वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 331–340
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 331–340
पृष्ठ 331
पाठ पढ़ें पाठ छिपाएँ
म ० ३३ ] वेदार्थपारिजातभाष्यसहिता २ ९ ५ प्राग्विहितयो रेतः सिचोरिष्टकाविशेषयोः स्थानविशेषं विधाय स्तौति - ते इति । वेलया वेलायां प्रान्ते | सप्तम्यर्थे तृतीया । एते उलूखलमुसले उपदध्यात् । पृष्टिशब्देन कटिपार्श्वस्थ अस्थिविशेषो उच्येते । अवयवापेक्षया बहुवचनम् । रेतः सेचनसाधनत्वसामान्याद् रेतः सिचोः पृष्टिरूपता । शरीरमध्येऽवस्थानात् पृष्टयो मध्यं हि, अतश्च तत्प्रान्तेऽनयोरुपधानाद् मध्यभाग एवास्मिन् प्रजापती चीयमानाग्निरूपे एतदन्नं निहितवान् भवति 1 । दिगन्तरेऽपि रेतः सिचोरुपधानं सम्भवेदित्यत आह-- उत्तरे इति । स्वयमातृष्णाया प्रमाण-विशेषमाह -- अरत्निमात्र इति । लोके ह्यरनिमात्र प्रदेशादन्नमादायाभ्यवह्रियते । अतश्चान्नरूपयोरनयोरुपधानं साबति प्रदेशे कर्तव्यम् । ' प्रादेशमात्रे भवतः । प्रादेशमात्रो वे गर्भो विष्णुरन्नमेतदात्मसम्मितमेवास्मिन्नेतदन्नं दधाति यदु वा आत्मसम्मितमन्नं तदवति तप्न हिनस्ति यद् भूयो हिनस्ति तद्यत् कनीयो न तदवति ' ( श ० ७।५।१।१४ ) | प्रकृते उलूखलमुसले प्रादेशमात्र कर्तव्ये इत्याह- प्रादेशमात्रे भवत इति । परिमाणविशेषोपादाने कारणमाह - प्रादेश-मात्रो वा इति । विष्णुर्यज्ञश्चीयमानाग्निरूपस्तदानीमनिष्पन्नत्वेन गर्भः खलु । अतो यज्ञः प्रादेशमात्रः, लोके गर्भाणां तावत्प्रमाणत्वात् । उलूखलमुसलं चान्नम्, ' तदेतत्सर्वमन्नम् ' इत्युक्तत्वात् । ततश्चास्मिन गर्भरूपे विष्णो, एतेन आत्मसदृशप्रमाणमेवान्नं दधाति । अन्नस्य आत्मानुरूपप्रमाणपरिग्रहे को लाभस्तदतिक्रमे वा को दोष इत्यत आह- यदु वा इत्यादि । आत्मसम्मितमन्नमात्मानं रक्षति, न तु हन्ति । यत्तु ततोऽधिकं न्यूनं वा तत्तथा न करोति । अल्पस्य बलाङ्ग पोषानाधायकत्वात्, अधिकस्य च दुर्जरत्वेन पीडाकरत्वादित्यर्थः । ' औदुम्बरे भवतः । ऊ रस उदुम्बर ऊर्जमेवास्मिन्नेतद्रसं दधात्यथो सर्व एते वनस्पतयो यदुदुम्बर एते उपदधत् सर्वान् वनस्पतीनुपदधाति रेतः सिचोर्वेलयेमे वै रेतः सिचावनयोस्तद्वनस्पतीन् दधाति तस्मादनयोर्वनस्पतयश्चतुःस्रक्ति भवति चतस्रो वै दिशः सर्वासु तद्दिक्षु वनस्पतीन् दधाति तस्मात् सर्वासु दिक्षु वनस्पतयो मध्ये संगृहीतं भवत्यलूखलरूपतायै ' ( श ० ७ ५१ १५ ) । अनयोर्वृक्षविशेषं विधाय स्तोति --- औदुम्बरे इति । उदुम्बरविकारो उदुम्बरनिष्पन्नो भवत इत्यर्थः । ऊर्ग बलकरो रसः । उदुम्बरस्य ऊर्भूपत्वं तैत्तिरीयके श्रूयते - ' देवा वाऊजं व्यभजन्त तत उदुम्बर उदतिष्ठन ' ( तै ० सं ० १ २३५ ) । तथा च एतेन अस्मिन् प्रजापतौ ऊर्जमेव रसमेव निदधाति । सर्ववनस्पतीनामुपधानसिद्ध घर्थमुदुम्बरस्य सर्ववनस्पतिरूपतामाह- अथो सर्वं इति । एते उलूखल-मुसले उपदधद् उपदधानः सर्वान् वनस्पतीन् उपहितवान् भवति । रेतः सिग्वेलायामुपधानेन द्यावापृथिव्योवनस्प त्युपधानं प्रतिपादयति- रेतः सिचोर्वेलयेति । इमे द्यावापृथिव्यौ खलु रेतः सिचाविष्टके । तत् तेन अनयोर्द्यावा-पृथिव्योवनस्पतीनुपहितवान् भवति । तस्माद् द्यावापृथिव्योवनस्पतयः सन्तीति शेषः । उलूखलस्य चतुष्कोण-त्वाभिधानेन सर्वदिक्षु वनस्पत्युपधानमाह-- चतुःस्रतीति । चतस्रः सक्तयः कोणा यस्य तत् चतुःस्रक्ति । तथा मध्ये संगृहीतं मध्यप्रदेशे संकुचितम् । किमर्थम्? उलूखलरूपताय । एवंरूपं हि प्रसिद्ध मुलूखलम् । एतस्मादेव वाक्यशेषादुलूखलमेव चतुःस्रक्ति मध्यसंगृहीतं च भवति, न मुसलम् । ' यद्वेोलूखलमुसले उपदधाति । प्रजापतेवित्रस्तात् प्राणो मध्यत उदचिक्रमिषत्तमन्नेनागृह्णात्तस्मात् प्राणोऽनेन गृहीतो यो ह्येवान्नमत्ति स प्राणिति ' ( श ० ७ | ५ | १ | १६ ) | अथ विश्लिष्टावयवस्य प्रजापतेः प्राणमत्र-मूर्जमस्मिन्नग्नो प्रतिनिधातुमितिहासमाह - यद्वेवेति । मध्यतो मध्यप्रदेशात् प्राणोऽशेषवृत्तिर्वायुरुदचिक्रमिषद् उत्क्रमितुमैच्छत् । तं प्राणमुत्क्रमितुमिच्छन्तमन्नेनादनीयेनागृह्लाद गृहीतवान् वशीकृतवान्, प्रजापतिरिति शेषः । अत एव यो ह्यन्नमत्ति स प्राणिति चेष्टते । ' प्राणे गृहीतेऽस्मादन्नमुदचिक्रमिषत् तत्प्राणेनागृह्णात् तस्मात् प्राणेनान्नं गृहीतं यो हृव प्राणिति सोऽन्नमत्ति ' ( श. ०७५ | ११७ ) | प्रसन्ना कण्डिका । ' एतयोरुभयोर्गृहीतयोः ।
पृष्ठ 332
पाठ पढ़ें पाठ छिपाएँ
