वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 321–330

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 321–330

पृष्ठ 321

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 321 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २६१ ] वेदार्थपारिजातभाष्यसंहिता २८५ मन्त्रार्थ है इष्टके, तुम स्वभाव से शत्रुओं को जीतने वाली हो, तुम शत्रुओं को सहन नहीं कर सकती, अतः शत्रुओं का तिरस्कार करो, संग्राम की इच्छा करने वाले शत्रुओं का तिरस्कार करो, तुम अनन्त बल वाली हो, मुझ पर प्रसन्न होवो ॥ २६ ॥

' अषाढासीत्यषाढाम् ' ( का ० श्री ० १७ | ४१२५ ) । अषाढासंज्ञकामिष्टकां पत्नीकृतां पद्यां प्राग्लक्षणाम् ऋतव्याभ्यां परस्तात् संलग्नाम् अनूके उपदधात्यषाढासीति मन्त्रेणेति सूत्रार्थः । सवितृदृष्टा देवदृष्टा वा इष्टका-देवत्या विरानुष्टुप् । हे इष्टके वमषाढासि शत्रून्न सहते इत्यषाढा केनाप्यपरिभृता, स्वभावतश्च सहमाना सहते विरोधिन इति सहमाना विरोधिपरिभवशोला असि अतोऽरातीरदानशीला येऽस्मभ्यं दातव्यं धनं न प्रयच्छन्ति तथाविधाः प्रजाः सहस्व अभिभव । तथा पृतनायतः पृतनां संग्राममिच्छन्ति ये ते पृतनायन्ति, पृतनायन्तीति पृतनायन्तस्तान् संग्रामेच्छून् शत्रून सहस्व! किञ्च, या त्वं स्वभावतः सहस्रवीर्या बहुसामर्थ्या सा मां जिन्व प्रोणीहि । यद्वा अषाढासि नाम्ना । नाम चान्वर्थम् – ' यदसहन्त तस्मादपादेति ' ( श ० ७ । ४ । २१३३ ) इति श्रुत्यभिप्रायकम् । जिन्वतिः प्रीतिकर्मा । अत्र ब्राह्मणम् --- ' अथाषाढामुपदधाति । इयं वा अषाढेमामेवैतदुपदधाति तां पूर्वार्ध उपदधाति प्रथमा होयमसृज्यत ' ( श ० ७ ४।२ ३२ ) । अथ ऋतव्येष्टकोपधानानन्तरम् अषाढाभिधामिष्टकामुपदध्यात् । अषाढाया मृण्मयेष्टकात्वात् तदुपधाने पृथिव्युपधानमेव सम्पादितं भवतीत्याह -- इयं वा इति । तस्या आधानं चयनस्थलस्य पूर्वभागे कर्तव्यमित्याह तां पूर्वार्ध इति । ननु किमर्थं तथोपधानमिति चेत्तत्राह --प्रथमेति । इयमषाढा उखायाः प्रथमा असृज्यत खलु । ' सा यदषाढा नाम । देवाश्चासुराश्चोभये प्राजापत्या अस्पर्धन्त ते देवा एतामिष्टकामपश्यन्नषाढामिमामेव तामुपादधत तामुपधायासुरान् सपत्नान् भ्रातृव्यानस्मात् सर्वस्मादसहन्त यदसहन्त तस्मादषाढा तथैवैतद्यजमान एतामुपधाय द्विषन्तं भ्रातृव्यमस्मात् सर्वस्मात् सहते ' ( श ० ७ | ४ | २ | ३३ ) | अषाढेति नामधेयप्राप्तिप्रदर्शनपूर्वकमुपधानोपयोगं दर्शयति --- सा यदषाढा नामेत्यादिना । पुरा खलु देवाश्चासुराश्च प्राजापत्याः प्रजापतेरपत्यभूताः ' दित्यदित्यादित्यपत्युत्तरपक्षण्ण्य ' ( पा ० सू ० ४। १८५ ) इत्यनेनाऽपत्यार्थ पत्युत्तरत्वात् ण्यप्रत्यये रूपसिद्धिः । उभये अध्येते स्पर्धा परस्परं सङ्घर्षमकुर्वन् । ते देवा: केनोपायेन असुरान् जयेमेति विचार्य तदुपायत्वेन एनाम् अषाढाभिधामिष्टकामपश्यन् । दृष्ट्वा च तामिष्टकामुपहितवन्तः । तामुपधाय असुरान् सपत्नान् वैरिणो भ्रातृव्यान् इति सपत्नशब्दार्थविवरणम् । भ्रातृशब्दात् भ्रातुर्व्यन् सपत्ने ' ( पा ० सू ० ४ ११११५ ) इति सपत्नार्थे धनो विधानात् । तानसुरान् अस्मात् सर्वस्मात् स्थानाद् असहन्त निराकुर्वन् । यथा तेषु लोकेषु असुरा अवस्थानं न लभन्ते तथा पर्यंबीभवन्नित्यर्थः । यत एतया असुरान् असहन्त तस्मात् अषाढेति नामधेयम् । अत्र असुराणां सहनकथनेन स्वेषामसह्नमर्थतः प्राप्तम्। अतश्च एतस्या इष्टकायाः स्वेषामसहनं प्रत्यपि कारणत्वाद् असहनसाधनत्वेन अषाढेत्युच्यते । ' साद सावा साढेति निगमे ' ( पा ० सू ० ६ | ३ | ११३ ) इति साढशब्दो निपातितः । ततो नञ्समासः । ततो मूर्धन्यादेशो व्यत्ययेन । तथैवैतदिति । यथैव देवा अषाढामुपधाय असुरान्निराकुर्वन् तथैव यजमान एतामुपधाय द्विषन्तं द्वेषं कुर्वन्तं भ्रातृव्यम् अस्मात् सर्वस्मात् प्रदेशान्निराकुरुते । ' यद्वेवाषाढामुपदधाति । वाग्वा अषाढा वाचैव तद्देवा असुरान् सपत्नान् भ्रातृव्यान् अस्मात् सर्वस्माद-सहन्त तथैवैतद्यजमानो वाचैव द्विषन्तं भ्रातृव्यमस्मात् सर्वस्मात् सहते वाचमेव तद्देवा उपादधत तथैवैतद्यजमानो वाचमेवोपधत्ते ' ( श ० ७ | ४ | ३ | ३४ ) | वागात्मनापि तामिष्टकां प्रशंसति यद्वेवेति । वाचैव तद्देवा इत्यादिना वाग्रूपत्वमषाढाया: प्रतिपाद्यते । यतो देवा निर्भर्त्सनादिविशिष्टया वाचैष असुरान् असहन्त तस्मान्निराकरण-साधनत्वसाधर्म्याद् अषाढा वाक् खलु । ततो देववद्यजमानोऽपि वाचैव द्विषन्तं सहते । उक्तन्यायेन वागात्मिका

