वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 351–360
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 351–360
पृष्ठ 351
पाठ पढ़ें पाठ छिपाएँ
म ० ४७ ] वेदार्थपारिजातभाष्यसंहिता ३१५ ' बहिर्वेद्युदङ् तिष्ठन्नुपतिष्ठत उत्सर्गेरिमं मा हिसीरिति प्रतिमन्त्रम् ' ( का ० श्री ० १७।५।१ ९ ) । ' इमं माहि ४ सीः ' इत्यादयो मन्त्रा उत्सर्गा इत्युच्यन्ते । चित्याग्नेरुत्तीर्यं वेदेर्बंहिदक्षिणे उदङ्मुखस्तिष्ठन् उत्सर्गसंज्ञैः पश्चभिर्मन्त्रः पुरुषादिशिरांस्युपतिष्ठतेऽध्वर्युः । एकपशुपक्षे तमेव पचभिरप्युपतिष्ठत इति सूत्रार्थः । अग्निदेवत्याः पञ्चत्रिष्टुभः । आद्ययोरन्ते द्वे यजुषी । तिसृणामन्ते त्रीणि त्रीणि यजूंषि । हे अग्ने, सहस्राक्षः सहस्राण्यक्षीणि ज्वालारूपाणि यस्य सः, हिरण्यशकलरूपसहस्रनेत्रो वा ' हिरण्यशकलैर्वा एष सहस्राक्षः ' ( श ० ७७५।२।३२ ), ' द्विपादा एष पशुर्यत्पुरुष: ' ( श ० ७ | ५ | २ | ३२ ) इति श्रुतेः । मेधाय यज्ञाय चीयमानश्चयनेन संस्क्रियमाण इमं द्विपादं पादद्वयोपेतं ग्राम्यपशुं मा हिंसी: मा दह । दाहरूपां हिंसां मा कार्षीः । यदि ते भक्ष्यापेक्षा तर्हि तव भक्षणाय मेधं शुद्धं पशुं मयुं कृष्णमृगं तुरङ्गवदनम्, ' किंपुरुषो वै मयुः ' ( श ० ७२५२३२ ) इति श्रुतेः किम्पुरुषं वा जुषस्व सेवस्व, भक्षयस्वेत्यर्थः । ' मयुर्मृगाश्वमुखयोः ' इति हैम: । तेन मयुभक्षणेन तन्वो ज्वालारूपास्तनूश्चिन्वानः पोषयन् निषीद । तन्व इति द्वितीयार्थे प्रथमा । इतः परं यजुः । ते तव शुक् शोकः सन्तापो मयुं किन्नरं मृगं वा ऋच्छतु प्राप्नोतु । किन यं पुरुषं प्रति वयं द्विष्मो द्वेषं कुर्मः, ते तव शुक् तमृच्छतु । अत्र ब्राह्मणम् -'अथोत्सर्गेरुपतिष्ठते । एतद्वै यत्रैतान् प्रजापतिः पशूनालिप्सत त आलिप्स्यमाना अशोचंस्तेषामेतैरुत्सर्गैः शुचं पाप्मानमपाहंस्तथैवैषामयमेतदेतंरुत्सर्गेः शुचं पाप्मानमपहन्ति ' ( श ० ७।५।२।२८ ) । अभिहोमानन्तरमुपहितानां पुरुषशिरःप्रभृतीनां पशुशिरसामुत्सर्गनाम कैर्मन्त्रैरुपस्थानं विधत्ते -- अथेति । विहित-मन्त्रसाध्यस्योपस्थानस्य प्रयोजनाभिधानं प्रतिजानीते -- एतद्वा इति । एतत्खलु प्रयोजनमित्यर्थः । तदेव दर्शयति--यत्रैतानिति । यत्र यस्मिन् प्रस्तावे प्रजापतिरेतान् पुरुषमुख्यान् पशून आलब्धुमैच्छत्, तदा आलिप्स्यमानास्ते अशोचन्, आलम्भस्य शोकहेतुत्वात् । ततस्तेषां शोकरूपं पापमेतैर्वक्ष्यमाणैरुपसर्गमन्त्रैर पहतवान् । तथैवायमपि यजमान एतेनोपस्थानेनैषां शोकरूपं पापमवहन्ति । ' मयं पशुं मेधमग्ने जुषस्व ' इत्यादिना आरण्यपशूत्सर्गप्रति-पादनेन तेषामुत्सर्गत्वं शोकोत्सर्गहेतुत्वाद्वा । ' तर्द्धके । यं यमेव पशुमुपदधति तस्य तस्य शुचमृत्सृजन्ति नेच्छुचं पाप्मानमभ्युपधामहा इति ते ह ते शुचं पाप्मानमभ्युपदधति या हि पूर्वस्य शुचमुत्सृजन्ति तामुत्तरेण सहो-पदधति ' ( श ० ७।५।२।२ ९ ) । अत्र पञ्चानामपि पशूनामुपधानानन्तरमुत्सर्गमन्त्रैरुपस्थानमिति स्वकीयं मतम्, तथैवोक्तत्वात् । अपरे पुनरत्रानुष्ठानक्रमे किञ्चिद्वैषम्यमाचक्षते । तन्मतं दूषयितुमनुवदति -- तक इति । तेषामाशयमाह - नेदिति । पूर्वमुपहितस्य पशोः शोकमुत्सारितमभिलक्ष्यैवोत्तरपशोरुपधानं स्यात् । अतस्तन्मा भूदिति तथा कुर्वन्तोत्यर्थः । तन्मतं दूषयति हेति । तथाविधाभिप्रायवन्तस्ते खलु याज्ञिकाः शोकरूपं पापमभि-लक्ष्यंवोपदधति । यतः पूर्वस्य पशोर्या शुचमुत्सृजन्ति } तामेवोत्तरेण सहोपदधति, निवृत्तसजातीयानुवृत्ति-भावादित्यर्थः । ' विपरिक्राममु हैक उपतिष्ठन्ते । ऊर्ध्वा " शुचमुत्सृजाम इति ते ह ते शुचं पाप्मानमनूद्यन्त्यूर्ध्वो ह्येतेन कर्मणेत्यूर्ध्वा शुचमुत्सृजन्ति ' ( ० ७ ५ | २ | ३० ) । अर्थतेषामेवोपस्थाने केषामिच्छाखिनां प्रकारविशेषं दूषयितुमनुवदति - विपरिक्राममिति । पशूनां शुचमूर्ध्वामुत्सृजाम इति केचिद् विपरिक्रम्य विपरिक्रम्योपतिष्ठन्ते । उत्क्रमणपूर्वकत्वाद् विपरिक्रमणस्येति तथोपस्थाने शोक ऊर्ध्वं एवोत्सृष्टो भवतीति तेनोपतिष्ठन्त इति भावः । तदपि दूषयति - तेह ते इति । तथाविधाभिप्रायवन्तस्ते शोकरूपं पापमनुद्यन्ति विपरिक्रमणार्थमुद्गमने कृते शोकं प्रत्यनुगतवन्तो भवन्ति । अतो न तथा कुर्यात् । कथं तर्हि शोक ऊर्ध्वमुत्सृष्टो भवतीत्याह – ऊर्ध्वो हीति । एतेनोपधानलक्षणेन कर्मणा ऊर्ध्वऽध्वरेति, उत्तरोत्तरमेतेषां शिरसामुपधानात् । अतस्तेनैव कर्मणोर्ध्वामुत्सृजन्ति । व्यत्ययेन बहुवचनं प्रयोग बहुत्वापेक्षं वा । ' बाह्येनैवाग्निमुत्सृजेत् । इमे वै लोका एषोऽग्निरेभ्यस्तल्लोकेभ्यो बहिर्धा शुचं दधाति बहिर्वेदीयं वैवेदिर हि शुचं दधात्युदङ् तिष्ठन्तस्या ह दिश्येते पशवस्तद्यत्रैते पशवस्तदेवैष्वेतच्छुचं दधाति '
पृष्ठ 352
पाठ पढ़ें पाठ छिपाएँ