२ ९ ६ शुक्लयजुर्वेदसंहिता [ अ ० १३ अस्मादूर्गुदचिक्रमिषत्तामेताभ्यामुभाभ्यामगृह्णात् तस्मादेताभ्यामुभाभ्यामूगं गृहीता यो ह्येवान्नमत्ति स तस्मादेते प्राणिति तमूर्जंयति ' ( श ० ७ | ५ | १ | १८ ) । ' ऊर्जि गृहीतायाम् । अस्मादेते उभे उदचिक्रमिषतां ते ऊर्जाऽगृह्णात् बलयतीति ऊगं उभे ऊर्जा गृहीते य ७ ह्येवोर्जयति स प्राणिति सोऽन्नमत्ति ' ( श ० ७ ५ । १ । १ ९ ) । ऊर्जयति २।७।१६ ) । बलम् । ' ऊर्जं बलप्राणनयो: ' इति धातोरुगिति । यद्वा बलहेतु रन्न रसोऽप्यूगित्यभिधीयते ( निघ ० शेषा कण्डिका सुप्रसन्ना, स्पष्टार्थेति यावत् । ' तान्येतान्यन्योन्येन गृहीतानि । तान्यन्योन्येन गृहीत्वात्मन् प्रापादयत तदेतदन्नं प्रपद्यमान गृहीतानि ततस्तान- सर्वे देवा अनुप्रापद्यन्तान्नजीवन होद, सर्वम् ' ( श ० ७ ५। १।२० ) । यतस्तानि सर्वाण्यन्योन्येन जीवनं यस्य तत्, न्योन्येन गृहीत्वा प्रजापतिरात्मनि प्रापादयत प्रापयत् । यदिदं सर्वमिन्द्रियजातमन्नजीवनमन्नेन देवा इन्द्रियाणि तदभावे सर्वेषामेव स्वस्वव्यापारासमर्थत्वात् । अतोऽस्मिन् प्रजापती प्रपद्यमानमन्नं सर्वे भूत्वा प्रपन्नान्यभूवन् । ' तदेष श्लोकोऽभ्युक्तः ' ( श ० ७ ५। १ । २१ ) । एष च मन्त्र इत्थम् - ' तद्वै स प्राणोऽभवन्महान् प्राणोऽभवत् । प्रजापतिः । भुजो भुजिष्या वित्त्वा यत् प्राणान् प्राणयत् पुरि ॥ ' इति । तद्धि तदाऽन्नलाभाय स वै खलु । भोगसाधन-प्राणशब्देनेन्द्रियाण्युच्यन्ते । ततश्च सेन्द्रियोऽभूत् । इन्द्रियाणि यदा तं प्रापद्यन्त तदा स महानभूत् शरीरे प्राणान् प्राणयत् त्वेन भुजः प्राणा उच्यन्ते, भुजिष्याशब्देन भोग्यत्वादन्नम् । एतत् सर्वं वित्त्वा लब्ध्वा पुरि । अथ स्वव्यापारसमर्थानकरोत् । यत एवं प्राणयत् तस्मादिन्द्रियाणि प्राप्यन्त इति व्युत्पत्त्या प्रकृते प्राणा किमायातमित्यत अभूवन् प्रजापतिस्तान् यत् प्राणयत्, तस्मात् सोऽपि प्राणोऽभूत् । प्रजापतेविस्रस्तादित्याद्युपक्रमेण ( श ० ७।५।१।२१ ) । आह - ' यो वै स प्राण एषा सा गायत्र्यथ यत्तदन्नमेष स विष्णुर्देवताऽथ या सोर्गेष स उदुम्बरः ( वा ० ' सं ० ६।४ ) इत्यत्र स पूर्वोक्तः प्रजापतिसम्बन्धी यः प्राणोऽस्ति संषा गायत्री, ' विष्णोः कर्माणि ' । संषेति स्त्रीलिङ्ग यद् गायत्र्यात्मकं छन्दः स प्राण इत्यर्थः । प्रकृतोपधान मन्त्रसन्निहितत्वादेषेति , गायत्र्यपि परामृश्यते पादभेदेन तथैव । अतः विधेयापेक्षम् । उत्तरत्राप्येवं द्रष्टव्यम् । प्राणो वृत्तिभेदेन त्रेधा भिद्यते सादृश्यात् प्राणो गायत्रीत्युक्तम् । अथ यत्प्रजापतिसम्बन्धि अन्नमस्ति स एष विष्णुर्देवता ॥ उदुम्बरस्य विष्णुरिति यज्ञोऽभिधीयते । भोगसाधनस्वसामान्यादन्नस्य विष्णुरूपत्वम् । अथ या सा ऊर्क स एष उदुम्बरः बलकरसत्वादूर्गात्मकत्वम् । ' सोऽब्रवीत् । अयं वाव मा सर्वस्मात् पाप्मन उदभार्षीदिति यदब्रवीदुदभार्षीन्मेति तस्मादुदुम्भर शिरो वै उदुम्भरो प्राणानां ह बं तमुदुम्बर इत्याचक्षते परोक्षं परोक्षकामा हि देवाः सैषा सर्वेषां प्राणानां योनिर्यदुलूखल " कृच्छ्राद् मामयं योनिः ' ( श ० ७७४।१।२२ ) । उदुम्बरोलूखलशब्दनिर्वचनम् - सोऽब्रवीदिति । सर्वस्मात् पाप्मनः । उदभार्षी-हि उदभाषद् उद्धृतवान् इति स प्रजापतिरब्रवीत् । कृच्छ्रादुद्धरणं चास्यान्नप्राणयोरवरोधकत्वात् परोक्षमाचक्षते । पारोक्ष्येणाभिधानं न्मामिति यदब्रवीत् तस्माद् ऊर्ग उदुम्भरोऽभूत् । तमेव देवा उदुम्बर इति यदब्रवीत् तस्मादुरूकरं गौरवाय कल्पत इति देवानां परोक्षकामत्वम् । तथा मे उरु अधिकमकरद् अकार्षीदिति पाप्मन देवा उलूखलमिति परोक्षमाचक्षते । उदुम्बरस्योर्गात्मकत्वाद् उलूखलस्य च । शिरः औदुम्बरत्वाद् सर्वेषां प्राणानामिन्द्रियाणां उरुकरणं उदभार्षीदित्युक्तं च सम्पद्यते । उलूखलं शिरोरूपेण प्रशंसति - सैषेत्यादिना यत् संषापि सर्वेषां योनिः खलु । मुखस्यापि शिरः प्रदेशत्वात् तत्रैव सर्वेन्द्रियाणामुत्पत्तिः । तथा सत्युलूखलमिति प्राणानां योनिः । ' तत्प्रादेशमात्रं भवति । प्रादेशमात्रमिव हि शिरश्चतुःस्रक्ति भवति चतुःस्रक्तीव हि शिरो मध्ये संगृहीतं । भवति मध्ये संगृहीतमिव हि शिरः ' ( श ० ७।५।१।२३ ) । उलूखलस्य शिरः साधर्म्य सम्पादनादेतदुपपद्यते
पृष्ठ 333
पाठ पढ़ें पाठ छिपाएँ
म ० ३३-३४ ] वेदार्थ पारिजातभाष्यसहिता २ ९ ७ तत्प्रदर्श्यते तदिति । तदुलूखलं प्रादेशमात्रं चतुःस्रक्ति मध्ये च संगृहीतं भवति । शिरोऽपि तथैवेति सर्वप्राणि-योनित्वमुलूखलस्योपपद्यत इत्यर्थः । ' तं यत्र देवाः समस्कुर्वन् । तदस्मिन्नेतत्सर्वं मध्यतोऽदधुः प्राणमन्नमूर्जं तथैवास्मिन्नयमेतद्दधाति रेतः सिचोर्वेलया पृष्टयो व रेतः सिचो मध्यमु पृष्टयो मध्यत एवास्मिन्नेतत्सर्वं दधाति ' ( श ० ७।५।१।२४ ) । तं यत्रेति । यत्र यदा देवास्तं प्रजापति संस्कृतवन्तस्तदेतस्मिन् प्राणमन्नमूर्जमित्येतत्सर्वं मध्यप्रदेशे निहितवन्तः । तस्मात्तथैवायं यजमानोऽप्यनेनोपधानेनैतत्सर्वं सम्पादयति । ' विष्णोः कर्माणि पश्यतेति । atra कर्म विष्णोर्वीर्याणि पश्यतेत्येतद्यतो व्रतानि पस्पश इत्यन्नं वै व्रतं यतोऽन्न १७ स्पाशयाचक्र इत्येतदिन्द्रस्य युज्यः सखेतीन्द्रस्य ह्येष युज्यः सखा द्विदेवत्ययोपदधाति द्वे ह्युलूखलमुसले सकृत् सादयति समानं तत्करोति समान ७ ह्येतदन्नमेव सादयित्वा सूददोहसाऽधिवदति तस्योक्तो बन्धुः ' ( श ० ७।५।१।