
पाठ पढ़ें पाठ छिपाएँ
म ० १४-१५ ] वेदार्थपारिजातभाष्यसहिता २६७ मन्त्रप्रतिपाद्य इन्द्रः । सा यदित्यादि । सा भुवो यज्ञस्येति ऋग् यस्मादाग्नेयी, कथमेन्द्र औदुम्बरीत्रगुपधाने विनि-योग इत्याह -- अथ यत्त्रिष्टुबिति । यस्मात् सा ऋक् त्रिष्टुप छन्दस्का तस्मादैन्द्रे कर्मणि विनियोक्तुमर्हा, यस्मा-दिन्द्रत्रिष्टुप्छन्दसा सहोत्पन्नः । अभिधावृत्त्या छन्दोद्वारेण च मन्त्रस्योपाधिसिद्धमिन्द्राग्निदेवताकत्वं प्रशंसति -ऐन्द्राग्नोऽग्निरिति । एतदेव विवृणोति इन्द्राग्नी वै सर्वे देवा इति । इन्द्रस्य अधिपतित्वात् सर्वदेवतात्मकत्वम् । अग्नेरपि सर्वान् देवान् प्रति हविषो वहनात् सर्वदेवतात्मकता । यद्वा इन्द्रस्य प्राथम्याद् अग्नेश्चरमभावित्वात् तदन्तरवर्तन एवं सर्वे देवा इतीन्द्राग्न्योः सर्वदेवतात्मकत्वम् । चित्याग्निश्च सर्वदेवत्यः सर्वदेवताप्रीतिकरः । दध्ना पूरणमनूद्य स्तौति दध्ना पूर्णेति । ऐन्द्रं वा इत्यादि । ऐन्द्रम् इन्द्रदेवत्यं खलु दधि, दर्शयागे इन्द्रं प्रति दध्नो हविष्ट्वेन दीयमानत्वात् ' ऐन्द्रं दध्यमावास्यायाम् ' ( तै ० सं ० २५ २ ) इति श्रुतेः । स्वेन सेति । इन्द्रस्य स्वकीयो रसः सान्नाय्यम् । वृत्रवधानन्तरमिन्द्रशरीरान्निर्गतस्य पृथिव्यामोषधिवीरुदात्मना परिणतस्य पशुभिर्भक्षणेनात्मन्याहृतस्येन्द्रसम्बन्धिनो वीर्यस्यैव पयोरूपेण परिणामात् तद्विकारभूतं दध्यपि परम्परया इन्द्रस्य स्वकीयो रसः । एतदेव – ' इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम् ' ( तै ० सं ० २।५।३ ) इत्यादिना श्रुत्यन्तरे प्रपञ्चितम् । अन्यत् स्पष्टम् । ' तावस्यताविन्द्राग्नी एव बाहू । तावेनं तेजसा च वीर्येण च सह प्रपद्येते स सम्प्रत्युरः पुरुषमाकाश्य यत्राभ्याप्नोति तदालिख्येने उपदधात्येष हैतयोर्लोक: ' ( श ० ७ | ४ | ११४३ ) । अस्य प्रजापतेरिन्द्राग्नी बाहू अभूताम् । स्रुचोरुपधाने स्थानविशेषमाह - स सम्प्रतीति । सोऽध्वर्युरुपहितस्य हिरण्मयपुरुषस्य उरः, सम्प्रति उरः प्रदेशेन समानं स्रुचौ उपदध्यात् । तत्कथमिति चेदुच्यते-- पुरुषमाकाश्य अभिज्ञाय यत्र यस्मिन् स्थाने उपहितं स्रुग्यं तदुरः प्रदेशमभ्याप्नोति, तत् तत्र आलिख्य चिह्नं कृत्वा एने स्रुचौ उपदध्यात् । एष य उरोदेशः खल्वेतयोर्बाहुसंस्तुतयोर्लोकः स्थानमित्यर्थः । ' ते हैके तिरश्च्या उपदधति । तिर्यची वा इमौ बाहू ' ( श ० ७ | ४ | १ | ४४ ) इति पूर्वपक्षय्य ' न तथा कुर्यात् ' इति प्रतिषिद्धय प्रागग्रत्वमुपपाद्य सुचोरपि प्रागग्रतैव युक्तेति सिद्धान्तयति श्रुतिः - ' नैतस्य पुरुषस्य बाहू कुर्यात् ' ( श ० ७ | ४ | १ | ४५ ) इति । ते खुचौ उपहिते खलु बाहू, तदतिरिक्तौ बाहू न कार्याविति पूर्वपक्षय्य कुर्यादेवेति सिद्धान्त उक्तः । अध्यात्मपक्षे -- अग्निः परमेश्वरः श्रीरामः दिवो द्युलोकस्य मूर्धा शिरोवदुत्कृष्टः । पृथिव्या भूमेः ककुत्तुल्यः पतिः पालकः, अयं भक्तैरपरोक्षतया सूर्यरूपेण उपलभ्यमानो भगवान् अपां जलानां रेतांसि वीर्याणि व्रीहियवादिरूपेण परिणतानि जिन्वति प्रीणयति तर्पयति वर्धयति च । दयानन्दस्तु - ' हे राजन् यथायमग्निः सूर्यो दिवः प्रकाशयुक्तस्थाकाशस्य पृथिव्या भूमेर्धा, सर्वेषां शिर इव ककुद् महान् पतिः पालकोऽपां रेतांसि वीर्याणि जिन्वति तर्पयति तथा त्वं भव । अहं स्वामिन्द्रस्य सूर्यस्य ओजसा पराक्रमेण राज्याय सादयामि ' इति, तदपि यत्किञ्चित् सम्बोधनादेरप्रामाणिकत्वात् । तथा त्वं भवेत्यादिकमपि कपोलकल्पितमेव, मन्त्रे तदभावात् । अपां रेतांसि जिन्वतीत्यपि निरर्थकमेव, रेतसां तर्पणीयत्वायोगात् ॥ १४ ॥
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भः सच॑से शि॒वाभि॑ः ।
दिवि मूर्धानं दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे ह॒व्य॒वाह॑म् ॥ १५ ॥
मन्त्रार्थ हे अग्निदेव, आप जब हवि धारण करने वाली जिह्वा रूप ज्वाला को प्रकट करते हैं, तब द्रव्य - देवता-रागात्मा यज्ञ के और यज्ञ के परिणामरूप जल के प्रवर्तक और पावक होते हो । यहाँ मंगलरूप अश्वों के साथ आते हो और द्युलोक में स्वर्ग देनेवाले आदित्य को धारण करते हो ॥ १५ ॥