३१६ शुक्ल यजुर्वेदसंहिता [ अ ० ११३ ( श ० ७ | ५ | २ | ३१ ) । अग्ने॑बहिर्देशे शोकमुत्सृजेदित्याह - बाह्येनेति । अग्नेर्बाह्यदेशेनोपलक्षिते शुचमुत्सृजे-दित्यर्थः । अग्नेः प्रजापत्यात्मकत्वेन तत्पृथिव्यादिलोकात्मनोक्तत्वात् तस्य बहिर्देशे शोकोत्सर्जनेन लोकेभ्य एव शोको बहिर्धा भवतीति । बाह्येनैवाग्निमित्यनेनाग्नि प्रदेशव्यतिरिक्तदेशे विधानाद् वेदिमध्येऽपि स्यादित्यत आह - बहिर्वेदीति । वेद्या बहिर्बहिर्वेदि शोकोत्सर्गे वेद्याः कृत्स्नपृथिव्यात्मकत्वात् तस्या बहिरेव शोकोत्सर्गो भवतीति दर्शितम् - इयं वा इत्यादिना । उत्तरस्यां दिशि वक्ष्यमाणा मयप्रभृतयः पशवोऽवतिष्ठन्त इति तत्र शोकनिधानाय उदङ्मुखस्तिष्ठन्नुत्सृजेदित्याह -- उदङ् तिष्ठन्निति । ' पुरुषस्य प्रथममुत्सृजति । तहि प्रथममुपधातोमं मा हि सोद्विपादं पशुमिति द्विपाद्वा एष पशुर्यत्पुरुषस्तं मा हिसीरित्येतत्सहस्राक्षो मेधाय चीयमान इति हिरण्यशकलव एष सहस्राक्षो मेधायेत्यन्नायतन्मयुं पशुं मेधमग्ने जुषस्वेति किम्पुरुषो वै मयुः किम्पुरुषमने जुषस्वेत्येतत्तेन चिन्वानस्तन्वो निषीदेत्यात्मा वै तनुस्तेन चिन्वान आत्मान संस्कुरुष्वे-त्येतन्मयं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तन्मयौ च शुचं दधाति यं च द्वेष्टि तस्मिन ' ( श ० ७।५।२।३२ ) । उत्सर्गमन्त्रैरुपस्थानं तत्र स्वाभिमतप्रकारं देशविशेषमध्वर्योरवस्थानविशेषं च प्रदश्यपधानक्रमेणैव पुरुषस्य शोकं पूर्वमुत्सृजेदित्याह - पुरुषस्येति । तत्र मन्त्रविशेषं प्रदर्शयन् पादशो विभज्य व्याचष्टे - इमं मा हिसीरिति । सहस्रशब्दो लक्षणया बह्वर्थक:, अत्र सहस्रसंख्यानां हिरण्यशकलानामभावात् । अथवा उत्तरत्र सहस्रसंख्या कै-हिरण्यशकलः प्रोक्ष्यमाणत्वात् तदभिप्रायेण सहस्रसंख्यानां हिरण्यशकलानां प्रकाशकत्वेन आक्षिपोपचारः । आत्मा वै तनूरिति, तेनाधिष्ठितत्वादित्यर्थः । तथा चायं मन्त्रार्थः - हे अग्ने, हिरण्यशकलैः सहस्राक्षी मेधाय चीयमानस्त्वं पशूनां मध्ये द्विपादमिमं पुरुषं मा हिंसीः । यदि तव भक्ष्यापेक्षास्ति, तर्हि आरण्यं किम्पुरुष-मुत्सृजामि । तेन किम्पुरुषेण आत्मानं पोषयन् संस्कुरुष्व । त्वत्सम्बन्धिनी शुङ् मयुं प्राप्नोतु, यं च वयं द्विष्मस्तमपि प्राप्नोत्विति । अध्यात्मपक्षे - हे अग्ने भगवन् श्रीराम प्रत्यगात्मन् सहस्राक्षः सहस्रमनन्तान्यक्षीणि यस्यासौ, सहस्राक्षः सहस्रपात् ' ( वा ० सं ० ३१ । १ ) इति मन्त्रवर्णात् । मेधाय ज्ञानरूपाय यज्ञाय चीयमानः शमदमादिभिः संस्क्रियमाणः सन् त्वं द्विपादमिमं मनुष्यं पशुं जोवं मा हिसीज्ञनेिन वचितं मा कार्षीः । मयुं किन्नरं पशुं तदुपलक्षित-मृक्षवानरादिकम्, मेधं पवित्रं जुषस्व प्रीणीहि । तेन प्रीणनेन तन्वस्तनूर्गोब्राह्मणसाधुधर्मरूपाश्चिन्वानः सञ्चयनं कुर्वन्, पोषयन्नित्यर्थः । निषीद, भक्तानां हृदयेष्विति शेषः । ते तव शुग् अपराधान्निर्वृत्तं रोषात्मकं तेजो मयुममेधमपवित्रं पशुमृच्छतु, यं च वयं द्विष्मस्तमृच्छतु । दयानन्दस्तु - ' हे अग्ने पावक इव मनुष्य, मेधाय सुखसङ्गमाय चीयमानो वर्धमानः सहस्राक्षोऽसंख्य-दर्शनस्त्वमिमं द्विपादं मनुष्यादिकं मेधं पवित्रकारकं मयुं जाङ्गलं पशुं गवादिकं प्रसिद्धं मा हिंसी:, तं पशुं जुषस्व प्रीणीहि । तेन चिन्वानः सन् तन्वो मध्ये निषीद । इयं ते शुङ् मयुं शस्यादिहिंसकं पशुमृच्छतु । ते तव यं शत्रुं वयं द्विष्मस्तं शुगृच्छतु ' इति, तदपि यत्किञ्चित् श्रुतिसूत्रादिविरोधात्, गौणार्थाश्रयणाच्च । सङ्गमार्थकस्य मेघृधातोर्न केवलं सुखसङ्गमोऽर्थो भवितुमर्हति दुःखसङ्गमस्यापि तदर्थसम्भवात् । असंख्यदर्शनस्य सहस्राक्षत्वे सर्वस्यापि तत्प्रसक्त्या विशेषणवैयर्थ्यात् । तच्च सममन्यत्रापि । मयुमित्यस्य एकत्र गवादिकोऽर्थः, अन्यत्र शस्यादिहिंसकोऽर्थ इत्यर्थभेदे हेतुर्वक्तव्यः । सर्वोऽपि शरीरस्य मध्ये तिष्ठत्येवेति तदुपदेशोऽपि व्यर्थ एव । शोकोऽपि न कस्यचित्प्रार्थनया अन्यत्र गन्तुं प्रभवति वद्रीत्या । सनातनधमरीत्या तु देवानामचिन्त्यशक्तित्वेन तत्प्रसादात्तत्सम्भवत्येव ॥ ४७ ॥
पृष्ठ 353
पाठ पढ़ें पाठ छिपाएँ
म ० ४८-४९ ] वेदार्थ पारिजातभाष्यसहिता ३१७ इ॒मं मा हिंस॒रेक॑शकं प॒शुं कनिक्रद्र वाजिनं वार्जिनेषु । गौरमा॑र॒ण्यमनं ते दिशामि तेन॑ चिन्वा॒नस्त॒न्वे निषो॑द । गौरं ते॒ शुग॑च्छतु यं द्वि॒ष्मस्तं ते॒ शुग॑च्छतु ॥ ४८ ॥
मन्त्रार्थ – हे अग्निदेव, बार - बार हिनहिनाने वाले, वेगवानों में अति वेगवान्, एक खुर वाले घोड़े को तुम पीड़ा मत दो । तुम्हारे लिये मैं वन के गौर वर्ण मृग को देता हूँ । उससे अपना शरीर पुछ करते हुए तुम यहाँ रहो । तुम्हारा सन्ताप अश्व को प्राप्त न होकर गौर वर्ण मृग को प्राप्त हो । तुम्हारा सन्ताप उसे प्राप्त हो, जिससे हम द्वेष करते हैं ॥ ४८ ॥
