वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 341–350
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 341–350
पृष्ठ 341
पाठ पढ़ें पाठ छिपाएँ
म ० ३ ९ -४० ] वेदार्थपारिजातभाष्यसहिता ३०५ विश्वस्य भुवनस्य वाजिनमग्ने वैश्वानरस्य चेतीहाग्निज्योतिषा ज्योतिष्मान रुक्मो वर्चसा वर्चस्वानितीह विश्वा-वतीभ्यां विश्व ११ हि श्रोत्रम् ' ( श ० ७७५/२/१२ ) । अथ दक्षिणनासाविवरे समन्त्रकं शकलनिधानं विधत्ते -ऋचे स्वेतीति । ' इह ' इति दक्षिणनासाविवरस्य निर्देशोऽभिनयेन । व्याचष्टे - प्राणो वा इति । यतः प्राणो वा अर्चति प्राप्नोति, प्राणवर्तव सर्वस्य प्राप्तेः । धातुनामनेकार्थत्वादत्र प्राप्त्यर्थोऽर्चतिः । अतश्च ' ऋ ' इति प्राणः । तथा सति ऋचे प्राणाय सञ्चरमाणाय प्रत्यस्यामीति मन्त्रार्थः । सव्यमपि नासाविवरमभिनयेन निर्दिश्य समन्त्रकं णकलनिधानं विधत्ते -- रुचे वेतीति । इहेति सत्यनासाविवरस्य अभिनयेन निर्देश: । प्राणो वैं रुग् दीप्यमानः । प्राणेन हि शरीरादिकं दीप्यते, प्राणार्थमेव सर्वमिदं जगत् प्रियं भवति । दक्षिणनेत्रमभिनयेन निर्दिश्य मन्त्रकं शकलनिधानं विधत्ते - भासे त्वेतीति । इह दक्षिणनेत्रे | ज्योतिषे स्वेतीह सव्ये नेत्रे प्रत्यस्यति । यत इमे चक्षुषी भास्वती अर्थप्रकाशनलक्षणतेजोविशिष्टे ज्योतिष्मती स्वयं च ज्योतिर्विशिष्टे, अतस्तत्र शकल -प्रत्यसनमन्त्रयोः ' भासे ' ' ज्योतिषे ' इति प्रयुक्तम् । श्रोत्रयोः समन्त्रकं शकलप्रत्यसनं विधत्ते - अभूदिति । इदं दक्षिण विश्वस्य भुवनस्य समस्तस्य लोकस्य वाजिनं शब्दोपलब्धिसाधनम् अभूत् । न केवलमस्यैवाभूत्, अपि तवैश्वानरम्य विश्वेषां नराणामयं वैश्वानरस्तस्य सर्वजनानां जनकत्वेन सम्बन्धिनः । ' तस्येदम् ' ( पा ० सू ० ४ | ३ | १२० ) इत्यणि, ' नरे संज्ञायाम ' ( पा ० स ० ६ | ३ | १२ ९ ) इति पूर्वपदस्य दीर्घे आदिवृद्धो च रूपम् । तस्याग्नेः प्रजापतेरपि शब्दोपलब्धिसाधनमभृत् । तादृशे तत्र त्वां प्रत्यस्यामीत्यर्थः । अग्निज्र्ज्योतिषेति । ज्योतिषा ज्योतिष्मान् प्रशस्तज्योतिष्मान् प्रशस्तज्योतिर्वि शिपोऽग्निरिव । वर्चसा वर्चस्वान् प्रशस्तव चविशिष्टोऽग्निरिव । इन्द्रोऽध्याहर्तव्यः । इदं यद् दक्षिणेतरत् श्रोत्रं प्रकाशते, तथाविधे तत्र त्वां प्रक्षिपामीत्यर्थः । मन्त्रे विश्वपद-प्रयोगस्याभिप्रायमाह - विश्वावतीभ्यामिति । यद्यप्यत्र एकस्यामेव विश्वपदप्रयोगः, तथापि प्राणभृन्न्यायेन लिङ्गसमवायादुभयोरपि ' विश्वावती ' इत्यभिधानमुपपद्यते । अध्यात्मपक्षे - हे परमात्मन् ऋचे ऋ गुपलक्षितचतुर्वर्गप्राप्तिहेतुभृतचतुर्वेदप्राप्त्यर्थम् त्वा त्वाम् आश्रय इति शेषः । रुचे रोचनाय भासे कान्त्यै ज्योतिषे तेजसे तत्प्राप्त्यं त्वा त्वाम् आश्रये । इदं परमात्मतत्त्वं विश्वस्य सर्वस्य भुवनस्य भतजातस्य वैश्वानरस्य सर्वप्राणिहितस्य वह्नेर्वाजिनं वीयं तेजोजनकमभूत् । अतस्तदाश्रये । दयानन्दस्तु - ' हे विद्वन्, यस्य तव विश्वस्य सर्वाधिकारस्य जगतो भुवनस्य वैश्वानरस्य अखिलेषु नरेषु राजमानस्य अग्नेबिंद्युदाख्यस्य च वाजिनं वाजिनां विज्ञानवतामिदमवयवभूतं विज्ञानमभूज्जातम्, तमृचे स्तुतये रुचे प्रीतयेत्वाभासे विज्ञानाय त्वा ज्योतिषे न्यायप्रकाशाय त्वा वयमाश्रयेम ' इति, तदपि यत्किञ्चित्, विदुषामपरिगणितत्वादेकस्यैव सम्बोध्यत्वानुपपत्तेः । न चैकस्यैव सर्वत्र विनियोगः सम्भवति । वाजिनामिदमिति वाक्यस्य विज्ञानवतामवयव तं विज्ञानमिति कयमर्थः? यदि ' वज गती ' इति धातोर्निष्पन्नत्वेन वाजो विज्ञानम्, तदस्त्यस्येति वाजिन्नित्यस्य विज्ञानवानित्यर्थः स्यात, तथापि वाजिनामिदमिति तदवयवविवक्षणेऽपि नोपपत्तिः, ज्ञानविज्ञानवतोऽवयवानुपपत्तेः । ज्योतिः शब्दस्य न्यायप्रकाशार्थतापि चिन्त्यैव ॥ ३ ९ ॥ अ॒ग्निर्ज्योति॑षा॒ ज्योति॑ष्मान् रुक्मो वर्च॑सा॒ वर्च॑स्वान् । स॒ह॒स्रा॒दा अ॑सि स॒हस्रय त्वा ॥४० ॥
मन्त्रार्थ - यह अग्नि पशु के कान पर स्थित हिरण्य की कान्ति से कान्तिमान् है । रोचमान अग्नि सुवर्ण को अग्नि से कान्तिमान है । हे पुरुष, तुम यजमान की हजारों अभिलाषाओं को पूरा करने वाले हो, इस कारण सहस्रों अभिलाषाओं के लाभ के निमित्त मैं तुमको सिद्ध करता है ॥ ४० ॥
३ ९
पृष्ठ 342
पाठ पढ़ें पाठ छिपाएँ
३०६ शुक्लयजुर्वेद संहिता [ अ ० १३ हिरण्यशकलदेवत्या उष्णिक् । द्वौ पादो अष्टाणों तृतीयो हादशको व्यूहेन । दक्षिणश्रोत्रे शकलं प्रास्य-त्यग्निज्योतिषेति मन्त्रेण । अयमग्निर्ज्योतिषा पशुश्रोत्र स्थित हिरण्यतेजसा ज्योतिष्मान् तेजस्वी अस्तु । तथा रुक्मो रोचमानोऽग्निर्वर्चसा हिरण्यकान्त्या वर्चस्वान् कान्तिमानस्तु । बाह्य प्रभा ज्योतिः शरीरान्तर्गता कान्तिर्वचं इति ज्योतिर्वर्चसोर्भेदः 1 । यद्वा श्रोत्रमेव हिरण्यज्योतिषाग्निरिव ज्योतिष्मदस्तु । हिरण्यवर्चसा च वर्चस्वदस्तु | रुक्म इव सुवर्णपुरुष इव । उभयत्रापीवशब्दोऽध्याहार्यः, लिङ्गव्यत्ययेन च योजना कार्येति महीधराचार्य: । ' सहस्रदा इति पुरुषशिर उद्गृह्य मध्ये ' ( का ० श्री ० १७।५।