पृष्ठ 304
पाठ पढ़ें पाठ छिपाएँ
२६८ शुक्लयजुर्वेद संहिता [ अ ० १३ त्रिशिरोदृष्टा अग्निदेवत्या त्रिष्टुप् । हे अग्ने, त्वं यदा हव्यवाहं हव्यं वहतीति हव्यवाट् तां हविषो वोढ़ीं जिह्वां ज्वालां चकृषे करोषि । लडर्थे लिट् । तदा यज्ञस्य देवतोद्देश्येन द्रव्यत्यागात्मनो ७ ) इतीकारलोपे नेता भुवो भवसि । भवतेर्लेटि मध्ममैकवचने सिपि ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३ | ४ | ९ ' लेटोऽडाटा ' ( पा ० सू ० ३ | ४ | ९ ४ ) इत्यडागमे ' अचि नुधातुभ्रुवां य्वोरियङुवङौ ' ( पा ० सू यस्मिन् ० ६ । ४ / ७७ स्थाने ) इत्युवङ च कृते भुव इति रूपम् । रजसो यज्ञपरिणामरूपोदकस्य च नेता भवसि । यत्र शिवाभिर्मङ्गलरूपाभिर्नियुद्भिरश्वाभिस्त्वं सचसे समवैषि सम्बन्धं प्राप्नोषीति यावत् । नियुतो नाम । वायोरश्वाः । ताभिर्वायुर्लक्ष्यते, तेन चान्तरिक्षम् । यत्र च दिवि द्युलोके मूर्धानमादित्यं दधिषे धारयसि अत्रापि लिट लडर्थे 1 । कीदृशं मूर्धानम्? स्वर्षां स्वः स्वर्गं सनोति ददातीति स्वर्षाः । ' षणु दाने ' इत्यस्मात् ' जनसनखनक्रमगमो विट् ' ( पा ० सू ० ३ २/६७ ) इति विट्प्रत्यये ' विड्वनोरनुनासिकस्यात् ' ( पा तिष्ठतीति ० सू ० ६ | ४ | ४१ ) इति नकारस्य आत्वे कृते रूपम् । यद्वा स्वः स्वर्गे स्यति अवसानं भजते स्थिरं स्वर्षाः तम् । ' षोऽन्तकर्मणि ' अस्मात् विवपि ' आदेच उपदेशेऽशिति ' ( पा ० सू ० ६ १/४५ ) इत्यात्वे ( पा रूपम् ० सू ० । अन्तरिक्षे लोके यज्ञस्य रजसश्च नेता भवसीत्यर्थः । यत्रेत्यस्य संहितायाम् ' निपातस्य च ' ६।३।१२६ ) इति दीर्घः । यस्य तवैतत्कर्म तं त्वां स्रुग्रूपेण स्थापयामीति पूर्वतोऽनुवृत्तम् । उव्वटाचार्यरीत्या --- यज्ञस्य द्रव्यदेवतात्यागात्मनो नेता देवयानपितृयानमार्गानुसारिणो रजसश्वोदकस्य नेता भवसीत्याह - -- यत्र यस्मिन् स्थाने नियुद्भिर्नियुद्गुण-यज्ञपरिणामभूतस्य नेता भवसि जगदुत्पत्त्यर्थम् । कुत्र निघ ० १।१५ ) इति विशिष्टाभिः शिवाभिरश्वाभिः सहितं वायुं सचसे सेवसे ' नियुतो वायोरित्यादिष्टोपयोजनानि ' ( साहचर्यज्ञानाय ' नियुद्भिर्वायुर्लक्ष्यते वायुना चान्तरिक्षम् । अत्रेदमवधेयम् - ' दशोत्तराण्यादिष्टोपयोजनानीत्याचक्षते ( निरु ० २२८ ) इत्युत्तराणि यानि दशाश्वनामानि तान्यादिष्टोपयोजनान्यादिष्टेनादेशेनोपदेशेनोपयोजनमुपयोगो येषां तानि, तथाविधानीत्यर्थः । शास्त्रर्वा आचार्यैर्वा यथोपदिश्यते, यथा हरी इन्द्रस्य रोहितोऽग्नेः, तदनुसार्येव इति एतेषामुपयोगः । अयं चोपयोगोऽनादिष्टदेवतेषु मन्त्रेषु एतेषां शब्दानां साहचर्यणामुकदैवतोऽयं वायुर्लक्ष्यते मन्त्र, ज्ञातव्य इति यावत् । यथाऽत्र ' नियुतो वायो: ' ( निघ ० १।१५ ) इत्यादेशाद् नियुद्भिः शब्देन तद्वत् । अत्रत्यं ब्राह्मणम् -- ' अथौदुम्बरीमुत्तरत उपदधाति ' इत्यादि पूर्वमेवोद्धृतम् । अध्यात्मपक्षे - हे अग्ने श्रीराम, त्वं यज्ञस्थ नेता आचरणेन मर्त्यान् शिक्षयन् प्रवर्तकः । तथा च श्रीमद्भागवतम् - ' मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोत्रधायैव न केवलं विभोः ' ( भा ० पु ०५।१ लोकस्य ९ ।५ नेतो ) । श्रीमद्वाल्मीकीय रामायणमपि - ' प्रचारज्ञश्च कर्मणाम् ' ( सुन्दरकाण्डे ३५।१२ ) इति । रजसो सन्मार्गे प्रवर्तकः । कुत्र नेतासीत्याह -यत्र शिवाभिर्मङ्गलाभिर्नियुद्भिरश्वाभिः सहितं वायुं सचसे सिसि स्थति स्वसम्बन्धेनानुगृह्णाति । यत्र दिवि द्युलोके मूर्धानमादित्यं दधिषे । कीदृशं मूर्धानम्? स्वः स्वर्गे तिष्ठतीति स्वर्षास्तम् । हे अग्ने, त्वं यज्ञवाहं जिह्वां यज्ञनिर्वाहाय तद्रसास्वादाय जिह्वां चकृषे उपलक्षणमेतत् ॥ अप्राणो ह्यमना अपि सन् भक्तेच्छानुसारेण मनः प्राणान् जिह्वादिकमपि निर्माय भक्तसमर्पितवस्तुन्यास्वादयसीत्यर्थः दयानन्दस्तु - ' हे अग्ने विद्वन्! यथाग्निर्नियुद्भिर्वायोर्वेगादिगुणैः सह रजसो लोकस्य ऐश्वर्यस्य वा नेता नयनकर्ता सन् दिवि न्यायप्रकाशे मूर्धानं शिरो धरति तथा यत्र राज्ये शिवाभिः कल्याणकारिकाभिनतिभिः सह भुवः पृथिव्या यज्ञस्य राजधर्मस्य सचसे समवैषि राज्यं दधिषे धरसि, हव्यवाहं होतुं दातुमर्हाणि प्रज्ञानानि इति, वहन्ति यया तां जिह्वां जोहवीति यया तां वाचं चकृषे करोषि तत्र सर्वाणि सुखानि वर्धन्त इति जानीहि ' तदपि यत्किञ्चित् तादृशसम्बोधनस्यैवाप्रामाणिकत्वात् । यत्र राज्ये इत्यपि निर्मूलम्, नियुद्भिर्वायुवेगादिगुणैर्युक्तो