पृष्ठ 322

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 322 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८६ शुक्लयजुर्वेदसंहिता [ ० १३ सा । अतोऽषाढोपधानेन वाचमेव उपादधत देवाः तथैव यजमानो वाचमेवोपधसे वै वामं यद्धि कि प्राणीयं तत्सर्वं बिर्भात तेनेयं वामभृद् वाग्घ त्वेव वामभृत् प्राणा । ' सेयं वामभृत् । प्राणा प्राणेभ्योऽन्तं धीयते तस्माद् वाग् वामभृत् ' ( श ० ७ | ४ | २ | ३५ ) । इयं वा अषाढेति यत्पृथिव्यात्मकत्वमषाढाया वै वामं वाचि वै उक्तम्, तदुपजीव्य अस्या इष्टकाया वामभृत्संज्ञाप्राप्तिं दर्शयति सेयमिति । वामं वननीयं प्रार्थनीयं वस्तु! प्राणा वै सर्वेराशास्यमानत्वाद् वामं वस्तु । यत्किञ्चित्प्राणवदर्थं जातमस्ति 1 तत्सर्वमियं पृथिवी अतश्च वामदेवशब्देन प्राणानामभिधानात् प्राणानां प्राणिनां चाभेदवित्रक्षयेयं पृथिवी वामभृत्संज्ञका बिर्भात खलु । तदात्मिका अषाढापि वामभृत्संज्ञकेत्यर्थः । ' वाग्वा अषाढा ' इति यदुक्तमषाढाया इति एतत्संज्ञालाभमाह-- वाग्घ त्वेवेति । ' वाचि वै ' इत्यत्र वाक्शब्देन वागिन्द्रियस्थानं वागात्मत्वम्, तदुपजीव्य विधायित्वात् । प्राणशब्देन च श्रोत्रादीनीन्द्रियाणि । प्राणेभ्योऽर्थ वाचि मुखेऽन्नं धीयते मुखं लक्ष्यते, प्राणानु-इति तदात्मिका अषाढापि वामनृदभिधीयते । त एते सर्वे प्राणा यदषाढा । तां पूर्वार्ध उपदधाति , तस्माद्वाग् पुरस्तात्तत्प्राणान् वामभृद् दधाति तस्मादिमे पुरस्तात्प्राणास्तान्नान्यया यजुष्मत्येष्टकया पुरस्तात् प्रत्युपदध्यादेतस्यां चितो नेत् प्राणानपि दधानीति ' ( श ० ७ ४ / २ / ३६ ) । सेयमित्यादिना निष्पन्नमर्थमाह - त एत इति । सेयमित्यादिना त्वषाढाया आधिभौतिकप्राणात्मकत्वमुक्तम् । ' वाग्घ त्वेव ' इत्यादिना त्वाध्यात्मिकप्राणात्मकत्वम् । ततश्च अषाढा इति यद् एषा ते सर्वे प्राणाः । आध्यात्मिकाधिभौतिकत्वादिभेदेनोभयविधा अपि प्राणा इत्यर्थः । त प्राणा इत्येतदपेक्षया लिङ्गवचने । उक्तमषाढाया उभयविधप्राणात्मकत्वमुपजीव्य तस्याः पूर्वभागे उपधान-मुपपादयति तां पूर्वार्ध इति । अषाढाया: पूर्वभागे मन्त्रवत्या इष्टकाया उपधानं निवारयति - तान्नान्ययेति । तत्र हेतु: - एतस्यां चिताविति । ' नेत् ' इति निपातः परिभये वर्तते ( निघ ० १।३।५ ) | अषाढाया प्राणात्म-कत्वादेतस्यां प्रथमायां चितौ तस्याः पुरस्ताद् मन्त्रवदिष्टकोपधाने तद्वघवधानात् प्राणानेवापिहितवान् भवतीति परिभयेन नोपदध्यात् । ' यद्वपस्याः पञ्च पुरस्तादुपदधाति । अन्नं वा आपोऽनपिहिता वा अन् प्राणास्तामनन्तहितामृतव्याभ्यामुपदधात्यृतुषु तद्वाचं प्रतिष्ठापयति सेयं वागृतुषु प्रतिष्ठिता वदति ' ( श ० ७ ४ २३७ ) । ननु यदि समन्त्रकाणामिकानामुपधाने प्राणापिधानम्, तहि अपस्यानामपि मन्त्रविशिष्टाना-मुपधानेन तत्कस्मान्न भवतीत्यत आह- यद्वपस्या इति । अपस्यानामन्नात्मकत्वं तद्विधायक ब्राह्मणे - ' अपां त्वा पाथसि सादयामि ' ( श ० ७५२/६० ) इत्यत्राभिधास्यते । आपश्चान्नात्मिकास्तत्कारणत्वात् । अन्नेन तु प्राणानामपिधानं न सम्भवति, अन्नोपजीवित्वात् प्राणानाम् । अतश्च अन्नात्मकत्वाद् अपस्यानां समन्त्रकाणामप्युपधानं न विरुद्धयते । अथ तस्या ऋतव्ययोः समीपे उपधानं विधाय स्तौति--तामनन्तर्हितामिति । सेयमिति । ऋतुष्ववस्थितेषु प्राणिष्वित्यर्थः । ' प्रजा वै विश्वज्योति: ' इति विश्वज्योतिषः प्रजात्वमुक्तम् । ' वाग्वा अषाढा ' इत्यषाढाया प्रतिपादितम् । ततश्च विश्वज्योतिषः समीपेऽषाढाया उपधाने सति प्रजासु वागुपहिता वाक्त्वं तयोर्मध्ये किमर्थमृतव्ययोरुपधानमित्याशङ्कय तत्कारणमाह- ' तदाहुः । यत्प्रजा विश्वज्योतिर्वाषाढाऽथ भवति । तदकृत्वा कस्मादन्तरेणर्तव्ये उपदधातीति संवत्सरो वा ऋतव्ये संवत्सरेण तत्प्रजाभ्यो वाचमन्तर्दधाति तस्मात्संवत्सरवेलायां प्रजा वाचं प्रवदन्ति ' ( श ० ७ | ४ | २ | ३८ ) । ऋतव एते यहतव्ये ' ( श ० ७ ४ २ २ ९ ) इति ऋतव्ययो-ऋत्वात्मकत्वात् सम्भूय सर्वेषामृतूनां संवत्सरात्मकत्वाद् ऋतव्ये संवत्सरः । ततश्च ऋतव्ययोमंध्ये उपधाने संवत्सरेण प्रजाभ्यो वाचं व्यवहितां करोति । तस्मादिदानोमुत्पत्तेरुपरि संवत्सरे गते सति पश्चात् प्रवदन्ति । ' अषाढासि सहमानेति । असहन्त ह्येतया देवा असुरान् सहस्वारातीः सहस्व प्रजा वाचं यजुस्तथा बन्धुः सहस्रवीर्यासि सा मा जिन्वेति सर्वं वै सहस्र. सर्ववोर्यासि सा मा जिन्वेत्येतत् पृतनायत सादयित्वा इति यथैत्र

पृष्ठ 323

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 323 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २६-२७ ] वेदार्थपारिजातभाष्यसहिता २८७ सूददोहसाऽधिवदति तस्योक्तो बन्धु ' ( श ० ७१४ / २ / ३ ९ ) । प्रकृताया ब्याचष्टे - अषाढासीत्यादिना । यतो देवा एतया इष्टकया असुरान् असहन्त अषाढाया इष्टकाया उपधाने मन्त्रं विदधानो अषाढासीति मन्त्र आह । सहस्रवीर्यासीत्यत्र सहस्रशब्देनापरिमित संख्या निराकुर्वन्, अतः सहनसाधनत्वाद् सहस्रमिति । तथा चेत्थं मन्त्रार्थ: - हे इटके त्वं सहमाना असुराणां निराकर्त्री, विवक्षितेति दर्शयति - सर्व वै अरातीरदानशीलान् शत्रून सहस्व परिभावय । कि, ये पूर्व विरोधिनो न अतो नाम्ना अषाढासि । तस्माद् मिच्छन्ति ते पृतनायन्तः, तानपि परिभावय । किञ्च त्वं सहस्रवीर्यासि अपरिमितवीर्यविशिष्टासि भवन्ति, इतः परं पृतनां संग्राम-विशेषणेन शत्रुनिराकरणसामर्थ्यमुपपादितं भवति । सा त्वं मां जिन्व प्रीणीहि ॥ अनेन प्राग्भागे उपधाने कारणमाह - ' तदाहुः । कस्मादभि स्वयमातृष्णमन्या दुर्वेकादीनां स्वयमातृष्णायाः वै योनी इति ब्रूयाद्देवयोनिरन्यो मनुष्ययोनिरन्यः प्राचीनप्रजनना वै देवाः इष्टका उपधीयन्ते प्राच्य एता इति द्वौ प्राचीरुपदधाति देवयोनेरेवैतद्यजमानं प्रजनयति ' ( श ०७४ / २ / ४० ) । प्रतोचीनप्रजनना मनुष्यास्तद्यदेता: लक्ष्य स्वयमातृष्णाया उपरि भाग इत्यर्थः । ' लक्षणेनाभिप्रती आभिमुख्ये ' ( अभिस्वयमातृणं पा ० स्वयमातृष्णामभि-समासः । अन्या इका उपरि वक्ष्यमाणा उपधीयन्ते एता दूर्वेष्टकादयस्तु तस्याः सू प्राच्य ० २।१११४ ) इत्यव्ययीभाव-यच्चोद्यमस्ति तत्रोत्तरमाह - द्वो वै योनी इति । अर्थाद्देवयोनिरन्यः मनुष्ययोतिरन्यः उपधीयन्ते तत्कथमिति प्राचीनप्रजनना इति । प्राचीने पूर्वभागे प्रजननम् उत्पत्तिस्तत्कारणं वा । एतद्विवृणोति --प्रतीचीन प्रजननाः । ततश्च एता इष्टकाः स्वयमातृष्णाया: प्राची: नागपवर्ग येषां ते तथोक्ता देवाः । मनुष्यास्तु एनं यजमानमुत्पादयति । एतेन मनुष्ययोनेभिन्ना देवयोनिर्नास्तीति वदन्तोऽर्धनास्तिकाः उपदधातीति परास्ता यत्तेन वेदितव्याः देवयोनेरेव । अध्यात्मपक्षे - हे भगवति राजराजेश्वरि, त्वमषादासि शत्रून्न सहते अभिभवतीति तथाविधासि, अतोऽरातीर्बाह्यानान्तरांश्च शत्रून् अभिभव सहसे । इति यावत् । सहमाना शत्रून् त्वमनन्तपराक्रमासि पृतनायतोऽरातीः शत्रूनु सहस्व! स,, अतः सा त्वं मां जिन्व प्रोणीहि स्वचरणारविन्दयोरनुरागं दत्त्वेति शेषः । दयानन्दस्तु - ' हे पत्नि, या त्वमषाढासि शत्रुभिरसह्यमानासि, सा त्वं सहमाना पनि मां सहस्व । या त्वं सहस्रवोर्या असंख्यातपराक्रमासि, सा त्वं पृतनायतोऽरातीरात्मनः पत्यादीन् सोढुमर्हा सती शत्रून सहस्व । यथाहं त्वां प्रोणामि तथा मां पति जिन्व ' इति, तदपि यत्किचित् पृतनां सेनामिच्छतः स्वं मां जिन्वेत्याद्यभावात्, सम्बोधनस्यापि निर्मूलत्वाच्च ॥ २६ ॥ मूले यथाहं त्वां प्रीणामि तथा