१४ ) पुरुषशिर आदाय उखामध्ये ' सहस्रदा ' इति मन्त्रेण उत्थाप्य उपदधातीति सूत्रार्थः । हे पुरुष, त्वं सहस्रदाः सहस्रसंख्याकस्य धनस्य दातासि । अतः सहस्राय सहस्रधनलाभाय स्वा त्वामुद्गृामीति शेषः । आदौ पुरुषशिरसि शकलप्रासनं ततोऽश्वगोऽव्यजानां क्रमेण । एकपशुपक्षे मुखादिषु प्रत्येकं सप्त सप्त पञ्चकृत्व एकैकमित्यन्येऽभिप्रयन्ति । यथाह कात्यायनः--' सर्वानप्येकस्मिन्नेके ' ( का ० श्र ० १७।५।१२ ) इति । अत्र ब्राह्मणम् – ' अथ पुरुषशीर्षमुद्गृह्णाति । महयत्येवैनदेतत् सहस्रदा असि सहस्राय त्वेति सवं वै सहस्र ७ सर्वस्य दातासि सर्वस्मं त्वेत्येतत् ' ( श ० ७५।२।१३ ) । ' पशुशीर्षाण्युपदधाति । पशवो वै पशुशीर्षाणि पशूनेवैतदुपदधाति तान्युखायामुपदधातीमे वै लोका उखा पशवः पशुशीर्षाण्येषु तल्लोकेषु पशून् दधाति तस्मा-दिम एषु लोकेषु पशव: ' ( श ० ७ ५२ १ १ ) इति पशुशीर्षाणामुपधानं विधाय प्रशस्य तेषां पश्ववयवत्वेन पशुत्वेन पशूनामेवोपधानमुक्त्वा तेषामुपधानस्य स्थानविशेष उक्तः - - तान्युखायामिति । तस्या लोकात्मकत्वेन लोकेषु पशूनुपहितवान् भवति । पुनश्च - ' योनिर्वा उखा पशवः पशुशीर्षाणि योनी तत्पशून प्रतिष्ठापयति तस्मादद्यमानाः पच्यमानाः पशवो न क्षीयन्ते ' ( श ० ७५/२/२ ) । उपभोगाद् वयः परिपाकाच्च विनाशे सत्यपि योनो प्रतिष्ठित-त्वाद् नोच्छिद्यन्ते, किन्तु पुनरुत्पद्यन्ते इत्यर्थः । ' या वै ताः श्रिय एतानि तानि पशुशीर्षाण्यथ यानि तानि कुसिन्धान्येतास्ताः पश्च चितय: ' ( ० ७ ५ | २ | ३ ) । अत एतेषामुपधाने श्रियामेवोपधानं कृतवान् भवति । ' प्रजापतिर्वा इदमग्र आसीदेक एव सोऽकामयतान सृजेय प्रजायेयेति स प्राणेभ्य एवाधि पनिरमिमीत मनसः पुरुषं चक्षुषोऽश्वं प्राणाद् गा ११, श्रोत्रादवि वाचोऽजं तद्यदेनान् प्राणेभ्योऽधि निरमिमीत तस्मादाहः प्राणाः पशव इति ' ( श ० ७ २२६ ) इति पशूनामुत्पत्तिमुक्त्वा - ' अथैषु हिरण्यशकलान् प्रत्यस्यति । प्राणा वै हिरण्यमथवा एतेभ्यः पशुभ्यः संज्ञप्यमानेभ्य एव प्राणा उत्क्रामन्ति तद्यद्धिरण्यशकलान् प्रत्यस्यति प्राणानेव ष्वेतद्दधाति ' ( श ० ७ | ५ | २८ ) । ' सप्त प्रत्यस्यति । सप्त वै शीर्षन् प्राणास्तानस्मिन्नेतद्दधाति ' ( श ० ७।५ २१ ९ ) इति fusary पशुशीर्षाणामुपधानं तस्य स्थानविशेषमुपधाने प्रकारभेदं तदुत्पत्त्यादिकं च प्रदर्श्य अनन्तरमुपधानार्थं त्रयोदश्यां कण्डिकायां पुरुषशिरस उद्ग्रहणं विधत्ते - अथेति । विहिते उद्ग्रहणे मन्त्रं विधाय व्याचष्टे - सहस्रदा इति । सर्वं वेति । यतः सहस्रं सर्वम्, तस्मिन्नेव शतादीनामन्तर्भावात् । तस्मात् सर्वस्मै त्वामुद्गृह्णामीत्येतदुक्तं भवतीत्यर्थः । अध्यात्मपक्षे - अयं जीवोऽग्निरिव ज्योतिषा परमात्मज्योतिषा ज्योतिष्मान् भवति । रुक्मो रोचमानस्तदीयेन वर्चसा वर्चस्वान् कान्तिमानस्तु | हे परमेश्वर, त्वं सहस्रदा सर्वदातासि, तस्मात् सर्वस्मै सर्वंप्राप्तये त्वामुच्चैर्महातात्पर्येण गृह्णामि मनसा धारयामि । दयानन्दस्तु - ' हे विद्वन् यस्त्वं ज्योतिषा दीप्त्या ज्योतिष्मान् रुक्मः सुवर्ण इव वर्चसा विद्यादीप्त्या वर्चस्वान् विद्याविज्ञानवानसि सहस्रदा असि सहस्राय अतुलविज्ञानाय तं त्वां वयं सत्कुर्याम ' इति, तदपि यत्किञ्चित्, मनुष्याणां सीमितशक्तिमत्त्वेनासंख्यासुखदातृत्वासम्भवात् । न चाग्नेरिव ज्योतिष्मत्त्वं वर्चस्वत्वं वा
सम्भवति, सम्बोधनस्य निर्मूलत्वाच्च । सिद्धान्ते तु शातपथी श्रुतिरेव मूलम् ॥ ४० ॥
पृष्ठ 343
पाठ पढ़ें पाठ छिपाएँ
मं ० ४१ ] वेदार्थ पारिजातभाष्यसंहिता ३०७
आ॒दि॒त्यं गर्भ॒ पय॑सा॒ सम॑ग्ध स॒हस्र॑स्य॒ प्रति॒मा॑ वि॒श्वरू॑पम् ।
परि॑वृधा॒ हर॑सा॒ माऽभिम॑स्थाः श॒ताय॒षं कृणुहि चीयमा॑नः ॥ ४१ ॥
मन्त्रार्थ -- चयन कार्य में लगे हुए हे पुरुष! देवताओं की उत्पत्ति के स्थान, सहस्रों मूर्तियों वाले चिति नामक आदित्याग्नि को दूध से सिंचित करो और सम्पूर्ण वीयं को हरने वाले अग्नि के तेज से यजमान को अलग करो । यजमान को मत मारो और चयन कर्म में लगे हुए यजमान को शतायु बनाओ ॥ ४१ ॥
' अश्वाव्योरुत्तरतः पूर्वापरे, गोऽजयोश्च दक्षिणतः, आदित्यं गर्भमिति प्रतिमन्त्रं मन्त्रक्रमेण ' ( का ० श्री ० १७।५।१५-१७ ) । उखायामेवोत्तरे भागेऽश्वाव्योः शिरसी निदध्यात् । तत्र ईशानकोणेऽश्वस्य, वायव्यकोणेऽवे-निदध्यात् उखायामेव दक्षिणभागे आग्नेयकोणे गोर्नैर्ऋत्यकोणेऽजस्य शिरसी निदध्यात् पुरुषादीनां शिरांसि प्रतिमन्त्रमेकैकं शिर उपदध्यादिति सूत्रत्रयार्थः । अश्वादीनां मध्ये हिरण्यपुरुषमुपदध्यात् । तस्योत्तरतः प्राचीन-देशेऽश्वस्य पश्चिमेऽवेर्दक्षिणतो गोः पश्चिमोत्तरतोऽजस्य शिरः स्थापयेत् । पुरुषादीनामेकैकस्य स्थापनम् । पश्च ऋचोऽग्निदेवत्यास्त्रिष्टुभः । आदी पुरुषशिरो मध्ये उपदध्यात् । हे पुरुषशिरः त्वमादित्यं चित्याग्निं पयसा समधि संरचय समञ्जयसि । अञ्जेर्लोटि मध्यमैकवचने रूपम् । पयसि स्थाप्य इत्येवमुच्यते । आदते पशूनि-त्यादित्यः, आदित्यवद् ईष्टे वा सर्वपशूनामित्यादित्यः चित्योऽग्निः । कथंभूतमादित्यम्? गर्भम् गृह्णाति पशूनिति गर्भः, पचाद्यच् । ' हृग्रहोर्भश्छन्दसि ' ( पा ० सू ० ३।