पृष्ठ 305
पाठ पढ़ें पाठ छिपाएँ
मैं ० १५-१६ ] वैदार्थपारिजातभाष्यसहिता २६ ९ वायुदिवि न्यायप्रकाशे मूर्धानं धरतीत्यादिकं सर्वं निष्प्रमाणं स्वकपोलकल्पितं च । भुवः पृथिव्या यज्ञस्य राज-धर्मस्य पालयितेत्यादिकं सर्वं निराधारमेव, प्रकृतिप्रत्ययार्थविरोधात् । किं बहुना, सर्वत्रैवान्वयानुपपत्ति तात्पर्या-नुपपत्तिं चान्तरा गौणार्याश्रयणेन वेदार्थपारम्पर्योपरोधमेव करोत्ययं व्याख्याता ॥ १५ ॥
ध्रुवास धरुणास्त॑ता विश्वकर्मणा । मा त्वा॑ समु॒द्र उद्व॑ध॒न्मा स॑प॒र्णोऽव्य॑थमाना पृथि॒वीं दृह ॥ १६ ॥
मन्त्रार्थ - हे स्वयमातृष्णा नामक देवी, तुम भूमि रूप से विश्व को धारण करने वाली हो, प्रजापति द्वारा विस्तृत की गई हो, दृढ़ हो । समुद्र तुमको नष्ट न कर सके, अचल होकर तुम भूभाग को दृढ़ करने में समर्थ हो, इस कारण तुम इस पृथ्वी को दृढ़ करो ॥ १६ ॥
' स्वयमातृष्णां पुरुषे शर्करां छिद्रां ध्रुवासीति ' ( का ० श्र ० १७ | ४ | १५ ) । हिरण्मयस्य पुरुषस्योपरि शर्करां पाषाणमयीं छिद्रां छिद्रवतीं स्वयमातृष्णाख्यामिष्टकामुपदध्याद् ध्रुवासीति मन्त्रेण । छिद्राणि सन्त्यस्यामिति छिद्रा ताम् । ' अर्शआदिभ्योऽच् ' ( पा ० सू ० ५।२।१२७ ) इत्यच् । छिद्राणि तत्र स्वाभाविकान्येव भवेयुर्न कृत्रिमाणीति । अश्ममयी इष्टकैव स्वयमातृण्णेति । अत एव स्वयमातृष्णेत्यभिधानं तस्याः । द्वादशाक्षरपादा त्रिपादा ऊर्ध्वबृहती । अत्र प्रथमस्त्रयोदशार्णः, तृतीयो दशार्णः । हे स्वयमातृण्णे, त्वं ध्रुवा स्थिरासि । कीदृशी त्वम्? धरुणा भूमिरूपेण विश्वस्य धारयित्री । विश्वकर्मणा विश्वं करोतीति विश्वकर्मा तेन । ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२।७५ ) इति मनिन् । विश्वकर्त्रा प्रजापतिना आस्तृता उपहिता । समुद्रो रुक्मस्त्वा मोद्वधीत् स्वोदरमध्ये निमज्जनलक्षगं वधं मा कार्षीत् । सुपर्णः पक्षिराजोऽपि सर्पोद्यमनवेलायां त्वामादाय मोधीत् । दूरे तत्परित्यागलक्षणं वधं मा कार्षीत् । एवं सत्यव्यथमाना भयरहिता त्वं पृथिवीमिमां ह दृढीकुरु । यद्वा सुपर्णः पुरुषश्च त्वां मोद्वधीत् ' रुक्मो वै समुद्रः पुरुषः सुपर्णः ( श ० ७।४।२२५ ) इति वक्ष्यमाणश्रुतेः । अत्र ब्राह्मणम् —'स्वय भातृण्णामुपदधाति । इयं वै स्वयमातृष्णेमामेवैतदुपदधाति तामनन्तहितां पुरुषा-दुपधारयन्नं वै स्वयमातृष्णेयं वै स्वयमातृष्णेयम् वा अन्नमस्या • हि सर्वमन्नं पच्यतेऽनन्तर्हितमेवास्मादेतदन्नं दधात्युत्तरामुत्तरमेवास्मादेतदन्नं दधाति ' ( श ० ७ | ४ | २ | १ ) | ब्राह्मणे स्वयमातृष्णादर्वेष्टकाद्युपधानं ' विधास्यते । तथाह कात्यायनः -- ' स्वयमातृणां शर्करां छिद्रां ( का ० श्र ० १७४ । १५ ) इति । पुरुषप्रयत्न-मन्तरेण स्वत एव छिद्रयुक्ता शर्करा क्षुद्रपाषाणविशेषः सा स्वयमातृष्णा, तां हिरण्मये पुरुषे उपदध्यात् । तद्विधत्ते --- स्वयमातृष्णामुपदधातीति । अत्र स्वयमातृष्णाख्यामिष्टकामुपदध्यादिति विधिरुन्तेयः । यथा ' औदुम्बरो यूपो भवत्यूर्वा उदुम्बर ऊ पशव ऊर्जेवास्मा ऊर्जा पशून् अवरुन्धे ' ( तै ० सं ० २१ १२६ । इति श्रुतौ भवतीति वर्तमानापदेशत्वात् प्रत्यक्ष विधित्वासम्भवेऽपि ' ऊर्वा उदुम्बरः ' इत्याद्यर्थवादकृतस्तुत्या विधिरुनीयत इति प्रथमा-ध्याये द्वितीयपादे द्वितीयाधिकरणे निर्णीतम् । ननु ' ऊर्वा उदुम्बरः ' इत्यादेर्यू पोदुम्बरस्य फलाभिधायकत्वात् कथमर्थ-वादत्वमिति चेन्न, अविहितस्य फलाभिधानायोगाद् विहितस्यैव तदिति वक्तव्यम् । विधिश्च तस्यार्थवादत्वमन्तरेण न सम्भवतीति । एवमेवात्रापि ' इयं वा ' इत्याद्यर्थवादस्य वर्तमानापदेशत्वाद् उन्नेतव्यो विधिः । एवमन्यत्रापि वर्तमानापदेशेष्वयमेव न्यायो द्रष्टव्य इति श्रीसायणाचार्याः । तस्याः स्वयमातृष्णायाः पृथिवीविकारत्वात् तदुप धानेन पृथिव्युपधानमेव सम्पादितं स्यादित्याह - इयं वा इति । यदुक्तं सूत्रे पुरुष इति तद्विधत्ते - तामनन्त-हितामिति । तामिष्टकां पुरुषादनन्तहिताम् अव्यवहितां तत्सम्बद्धामुपदध्यादित्यर्थः । पुरुषसम्बद्धत्वेनोपधानं