मध॒व्या ऋताय॒ मधु॑ क्षरन्ति॒ सिन्ध॑वः । माध्वी॑र्नः स॒न्त्वा वीः ॥ २७ ॥

" t मन्त्रार्थ यज्ञ की इच्छा करने वाले यजमान के निमित्त वायु पुष्परस का वहन करती मधु के समान जल को बहाती हैं । सम्पूर्ण औषधियाँ हमारे लिये मधुर रस से भर जाँय ॥ २७ ॥ है, बहती हुई नदियों

' कुमं दधिमधुघृतेरनक्ति मधु वाता इति ' ( का ० श्र ० १७।४।२७ ) । दधिमधुघृतमश्रित तिसृभिर्ऋग्भिः कुमं कच्छपमनक्तोति सूत्रार्थ: । गोतमदृष्टा विश्वेदेवदेवत्यास्तिस्रो गायत्र्यः धुव्वातेति यज्ञमिच्छतीति तयति, ऋतयतीति ऋतयन् तस्मै ऋतयते । छान्दसो दीर्घः । ऋतायते ऋतं मधुमन्तो रसवन्तो वान्तु इति शेषः । सिन्धवः स्यन्दमाना नद्यः समुद्रा वा मधु । यजमानाय वाता वायवो मधु मधुमद् रसवद् उदकं स्रवन्तु । ओषधीर् ओषधयोऽपि नोऽस्मदर्थं माध्वोर्मधुररसोपेताः मधुरसं सन्तु । क्षरन्ति ' ऋतायते स्त्रावयन्तु । प्राप्तस्य ' क्यचि च ' ( पा ० सू ० ७७४ | ३ ३ ) इतीत्वस्य ' न छन्दस्यपुत्रस्य ' ( पा ० सू ० ७/४/३५ ) इत्यत्र ' अकृत्सार्वधातुकयोर्दीर्घः ' ( पा ० सू ० ७/४/२५ ) इति प्राप्तदीर्घत्वस्य ' अश्वाघस्यात् ' ( पा ० इत्यनेन निषेधात्, क्यचि अश्वाघशब्दयोरेव आत्वविधाननियमाशिषेधेन छान्दसमेव दीर्घत्वमिति भावः । सू ० ७१४१३७ ) इति

पृष्ठ 324

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 324 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८८ शुक्लयजुर्वेद संहिता [ ७० १३ प्रविद्धानां तत्र ब्राह्मणम् -'कुर्ममुपदधाति । रसो वै क्लर्मो रसमेवैतदुपदधाति यो वै स एषां लोकानामप्य ' ( श ० ७ | ५ | १ | १ ) । पराङ्सोऽत्यक्षरत्स एष कूर्मस्तमेवैतदुपदधाति यावानु वै रसस्तावानात्मा स एष इम एव लोकाः - यो वै स इति । कर्मोपधानं विधाय तं रसात्मना स्तौति कुर्ममुपदधातीति । उक्तमेव कूर्मस्य रसत्वं प्रतिपादयति एषां पृथिव्यादिलोकानामप्सु प्रविद्धानां मग्नानां स प्रसिद्धो यो रसः पराङ् अनावृत्तः, अत्यक्षरत् अस्रवत्, सरस एषोऽस्माभिरुच्यमानः कूर्मोऽतस्तमेव रसमेतेन कुर्मोपधानेन उपहितवान् भवति । लोकरसत्व प्रणाल्या कर्मस्य लोकात्मकत्वमेवाह यावानु वा इति । रसो यावान् यावत्परिमाणः आत्मा देहोऽपि तावान् तावत्परिमाणः, रस एव देहस्यान्तर्भावात् । यथा विलीने लोहपिण्डे तत्स्वरूपं तद्रसे सूक्ष्माकारेणावतिष्ठते, तद्वल्लोकरसात्मके कूर्मे लोका अपि सूक्ष्मरूपेण अवतिष्ठन्ते । स एष कूर्म एव सर्वलोकात्मकः । ' तस्य यदधरं कपालम् । अय स लोकस्तत्प्रतिष्ठितमिव भवति प्रतिष्ठित इव ह्ययं लोकोऽथ यदुत्तर. सा द्योस्तद् व्यवगृहीतान्तमिव भवति व्यवगृहीतान्तमेव हि द्यौरथ यदन्तरा तदन्तरिक्ष स एष इम एव लोका इमानेवैतल्लोकानुपदधाति ' ( श ० ७५।१।२ ) । पृथिव्यादिलोकवयात्मकत्वं विविच्य कूर्मशरीरे दर्शयति तस्येति । तस्य कर्मस्य यदधस्तनं कपालं कठिनत्वक् सोऽयं लोकः पृथिवी । अधरकपालपृथिव्योः कस्यचित्साधर्म्यस्य प्रदर्शनात् तदात्मकत्व -मुपपादयति-- तत्प्रतिष्ठितमित्रेति । प्रतिष्ठितम् अधः सर्वत्र पृष्ठतलम् । अधरकपालपृथिव्योस्तथाविधत्वात् तस्य पृथिव्यात्मकत्वम् । अथेति यदुतरं कपालं तद् द्यौः द्युलोकः । तदेवोपपादयति - तद् व्यवगृहीतान्तमिति । विविधम् अवगृहीतोऽवनतोऽन्तः प्रान्तो यस्य तत् । कूर्मस्योपरिकपालं सर्वतो मण्डलाकारेगावनत प्रान्तमिव भवति । चौरपि तथाविधा । तेन तस्य तदात्मकत्वम् । यदधरोत्तरयोर्द्वयोः कपालयोरन्तरा मध्यमस्ति तदन्तरिक्षम् । अतः स एष कर्म इमे पृथिव्यादय एव लोकाः । तस्मा देनेनोपधानेन इमानेव लोकानुपदधाति । ' तमभ्यनक्ति । दध्ना मधुना घृतेन दधि हैवास्य लोकस्य रूपं घृतमन्तरिक्षस्य मध्वमुष्य स्वेनैवैनमेतद्रूपेण समर्धयत्यो दधि हैवास्य लोकस्य रसो घृतमन्तरिक्षस्य मध्वमुष्य स्वेनैवैनमेतद्रसेन समर्धयति ' ( श ० ७५ | १ | ३ ) । विहितस्य कूर्मस्य दधिमधुघृतं रभ्यञ्जनं विधत्ते - तमभ्यनक्तीति । दधिमधुघृतानां पृथिव्यादि-लोकरूपत्वात् तैरभ्यञ्जनैः कुमं स्वकीयेनैव रूपेण समृद्धं करोतीत्याह - दधि हैवेति । घनीभावसाधर्म्याद् दध्नः पृथिबीलोकरूपत्वम्, घृतस्य दध्न उपरिभावित्वात् पृथिव्युपरितनान्तरिक्षलोकरूपत्वम्, मनस्तु वृक्षाचलशिखरादिषूपरिभागेष्ववस्थितत्वाद् द्युलोकात्मकत्वम् । अथवा मधुनो मधुररसत्वेन सोमात्मकत्वात् सोमस्य च द्युलोकेऽवस्थानाद् मधुनो द्युलोकरूपत्वम् । प्रकारान्तरेणापि दध्यादिभिरभ्यञ्जनं प्रशंमति - अथो इति । ' मधुव्वाता ऋतायत इति । यां वै देवतामृगभ्यनूक्ता यां यजुः सैब देवता सर्क सो देवता तद्यजुस्तद्वैतन्मध्देष त्रिचो रसो वै मधु रसमेवास्मिन्नेतद्दधाति गायत्री भिस्तिसृभिस्तस्योक्तो बन्धु ' ( श ० ७।५।१: ४ ) । अभ्यञ्जने मन्त्रं विधत्ते - मधुव्वाता ऋतायत इति । विहितमभ्यञ्जनं रसात्मना प्रशंसति -----यां वं देवतामिति । यां देवतामभिलक्ष्य या ऋग् अनक्ता उच्चारिता यद्देवताप्रतिपाद-कत्वेनोच्यते, सा ऋक् तत्प्रतिपादकत्वात् सैव प्रतिपाद्या देवता, तथैव यजुरपि । अत एव छान्दोग्यादिषु ब्रह्मप्रतिपादकत्वात् प्रणवस्य ब्रह्मरूपता मात्राणां च पादरूपतोक्ता - ' ओमिनीदं ब्रह्म मात्राः पादाः पादाश्च मात्रा: ' इति । साम्नां गीतिरूपत्वान्नार्थान्तरत्वम्, ऋक्ष्वेव तेषामध्यूढत्वात् । तथा सति तत्तद्देवतास्वरूपमेतन्मधु, ' मधुव्वाता ऋतायते इत्यनया ऋचा प्रतिपाद्यत्वात् । ततश्च एष तृचः प्रतिपाद्यत्वेन देवताभूतमध्वात्मकः । तिस्र ऋचो यस्मिन् समुदाये स तृचः । ' ऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि ' ( पा ० सू ० ६ | १ | ३४ वा ० १ ) इति त्रिशब्दस्य सम्प्रसारणमृवर्णस्य च लोपः । ' ऋक्पूरब्धूः पथा मानक्षे ' ( पा ० सू ० ५ | ४ | ७४ ) इति समासान्तः । मधु च रसः रसस्वरूपम् । अतश्चैतेन तृचेन उपधाने सति रसात्मकेऽस्मिन् क्वमें रसमेव निहितवान्