अयमश्वोपस्थान मन्त्र. इममिति । हे अग्ने, इममेकशफमेकखुरमश्वरूपं पशुं मा हिंसीः । अस्य दाहरूपां हिंसां मा कार्षीः । कीदृशमश्वम्? कनिक्रदम् हेषाशब्देनात्यन्तक्रन्दनोपेतम् अतिशयेन क्रन्दितारं हे माण-मिति यावत् । वाजिनेषु शीघ्रगतियुक्तेषु प्राणिषु वाजिनम् अत्यन्तशीघ्रगतियुक्तम् । यदि ते तव भक्ष्यापेक्षा तर्हि ते तव भक्षणाय इममारण्यं गोरं सिंहम् अनुदिशामि । पुरुषशीर्षमनु त्वद्भक्ष्यत्वेनातिसृजामि । तेन गौरभक्षणेन त्वदीया ज्वालारूपास्तनूः पोषयन् इह निषीद । शेषं पूर्ववद् व्याख्येयम् । अत्र ब्राह्मणम् -- ' अथाश्वस्य । इमं मा हि ४ सीरेकशर्फ पशुमित्येकशफो वा एष पशुर्यदश्वस्तं मा हि सीरित्येतत् कनिक्रदं वाजिनं वाजिनेष्विति कनिक्रदो वा एष वाज्यु वाजिनेषु गौरमारण्यमनु ते दिशामीति तदस्मै गोरमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मान संस्कुरुष्वेत्येतद् गौरं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तद्गौरे च शुचं दधाति यं च द्वेष्टि तस्मिव ' ( श ० ७।५।२ ३३ ) । अथाश्वस्य शोकोत्सर्गमन्त्रं प्रदर्शयन् पूर्ववद् व्याचष्टे - अथेति । अश्वः कनिक्रदः अत्यर्थं क्रन्दिता । वाजिनेषु वेगवत्सु वा अत्यर्थं वेगयुक्तः । गौरम्, सिंहमित्यर्थः । शेषं पूर्ववत् । अध्यात्मपक्षे - हे अग्ने भगवन्, इममेकशफमेकखुरमश्वं वाजिनेषु वाजिनं वेगवत्स्वतिशपेन वेगवन्तं हनुमन्तं मा हिंसोर्ज्ञानवञ्चितं मा कार्षीः ज्ञानोपदेशेन कृतार्थं कुवित्यर्थः । आरण्यं वनवासिनं गौरं तेजोमयं शुद्धसाधकं ते तुभ्यमनुदिशामि त्वामनुलक्ष्य समर्पयामि । तेन तन्वः पूर्वोक्तास्तनूश्चिन्वानः पोषयन्निषद | तद्भिन्नं गौरं पशुं ते तव शुग् गच्छतु । यं द्विष्मस्तं ते तव मायात्मकं तेजो गच्छतु । दयानन्दस्तु - ' हे मनुष्य, त्वं वाजिनेषु वाजिनानां संग्रामाणामवयवेषु कर्मसु एकशफम् एकखुरमश्वादिकं निदं भृशं विकलं प्राप्तव्यथं वाजिनं वेगवन्तं पशुं मा हिंसीः । ईश्वरोऽहं ते तुभ्यमारण्यं गौरं पशुमनुदिशामि । तेन चिन्वानो वर्धमानस्तन्वोर्मध्ये निषीद । ते तव सकाशाद् गौरं शुगृच्छतु । यं वयं द्विष्मस्तं ते शुगृच्छतु ' इति, तदपि न युक्तम् राज्ञोऽत्र सम्बोद्धयत्वे मानाभावात् । वाजिनं मा हिंसीः, तुभ्यमारण्यं पशुमनुदिशामीत्यनयोः सङ्गत्यभावात् । यद्यत्र मन्त्रे परमेश्वरो वक्ता तदा यं वयं द्विष्मस्तमृच्छत्विति नोपपद्यते, तस्य द्वेषादिशून्यत्वात् ॥ ४८ ॥
इ॒म ü सहस्रं श॒तधा॑र॒मा॒त्सं व्यच्यमा॑न सरि॒रस्य॒ ध्ये । घृतं बृ॒हना॒मदि॑ति॒ जनायाग्ने॒ माहितीः परमे व्योमन् । गव॒यमा॑र॒ण्यमनं ते दिशामि॒ तेन॑ चिन्वानस्तन्वी निषद । गवयं ते॒ शुगृच्छत॒ यं द्वि॒ष्मस्तं ते॒ शुग॑च्छतु ॥ ४ ९ ॥ - Ad
पृष्ठ 354
पाठ पढ़ें पाठ छिपाएँ
३१८ शुक्लयजुर्वेद संहिता [ अ ० ] १३ मन्त्रार्थ - हे अग्निदेव, उत्कृष्ट स्थान में स्थित सहस्र मूल्य के योग्य शतसंख्याक क्षीरधारा से युक्त कूप के सदृश दूध के सोते वाली, लोकों के मध्य में अनेक प्रकार से व्यवहार को प्राप्त, समस्त जनों के हित के निमित्त घृत के कारणभूत दूध को देने वाली इस नीरोग गौ को किसी प्रकार की पीड़ा मत दें । यदि पीड़ा देने की इच्छा हो, तो वन में रहने वाले गाय सरीखे गवय पशु को मैं तुम्हें सौंपता हूँ । अपने शरीर को उसी से पुष्ट करते हुए आप यहाँ स्थित रहें, आपकी ज्वाला गवय को प्राप्त हो । जिससे हम द्वेष करते हैं, उसे भी आपकी ज्वाला प्राप्त हो ॥ ४ ९ ॥ अथ गोरुपस्थान मन्त्रः-- इमं साहस्रमिति । अत्र विशेषणद्वयं स्त्रीलिङ्गम् । शेषाणि पुंल्लिङ्गानि । व्यत्यये-नोभाभ्यां गौरेव स्तूयते । हे अग्ने, परमे व्योमन् उत्कृष्टे स्थाने स्थितमिमं गोरूपं पशुं त्वं मा हिंसीः । कीदृशम्? साहस्रम् सहस्रमूल्याहं सहस्रोपकारक्षमं वा । पुनः कीदृशम्? शतधारं शतसंख्याकक्षी रधारायुतम् । अत एवोत्सम् उत्समिव उत्सम् । उत्सः कूपस्तत्सदृशम्, बहुस्त्रोतसमित्यर्थः । अथवा वादोहादिभिर्बहूपकारकम् । सरिरस्य मध्ये एषु लोकेषु अन्तर् व्यच्यमानं जनैर्विविधैरच्यमानम् उपजीव्यमानम्, ' इमे वै लोकाः सरिरम् ' ( श ० ७ | ५ | २ | ३४ ) इति श्रुतेः । जनाय सर्वलोकाय घृतं दुहानां घृतकारणं क्षीरं क्षरन्तीम्, घृतपूरणीं वा । अदितिमखण्डनीयाम् । ते तव आरण्यं गवयं गोसदृशं पशुं ते अनुदिशामि । तेन चिन्वानस्तन्वो निषीद | अन्यत् पूर्ववद् व्याख्येयम् । अत्र ब्राह्मणम् -'अथ गोः । इम, साहस्र १५ शतधारमुत्समिति साहस्रो वा एष शतधार उत्सो यद् गौर्व्यच्यमान सरिरस्य मध्य इतीमे वै लोकाः सरिरमुपजीव्यमानमेषु लोकेष्वित्येतद् घृतं दुहानामदिति जनायेति घृतं वा एषाऽदितिर्जनाय दुहेने मा हि सीः परमे व्योमनितीमे वै लोकाः परमं व्योमैषु लोकेष्वेनं माहिसीरित्येतद् गवयमारण्यमनु ते दिशामीति तदस्मै गवयमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषीदेति तेन चिन्वान आत्मान, संस्कुरुष्वेत्येतद् गवयं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तद्गवयं च शुच दधाति यं च द्वेष्टि तस्मिव ' ( श ० ७५ | २ | ३४ ) गोः शोकोत्सर्गमन्त्रं प्रदर्शयन् व्याचष्टे - अथ गोरिति । साहस्रो वा इति । गौरिति यदेष साहस्रः सहस्राक्षः सजातीयधेनुद्वारा शतसंख्याकक्षीरधारासम्पन्नः, अत एव उत्सः कूपः, ' उत्स इति कूपनामसु ' ( निघ ० ३।