पृष्ठ 306
पाठ पढ़ें पाठ छिपाएँ
२७० शुक्लयजुर्वेदसंहिता [ अ ० १३ प्रशंसति - अन्नं वा इति । पृथिव्यां व्रीह्मादीनां सर्वेषामन्नानां पच्यमानत्वादन्तरूपा हि पृथिवी च पृथिवीत्युक्तम् । अतश्च पुरुषसम्बद्धेनोपधानेन तस्मिन्नन्नं निहितवान् भवति । अनन्तर्हितामित्युक्तत्वात् । स्वयमातृष्णा क्वचित् तत्पार्श्वे संश्लेषेणाप्यव्यवधानमुपपद्यत इत्यत आह- उत्तरामिति । उत्तरां पुरुषस्य उपरि अवस्थिताम् विधेयविशेषणमेतत् । अत एव सूत्रे ' पुरुष ' इति सप्तम्योपधानाधिकरणत्वमुक्तम् । उत्तरमेवास्मादिति । अस्मात् । पुरुषाद् उत्तरम् उपर्यवस्थितम् अन्नं करोति, पुरुषस्य मुखे दधातीति भावः । ' यद्वेव स्वयमातृष्णामुपदधाति । प्राणो वै स्वयमातृष्णा प्राणो ह्येवैतत् स्वयमात्मन आवृते प्राणमेवैतदु-दधाति तामनन्तर्हितां पुरुषादुपदधाति प्राणो वै स्वयमातृष्णेयं वै स्वयमातृष्णा इयमु वै प्राणो द्धि किश्च प्राणीयं तत्सर्वं बिभर्त्यनन्तर्हितमेवास्मादेतत्प्राणं दधात्युत्तरामुत्तरमेवास्मादेतत् प्राणं दधाति ( श ० ७७४/२/२ ) । विहितां स्वयमातृष्णामनूद्य प्राणात्मना स्तोति यद्वेवेति । स्वयमातृष्णामुपदधातीति ' यदस्ति तत्कारणमुच्यत इत्यर्थः । प्राणो नाम शरीरान्तर्वर्तमानो वायुः । स ह्यात्मनोऽर्थे स्वयमातृन्ते आतर्दनं कुरुते शरीरान्तर्गत नाडीष्ववकाशं कृत्वा प्रवर्तते । अथवा आत्मनः शरीरस्य अन्त आतृन्ते । ' उवृदिर् हिंसानादरयोः इत्यस्माद् आङ्पूर्वंकाद् रौधादिकाल्लटि ' आतृन्ते ' इति रूपम् । अतः स्वयमातर्दनसामान्यात् स्वयमातृष्णायाः ' प्राणात्मत्वमित्यर्थः । विहितमव्यवधानमनुवदन् न केवलमातर्दनसामान्यात् स्वयमातृष्णायाः प्राणत्वम् अपि पूर्वोक्तपृथिवीत्वप्रणाल्यापि प्राणत्वमस्या विद्यत इति दर्शयति - तामनन्तर्हितामित्यादिना । यत्किञ्चिन्मनुष्य- तु सरीसृपादिकं प्राणिजातमस्ति तत्सर्वं पृथिवो बिर्भात खलु । अनेन पृथिव्याः प्राणात्मकत्वमुपपादितम् । अन्यत् स्पष्टम् । ' यद्वेव स्वयमातृष्णामुपदधाति । प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तासु व्युत्क्रामन्तीषु प्रतिष्ठामभिपद्योपाविशत् ' ( श ० ७ | ४ | २ | ३ ) । अथ पुनरपि तामेवेष्टकां वित्रस्तावयवस्य प्रजापतेः प्रतिष्ठारूपेण प्रशंसति - यद्वेवेति । पूर्व प्रजापतिः प्रजाः सृष्ट्वा वित्रस्ताङ्गोऽभूत् । तादृशं प्रजापतिं देवा अवयवश आदाय व्युदक्रामन् । तेषु व्युत्क्रामत्सु स प्रजापतिः प्रविष्ठारूपमङ्गं स्वयमभिपद्य गृहीत्वा उपाविशत् । ' स यः स प्रजापति -व्यंसत । अयमेव स योऽयमग्निश्चीयतेऽथ या सा प्रतिष्ठेषा सा प्रथमा स्वयमातृष्णा तद्यदेतामत्रोपदधाति यदेषास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति' ( ० ७ | ४ | २ | ४ ) । स यः प्रजापति-विस्रस्तोऽभूत् स अयमेव य इष्टकासङ्घातरूपोऽग्निश्चीयते । अथ या च प्रजापतिना प्राप्ता प्रतिष्ठा, सा एषा इदानी-मुपधीयमाना प्रथमा स्वयमातृष्णा । प्रथममध्यमोत्तमासु तिसृष्वपि चितिषु तिस्रः स्वयमातृष्णा उपधीयन्ते, अतः प्रथमेति स्वयमातृष्णाया विशेषणम् । तद्यदिति । यत एतामिष्टकामस्मिन् पुरुष उपदधाति, तत् तेन अस्य प्रजापते-रात्मनः स्वस्य यदेतत् प्रतिष्ठालक्षणमङ्गम्, एषेति लिङ्गव्यत्ययः, तदस्मिन् प्रजापतावेव एतद् निहितवान् भवति -' तां वै प्रजापतिनोपदधाति । प्रजापतिर्ह्येवैतत्स्वयमात्मनः प्रत्यधत्त ध्रुवासीति स्थिरासोत्येतदथो प्रनिष्ठितासीति धरुणेति प्रतिष्ठा वै धरुणमास्तृता विश्वकर्मणेति प्रजापतिर्वै विश्वकर्मा तेनास्तृतासोत्येतन्मा त्वा समुद्र उद्वधीन्मा सुपर्ण इति रुक्मो वै समुद्रः पुरुषः सुपर्णस्तो त्वामोद्वधिष्टामित्येतदव्यथमाना पृथिवीं दृति यथैव यजुस्तथा बन्धुः ' ( श ० ७ | ४ | २१५ ) । विहित उपधाने मन्त्रं विधत्ते - तां वा इत्यादिना । अत्र ' ध्रुवासि धरुणास्तृता ', ' प्रजापतिष्ट्वा