पृष्ठ 325

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 325 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

: मे ० २७-२९ ] वेदार्थ पारिजातभाष्यसहिता १८ ९ भवति । अभ्यञ्जन मन्त्राणां छन्दः संख्ये विधत्ते - गायत्री भिस्तिसृभिरिति । तद्वयाख्यानं प्रागुक्तमित्याह -तस्योक्तो बन्धुरिति । एतच्च ' गायत्रीभिः प्राणो गायत्री प्राणमेवास्मिन्नेतद्दधाति तिसृभिस्त्रयो वै प्राणाः प्राण उदानो ब्यानस्तानेवास्मिन्नेतद्दधाति ' ( ० ६ । ४ । २१५ ) इति षष्ठकाण्डे विहितम् । अध्यात्मपक्षे - ऋतं सत्यज्ञानादिलक्षणं परमार्थतत्त्वमात्मन इच्छतीति ऋतायन् उपासकः परब्रह्मात्मदर्शी वा, तस्मै । वाता वायवो मधु मधुरसं क्षरन्ति स्रवन्ति स्रावयन्ति वा । सर्वस्य परमार्थं ब्रह्मरूपत्वाद् ब्रह्मात्मकं रसमेबानुभावयन्ति । सिन्धवः स्यन्दमाना नद्यः समुद्रा वा मधु क्षरन्ति । ओषधीर् ओषधयोऽपि ' वा च्छन्दसि ' ( पा ० सू ० ६।१।१०६ ) इति पूर्वसवर्णदीर्घः । नोऽस्मभ्यम् उपासनाकारिभ्यो माध्वीः मधुररसोपेताः सन्तु । सर्वमेव वस्तु परमानन्दरसमयं सद् रसमेव क्षरति । दयानन्दस्तु – ' हे मनुष्याः, यथा वाता वसन्ते नो मधु मधुरं यथा स्यात्तथा ऋतायते ऋतमिवाचरन्ति, अत्र वचनव्यत्ययः, सिन्धवो नद्यः समुद्रा वा मधु क्षरन्ति, ओषधीर् ओषधयो माध्वीर्माध्व्यः सन्तु तथा वयमनु-विष्ठेम ' इति, तदपि यत्किचित् निष्प्रमाणमध्याहारव्यत्ययबाहुल्यात् । अन्वयाद्यनुपपत्त्यैव श्रुतार्थपरित्यागे-नाश्रुतार्थकल्पनं युक्तम् ॥ २७ ॥

मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त् पार्थि॑व॒ रज॑ः । मधु॒ द्यौर॑स्तु नः पि॒ता ॥ २८ ॥

1 मन्त्रार्थ - पिता के समान हमारा पालन करने वाला चुलोक अमृतमय हो, माता रूप पृथ्वी सम्बन्धी रज अमृतमय हो, रात्रि और बिन अमृतमय हों, अर्थात् ये सब हमारा मंगल सम्पादन करें ॥ २८ ॥

नक्तं रात्रिः अस्माकम् मधु मधुमयमानन्दकरमस्तु । उतापि च उषस उषःकाला दिवसा वा मधुमद् मधुमन्तः सन्तु । पार्थिवं रजः पृथिवीलोकः, मातृभूतो मधुमद् मधुररसोपेतमस्तु । पिता पितृभूतो द्यौर्द्युलोको मधुमान् मधुररसोपेतोऽस्तु । लिङ्गवचनव्यत्ययः । मधुमद् इत्ययं मतुप् सर्वेषां मधुशब्दानामनुसङ्गी द्रष्टव्यः, साकाङ्क्षत्वात् । अध्यात्मपक्षे - ब्रह्मचिन्तन परायणानां साधकानामपि नोऽस्माकं ब्रह्मध्यानेन नक्तं मधुमयं भवतु | उषस उषःकाला मधुमन्तः स्युः । तथा यत्पार्थिवं रजस्तत्सर्वं मधुमद् भवतु । नोऽस्माकं पितृभूता द्यौर्मध्वस्तु । ब्रह्मात्मसाक्षात्कारेण सवं ब्रह्मरसमयं भवत्वित्यर्थः । दयानन्दस्तु -- ' हे मनुष्याः, यथा वसन्ते नक्तं मधु, उतापि उषसः प्रातर्मुखानि दिनानि मधुमन्ति, पार्थिवं पृथिव्या विकारो द्वयणुकादिरूपो मधुमत्, द्यौः प्रकाशो मधु पिता पालको नोऽस्तु तथा यूयमप्येतं युक्त्या सेवध्वम् ' इति, तदपि यत्किञ्चित्, गौणार्थाश्रयणात्, अध्याहाराश्रयणाच्च ॥ २८ ॥