२५ ) । उलूखलमुसलयो-रुपाने मन्त्रं विदधानो व्याचष्टे - विष्णोः कर्माणीति । कर्मशब्देन वीर्यं विवक्षितम् । अतश्च हे जनाः, विष्णोर्यज्ञस्य वीर्याणि पश्यतेत्येतदुक्तं भवति । व्रतशब्देनान्नमुच्यते । यतो वीर्यंतोऽन्नानि पस्पशे स्पाशयाश्चक्रे, स्पर्शयमानश्च स्वजनैर्लम्भयामासेत्यर्थः । एष यज्ञ इन्द्रस्य युज्यो योग्यः सखा, तस्य तृप्तिहेतुत्वात् । उलूखलमुसलयोद्वित्वात् तदुपधानमन्त्रस्य द्विदेवस्यत्वमुपपन्नमिति दर्शयति – द्विदेवत्ययेति । शेषं प्रसन्नम् । दयानन्दस्तु – ' हे मनुष्याः! य इन्द्रस्य जीवस्य युज्यः सखाऽस्ति यतोऽयं विष्णोः कर्माणि जगत्सृष्ट्यादीनि व्रतानि सत्यभाषणादीनि च पस्पशे स्पृशति, तस्मात् तस्य एतानि यूयमपि पश्यत ' इति, तदपि यत्किञ्चित्, इन्द्रपदस्य जीवार्थ हेतुत्वानुक्तेः । युज्य इत्यस्य उपासनायोग्य इत्यपि नार्थः, विशेषणस्य व्यर्थत्वात् । न च सृष्ट्यादीनि जीवः स्पृशति, कर्मणाममूर्तानां स्पर्शायोग्यत्वात् । अध्यात्मपक्षे – ' हे भक्ताः, यूयं विष्णोर्व्यापनशीलस्य परमेश्वरस्य कर्माणि जगत्पालनादिलक्षणानि पश्यत, यतो व्रतान्यग्निहोत्रादिलक्षणान्यनुष्ठितवन्तो यजमानाः । स विष्णुः इन्द्रस्य देवराजस्य, युज्यो योग्यः सखा सहायकः ॥ ३३ ॥
ध्रुवाऽसि॑ ध॒रुण॒तो ज॑ज्ञे प्रथ॒ममे॒भ्यो योनि॑भ्यो॒ अधि॑ जा॒तवे॑दाः ।
स गोया त्रिष्टुभोग्नष्टुभा॑ च दे॒वेभ्यो॑ ह॒व्यं व॑ह॒तु प्रजानन् ॥ ३४ ॥
मन्त्रार्थ - - हे उखे, तुम जगत् को धारण करने वाली हो, स्थिर हो । अग्निदेव पहले उखा में ही प्रकट हुए थे । वे फिर अपने कारण में से प्रकट होते हैं, वे अपने अधिकार को भली प्रकार जानते हैं । गायत्री, त्रिष्टुप् और अनुष्टुप् छन्दों की सामर्थ्य से देवताओं के निमित्त हवि ले जाते हैं ॥ ३४ ॥
' उलूखल उखां कृत्वोपशयां पिष्ट्वा न्युप्य पुरस्ताद् ध्रुवासीत्युखाम् ' ( का ० श्री ० १७ | ५ | ४ ) । उलूखलस्योपरि तूष्णीमुखां स्थापयित्वा उपशयां मृदं पिष्ट्वा उखायाः पुरस्ताद् भूमौ प्रक्षिप्य तत्र मन्त्रद्वयेन उखामुपदध्यादिति सूत्रार्थः । उखादेवत्या त्रिष्टुप् । हे उखे, धरुणा जगतो धारयित्री त्वं ध्रुवा स्थिरासि | इदानीमग्निजनकत्वेन उखा स्तूयते । योऽग्निः इतोऽस्या उखायाः सकाशात् प्रथममादी जातवेदा जात-प्रज्ञानोऽधिजज्ञे प्रादुर्बभूव 1 तत एतेभ्यो योनिभ्यः स्वकारणेभ्योऽरण्यादिभ्यः, अधिजज्ञे जायते । स चाग्निर्गायत्र्या अनुष्टुभा त्रिष्टुभा च छन्दस्त्रयेण स्वाधिकारं प्रकर्षेण जानानो देवेभ्यो देवानां प्रीणनाय हव्यमस्मदीयं हविः, वहतु प्रापयतु । अत्र ब्राह्मणम् -'अथोखामुपदधाति । योनिर्वा उखा योनिमेवैतदुपदधाति तामुलूखल उपदधात्यन्तरिक्षं वा उलूखलं यद्वै किश्र्वास्या ऊर्ध्वमन्तरिक्षमेव तन्मध्यं वा अन्तरिक्षं मध्यतस्तद्योनिं दधाति तस्मात् सर्वेषां भूतानां II
पृष्ठ 334
पाठ पढ़ें पाठ छिपाएँ
२ ९ ८ शुक्लयजुर्वेदसंहिता [ अ ० १३ मध्यतो योनिरपि वनस्पतीनाम् ' ( ७ | ५ | १ | २६ ) । उलूखलमुसलोपधानानन्तरमुखाया उपधानं विधत्ते - अथेति । इष्टकाचितिषु निधास्यमानस्याग्नेरुखायां कृत्वोत्पादनादुखाया योनित्वेन तदुपधाने योनेरेवोपधानं भवतीत्याह-योनिर्वा इति । विहितमुपधान मुलूखले कर्तव्यमित्याह - तामिति । तत्रोपधानं प्रशंसति अन्तरिक्षमिति । यत्किमपि वस्त्वस्याः पृथिव्या ऊर्ध्वमुपर्यवस्थितम्, तत्सर्वमन्तरिक्षमेव । अन्तरिक्षं च द्यावापृथिव्योरन्तरालेऽ-वस्थानात्मध्यम् । ततश्च उलूखलस्यापि पृथिव्या उपर्यवस्थानेन मध्यभूतान्तरिक्षात्मकत्वात् तत्रोपधाने मध्यभाग एव योनेरुपधानं भवति । मध्यत इति सार्वविभक्तिकस्तसिः, मध्ये इत्यर्थः । दृष्टानुसारेणोक्तमर्थं प्रमाणयति - तस्मादिति । वनस्पतीनामपि बीजानां मध्यभागं भित्त्वोत्पन्नत्वाद् मध्यतो योनिरित्यर्थः । ' यद्वेवोखामुपदधाति । यो वै स प्रजापतिर्व्यत्र सतैषा सोखेमे वै लोका उखेमे लोकाः प्रजापतिस्तामुलूखल उपदधाति तदेनमेतस्मिन् सर्वस्मिन् प्रतिष्ठापयति प्राणेऽन्न ऊयंथो एतस्मादेवन मेतत्सर्वस्मादनन्तर्हितं दधाति ' ( श ० ७ ५। १।२७ ) । अथोखायाः प्राजापत्यात्मकत्वेनोलूखल उपधानं प्रशंसति - यद्वेवोखामिति । स इति प्रजासर्जनेनावयवविश्लेषदशापन्नः प्रजापतिः परामृश्यते । स यः प्रजापतिर्व्यस्रंसत विस्रस्तावयवोऽभूत्, सा उखा । सेति स्त्रीलिङ्गमुखापेक्षया । अत एव प्रजापतेरेतल्लोकत्रयात्मकत्वादुखापि इमे पृथिव्यादयो लोकाः । तथा सति प्रजापत्यात्मिकाया उखाया उलूखल उपधानेन विस्रस्ताङ्गं प्रजापतिमेतस्मिन् सर्वस्मिन प्रतिष्ठापयति । तदेव प्रदर्श्यते - प्राणेऽन्न ऊर्जीति । उलूखलस्य औदुम्बरत्वेन तस्य चान्नरसात्मकत्वादन्नरसेन च प्राणानां धारणात् प्राणात्मकत्वमनुसन्धेयम् । प्राणान्नोज परस्परग्रहणमुक्तम् । न केवलं प्रतिष्ठापनमात्रम् अपि त्वव्यवधानेन तत्सम्बद्धमेव कुर्यादित्याह - अथो इति । ' अथोपशयां पिष्ट्वा लोकभाजमुखां कृत्वा पुरस्तादुखाया उपनिबपत्येष हैतस्यै लोकस्तथो हास्यैषाऽ-नन्तरिता भवति ' ( श ० ७ | ५ | १ | २८ ) । उपशया नाम उखाभेदे सति तत्प्रतिसन्धानार्थं प्रागवशेषिता मन्त्रसंस्कृता मृत् । तां चूर्णीकृत्य उखायाः पुरोभागे निदध्यादित्याह - अथेति । उखां लोकभाजं स्थानभाज मुलूखलभाजिनी कृत्वा । उखाभेदप्रतिसन्धानार्थत्वादुपशयायास्तत्पुरोभागेऽवकाशः । अतस्तत्रोपनिवापेन स्वावकाशस्याव्यवहिता भवतीत्याह - एष हैतस्या इति । एष प्रदेश एतस्यै एतस्या उपशयाया लोक: स्थानम् तथा सत्येषाऽनन्तरिता भवति । तदाहुः । कथमस्यैषा पक्वा शृतोपहिता भवतीति