सादयतु ', ' भूरसि भूमिरसि ' इति तिसृभिर्ऋग्भिः, ' विश्वस्में प्राणाय ' इति यजुषा चैषा स्वयमातृष्णेष्ठकोपधीयते । अतः प्रजापतिशब्देन तद्विशिष्टं मन्त्रं लक्षयित्वा तेन लक्षितलक्षणया ते सर्वे मन्त्रा उच्यन्ते । ' प्रजापति ह्येवैतत् स्वयमात्मनः प्रत्यधत्त ' इत्यनेन लक्षितलक्षणाविवक्षाकारणमुच्यते । यतः प्रजापतिः स्वयमात्मन एतत्प्रतिष्ठालक्षणमङ्गं प्रत्यधत्त, अतस्तत्प्रतिष्ठात्मक स्वयमातृगोपधानमन्त्रेऽपि तत्सम्बन्ध-प्रतीतिर्यथा स्यादिति प्रजापतिनोपदध्यादित्युक्तम् । तत्र प्रथमामृचं व्याचष्टे ध्रुवासोति । स्थिरासीत्येतदिति ध्रुवासीत्यस्य व्याख्यानम् । अथो प्रतिष्ठासीति । एतदपि ध्रुवासीत्येतस्यैव विवरणम् । धरुणेति प्रतीकमादाय
पृष्ठ 307
पाठ पढ़ें पाठ छिपाएँ
म ० १६-१७ ] वेदार्थपारिजातभाष्यसहिता २७१ व्याचष्टे प्रतिष्ठा वै धरुणमिति । सर्वस्याधारभूतेत्यर्थः । आस्तृता विश्वकर्मणेत्यस्य व्याख्यानम् - -! प्रजापति विश्वकर्मेति । विश्वस्य कृत्स्नप्रपञ्चस्य कर्म सृष्टिलक्षणमस्यास्तीति विश्वकर्मशब्देन प्रजापतिरभिधीयते । तेन आस्तृता आच्छादिता उपहिता इति । रुक्मो वै समुद्रः पुरुषः सुपर्णं इति । अत्र पुष्करपर्णे रुक्मं निधाय तत्र च हिरण्मयपुरुषमवस्थाप्य तस्योपरि स्वयमातृण्णोपधानं कर्तव्यम् । अतश्च ' मा त्वा समुद्र उद्वधीन्मा सुपर्णः ' इत्यनेनाधारभूत रुक्मपुरुषौ तव हिंसां मा काष्टम्, किन्स्वानुकूल्येनाङ्गीकुरुतामित्यर्थः । अन्यत् स्पष्टम् । अध्यात्मपक्षे - हे बुद्धे, त्वं ध्रुवासि स्थिरासि दृढनिश्चयासि । धरुणा अन्येषां धारयित्री असि । विश्वकर्मणा परमेश्वरेण आस्तृता विस्तारं नीतासि । त्वा त्वां समुद्रः समुद्रतुल्य विश्वप्लावकमज्ञानम्, सुपर्णः पक्षिराजतुल्यवेगोऽहङ्कारश्च मोद्वधीत् । अव्यथमाना पृथिवीं द्वंह दृढीकुरु । दयानन्दस्तु - ' हे राजपत्नि, यतो विश्वकर्मणा पत्या सह वर्तमाना आस्तृता वस्त्रालङ्कारादिगुणैः सम्यगाच्छादिता धरुणा विद्याधर्मादिधर्त्री ध्रुवा निष्कम्पासि । साऽव्यथमाना पीडामप्राप्ता सती त्वं पृथिवीं, स्वराज्यभूमिम् उह वर्धय त्वा समुद्रो समुद्रवन्ति कामुका यस्मिन् व्यवहारे स जारव्यवहारः, सुपर्णः शोभनानि पर्णानि पालितान्यङ्गानि यस्य त्वत्पतिर्मावधीत् ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात् । विश्वकर्मणा पत्या इत्यप्यसाम्प्रतम्, विनिगमनाविरहात् । समुद्रपदं जारपरम्, सुवर्णपदं च पतिपरमित्यपि निर्मूलम्, व्युत्पत्तेरन्यपरत्वेऽप्युपपत्तेः ॥ १६ ॥
प्र॒जाप॑तिष्ट्वा सादयत्व॒पां पृ॒ष्ठे समु॒द्रस्येम॑न् । ८ व्यच॑स्वती॒ प्रय॑स्वती॒ प्रय॑स्व पृथि॒व्य॒सि ॥ १७ ॥
मन्त्रार्थ - हे स्वयमातृष्णे, प्रजापति ने तुम्हें अवकाशवाली और विस्तारयुक्त बनाया है, जल के ऊपर और समुद्र में तुम्हें स्थापित किया है । तुम प्रजापति के द्वारा विस्तार को प्राप्त होकर भूमि के निकट तक पहुँच गई हो, इसलिये तुम पृथ्वीरूप हो ॥ १७ ॥
अनुष्टुप् । हे स्वयमातृष्णे प्रजापतिस्त्वा त्वां सादयतु स्थापयतु । स हि त्वामासादयितुं समर्थः । क्व स्थापयत्वित्यपेक्षायामाह - अपां जलानां पृष्ठे उपरि । समुद्रस्य उदकसङ्घातस्य एमन् एमनि अवस्थाने समुद्र-वलयिते पृथिवीस्थाने । कथंभूतां त्वामासादयतु? व्यचस्वतीं व्यञ्जनवतीमभिव्यक्तियुक्ताम्, प्रथस्वतीं पृथुत्वयुक्तां विस्तारयुक्तम् | त्वमपि सादिता सती प्रथस्व अस्याश्चितेः प्रथनं कुरु । यतस्त्वं पृथिव्यसि पृथिव्युत्पन्नत्वात् । प्रजापतिरपां पृष्ठे आच्छादके समुद्रं प्राप्तवति भूप्रदेशे व्यचस्वतीं विस्तारवतीं त्वां सादयतु । यतस्त्वं पृथिव्यसि, अतः प्रथस्व विस्तारवती भव । ' प्रजापतिष्ट्वा सादयत्विति । प्रजापतिर्ह्येतां प्रथमां चितिमपश्यदपां पृष्ठे समुद्रस्येमन्नित्यपा , हीयं पृष्ठ समुद्रस्य हीयमेमा व्यचस्वतीं प्रथस्वतीमिति व्यवस्वती च हीयं प्रथस्वती च प्रथस्व पृथिव्यसीति प्रथस्व पृथिवी चासीत्येतत् ' ( श ० ७१४ / २।६ ) । अथ द्वितीयामृचं व्याचष्टे - प्रजापतिष्ट्वेति । यतः प्रजापतिरेतां प्रथमां चितिमपश्यत् अतः प्रजापतिष्ट्वा सादयत्विति मन्त्र आह । अपामाच्छादकत्वादियं पृथिवी अपां पृष्ठे तथा समुद्रमपि, एमन् ' इण गती ' इत्यस्माद् धातोः ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३०२०७५ ) इति मनिनुप्रत्ययः । समुद्रस्येति ' कर्तृकर्मणोः कृति ' ( पा ० सू ० २।३।६५ ) इति कुद्योगे षष्ठी । समुद्रस्य एमा समुद्रं प्राप्तेत्यर्थः परितः समुद्रेण वलयितत्वात् । सप्तम्येकवचनस्य ' सुपां सुलुक्