मधु॑मानो॒ वन॒स्पति॒ मधु॑माँ अस्तु सूर्यः । माध्वीर्गावों भवन्तु नः ॥ २ ९ ॥

मन्त्रार्थ सम्पूर्ण वनस्पतियां हमारे लिये मधुर रस से भर जाँय सूर्य हमारे लिये मधुर रस से सम्पन्न हो जाय, गायें हमें मधुर रस से सम्पन्न दुग्ध प्रदान करें ॥ २ ९ ॥ वनस्पतिः वनस्य पतिर्वनस्पतिः, ' पारस्करप्रभृतीनि च ' ( पा ० सू ० ६ | १ | १५७ ) इति निपातनात् सुट् । अश्वत्थ - न्यग्रोध - प्लक्षादिरस्मदर्थं मधुमानस्तु रसवानस्तु माधुर्यंगुणविशिष्टो भवतु । सूर्योऽपि मधुमान् सन्ताप-राहित्यलक्षणमाधुर्य रसोपेतोऽस्तु । तथा गावो नोऽस्मदर्थं माध्वीर्मधुरक्षीरोपेता भवन्तु । यद्वा वनस्पतिः वृष्टिर्वृष्टेरन्नं सोमो नोऽस्मदर्थं मधुमान् यज्ञसाधनभूतोऽस्तु । सूर्योऽपि मधुमान् यज्ञसाधनभूतोऽस्तु, ' आदित्याज्जायते ३७

पृष्ठ 326

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 326 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ० शुक्लयजुर्वेद संहिता [ अ ० १३ ततः प्रजाः ' ( म ० ३।७६ ) इति स्मृतेः । माध्वीमंधुमत्यो रसवत्यो गावो रश्मयः पशवो वा भवन्तु, ' रसो वै मधु ' इति श्रुतेः । वाय्वादीनि रसवन्ति नो भोग्यानि भवत्वित्यर्थः । अध्यात्मपक्षे - नः अस्माकं साधककुलानां कृते वनस्पतिर्वनानां जलानां संस्काररूपेण स्थितानां पतिः पालको द्रष्टा अन्तर्यामी मधुमान् मधुमयो भवतु । अर्थादन्तःकरणे स्थितास्तदितरवासनाः समाप्ति भजन्ताम् । सूर्यो लोकानुग्रहाय प्रकाशं तन्वन् मधुमान् भवतु अतिवृष्घनावृष्ट्यादिनिवारको भवतु । गाव इन्द्रियाण्यपि माध्वी मधुमन्ति रागद्वेषाद्यपर्याकुलानि भवन्तु । अथवा मधुविद्योपदिष्टब्रह्मज्ञानेन वनस्पत्यादयः सर्वेऽपि मधुमन्तो ब्रह्मरूपा भवन्तु, सर्वमोदहेतुत्वात् तस्यैव ब्रह्मरूपत्वात् । दयानन्दस्तु —– ' हे विद्वांसः, यथा वसन्ते नो वनस्पतिर्मधुमान सूर्यश्च मधुमानस्तु, नो गावो गोतुल्याः किरणा माध्वीर्माधुर्योपेता भवन्तु तथोपदिशत ' इति, तदपि यत्किञ्चित्, मन्त्रे तादृशपदाभावात् ॥ २ ९ ॥ अ॒पा॑ गम्भ॑न् सीद॒ मा त्वा

सूर्योऽभिप्सीन्माऽग्निर्वैश्वान॒रः ।

अच्छन्नपत्राः प्र॒जा अ॑न॒वस॒स्वान॒ त्वा दि॒िव्या वृष्टिः सचताम् ॥ ३० ॥

मन्त्रार्थ - प्रस्तुत मन्त्र में कूर्म रूप में प्रजापति या आदित्य का ग्रहण किया गया है । हे कूर्म, तुम जल के गम्भीर स्थान आदित्यमण्डल में स्थित हो, वहाँ रहते समय सूर्यदेव तुमको सन्तप्त न करें, सम्पूर्ण मनुष्यों के हितकारी अग्निदेव तुमको सन्तप्त न करें, अखण्डित अवयव वाली इटका तुमको निरन्तर देखे और विध्य वर्षा तुम्हारी सेवा करे ॥ ३० ॥

' अरत्निमात्रेऽषाढां दक्षिणेनाव कासूपरिष्टाच्च पुरुषमभिमुखमपां गम्भनिति तिसृभि: ' ( का ० श्री ० १७।४।२८-५।१ ) । अषाढाया दक्षिणस्यां दिश्यरत्निमात्रे पद्यालोकद्वयमन्तरालं मुक्त्वा तृतीये पद्यालोके तत्र पूर्वमेव स्थापितास्ववकासु शेवालेषु अपाम् ' इत्यादिक्कत्रयेण पुरुषसम्मुखं कूर्ममुपदधातीति सूत्रार्थः । स्वराट् पङ्क्तिः, दशाक्षरचतुष्पादा एकाधिका कूर्मदेवत्या । कूर्मः प्रजापतिरादित्यो वा । हे कूर्म, अपां जलानां गम्भन् गम्भनि गम्भीरे स्थाने रविमण्डले स्वं सीद उपविश, ' एतद्धापां गम्भिष्ठं यत्रेष एतत्तपति ' ( श ० ७५ १२८ ) इति श्रुतेः । तत्रोपविष्टं त्वा त्वां सूर्यो माभिनासीद अभितो मा सन्तापयतु । वैश्वानरः सर्वेषामुदरस्थोऽग्निस्त्वामभितो मा सन्तापयतु । त्वम् अच्छिन्नपत्रा अखण्डितपक्षाः प्रजारूपा इटका अनुवीक्षस्व निरन्तरं पश्य । किञ्च, दिव्या दिवि भवा वृष्टिश्च त्वा त्वाम् अनु सचतां सेवताम् । अत्र ब्राह्मणम् -'अपां गम्भन् सीदेति । एतद्धापां गम्भिष्ठं यत्रेष एतत्तपति मा त्वा सूर्योऽभिताप्सीन्मा-निर्वैश्वानर इति मैव त्वा सूर्यो हिसीन्मो अग्निर्वैश्वानर इत्येतदच्छिन्नपत्राः प्रजा अनुवीक्षस्वेतीमा वै सर्वाः प्रजा या इमा इष्टकास्ता अरिष्टा अनार्ता अनुवीक्षस्वेत्येतदनु त्वा दिव्या वृष्टिः सचतामिति यथैवैनं दिव्या वृष्टि-सचेतैवमेतदाह ' ( ० ७५ ११८ ) । अथ कूर्मोपधाने मन्त्रं विधाय व्याचष्टे - अपां गम्भन्नित्यादिना । यत्र स्थाने एष सूर्य एतत्तपनं करोति एतत्खल्वपां गम्भिष्ठं गम्भीरतमं स्थानम्, हृद इत्यर्थः । सूर्यस्य वृष्टिहेतु-त्वात् तस्यावस्थानप्रदेशस्य हृदत्वमुच्यते । ततश्च कूर्मस्थापामन्तरेवावस्थानात् सूर्यावस्थानसमीपदेश लक्षणेऽपां हृदे सोद उपविशेति मन्त्र आह । गम्भन्निति गम्भीरशब्दस्य छान्दसो गम्भन्नादेशः । ततः सप्तम्याः ' सुपां सुलुक् " ( पा ० सू ० ७ / १ / ३ ९ ) इत्यादिना लुकि रूपम् । अतिशयेन गम्भीरमिति विग्रहे ' अतिशायने पा ० सू ० ५।३।५५ ) इतीष्ठनि प्रत्यये, ' टे: ' ( पा ० सू ० ६ | ४ | १५५ ) इति टिलोपे रूपम् । ' अभि-