१।८४ वा ० १ ) इति रूपसिद्धिः । पुनः कथंभूतम्? सहस्रस्य प्रतिमां बहुधनस्य प्रतिमाभूतम्, बहुधनप्रदमित्यर्थः । पुनः कथंभूतम्? विश्वरूपम्, विश्वानि रूपाणि यस्मादसौ विश्वरूपः सर्वरूपप्रकाशकस्तम् । किञ्च हरसा हरति सर्ववीर्यमिति हरः, तेन हरसा । असुन् प्रत्ययः । सर्वाभिभावकेनाग्नितेजसा यजमानं परिवृधि परिवर्जय । ' वृजो वर्जने ' रुधादिः । लोटि रूपम् । माभिमंस्थाः मा हिंसीः, यजमानमिति शेषः । अभिपूर्वो मन्यतिहिंसार्थः । किश्न, चीयमान उपधीयमानः सन् यजमानं शतायुषं कृणुहि कुरु । अथवा हे अग्ने, आदित्यवत् त्वं स्तूयसे | सर्वाणि हि रूपाण्यादित्यस्य । अथवा – हे अग्ने, चीयमानः सन् आदित्यम् अदितिर्देवमाता, तस्याः सम्बन्धि तत्कार्यरूपं गर्भसदृशमिमं पुरुषं पयसा क्षीरेण समधि सम्यगार्द्रीकुरु । कीदृशं तम्? सहस्रस्य प्रतिमां बहुधनस्य प्रतिमानभूतम् । विश्वरूपं परिवृधि परित्यज यजमानम् । हरसा त्वदीयज्वालारूपेण तेजसा माभिमंस्थाः मा हिंसीः । तथा च ब्राह्मणम् -'अथैनानुपदधाति । पुरुषं प्रथमं पुरुषं तद्वीर्येणात्यादधाति मध्ये पुरुषमभित पशून् पुरुषं तत्पशूनां मध्यतोऽत्तारं दधाति तस्मात् पुरुष एव पशूनां मध्यतोऽत्ता ' ( श ० ७७५२ | १४ ) । पशूना-मुपधानमनूद्य तत्र पुरुषस्य प्राथम्यं विधत्ते - अथेति । उपधाने पुरुषस्य प्राथम्याद् वीर्येण पुरुषमतिशयितं करोतीत्याह - पुरुषं तदिति । उखायामुपधानस्य विहितत्वात् तस्यां मध्ये पुरुषोपधानम्, तत्पार्श्वयोरितर-पशूनामुपधानं कुर्यादित्यर्थः । विहितस्य सन्निवेशस्य प्रयोजनमाह पुरुषं तदिति । तत् तेन सन्निवेशेनोपधाने पशूनां मध्ये पुरुषमत्तारं भोक्तारं करोति, भोक्तुः पार्श्वे भोगस्यावस्थानात् । तस्मात् साम्प्रतमपि पशूनां मध्ये पुरुष एव भोक्ता भवति, सामान्येन ' अभित इतरान् पशून् ' इति विधानात् । ' अश्वं चावि चोत्तरतः । एतस्यां दिश्येतौ पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ ' ( श ० ७।५।२।१५ ) | ' गां चाजं च दक्षिणतः । एतस्यां तद्दिश्येती पशू दधाति तस्मादेतस्यां दिश्येतौ पशू भूयिष्ठौ ' ( ७५ | २ | १६ ) । पयसि पुरुषमुपदधाति । पशवो वै यो यजमानं तत्पशुषु प्रतिष्ठापयत्यादित्यं गर्भं पयसा समधीत्यादित्यो वा एष गर्भो यत्पुरुषस्तं पयसा समधोत्येतत्सहस्रस्य प्रतिमां विश्वरूपमिति पुरुषो वै सहस्रस्य पुरुषस्य ह्येव सहस्रं भवति परिवृधि हरसा
पृष्ठ 344
पाठ पढ़ें पाठ छिपाएँ
३०८ शुक्लयजुर्वेद संहिता [ अ ० १३ माभिस्था इति पर्येनं वृङग्यचषा मैन हि सीरित्येतच्छतायुषं कृणुहि चीयमान इति पुरुषं तत् पशूना शतायुं करोति तस्मात् पुरुष एव पशूना शतायुः ' ( श ० ७।५।२।१७ ) । कस्य कुत्रोपधानमिति विशेषजिज्ञासायामाह - अश्वं चावि चेत्यादि । मध्ये पुरुषमिति पुरुषोधानस्य मध्यस्थानं विहितम्, तत्रैव विशेषं विधत्ते - पयसीति । उखामध्ये पयः पूरिते पुरुषमुपदध्यात् । एवं च सति यजमानस्य पुरुषत्वात् पयसः पशुकार्य -त्वेन पशुत्वात् तत्र यजमानं प्रतिष्ठापयति । विहिते उपधाने मन्त्रं विदधानः पादशो विभज्य व्याचष्टे - आदित्यं गर्भमिति । पुरुष इति यदेष आदित्यो गर्भः खलु । अदिते. नकाशाद् विवस्वदाख्य आदित्योऽजायत । तथा च श्रूयते - ' ततो विवस्वानादित्योऽजायत ' ( तै ० सं ० ६ ५/६ ) इति । विवस्वत्सम्बन्धिनश्च सर्वे पुरुषा इति पुरुषस्याप्यादित्यगर्भत्वम् । तथा सति पुरुषमेव पयसा समधीत्येतदुक्तं भवति । द्वितीयपादेऽपि सहस्त्रस्य प्रतिमा-मित्यनेन पुरुष एव विवक्षित इति दर्शयति सहस्रस्येति । यतः पुरुषस्यैव पशूनां सहस्रं भवति, अतोऽयं सहस्रस्य सदृशः । तृतीयपादे हरः शब्देनाचिरुच्यते, माभिमंस्था इत्यनेन अहिंसनमिति दर्शयति परिवृधीति । चतुर्थपादे शतायुषं कृणुहीत्युच्चारणेन पुरुषस्य शतायुष्ट्वं सम्पादयतीत्याह - शतायुषमिति । तथा चायं मन्त्रार्थः--अग्ने, चीयमानस्त्वं पूर्वोक्तप्रकारेण आदित्यगर्भरूपं सहस्रस्य सदृशम्, अत एव विश्वरूपं पयसा आर्द्राकुरु । कि, एनं परितो वर्जब अर्चिषा का हिंसी, शतायुषं च कृणुहि । अध्यात्मपक्षे - हे अग्ने परमेश्वर, त्वं चीयमानः स्तुतिभिः परिवर्धमान आदित्यम् आदित्यवत् क्षेत्र प्रकाशकम्, गर्भं प्रकृतिगर्भतुल्यं जीवात्मानं पयसा समधि सम्यक् शोधय, भक्तिजलेनेति शेषः । कीदृशम्? सहस्रस्य असंख्यस्य प्रतिमानं प्रतिमानभूतमसंख्यधनप्रदम् विश्वरूपं कर्मवैचित्र्येण देवमनुष्य तिर्यगादि-बहुरूपधरम् । हरसा संसारानलज्वालया परिवृधि परिवर्जय, रक्षेत्यर्थः । माभिमंस्थाः मा हिंसीः । शतायुषं कृणुहि यथायं श्रवणमनननिदिध्यासनैस्त्वां साक्षात्करोतु । दयानन्दस्तु - ' हे विद्वन्, त्वं यथा विद्युत्पयसा जलेनेव सहस्रस्य असंख्यपदार्थसमूहस्य प्रतिमां प्रतीयन्ते सर्वे पदार्था यया तां विश्वरूपं सर्वरूपवत्पदार्थदर्शकं गर्भं स्तुतिविषयमादित्यं सूर्यं धरति तथान्तःकरणं संशोधय । हरसा ज्वलितेन तेजसा रोगान् परिवृधि सर्वतो वर्जय । चीयमानः सन् शतायुषं तनयं कृणुहि । कदाचिन्माऽभिमंस्थाः ' इति, तदपि यत्किचित्, निर्मूलाध्याहार बाहुल्यात्, असङ्गतेश्च । प्रतिमामित्यस्य सूर्यार्थत्वे कथं स्त्रीलिङ्गता? सूर्य वनिश्चयकारिणी बुद्धिरिति कथमर्थः? ॥ ४१ ॥
