वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 311–320
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 311–320
पृष्ठ 311
पाठ पढ़ें पाठ छिपाएँ
म ० २० ] वेदार्थ पारिजातभाष्यसहिता २७५ मन्त्रार्थ - हे दूर्वा, तुम प्रत्येक काण्ड से और प्रत्येक पर्व से सब ओर से अंकुरित होती हो । इसी तरह से हमें भी निश्चय हो सैकड़ों - हजारों, अर्थात् असंख्य पुत्र - पौत्र आदि के रूप में अंकुरित कर हमारी सब प्रकार से वृद्धि करो || २० || ' मूलाग्रवतीं दूर्वा तस्यां पुरस्ताद् भूमिप्राप्तां काण्डात् काण्डादिति ' ( का ० श्री ० १७ | ४ | १८ ) अध्वर्युरुद-मुख उपविश्य मूलाग्रयुक्तां दूर्वां दूर्वेष्टकां स्वयमातृष्णाया उपरि काण्डात् काण्डादिति ऋग्वयेन उपदध्यादिति सूत्रार्थः । इदमत्रात्रधेयम् - तस्या मूलानि स्वयमातृष्णाया उपरि भवन्ति, अग्राणि च स्वयमातृष्णायाः पुरस्ताद् भूमावर्धपद्यालोकं यथा व्याप्नुवन्ति तथोपधानं कार्यमिति विद्याधरः । अग्नि दूर्वेष्टकादेवत्ये द्वे अनुष्टुभौ । काण्डशब्दः स्तम्बवाची । मूलैर्भूसम्बद्धं पर्व काण्डं भूम्यसम्बद्धं परुः । यावन्तः काण्डाः स्तम्बाः सन्ति, तत्र एकैकस्मात् प्रकर्षेण दूर्वोत्पद्यते । हे दूर्वेष्टके, त्वं तत्तत्काण्डात् तत्तत्पर्वणः प्रकर्षेणोत्पद्यमाना वर्तसे । एवं परुषः परुषः प्रतिपरुः सर्वतः प्ररोहन्ती सती यथा शताङ्कुरा भवसि, एवा एवमनेन प्रकारेण नोऽस्मदर्थं शतसंख्याकेन सहस्रसंख्याकेन वा त्वदीयभेदेन तत्तत्स्वरूपं धनपुत्रादिकं प्रतनु विस्तृतं कुरु । यद्वा भूमी सम्बद्धं जटाभिः पर्व काण्डम् । हे दुर्वे, काण्डात् काण्डात् प्रतिकाण्डम् परुषः परुषः प्रतिपरुः, भूमिसम्बद्धासम्बद्धेभ्यः सर्वपर्वभ्यः सकाशाद् यथा त्वं परि समन्तात् प्ररोहन्ती शताङ्कुराँल्लभसे, एवा एवं हे दुर्वे, स्वाङ्कुर विस्तारवत् सहस्रेण शतेन च असंख्येयः पुत्रपौत्रादिभिः, नोऽस्मान् प्रतनु । ' नित्यवीप्सयो: " ( पा ० सू ० ८ | १1४ ) इति वीप्पार्थे aruso षोद्वित्वम् । एवेत्यत्र ' निपातस्य च ' ( पा ० सू ० ६ | ३ | १३६ ) इति संहितायां दीर्घः । शतसहस्रशब्दा-वसंख्येयार्थको । अत्र ब्राह्मणम् —'अथ दूर्वेष्टकामुपदधाति । पशवो वै दुर्वष्टका पशूनेवैतदुपदधाति तद्येरदोऽग्निरनन्तर्हितैः पशुभिरुत एते तानेवैतदुपदधाति । तामनन्तहिना स्वयमातृष्णाया उपदधातीयं वे स्वयमातृष्णा अनन्तर्हितां स्तदस्यं पशून् दधात्युत्तरामुतरांस्तस्यै पशून् दधाति ' ( ० ७ ४.२ १ ० ) । स्वयमातृगेकोपधानानन्तरं दूर्वेष्ट-कोपधानं विधत्ते - अथेति । इष्टकाशब्दो मृण्मयेष्टकासु मुख्यः, दूर्वायां तूपधानसामान्याद् गौणः । पशुपुष्टिसाधन-त्वेन दुर्वाणामपि पशुत्वात् तदुपधानेन पशूनामेवोपधानं कृतं भवतीत्याह -- पशवो वा इति । तत्कि साधारणपशु-विषयम्? नेत्याह -- द्यैरद इति । अदः पुरस्ताद् अग्निः, अनन्तर्हितैरव्यवहितैः, स्वस्य तेष्वनुप्रवेशादनन्तर्हित्वम्, तादृशैर्यैः पञ्चभिः पशुभिरन्यत्रोपजगाम ते पशव एते दुर्वेष्टकाः । अग्निः पशून् प्रविश्य अन्यत्र जगामेत्येतत् ' स एतान् पञ्च पशून् प्राविशत् ' ( श ० ६ २ ( १२४ ) इत्यादिना षष्ठकाण्डे विस्तरश उक्तम् । उपदधातीति सामान्येन विधानात् स्थानविशेषं विधाय प्रशंसति --- तामनन्सहितामित्यादिना । ' तामनन्तहितां पुरुषादुपदधाति ' ( श ० ७ | ४ | २ | १ ) इति स्वयमातृष्णेष्टकास्थान विधिव्याख्यानेनैव कृतव्याख्यानमेतत् । ' यद्वैव दुर्वेष्टकामुपदधाति । प्रजापतेविस्रस्तस्य यानि लोमान्यशीर्यन्त ता इमा ओषधयोऽभवन्नथास्मात् प्राणो मध्यत उदक्रामत्तस्मिन्नुत्क्रान्तेऽ-पद्यत ' ( श ० ७ | ४ | २ | ११ ) । विहितमुपधानमनूद्य ओषधीनां दूर्वायाश्च उत्पत्तिप्रदर्शनपूर्वकं तदुपधानेनैवान्याः सर्वोषधीः प्राणं रसं चोपहितवान् भवतीति स्तौति - यद्वेवेत्यादिना । ' सोऽब्रवीदयं वाव मा धूर्वीदिति यदब्रवीदधूमेति तस्माद् धूर्वा धूर्वा ह वै तां दूर्वेत्याचक्षते परोक्षं परोक्षकामा हि देवास्तदेतत्क्षत्रं प्राणो ह्येष रसो लोमान्यन्या ओषधय एतामुपदधत् सर्वा ओषधीरुपदधाति ' ( श ०७४ । २ । १२ ) । अयमेव प्राणो माम् अधूर्वीद् अहंसीदिति प्रजापतिर्यदब्रवीत् तस्माद् एष प्राणो नाम्ना धूर्वा अभूत् । ननु धूर्वा कथं दूर्वा भवितुमर्हति? इत्यत आह --- धूर्वा ह वै तां दूर्वा इत्युच्यते । धूर्वाशब्दः पचाद्यजन्तः । लोके किञ्चिन्नामधेयविशिष्टं पुरुषं गौरवार्थं भ्राता पितेत्येव परोक्षेण व्यपदिशन्ति । तदेतदिति । यत एष दूर्वा प्राणात्मको रसः । प्राणस्य रसात्मकत्वं श्रूयते - प्राणो हि वा अङ्गानाथ, रसः ' ( श ० १४ / १ | १ | २१ ) इति । एष इति पुंल्लिङ्गत्वं प्राणरसापेक्षम् । अतस्तदेतद् दूर्वाक्षत्रं प्रधानस् | क्षत्रशब्देनात्र प्राधान्यं लक्ष्यते । तदेतदित्यपि क्षत्रशब्दा-
पृष्ठ 312
पाठ पढ़ें पाठ छिपाएँ