यदेव यजुष्कृता तेनाथो । यकि चैतमग्नि वैश्वानरमुपनि गच्छति तत एव तत्पक्व शृतमुपहितं भवति ' ( श ० ७७५ १ २ ९ ) । इटकोपधान-प्रदेशे पक्वानामेवोपधानादुपशयायाश्चापक्वत्वात् कथमत्रोपधानं युज्यत इति याज्ञिकानां जिज्ञासामवतारयति -तदाहुरिति । अस्योपधान प्रदेशावकाशस्य एषा उपनया पक्वा शृता उपहिता भवति । शृतेति पाकविशेषा-भिधानात् पक्वा तेति न पुनरुक्तिः । कालकृतपाकेऽपि पाकशब्दः प्रयुज्यते । शृतं तु वह्नौ वह्निसंयुक्तद्रव्यान्तरे वा निधानेन भवति । अथवा पाकेन शृता सतीत्यर्थः । एतस्योत्तरं द्वेधा दर्शयति यदेवेत्यादिना । एषोपशया नाम यजुष्कृता इति यत् तेनासौ पक्वा शृता च भवति । मन्त्रेण आहृतैव मृद् उपशया क्रियते, अतश्चास्या मन्त्रेण निष्पादनादेव पाकसम्पत्तिरित्यर्थं । किञ्च यत्किचिदपि वस्तु एतं वैश्वानरमग्निमिष्टकोपधानस्थलात्मकं प्राप्नोति, तत्सर्वं तत एव तत्प्राप्तेरेव पक्वं शृतं सदेव उपहितं भवति । ' ध्रुवामि धरुणेति । तस्योक्तो बन्धुरितो जज्ञे प्रथममेभ्यो योनिभ्यो अधि जातवेदा इत्येतेभ्यो हि योनिभ्यः प्रथमं जातवेदा अजायत स गायत्र्या त्रिष्टुभाऽनुष्टुभा च देवेभ्यो हव्यं वहतु प्रजानन्नित्येतैर्वा एष छन्दोभिर्देवेभ्यो हव्यं वहति प्रजानन् ' ( श ० ७ | ५ | १ | ३० । उखोपधाने ' ध्रुवासि ' इति, ' इषे राये ' इति च द्वो मन्त्रो विदधानो व्याचष्टे - ध्रुवासीत्यादिना । ध्रुवासि धरुणा इत्यस्य व्याख्यानं ' ध्रुवासीति स्थिरासि ' ( श ० ७१४/२/५ ) इत्यादिना प्रागुक्तम् । एतेभ्य इति प्रथमतो यदुखाया जनयित्वा पश्चादेतेभ्यो योनिभ्यो लोकेभ्यो जातवेदा अजायत, अतश्चामुमर्थमित ।
पृष्ठ 335
पाठ पढ़ें पाठ छिपाएँ
म ० ३४-३५ ] वेदार्थपारिजातभाष्यसहिता २ ९९ इत्यादिमन्त्रभागो ब्रूते । एतैर्गायत्र्यादिभिश्छन्दोभिः सह एषोऽग्निः स्वाधिकारं प्रजानन् हव्यं वहति खलु । छन्दसां हविर्वहनं तैत्तिरीयके समाम्नायते -- ' छन्दांसि देवेभ्योऽपाक्रामन्न वो भागानि हव्यं वक्ष्याम इति ' ( तै ० सं ० ५।१।१1१ ) इति । एतेनापक्रमणात् पूर्वं तेषां हविर्वहनं विज्ञायते । अध्यात्मपक्षे - हे बुद्धे, धरुणा जगतो धारयित्री त्वं ध्रुवासि स्थिरासि । अथ ज्ञानाग्निजनकत्वेन उखा स्तूयते -- योऽयं ज्ञानाग्निरितोऽस्या बुद्धेः सकाशात् प्रथममादी जातवेदा जातमात्रस्य प्रकाशकोऽधिजज्ञे, तत एतेभ्यो योनिभ्यः स्वकारणेभ्यः प्रत्यक्षानुमानागमादिभ्योऽधिजज्ञे अधिजायते, सोऽग्निः प्रजानन् स्वप्रकाश्यं प्रकाशयन् गायत्र्या त्रिष्टुभा अनुष्टुभा च छन्दस्त्रयेण देवेभ्यो द्योतमानेभ्यः साधकेभ्यो देवार्थं हव्यं वहतु आदाना ब्रह्मात्मकं वस्तु प्रापयतु । दयानन्दस्तु - ' हे स्त्रि, यथा त्वं धरुणा धर्त्री ध्रुवासि यथैभ्यो योनिभ्यः कारणेभ्यः स जातवेदाः प्रथममधिजज्ञे तथेतोऽधिजायस्व । यथा स तव पतिर्गायत्र्या विद्यया त्रिष्टुभा अनुष्टुभा च प्रजानन् देवेभ्यो हव्यं वहतु तथैतया प्रजानन्ती ब्रह्मचारिणी कन्या भवन्तीभ्यः स्त्रीभ्यो विज्ञानं प्राप्नोतु ' इति, तदपि यत्किचित् निर्मूलत्वात् तादृशार्थस्य केनाप्यस्वीकृतत्वात् । सिद्धान्ते तु शतपथादिश्रुतयः प्रमाणम् । इतोऽधिजायस्वेत्मत्र इत इति कर्मणो ग्रहणे पुरुषव्यत्यये च प्रमाणाभावात् । यथेत्यादिकमपि निर्मूलमेव । गायत्र्यादिच्छन्दस प्रसिद्धत्वेऽपि वद्विद्यानामप्रसिद्धत्वात् । हव्यमित्यस्य विज्ञानार्थतापि चिन्त्यैव धात्वर्थानुसारेणान्यस्याप्यादाना-त्वोपपत्तेः । प्रजानन्ती ब्रह्मचारिणी कन्येत्यपि निर्मूलमेव ॥ ३४ ॥
इ॒षे राये र॑मस्व॒ सह॑से च॒म्न ऊर्जे अप॑त्थाय ।
सम्रासि स्वरासि सारस्वतौ त्वोत्सौ प्राव॑ताम् ॥ ३५ ॥
मन्त्रार्थ - - हे उखे! अन्न, धन, बल, यश, दुग्ध, दधि घृत आदि रस और पुत्र - पौत्र आदि प्रजा को देने के लिये तुम यहाँ दीर्घकाल तक स्थित रहो, तुम भूमि पर भली प्रकार प्रकाशित रहो, तुम स्वर्ग में स्वयं दीप्तिमान् राजमान हो, सरस्वती सम्बन्धी वाणी तुम्हारी रक्षा करे ॥ ३५ ॥
उखादेवत्या बृहती । हे उखे, त्वं रमस्व अत्र क्रीडां कुरु । कस्मै प्रयोजनाय? तदुच्यते --- इषे अन्नाय राये धनाय सहसे बलाय द्युम्ने द्युम्नाय यशोऽर्थम् । ' द्युम्नं द्योततेर्यंशी वान्नं वा ' ( निरु ० ५१५ ) इति यास्क: । ऊर्जे उपसेचनाय पयोदधिघृतादिरसार्थम्, अपत्याय पुत्रपौत्रादिकाय । किन त्वं सम्राडसि सम्यग् राजत इति सम्राट् । स्वरा s सि स्वेनैव राजत इति स्वराट् । एवंभूतां त्वामुत्सो अत्युत्सुको सारस्वतो सरस्वती सम्बन्धिनो ऋग्वेदसामवेदौ प्रावतां प्रकर्षेण रक्षताम् ' ऋक्सामे वै सारस्वतावुत्सो ' ( तै ० ब्रा ० १ | ४ | ४ | ९ ) इति श्रुतेः । अथवा सारस्वती सरस्वती नदी सम्बन्धिनो उत्सो उत्स्यन्दनी कूपौ प्रवाही वा । तौ चोत्सौ मनोवाची । सर्वशास्त्र-ज्ञानाय प इवोत्स्यन्दतीति मनः कृपः । तत्प्रतिपादनं कुर्वन्ती वागपि कूपः, ' मनो वै सरस्वान् वाक् सरस्वत्येतो सारस्वतावुत्सी ' ( श ० ७।५।१।३१ ) इति श्रुतेः । * अत्र ब्राह्मणम् --- ' इषे राये रमस्व । सहसे द्युम्न ऊर्जे अपत्यायेत्येतस्मै सर्वस्मं रमस्वेत्येतत् सम्राडसि स्वराडसीति सम्राट् च ह्येष स्वराट् च सारस्वती त्वोत्सो प्रावतामिति मनो वै सरस्वान् वाक् सरस्वत्येतौ सारस्वता उत्सो तो त्वा प्रावतामित्येतद् द्वाभ्यामुपदधाति तस्योक्तो बन्धुरथो द्वय • ह्येवैतद्रूपं मृच्चापश्च सादयित्वा सुददोहसाऽधिवदति तस्योक्तो बन्धुः ' ( श ० ७ | ५ | १ | ३१ ) । इषे राये इत्यादिना इट्प्रभृतिभ्यः