२३ | १० ), तस्यानेकजलधारावाहित्वादस्य चानेकक्षीरधारा-वाहित्वाद् उत्सत्वोपचारः । घृतं वा एषेति । अदितिरखण्डनीया अदीना वा एषा गौः जनाय घृतं दुहे, क्षीरादिद्वारा तस्य सम्पादनात् । अत्रापि सजातीयधेनुद्वारा घृतदोहनम्, तदपेक्षं वाऽत्र स्त्रीलिङ्गम् । ' दुहे ' इत्यत्र ' लोपस्त आत्मनेपदेषु ' ( पा ० सू ० ७ | १ | ४१ ) इति तकारलोपः । स्वष्टमन्यत् । अध्यात्मपक्षे - हे अग्ने, इमं साहस्रं सहस्रमनन्तं मूल्यमर्हतीति साहस्रम् सहस्रोपकारकं वा । शतधारं शतमनन्तं क्षीरधारा यस्मात्तं शतधारम् उत्सं स्रोत इव व्यच्यमा जनवविधमुपजीव्यमानं परमे व्योमन् उत्कृष्टे स्थाने स्थितं सरिरस्य लोकानां मध्ये घृतं दुहानामाज्यं प्रपूरयन्तीमदितिमखण्डनीयां गां मा हिंसीः किन्तु सर्वतः परिपालयेत्यर्थः । आरण्यं गवयं गोसदृशं पशुं तेऽनुदिशामि त्वामनुलक्ष्य दिशामि समर्पयामि । तमपि रक्ष । तेन चिन्वानस्तन्वस्तनूः पोषयन् निषीद । ते तव शुक् शुनिवर्तकः प्रकाशो गवयमृच्छतु । यं द्विष्मस्तं शत्रुं रोषात्मकं तेजो गच्छतु । दयानन्दस्तु -- ' हे अग्ने, त्वं जनाय इमं साहस्रं सहस्रस्य असंख्यातानां सुखानामयं साधकस्तं शतधारं शतम् असंख्याता दुग्धधारा यस्मात्तं व्यच्यमानं विविधप्रकारेण पालनीयम् उत्सं कूपमिव पालकं गवादिकं वीर्यसेचकं वृषभं घृतमाज्यं दुहानां प्रपूरयन्तीमदितिमखण्डनीयां धेनुं मा हिंसीः । स ते तुभ्यमारण्यं गवयं गोसदृशमनुदिशामि । तेन परमे व्योमन् प्रकृष्टे व्याप्तेऽन्तरिक्षे सरिरस्य अन्तरिक्षस्य मध्ये चिन्वानः पुष्टः सन्
पृष्ठ 355
पाठ पढ़ें पाठ छिपाएँ
म ० ४ ९ -५० ] वेदार्थपारिजात भाष्य सहिता ३१ ९ तन्वो निषीद । तं गवयं ते शुगृच्छत् । यं ते शत्रुंं वयं द्विष्मस्तमपि शगृच्छत् ' इति, तदपि न सङ्गतम्, गोसदृशस्य गवयस्य सस्यादिनाशकत्वेन हिंसनीयत्वे तुल्यन्यायेन गवादिपशूनामपि सस्यादिनाशकत्वेन हिंसनीयत्वापत्तेः । न च गवादीनामारण्यकत्वासम्भवः, तादृशानां वन्यानामद्यापि प्रत्यक्षेणोपलम्भात् । तस्माद् गवयादीनां हिंसनीय स्वोक्तिः स्वसिद्धान्तविरुद्धेव । सिद्धान्ते त विधिदृष्टिरेव सर्वतोऽपि बलीयसीति ॥ ४ ९ ॥ इ॒मम॑र्णायुं वरु॑षस्य॒ नाभ स्वचे पशूनां द्विषां चतु॑ष्पदाम् । त्वष्टः प्रजानां प्रथ॒मं जनित्रमग्ने मा हिंसीः परमे व्योमन् ॥ उष्ट्रमार॒ण्यमनु॑ ते दिशासि॒ तेन॑ चिन्वा॒नस्त॒न्वो निषद उष्टे से गुच्छत यं द्वि॒ध्मरतं ते॒ शुच्छतु ॥ ५० ॥
मन्त्रार्थ - हे अग्निदेव, उत्कृष्ट स्थान में स्थित ऊन से भरे हुए, वरुण की नाभि, अर्थात् सन्तान के समान प्रिय, मनुष्य और चौपाये, इन दोनों प्रकार के पशुओं को कम्बल आदि से आच्छादित करने के कारण त्वचास्वरूप, प्रजापति की प्रजा में सबसे पहले उत्पन्न हुए अवि ( भेड़ ) नामक पशुको पीड़ा मत दो । मैं वन में रहने वाले ऊँटों को आपको देता हैं | आप यहीं रहते हुए अपनी ज्वाला को वनले उटों से तृप्त करो । जिससे हम द्वेष करते हैं, उनको भी आपकी ज्वाला प्राप्त हो ॥ ५० ॥
अथावेरुपस्थान मन्त्रः - इममूर्णायुमिति । हे अग्ने, परमे व्योमन् स्थितमिममृर्णायम् ऊर्णा अस्त्यस्मिनि-त्यूर्णायुस्तम ऊर्णावन्तम् । ' ऊर्णाया युस् ' ( पा ० सू ० ५ | २ | १२३ ) इति मत्वर्थीयो युस् । सित्वात् ' सिति च ' ( पा ० सू ० १/४/१६ ) इत्यूर्णाशब्दस्य पदत्वेन ' यस्येति च ' ( पा ० सू ० ६ । ४ । १४८ ) इत्याकारलोपो न भवति । अवि मा हिंसीः । कोदृशमत्रिम्? वरुणस्य अनिष्टनिवारकस्य अग्नेर्नाभिस्थानीयं तद्वत् प्रियं वा । द्विपदां मनुष्याणां चतुष्पदां गवादीनामुभयरूपाणां पशूनां त्वचं त्वक्सदृशम् । यथा त्वचा शरीरमावृतं तथा द्विपादो मनुष्याः शीतनिवारणार्थमविजन्येन कम्बलादिना आच्छादिता भवन्ति । चतुष्पादोऽप्यश्वादयो बलीवर्दादयश्च भारवहने मार्दवार्थं पृष्ठे कम्बलेन आच्छादिता भवन्ति । पुनः कथंभूतम्? त्वष्टुः प्रजापतेः प्रजानां मध्ये प्रथमं जनित्रं प्रथममुत्पन्नम् प्रधानत्वेनोत्पन्नं वा । प्राधान्यं च वीर्यवत्त्वेन । वीर्यवत्त्वं च सर्वेषां बाहुजन्यानां तैत्तिरीये आम्नातम् - ' तस्मात्ते वीर्यवन्तो वीर्याद्वयसृज्यन्त ' ( तै ० सं ० ७ १ १ ४ ) इति । उष्ट्रं प्रसिद्धं ते ददामि । अन्यत् स्पष्टम् । अत्र ब्राह्मणम् – ' अथावेः । इममूर्णायु मित्यूर्णाचलमित्येतद्वरुणस्य नाभिमिति वारुणो ह्यविस्त्वचं पशूनां द्विपदां चतुपदामित्युभयेषा हैष पशूनां त्वग् द्विपदां च चतुष्पदां च त्वष्टुः प्रजानां प्रथमं जनित्रमित्येतद्ध त्वष्टा प्रथम १ ९ विचकाराग्ने मा हि सोः परमे व्योमन्नितीमे वै लोकाः परमं व्योमंषु लोकेष्वेनं मा हिसीरित्येत-दुष्ट्रमारण्यमनु ते दिशामीति तदस्मा उष्ट्रमारण्यमनुदिशति तेन विन्वानस्तन्वो निपोदेति तेन चिन्वान आत्मानं संस्कुरुष्वेत्येतदुष्ट्र ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तदुष्टे च शुचं दधाति यं च द्वेष्टि तस्मिंश्च ' ( श ० ७।५।२।३५ ) । अवेः शोकोत्सर्गमन्त्रं प्रदर्शयन् व्याचष्टे -- उभयेषां हैष इति । एष अविरूपः पशुः, उभयेषां पशूनां द्विपदां मनुष्याणां चतुष्पदामश्वादीनां च त्वग्रूपं भवति, स्वकीयत्वचा कम्बलादिना ह्येषामाच्छादनात् । एतद्धेति । स्वष्टा प्रजानां निर्माता देवः । प्रजानां मध्ये एतद् अविरूपं पशुं प्रथमं विचकार उत्पादितवान् । अत उक्तम्- त्वष्टुरिति । विशदार्थमन्यत् ।