२७६ शुक्लयजुर्वेद संहिता 1 अ ० १३ पेक्षम् । तथा सति लोम्नः प्राणानुविधायित्वात् प्राणरसात्मिकामेतां दूर्वेष्टकामुपदाद् लोमात्मिकाः सर्वा अपि ओषधीरुपदधाति । ' तं यत्र देवाः समस्कुवंस्तदस्मिन्नेतं प्राण रसं मध्यतोऽदधुस्तथैवास्मिन्नयमेतद्दधाति वामनन्तहिताथ, स्वयमातृष्णाया उपदधातीयं वै स्वयमातृष्णानन्तर्हितास्तदस्या ओषधीर्दधात्युत्तरामुत्तरास्तदस्था ओषधीर्दधाति सा स्यात् समूला साना कृत्स्नतायं यथा स्वयमातृष्णायामुपहिता भूमिं प्राप्नुयादेवमुपदध्यादस्या ह्येवैता जायन्त इमामनुप्ररोहन्ति ' ( श ० ७ | ४ | २ | १३ ) | कि, यदा देवास्तं प्रजापति चयनसंस्कारेण संस्कृतवन्तः, तदा अस्मिन् प्रजापतौ मध्यतो मध्ये प्राणं रसमदधुः, तथैवायमध्वर्युरेतद् एतेन दुर्वेष्टकोपधानेन प्राणं रसं निहितवान् भवतीत्यर्थः । अन्यत् पूर्ववद् व्याख्येयम् । उपधातव्याया दूर्वेष्टकाया लक्षणमाह - सा स्यादिति । कृत्स्नतायें अविच्छिन्नमूलाग्रं हि सम्पूर्णमन्यूनं भवति । ततो मूलाग्रवती कार्या । उपधाने विशेषमाह - यथेति । अत्र कात्यायन: - ' मूलाग्रवतीं दूर्वां तस्यां पुरस्तादभिप्राप्ताम् ' ( का ० श्र ० १७ | ४ | १८ ) | दुर्वेष्टकायाः पुरस्ताद् भूमिसंस्पर्शेनोपधान इमां दूर्वामुपलक्ष्यैता ओषधयो भूमी प्ररोहेयुरित्याह- अस्यां ह्यंवैता इति । ' काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परीति काण्डात् काण्डाद्भयेषा पर्वणः पर्वणः प्ररोहत्येवा नो दुर्वे प्रतनु सहस्रेण शतेन चेति यथैव यजुस्तथा बन्धुः ' ( ० ७ ४ | २ | १४ ) । यावन्तः काण्डाः स्तम्बा विद्यन्ते तत्र एकैकस्मात् स्तम्बात् प्रकर्षेणोत्पद्यमाना, एकैकस्मात् पर्वणः परितः प्रकर्षेण उत्पद्यमाना । अथवा काण्डशब्देन पर्वणोर्मध्यवर्ती दण्ड उच्यते । काण्डात् काण्डात् सर्वस्मात् काण्डात्, परुषः परुषः सर्वस्मात् पर्वणः, हे दुर्वे, येषु काण्डेषु यानि सर्वाणि पर्वाणि विद्यन्ते, तेभ्यः सर्वेभ्यः परितः प्ररोहन्ती भवसीत्यर्थः । एवा एवं यथा त्वं भवसि एवं नः अस्मान् शतेन सहस्रेण च शतसहस्रसंख्याकैः पुत्रादिभिः प्रतनु विस्तारयेति । अध्यात्मपक्षे -- हे भगवच्छक्तिभूते प्रकृते, मूलसम्बन्धासम्बन्धेभ्यः सर्व पर्वभ्यः प्रतिकाण्डं प्रतिपरुः प्ररोहन्ती प्रकर्षेण वर्धमाना भवसि । कार्याणि काण्डाः, अवान्तरकार्यकारणभावः परुरिति वा । यथा स्त्रं सहस्रेण शतेन असंख्यातः कार्यकारणभावैः कार्येश्च वर्धसे, एवा एवमेव नोऽस्मान् पुत्रपौत्रशिष्यप्रशिष्यादिभिश्च प्रतनु । भक्तिज्ञानवैराग्यादिपारम्पर्येव प्रतनु । दयानन्दस्तु – हे ' स्त्रि, त्वं यथा सहस्रेण शतेन च काण्डात् काण्डाद् ग्रन्थेर्ग्रन्थेः परुषः परुषो मर्मणो मर्मणः परि सर्वतः प्ररोहन्ती प्रकृष्टतया वर्धमाना हे दुर्वे! दूर्वावद्वर्तमाने, तथैव नोऽस्मान् पुत्रपौत्रैश्वर्यादिभिः प्रतनु विस्तृणुहि ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात् काण्डपरुष शब्दयोर्ग्रन्थिमर्मार्थत्वे प्रमाणाभावात्, स्वकीयहिन्दीभाष्येऽवयवग्रन्थिपरत्वोक्तिविरोधाच्च ॥ २० ॥
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रेण वि॒रोह॑सि ।
तस्या॑स्ते॒ देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ २१ ॥
मन्त्रार्थ -- हे देदीप्यमान इष्टके, तुम सैकड़ों काण्डों से विस्तार को प्राप्त होती हो, सहस्रों अंकुरों से अनेक प्रकार से अंकुरित होती हो । हम तुम्हारे लिये हवि का विधान करते हैं ॥ २१ ॥
हे देवि, दीव्यमाने हे इष्टके! या त्वं शतेन काण्डानां प्रतनोषि विस्तारयसि सहस्रेण च अङ्कुराणां विरोहसि विविधं प्ररूढा भवसि वयं हविषा सह ते तव स्वरूपं स्थानं वा विधेम परिचरेम । अत्र ब्राह्मणम् -' या शतेन प्रतनोषि सहस्रेण विरोहसीति शतेन ह्येषा प्रतनोति सहस्रेण विरोहति तस्यास्ते देवीष्टके विम हविषा वयमिति... ' ( श ० ७ ४ । २ । १५ ) । पूर्ववदेव व्याख्यानम् ।
पृष्ठ 313
पाठ पढ़ें पाठ छिपाएँ
म ० २१-२२ ] वेदार्थपारिजातभाष्यसहिता २७७ अध्यात्मपक्षे - हे चिदधिष्ठिते प्रकृते, या त्वं काण्डानां शतेन प्रतनोषि अङकुराणां सहस्रेण विरोहसि । हे देवि, द्योतमाने इष्टके! अनुकम्पमाने इष्टदेवते तस्यास्ते स्वरूपं हविषा वयं परिचरेम | दयानन्दस्तु - ' हे इष्टके इष्टकाबद् दृढाङ्गे देवि स्त्रि यथेष्टकाशतेन असंख्यातेन प्रतनोति सहस्रेण विरोहति तथा त्वमस्मान् शतेन प्रतनोषि सहस्रेण विरोहसि, तस्यास्ते तव हविषा वयं विधेम त्वां परिचरेम ' इति, तदपि यत्किचित् सम्बोधनादेनिमूलत्वात् ' इष्टके ' इति सम्बोधनस्य निरर्थकत्वाच्च । यदि दृढाङ्गत्वमेवापेक्षितम्, तदा शैलीति सम्बोधनं स्यात् । न चेष्टका प्रतनोति न वा विरोहति, तस्या निर्जीवत्वात् । न चैकया इष्टकया भवनादिनिर्मितिर्भवति । तस्मात् सर्वमेतदनर्गलमेव । श्रुतिसूत्रविरोधस्तु पदे पदे शिरस्थापतितः । सिद्धान्ते दूर्वेष्टकायां सर्वमुपपन्नमेव ॥ २१ ॥
यास्ते॑ अग्ने॒ सूर्ये रुचो दिव॑मान॒न्वन्तं र॒श्मिभिः ।
तान अद्य सर्वाभी रुचे जनय नस्कृति ॥ २२ ॥
मन्त्रार्थ है अग्निदेव, आपकी जो बीति सूर्यमण्डल में वर्तमान किरणों के द्वारा युलोक को प्रकाशित करती है, उस सम्पूर्ण कान्ति के द्वारा आज इस समय आप हमारी शोभा के निमित्त बनें तथा हमारे पुत्र - पौत्र आदि को जगत् में प्रसिद्ध करें ॥ २२ ॥