पृष्ठ 327

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 327 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३० ] वेदार्थपारिजात भाष्यसंहिता २ ९ १ ताप्सीदित्येतत्पदार्थमाह- मैव त्वेति । अच्छिन्नपत्रा इति पत्रशब्देनात्रावयवो लक्ष्यते । तेनात्राच्छिन्नावयवा इत्यर्थः । या इमा उपहिता इष्टकास्ता इमा एव सर्वाः प्रजाः खलु । इष्टकानां प्राजापत्यात्मकत्वेन प्रजापतेश्च सर्वं प्रजाकारणत्वेन तदात्मकत्वादित्यर्थः । रिणन्देन अनिष्टं व्याधिप्रभृतिकमुच्यते, हिंसार्थंकाद् रिष्धातोर्निष्पन्न-त्वात् । तद्रहिता अरिष्टाः । एतस्यैव विवरणम् - अनार्ता इति । तथा सत्यच्छिन्नपत्राः प्रजा अनुवीक्षस्वेत्यनेन एतदुपहितेष्टकारूपाः प्रजा यथा अरिष्टा अनार्ता भवन्ति तथा ता अनुवीक्षस्व अनुपालयेत्येतदुक्तं भवतीत्यर्थः । यथैवैनमिति । एनं कूर्ममनुलक्ष्य यथैव दिव्या वृष्टिः सम्बध्नीयात् एवमनेनाभिप्रायेणैतद् अनु त्वा इत्यादिकमाह एवं मन्त्रं व्याख्याय कुर्मोपधानीयं ब्राह्मणमुध्रियते स यत्कूर्मो नाम । एतद्वै रूपं कृत्वा प्रजापतिः प्रजा असृजत यदसृजताकरोत्तद्यदकरोत्तस्मात् कुर्मः कश्यपो वै कर्मस्तस्मादाहुः सर्वाः प्रजाः काश्यप्य इति ' ( श ० ७५ ११५ ) । अथ कर्म इति नाम्नः प्रवृत्तिनिमित्तं दर्शयति स यत्कर्म इति । एतत्कर्मसम्बन्धि रूपम् आत्मनः कृत्वा प्रजापतिः प्रजा असृजत । असृजतेत्यस्य व्याख्यानम् - यदसृजताकरोदिति । असृजत इति यत् तद् अकरोदित्यर्थः । तत् तेन कूर्मरूपेण अकरोदिति यत् तस्मादकरोदिति कुर्म इति कर्मशब्दो नामधेयमित्यर्थः । बाहुलकात् करोतेरोणादिके मकि प्रत्यये, ' बहुलं छन्दसि ' ( प: ० सू ० ७ १ । १०३ ) इति ऋकारस्य उत्वे, ' उरणपरः ' ( पा ० सू ० १ १ ५१ ) इति रपरत्वे ' हलि च ' ( पा ० सू ० ८२२७७ ) इति दीर्घे च कुर्म इति रूपं सिद्धयति । ' कश्यपो वा ' इत्यादेरयमर्थः कूर्मशब्दस्य करणप्रवृत्तिनिमित्तकत्वात् कश्यपस्य प्रजापतित्वेन प्रजाकारकत्वात् कश्यपः कूर्मः खलु । अत एव सर्वाः प्रजा काव्यस्य इत्याहुर्जनाः । अतश्च कुर्मस्य कश्यपात्मकत्वात् तदुपधानं प्रशस्तमिति भावः । ' स यः स कूर्मोऽसौ स आदित्यः । अमुमेवैतदादित्यमुपदधाति तं पुरस्तात् प्रत्यञ्चमुपदधात्यमुं तदादित्यं पुरस्तात् प्रत्यञ्चं दधाति तस्मादसावादित्य पुरस्तात् प्रत्यङ् धीयते दक्षिणतोऽषाढायें वृषा वै कर्मो योषाषाढा दक्षिणतो वै वृषा योषामुपशेतेऽरत्निमात्रेऽरत्निमात्राद्धि वृषा योषामुपशेते सैषा सर्वासामिष्टकानां महिषी यदपातस्यै दक्षिणतः सन्त्सर्वासामिष्टकानां दक्षिणतो भवति ' ( श ० ७१५ | ११६ ) । अथ तमेव कुमादित्यात्मना प्रशंसति - स य इति । स प्रकृतो यः कूर्मोऽस्ति, असौ विप्रकृष्ट आदित्यः । आदित्यात्मकत्वं मण्डलाकारसाम्यात् । यथा ' आदित्यो यूप: ' इति । एतस्योपधानं आदित्यस्यैवोपधानं कृतं भवति । उक्तमादित्यात्मकत्वमुपजीव्य तस्य चयनप्रदेश एव पूर्वभागे प्रत्यङ मुखत्वेनोपधानमाह -- तं पुरस्तादिति । ननु कूर्मस्य आदित्यात्मकत्वेन पुरस्तात् प्रत्यगुपधानेन आदित्यस्य पुरस्तात् प्रत्यङ् निधानम्, तथा निधानेन च कूर्मस्य आदित्यात्मकत्वमित्यन्योन्याश्रयता? इति चेन्नायं दोषः, कारकज्ञापकयोर्हेतुहेतुमद्भावपरीत्यस्य भूषणत्वानपायात्! यथा धूमोऽग्नेर्ज्ञापको हेतु:, अग्निश्च धूमस्य कारको हेतुरिति तथात्रापि कूर्मस्य पुरस्तात् प्रत्यगुपधानमादित्यस्य पुरस्तात् प्रत्यङनिधाने कारकम्, आदित्यस्य पुरस्तात् प्रत्यगवस्थानं कुर्मस्य एवं -विधोपधाने ज्ञापकम् । पुरस्तात् प्रत्यगुपधानमषाढाया: पुरस्तादुत्तरतो वापि स्यादित्यत आह- दक्षिणत इति । अषाढा इति षष्ठ्यर्थे चतुर्थीति वाच्यम् ' ( पा ० सू ० २२३२६२ वा ० १ ) इति षष्ठ्यर्थे चतुर्थी । उक्तेऽर्थे उपपत्तिमाह --- वृषा वा इति 1 वृषशब्देन सेवनसमर्थः पुमानुच्यते । अषाढाशब्दस्य स्त्रीलिङ्गत्वाद अषाढा योषा खलु, ' उत्तरतो हि स्त्री पुमा समुपशेते ' ( श ० १ । १ । १ । २० ) इति श्रुतेः । पुमान् दक्षिणभागे यषामुपते । उपशयनेन ईप्सिततमत्वाद् योषामित्यत्र ' कर्तुरीप्सिततमं कर्म ' ( पा ० सू ० १ | ४ | ४ ९ ) इति कर्मसंज्ञायाम्, ' कर्मणि द्वितीया ' ( पा ० सू ० २३ २ ) इति द्वितीया । अतश्चास्य कर्मस्य अषाढाया दक्षिणभागे उपधानमुपपन्नमित्यर्थः । दक्षिणभागे विप्रकृष्टेऽप्युपधानं सम्भवदत्यत आह अरत्निमात्र इति । उखाया अपि पुरस्तादषाढायाः शिष्टत्वेन सर्वेष्टकानामपि प्रशस्तत्वाद् दक्षिणभागे उपधानन सर्वष्टकानामपि दक्षिणभागे उपशयनं सिद्धं भवतीति दर्शयति - संषेति ।