वात॑स्य ज॒ वरु॑णस्य॒ नाभि॒मश्वं जज्ञान स॑रि॒रस्य॒ मध्ये ।
शिशुं नदीनाथ हरिमबुध्न॒मग्ने॒ मा हिंसीः पर॒मे व्योमन् ॥ ४२ ॥
मन्त्रार्थ -- हे अग्निदेव, वायु के समान वेग वाले आप वरुण देवता के नाभिस्वरूप जल के मध्य में उत्पन्न, नदियों के बालक, हरित वर्ण, इस लोक में स्थित होने वाले और खुर से पर्वत को खोदने वाले इस घोड़े को मत मारिये ॥ ४२ ॥
वातस्य जुतिमिति मन्त्रेण अश्वशिर ईशाने उपदध्यात् । हे अग्ने, अश्वं मा हिंसी:, ज्वालया मा दहेत्यर्थः । विविधम् ओम रक्षणं परममुत्कृष्टं यद् व्योम सन्ततिसहस्रम् अश्वस्य रोगास्तेभ्यस्तेभ्यः पालन-मित्यर्थः । तत्र परममुत्कृष्टं रक्षितस्याश्वस्य पुनरुपद्रवः कदाचिदपि न जायते तथा करणं रक्षणस्य परमत्वम् तादृशे परमे व्योमन् एतमश्वं स्थापयेत्यर्थः । कीदृशमश्वम्? वातस्य जूतिम् । जूतिर्गतिः प्रेमपात्रं वा । वायोगंति- । स्वरूपवत् शीघ्रगतिमित्यर्थः । वायोः प्रेमपात्रं वा । वरुणस्य अपामधिपतेः नाभिमिवान्तरम् । यथा नरेण
पृष्ठ 345
पाठ पढ़ें पाठ छिपाएँ
म ० ४२-४३ ] वेदार्थपारिजात भाष्यसहिता ३० ९ स्वनाभिर्वस्त्रावरणादिना पाल्यते, तद्वद् वरुणेन अतिप्रियत्वात् पाल्यम्, तमभिप्रेत्य ' प्रजापतिर्वरुणायाश्वमनयत् ' ( तै ० सं ० २ | ३ | १२ | १ ) इति तैत्तिरीये आम्नातत्वात् । सरिरस्य सलिलस्य मध्ये जज्ञानं समुद्रजलमध्ये वडवारूपेणोत्पन्नम्, ' अप्सु योनिर्वा अश्व: ' ( तै ० सं ० ५ | ३ | १२ | ४ ) इति श्रुत्यन्तराद् वडवारूपेणोत्पन्नमित्यर्थः । नदीनां शिशुं पुत्रम् । यथा नदीनां पतिः समुद्र उक्तन्यायेन अश्वस्य पितापि समुद्रः । तदा नदीनाम् अश्वमातृत्वात् तच्छिशुरप्यश्वः । पुनः कथंभूतमश्वम्? हरिम् उपर्यारूढस्य पुरुषस्य हर्तारं नेतारम् । अद्रिबुध्नम् अद्रिबुद्धम् । नका रोपजनश्छान्दसः । मध्येमार्गं खुरंश्चूर्णीकृता येऽद्रिप्रभवाः पाषाणास्तैर्बुद्धम् । तादृशान् पाषाणान् दृष्ट्वा मार्गेऽस्मिन्नश्वो गत इति बोद्धुं शक्यते । यद्वा - अद्रिः गिरिः, बुध्नं मूलं कारणं यासां ता अद्रिबुध्ना आपः, तज्जातमद्रिबुध्नम् । अथवा --- बुध्नमादिः, तत्र भवा आपोऽप्यद्रिबुध्नाः - अद्रिः पर्वतः तस्य, अद्भयो जातोऽश्वोऽप्यपत्यप्रत्ययलोपेनाद्रिबुध्नशब्देनोच्यते । परमे व्योमन्निषीदन्तमिति शेषः । ' इमे वै लोकाः परमं व्योम ' ( श ० ७।५।२।१८ ) इत्यधिलोकं व्याख्यानमित्युव्वाचार्यः । --अत्र ब्राह्मणम् -'अथोत्तरतोऽश्वम् । वातस्य जूतिमिति वातस्य वा एष जूतिर्यदश्वो वरुणस्य नाभिमिति वारुणो ह्यश्वोऽश्वं जज्ञान, सरिरस्य मध्य इत्यापो वै सरिरमप्सुजा उ वा अश्वः शिशुं नदीना हरिमद्रि-मिति गरि अद्रिगिरिबुध्ना उ वा आपोऽग्ने मा हि सीः परमे व्योमन्त्रितीमे वै लोकाः परमं व्योमंषु लोकेष्वेनं मा हिसीरित्येतत् ( श ०७५ २ १८ ) । उत्तरतोऽश्वस्य उपधान मनूद्य मन्त्रं विदधानो व्याचष्टे -अथेति । अश्व इति यदेष वातस्य जूतिः खलु । जुतिशब्देन वेग उच्यते । तद्रूपत्वादश्वोऽपि तच्छब्देन वायुवेग इत्यर्थः । अपामधिपतेर्वरुणस्य सम्बन्धित्वादश्वो वरुणस्य नाभिः | अद्रिबुध्नमिति । अद्रिरिति गिरिरुच्यते । आपो गिरिरूपाः खलु, तत्रोत्पद्यमानत्वात् । तथाविधजलसमुद्भूतत्वादश्वोऽपि गिरिबुध्न इत्यर्थः । इमे वै लोकाः परमं व्योमेत्यनेन मन्त्रगतं व्योमपदमितरलोकयोरप्युपलक्षणमिति दर्शितम् । तथा च हे अग्ने, वायुवेगविशिष्टं वरुणस्य नाभिस्थानीयं सलिलमध्ये उत्पन्नमत एवं नदीनां शिशुमद्रिबुध्नं गिरिमूलोत्पत्तिस्थानं हरिमारोदुर्हर्तार-मश्वं परमे व्योमन् उत्कृष्टेषु पृथिव्यादिषु लोकेषु मा हिंसोरिति मन्त्रार्थः । अध्यात्मपक्षे -- हे अग्ने परमेश्वर, पूर्वोक्तविशेषणमश्वं तद्रूपं प्रजापति विराजं मा हिंसीः । अश्वमेधीय-स्याश्वस्य प्रजापतिरूपत्वं बृहदारण्यके प्रतिपादितम् - ' उषा वा मेध्यस्याश्वस्य शिर: ' ( बृ ० उ ० १।१।१ ) इत्यादिना । अथवा श्रीरामकार्यार्थं समुद्रमुल्लङ्घ्य गच्छतो हनुमतः कुशलं कामयमाना देवा आहु: -- हे अग्ने परमेश्वर वा, वातस्य जूति वायुवेगं वायोः प्रीतिजनकं वा, वरुणस्य अपांपतेर्नाभिमिव पालनीयं सलिलस्य मध्ये जज्ञानं प्रादुभूतमिव श्रीरामलक्ष्मणयोरश्वमिव वाहकं नदीनां शिशुमिव हरि वानरमद्रिबुध्नमद्रोगां पर्वतानां बुध्नं मूलमिव महास्वर्णशैलाभदेहत्वात् परमे व्योमन् महाकाशे सीतादर्शनार्थं समुत्पतन्तं मा हिंसीः । दयानन्दस्तु - हे ' अग्ने तेजस्विन् विद्वन् त्वं परमे व्योमन् प्रकृष्टे व्योमनि व्याप्ते आकाशे वातस्य वायोर्मध्ये जूतिं वेगमश्वमश्ववद् व्याप्तुं शीलं सरिरस्य सलिलस्य वरुणस्य जलसमूहस्य नाभि बन्धनं नदीनां जज्ञानं प्रादुर्भूतं शिशुं बालमिव वर्तमानं हरि हरमाणमद्रिबुध्नं मेघाकाशं मा हिंसी: ' इति, तदपि यत्किञ्चित्, मेघाकाशे पूर्वोक्तविशेषणानुपपत्तेः । न च मनुष्या मेघान् नाशयितुं शक्नोति । मेघाकाशस्य सूक्ष्ममेघस्य वा कथमद्रिबुध्न-शब्दवाच्यत्वमिति तु नोक्तम् । अश्वत्वं च तत्र कथम्? निरर्थकमन्यच्च गौणार्थाश्रयणम् ॥। ४२ ॥