' यास्त इति द्वियजुषं द्वितीये ' ( का ० श्री ० १७/७/२० ) । दुर्वष्टका पुरस्ताद् द्वितीये पद्यालोके ' यास्ते ' इति ऋद्वयेन द्वियजुः संज्ञां पद्येष्टकामुपदध्यादिति सूत्रार्थः । इन्द्राग्निदृ अग्निदेवत्ये द्वे अनुष्टुभो । हे अग्ने, सूर्ये सूर्यमण्डले ते तव या रुचो दीप्तयो रश्मिभी रश्मिस्वरूपेण दिवमन्तरिक्षमातन्वन्ति सर्वतो व्याप्नुवन्ति या अग्नेर्दीप्तयस्ता एव सूर्योदयकाले सूर्यरश्मयो भवन्ति । एतच्च तैत्तिरीयेऽग्निहोत्रब्राह्मणे स्फुटम् । ' उद्यन्तं वादित्यमग्निरनुसमारोहति ' ( तै ० ब्रा ० २१ २ १० ) । ताभिः सर्वाभिर्दीप्तिभिरद्यास्मिन् दिने नोऽस्मदर्थं नोऽस्मदीयाय जनाय पुत्रभृत्यादिरूपाय रुचे कृधि रुचं दीप्तिं कुरु । ' व्यत्ययो बहुलम् ' ( पा ० सू ० ३ | १ | ८५ ) इति विभक्तिव्यत्ययः । यद्वा रश्मिः सरूपभूतैः किरणैस्ताभिः सर्वाभी रुग्भिर्नोऽस्मान् रुचे रोचनाय शोभायं अद्य अस्मिन् दिने कृधि जनाय पुत्रपौत्रादिकाय च कुरु । नस्कृधीत्यत्र ' कः करत्करतिकृधिकृतेष्वन दितेः ' ( पा ० सू ० ८ | ३ | ५० ) इत्यादिना विसर्जनीयस्य सः । द्युलोकप्रकाशिकाः सर्वाः कान्तीः पुत्रांश्च अस्मभ्यं देहीत्यर्थः । यद्वा विभक्तिव्यत्ययेन नोऽस्माकं जनाय जनं पुत्रादिकं ताभी रुग्भी रुचे शोभायं कुरु जगत्प्रसिद्धं पुत्रादिकं देहीत्यर्थः । अत्र ब्राह्मणम् -- ' अथ द्वियजुषमुपदधाति । इद्राग्नी अकामयेता · स्वर्गं लोकमियावेति तावेतामिष्ट-कामपश्यतां द्वियजुषमिमामेव तामुपादद्यातां तामुपधायास्य प्रतिष्ठायै स्वर्ग लोकमंतां तथैवैतद्यजमानो यद् द्विय-जुषमुपदधाति येन रूपेण यत्कर्म कृत्वेन्द्राग्नी स्वर्ग लोकमैतां तेन रूपेण तत्कर्म कृत्वा स्वगं लोकमानीति सा यद् द्वियजुर्नाम द्वे ह्येतां देवते अपश्यतां यद्वेव द्वियजुषमुपदधाति यजमानो वै द्वियजुः ' ( ० ७ | ४ | २ | १६ ) । ' यास्ते अग्ने सूर्ये रुच: ' ( वा ० सं ० १३२२ ), ' या वो देवा: ' ( वा ० सं ० १३।२३ ) इति द्वाभ्याम् ऋग्भ्यां द्वियजु-नष्टकामुपदध्यादिति सूत्रार्थः । एतद्विधत्ते - अथेति । विहितामिष्टकां यजमानस्य स्वर्गप्रामिसाधनत्वेन प्रशंसति-इन्द्राग्नी इत्यादिना । स्पष्टमेतत् । इमामेवेति । ताम् आत्मना दृष्टाम् इमाम् अस्माभिरधिष्ठीयमानाम् इष्टकामेव उपादधाताम् । तामुपधाय अस्य प्रतिष्ठायै अस्याः प्रतिष्ठायाः, षष्ठयर्थे चतुर्थी, सकाशात् सोपानवदिमामारुह्य
पृष्ठ 314
पाठ पढ़ें पाठ छिपाएँ
२७८ शुक्ल यजुर्वेद संहिता [ अ ० १३ स्वर्ग लोकं प्राप्नुता मित्यर्थः । तथैवैतदिति यजमानो द्वियजुषमुपदधातीति । यदेतत्तथैवेन्द्राग्निदेवतावदेव दर्शयति-येनेति । येन प्रकारेण यत्कर्म कृत्वा इन्द्राग्नी स्वर्गं लोकं प्राप्नुतां तेनैव प्रकारेण तत्कर्म कृत्वा अहमपि स्वगं लोकमियानीति यजमानो द्वियजुषमुपदधाति । तस्मादेषा स्वर्गप्राप्तिसाधनमिति भावः । इष्टकाया द्वियजुरिति नामधेय प्राप्तिं दर्शयति- --सा यदिति । यत एतां द्वे एव देवते इन्द्राग्नी अपश्यताम्, तस्माद् द्वियजुर्नाम्नी इयमिष्ट-केत्यर्थः । ननु कथमेतदिति चेदुच्यते - यतो दे देवते एतामपश्यताम्, अत एव द्वाभ्यां यजुर्भ्यामुपधीयते । तथा सति यजुर्द्वयेनोपधानस्यापि देवताद्वय दर्शनोपाधिकत्वाद् द्वियजुरिति नामधेयस्यापि देवताद्वय दर्शनमेव निमित्तमिति । ननु ' यास्ते अग्ने ', ' या वो देवाः ' इत्यनयोर्मन्त्रयोर्ऋग्व्यवस्थया पठितत्वात् कथं यजुः शब्देन तदभिधानमिति चेन्न प्रकृते यजुः शब्देन मन्त्रमात्रस्य लक्षितत्वात् ( विवक्षितत्वात् ) – तेषामृक् ' यत्रार्थवशेन पाद-व्यवस्था, गीतिषु सामाख्या, शेषे यजुः शब्द: ' ( जै ० सू ० २।१।११, ३५, ३७ ) इति । अत एवोक्तमभियुक्तः -' नक्सामयजुषां लक्ष्मसाङ्कर्यादिति शङ्किते । पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसङ्करः ॥ ' इति । यद्यपि जैमिन्या-दिभिर्मन्त्रभेद उक्तः, तथापि प्रकृते मन्त्र एव यजुः शब्दव्यवहारो लाक्षणिकः, तस्यास्ते देवीष्टके विधेम हविषा वयमिति यथैव यजुस्तथा बन्धुः ' ( ० ७ ४ । २ । १५ ) इत्येवमादी तथा दर्शनात् । अथ तामेवेष्टकां यजमानात्मना प्रशंसति - यद्वेवेति । द्वियजुषो यजमानात्मकत्वात् तदुपधानेन यजमानमेवामुष्मिल्लोकेऽपितवान् भवति । --' तदाहुर्यदसावेव यजमानो योऽसौ हिरण्मयः पुरुषोऽथ कतमदस्येद रूपमिति देवो वा अस्य स आत्मा मानुषोऽयं तद्यत्स हिरण्मयो भवत्यमृतं वा अस्य तद्रूपं देवरूपममृत हिरण्यमथ यदियं मृदः कृता भवति मानुष, ह्यस्येद रूपम् ' ( श ० ७७४/२/१७ ) । द्वियजुषो यजमानत्वोक्त्या याज्ञिकानां जिज्ञासामवतारयति - तदाहुरिति । अथ कतमदिति । अस्य यजमानस्य इदं द्वियजुर्नाम कतमद्रूपं स्वरूपम्? रूपत्वापेक्षया नपुंसकत्वम् । उक्तस्योत्तरमाह देवो वा इति । स हिरण्मयः पुरुषोऽस्य यजमानस्य देवत्वप्रयुक्त आत्मा शरीरम्, यद् द्वियजुरिष्टका स मनुष्यत्वप्रयुक्त आत्मेत्यर्थः । हिरण्मयत्वात् पुरुषस्य देवशरीरत्वम्, मृण्मयत्वाद् द्वियजुषो मानुषशरीरात्मकत्वम् । तदेतत्प्रतिपादयति - तद्यदित्यादिना । देवरूपमिति । यतो देवरूपम्, अतोऽस्य यजमानस्य तद्रूपममृतं खलु विलायनेऽप्यविनश्वरत्वात् । मानुषं होति । इदं द्वियजुर्लक्षणं स्वरूपं यतो मानुषम्, अत इयं मृदः कृता भवति पार्थिवी भवति, मानुषाणां पार्थिवत्वादित्यर्थः । स यदमू-मेवोपदध्यात् । नेनामपछि स्यात् क्षित्रे हास्माल्लोकाद् यजमानः प्रेयादथ यदिमामपशिनष्टि यदेवास्येदं मानुषरूपं तदस्यैतदपशिनष्टि तथो हानेनात्मना सर्वमायुरेति ' ( श ० ७ ४।