पृष्ठ 308
पाठ पढ़ें पाठ छिपाएँ
२७२. शुक्लयजुर्वेदसंहिता [ अ ० १३ पूर्वसवर्णाच्छेयाडा ड्यायाजाल: ' ( पा ० सू ० ७ | १ | ३ ९ ) इति लुकि रूपम् । अपां पृष्ठे, पृथिव्यामित्यर्थः । इयं पृथिवी व्यचस्वती व्यञ्जनवती अभिव्यक्तियुक्ता, प्रथस्वती विस्तारयुक्ता चेत्येतत् प्रत्यक्षसिद्धम् । स्वयमातृष्णा च पृथिव्यात्मिका । अतश्च व्यचस्वतीं प्रथस्वतीमिति मन्त्र आह । प्रथस्व पृथिवी चासीदित्येतदिति । यतस्त्वं पृथिव्यसि, अतः प्रथस्व इत्येतदुक्तं भवतीत्यर्थः । ' तत्पुष्करपर्णेऽप्रथयत् यदप्रथयत्तत्पृथिव्यं पृथिवीत्वम् ' ( तै ० ब्रा ० १ | १ | ३ | ७ ) इति श्रुतेः, ' साऽप्रथत सा पृथिव्यभवत् तत्पृथिव्यं पृथिवीत्वम् ' ( तै ० सं ० ७ १।५।१ ) इति श्रुतेश्च । अध्यात्मपक्षे - हे बुद्धे माये वा, प्रजापतिः परमेश्वरस्त्वां सादयतु प्रतिष्ठापयतु | क्व? अपां लोकानां पृष्ठे उपरि ब्रह्मात्मके शुद्धचैतन्ये, तस्य प्रपातीतत्वेन सर्वलोकानामुपरि स्थितत्वात्, ' अस्य तिष्ठद्दशाङ्गुलम् ' ( वा ० सं ० ३१११ ) इति मन्त्रवर्णात् । समुद्रस्येमन् संसारसमुद्रं प्राप्ते, तस्यैव संसाराधिष्ठानत्वात् । स्वं व्यचस्वतीम् अभिव्यक्तियुक्ताम् प्रथस्वतीं विस्तारवतीं ब्रह्माकारां वृत्तिं प्रथस्व विस्तारयस्व । त्वमपि पृथिव्यसि तत्कारणत्वात् तद्रूपासीत्यर्थः । दयानन्दस्तु - ' हे विदुषि प्रजापालिके राज्ञि यथा प्रजापतिः प्रजायाः स्वामी समुद्रस्य सागरस्य अपां जलानाम् एमन् प्राप्तव्ये स्थाने पृष्ठे उपरि नौकेव व्यचस्वतीं बहु व्यचो व्यश्वनं विद्यागमनं सत्करणं वा विद्यते यस्यास्ताम् प्रथस्वती प्रथा प्रख्याता कीर्तिविद्यते यस्यास्ताम् त्वां सादयतु यतस्त्वं पृथिव्यसि भूमिरिव सुखप्रदासि, तस्मात् स्त्रीन्यायकरणे प्रथस्व प्रख्याता भव, तथा ते पतिर्भवेत् ' इति, तदपि यत्किञ्चित्, निष्प्रमाणाध्याहार बाहुल्यात्, गौणार्थाश्रयणाच्च । यथा प्रजापतिः समुद्रस्य अपामेमन् पृष्ठे नौकेवेत्यप्यस्पष्टमेव । प्रथस्वतीमित्यत्र कीर्तिपदसन्निवेशोऽपि निर्मूल एव ॥ १७ ॥
हिंसीः ॥ १८ ॥
भूर॑सि॒ भूमि॑र॒स्यदि॑तिरसि वि॒श्वधा॑या॒ विश्व॑स्य॒ भुव॑नस्य ध॒र्त्री । प॒थि॒व य॑च्छ पृथि॒वीं वृ॑ह पृथि॒वीं मा मन्त्रार्थ - हे स्वयमातृष्णे, तुम सुखों की भावना करने वाली
करने वाली देवमाता हो, सम्पूर्ण संसार को धारण करने वाली हो ।
दृढ़ करो, पृथ्वी को कष्ट मत दो ॥ १८ ॥
भूमि के नाम से प्रसिद्ध हो, विश्व को पुष्ट तुम पृथ्वी को कृपादृष्टि से देखो, भूभाग को प्रस्तारपङ्क्तिः । ' आद्यौ चेत् प्रस्तारपङ्क्तिः ' इति कात्यायनोर्यत्राद्यौ पादो द्वादशको, अन्त्यो अष्टको सा प्रस्तारपङ्क्तिः । अत्र त्वाद्य एकादशकः, द्वितीयचतुर्थी को पञ्चमः षडक्षर एवं पच पादाः । है -स्वयमातृष्णे, त्वं भूरभीष्टानां भावयित्री असि । भूमिः पृथिव्यसि भूम्यभिमानिनी देवतारूपासि । अदिति-रखण्डनीया देवमाता वासि । विश्वधाया विश्वं दधाति पुष्णातीति विश्वधायाः विश्वं धीयतेऽस्यामिति वा विश्वधायाः । विश्वोपपदाद् धाधातोः ' सर्वधातुभ्योऽसुन् ' ( उणा ० ४ । १ ९ ० ) इत्यसुनि ' वसेणित् ' ( उ ० ४।२१ ९ ) इति बाहुलकाद् असुनो द्विद्भावात् ' आतो युक् चिणुकृतो: ' ( पा ० सू ० ७ ३ ३३ ) इति युगागमे विश्वधाया इति रूपम् | विश्वस्य सर्वस्य भुवनस्य भूतग्रामस्य धर्त्री धारयित्रो भवसि सा त्वं पृथिवीं यच्छ नियन्त्रितां कुरु । पृथिवीं ह दृढीकुरु । पृथिवीं मा हिंसीः । यद्वा यतश्च त्वमियमेव, अतः पृथिवीं यच्छ पृथिवीं द्वंह इत्यादिभिरात्मानं निगृह्णीष्व आत्मानं दृढीकुरु, आत्मानं मा हिंसीरित्युक्तं भवतीत्यर्थः । अत्र ब्राह्मणम् -- ' भूरसीति । भूहियं भूरसीति भूमिहिय मदितिरसीतीयं वा अदितिरिय, हीद सर्वं ददते विश्वधाया इत्यस्या ही सर्व हितं विश्वस्य भुवनस्य धर्त्रीति सर्वस्य भुवनस्य धर्त्रीत्येतत्