पृष्ठ 336
पाठ पढ़ें पाठ छिपाएँ
३०० शुक्ल यजुर्वेदसंहिता अ ० १३ सर्वेभ्यो रमस्वेत्येतदुक्तं भवतीति व्याचष्टे - एतस्मा इति । सारस्वताविति । सारस्वान् मन उच्यते, सरस्वती च वाक्, एतौ सारस्वतौ । अत्र स्वार्थिकोऽण्प्रत्ययः । उत्सो वारिप्रवाही वाङ्मनसात्मको । मनस्तावत् सर्वशास्त्रार्थ परिज्ञान रसाधारत्वाद् वाचश्च तत्प्रतिपादनरसाधारत्वादुत्सत्वमनयोः । तौ त्वा प्रावतां ' पालयतामभिज्ञानवदनव्यापाराभ्यामित्यर्थः । एवं च सायणाचार्योक्तरीत्या उपर्युक्तयोर्मन्त्रयोरयमर्थः - हे उखे, त्वं ध्रुवासि स्थिरासि धरुणा धारिणी चासि । जातिवेदा इतस्त्वत्सकाशात् प्रथममधिजज्ञे पश्चादेभ्यो लोकेभ्योऽधिजातः । स तथाविधो जातवेदा गायत्र्यादिच्छन्दोभिः सह स्वाधिकारं प्रजानन् देवेभ्यो हव्यं वहतु धारयत् । किञ्च त्वमिषे अन्नाय राये धना सहसे बलाद्युम्ने द्युम्नाय यशसे ऊर्जे पयोदध्याद्युपसेचनाय, अपत्याय पुत्रपौत्रादिकाय अथवा अपत्याय पत्याय स्वामित्वाय रमस्व तत्सवं सम्पादयितुं रतिं कुरु । त्वं सम्यग् राजमानासि स्वेनैव राजमानासि । त्वां च वाङ्मनसरूपा उत्सी प्रकर्षेण पालयतामिति । अत्र ' अथोपशयां पिष्ट्वा ' इत्यादिश्रुतिक्रमेणानुष्ठानमुपशयोपनिवा-पोत्तरकालं च मन्त्रवचनम् । उपधानमन्त्रयोद्वित्वसंख्याया व्याख्यानं प्रागुक्तमित्याह - द्वाभ्यामिति । अद्भिरेव सिक्तया मृदा कृतत्वादुखायां मृच्चापश्चेति द्विविधं रूपमस्ति । अतश्च तदुपधानमन्त्रयोद्वित्वमुपपद्यत इत्याह-अथो इति । अन्यत् पूर्ववत् । अध्यात्मपक्षे - हे बुद्धे, इषे अन्नाद्यर्थं क्रीडस्व सर्वस्य बुद्धिवैभवं सम्पादय । साम्राज्यं स्वाराज्यं चापि तत्कार्यमेव । सारस्वतौ चोत्सो वाङ्मनसे त्वामवतां पालयताम् । दयानन्दस्तु - ' हे पुरुष! यस्त्वं सम्राडसि, हे स्त्रि! या त्वं स्वराडसि, स त्वं च इषे राये सहसे न ऊर्जेऽपत्याय रमस्व । उत्साविव सारस्वतौ सन्तावेतानि प्रावतामिति त्वां पुरुषं स्त्रियं चोपदिशामि ' इति, तदपि निर्मूलम् तादृशसम्बोधनस्य निष्प्रमाणत्वात् । न च क्रीडनेन धनादिप्राप्तिः सम्भवति । हिन्दीभाषायां तु तवेत्युक्तम्, तदपि निर्मूलमेव । कूपवत्कोमलीभूत्वेति सर्वथाऽपार्थकमेव वचः, कृपे कोमलताया लोके वेदे चात्यन्तमप्रसिद्धत्वात् । किञ्च त्वावतामिति मन्त्रस्थयोः कर्मक्रियापदयोरन्वये सम्भवति त्वां पुरुषं स्त्रियं चोपदिशामीति पदान्तराध्याहारः स्वैरित्वमेव द्योतयति । किश्व उभयोर्विवक्षायां युवामिति स्यात्, न तु त्वमिति ॥ ३५ ॥
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वासो देव स॒घव॑ः । अनं॒ वह॑न्ति म॒न्यवे॑ ॥ ३६ ॥
मन्त्रार्थ - हे दीप्यमान अग्निदेवता, आपके चतुर श्रेष्ठ जाति के घोड़े आपको शीघ्र यज्ञ के निमित्त यज्ञस्थान पर ले जाते हैं, उनको आप रथ में जोतिये ॥ ३६ ॥
' अग्ने युवा होति प्रत्यृच सुबाहुतीर्जुहोत्युखायाम् ' ( का ० श्री ० १७।५।५ ) । अनया ऋचा, युवा होत्यपरया च ऋग्द्वयेन उखामध्ये द्वे आहुती जुहुयादिति सूत्रार्थः । भरद्वाजदृष्टा अग्निदेवत्या गायत्री -छन्दस्का ऋक् । ऋगर्थस्तु - हे देव दीप्यमान अग्ने, ये साधवो दान्तास्तव सम्बन्धिनोऽश्वासोऽश्वा अरम् अलम् अत्यर्थं मन्यवे मन्यते देवान् यष्टव्यत्वेनात्रेति मन्युर्यज्ञः, तस्मै मन्यवे यज्ञाय वहन्ति देवानिति शेषः । तान् युक्ष्व योजय । होति पादपूरणार्थः । अथवा हे देव दानादिगुणयुक्त अग्ने! ये साधव उत्कृष्टजातिगुणसमन्विताः प्रशस्ता अश्वा अरम् अलं पर्याप्तं मन्वये दोप्तये क्रोधाय वा वहन्ति तान् युक्ष्व योजय । ' द्वघचोऽतस्तिङ: ' ( पा ० सू ० ६।३।१३५ ) इति दीर्घः । ' युजिर् योगे ' इति रोधादिकस्य रूपम् । एनमो लोपश्छान्दसः । ' व्यत्ययो बहुलम् ' ( पा ० सू ० ३ । १ । ८५ ) इति विकरणस्य लोपः ।
पृष्ठ 337
पाठ पढ़ें पाठ छिपाएँ
म ० ३६-३७ ] वैदार्थपारिजातभाष्यसहिता ३०१ अत्र ब्राह्मणम् – ' अथैनामभिजुहोति । एतद्वा अस्यामेतत्पूर्वं " रेतः सिक्तं भवति सिकतास्तदेतदभि-करोति तस्माद्योनौ रेतः सिक्तमभिक्रियत आज्येन जुहोति स्रुवेण स्वाहाकारेण द्वाभ्यामाग्नेयीभ्यां गायत्रीभ्यां तस्योक्तो बन्धुः ' ( श ० ७।५।१।३२ ) । उपधानानन्तरमुखाया उपरि होमं विधत्ते - अथेति । अभिहोमस्योप-योगमाह - एतद्वा इति । भिन्नं वाक्यमेतत् । एतदित्यस्य एतत्खलु समभूदित्यर्थः । भिन्नवाक्याभावेऽभिहोम-परामर्शकत्वमेतत्पदस्य स्यात्, तथा च नार्थः समञ्जसो भवेत् । भिन्ने वाक्येऽर्थो विव्रियते-- अस्यामेतत्पूर्वं रेतः सिक्तं भवति सिकतेति । पूर्वम् अस्याम् उखायाम् एतद्रेतः सिक्तं भवति । सिकतास्तदेतदिति निर्दिष्ट -प्रदर्शनम्, अग्न्युद्वापानन्तरमेव उखायाः सिकताभिः पूरितत्वात् । उद्रेत एतेन अभिहोमेन अभिकरोति अभिवर्धयति । यत एवं तस्मादिदानीं योनौ सिक्तं रेतोऽभिक्रियते अवयविरूपेण क्रियत इत्यर्थः विहितोऽभि-होम आज्येन स्रुवेण स्वाहाकारेण द्वाभ्यामाग्नेियीभ्यां गायत्रीभ्यां कर्तव्य इत्याह-- आज्येनेत्यादिना । आज्य-सुवाद्यर्थवादस्तु ( श ० ६ | ३ | ३ | १८ - २१ ) इत्यत्र प्रागुक्त इत्याह - तस्योक्तो बन्धुरिति । ' अग्ने युवा हि ये तव । युवा हि देवहूतमानिति युक्तवतीभ्यामिदमेवैतद्योनी रेतो युनक्ति तस्माद्योनी रेतो युक्तं न निष्पद्यते ' ( श ० ७ १ १ ।