२१८ ) । द्वियजुत्र उपधानस्य अन्वयव्यतिरेकयोर्गुणदोषप्रदर्शनेनावश्यकत्वमाह -- स यदमूमिति । स यदि हिरण्मयलक्षणामिष्टकामेवोपदध्यात्, नेमां द्वियजुलक्षणा मिष्टकामपशिष्यात् क्षिप्रं झटिति इह अस्माल्लोकाद् यजमानः प्रेयाद् एतस्यास्तदानीमनुपधानेन, अवशेषणे त्वनेन द्वियजुर्लक्षणेन मानुषशरीरेण अस्मिल्लोके यजमानः कृत्स्नमायुरेतीत्यर्थः । ' स यन्नानूपदध्यात् । न हैतं देवमात्मानमनुप्रजानीयादथ यदनुपदधाति तथो हैतं देवमात्मानमनुप्रजानाति तामनन्तहितां दूर्वेष्टकाया उपदधाति पशवो वै दुर्वेष्टका यजमानं तत्पगुषु प्रतिष्ठापयति ' ( श ०७४ | २ | १ ९ ) । समीपेऽनुपधाने सत्य सम्बन्धाद् यजमानः स्वकीयं देवरूपमनुक्रमेण न प्रजानीयात्, उपधाने तु प्रजानीयात् । अथ तामेवेष्टकां दुर्वेष्टका संस्पर्शेन उपदध्यादित्याह - तामनन्तर्हितामिति । ' प्राणो वै स्वयमातृष्णा ' ( श ० ७ ४/२/२० ) इति स्वयमातृष्णायाः प्राणत्वमुक्तम् । ' अथास्मात् प्राणो मध्यत उदक्रामत् ' ( श ० ७ | ४ | २ | ११ ) इत्यादिना प्राणरस एव दूर्वाभूदित्यप्युक्तम् । यजमानस्य हिरण्मयः पुरुषो दैवं शरीरम्, द्वियजुस्तु मानुषमित्युक्तम् । वयोमंध्ये स्वयमातृष्णादूर्वेष्टकयोरुपधानेनाव्यवधानात् शरीरद्वयस्यापि
पृष्ठ 315
पाठ पढ़ें पाठ छिपाएँ
म ० २२-२३ ] वेदार्थ पारिजातभाष्यसहिता २७ ९ प्राणेनाव्यवच्छेद इत्याह- ' एवम् हाम्यं तावात्मानौ प्राणेन सन्ततावव्यवच्छिन्नो भवत: ' ( श ० ७४ / २ / २० ) इति । ' यास्ते अग्ने मर्ये रुचः । या दो देवा सूर्ये रुच इति रुच ५. रुचमित्यमृतत्वं वै रुगमृतत्वमेवास्मिन्नेतद् दधाति द्वाभ्यामुपदधाति तस्योक्तो बन्धुरथो द्वय १ ९ ह्येवैतद्रूपं मृच्चापश्च सादयित्वा सूद दोहसाधिवदति तस्योक्तो बन्धुः ' ( श ० ७ । ४ । २ । २१ ) । मन्त्रयोः पुनः पुना रुवपदप्रयोगस्याभिप्रायमाह - रुचं रुचमिति । अस्मिन् यजमाने रुचं दधातीति यावत् । हे इन्द्राग्नी, हे बृहस्पते, त्रयोऽपि यूयं सूर्यमण्डले वर्तमानाभिः सर्वाभिर्दीप्तिभिरस्मत्सम्बन्धिने यजमानाय प्रकाशं सम्पादयत इति भावः । ननु चास्य मन्त्रस्याध्वर्यणा पठ्य-मानत्वाद् रुचं नो धत्तेति लिङ्गेन अध्वर्योरेव तत्फलं यज्यते, अतो ' न ' इति पदं किमित्युपचरितमिति चेन्न, जेत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वप्रतीतेः । न च परिक्रीतस्याध्वर्योर्दक्षिणातिरिक्तफल-सम्बन्धो न्याय्यः तस्मात् श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम् । तस्माद्यजमानेन पाठयेषु ' आयुर्दा अग्नेऽस्यायुर्मे देहि ' इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीमंन्त्रेषु श्रुतं फलं यथा याजमानमेव, तथैवाध्वर्युणा पाठयेषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव । अन्यत् पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे हे अग्ने परमेश्वर, ते तव सम्बन्धिन्यो या रुचः स्वरूपज्ञानलक्षणा दीप्तयः, ता एव सूर्ये सूर्यमण्डले रश्मिभी रश्मिरूपेण दिवमातन्वन्ति ' यदादित्यगतं तेजो जगद् भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ ' ( भ ० गी ० १५।१२ ) इति गीतोक्तेः । हे देव, ताभिः सवाभिर्दीप्तिभिनोऽस्मभ्यं जनाय पुत्रपौत्रादिकाय च रुचं ब्रह्मात्मसाक्षात्कारलक्षणं ज्ञानं कृधि सम्पादय । दयानन्दस्तु -- ' हे अग्ने विदुष्यध्यापिके स्त्रि, यास्ते रुचयः सन्ति, ताभिः सर्वाभिर्नो यथा रुचः सूर्ये रश्मिभिर्दिवमातन्वन्ति तथा त्वमातनु । अद्य रुचे रुचिकारकाय जनाय प्रसिद्धाय नः प्रीतान् कृधि ' इति, तदपि न किञ्चित् तादृशसम्बोधनादनिर्मूलत्वात् । नह्यग्निपदस्याध्यापिकार्थता सम्भवति, तत्र तस्याशक्तत्वात् । न च रुच इत्यस्य रुचय इत्यर्थः सम्भवति । न च रश्मिभिव्यतिरिक्तोऽन्यः प्रकाशो वितन्यतेऽप्रसिद्धः । ' विस्तृत सुखयुक्तान् ' इति हिन्दीभाष्यं प्रीतान् कुरु इति च निर्मूलमेव ॥ २२ ॥
या वो दे॒वाः सूर्ये रुचो गोष्वश्वे॑षु या रुचः 1 इन्द्रा॑ग्नी ताभिः॒ सर्वा॑भी रुचं॑ नो धत्त बृहस्पते ॥ २३ ॥
मन्त्रार्थ -- हे इन्द्र, अग्नि और बृहस्पति देवों, आपकी जो दीप्ति सूर्यमण्डल में वर्तमान है, जो वीप्ति धेनुओं और अश्वों में स्थित है, उन सम्पूर्ण दीतियों से देदीप्यमान होकर आप सब हमारे निमित्त कान्ति और नीरोगता को प्रदान कीजिये ॥ २३ ॥
हे देवाः, वो युष्माकं सम्बन्धिन्यो या रुचः सूर्यमण्डले वर्तमाना दीप्तयः सन्ति, तथा गोषु अश्वेषु च या रुचः सन्ति, हे इन्द्राग्नी! हे बृहस्पते! त्रयोऽपि यूयं ताभिः सर्वाभी रुग्भिः कृत्वा नोऽस्मदर्थं रुचं धत्त, विशिष्टरुचोऽस्मान् कुरुतेत्यर्थः । एतत्सम्बन्धि ब्राह्मणं तद्व्याख्यानं च पूर्वकण्डिकायामेवोपन्यस्तम् । अध्यात्मपक्षे - हे देवास्तत्तदधिष्ठातारः, हे इन्द्राग्नी, विशेषतो स्तनयित्नुपावकाधिष्ठातारो बृहस्पते बृहत्या वेदलक्षणाया वाचः पालक परमेश्वर, वो युष्माकं या रुचो दीप्तयः सूर्यमण्डले सन्ति, याश्च गोषु धेनुषु, अश्वेषु तुरगेषु विद्यन्ते, ताभिः सर्वाभिर्नोऽस्माकं मध्ये रुचं विशिष्टब्रह्मात्मज्ञानं धत्त ।