अज॑त्र॒मिन्द्र॑मरु॒षं भ॑र॒ण्युम॒ग्निमडे पूर्वचि॑ित॒ नमो॑भिः ।
स पर्वैभिर्ऋतशः कल्पमानो गां मा सीदिति विराजम् ॥ ४३ ॥
पृष्ठ 346
पाठ पढ़ें पाठ छिपाएँ
३१० शुक्लयजुर्वेदसंहिता [ अ ० ] १३ मन्त्रार्थ - क्षयरहित, ऐश्वर्य से युक्त, रोषरहित, पूर्व महर्षियों के द्वारा अजित, चयन के योग्य, अन्न से सबका पोषण करने वाले अग्निदेव की मैं स्तुति करता हूँ । वह अग्नि अमावास्या आदि पर्वो पर प्रत्येक ऋतु में कर्मों को सम्पादित करता हुआ, अखण्ड और अधीन हो दही, दूध आदि देने वाली गायों को कोई हानि न पहुँचावे ॥ ४३ ॥
गामाग्नेय्यामुपदधात्यजत्रमित्यादिना मन्त्रेण । अहमग्निमीडे स्तौमि । ईड स्तुतौ । कीदृशमग्निम्? अजस्रमनुपक्षीणम् । पुनः कीदृशम्? इन्दुम् इन्दतीति इन्दु, तम् । निरन्तरं परमैश्वर्योपेतम् । अथवा उत क्लेदयति जनमनांसीति इन्दुः । ' उन्देरिच्चादेः ' ( उ ० ११ १२ ) इत्युप्रत्ययः, आदिवर्णस्य इकारादेशश्च । पुनः कथंभूतम्? अरुषं रोषरहितम् । यद्वा -- अरुर्म । मर्मस्थानीय रहस्यमिति यावत्, आराध्यमित्यर्थः । पुनः कथंभूतम्? नमोभिरन्तैर्भुरण्यं सर्वेषां पोष्टारम् । यथा यजमानमर्माणि वैरिणो नोद्घाटयन्ति तथा कुर्वन्तम् । पुनः कथंभूतम्? पूर्वचिति पूर्वे महर्षिभिः चिति चेतव्यम् । योऽग्निरादित्यरूपेण स्थित्वा पर्वभिरमावास्यादिभिस्तिथिभितुश ऋतो ऋतो कल्पमानः कर्माणि सम्पादयन् वर्तते स तादृशः । हे अग्ने, उपधीयमानां गां मा हिंसीः । कीदृशीं गाम्? अदितिमखण्डनीयाम्, अदीनां वा । पुनः कीदृशीम्? विराजं विविधं राजमानाम्, विशेषेण राजमानां वा । दुग्धदानादिना गौविराट् । गोश्च दशवीर्याणि ' तस्य शृतं तस्यं शर: ' ( श ० ३।३।३।२ ) इति श्रुती समाम्नातानि । यद्वा यस्य तव संस्कारार्थम् अजस्रम् अनुपक्षीणम् इन्दुं सोमं चन्द्रमसमरुषमरोचनं भुरण्यं भेत्तारं वाहदाहादिभिरग्निमाग्नेयम् तद्धितलोपः " ईडे याचामि उपधानाय । पूर्वचित्ति प्राक् चयनम् ' प्राञ्चमग्निमुद्धरन्ति ' ( श ० ७।५।२ १ ९ ) इत्यग्न्यध्यासेन गोस्तुतिः । नमो भरन्तैरभ्युद्यतैः । स त्वमेताभिः पर्वेष्टकाभिः पर्वभिः पश्वष्टकाभितो ऋतौ कल्पमानो गां मा हिसीरित्युव्वाचार्यः । अत्र ब्राह्मणम् ' अथ दक्षिणतो गाम् । अजस्रमिन्दुमरुषमिति सोमो वा इन्दुः स हैष सोमोऽजस्रो यद् गौर्भमिति भर्तारमित्येतदग्निमीडे पूर्वचित्ति नमोभिरित्याग्नेयो वै गौ: पूर्वचित्तिमिति प्राञ्चछ, ह्यग्निमुद्धरन्ति प्रामुपचरन्ति स पर्वभिर्ऋतुशः कल्पमान इति यद्वा एष चीयते तदेष पर्व भऋतु: कल्पते गां मा हि ७ सीरदिति विराजमिति विराड् वै गौरन्नं ने विराडन्नमु गौ: ' ( ० ७ ५४२११ ९ ) । दक्षिणदेशे गोरुपधानमनूद्य स्तुतिवन्मन्त्रं विधत्ते -- अथेति । सोमो वा इन्दुरिति । यतः स एषोऽजस्रः सोमो हि, सर्वदा पयोलक्षणस्थ अमृतस्य स्यन्दनाद् । इन्दोस्तु कदाचिदुपक्षयोऽपि विद्यत इत्यभिप्रायेणानत्रमित्युक्तम् । भुरण्युमिति दोहनादिभिर्भर्तारमित्येतदुक्तं भवति, गोजातीयस्य धृतत्वात् । अथवा गौ: पुङ्गवोऽजत्रः सोमः, कृषिसाधनत्वेन सर्वदाह्लादकत्वाद भर्तृत्वाच्च भुरण्युमिति । अग्निमीड इति यतो गौराग्नेयः, अतोऽसावग्निः । यतोऽग्नि प्राञ्चमुद्धरन्ति प्रानमेव होमादिनोपचरन्ति अतोऽग्निः पूर्वचित्तिः पूर्वस्मिन् प्रदेशे चित्तिरनुष्ठेयस्य प्रतीतिर्यस्य स तथोक्तः । यद्वा इति । एषोऽग्निश्चीयत इति यत् तेन एष पर्वभिरिष्टकाचितिलक्षणैर्ऋतु शस्तेन तेन ऋतुना कल्पते सम्पद्यते, चितिलक्षणानां पर्वणामृतुरूपत्वादित्यर्थः । विराड् वा इति । अम्मसाधनत्वाद् विराजोऽन्नत्वम् । गोरपि तथैवान्नत्वमिति विराडु गौरेवेत्यर्थः । सर्वदाह्लादकत्वेनाज स्रमिन्दुमरुषमारोचमानं कृष्यादिसाधनत्वेन भर्तारं पूर्वचित्ति पूर्वत्रानुष्ठेयप्रतीतिविशिष्टमग्नि तदीयत्वेन तदात्मकं गामत्रोपधानाय नमोभिर्नमस्कारैर्युक्तोऽहमीडे । हे अग्ने, पर्वभिश्चितिलक्षणैर्ऋतुशः कल्पमानस्तथाविधस्त्वमदितिमखण्डनीयं विराजमन्नसाधनं गां मा हिंसीः । अध्यात्मपक्षे -- अहमग्नि परमात्मानमीडे स्तौमि । कीदृशमग्निम्? अजस्त्रम् अनुपक्षीणम्, इन्दु परमैश्वर्योपेतम् इन्दुवदाह्लादकं वा । अरुषं रोषरहितम्, सदा प्रसनमित्यर्थः । यद्वा मर्मस्थानीयं रहस्यं वा ।
पृष्ठ 347
पाठ पढ़ें पाठ छिपाएँ
म ० ४३–४४ ] वेदार्थपारिजातभाष्यसहिता ३११ पूर्वचिति पूर्वैर्महषिभिश्चिन्तनीयं ध्येयम् । नमोभिरन्नैर्भुरण्यं विश्वस्य भर्तारं सर्वेषां पोष्टारम् । हे अग्ने, एवं स्तूयमानः सन् गां वेदलक्षणां भूमिरूपां धेनुरूपां वा मा हिंसीः । कीदृशीं गाम्? अदितिमखण्डनीयां विराजं शृतशरादिदानैर्विशेषेण राजमानाम् । कीदृशस्त्वम्? पर्वभिर्दर्शपूर्णमास चातुर्मास्यादिभिः कर्मकलापैर्हेतुभिः कल्पमानं विश्वं सम्पादयामः । दयानन्दस्तु - ' हे विद्वन्, यथाहं पर्वभिः पूर्णैः साधनाङ्गर्नमोभिरन्नैः सह वर्तमानमिन्दुं जलम् ( निघ ० १।१२ ), अरुषमश्वम् ( निघ ० १११४ ), भुरण्यं पोषकम्, भुरण्धातोर्युच्प्रत्ययः, पूर्वचित्ति पूर्वा चित्तिश्चयनं यस्य तमग्नि विद्युतमजस्रं निरन्तरमीडे । ऋतु शो बहून् ऋतुन कल्पमानः समर्थः सन्नदितिमखण्डितां विराज पृथिवीं न नाशयामि, तथैव त्वमेतमेनां च मा हिंसी: ' इति, तदपि यत्किचित्, अग्निपदस्य मुख्यार्थ मुल्लङ्घय विद्वदर्थत्वे मानाभावात् । पर्वभिरित्यस्य पूर्ण साधनैरिति व्याख्यापि निर्मूलैव । नमः पदस्यान्नार्थत्वेऽपि न तस्य विद्युतोऽन्वेषण उपयोगः, भोजनोपयोगित्वेऽपि तां प्रत्यन्यथासिद्धत्वात् विद्युतोऽबिन्धनत्वेऽपि जलरूपत्वानुपपत्तेः । अश्वत्वमपि तस्यामनुपपन्नमेव । ईडे इत्यस्यान्वेषणार्थत्वमपि न युक्तम् धात्वर्थंविरोधात् । पृथिव्या नाशोऽपि नोपपन्नः । यथाहं न नाशयामि तथा त्वमपि मा हिसीरित्यपि निर्मूलमेव ॥ ४३ ॥