पृष्ठ 356
पाठ पढ़ें पाठ छिपाएँ
३२० शुक्लयजुर्वेदसंहिता [ अ ० १३ अध्यात्मपक्षे हे अग्ने, त्वमिमं वरुणस्य नाभि परमे व्योमन् स्थाने स्थितमवि मा हिंसी । कीदृशम्? ऊर्णायुमित्यादि पूर्ववत् । स्वष्टुः प्रजापतेः प्रजाः पालय । उष्टं प्रसिद्धं ते ददामि, तमपि पालयेति शेषः, सर्वस्यात्मत्वात् सर्वान्तर्यामित्वाच्च । दयानन्दस्तु — ' हे अग्ने राजन् त्वमिमं वरुणस्य वरस्य प्राप्तव्यसुखस्य नाभि निबन्धनं द्विपदां चतुष्पदां पशूनां त्वचं त्वष्टुः सुखप्रकाशकस्य प्रजानां प्रथममादिमं जनित्रमुत्पत्तिनिमित्तं परमे व्योमन् वर्तमानमूर्णायुमवि मा हिंसीः । ते यं धान्यहिंसक मारण्यमुष्टं हन्तुमनुदिशामि तेन चिन्वानः सन् तन्वो मध्ये निषीद । ते शुग् आरण्यमुष्ट्रपृच्छतु, यं ते द्वेष्टारं वयं द्विष्मस्तमृच्छतु ' इति तदपि यत्किञ्चित् तेनैव न्यायेनोभयोरपि हिंसनीयत्वापत्तेः । कथमवेः प्रजानामादिममुत्पत्तिनिमित्तमिति तु नोक्तम् ॥ ५० ॥
अजो ह्यग्नेरजनिष्ट शोकात् सो अवश्यज्जनितारम । तेन देवा देवतामग्र मायंस्तेन
रोहमा मेध्या॑सः ॥ श॒र॒भमा॑र॒ण्यम ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो निर्षौद ।
श॒र॒भं ते॒ शुग॑च्छत यं द्वि॒ष्मस्तं ते शुग॑च्छतु ॥ ५१ ॥
मन्त्रार्थ अजा ( बकरी ) निश्चय ही प्रजापतिरूप अग्नि के शोक से उत्पन्न हुई है । उसने सबसे पहले अपने उत्पन्न करने वाले को देखा है, देवगण उसके द्वारा पूर्वजन्म में यज्ञ आदि कर्म करके देवत्व को प्राप्त हुए हैं तथा वर्तमान काल में यजमान इसकी सहायता से यज्ञ करके स्वर्ग को प्राप्त करते हैं । हे अग्निदेव, मैं बन के शरभ नामक मिघाती आठ चरण वाले मृग को आपको देता है । आप उससे अपने शरीर को पुष्ट कर हमारे यहाँ ही रहें । आपकी ज्वाला शरम को प्राप्त हो । जिससे हम द्वेष करते हैं, उसको भी आपको ज्वाला प्राप्त हो ॥ ५१ ॥
अथाजस्य शोकोत्सर्गमन्त्रः -- अजो ह्यग्नेरिति । हि यस्मादयमजः शोकाद्दीप्तियुक्तादग्नेः सकाशादजनिष्ट, ' यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत ' ( श ० ७१५/२/३६ ) इति श्रुतेः । तैत्तिरीया अपि तथैव समामनन्ति - ' आत्मनो वपामुदखिदत् तामग्नौ प्रागृह्णात् ततोऽजस्तूपरः समभवत् ' ( तै ० सं ० २ | १ | ११४ ) इति । स एवाग्नेः प्रजापतिरूपादुत्पन्नोऽजो जनयितारं स्वोत्पादकं प्रजापतिरूपमग्रेऽपश्यद् उत्पत्त्यनन्तरमेव दृष्टवान् । यस्मादेवमजः प्रशस्तस्तस्मादिदानीं वर्तमाना देवा अग्रे पूर्वस्मिन् जन्मनि तेनैवाजेन कर्माण्यनुष्ठाय देवतां देवभावमायन् प्राप्ताः । किञ्चेदानीं मेध्यासो योगयोग्या यजमाना रोहं रोहणीयं स्वर्गमुपायन् सामीप्येनैव प्राप्ताः, अविलम्बेनैव प्राप्ता इत्यर्थः । शरभोऽष्टापदः सिंहघाती । तमारण्यं तेऽनुदिशामीत्यादि पूर्ववत् । अत्र ब्राह्मणम् - ' अथाजस्य । अजो ह्यग्ने रजनिष्ट शोकादिति यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत सो अपश्यज्जनितारमग्र इति प्रजापतिर्वै जनिता सोऽपश्यत् प्रजापतिमग्र इत्येतत्तेन देवा देवतामप्रमायन्निति वाग्वा अजो वाचो वै देवा देवतामग्र आयंस्तेन रोहमायन्नुप मेध्यास इति स्वर्गो वै लोको रोहस्तेन स्वर्ग लोकमायन्नृप मेध्यास इत्येतच्छरभमारण्यमनु ते दिशामीति तदस्मै शरभमारण्यमनुदिशति तेन चिन्वानस्तन्वो निषोदेति तेन चिन्वान आत्मान संस्कुरुष्वेत्येतच्छरभं ते शुगृच्छतु यं द्विष्मस्तं ते शुगृच्छत्विति तच्छरभे च शुचं दधाति यं च द्वेष्टि तस्मिंश्च ' ( श ० ७.५ | २ । ३६ ) | अजस्य मन्त्रं दर्शयन् व्याचष्टे – अथाजस्येति । यद्वेति । प्रजापतेः शोकादजायतेति यत् तेन अग्नेरेव शोकादजायत, तस्य तदात्मकत्वात् । अत एव प्रागुक्तम्- ' अग्निर्वा एषोऽग्नेरध्यजायत ' ( श ० ७५२२१ ) इति । प्रजापतिर्वा इति । सर्वोत्पादकत्वात्
पृष्ठ 357
पाठ पढ़ें पाठ छिपाएँ
म ० ५१-५२ ] वेदार्थपारिजातभाष्यसहिता ३२१ प्रजापतिर्जनिता खलु । स जातोऽजः प्रजापति प्रागपश्यत् । अत उक्तम् - सो अपश्यदिति । ' प्रकृत्यान्तः-पादमव्यपरे ' ( पा ० सू ० ६ । १ । ११५ ) इति प्रकृतिभावान पूर्वरूपत्वम् । तेन देवा इत्यजस्य वागात्मकत्वं तज्जन्यत्वात् । देवाः खलु अग्रे वाचमिमामाश्रित्य देवत्वमाप्नुवन् । स्तोत्रशस्त्रादिरूपया वाचा यज्ञनिष्पत्तेर्यज्ञस्य च देवत्वप्राप्तिहेतुत्वाद् वाचमाश्रित्य देवत्वमाप्नुवप्रित्यर्थः । अथवा वेदलक्षणया वाचा | ' स्वाध्याय एषां देवत्वम् ' ( म ० भा ०, वन ० ३१३ ५० ) इति स्वाध्यायेनैव देवत्वाप्तिः स्मर्यते । उप मेध्यास इति मेधा यज्ञार्हाः । शरभो नाम सिंघातकः कश्चिन्मृगविशेषः । शेषं पूर्ववत् । अध्यात्मपक्षे P - अजः अजवज्जीवोऽग्नेः परमेश्वरस्य शोकाद् मायारूपाद् अजनिष्ट प्रादुर्भूतः । अजोऽपि सन् परमेश्वरीयस्वरूपभूतात्तेजस उत्पद्यते । सोऽजो हिरण्यगर्भो जनितारं परमात्मानमग्रे पूर्वमपश्यत् । तेनैव स्वनितृपरमेश्वरदर्शनेनैव देवाः, ऋष्यादीनामप्युपलक्षणमेतत्, देवा ऋषयो मनुष्याश्च देवतां देवत्वं परमात्म-भावमित्यर्थः, उप सामीप्येन अभेदेन