पृष्ठ 316
पाठ पढ़ें पाठ छिपाएँ
२८० शुक्लयजुर्वेदसंहिता [ अ ० १३ दयानन्दस्तु - ' हे देवा:, यूयं या वः सूर्ये रुचो रुचयो या गोषु धेनुषु अश्वेषु च रुचः प्रीतयः सन्ति, ताभिः सर्वाभी रुग्भिर्नोऽस्माकं मध्ये रुचं कामनाम् इन्द्राग्नी विद्युत्सूर्याविव तदध्यापकोपदेशको धत्त । हे बृहस्पते परीक्षक, भवानस्माकं परीक्षां कुरुताम् ' इति, तदपि यत्किचित् विसङ्गतेः । विदुषां याः सूर्यादिषु प्रीतयस्ताभिः कथं प्रार्थयितृषु कामना देवैराधातुं शक्याः? इन्द्राग्निपदाभ्यामध्यापकोपदेशक ग्रहणं यथेष्टचेष्टत्वमेव द्योतयति ॥ २३ ॥
विराड् ज्योतिरधारयत् स्वराड् ज्योति॑रधारयत् । प्र॒जाप॑तिष्ट्वा सादयतु पृष्ठे पृथिव्या ज्योतिष्मतीम् । विश्व॑स्मै॑ प्रा॒णाय॑मा॒नाय॑ व्या॒नाय॒ विश्व॒ ज्योति॑र्यच्छ । अ॒ग्निष्टेऽधि॑पति॒स्तय दे॒वत॑याऽङ्गर॒स्वद् ध्रुवा सींद ॥ २४ ॥
मन्त्रार्थ - विशेष शोभा से युक्त विराट् रूप इस लोक ने अग्निरूप ज्योति को धारण किया है । स्वयं प्रकाशमान लोक ने अग्निरूप ज्योति को धारण किया है । है इष्टके, प्रजा के पालक प्रजापति देव प्राण, अपान, व्यान की सम्पति के निमित ज्योतिर्युक्त तुमको पृथ्वी के ऊपर स्थापित करें, तुम सम्पूर्ण ज्योतियों पर अपना नियन्त्रण स्थापित करो । अग्नि तुम्हारा अधिपति है । तुम उस प्रसिद्ध देवता के साथ दृढ़ होकर अंगिरा के समान स्थित रहो ॥ २४ ॥
' विराट स्वराडिति रेतः सिची प्रतिमन्त्रम् ' ( का ० श्री ० १७।४।२२ ) । द्वियजुषः पूर्वे अव्यवहिते रेतः सिचो द्वेप्राग्क्षणे अनूकमभित उदङ्मुखो विराट् स्वराडिति, प्रतिमन्त्रमुपदधाति विराडित्युत्तरां स्वराडिति दक्षिणा मिति सूत्रार्थः । द्वे यजुषी इदंलोकादोलोकदेवत्ये क्रमाद्यजुरनुष्टुभो । विशेषेण राजते दीप्यत इति विराट् । एवंविधा रेतः सिचाख्या प्रथमा इष्टका । अस्मदनुग्रहार्थं ज्योतिरधारयत् । स्वयमेव राजत इति स्वराट् तादृशी द्वितीया रेतः सिचाख्या इष्टका अस्मदनुग्रहार्थं ज्योतिरधारयत् । यद्वा विराड् अयं लोको ज्योतिरग्निलक्षणमधारयद् धारयति । स्वेनैव राजते इति स्वराट् असौ लोको ज्योतिरादित्यलक्षणमधारयत् । ' प्रजापतिरिति विश्वज्योतिषम् ' ( का ० श्री ० १७/४/२३ ) | रेतः सिग्भ्यां पुरस्ताद् विश्वज्योतिषं यजमानकृतां प्रथमां पद्यामिष्टकामुदङ्मुखोऽध्वर्युरनू के अदध्यादिति सूत्रार्थः । विश्वज्योतिर्देवतं यजुः शक्वरीछन्दस्कम् । पृथिव्या पृष्ठे उपरि ज्योतिष्मती ज्योतिषोपेतां त्वामिष्टकां प्रजापतिः सादयतु । किमर्थ? विश्वस्मै सर्वस्मै प्राणायापानाय व्यानाय प्राणादिसम्पत्त्यर्थम् । किन, हे इष्टके! त्वं विश्वं सर्वं ज्योतिर्यच्छ निगृद्धीष्व देहि वा । अग्निश्च ते तव अधिपतिः स्वामी । तया देवतया अग्निलक्षणया ध्रुवा स्थिरा सती सीद । अङ्गिरस्वद् यथा अङ्ग चयने स्थिरा सीदः, तद्वदत्रापि । अत्र ब्राह्मणम् -'अथ रेतः सिचा उपदधाति । इमो वै लोको रेतः सिचाविमो ह्येव लोको रेतः सित इतो वा अयमूर्ध्व रेतः सिञ्चति धूम, साऽमुत्र वृष्टिर्भवति तामसावमुतो वृष्टि तदिमा अन्तरेण प्रजाः प्रजायन्ते तस्मादिमो लोको रेतः सिची ' ( श ० ७१४/२/२२ ) । रेतः सिङ्नामधेययोरिष्टकयोरुपधानं विधत्ते -- अथेति । विहिते इष्टके पृथिवीद्युलोकात्मना प्रशंसति - इमौ वे लोकावित्यादिना । तद्रेतः सेचनमेतयोः प्रत्यक्षसिद्ध-मित्याह - इमौ ह्येवेति । इतो वा अयमित्यादिना तदेव प्रत्यक्षत्वं दर्शयति - अयं लोक इतोऽस्मात् प्रदेशाद् धूमलक्षणं रेतः सिञ्चति । सा धूमोमुत्र द्युलोके वृष्टिर्भवति । सेति वृष्टयपेक्षं स्त्रीलिङ्गत्वम्, धूमस्य मेघकारणत्वात् तद्वारा वृष्टिकारणत्वाद् धूमो वृष्टिरिति कारणे कार्यत्वोपचारः । तां वृष्टिमसी द्युलोकः, अमुतोऽमुष्मात् प्रदेशात् सिति । तस्मादनयोर्लोकयोर्मध्ये वृष्टिपरिणतान्नद्वारा प्रजाः प्रजायन्ते । ' अन्नाद्वै प्रजाः प्रजायन्ते ' ( तै ० उ ०
पृष्ठ 317
पाठ पढ़ें पाठ छिपाएँ
म ० २४ ] वेदार्थ पारिजातभाष्यसहिता २८१ २२ ) इति श्रुतेः ' वृषेरन्नं ततः प्रजाः ' ( मनु ० ३।७६ ) इति स्मृतेश्च । तस्मादिमो लोकौ रेतः सिचौ । तद्रूपेणानुसन्धानाद् इष्टके अपि रेतः सिचावित्युच्येते । ' विराड् ज्योतिरधारयदिति । अयं वै लोको विराट स इमग्नि ज्योतिर्धारयति स्वराड् ज्योतिरधारयदित्यसौ वै लोकः स्वराट् सोऽमुमादित्यं ज्योतिर्धारयति विराड्वमौ लोकौ स्वराट् च मानोपदधाति नाना होमो लोको सकृत्सादयति समानं तत् करोति तस्मादु हानयोर्लोकयोरन्ताः समायन्ति ' ( श ० ७ ४।२।