११३३ ) । द्वाभ्यामित्यादिनोक्ते ऋची प्रदर्शयन् तयोर्युजिधातुसम्बन्धं प्रशंसति अग्ने युवा हीति । युक्तवतीभ्यां युजिधातुमतीभ्यामित्यर्थः । एतद् एतेनोपधानमन्त्रयोर्यु जिधातुसम्बन्धेन योनौ सिक्तं रेतो युनक्ति नियच्छति । तस्मादिदानीं योनौ सिक्तं रेतोऽपत्योत्पादनार्हं युक्तं सन निष्पद्यते न निष्पतति, तत्रैवावतिष्ठते । अध्यात्मपक्षे - हे अग्ने! श्रीराम परमात्मन् देव जगदुत्पत्तिस्थितिलयक्रीडाविशिष्ट, तव ये अश्वासः अश्वाः साधवः शुभजातिगुणान्वितास्तान् युङ्क्ष्व युङ्क्ष्व । एवं च सति तेऽश्वा मन्यवे रावणादीन् प्रति क्रोधाय यागाद्यर्थम् अरम् अलम् अत्यर्थं त्वां वहन्ति वक्ष्यन्ति । वर्तमानसामीप्ये भविष्यत्यर्थे लृट । दयानन्दस्तु - ' हे अग्ने विद्वन् देव दिव्यविद्यायुक्त ये तव साधवोऽश्वासस्तुरङ्गा अभीष्टं साध्नुवन्तो मन्यवे शत्रूणामुपरि क्रोधाय अलमत्यर्थं वहन्ति रथादीनि प्रापयन्ति तान् हि त्वं युक्ष्व ' इति, तदपि यत्किञ्चित्, तेज-स्विनोऽपि विदुषोऽश्वा न भवन्ति । निरर्थकश्चायमुपदेशः । अग्निदेवादिशब्दानां न मनुष्यो विद्वानर्थः, देवशब्दस्य
योनिविशेषे रूढत्वात् । अग्निशब्दस्यापि तथाविधैव स्थितिः ॥ ३६ ॥
यु॒क्ष्वा हि देवहूत॑मा॒ २॥ अश्व २॥ अग्ने र॒थोरिव । नि होता॑ पू॒र्व्यः संदः ॥ ३७ ॥
ह मन्त्रार्थ - हे अग्निदेवता, आप देवताओं को बुलाने वाले घोड़ों को अवश्य हो रथी के समान उत्साहपूर्वक रथ में शीघ्र जोतिये । कारण यह है कि पुरातन काल से आह्वान करने वाले आप आज इस यज्ञ कर्म में अपना स्थान ग्रहण कर रहे हैं ॥ ३७ ॥
विश्वरूपदृष्टा अग्निदेवत्या गायत्रीछन्दस्का ऋक् । हे अग्ने, देवहूतमान् देवान् ह्वयन्ति ये ते देवह्वः, अतिशयेन देवो देवहूतमाः तान् । अश्वान् नियुक्ष्व नियोजय । ' ह्वेत्र स्पर्धायां शब्दे च ' इति धातोः क्विपि सम्प्रसारणे तमपि च रूपम् । क इव? रथोरिव । रथोऽस्यास्तीति रथीः । ' छन्दसीवनिपो च वक्तव्यो ' ( पा ० सू ० ५।२।१२२ वा ० २ ) इति मत्वर्थीय ईप्रत्ययः । देवहूतमान् अश्वान् इत्युभयत्र ' दीर्घादटि समानपादे ' ( पा ० सू ० ८२३२ ९ ) इति नकारस्य रुत्वे ' आतोऽटि नित्यम् ' ( पा ० सू ० ८ | ३ | ३ ) इत्याकारस्यानुनासिकत्वम् । हि यस्मादेवमतः सदः सदति, विभक्तिव्यत्ययः पूर्व्यः अग्रचो होता सन्निषोदेति शेषः । यद्वा त्वं पूर्व्यः पूर्वभवः पुरातनो होता मानुषाद्धोतुः प्रथमो हि अस्मिन् प्रसिद्धयागे निसदः होतृसदने निषीद | ' छन्दसि लुललिटः ' ( पा ० सू ० ३।४६ ) इति लोडर्थे लुङ् । लृदित्वात् च्लेरङ् । ' बहुलं छन्दस्यमाङ्योगेऽपि ' ( पा ० सू ० ६ । ४ । ७५ )
पृष्ठ 338
पाठ पढ़ें पाठ छिपाएँ
२०२ शुक्लयजुर्वेदसंहिता t अ ० १३ इत्यागमाभावः । यद्वा होता होमोत्पादको भूत्वा अस्मिन् यागस्थाने निषीद । तथा चोव्वटाचार्यो वचनमेक-मुद्दधार - ' अव्याद्यज्ञं जातवेदा अन्तरः पूर्वोऽस्मिन्निषद्य ' इति । अध्यात्मपक्षे हे अग्ने श्रीराम, त्वं देवहूतमान् देवैरतिशयं स्पर्धमानान् अश्वान् इन्द्रियरूपान् रथोरिव रथस्वामीव नियुक्ष्व ममाभोष्टध्यानादी प्रेरय । त्वं पूर्व्यः पुरातनः सर्वकारणत्वात् । सदः सदसि मनसि होता भक्तानामाह्वाता सनिषीदेत्यर्थः । दयानन्दस्तु -- ' हे अग्ने, पूर्व्यः पूर्वेविद्वद्भिः कृतशिक्षो होता दाता त्वं देवहूतमान् विद्वद्भिः स्पधितान् अश्वान् रथीरिव यथा शत्रुभिर्बहुरथादिसेनाङ्गवान् योद्धा युद्धयते तथा युक्ष्व, हि न्यायासने नि षदः निषीद ' इति, तदपि यत्किञ्चित् अश्वानां विद्वद्भिः स्पर्धास्वरूपानिरूपणात् । तमपश्च के उपयोगः? स्थीरित्यस्य कथं सार्थक्यम्? यः स्वयं योद्धा न भवति, तस्य योद्धृतुल्यता कीदृशी? योद्धृत्वे तुल्यताकथनस्य किं वा स्वारस्यम्? एवमेव पूर्वेविद्वंद्भिः कृतशिक्ष इत्यर्थः कथम्? एतस्मिन्नर्थे कः प्रत्ययः? यत्तु ' ईर् मत्वर्थ ' इति महीधरोतको ' ईर इति रेफान्तः प्रत्यय इति महीधरः, तच्चिन्त्यम् ' इति, तत्तुच्छम् अपदं न प्रयुञ्जीत वैयाकरणानां राद्धान्ताद ईशब्दात् प्रथमंकवचने सो रुत्वे ' ईर् मत्वर्थे ' इति शब्दसाधुत्वात् ॥ ३७ ॥
स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेनो अ॒न्तर्हृदा मन॑सा पूयर्मानाः ।
घृ॒तस्य॒ धारा॑ अ॒भिचाकशीमि हिरण्ययो॑ वेत॒सो मध्ये अ॒ग्नेः ॥ ३८ ॥