वरू॑त्र॒ त्वष्टृर्वरु॑णस्य॒ नाभि॒र्माव॑ जज्ञानां रज॑सः म॒ही ँ सहस्रीमस॒रस्य मा॒यामग्ने॒ मा हिंसीः पर॒मे
परस्मात् ।
व्यो॑मन् ॥ ४४ ॥
मन्त्रार्थ - हे अग्निदेव, उत्कृष्ट रणस्थान में स्थापित रूपों का निर्माण करने वाली, वरुण की नाभि के -- करने वाले प्राणियों को समान रक्षणीय विग्रूप लोक से जायमान, विशालकाय, सहस्र मूल्य के योग्य, सहस्रों उपकार प्रजा देनेवाली अवि को आप नष्ट मत करो ॥ ४४ ॥
हिंसी: मा वायव्येऽविमुपदधाति । हे अग्ने, परमे व्योमन् उत्कृष्ठे विविधरक्षणस्थाने स्थितामत्रिं मा आच्छादयति वधीः । कीदृशीमविम्? त्वष्टुः रूपाणां निर्मातुर्देवस्य अनुग्रहात् वरूत्रीम् वृणोति कम्बलादिना नाभिवद् लोकानिति वत्री ताम् । पुनः कीदृशीम्? वरुणस्य नाभिम् अनिष्टनिवारकस्याग्नेर्नाभिस्थानीयां । तथा च तैत्तिरीये रक्षणीयाम् । पुनः कीदृशीम्? परस्माद् उत्कृष्टात् प्राजापत्यरजसो जज्ञानां जायमानाम् सं ० ७ १ १५ ) इति श्रुतम् । ' उरसो बाहुभ्याम् ' ( तै ० सं ० ७ १ १ ४ ) इत्यादिवाक्ये ' अविः पशूनाम् ' ( तै ० स्वर्भानोरसुरस्य सम्बन्धित्वेन महीं महतीं साहस्रीं सहस्रमूल्यार्हाम्, सहस्रोपकारक्षमां वा । असुरस्य मायां सा कृष्णाविरभवत् ' इति श्रुतम् । निर्मिताम् । ' स्वर्भानुर्वा आमुरः ' ( ता ० ब्रा ० ६ | ६ | ८ ) इत्यादिवाक्ये ' ) इति श्रुतेः । यद्वा- - वरूत्री वरान् वृणोतीति वरूत्री, ' वारुणी च हि त्वाष्ट्री चाविः ' वै ( श ० श्रोत्रं ७ | ५ | दिशः २।२० पर, रजः ' यजमानानां परस्माद्रजसो जज्ञानामुत्पन्नाम् । ' श्रोत्रं वै पर रजो दिशो, मत्वर्थीयश्छान्दसो ( श ० ७ ५५ । २० ) इति श्रुतेः । असुरस्य मायाम् असवः प्राणा विद्यन्ते प्रज्ञा ताम् यस्यासावसुरः । प्राणिनां प्रज्ञाप्रदामित्यर्थः । रः, तस्य प्राणवतो वरुणस्य मायां प्रज्ञाम् । मीयते ज्ञायतेऽनयेति माया चाविरविं अत्र ब्राह्मणम् -- ‘ अथोत्तरतोऽविम् । वरूत्रीं त्वष्टुर्वरुणस्य नाभिमिति वारुणी च हि त्वाष्ट्री जज्ञाना ७ रजसः परस्मादिति श्रोत्रं वै पर ७ रजो दिशो वै श्रोत्रं दिशः पर रजो व्योमन्नितीमे मही, साहस्रोमसुरस्य वै लोकाः मायामिति महती साहस्रीमसुरस्य मायामित्येतदग्ने मा हिसीः परमे मन्त्रं परमं व्योमंषु लोकेष्वेनं मा हिसीरित्येतत् ' ( श ० ७५।२।२० ) । अथोत्तरप्रदेशेऽवेरुपधानमनूद्य
पृष्ठ 348
पाठ पढ़ें पाठ छिपाएँ
३१२ शुक्लयजुर्वेद संहिता [ अ ० १३ विधत्ते - अथेति । वारुणी च होति । यतो वरुणस्याऽनिष्टनिवारस्याग्नेर्नाभिस्थानीया, रूपाणां निर्माता यस्त्वष्टा तस्यानुग्रहणीयरूपयुक्ता, अतोऽविस्त्वष्टुर्वस्त्री वरुणस्य नाभिश्च । श्रोत्रं वा इति । श्रोत्रं खलु परं रज उत्कृष्ट लोकः । तदेवोपपादयति - दिशो वा इति । श्रोत्रं च दिश: खल, तस्य तत्कार्यत्वात् । ' दिशः परं रजः दिग्भ्यश्चावय उत्पद्यन्ते दिशां सर्वोत्पत्ती निमित्तकारणत्वात् । महीं साहस्रीमित्यत्र महीपदस्य महतीत्यर्थं इति दर्शितम्-- महतीमिति । तथा च ब्राह्मणानुसारेणायमर्थ: - हे अग्ने, त्वष्टृर्वरणीयरूपयुक्तां वरुणस्य नाभिस्थानीयां परस्माद्रजसो दिग्भ्यो जातां महतीं सहममृत्याहम असुरस्य मायां स्वर्भानोरसरस्य सम्बन्धित्वेन निर्मिताम् अवि पृथिव्यादिष्वेषु लोकेषु मा हिंसोरिति । अस्मिन्नर्थे तैत्तिरीयतिः पुरस्तादुद्धृता ॥ ४४ ॥
यो अग्निरग्नेरध्यजायत शोकांत पृथिव्या उत वो दिवस्परिं ।
येने प्रजा विश्वकर्मा जजान तम॑ग्ने॒ हेडः परिं ते वृणक्तु ॥ ४५ ॥
मन्त्रार्थ - अग्निरूप अज प्रजापति के शोक से उत्पन्न हुआ है, चुलोक के और पृथ्वी के शोकरूप अग्नि से उप हुआ है । प्रजापति ने जिस अज, अर्थात् वाग रूप से इजा को उत्पन्न किया है. है चितिनामक अग्निदेव! आपका क्रोध उस अज को कोई हानि न पहुँचावे ॥। ४५ ॥ अस्या: कण्डिकाया व्याख्यानमुपरिषद्विधास्यते । ब्राह्मणव्याख्येनेनैवेयं व्याख्याता । अतोऽत्र ब्राह्मण-मुयिते --- ' अथ दक्षिगतोऽजम् । यो अग्निरग्नेरध्यजायतेत्यग्निर्वा एषोऽग्नेरध्यजायत शोकात्पृथिव्यावा दिवस्परीति यद्वै प्रजापतेः शोकादजायत तद्दिवश्च पृथिव्यै च शोकादजायत येन प्रजा विश्वकर्मा जजानेति वाग्वा अजो वाचो वै प्रजा विश्वकर्मा जजान तमग्ने हेड: परि ते वृणक्तित्वति यथैव यजुस्तथा बन्धु: ' ( श ० ७५२२१ ) । दक्षिणदेशेऽजस्योपधानमनूद्य मन्त्रं विदधानो व्याचष्टे - अथेति । अग्निर्वा इति । एषोऽग्निरजः, अग्नेः प्रजापतेरध्यजायत । अग्नेः सकाशादुत्पन्नत्वादजस्याग्नित्वम् । अग्नेः सकाशादुत्पत्तिरेव प्रदश्यते -शोकादिति । यद्वै प्रजापतेः शोकादजायत तद्दिवः पृथिव्याश्च शोकादजायत । प्रजापतेस्तदात्मकत्वादग्निप प्रजापतिरेवोच्यते । येन अजेनेत्यर्थः । विश्वकर्मा प्रजापतिर्वाचः सकाशात् प्रजा जजान | अन्तर्भावितण्यर्यो जनिः, उत्पादितवानित्यर्थः । अजश्च वागात्मकः । ततश्च येन विश्वकर्मा प्रजा जजान । यथैव यजुस्तथा बन्धुरिति । मन्त्रो यथैव तथैव व्याख्याने स्पष्टार्थः । तथा चायमर्थ: - हे अग्ने, उपधीयमानो योऽग्न्यात्मकोऽजोऽग्नेः प्रजापतेरध्यजायत । तत्कथम्? यतः पृथिव्याः शोकात् अपि च दिवः शोकादध्यजायत । किञ्च येन प्रजा विश्वकर्मा जजान तमजं ते, ' हेड: कोप: ' ( निघ ० २।१३ | १ ) इति हेडशब्दः क्रोधनामसु, परिवृणक्त परिवर्जयत् । उभयोः कण्डिकयो रध्यात्ममर्थः प्रदर्श्यते - हे अग्ने भगवन, परमे व्योमन् परमोत्कृष्टे चिदाकाशब्रह्मणि स्थितां तद्विषयिणी ब्रह्माकारां वृत्तिमवि संसारतापाद् रक्षित्री मा हिंसीः । स्वष्टुर्देवस्य सूर्यस्य अनुग्रहाद् वरूत्रीं ब्रह्मात्मतत्त्ववरयित्रीं वरुणस्य सर्वविघ्ननिवारकस्य गणपतेर्नाभि नाभिवद्रक्षणीयां परस्माद् उत्कृष्टशत् परमेश्वरस्य पादारविन्दरजसोऽनुग्रहाद् जज्ञानामुत्पन्नां महीं महतीं साहस्रीमनन्तमूल्यामसुरस्य प्राणवतो जीवस्य मायां ब्रह्मात्मताज्ञापयित्री मा हिंसीः । योऽग्निर्ज्ञानाग्निरग्नेर्ब्रह्माग्नेः शोकात् शोकनाशकप्रकाशात्, ' तत्र को मोहः कः शोक एकत्वमनुपश्यतः ' ( ई ० वा ० ७ ) इति मन्त्रवर्णात् यश्च पृथिव्या उत या दिवो द्युलोकस्य परि उपरि वर्तते, येन ज्ञानेन विश्वकर्मा परमेश्वरः प्रजा जजान उत्पादितवान् तं ज्ञानाग्नि हे अग्ने, ते तव हेड: क्रोधो वृणक्तु वर्जयतु न नाशयत्विति यावत् ।
पृष्ठ 349
पाठ पढ़ें पाठ छिपाएँ
म ० ४५-४६ ] वेदार्थपारिजातभाष्यसहिता ३१३ दयानन्दस्तु हे अग्ने विद्वन् यः पृथिव्याः शोकात शोषकाद् उत वा दिवः सूर्यादग्ने विद्युताख्यादग्नि-वाक्षुषोऽध्यजायत, येन विश्वकर्मा विश्वानि कर्माणि यस्य सः प्रजाः परिजजान परिजनयति तं ते हेडोऽनादरः परिवृणक्त छिन्नो भवत् ' इति तदपि यत्किञ्चित्, नैरर्थक्यात्, अग्निना परमेश्वरो जगत् सृजतीत्य सिद्धेः । श्रुतो हि-- आकाशादिक्रमेणैव जगत्सृषिः समाम्नाता, ' तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः ' ( तै ० उ ० २ १ ) इति । शोकादित्यस्य शोषकादित्यर्थोऽपि निर्मुल एव । प्रसङ्गेऽस्मिन्नग्ने रग्न्युत्पत्तिवर्णनमपि निष्प्रयोजनम् पर्यजायतेति । सिद्धान्ते तु तात्पर्यानुपपत्तितो लक्षणा वृत्तिराश्रीयते । अथवा पृथिव्याः शोकाद् अग्निदेवत्योऽजः श्रुतिसम्मतं व्याख्यानम् । यद्वै प्रजापतेः शोकादजायत तद्दिवः पृथिव्याः शोकादजायतेति श्रुत्यवोक्तम् ॥ ४५ ॥
चित्रं देवानामुद गानौक चर्क्षमित्रस्य वरुणस्या॒ग्नेः । n आप्रा द्यावा॑पृथिवी अन्तरिक्ष सूर्य आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ ४६ ॥
मन्त्रार्थ- यह कि देवताओं के जीवनाधार, ब्रह्मा, विष्णु और महेश का रूप धारण करने वाले, कैसा है परमेश्वर के नेत्रों के समान प्रकाशमान, जंगन और स्थावर जगत् के अन्तर्यामी सूर्यदेव उदय को प्राप्त हो रहे हैं, भूलोक से द्युलोक पर्यन्त अन्तरिक्ष को अपने तेज से पूर्ण कर रहे हैं ॥ ४६ ॥
' चित्रं देवानामित्यर्धर्चशः स्रुवाती मध्यमे ' ( का ० श्री ० १७।५।१८ ) । अर्धर्चद्वयेन मध्यमे ( अर्थात् पुरुषशिरसि ) आहुतिद्वयं जुहुयादिति सूत्रार्थः । सप्तमेऽध्याये द्वाचत्वारिंश्यामियं व्याख्याता । अत्र ब्राह्मणम् -'अथ पुरुषशीर्षमभिजुहोति । आहतिर्वै यज्ञः पुरुषं तत्पशूनां यज्ञियं करोति तस्मात्पुरुष एव पशूनां यजते ' ( ७ | ५ | २ | २३ ) । उपधानानन्तरं पुरुषशिरसि होमं विधत्ते - अथेति । अभिहोमस्योपयोगमाह-आहुतिरिति । यदेषा खल्वाहुतिस्तदात्मको यज्ञः स्यात् । तथा सत्यभिहोमेन पशूनां दधात्याज्येन मध्ये पुरुषं यज्ञियं जुहोति यज्ञार्हं वज्रो करोति, तस्मात् पुरुष एव पशूनां मध्ये यजते । ' यद्वेवैनदभिजुहोति । शीर्षस्तद्वीर्यं वा आज्यं वीर्यं वै वज्रो वीर्यमेवास्मिन्नेतद्दधाति स्रुवेण वृषा वै स्रुवो वीयं वै वृषा वीर्यमेवास्मिन्नेतद्दधाति वीयं वै वज्रो स्वाहाकारेण वृषा वै स्वाहाकारो वीर्यं वै वृषा वीर्यमेवास्मिन्नेतद्दधाति त्रिष्टुभा वज्रो वै त्रिष्टुब प्रयोजनमपि वीर्यं त्रिष्टुब् वीर्येणैवास्मिन्नेतद्वीयं दधाति ' ( श ० ७।५।२।२४ ) । न केवलमभिहोमस्य यज्ञियत्वमेव वीर्यं दधाति । तु वीर्यत्वमपीत्याह - यद्वेवेति । एतत्पुरुषशीर्षमभिलक्ष्य जुहोतीति यत् तेन शीर्षन् शोष्णि ' सुपां ' शीर्षच्छन्दसि ' ( पा ० सू ० ६ १ ६० ) इति शिरःशब्दस्य शीर्षन्नादेशः । तत उत्तरस्याः सप्तम्याः मध्ये सुलुक् ( पा ० सू ० ७ ११३ ९ ) इत्यादिना लुक् । एतदेव वीर्यनिधानमभिहोमसाधनभूताज्यवादीनां प्रत्येक साध्यतया दर्शयति - आज्येनेत्यादिना । आज्यस्य वज्रत्वं तैत्तिरीयके श्रुतम् - ' घृतं खलु देवा वज्रं कृत्वा सोममघ्नन् ' ( तै ० सं ० ६ २ २ ४ ) । वज्रय प्रहरणरूपत्वाद् वीर्यत्वम् । वृषा वै स्रुव इति । वृषा वोर्यत्वम् पुरुषः ॥ स्रुवस्य पुंल्लिङ्गत्वाद् वृषत्वम् । वृष्णश्च वीर्यत्वाद् वीर्याधानहेतुत्वमिति । स्वाहाकारस्याप्येवमेव त्रिष्टुभोऽपि aat त्रिष्टुबिति । त्रिष्टुभो रजोहनन साधनत्वसादृश्याद् वज्रता । तथा च वज्रस्य वीर्यरूपस्यात् वीर्यं तया त्रिष्टुबात्मकत्वेन वीर्येणैव हेतुना अस्मिन् पुरुषशिरसि वीयं दधाति । ..... यदिदमन्तरतः ' स वा अर्धचंमनुद्रुत्य स्वाहाकरोति । अस्थि वा ऋगिदं तच्छीर्षकपालं विहाप्य अर्धर्चेन शोष्ण वीर्यं तदस्मिन् दधाति ' ( श ० ७ | ५ | २ | २५ ) । ' चित्रं देवानामुदगात् ' इत्यभिहोममन्त्रस्य पूर्वण । स खलु एकाहुतिः क्रियते, उत्तरेणार्धर्चेन चान्या । तत्र पूर्वार्धर्चसाध्यामाहुति दर्शयति -- स चेत् वा, अर्धर्चमिति तत्राह - अस्थि वा अध्वर्युरर्धर्चं मनुद्रुत्य स्वाहाकारेण एकामाहुति सम्पादयेदित्यर्थः । किमर्थमिति ४०
पृष्ठ 350
पाठ पढ़ें पाठ छिपाएँ
३१४ शुक्लयजुर्वेदसंहिता | अ ० १३ ऋगिति । ऋचोऽस्थ्यात्मकत्वं पादबन्धेन दाढर्शयोगात् । ऋचो दाढचं तैतिरीयके समाम्नातम् - ' यहचा तद् दृढम् ' ( तै ० सं ० ६ | ५ | १० | ४ ) इति । तथा च सति कुचो विभागेन तदिदं पुरुषसम्बन्धि शीर्षकपाल विहाप्य विभिद्य, ' ओहाक् त्यागे ' इति धातोः पान्तस्य त्यपि रूपम, शीर्ष्णः शिरसोऽन्तरे यदिदमत्र विद्यमानं वीर्यं तदस्मिन्निदधाति, आज्यस्वाहाकारयोर्वीर्यात्मकत्वादित्यर्थः । ' अथोत्तरमधं मनुद्रुत्य स्वाहाकरोति । इदं तच्छीर्ष कपाल सन्धाय यदिदमुपरिष्टात् शीर्णो वीयं तदस्मिन् दधाति ' ( श ० ७१५।२।२६ ) | अथोत्तरार्धर्चस्योपयोगमाह-- अथेति । पूर्वमन्तरे वीर्यंनिधानार्थं कपालभेदनात् पुनस्तत्कपालं सन्धाय शिरसि उपरितनं वीर्यमत्र निहितवान् भवति । ' चित्रं देवानामुदगादनीकमिति । असौ वा आदित्य एष पुरुषस्तदेतच्चित्रं देवानामुदेत्यनीकं चक्षुमित्रस्य वरुणस्याग्नेरित्युभयेषा ११ हैतद्देवमनुष्याणां. चक्षुराप्रा द्यावापृथिवी अन्तरिक्षमित्युद्यन् वा एष इर्माल्लोकानापूरयति सूर्य आत्मा जगतस्तस्थुषश्चेत्येष ह्यस्य सर्वस्यात्मा यच्च जगद्यच्च तिष्ठति ' ( श ० ७ ५। २।२७ ) । मन्त्रं दर्शयन् व्याचष्टे - चित्रं देवानामिति । एष उपधीयमानः पुरुषः, असो परिदृश्यमान आदित्यः खलु, आदित्यस्य सर्वात्मकत्वात् । आदित्यमण्डलं च देवानां रश्मीनां चित्रमनीकं समुदायः । तथा सत्यस्य पुरुषस्योपधानेन तदेतच्चित्रं देवानामनीकमुदेति । अत उच्यते ---चित्रं देवानामुदगादनीकमिति मन्त्रेणेत्यर्थः । चक्षुमित्रस्य वरुणस्याग्नेरिति । एवं मित्रादिदेवताग्रहणमन्येषा-मप्युपलक्षणम् । उभयान् प्रत्यस्य प्रकाशकत्वसाधारण्यादिति दर्शितम् उभयेषामिति । उभयेषां देवमनुष्याणां चक्षुरेतदुदेतीत्यर्थः । उद्यन् वेति । उदयमानः सन्नेष आदित्य इमान् पृथिव्यादीन् लोकान् आपूरयति प्राणः समर्थयति चेष्टयतीत्यर्थः । एतच्च तैत्तिरीयके श्रूयते - ' असोय आपूर्यंति स सर्वेषां भूतानां प्राणैरापूर्यंति ' ( तै ० आ ० १ १४ ) इति । अत एवोक्तम् – ' आ प्रा ' इति । ' प्रा प्रपूरणे ' इति धातोर्लङि रूपम् । सूर्य आत्मा जगतस्तस्थुषश्चेत्यनेन स्थावरजङ्गमात्मकस्य सर्वस्य जगतोऽयं सूर्यंश्चेष्टकत्वेनान्तर आत्मेति विवक्षित-मित्याह - एष हीति । अन्यत्तु पूर्वत्र व्याख्यातमेव । अध्यात्मपक्षे -- देवानां द्योतनात्मकानामिन्द्रियाणामनीकं समप्रिरूपं हिरण्यगर्भाख्यं चित्रमद्भुतं सूर्यं रूपेण उदगात् । तच्च मित्रस्य वरुणस्य उपकारकस्य अवरोधकस्य अग्नेश्च चक्षुः प्रकाशकम् । स च जगतस्तस्थुषश्च आत्मेव जीवनहेतुः । द्यावापृथिवी अन्तरिक्षं व आप्रा आपूरितवान् । दयानन्दस्तु – ' हे मनुष्याः, भवन्तो यद् ब्रह्म देवानां पृथिव्यादीनां मध्ये चित्रमद्भुतमनीकं सेनेत्र किरण-समूहं मित्रस्य प्राणस्य वरुणस्य उदानस्य अग्नेः प्रसिद्धस्य चक्षुर्दर्शकं सूर्य इव उद्गात्, जगतो जङ्गमस्य तस्थुषः स्थावरस्य च आत्मा सर्वस्यान्तर्यामी सद् द्यावापृथिवी प्रकाशाप्रकाशे जगती अन्तरिक्षमाकाशं च आप्रा व्याप्नोति तज्जगन्निर्मातृ, पातूं संहर्तुं व्यापकं सततमुपासीरन् ' इति, तदपि यत्किञ्चित् सूर्यस्येव प्राणोदानादीनां दर्शकस्य ब्रह्मणः प्रत्यक्षेणानुपलम्भात्, दृष्टान्तदान्तिकायोगात् ब्रह्मणो रूपत्वात् ॥ ४६ ॥
इ॒मं मा हिं ü सीद्वि॒पाद॑ प॒शुद्ध् स॑हस्राक्षो मेधा॑य ची॒यमा॑नः । म॒युं प॒शुं मेध॑मग्ने जुषस्व तेन॑ चि॒न्वा॒नस्त॒न्वो निषो॑द । म॒युं ते॒ शुगृच्छतु यं द्वि॒ष्मस्तं ते॒ शुग॑च्छतु ॥ ४७ ॥
W मन्त्रार्थ हे अग्निदेव, यज्ञ के निमित्त चयन किये गये, सहस्त्रों नेत्र वाले सुवणं खण्डरूप तुम इस पुरुषरूप पशुको पीडा मन दो । यदि तुम्हें किसी को पीड़ा देना है, तो तुम पवित्र तुरंगववन किंपुरुष पशु के पास जाओ । उसके सेवन से ज्वालारूप शरीर को पुष्ट करते हुए तुम यहाँ स्थित रहो, तुम्हारा संताप किंपुरुष को प्राप्त हो, तुम्हारा संताप, जिससे हम द्वेष करते हैं, उसको प्राप्त हो ॥ ४७ ॥