२३ ) । प्रथमाया उपधाने मन्त्रं विधाय व्याचष्टे - विराड् ज्योतिरिति । अयं लोकः पृथिवी विराट्शब्देनाभिधीयते । स च इममस्मदादीनां प्रत्यक्षमग्निरूपं ज्योतिर्धारयति । प्रथमा रेतः सिग भूलोकात्मिकेत्युक्तम् । तस्मात् प्रथमतः सिगात्मको विराट्शब्दाभिधेयो भूलोकोऽग्निरूपं ज्योतिर्धारयति । स्वराड् ज्योतिरिति द्वितीयोपधानमन्त्रः । अनयोर्विराट्स्वराट्शब्दाभिधेयत्वमे त्रोपपादयति-विराड्वमाविति । इह स्थापनाकर्मणि विराट्स्वराट्नाम्न्यौ इष्टके लोकद्वयस्वरूपे विराड्वेहेमावित्यस्य स्थाने विराड्वहेमाविति व्यत्ययेन एकारस्थाने अकारः । तयोः पृथक् पृथङ्मन्त्रेणोपधानमाह - नानोपदधातीति । यत इमी लोक नाना तस्मात्तदात्मिकयोरिष्टकयोरुपधानं पृथक् पृथङमन्त्रेण कर्तव्यमित्यर्थः । उपाधानमन्त्रवत्सादन-मन्त्रस्यापि पार्थक्येन प्राप्तावाह सकृदिति । ' तया देवतयाङ्गिरस्वद् ध्रुवा सीद ' इति सादन मन्त्रः । तमेकवार-मुच्चार्य सादयेत् न तु प्रतीष्टकमित्यर्थः । तेन तदुपधानं समानं करोति । तस्मादनयोर्लोकयोरन्ताः प्रान्ताः समायन्ति परस्परं सम्बद्धा भवन्ति । अन्तरिक्षभागा हि पृथिवीभागैः सम्बद्धयन्त इत्येतत् प्रत्यक्षसिद्धमेव । ' यद्वेव रेतः सिचा उपदधाति । आण्डौ वै रेत सिची यस्य ह्याण्डी भवतः स एव रेतः सिञ्चति विराड्ज्योतिरधारयत् स्वराड्ज्योतिरधारयदिति विराज्यमावाण्डी स्वराट् च तावेतज्ज्योतिर्धारयतो रेत एव प्रजातिमेव नानोपदधाति नाना हीमाण्डौ सकृत् सादयति समानं तत्करोति तस्मात् समानसम्बन्धनौ ते अनन्तर्हिते द्वियजुष उपदधाति यज-मानो वै द्विजुरन्तर्हितो तद्यजमाना दाण्डौ दधाति ' ( ० ७ ४ । २ । २४ ) | आण्डौ पुरुषसम्बन्धिनी बाजकोशा उच्येते । अण्डशब्दात् ' प्रज्ञादिभ्यश्च ' ( पा ० सू ० ५।४।३८ ) इति स्वार्थिको अणु । यस्य ह्याण्डौ भवत इत्याण्डयो रेतः सिक्त्वं प्रतिपादितम् । आण्डयोः प्रजोत्पादनसामर्थ्याद् विराट्त्वं प्रत्यक्षसिद्धम् । प्रजातिशब्देन प्रजोत्पादन-मभिधीयते । रेतःप्रजातिशब्दाभ्यां प्रजा लक्ष्यन्ते । तत्प्रकाशकत्वाज्ज्योतिष्ट्वमवगन्तव्यम् । प्रकृतयोरिष्टकयोः स्थानविशेषमाह -- अनन्तहिते इति । ' अथ विश्वज्योतिषमुपदधाति । अग्निर्वै प्रथमा विश्वज्योति रग्निर्ह्यवास्मिल्लोके विश्वं ज्योतिरग्निमेवैत-दुपदधाति । तामनन्तहिताछ रेतः सिग्भ्यामुपदधा तीमी वैलोको रेतः सिचावनन्तर्हितं तदाभ्यां लोकाभ्यामग्नि दधात्यन्तरेवोपदधात्यन्तरेव हीमी लोकावग्निः ' ( श ० ७४ २ २५ ) | विश्वज्योतिराख्याया इष्टकाया उपधानं विधाय सामग्न्यात्मना स्तौति अथेति । स्वयमातृष्णा इव विश्वज्योतिपोऽपि तिस्रा विद्यन्ते, अताऽत्र प्रथमेति विशेषणम् । अस्मिल्लोके यत्किञ्चन ज्योतिरस्ति तत्सर्वमग्निमयमेव । अग्निविश्वज्योतिरिति तदात्मकत्वेनानु-सन्धानादिष्टकापि विश्वज्योतिः, अतस्तदुपधानेऽग्निमेवोपहितवान् भवतीति । सादनप्रकारं विधत्ते - तामनन्त-हितामिति । तां विश्वज्योतिषं रेवः सिग्भ्यामनन्तर्हितामव्यवहितां तत्संस्पर्शेनोपदध्यात् । तथा सति रेतः सिचोः पृथिवीद्युलोकात्मकत्वात् ताभ्यामव्यवहितमेवाग्नि दधाति । क्वचित् पार्श्वेऽपि तत्संस्पर्शनोपधानेऽव्यवधाममुपपद्यत इत्यत आह — अन्तरेव हीति । अन्तरा इव इति पदविभागः । इवशब्द एवकारार्थः । ' अन्तरान्तरेण युक्ते ' ( पा ० सू ० २।३।४ ) इत्यनेन इमो इति द्वितीया । अनयोर्लोकयोर्मध्ये पृथिव्या उपरि अन्तरिक्षे खल्वग्निः प्रकाशते तस्मान्मध्यत उपधानम् । ' यद्वेव विश्वज्योतिषमुपदधाति । प्रजा वै विश्वज्योतिः प्रजा ह्येव विश्वं ज्योतिः प्रजननमेवैतदुपदधाति तामनन्तर्हिता, रेतः सिग्भ्यामुपदधात्याण्डी वै रेतः सिचावनन्तर्हितां तदण्डाभ्यां प्रजाति दधात्यन्तरेवोपदधात्यन्तरेव ह्याण्डौ प्रजाः प्रजायन्ते ' ( श ० ७ | ४/२/२६ ) । अथैतामिष्टकां प्रजात्मनापि ३६
पृष्ठ 318
पाठ पढ़ें पाठ छिपाएँ
२८२ शुक्लयजुर्वेदसंहिता [ अ ० १३ स्तौति - यद्वेवेति । प्रजा हि विश्वज्योतिः । यतः प्रजा ज्ञानशक्त्या सर्वान् पदार्थान् प्रकाशयति, तस्मात् प्रजा विश्वं ज्योतिरित्येतदपरोक्षम् । तथा सत्येतद् एतेने कोपधानेन प्रजननं प्रजोत्पादन मेवोपहितवान् भवति । प्रजायाः प्रजोत्पादनस्य च कार्यकारणभावादभेदविवक्षया एवमुक्तम् । रेतः सिचोराण्डत्वाद् विश्वज्योतिश्च प्रजात्वात् । ताभ्यामव्यवहितत्वेन मध्यत उपधाने प्रजोत्पादनमेवाण्डयोर्निहितं भवतीति दर्शयति - तामनन्तर्हितामिति । प्रजापतितां आण्डयोर्मध्यत एव रेतोनिर्गमनद्वारत्वात् तत एव प्रजाः प्रजायन्ते । ' प्रजापतिष्ट्वा सादयत्विति )! प्रथमां चितिमपश्यत् पृष्ठे पृथिव्या ज्योतिष्मतीमिति पृष्ठे हायं पृथिव्यै ज्योतिष्मानग्निः ' ( श ० ७।४।२।२७ , अतः तत्रोपधाने मन्त्रं विदधानो व्याचष्टे - प्रजापतिष्टवेत्यादिना । यतः प्रजापतिरेतां प्रथमां चितिमपश्यत् प्रथमां विश्वज्योतिषं ' प्रजापतिष्ट्वा सादयतु ' इति मन्त्रेणोपदध्यादित्यर्थः । यतश्च पृथिव्याः पृथिव्या पृष्ठे उपरि अग्निर्ज्योतिष्मान् विश्वज्योतिश्चाग्निः, ' अग्निर्वे प्रथमा विश्वज्योतिः ' इत्युक्तम्, अतः पृष्ठे इति मन्त्रवचनम् । ' विश्वस्मै प्राणायापानाय । व्यानायेति प्राणो वै विश्वज्योतिः सर्वस्मा उ वा एतस्मै प्राणो विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतदग्निष्टेऽधिपतिरित्यग्निमेवाम्या अधिपति करोति सादयित्वा सुददोहसाधि -वदति तस्योक्तो बन्धुः ' ( श ०७४।२।