पृष्ठ 328

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 328 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्लयजुर्वेदसंहिता [ अ ] ० १३ ' यद्वेव कुर्ममुपदधाति । प्राणो मं कुर्मः प्राणो होमाः सर्वाः प्रजाः करोति प्राणमेवैतदुपदधाति तं पुरस्तात् प्रत्यचमुपदधाति पुरस्तात्तत्प्रत्यञ्चं प्राणो प्राणं दधाति तस्मात्पुरस्तात् प्रत्यङ् धीयते पुरुषमभ्यावृत्तं यजमाने तत्प्राणं दधाति दक्षिणतोऽषाढायें प्राणो वे कुर्मो वागषाढा प्राणो वै वाचो वृषा प्राणो मिथुनम् ' ( श ० ७५ १७ ) । तमेव कुमं प्राणात्मनापि प्रशंसति - यद्वेवेति । प्राणो हीमा इति । प्राणः खलु इमाः सर्वाः प्रजाः करोति, प्राणिभिरेव प्रजानामुत्पादनात् । अतश्च कर्तव्यत्वसाम्यात् प्राण: कर्म इति तदुपधाने प्राणस्यैवोपधानं भवति । तं पुरस्तादित्यादिनोक्तं प्राणात्मकत्वमुपजीव्य पुरस्तात् प्रत्यङ्मुखत्वेन उपधानमुपपाद्यते तस्मादिति । यत एवं तस्मात्कारणात् पुरस्तान्मुखः प्राणवायुः प्रत्यङ्मुखत्वेन धीयते ध्रियते । कर्मस्य प्राणात्मकत्वाद् हिरण्मयपुरुषाभिमुख्येन तस्योपधाने पुरुषस्य यजमानरूपत्वाद् यजमाने प्राणनिधानं भवतीत्याह - पुरुषमभ्यावृत्तमिति । कर्मस्य प्राणत्वादषाढाया वाक्त्वम् तस्य अषाढादक्षिणत उपधानं युज्यत इति दर्शयति-- दक्षिणत इति । स्त्रीत्वसामान्यादषाढाया वागात्मकत्वम् । प्राणो वाचो वृषा पतिः खलु, प्राणोपजीवनेन वाचः प्रवृत्तेः । अतः प्राणो वागित्युभयमपि मिथुनम् । तथा च वागात्मिकाया अषाढाया दक्षिणभागे प्राणात्मकस्य कुर्मस्य उपधानमुपपन्नमिति । अध्यात्मपक्षे - ' हे साधक, त्वमपां कर्मणां लोकानां वा गम्भन् गम्भीरे स्थाने सूर्य मण्डलान्तर्गतेऽन्तर्यामिणि, अथवा अपां शमहेतूनां गम्भन् गम्भीरे स्थाने शान्तिकेन्द्रे भगवति परमात्मनि सीद उपविश, इद ग्रहोपासनया अहङ्ग्रहोपासनया वा इति शेषः । तत्र स्थितं त्वां सूर्यः प्रसिद्धो माभिताप्सीत् । मा च वैश्वानरोऽग्निस्त्वाभि-ताप्सीत् क्रोधः सूर्यो मोहोऽग्निर्वा । अच्छिन्नपत्रा अखण्डितावयवाः प्रजा अनुवीक्षस्व । अनु त्वा दिव्या वृष्टिः परमेश्वरीयकृपा पोपूषपूर्ण दृष्टिवृष्टिः सचतां सम्बध्नीयात् । -दयानन्दस्तु – ' हे मनुष्य, त्वं वसन्तेऽपां गम्भन् गम्भनि धारके मेघ इव, गमधातोरोणादिके मनिन्प्रत्यये लुकि च रूपम्, सीद आस्स्व । यतः सूर्यस्त्वा माभिताप्सीत् तपेत, वैश्वानरो विश्वेषु नरेषु राजमानोऽग्निस्त्वां माभिताप्सीत्, अच्छिन्नपत्रा अच्छिन्नानि पत्राणि यासां ताः प्रजाः, अनु त्वा दिव्या वृष्टिः सचताम्, तथा स्वमनुवीक्षस्व ' इति, तदपि यस्किश्चित् सम्बोधनस्यैव निर्मूलत्वात् । वसन्तपदाध्याहारोऽपि निर्मूल एव । न च वसन्ते मेघो भवति, तस्य वर्षास्ववोदयात् । वसन्ते तदुदयस्त्वकालजलदोदय एव । न च मेघे मनुष्य स्थितिः सम्भवति । न वा मेघेऽवस्थित्या विद्युतस्तापापनोदनम् । किव सर्वमेतद् रागास्पदत्वादनायास प्राप्तमेव, अज्ञातज्ञापकस्य वेदस्य तद्बोधनेऽप्रवृत्तेः ॥ ३० ॥

त्रीन् स॑मु॒द्रान् सम॑सृपत् स्व॒र्गान॒पां पति॑र्वृष॒भं इष्ट॑कानाम् ।

पुरी॑ष॒ वसा॑नः सु॒कृ॒तस्य॑ लो॒के तत्र॑ गच्छ॒ यत्र॒ पूर्व॒ परे॑ताः ॥ ३१ ॥

मन्त्रार्थ - हे कूर्मदेव, तीनों समुद्रों के अधिपति तुम इष्टकाओं की उपधान क्रिया के प्रधान अंग हो । तुमने तीन प्रकार के भोगों के साधन लोकों को भली प्रकार प्राप्त किया है । अब तुम पुरिश का आच्छादन कर उस स्थान में जाओ, जहाँ पुष्पात्माओं के लोक में पुरातम कूर्म अग्नियों से उपहित होकर गये हैं ॥ ३१ ॥

' घयति मध्यमया ' ( का ० भौ ० १७५२ ) । यत् तिसृभिर्ऋग्भिः कुर्मोपधानमुक्तम्, तत्र मध्यमया ' श्रीन् समुद्रान् ' इत्येतया ऋचा हस्तस्थितं कर्म कम्पयेदिति सूत्रार्थः । ततश्च तृतीयायामृचि पठितायामन्ते कूर्ममुपदध्यात् । तत उपरिष्टात् पुनरमकाभिः कुमं प्रच्छादयेत् । कुर्मदेवस्या त्रिष्टुप् । हे कर्म, यो भवान् इष्टकानां

पृष्ठ 329

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 329 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३१ ] वेदार्थपारिजातभाष्यसहिता २ ९ ३ लोकास्तान् वृषभो वर्षिता, अपां जलानां पतिर्मेघः, श्रीन् समुद्रान् समुद्रवन्ति स्वकारणात् समुद्भवन्तीति समुद्रा परस्मैपदेषु ' समसृपत् सम्यक् प्राप्तो भवति । ' सृप्लु गती ' इत्यस्माद् लुङि च्ले: ' पुषादिद्युतालुदितः । स त्वं यत्र पूर्वे परेता ( पा ० सू ० ३।१।५५ ) इत्यङि रूपम् । कीदृशान् समुद्रान्? स्वर्गान् भोगसाधनभूतान्, तत्र तस्मिन् यस्मिन् स्थाने पुरातनाः कूर्मा अन्येष्वग्निषूपहिताः परेताः परागताः सुकृतस्य शोभनकृतस्याग्नेः लोके स्थाने स्थित्वा पुरीषं शुष्कपांसुरूपां मृदं वसान आच्छादयन् अथवा पुरीषं हुतान् पशून् वसान आच्छादयन् गतिकत्वात् गच्छ गमय, यजमानाय यज्ञफलमिति शेषः । यज्ञोपयुक्त पश्वन्तरापेक्षयापि कूर्मस्य प्रजापतिरूपत्वेनोत्कृष्ट फलप्रापकत्वाद्वा । अत्र ब्राह्मणम् -'अथैनमेजयति । त्रीन् समुद्रान् समसृपत् स्वर्गानितीमे वं त्रयः समुद्राः स्वर्गा लोकास्तानेष कुर्मो भूत्वाऽनुस ससर्पापां पतिर्वृषभ इष्टकानामित्यपा ह्येष पतिर्वृषभ इष्टकानां पुरीषं वसानः सुकृतस्य लोक इति पशवो वै पुरीषं पशून् वसानः सुकृतस्य लोक इत्येतत्तत्र गच्छ यत्र पूर्वे परेता इति तत्र गच्छ यत्रेतेन पूर्वे कर्मणेयुरित्येतत् ' ( श ० ७ ५१११ ९ ) । ' अपां गम्भन् त्रीन् समुद्रान् मही द्यो: ' इति । तिसृभिर्ऋग्भिरयं कूर्म उपधीयत इत्युक्तम् । तत्र मध्यमया कर्मचालनम्, तदेतद्दर्शयन् व्याचष्टे – अथेति एजयति कम्पयति । इमे इति । य इमे त्रयः समुद्राः समुद्भवन्ति समुद्गच्छन्तीति समुद्रा लोकाः, स्वर्गाः ' सुखसाधनभूताः, तानेष प्रजापतिः कुर्मो भूत्वानुसंससर्प, प्रजापतेर्लोकत्रयात्मकत्वात् । स एष इम एव लोकाः ( श ० ७ ५/१/२ ) इत्यादिना कर्मस्य लोकत्रयात्मकत्वाभिधानान् प्रजापतिः कूर्मंरूपेण लोकाननुसंससर्प इत्यय-मत्रानुसन्धिः । अपां पतित्वं कुर्मस्य तत्रैव सर्वदावस्थानात् । वृषभशब्देन श्रेष्ठत्वं लक्ष्यते । अथवा इष्टकात्मनां । स्त्रीणां वृषभः पुमान् । पुरीषशब्देन पशवोऽभिधीयन्ते । तान् वसान आच्छादयन्, यजमानस्य सम्पादयन्नित्यर्थः अथवा इष्टकारूपान् पशून् श्राच्छादयन्निति । एतेनोपधानलक्षणेन कर्मणा पूर्वमुपहिताः कुर्मा यत्र परेता मृताः प्राप्नुवन्, तत्र गच्छेत्युक्तं भवति । दयानन्दस्तु - ' हे विद्वन्, त्वं यथा अपां पतिः प्राणानां रक्षको वृषभो वर्षक: श्रेष्ठो वा पुरीषं त्रीन् पूर्णसुखकरमुदकं वसानो वासयन् सन् इष्टकानाम् इज्यन्ते सङ्गम्यन्ते कामा यः पदार्थैस्तेषां अधोमध्य मोर्ध्वस्थान् समुद्रान् समुद्रवन्ति पदार्था येषु तान् भूतभविष्यद्वर्तमानान् समयान् लोकान् स्वर्गान् स्वः सुखं गच्छन्ति येभ्यस्तान् समसृपत् संसर्पति तथा सर्प । यत्र सुकृतस्य सुष्ठु कृतो धर्मो येन तस्य लोके द्रष्टव्ये स्थाने मार्गे पूर्वे प्राक्तना जनाः परेताः सुखं प्राप्तास्तत्र त्वमपि गच्छ ' इति, तदप्यसङ्गतम्, संस्कृतप्राकृतयोः स्वकृतव्याख्यानयोः परस्परं विरोधात् । संस्कृते ' समुद्रान् ' इत्यस्य भूतादिसमयानित्यर्थः कृतः, प्राकृते तु लोकानिति । स्वर्गपदव्याख्यानेनापि लोक एवार्थो व्यज्यते स्वः सुखं गच्छन्ति येभ्य इति । यदि समुद्रशब्दस्य भूतादिसमया अर्थोऽभिप्रेयते, तदा तत्राधोमध्य मोध्वंत्वं कथं सङ्गच्छते? श्रीनित्यस्य कथं तादृशोऽर्थः? सर्वमेतत् तस्य स्वसिद्धान्तविरुद्धम् । नहि दयानन्दः स्वर्गादिलोकानभिप्रेति । धात्वर्थानुसारेण वसान इत्यस्य आच्छादयन्नित्यर्थो भवति । संस्कृते वासयन्नित्युक्तम्, भाषायां धारयन्नित्युक्तम् । एवमन्या अप्यसङ्गतय ऊह्याः । अध्यात्मपक्षे - हे साधक, यो भवान् त्रीन् समुद्रान् त्रिसंख्याकान् लोकान् स्वर्गान् स्वर्गतुल्यान् समसृपत् प्राप्तोऽभवत् । कीदृशो भवान्? अपां पतिर्लोकानां पालकः, इष्टकानामभीष्टानां वृषभो वर्षिता । स त्वं पत्र पूर्वे पुरातनाः परेताः परागताः सुकृतस्य सुसम्पादितस्योपासनादेर्लोके फले गच्छ प्राप्नुहि ॥ ३१ ॥