मन्त्रार्थ - चिति के मध्य में जो हिरण्मय पुरुष स्थित है, वह हृदय के अन्तर में वर्तमान विषयों को व्याकुलता से रहित होकर भद्धा वाले मन से पवित्र किये हुए अन्न और घृत की धारा का भली प्रकार क्षरण करता है । जैसे नदियाँ समुद्र को प्राप्त होती हैं, उसी प्रकार होमी हुई आहुतियां उस हिरण्मय पुरुष को प्राप्त होती हैं । इसका मैं स्वयं BET È 11 36 11 ' प्रतिशिरः सप्त सप्त हिरण्यशकलान् मुखे करोति सम्यक् स्रवन्तीति ' ( का ० श्र ० १७/५/७ ) । पञ्चपशुपक्षे प्रतिशिरः सप्त सप्त सुवर्णखण्डानि प्रक्षिपेत् । तत्र मुखे प्रथममेकं शकलं प्रक्षिपेत् सम्यक् स्रवन्तीति मन्त्रेणेति सुत्रार्थः । काण्वभाष्ये तु हिरण्यपुरुषाश्वादीनां गध्ये एकैकस्य शिरः स्थितेषु सप्तसु सप्तसु छिद्रेषु सप्त सप्त स्वर्णशकलानि निक्षिपेत् सम्यक् स्रवन्तीति मन्त्रेणेति । अत्र ब्राह्मणम् -'अर्थषु हिरण्यशकलान् प्रत्यस्यति । प्राणा वै हिरण्यमथवा एतेभ्यः पशुभ्यः संज्ञप्यमानेभ्य एव प्राणा उत्क्रामन्ति तद्यद्धिरण्यशकलान् प्रत्यस्यति प्राणाने वैष्वेतदधाति ' ( श ० अश २८ ) । तेषु पशुशीर्षेषु सुवर्णशकलानां प्रक्षेपं विधाय प्रशंसति अर्थष्विति । प्राणसाधनत्वाद् हिरण्यस्य प्राणात्मकत्वम् । शेषं स्पष्टम् । ' सप्त प्रत्यस्यति । सप्त वै शीर्षन् प्राणास्तानस्मिन्नेतद्द्धात्यथ यदि पञ्च पशवः स्युः पञ्चैव कृत्वः सप्त सह प्रत्यस्येत् पच वा एतान् पशूनुपदधाति सप्त सप्त वा एकैकस्मिन् पशी प्राणास्तदेषु सर्वेषु प्राणान् दधाति ' ( श ० ७५ / २ / ९ ) । सुवर्णशकलानां संख्याविशेषं विधत्ते - सप्त प्रत्यस्यतीति । शिरसि बागेका, नेत्रे द्वे, श्रोत्रे द्वे, नासाविवरे च द्वे इति सप्त प्राणाः । सप्तहिरण्यशकलनिधानेन सप्तप्राणवान् भवतीत्याह - सप्त वा इति । पञ्चपशुपक्षः, एकपशुपक्ष इति पक्षद्वयमस्ति । तत्र पञ्चपशुपक्षे पञ्चकृत्वः सप्त सप्त हिरण्यशकलान् प्रतिशीषं प्रत्यस्यति । ' तर्द्धकेऽपि । यद्येकः पशुर्भवति पञ्चैव कृत्वः सप्त सप्त प्रत्यस्यन्ति पश्च वा एतान् पशूनुपदधाति सप्त सप्त वा एकैकस्मिन् पशी प्राणास्तदेषु सर्वेषु प्राणान् दध्म इति न तथा कुर्यादेतस्मिन् वै पशौ सर्वेषां पशूनाथ, रूपं तद्यदेवस्मिन्
पृष्ठ 339
पाठ पढ़ें पाठ छिपाएँ
म ० ३८ ] वेदार्थ पारिजातभाष्यसहिता ३०३ प्रत्यस्यति तदेवैषु सर्वेषु प्राणान् दधाति ' ( श ० ७१५२।१० ) । यद्येकोऽपि पशुर्भवेत्तदापि पञ्चकृत्व एव सप्त सप्त सुवर्णशकलान् प्रत्यस्येदिति एके शाखिन आहुः । तेषामयमाशयः - पञ्चानामपि पशूनां स्थाने एकस्योपधानादसो अध्वर्युः पञ्च एतान् पशूनुपदधाति । तथा च एकैकस्मिन् पशौ सप्त सप्त प्राणा विद्यन्ते । तस्मात्तावतां हिरण्यशकलानां प्रत्यासनेन एतेषु सर्वेष्वपि प्राणान् दधाति । न तथा कुर्यादित्यनेन तं पक्षं दूषयति - न तथा कुर्यादिति । कथं तर्हि सर्वेषां पशूनां प्राणसङ्घटनेति तत्राह - एतस्मिन् वा इति । एतस्मिन् उपधीयमाने एकस्मिन्नेव पशौ सर्वेषां पशूनां रूपमस्ति । तेषां सर्वेषामपि कार्ये एतस्यैव सामर्थ्यावधारणात् । तस्मादेतस्मिन् सप्तसंख्या विशिष्टहिरण्यशकलप्रत्यसनेन सर्वेष्वपि पशुषु प्राणप्रतिसन्धानं सम्पादितवान् भवति । लिङ्गोक्ता देवता त्रिष्टुप् । तत्र सम्यक् स्रवन्तीति कण्डिकया प्रथममास्ये स्थापयेत् । हिरण्मयपुरुषोद्देशेन कण्डिकेयं प्रवृत्ता । अन्तः शरीरस्याभ्यन्तरे हृदा मनसा हृदयपुण्डरीकवर्तिना युक्तेनान्तःकरणेन पूयमानाः पवित्रीक्रियमाणा घेना अन्नलक्षणाः, ' अन्नं वै घेना: ' ( श ० ७।५।२।११ ) इति श्रुतेः । घृतस्य दीप्तियुक्ता हिरण्मयं पुरुषं प्रति सुवर्णस्य धाराः सम्यक् स्रवन्ति । तत्र दृष्टान्तः -- सरितो न नकार इवार्थः । यथा नद्यः प्रवहन्ति तद्वत् । अपि च, उखाग्निमध्ये यो हिरण्मयो वेतसः पुरुषोऽवभासते तं पुरुषमभिलक्ष्य स्रवन्तीस्ता धारा अभिचाकशीमि अभिपश्यामि । अग्नेर्मध्ये चितिमध्ये हिरण्मयो वेतसः पुरुषो यो निहितोऽस्ति, तं प्रति घेना अन्नानि सम्यक् स्रन्ति क्षरन्ति, हूयमानानि हवींषि तं प्रति गच्छन्तीत्यर्थः । कीदृश्यो घेनाः? अन्तहृदा हृदयपुण्डरीकवना हृत्प्रतिष्ठेन विषयव्यावृत्तेन, अव्याकुलेनेति यावत्, पूयमानाः पवित्रीक्रियमाणाः, श्रद्धायुक्तेन मनसा दत्ता इत्यर्थः, ' अन्त हृदयेन मनसा सतान्नं पूतं य ऋजु: ' ( श ० ७ | ५ | २ | ११ ) इति श्रुतेः । तत्र दृष्टान्तः सरितो न सरितो यथा सागरं प्रति सवन्ति गच्छन्ति तद्वत् । न केवलं धेना एव स्रवन्ति, किन्तु घृतस्य धारा अपि सन्ति । ताश्च धेना घृतधाराश्च हिरण्मयं पुरुषं प्रति स्रवन्तीरहमपि चाकशीमि अभिपश्यामि । अत्र ब्राह्मणम् -'मुखे प्रथमं प्रत्यस्यति । सम्यक् स्रवन्ति सरितो न घेना इत्यन्नं वै घेनास्त दिद " सम्यङ्मुखमभिस ँस्रवन्त्यन्त दा मनसा पूयमाना इत्यन्त हृदयेन मनसा सतान्नं पूतं य ऋजुस्तस्य घृतस्य धारा अभिचाशोमोतिया वैतस्मिन्नग्नावाहुतीर्होष्यन् भवति ता एतदाह हिरण्ययो वेतसो मध्ये अग्नेरिति य एवैष हिरण्मयः पुरुषस्तमेतदाह ' ( श ० ७ | ५ | २ | १२ ) । प्रथमं मुखे शकलस्य प्रत्यसनं विधत्ते - मुखे प्रथममिति । मन्त्रं व्याचष्टे – सम्यक् स्रवन्तीति । घेना इत्यन्नमुच्यते । सम्यक् स्रवन्ति । कथमिव? सरितो न सरित इवेति मन्त्रभागेनोच्यते । अन्तहृ देति । य ऋजुरकुटिलाङ्गस्तस्य अन्तः शरीरमध्ये हृदा हृदयदेशेन मनसा च सता विद्यमानेन अनं पूतं भवति, सारासारभेदेन विवेचितं भवति । हृदयदेशस्य अनावतरणप्रदेशत्वात् शोधकत्वम् । ऋजुरकुटिलः शोभनकर्मा यजमानः, तस्य मनसेति । घृतस्य धारा इत्यनेन होष्यमाणाहुत्यभिधानमभिप्रेत-मित्याह -- या एवैतस्मिन्निति । चतुर्थपादेऽग्निमध्यावस्थितहिरण्मयपुरुषाभिधानं क्रियत इति व्याचष्टे -- हिरण्यय इति । तथा च ब्राह्मणानुसारी मन्त्रार्थ: - अकुटिलावयवस्य यजमानस्य अन्तः शरीरमध्ये हृदयेन हृत्प्रतिष्ठेन मनसा शोध्यमानान्यन्नानि इदं मुखमभिलक्ष्य स्रवन्ति यथा नद्यः समुद्रं प्रति स्रवन्ति तद्वत् । तथाविधेऽस्मिन्मुखे शकलं निदधामि । निहितं शकलं चेदमग्नेर्मध्ये यो हिरण्मयो वेतसः पुरुषस्तं प्रति संस्रवन्तीर्घृतस्य धारा अभिचाक-शीमि अभिपश्यति । ' चाकशीमि ' इति पुरुषव्यत्ययः । यङ्लुगन्तस्य रूपम् । अध्यात्मपक्षे अग्नेः पार्थिवस्याग्नेः सूर्यस्य वा मध्ये हिरण्मयो वेतसः पुरुषो यो विद्यते हिरण्यश्मश्रुः हिरण्यकेशः सर्वान्तर्यामी ' अन्तस्तद्धर्मोपदेशात् ' ( ब्र ० सू ० १।१।२० ) इति न्यायेन निर्धारितस्तं प्रति सरितो न यथा नद्यः समुद्रं प्रति सवन्ति 1 तथा घेना अन्नानि विविधानि स्रवन्ति । कीदृशीर्धेनाः? अन्तः शरीरस्य मध्ये
पृष्ठ 340
पाठ पढ़ें पाठ छिपाएँ
३०४ शुक्लयजुर्वेदसंहिता [ अ ० १३ हृदाहृत्पुण्डरीकान्तवर्तिना समाहितेन मनसा अन्तःकरणेन पूयमानाः पवित्रीक्रियमाणा घृतस्य धाराश्च तं प्रति स्रवन्ति ताः स्रवन्तीर्धेना धाराश्च अहमभिचाकशीमि ध्यानेनाभिपश्यामि । दयानन्दस्तु --- हे ' मनुष्याः, यथा अग्नेर्मध्ये हिरण्यय इव वर्तमानोऽहं या घृतस्य उदकस्य वेतसो वेगवत्यो धाराः सरितो न नद्य इव अन्तः अभ्यन्तरे हृदा हृदयेन मनसा विज्ञानवता चित्तेन पूयमानाः पवित्रा घेना वाच:, ' घेना इति वाङ्नामसु ' ( १।११।३ ९ ), सम्यक् स्रवन्ति, ता अभिचाकशीमि । तथा यूयमप्येताः प्राप्नुत ' इति, तदपि यत्किञ्चित् 1 सम्बोधनस्यैव निर्मूलत्वात् । न च विद्युतो मध्ये पुरुषावस्थानं सम्भवति । हिरण्य इत्यपि निर्मूलम्, तत्रैवपदाभावात् । सरित इत्यनेनैव गतार्थत्वे वेगयुक्तधारारूपा इत्युक्तिरपार्थेव, वेगवत्यो धारा इत्युक्त्यैव गतार्थत्वे सरित इत्युक्तिर्व्यर्था स्यात् ॥ ३८ ॥
ऋचे त्वां रुचे त्व भासे त्वा॒ ज्योति॑षे त्वा ।
अभू॑दि॒दं विश्व॑स्य॒ भुव॑नस्य॒ वाज॑नम॒ग्नेर्वैश्वान॒रस्य॑ च ॥ ३ ९ ॥
मन्त्रार्थ - हे हिरण्यशकल, दीप्ति के निमित्त तुम्हारा वाम नासिका में प्रासन करता हूँ । सम्यक् दीप्ति के लिये तुम्हारा दक्षिण नासा में प्रासन करता हूँ । कान्ति के लिये तुम्हारा वाम चक्षु से स्पर्श कराता है । तेज की प्राप्ति के लिये तुम्हारा दक्षिण नेत्र से स्पर्श कराता हूँ । यह श्रोत्र सम्पूर्ण प्राणिसमूह तथा सम्पूर्ण मनुष्यों के हितकारी अग्नि के वन को सुनने वाला है, तुम्हारा इससे स्पर्श कराता हूँ ॥ ३ ९ ॥ ' उत्तरान् द्वौ द्वौ, नासिकयोर्ऋचे त्वेति, अक्ष्योर्भासे त्वेति श्रोत्रयोर दिदमिति ' ( का ० श्र ० १७।५।८-११ ) । उत्तरान् वक्ष्यमाणान् मन्त्रान् एकप्रतीकोपादानेऽपि द्वौ द्वौ मन्त्री प्रतीयात् । एकैकं हिरण्यखण्डं नासिकयोः क्रमेण ( १ ) ऋचे त्वा ( २ ) रुचे त्वा इति मन्त्राभ्याम् आदौ वामनसि ततो दक्षिणनसि स्थापयेत् । चक्षुषोः ( १ ) भासेवा ( २ ) ज्योतिषे त्वा इति मन्त्राभ्यां पूर्वं वामचक्षुषि ततो दक्षिणचक्षुषि एकैकं हिरण्य-खण्डं स्थापयेत् । श्रोत्रयो: ( १ ) अभूदिदं विश्वस्य भुवनस्य वाजिनम् अग्नेर्वैश्वानरस्य च, ( २ ) अग्निर्ज्योतिषा ज्योतिष्मानित्यादिमन्त्रेण च तेनैव क्रमेण एकैकं हिरण्यखण्डं स्थापयेदिति सूत्रार्थः । हिरण्यशकलदेवत्या आर्षी बृहती, पादार्णनियमाभावात् । हे हिरण्यशकल ऋचे ऋग्वेदाय तदुक्तहोत्रादिसिद्धये त्वा त्वां वामन सि, क्षिपामीति शेषः । अथवा येयमृक् श्रोत्ररूपा तदर्थं रुचे दीप्त्यै त्वां दक्षिणनासाछिद्रे क्षिपामि । भासे कान्त्यै त्वां वामनेत्रे प्रास्यामि | ज्योतिषे तेजसे तत्प्राप्त्यै त्वां दक्षनेत्रे प्रास्यामि । इदं श्रोत्रं विश्वस्य भुवनस्य भूतजातस्य वैश्वानरस्य विश्वेभ्यः सर्वेभ्यो नरेभ्यो हितस्य अग्नेश्च वाजिनं वाचो ज्ञातृ अभूत् । सर्वप्राणिशब्दा वह्नेश्च शब्दोऽपि श्रोत्रेणैव ज्ञायतेऽतः श्रोत्रे हिरण्यं प्रास्यामीति शेषः । वाचमेति जानातीति वाजिनम् । वाच्पूर्वादेतेः ' इण् सिति ' ( उ ० ३१२ ) इत्यादिना नक्प्रत्ययः । छान्दसः कुत्वाभावः । ' झलां जशोऽन्ते ' ( पा ० सू ० ८२।३ ९ ) इति त्वम् | ' अयमग्निर्वैश्वानरः ' ( श ० १४/८/१० | १ ) इत्युपक्रम्य ' तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति ' इति श्रूयते । तदनुवादकोऽयं मन्त्रः । यद्वा इदं दक्षिणश्रोत्रे प्रक्षिप्यमाणं सुवर्णं विश्वस्य भुवनस्य सर्वस्य भूतजातस्य वाजिनमन्नं वीर्यंरूपं तेजोजनकं वा अभूद् भवति । तथा वैश्वानरस्य विश्वेषां नराणां स्वामिनोऽग्नेः स्ववीर्यरूपमभूद् भवति । अत्र ब्राह्मणम् —'ऋचे त्वेतीह । प्राणो वा ऋक् प्राणेन ह्यर्चति रुचे त्वेतीह प्राणो वै रुक् प्राणेन हि रोचतेऽथो प्राणाय हीद, सर्व रोचते भासे खेतीह ज्योतिषे त्वेतीह भास्वती हीमे ज्योतिष्मती चक्षुषी अभूदिदं