२८ ) । प्राणस्य सत्त्व एव सर्वेषामिन्द्रियाणां स्वस्वविषयप्रकाशकत्वात् भवतीति तस्य विश्वज्योतिष्टवम् । सर्वस्मा उ वा एतस्मा इति सर्वस्य खल्वेतस्य लोकस्य प्राण आशास्यो लोकस्य शेषः । अपानो व्यानश्चेति प्राण एव वृत्तिभेदभिन्नः । प्राणस्य विश्वज्योतिष्ट्वाद् विश्वस्मै सर्वस्य प्राणादिस्थैर्यार्थं तवोपधानमिति मन्त्रभाग आह । सर्वं ज्योतिरिति विश्वशब्दार्थविवरणम् । ' अग्निष्टेऽधिपतिः ' इति मन्त्रभागकथनेनाग्निमेवास्या विश्वज्योतिषोऽधिपति करोति । हे विश्वज्योतिः, पृथिव्याः पृष्ठे उपरि ज्योतिष्मती ज्योतिषा युक्तां त्वां प्रजापतिः सादयतु स्थापयतु । किमर्थमिति तत्राह - विश्वस्मा इति । विश्वस्मै यच्छ विश्वस्य सर्वलोकस्य प्राणायापानाय व्यानाय प्राणादिव्यापारार्थम् । किञ्च विश्वं समस्तं ज्योतिस्तेजो नियच्छ अस्मदायत्तं कुरु । ते तव अग्निरधिपतिः, अतः स त्वां परेभ्यो गोपायश्विति कृत्स्नमन्त्रार्थः । अध्यात्मपक्षे -- विविधं राजत इति विराट् परमेश्वरः समष्टिप्रपञ्चोपहितः, ज्योतिरादित्यादिकं धारयति रुचां । स्वेनैव राजत इति स्वराट् प्रत्यक् चैतन्यात्मा ज्ञानलक्षणं ज्योतिर्धारयति । प्रजापतिः परमेश्वरो ज्योतिष्मतीं , ज्योतिर्यच्छ । शक्ति पृथिव्याः पृष्ठे उपरि सादयतु । किमर्थम्? प्राणादिव्यापारार्थम् । हे भगवति ज्योतिष्मति अग्निः परमेश्वरस्तेऽधिपतिः । तया देवतया अङ्गिरस्वद् ध्रुवा सौद । दयानन्दस्तु – ' या विराट् स्त्री विविधासु राजते सा ज्योतिर्विद्याप्रकाशमधारयद् धारयति । यः स्वराट् पुरुषो ज्योतिर्विद्युदादिप्रकाशं धारयेत् सा स च अखिलं सुखं प्राप्नुयात् । हे स्त्रि, योऽग्निविज्ञानवान् ते तवाधिपतिरस्ति तथा देवतया सह त्वमङ्गिरस्वद् ध्रुवा सीद । हे पुरुष, योऽग्निस्तवाधिपत्न्यस्ति तया देवतया त्वमङ्गिरस्वद् ध्रुवा सीद । हे स्त्रि, यः प्रजापतिः पृथिव्याः पृष्ठे तले विश्वस्मै प्राणाय प्राणिति सुखं येन तस्मै, अपानाय अपानिति दुःखं येन तस्मै व्यानाय व्यानिति सर्वान् शुभगुणकर्मस्वभावान् येन तस्मै, ज्योतिष्मती विद्युतमिव त्वां सादयतु । सा त्वं ज्योतिर्विज्ञानं यच्छ । एतस्मा एतं पतिं त्वं सादय ' इति, तदपि यत्किञ्चित् । तादृशसम्बोधनादेर प्रामाणिकत्वात्, अध्याहार बाहुल्याच्च । ' अग्निष्टेऽधिपतिः ' इति तु मूलम्, अग्निस्तवाधिपत्न्यस्तीति भाष्यम्, भाष्यमेतत् कपोलकल्पितमेव । प्राणापानादिव्याख्यानमपि निर्मूलमेव ॥ २४ ॥
पृष्ठ 319
पाठ पढ़ें पाठ छिपाएँ
म ० २५ ] वेदार्थपारिजातभाष्यसहिता २८३ मधु॑श्च॒ माध॑वश्च॒ वास॑न्तिकावृत्त अ॒ग्नेर॑न्त॒ श्लेषोऽसि॒ कल्पे॑ता॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः कल्प॑न्ताम॒ग्नयः पृथङ्मम॒ ज्यैष्ठया॑य॒ सव॑ताः । ये अ॒ग्नय॒ सम॑नसोऽन्त॒रा द्याव पृथि॒वी इ॒मे । वास॑न्तिकात्र॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑िशन्तु॒ तया॑ दे॒वत॑याऽङ्क्ष-र॒स्वद् ध्रुवे सदतम् ॥ २५ ॥
मन्त्रार्थ - चंत्र और वंशाख मास वसन्त ऋतु सम्बन्धी हैं, अथवा हे ऋतुरूप दोनों इष्टकाओं! तुम चीयमान अग्नि के अन्तर में स्थिर होकर श्लेष, अर्थात् दृढ़ता के निमित्त लगाई गई हो । मुझ यजमान की उत्कृष्टता के fafe यह लोक और भूलोक अपने योग्य उपकार की कल्पना करें, जल और औषधियाँ हमारा प्राधान्य सम्पादन करें, समान व्रत वाली अनेक नाम की अग्नि स्वयमातृष्णा आदि इष्टकाएं उत्कर्ष का सम्पादन करें । यह द्यावा-पृथिवी के मध्य में वर्तमान एक मन वाली जो अग्नियाँ हैं, वे चयन की हुई वसन्त सम्बन्धी ऋतु का सम्पादन कर इस कर्म को सहारा दें, जैसे कि देवता इन्द्र की सेवा करते हुए उसकी सहायता करते हैं । हे इष्टके, उस प्रसिद्ध dant के द्वारा स्थापित होकर तुम अंगिरा के समान स्थिर बनो ॥ २५ ॥
' ऋतव्ये मधुश्च माधवश्चेति ' ( का ० श्री ० १७४ । २४ ) । विश्वज्योतिषः पुरस्तात् संल्लग्ने द्वे पद्ये ऋतव्ये प्रागुक्तलक्षणे अनुकमभित उदङ्मुख उपदध्याद् मधुश्च माधवश्चेति मन्त्रेणेति सूत्रार्थः । ऋतुदेवतं यजुः । अष्टोत्तरशताक्षरत्वात् छन्दो नास्ति । मधुचैत्रो मासः । माधवो वैशाख मासः । तावुभो वासन्तिको बसन्त-सम्बन्धिनी ऋतू ऋत्ववयवी । हे ताह वसन्ताख्य ऋतो, त्वं चीयमानस्याग्नेः, अन्तः श्लेषोऽसि यथा कुडघस्या-न्तदय काष्ठपाषाणादयः श्लिष्यन्ते तद्वत् । मम अग्नि चिन्वतो यजमानस्य ज्यैष्ठयाय उत्कर्षार्थम्, इमे द्यावापृथिवी द्यावापृथिव्यौ कल्पेतां स्वोचितमुपकारं सम्पादयताम् । यद्वा मयेत्ति तव स्थाने व्यत्ययः । द्यावाभूमी तवोत्कर्षाय कल्पेतामित्यर्थः । आपच ओषधयश्च कल्पन्तां स्वोचितमुपकारं सम्पादयन्तु । सव्रताः समानं व्रतं कर्म येषां ते, एकस्मिन् चयनाख्यकर्मण्यवस्थिता आहवनीयाद्यग्नयोऽपि पृथक्कल्पन्तां प्रत्येकं स्वस्वोचितं व्यापारं सम्पादयन्तु । इमे द्यावापृथिवी अन्तरा अनयोर्द्यावापृथिव्योर्मध्ये वर्तमानाः समनस एकमनस्का येऽग्नयोऽन्यैरपि चिता, तेऽपि वासन्तिको ऋतु वसन्तसम्बन्धिनो ऋत्ववयवी अभिकल्पमानाः सम्पादयन्तः सन्तः, अभिसंविशन्तु एतत्कर्म आश्रयन्तु । तत्र दृष्टान्त: इन्द्रमिव देवा इति । यथा देवा इन्द्रं परिचरणाय अभिसंविशन्ति अभितः सेवन्ते तद्वत् । हे ऋतव्ये, युवां तया देवतया अङ्गिरसां कर्मणोव ध्रुवे सत्यों सीदतम् उपविशतम् । यद्वा मधुव माधवश्च वसन्तः । वसन्त एव वासन्तिक ऋतु: । विनयादेराकृतिगणत्वात् स्वार्थिकष्ठक् । ऋतू इति