पृष्ठ 309
पाठ पढ़ें पाठ छिपाएँ
म ० १८-१९ ] वेदार्थं पारिजातभाष्यसहिता २७३ पृथिवीं यच्छ पृथिवीं दृछह पृथिवीं मा हि सीरित्यात्मानं यच्छात्मानं É हात्मानं मा हिंथ सीरित्येतत् ' ( श ० ७७४/२/७ ) । तृतीयामृचं व्याचम्रे - भूरसीति । इयं पृथिवी यतः सर्वेभ्यः सुखानि भावयतीति भूः । अस्याः सकाशादिदं सर्वमविज्ञातमभूदिति भूमिश्च ' अभद्रा इयमिति तद् भूम्यं भूमित्वम् ' इति, तस्माद् भूरसि भूमिरसीत्यभिधत्ते । ' इयं हीदं सर्वं ददते ' इत्यनेनादितित्वोपपादनम् । इयं पृथिवी इदं सर्वं भोग्यवस्तुजात-मस्मभ्यं ददते तस्माददितिः । नत्रो दात्रो डितिः, ददेश्चेति वचनाद् ददधातोडिति प्रत्यये प्रथमदकारलोपे च ' पृषोदरादीनि यथोपदिष्टम् ' ( पा ० सू ० ६ | ३ | १० ९ ) इति साधुः । विश्वं सर्वमस्यां निहितमिति विश्वधायाः । सर्वस्य भुवनस्येति । भुवनशब्देनात्र भुवनवतिपदार्थंजातं लक्ष्यते । तस्य सर्वस्य भुवनवति-पदार्थजातस्य धारयित्रीत्येतदुक्तं भवति । पृथिवीरूपत्वादात्मनः ' पृथिवीं यच्छ ' इत्यादिना आत्मन एव नियमनादिकं क्रियतामित्युच्यते । अध्यात्मपक्षे - हे बुद्धे माये वा त्वं भूरसि सर्वस्याभीष्टभावयित्री असि, भूमेरपि त्वत्कृतकर्मफलत्वात्, स्वत्परिणामत्वाद्वा । अदितिरसि अबाधितविषयत्वादखण्डनीयासि, परमेश्वरशक्तित्वाद्वा । विश्वधाया असि, विश्वस्य पोषणत्वात् । विश्वस्य भुवनस्य भूतग्रामस्य धर्त्री । पृथिवी विस्तृत ब्रह्मविषयत्वात् । पुथिवीं ब्रह्माकारां वृत्ति यच्छ नियतां कुरु । तामेव दृढीकुरु । तां च मा हिंसी:, ' नैषा तर्केण मतिरापनेया ' ( कठो ० ११२२ ९ ) इति श्रुतेः । दयानन्दस्तु – ' हे राजपत्नि, यतस्त्वं भूरिवासि तस्मात् पृथिवीं यच्छ निगृहाण । यतस्त्वं विश्वधाया या far वं सर्वं गृह्णाति गृहाश्रमी राजव्यवहारं दधाति सा । विश्वस्य सर्वस्य भुवनस्य राज्यस्य धत्र धारिका भूमिरिवासि, तस्मात्पृथिवीं द्वंह वर्धय । यतस्त्वमदितिरिवासि तस्मात् पृथिवीं मा हिंसी: ' इति, तदपि यत्किञ्चित्, भूरिव भूमिरिव अदितिरिवेत्यादाविवशब्दाध्याहारस्य निष्प्रमाणत्वात् । सम्बोधनमपि तादृगेव । भवन्ति भूतानि यस्मिन् राज्ये तस्येत्यपि निर्मूलम्, राज्यादन्यत्रापि भूतानां भवनात् गृहाश्रमीत्यस्यासङ्गतेश्च ॥ १८ ॥
विश्व॑स्मै॑ प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै चरित्रय । अ॒ग्निष्ट्वाऽभिपा॑तु॒ मह्या स्व॒स्त्या ह॒विषा॒ शन्त॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वा सौद ॥ १ ९ ॥ मन्त्रार्थ - हे स्वयमातृष्णे, सम्पूर्ण प्राण, अपान, व्यान, उदान नामक शरीर स्थित वायुओं की उन्नति की कामना के निमित्त तथा प्रतिष्ठा कीर्ति के लाभ के निमित्त, शास्त्रीय आचरण के निमित्त अग्निदेवता महान् कल्याण, योगक्षेम की सम्पत्ति और अत्यन्त सुखकारी गृह के द्वारा तुम्हारी रक्षा करें । उस परम देवता के अनुग्रह से दृढ़ होकर तुम अङ्गिरा के समान स्थित रहो ॥ १ ९ ॥ यजुः, एकाधिका आर्षी अनुष्टुप् । हे स्वयमातृष्णे विश्वस्मै प्राणाय अपानाय व्यानाय प्राणापानव्यानो-दानाख्यवायुवृत्तिलाभाय प्रतिष्ठायं कीर्त्यै स्वगृहे स्थितिलाभाय वा चरित्राय शास्त्रीयाचरणाय च प्राणिनामेतस्य सर्वस्य सिद्धयर्थं त्वां सादयामीति शेषः । अयमग्निस्त्वामभितः पातु रक्षतु । केन रक्षणमित्याह - मह्या महत्या योगक्षेमसम्पत्त्या शन्तमेन छर्दिषा अत्यन्तसुखकारिणा छर्दिषा गृहेण । तया देवतया वागुरूपया तव स्वामिभूतया अनुगृहीता सती त्वं ध्रुवा स्थिरा सती सीद उपविश । अङ्गिरस्वद् अङ्गिरसां चयनानुष्ठाने यथा त्वं स्थिर स्थिता दोपविश । अत्र ब्राह्मणम् -- ' विश्वस्मै प्राणायापानाय । व्यानायोदानायेति प्राणो वै स्वयमातृष्णा सर्वस्मा उ बा एतस्मै प्राणः प्रतिष्ठायै चरित्रायेतीमे वै लोकाः स्वयमातृष्णा इम उ लोकाः प्रतिष्ठा चरित्रमग्निष्ट्वाभि-३५
पृष्ठ 310
पाठ पढ़ें पाठ छिपाएँ