पृष्ठ 330

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 330 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२ ९ ४ शुक्लयजुर्वेद संहिता [ अ ० ] १३

म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑िमक्षताम् । पि॒तां नो भरो॑मभिः ॥ ३२ ॥

मन्त्रार्थ - विशाल द्युलोक और भूलोक हमारे इस यज्ञ को अपने - अपने भागों से पूर्ण करें, कृपा रूपी जल की वर्षा करें, हिरण्य, धन - धान्य, पशु - प्रजा आदि अनेक वस्तुओं के द्वारा, जो कि प्रयोजनीय हों, उन उन अपने भागों से हमारे घर को परिपूर्ण कर दें ॥ ३२ ॥

मेधातिथिष्टा इयं कण्डिका ( ८1३२ ) इत्यत्र व्याख्याता । तत्रेदं ब्राह्मणं नोद्धतम् । अत्रोद्ध्रयते— ' मही द्यौः पृथिवी च न इति । महती द्यौः पृथिवी च न इत्येतदिमं यज्ञं मिमिक्षतामित्तोमं यज्ञमवतामित्येतत् पितृतां नो भरीमभिरिति बिभृतां नो भरीमभिरित्येतद् द्यावापृथिव्ययोत्तमयोपदधाति द्यावापृथिव्यो हि कुर्मः ' ( श ० ७ ५ | १ | १० ) । ' तस्य यदधरं कपालमय १७ स लोक: ' ( श ० ७५ १२ ) इत्यादिना कर्मस्य अधस्तनो-परितनयोः कपालयोर्द्यावापृथिवी रूपस्योक्तत्वात् कुर्मो द्यावापृथिव्यः अतस्तदुपधाने उत्तमाया ऋचो द्यावापृथिव्यत्वं प्रशस्तमिति यावत् । ' द्यावापृथिवीशुनासीरमरुत्वत नोषोम ' ( पा ० सू ० ४ / २ / ३२ ) इति देवतार्थंकयत्प्रत्ययान्तो द्यावापृथिव्यशब्दः ॥ ३२ ॥

विष्णोः कर्माणि पश्यत यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ यु॒ज्य॒ सखा॑ ॥ ३३ ॥

मन्त्रार्थ - हे ऋत्विजों, परमात्मा विष्णु के सृष्टि संहार आदि कर्मों को देखो, क्योंकि वह इन्द्र का अनुरूप मित्र है । उसने लौकिक वैदिक कर्मों को रचा है ॥ ३३ ॥

' उलूखलमुसले स्वयमातृष्णामुत्तरेणारत्निमात्रे ओदुम्बरे प्रादेशमात्रे चतुरस्रमुलूखलं मध्य संगृहीतमूध्वं वृत्तं मुसलं दक्षिणमुलूखलाद्विष्णोः कर्माणीति ' ( का ० श्री ० १७ ५ ३ ) । स्वयमातृष्णामुत्तरेण स्वयमातृष्णामध्या-दरनिमात्रे तृतीये लोके औदुम्बरे प्रादेशमात्रे उलूखलमुखले स्थापयेत् । तत्रोलूखलं चतुष्कोणं मध्यप्रदेशे संकुचितं प्रयोजनाभावादखातमूर्ध्वमुत्तरे उपदध्यात् । मुसलं च वृत्तमुलूखलाद् दक्षिणमुपदध्यात् । पद्ये चैते भवतः । अत्रोलूखलोपधाने पूर्वमर्थात् परिमाणं खातं कृत्वा तत्रोलूखलाद्युपधानं तथा कर्तव्यम्, यथा सिकता -पूर्णाया उखाया उपरि उपहितानि पशुशिरांसि पार्वेष्टकाभिः समोच्छ्रयाणि भवन्ति, विष्णोः कर्माणि पश्यतेति मन्त्रेणेति सूत्रार्थः । इयमपि कण्डिका ( ६ ४ ) इत्यत्र व्याख्यात पूर्वा 1 / अत्र ब्राह्मणम् -- ' अथोलूखलमुसले उपदधाति । विष्णुरकामतान्नादः स्यामिति स एते इष्टके अपश्य-दुलूखलमुसले ते उपाधत्त ते उपधायान्नादोऽभवत् तथैवैतद्यजमानो यदुलूखलमुसले उपदधाति येन रूपेण यत्कर्म कृत्वा विष्णुरन्नादोऽभवत्तेन रूपेण तत्कर्म कृत्वाऽन्नादोऽसानीति तदेतत्सर्वमन्नं यदुलूखलमुसले उलूखलमुसलाभ्या ७, ह्येवान्नं क्रियत उलूखलमुसलाभ्यामद्यते ' ( ० ७ ५। १११२ ) । कुर्मोपधानानन्तर मुलूखलमुसलयोरुपधानं विधत्ते-अथेति । अन्नादत्वसाधनतया तत्प्रशंसति - विष्णुरित्यादिना । येन प्रकारेण यत्कर्म कृत्वा विष्णुरन्नादोऽभवत्, तेन प्रकारेण तत्कर्म कृत्वा अहमन्नादोऽसानीत्यभिप्रायेण यजमान उलूखलमुसले उपदधाति यतः, अतो यथैव विष्णुरभृत् तथैव एतद् एतेन यजमानोऽप्यन्नादो भवति । अन्नादनसाधनतामुपपादयति - तदेतदिति । यत उलूखलमुसलाभ्यामन्नं क्रियते, ताभ्यां व्रीह्मादीनां वितुषीकरणात्, वितृषीकृतानामेवान्नत्वादन्नमप्यु-लूखलमुसलाभ्यामेव क्रियते । अतश्चोलूखलमुसले इति यदेतत् कृत्स्नमन्नम्, तथा सत्यन्नादन साधनवा -नयोरुपपद्यत इति भावः । ' ते रेतः सिचोर्वेलयोपदधाति । पृष्टयो वै रेतः सिचो मध्यमु पृष्यो मध्यत एवास्मितदनं दधात्युत्तरे उत्तरमेवास्मादेतदनं दधात्य रत्निमात्रेऽरत्निमात्राद्वघन मद्यते ' ( श ० ७१५ । १ । १३ ) ।