द्विवचनम् एकवचनस्थाने, अर्थसम्बन्धात् । यस्त्वमग्नेश्चीयमानस्य संवत्सराख्यस्य अन्तः श्लेषोऽसि, अन्तर्मध्ये व्यवस्थितः श्लेषकोऽसि, तस्य तव द्यावापृथिव्यौ ज्येष्ठचाय ज्येष्ठभावाय कल्पेताम् | अग्नयः पृथङ् मम ज्यैष्ठयाय कल्पन्ताम्, ' अग्नयो हैन पृथग् यदेता इष्टका: ' ( श ० ८७ १६ ) इति श्रुतेः । मम वेति प्राप्ते व्यत्ययेन ममेति च्छान्दसः । याः स्वयमातृष्णादयो नानाभूतास्तव ज्यंष्ठयाय ज्येष्ठत्वाय सव्रताः समानकर्माणः समानं कर्म इष्टकानामग्निचयनं नाम । किञ्च, येऽग्नयोऽन्यैरपि चिताः समनसः समानमनस्का अनयोर्द्यावापृथिव्योरन्तरा मध्ये वर्तन्ते, तेऽपि वसन्तमृतुमभिकल्पमानाः संविशन्त्विति सम्बन्धः । अत्रापि वासन्तिकाविति स्वार्थे तद्धितः । ऋतू इति द्विवचन-मेकवचनस्यार्थ । यथेन्द्रं राजानं परिचरणाय देवा अभिसंविशन्ति, एवं वसन्तमृतुमन्या इष्टकाः परिचरणायाभि-संविशन्तु | अन्यत् सर्वं पूर्ववद् व्याख्येयम् ।
पृष्ठ 320
पाठ पढ़ें पाठ छिपाएँ
२८४ शुक्लयजुर्वेद संहिता [ * अं ० १३ अत्र ब्राह्मणम् -'अथर्तव्ये उपदधाति । ऋतव एते यहतव्ये ऋतूनेवैतदुपदधाति मधुश्च माधवश्च वासन्ति-कावृतू इति नामनी एतनयोरेते नामभ्यामेवैने एतदुपदधाति हे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तं करोति ' ( श ०७४ / २ / २ ९ ) । ऋतव्याख्ययोरिष्टकयोरुपधानं विधत्ते - अथेति । ऋतव्ये इति । ऋतुदेवता-नयोरिति विग्रहे ' वाय्वृतुपिनुषसो यत् ' ( पा ० सू ० ४ / २ / ३१ ) इति देवतार्थे यत्प्रत्यये ' यचि भम् ' ( पा ० सू ० ११४/१८ ) इति भसंज्ञायाम्, ' ओर्गुण: ' ( पा ० सू ० ६ । ४ । १४६ ) इति गुणे, ' वान्तो यि प्रत्यये ' ( पा ० सू ० ६ | १ | ७ ९ ) इत्यवादेशे रूपम् । ऋतुदेवत्येष्ट कोपधानेन ऋतूनामेवोपधानं भवतीत्याह ऋतव एते इति । ऋतव्यसंज्ञकयो-रिष्टकयोरुपधाने मन्त्रं विधाय व्याचष्टे - मधुश्चेति । ऋतुशब्दो मासद्वये मुख्यः । अत्र तदवयवभूते मासे उप-चाराद् वर्तते । मधुश्च माधवश्चेत्येतो वसन्तसम्बन्धिनो ऋतु मासौ, अतश्च तद्देवत्यत्वेन तदात्मिके वामुपदधामि । नामनी इत्यादिना मधुमाधवशब्दोपयोगं दर्शयति । मधुमाधवशब्दाभ्यां चैत्र वैशाखा उच्येते । ननु स्वयमातृष्णादिवद् एकैकस्या इष्टकाया उपधानं विहाय किमिति द्वयोरुपधानम्? तत्राह - द्वे इके इति । इष्टकयोद्वित्वेऽपि सकृत्त्वादनेन एकमेव ऋतुं सम्पादयतीति । वसन्तर्तोः संवत्सरप्रथमावयवत्वात् प्रतिष्ठात्वम् । यत्रावयवे प्रतितिष्ठति सा प्रतिष्ठा । यथा पुरुषः पादयोः प्रतितिष्ठति तद्वत् संवत्सरोऽपि वसन्ततौं प्रतितिष्ठति । प्रथमायाश्चितेस्तूत्तर-चितिलक्षणान् प्रजापतेरवयवान् प्रत्याधारत्वात् प्रतिष्ठात्वम् । अतश्च प्रथमायां चितौ प्रकृतयोरिष्टकयोरुपधाने प्रजापतेः स्वस्य वसन्तर्तुदेवत्यत्वेन तदात्मकं तदिष्टकाद्वयलक्षणं यत्प्रतिष्ठारूपमङ्गमस्ति, तदस्मिन्नेतेन प्रतिनिहितवान् भवतीत्यर्थः । ' प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य प्रतिष्ठेव प्रथमा चितिः "..... ( श ० ७४ । २ । ३१ ) । तयोः स्थानविशेषं विधाय प्रशंसति - ते अनन्तहिते इति । ' ते अनन्तर्हिते विश्वज्योतिष उपदधाति प्रजा वै विश्वज्योतिरनन्त हितास्तत्प्रजा ऋतुभ्यो दधाति ' ( श ० ७ | ४ | २ | ३१ ) | अनन्तहितोपधानेन ऋतुषु प्रतिष्ठापयतीत्यर्थः । अध्यात्मपक्षे -- अत्र कालात्मनो भगवतः स्तुतिः । हे मधुमाधव रूपवसन्तर्तो, त्वं संवत्सरस्य अग्नेः श्लेषोऽसि सर्वषां श्लेषको भवसि । तव ज्येष्ठत्वा द्यावापृथिवी कल्पेताम् | आपश्चौषधयश्च तव ज्येष्ठत्वाय कल्पन्ताम्, काल हेतुकत्वात् प्रागभाव- प्रध्वंसाभावप्रतियोगित्वात्, कालायत्तत्वाच्च । समानकर्माणोऽग्नय आहवनीयाद्याः पृथग् नानाभूतास्तव ज्येष्ठघाय कल्पन्ताम्, तैरपि संवत्सराख्यस्याग्नेरेवाराध्यत्वात् । किञ्च अनयोर्द्यावापृथिव्यो-रन्तरा ( मध्ये ) वर्तमानाः समनस एकमनस्काश्चिता अग्नयो वसन्तमृतुमभिकल्पमानाः सम्पादयन्तः सर्वे देवा इन्द्रमिव संवत्सरात्मानं त्वामेव संविशन्तु । हे मधुमाधवी, युवां क्रत्वभिमानिन्या तया देवतया अङ्गिरस्वत् प्राण इव ध्रुवे स्थिरे सीदतम् । ऋतूनां कालात्मकत्वात् कालस्य च सदातनत्वात् सर्वोत्पत्तिनिमित्तत्वाद् अजातावस्था, जायमानावस्था, जातावस्था च तत्रैव सम्पद्यत इति भावः । दयानन्दस्तु -- ' यथा मम ज्यैष्ठयाय यावग्नेरुत्पद्यमानो ययोरन्तः श्लेषो भवति, तो मधुश्च माधवश्च वासन्तिको सुखायतू कल्पेताम्, याभ्यां द्यावापृथिवी चाप: कल्पन्ताम् पृथगोषधयोऽग्नयश्च कल्पन्ताम् । हे सव्रताः समनसो देवाः, वासन्तिकावृतू येऽत्रान्तराग्नयश्च सन्ति तांश्चाभिकल्पमानाः सन्तो भवन्त इन्द्रमिवाभि-विशन्तु । यथे द्यावापृथिवी तथा देवतया सहाङ्गिरस्वद् ध्रुवे वर्तते, तथा युवां स्त्रीपुरुषौ निश्चितो सोदतम् ' इति, तत्सर्वं वेदस्थ लोकायतिकापादनमेव, तादृशसम्बोधनाद्यसम्भवात् । चैत्रवैशाखयोरग्नेरुत्पत्तिः, तयोरन्त-र्वायु:, तथा युवां स्त्रीपुरुषी निश्चितो सीदतमित्यादिकं सर्वं निर्मूलमेव, युवामित्यनेन ऋतव्यसंज्ञकयो-रिष्टकयोरेव ग्रहणात् ॥ २५ ॥
अषा॑ढासि॒ सह॑माना॒ सहस्वारा॑तीः सह॑स्व पृतनाय॒तः । स॒हस्र॑वीर्यासि॒ सा म जिन्व ॥ २६ ॥