आयन् प्राप्तवन्तः । तेनैव च रोहं जीवभावं परित्यज्य रोहणं परमात्म-भावारोहणमायन् उपगताः । मेध्यासः पवित्राः सन्तो मायाकालुष्यानाविलाः परमात्मभावं प्राप्ता इत्यर्थः । शरभं शरवद् भातीति शरभस्तं स्वात्मानं जीवं तुभ्यमतिदिशामि । ' प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्य-मुच्यते ' ( मुण्डकोप ० २२1४ ) इति श्रुतेः । तेन त श्चिन्वानो निषीद । तं ते शुक् ऋच्छतु । यं कामादिकं द्विष्मस्तं ते शुक् सन्तापो गच्छतु । यद्वा- आसु पञ्चसु कण्डिकासु सर्वत्रैवाध्यात्मपक्षे मयु - गौर गवयोष्ट्र- शरभान् पाप्मरूपांस्तेऽनुदिशामि तुभ्यं समर्पयामि । तांस्ते शुक् तापकः क्रोधो गच्छतु । तेन पाप्मनाशनेन तनूश्चिन्वानो निषीद । अत्र ब्राह्मणम् - ' तदाहुः । यां वै तत्प्रजापतिरेतेषां पशूना शुचं पाप्मानमपाहंस्त एते पञ्च पशवोऽभवंस्त एत उत्क्रान्तमेधा अमेध्या अयज्ञियास्तेषां ब्राह्मणो नाश्नीयात्तानेतस्यां दिशि दधाति तस्मादेतस्यां दिशि पर्जन्यो न वर्षको यत्रैते भवन्ति ' ( श ० ७ | ५ | २ | ३७ ) । अथानुद्देश्यानां मयुप्रभृतीनां पशूनां शोकादेवोत्पत्तिं ब्राह्मणस्य तदभक्ष्यतां च दर्शयन् दिग्विशेषे तेषां निधानमाह - तदाहुदिति । शेषं स्पष्टम् । दयानन्दस्तु - ' हे राजंस्त्वं यो हि अजरछागोऽजनिष्ट, सोऽग्रे जनितारमपश्यत् । येन मेध्यासो देवा अग्र देवतां दिव्यगुणतां सुखमुपायन्, येन रोहं प्रादुर्भावमुपायन् तेन उत्तमगुणतामत्रं सुखं तेन वृद्धि च प्राप्नुहि । यमारण्यं शरभं शल्यकं तेऽनुदिशामि 1 तेन चिन्वानः सन् तन्वो निषीद । तं शरभं शुगृच्छतु । शेषं पूर्ववत् ' इति, तदपि यत्किचित् सर्वथाप्यसङ्गतेः । छागः कं जनितारं कदा पश्यतीत्यनुक्तेः । नहि स्वोत्पादकं जानाति छागः, परज्ञानस्य अन्याप्रत्यक्षत्वात् । मनुष्यश्छागापेक्षया अधिकज्ञोऽपि न स्वोत्पादकं साक्षात् पश्यति, मात्रादिवचनैरेव तज्ज्ञानसम्भवात् । छागकर्तृकस्वोत्पादकदर्शनेन देवानां विदुषां पावित्र्यस्य कः सम्बन्धः? कथं च तेषां दिव्यगुणतासुखादिप्राप्तिः? शरभपदस्य शल्यकार्थकतापि निर्मूलैव, कोषेषूपनिषत्सु च अष्टापदे सिंहघातिन्येव तत्प्रसिद्धेः ॥ ५१ ॥
त्वं य॑विष्ठ दा॒शुषो॒ नृ॒ः पा॑हि शृणु॒धी गिरः॑ । रक्ष तो॒कमु॒त त्मना॑ ॥ ५२ ॥
मन्त्रार्थ हे अतिशय तरुण अग्निदेव, आप हमारे द्वारा की गई स्तुतियों को सुनें, हवि देने वाले यजमान के मनुष्यों की रक्षा करें और हमारे यजमान के अपत्यों ( सन्तानों ) की रक्षा करें ॥ ५२ ॥
' एत्य च त्वं यविष्ठेति चित्योपस्थानम् ' ( का ० श्र ० १७ | ६ | १ ) | बहिर्वेदेर ग्निसमीपमागत्यार्धचित-मग्निमध्वर्युरुपतिष्ठेदिति सूत्रार्थः । उशनोदृष्टाऽनिरुक्ताग्नेयी गायत्री । हे यविष्ठ युवतम, अथवा मिश्रयितृतम ४१
पृष्ठ 358
पाठ पढ़ें पाठ छिपाएँ
३२२ शुक्लयजुर्वेदसंहिता [ अ ० १३ अग्ने! त्वं दाषो हविर्दतवतो यजमानस्य नृन् मनुष्यान् भृत्यादीन् पाहि । ऋत्विजां गिर आशिषः प्रार्थनाः शृणु शृणुहि । उतापि च त्मना आत्मना त्वदीयेन प्रयत्नेन तोकमपत्यं रक्ष । शृणुधीत्यत्र ' श्रशृणुपृकृवृभ्य-छन्दसि ' ( पा ० सू ० ६ । ४ । १०२ ) इति हेधि: । ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति संहितायां दीर्घः । ' रक्षा ' इत्यत्रापि ' द्वयचोऽतस्तिङ: ' ( पा ० सू ० ६ | ३ | १३५ ) इति संहितायां दीर्घः । अत्र ब्राह्मणम्- ' प्रत्येत्याग्निमुपतिष्ठते । एतद्वा एतद्यथायथं करोति यदग्नी सामिचिते बहिर्वेद्येति तस्मा एतन्निहते साया आग्नेय्याग्नय एवैतनिहन्ते गायत्र्या गायत्रोऽग्नियवानग्निर्यावित्यस्य मात्रा तावतै-बासमा एतनिहतेऽनिरुतया सर्व वा अनिस्त १ ९ सर्वेणैवास्मा एतहिते यविष्टवत्यैतास्य प्रियं धाम यद्यविष्ठ इति यद्रे जात इद सर्वमयवत तस्माद्यविष्ठः ' ( ० ७ | ५ | २ | ३८ ) । उपस्थानानन्तरं पुनरग्निसमीपमागत्य । अग्नौ सामिचिते उपतिष्ठत इत्याह- प्रत्येत्येति । तत्र कारणं प्रतिजानीते- एतद्वा इति । तदेवाह - एतदिति अर्धचि बहिर्वेति इति यदेतेन तत्कर्म अयथायथं करोति । ' यथास्वे यथायथम् ' ( पा ० सू ० ८ | १ | १४ ) इति योऽयमात्मा यच्चात्मीयं तत्र यथायथमिति निपात्यते । अयथायथं यथाक्रमं न भवतीत्यर्थः । तथा कृतवान भवति । अत उपस्थानेनाहिंसार्थं तस्मै अग्नये एतद निवनं करोति । निह्नबनमपनयः, बहिर्ने टिगमन निबन्धन- । पराधं परिमाष्त्यर्थः । उपस्थान मन्त्र आग्नेयो गायत्रोऽनिरुक्तो यविष्ठशब्दयुक्तश्च भवेदित्याह -- आग्नेय्येत्यादिना यत्र देवताविशेष-अग्नेर्गायत्रत्वं षष्ठकाण्डे उक्तम् ( ० ६ १ १ १ १५ ) इत्यत्र । अनिरुक्तया अविस्पष्टदेवतया ॥ वाचकं पदं नास्ति तदनिरुक्तम् । यविष्ठशब्दस्त गुणवचनो न पुनरिन्द्रादिशब्दवत कस्यचिद्देवताविशेषस्य वाचकः, अनिरुक्तत्वादेवास्य आग्नेयत्वम् । अनिरुक्तो मन्त्र आग्नेयः प्राजापत्यो वा भवतीत्य निरुक्तस्य सर्वत्वं साधारण्यात यविष्ठपदप्रवृत्ति-देवताविशेषाप्रतिपादकत्वाच्च । अस्याग्नेर्यविष्ठमिति यदेतत्पदं प्रियं धाम नामधेयम् । अथाग्नो निमित्तं दर्शयति यद्वा इति । यतोऽयमग्निविरारूपत्वादिदं सर्वं कृत्स्नमपि जगढ़ अग्रवत धातोर्लङि मिश्रितवान् व्यत्ययेन व्याप्तवानित्यर्थः तस्मादसावग्निर्यविष्ठः । अगवत इति ' य मिश्रण मिश्रणयोः ' इत्येतस्य श्रुतिः-शब्दिकरणे रूपम् । यविष्ठ इति धातोः पचाद्यचि निष्पन्नाद् यवशब्दाद् इष्ठन् प्रत्यये रूपम् दाशुष । इति तदेतदाह । यजमानो वै ' यद्वै जात इद सर्वमयुक्त तस्माद्यविष्ठः ' ( श ० ७ ५ २ ३८ ) इति । ' त्वं यविष्ठ तोकमुतनेति दाश्वान्नं पाहीति मनुष्या वै नरः शृणुधी गिर इति शृणु न इमा, स्तुतिमित्येतद्रक्षा । ' नृन् पे ' ( पा ० सू ० ८ | ३ | १० ) प्रजा वे तोक रक्ष प्रजां चात्मानं चेत्येतत् ' ( श ० ७ | ५ | २ | ३ ९ ) । नंः पाहीति । एवं च इति नकारस्य रु: । ' अत्राननासिकः पूर्वस्य तु वा ' ( पा ० सू ० ८ ३ २ ) इत्यनुनासिककादेशः नृन् मनुष्यान् ब्राह्मणानुसारी मन्त्रस्यायमर्थ: - हे यविष्ठ युवतम मिश्रयितृतम वाग्ने, त्वं दाशुषो यजमानस्य कार्यम् अपि त्वात्मना पाहि । नोऽस्माकं स्तुतिरूपा गिरः शृणु । न केवलं यजमानसम्बन्धिमनुष्यपालनं त्वया सहितं तोकं प्रजां सन्तति रक्षेति । अध्यात्मपक्षे - हे यविष्ठ युवतम श्रीराम, शेषं पूर्ववद् व्याख्येयम् । --दयानन्दस्तु - ' है यविष्ठ, त्वं संरक्षितैरेतैः पशुभिर्दाशुषो नॄन् धर्मनेतृन् यत्किञ्चित् पाहि । इमा एतैः गिरः संरक्षितैः सत्या वाचः शृणुधि । त्मना आत्मना मनुष्याणामुत पशूनां तोकं रक्ष ' इति, तदपि, अपेक्षितानां श्रोतव्यानामेव पशुभिरित्यस्य निर्मूलत्वात् । नहि सत्या अपि सर्वा गिरः श्रोतव्या भवन्ति श्रवणसम्भवात् । त्मनाशब्देन मनुष्याणां पशूनामिति ग्रहणमपि निर्मूलमेव ॥ ५२ ॥
पृष्ठ 359
पाठ पढ़ें पाठ छिपाएँ
म ० ५३ ] dari पारिजात भाष्यसहिता ३२३ अ॒षां त्वेम॑न् सादयाम्य॒षां त्वोद्य॑न् सादयाम्य॒पां त्वा॒ भस्मि॑न् सादयाम्य॒पां त्वा॒ ज्योतिषि सादयाम्यपां त्वाय॑ने सादयाम्यर्ण॒वे त्वा॒ सव॑ने सादयामि समु॒द्रे त्वा॒ सद॑ने सादयामि सरि॒रे त्वा॒ सद॑ने सादयाम्य॒षां त्वा क्षयै सादयाम्य॒पां त्वा॒ सधि॑षि सादयाम्य॒पां त्वा सर्वने सादयाम्यां त्वां सधस्थे सादयाम्यपां त्वा योनौ सादयाम्यतां त्वा पुरीषे सादयाम्य॒पां त्वा छन्दसा त्वा पार्थसि सादयामि । गा॒य॒त्रेण॑ त्वा च्छन्द॑सा सादयामि त्रैष्टमेन सादयामि॒ जग॑तेन त्वा॒ छन्द॑सा सादया॒म्यानु॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ पाङ्क्ते॑न॒ त्वा॒ --च्छन्दसा सादयामि ॥ ५३ ॥
मन्त्रार्थ - है अपस्या नामक इष्टके, मैं जल के स्थान में तुम्हें स्थापित करता हूँ, औषधियों के स्थान में स्थापित करता हूँ, अभ्र में स्थापित करता हूँ, विद्युत् ज्योति में स्थापित करता हूँ, भूमि पर स्थापित करता हूँ, प्राण के स्थान में स्थापित करता हूँ, मन के स्थान में स्थापित करता है, वाणी के स्थान में स्थापित करता हूँ, ar के निवास में स्थापित करता हूँ, श्रोत्र में स्थापित करता हूँ, द्युलोक में स्थापित करता हूँ । अन्तरिक्ष लोक में स्थापित करता हूँ, समुद्र में स्थापित करता हूँ सिकता ( बालू ) में स्थापित करता हूँ, अन्न में स्थापित करता हूँ । हे अपस्था, मैं तुम्हारा गायत्री छन्द के प्रभाव से साबन करता हूँ, त्रिष्टुप् छन्द के प्रभाव से स्थापित करता हूँ, जगती छन्द के प्रभाव ' स्थापित करता हूँ, अनुष्टुप् छन्द के प्रभाव से स्थापित करता हूँ, पंक्ति छन्द के प्रभाव से तुमको स्थापित करता हूँ ॥ ५३ ॥
' अपरेण स्वयमातृणामेत्यापस्याः पञ्च पञ्चानुकान्तेष्पां त्वमन्निति प्रतिमन्त्रम् ' ( का ० श्री ० १७।६।२ ) । तीर्थेनाग्निमारुह्य स्वयमातृष्णामपरेण पूर्वानुकान्तमेत्य चतुर्ध्वप्यनूकान्तेषु ' अपां त्वेमन् ' इति प्रतिमन्त्रं प अपस्यासंज्ञका इष्टका अध्वर्युरुपदध्यादिति सूत्रार्थः । विंशतिरिष्टका देवत्यानि यजूंषि पञ्चदश अपस्यादेव -त्यानि पञ्च छन्दस्यादेवयानि । अब्लिङ्गर्मन्त्रैरुपवेया इष्टका उपस्यासंज्ञकाः । हे इटके अपस्ये, अपामेमन एमनि जलसम्बन्धिनि प्रवाहादिगमनप्रकारे त्वा त्वां सादयामि | ' इण् गतौ ' इत्यस्माद् मनिन्प्रत्ययेन ' एमन् ' इति । ततः सप्तम्याः ' सुपां सुलुक्. ' ' ' ( पा ० ० ७ | १ | ३ ९ ) इति लुकि ' एमन् ' इति रूपम् | त्वा एमन् इत्यत्र पररूपत्वात् मन्निति । अथवा अपामन्नित्यादीनां श्रुत्युक्तोऽर्थो ग्राह्यः । ' वायुर्वा अपामेम ' ( श ० ७ | ५ | २ | ४६ ) इति श्रुत्या वायावित्यर्थः । वायौ त्वां सादयामीति । अपाम् ओझन् ओद्मनि ओषधिषु त्वां सादयामि, ' ओषधयो वा अपामोद्म ' ( श ० ७७/२/४७ ) इति श्रुतेः । ' उन्दी क्लेदने ' इत्यस्मान्मनिन् प्रत्ययो नलोपो गुणश्च सप्तम्याश्च लुक् । ओद्मनि वोचितरङ्गादिरूपे जले वा । एवमुत्तरत्रापि व्याख्येयम् । भस्मन् भस्मनि त्वां सादयामि । शुक्लरूपे अभ्रे वा, ' अभ्रं वा अपां भस्म ( श ० ७ | ५ | २ | ४८ ) इति श्रुतेः । अपां ज्योतिषि विद्युति, ' विद्युद्वा अपां ज्योतिः ' ( श ० ७।५।२! ४ ९ ) इति श्रुतेः । प्रकाशे नैर्मल्ये वा त्वां सादयामि । अपामयने भूमी, ' इयं पृथिव्य -पामयनम् ' ( श ० ७ | ५ | २२५० ) इति श्रुतेः । कूपाद्याधारे वा । अर्णवे सदने स्थाने प्राणरूपे, ' प्राणो वा अर्णवः ' ( श ० ७५।२५१ ) इति श्रुतेः । अथवा अर्णवशब्देन सादृश्यात् प्रौढतटाकाद्युपलक्ष्यते । तत्र सदने स्थाने त्वां सादयामि स्थापयामि । समुद्र सदने मनसीत्यर्थः, ' मनो वै समुद्र: ' ( श ० ७७५ २५२ ) इति श्रुतेः । प्रसिद्धे समुद्रे वा । सरिरे सदने त्वां स्थापयामि, वाचीत्यर्थः, ' वाग्वै सरिरम् ' ( श ० ७ ५। २२५३ ) इति श्रुतेः ।