२७४ शुक्लयजुर्वेदसंहिता [ अ ० १३ पात्वित्यग्निष्ट्वाभिगोपायत्वित्येतन्मह्या स्वस्त्येति महत्या स्वस्त्येत्येतच्छर्दिषा शन्तमेनेति यच्छदिः शन्तमं तेनेत्येतत्सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्धुरथ साम गायति तस्योपरि यजुर्मन्त्रं व्याचष्टे - विश्वस्मै प्राणायेति । एक एव प्राणवायुर्वृत्तिभेदात् प्राणापानव्यानोदान बन्धुः ' ( श ० ७ | ४ | २२८ ) | ' प्राणो ह्येवैतत् स्वयमात्मन आतृन्ते ' ( श ० ७१४/२/२ ) इति स्वयमातृष्णायाः प्राणत्वमुक्तम् समानशब्दरुच्यते । एतस्मा ' इति ' चतुर्थ्यर्थे बहुलं छन्दसि ' ( पा ० सू ० २/३/६२ ) इति सूत्रस्थितेन ' षष्ठ्यर्थे चतुर्थीवचनम् । ' सर्वस्मा उवा वार्त्तिकेन षष्ठ्यर्थे चतुर्थी । सर्वस्य खलु प्राणिसङ्घस्य प्राण एवाशास्यो भवति, अतः सर्वस्यापि प्राणादिस्थैर्यार्थं ' इति तोपधानमित्यर्थः । इमे वै लोका इति । तिस्रः स्वयमातृष्णाः पृथिव्यन्तरिक्ष लोकात्मिकाः प्रतिष्ठा सर्वप्राणिनामाधारः । चरित्रमिति प्रत्येकविवक्षया एकवचनम् । नियतलिङ्गत्वान्नपुंसकलिङ्गम् । इमे खलु लोकाः प्रथमायाः स्वयमातृष्णायाः पृथिव्यात्मकत्वात् सर्वेषामाधारभूताय संसारसाधनभूताय चास्में । लोकाय ततश्च तवोपधानम् । गोपायत्वित्येतदिति । पृथिव्यभिमानिदेवतात्वाद् अग्निस्त्वां गोपायत्वित्येतदुक्तम् शन्तमं तेनेत्येतदिति । हे स्वयमातृष्णे त्वं स्थिरासि सर्वेषां प्रतिष्ठासि प्रजापतिनोपहितासि । यच्छर्दिः मोद्वधीत् हिरण्मयपुरुषश्च मोद्वधीत् । तथा सती अव्यथमाना त्वं पृथिवीं दृढीकुरु । त्वां रुक्मो पृष्ठेऽपामाच्छाद के समुद्रे प्राप्तवति भूप्रदेशे समुद्रवलयिते व्यचस्वतीं विस्तारवतीं । किख प्रजापतिरपां अतः प्रथस्व विस्तारवती भव । किञ्च त्वं सर्वेषां सुखानां भावयिव्यति, सर्वेषां त्वां वोत्पत्तिस्थानमसि सादयतु । यतस्त्वं पृथिव्यसि, भोग्यवस्तुनो दात्र्यसि । कृत्स्नस्य भुवनवतिपदार्थजातस्य धारयित्र्यसि । तादृशी । सर्वस्यापि नियच्छ । मा हिंसीः । प्रयोजनमन्तरेण त्वां नोपदधे, किन्तु सर्वस्य प्राणिजातस्य त्वं पृथिवीरूपमात्मानं त्वं चाग्निर्मह्या महत्या । टिलोपरछान्दसः । स्वस्त्या अविनाशेन छर्दिषा शन्तमेन स्थैर्यार्थ त्वामुपदधामि । तेजसा च गोपायतु । तया देवतया अङ्गिरस्वद् अङ्गिरसा तुल्या ध्रुवा स्थिरा सतो सुखातिशयसम्पादकेन कृत्स्नमन्त्रार्थः । अथ तया देवतयेति मन्त्रेण सादयित्वा ता अस्येत्यनेनाधिवदेत् । सीदेति सायणाचार्यरीत्या अध्यात्मपक्षे - हे बुद्धे माये वा, विश्वस्य सर्वस्य प्राणादिवायुवृत्तिलाभाय प्राणिनामेतत्सर्वसिद्धयथं त्वां सादयामि प्रतिष्ठापयामि, सर्वस्यैव बुद्धिप्रतिष्ठापनाधीनत्वात् प्रतिष्ठार्य कीर्त्यै चरित्राय प्रणश्यति ' ( भ ० गो ० २२६३ ) इति गोतोक्तेः, परमेशशक्तिमायाधनत्वाच्च ' बुद्धिनाशात् स्वस्त्या योगक्षेमसम्पत्त्या शन्तमेन अत्यन्त सुखकारिणा छर्दिषा गृहेण चाग्निः परमेश्वरस्त्वां सर्वस्य । किञ्च, मह्या महत्या त्वदभिमानिभूतया देवतयाऽनुगृहीता सती त्वम् अङ्गिरस्वत् प्राणवत् सोद सदोपस्थिता भव । सर्वतः पातु । तथा दयानन्दस्तु - ' हे स्त्रि, योऽग्निस्ते पतिर्मह्या महत्या स्वस्त्या सुखप्रापकक्रियया शन्तमेन कर्मणा छर्दिषा प्रदीप्तेन ' उच्छुदिर् दीप्तिदेवनयो: ' स्वादिः, उपादिपठिते इसिप्रत्यये विश्वस्मं अत्यन्त सुखरूपेण जीवनहेतवे, अपानाय दुःखनिवारणाय, उदानाय उत्कृष्टाय बलाय प्रतिष्ठायै सत्कृतये चरित्राय सम्पूर्णाय धर्माचरणाय प्राणाय स्वाभिपातु, सा त्वं तथा देवतया सुखप्रदया पतिरूपया सह अङ्गिरस्वत् कारणवद् ध्रुवा निश्चला यां तदपि यत्किञ्चित् तादृशसम्बोधनस्य कपोलकल्पितत्वात् । स्वस्था सुखप्रापिकया सीद ' इति, प्राणाय जीवनहेतव इत्यपि निर्मूलम्, प्राणस्य जीवनहेतुत्वेऽपि प्राणशब्दस्य तत्राशक्तिः क्रिययेत्यपि निर्मूलमेव । व्यानाय विविधोत्तमव्यवहाराय उदानाय उत्कृष्टबलाय - इतीमानि सर्वाण्यपि व्याख्यानानि । अपानाय दुःख निवारणाय, निर्मूलत्वात् ॥ १ ९ ॥ व्याख्यानाभासान्येव,
काण्डत् काण्डात् प्र॒रोह॑न्ति॒ परु॑षः परुष॒स्परि॑ ।
ए॒वा नो॑ दू॒र्वे॒ प्रत॑नु॒ स॒हस्रेण श॒तेन॑ च ॥ २० ॥