पृष्ठ 360
पाठ पढ़ें पाठ छिपाएँ
१० शुक्लयजुर्वेदसंहिता [ अ ० १३ अथवा अनिर्धारित स्थानविशेषे जलमात्रे वा त्वां स्थापयामि । अपां क्षये चक्षुसि त्वां क्षयः ' ( श ० ७।५।२।५४ ) इति श्रुतेः । क्षयो निवासः । अथवा क्षीयन्ते शुष्यन्त्यापोऽत्रेति स्थापयामि, ' चक्षुर्वा अपां तत्र त्वां स्थापयामि । अपां सधिषि श्रोत्रे त्वां सादयामि, ' श्रोत्रं वा अपा, क्षयः, शुष्कस्तडागादिः, श्रुतेः । अथवा जलेन सह धीयत इति संधिः वर्षोपलादिः, तत्र त्वां सादयामि सधिः ' । ( अपां श ० ७ ५२ ५५ ) इति सादयामि, ' द्यौर्वा अपा सदनम् ' ( श ० ७५२ ५६ ) इति श्रुतेः । अथवा अपां सदने दिवि त्वां अपां सधस्थेऽन्तरिक्षे त्वां सादयामि, ' अन्तरिक्षं वा अपा, सधस्थम् ' ( श ७।५।२।५७ स्थाने नद्यादौ त्वां सादयामि | सह विद्युदादयो यत्र मेघे तिष्ठन्ति सोऽयं मेघः सधस्थः, तत्र त्वां सादयामि । अपां योनौ ) इति श्रुतेः । अथवा अद्भिः ' समुद्रो वा अपां योनिः ' श ० ७१५ २ ५८ ) इति श्रुतेः । अथवा योनिशब्देन समुद्रे त्वां सादयामि, ' अग्नेराप: ' ( तै ० उप ० २1१ ) इति श्रुतेः । अपां पुरीषे सिकतासु त्वां सादयामि जलमात्रकारणभूतोऽग्निरुच्यते, ( श ० ७२५ / २५ ९ ) इति श्रुतेः । अपां पाथसि अन्ने त्वां सादयामि, ' अन्नं वा, ' सिकता वा अपां पुरीषम् ' इति श्रुतेः । अथवा पीयते जलं जीमूतैरत्रेति पाथः समुद्रः, तत्र त्वां सादयामि अपां पाथः ' ( श ० ७/५/२६० ) छन्दस्या इष्टका उपदध्यात् । गायत्रेण छन्दसा गायत्री एवं गायत्रं तेन त्वां । अतः परं पञ्च यजुभिः पञ्च तेन छन्दसा त्वां सादयामि । जागतेन जगती एवं जागतं तेन छन्दसा त्वां सादयामि सादयामि । त्रैष्टुभेन त्रिष्टुबेव त्रैष्टुभं आनुष्टुभं तेन छन्दसा त्वां सादयामि | पाङ्क्तेन पङ्क्तिरेव पाङ्क्तं तेन छन्दसा त्वां सादयामि । आनुष्टुभेन । अनुष्टुबेव अत्र ब्राह्मणम् —'आरुह्याग्नि जघनेन स्वयमातृण्णां परीत्यापस्या उपदधाति | आप एतेभ्यः पशुभ्य आप उत्क्रान्ता भवन्ति तद्यदपस्या उपदधात्येष्वेवैतत्पशुष्वपो दधात्यनन्तर्हिताः एता यदपस्या अथवा नन्तर्हितास्तत्पशुभ्योऽपो दधाति पच पचोपदधाति पन ह्येते पशवः सर्वत उपदधाति सर्वत पशुभ्य उपदधात्य-दधाति ' ( श ० ७ | ५ | २ | ४० ) । उपस्थानानन्तरमग्नि पश्चाद्भागेनारुह्य स्वयमातृष्णां एवैष्वेतदपो अपस्याख्या इष्टका उपदध्यादित्याह - आरुह्याग्निमिति । अपस्योपधाने प्रयोजनं दर्शयितुमेतासामबात्मकत्वमाह- प्रदक्षिणीकृत्य गत्वा आप एता इति । तत्प्रयोजनमाह -- अथ वा इति । अथ खलु आलम्भसमये एतेभ्यः उत्क्रान्ता भवन्ति । अतश्च अपस्यानामुपधाने तासामबात्मकत्वादेतेषु पशुष्वपो निहितवान् पुरुषादिभ्यः भवति पशुभ्य आप स्वव्यवधानेन उपधानमाह - अनन्तर्हिता इति । एकैकस्मिन् प्रदेशे पञ्च पच उपदध्यादित्याह । तासां पशुशिरः-पच पच सर्वासु दिक्षु उपधेया इत्याह -- सर्वत इति । तद्याः पञ्चदश पूर्वाः । ता अपस्या वज्रो - पञ्च पञ्चेति । पञ्चदशस्तस्माद्येनापो यन्त्यपैव तत्र पाप्मानं घ्नन्ति वज्रो हैव तस्यार्धस्य पाप्मानमपहन्ति तस्माद्वर्षत्यप्रावृतो वा आपो वज्रः व्रजेदयं मे वज्रः पाप्मानमपहनदिति ' ( श ० ७१५।२।४१ ) | प्रतिदिशं पश्चानामुपधाने विंशतिः सम्पद्यन्ते याः पञ्चदश पूर्वा इष्टकास्ता अपस्याख्या भवन्तीत्याह -- तद्या इति । पञ्चदश संख्याकानामेव । तत्र पादयति - वत्रो वा इत्यादिना । अपां वज्रत्वं नैशित्यात् पर्यन्तसेवनात् । तदेव श्रूयते - ' तस्मादिन्द्रोऽबिभेत् अपस्यात्वमुप-स प्रजापतिमुपाधावत् शत्रुर्मेऽजनोति । तस्मै वज्रं सिक्त्वा प्रायच्छदेतेन जहीति ' ( तै ० सं ० २२ । पञ्चदशस्य वज्रात्मकत्वं वीर्यवत्त्वात् । तत्पुनः प्रजापतेर्वीर्यंवत्प्रदेशादुत्पत्तेः । अत एव श्रूयते २ ) इति । पञ्चदशं निरमिमीत ' इत्यारभ्य --- ' तस्मात्ते वीर्यवन्तो वीर्याद्वयसृज्यन्त ' ( तै ० सं ० - ' उरसो बाहुभ्यां तस्माद्येन मार्गेण आपो यन्ति तत्र पाप्मानमपघ्नन्त्येव, अपां वज्रत्वात् । वज्र एव खलु ७ | १ | ११५ ) । यत एवं मपहन्ति । तस्मात् पापहननादेव वर्षति पर्जन्येऽयं वस्त्रो मे पाप्मानमपहन्त्वित्यप्रावृत एव तस्य व्रजेत् भागस्य । ' पाप्मान-पश्नोत्तराः । ताश्छन्दस्याः पशवो वै छन्दा स्यन्नं पशवोऽन्नमु पशोर्मा समथ वा एतेभ्यः पशुभ्यो अथ माथ- याः सान्युत्क्रान्तानि भवन्ति तद्यच्छन्दस्या उपदधात्येष्वेवैतत्पशुषु माथ सानि दधात्यनन्तर्हिताः पशुभ्य नन्तर्हितानि तत्पशुभ्यो मासानि दधात्यन्तरा अपस्या भवन्ति बाह्याश्छन्दस्या अन्तरा ह्यापो उपदधात्य- बाह्यानि