वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 361–370
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 361–370
पृष्ठ 361
पाठ पढ़ें पाठ छिपाएँ
म ० ५३ ] वेदार्थपारिजात भाष्य सहिता ३२५ माथ् सानि ' ( श ० ७।५।२।४२ ) । अथ या उत्तराः पञ्चेष्टकास्ताश्छन्दस्या इत्याह -- अथेति । छन्दस्यानामुप-धानेन पशुषूत्क्रान्तमांसप्रत्तिविधानं भवतीत्याह -- पशवो वा इत्यादिना । पशूनां छन्दस्त्वं यज्ञसाधनत्वात्, अथवा जगत्यानीतत्वात्, ' जगत्युदपतच्चतुर्दशाक्षरा सती साम्प्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेतां सा पशुभिश्च दीक्षया चागच्छत् ' ( तै ० सं ० ६ १ ६ २ ) इति श्रुते: । ' अन्नमु पशोमसम् ' इत्यनेन अन्नं पशव इत्येतदुपपादितम् । एवं च सति छन्दस्यानां पश्वात्मकत्वेन मांसरूपत्वाद् आलम्भावसरे उत्क्रान्तानि मांसानि पुनरेतेषु निहितवान् भवति । तासामप्यपस्यावदव्यवधानेनोपधानमाह - अनन्तर्हितानीति । अपामुदरमध्यवर्तित्वेन आन्तरत्वाद् मांसानां ततो बाह्यत्वम् । तथैव अपस्या अन्तराश्छन्दस्या बाह्या भवेयुरित्याह- -अन्तरा अपस्या इति । उक्तप्रकारेण पशुष्वापो मांसानि च सम्पादितानि नैतावता तेषां कात्स्न्यं सम्पद्यते, किं पुनस्ततोऽपि बाह्ययोस्त्वग्लोम्नोरपि कारणत्वेन अन्नत्वाच्छन्दस्यानां चान्नात्मकत्वस्योक्तत्वात् तदुपधानेनैव तयोरप्युपधानं सम्पादितं भवतीत्यादिकमपि तत्रैव दर्शितमिति । ' तदाहुः । यदिमा आप एतानि मा सान्यथ क्व त्वक् क्व लोमेत्यन्नं वाव पशोस्त्वगन्नं लोम तद्यच्छन्दस्या उपदधाति सेव पशोस्त्वक् तल्लोमाथो यान्यमून्युखायामजलोमानि तानि लोमानि बाह्यखा भवत्यन्तराणि पशुशीर्षाणि बाह्यानि हि लोमान्यन्तर आत्मा यदीतरेण यदीत रेणेति ह स्माह शाण्डिल्यः सर्वानेव वयं कृत्स्नान् पशून् संस्कुमं इति ' ( श ० ७१५२।४३ ) प्रकारान्तरेण पशूनां लोमसम्पत्तिमाह् - अथो इति । कृष्णाजिनलोमादनुबद्धया मृदा उखाया निर्माणात्, उखायां यानि चाजलोमानि सन्ति तान्येव पशूनां लोमानि भवन्ति । लोमाधारत्वेनोखाया अभिधानादुखा लोमानोत्यभिप्रेत्य ' बाह्योखा भवति ' इत्यादिनोक्तस्यैवार्थस्योप-पादनम् | त्वग्लोमसम्पादने उक्त पक्षद्वयमप्यभिमतमित्याह - यदीति । यदीतरेण अन्येन प्रकारेण तत्सम्पादनं भवति, तर्हि तथैवास्तु, अथवा इतरेण प्रकारान्तरेण यदि भवति तर्हि तथैवास्तु, इत्यन्योन्यापेक्षया उभयो-पोतरत्वम् | अपस्याद्युपधानेनान्नादिसम्पादनं केन विवक्षितमिति तत्राह - इति स्माह शाण्डिल्य इति । भिप्रायेण मुक्तमित्यत आह - सर्वानेवेति । सर्वानेव पशून् कृत्स्नान् कार्त्स्न्येन संस्कुर्मः सर्वावयवसम्पादनेन समृद्धान् कुर्म इत्यभिप्रायेण तथोक्तमित्यर्थः । ' वापस्या उपदधाति । प्रजापतेवित्रस्तादाप आयंस्तास्वितास्वविशद्यदविशत् तस्माद्वि शतिस्ता अस्याङ्गुलिभ्योऽध्यत्रवन्नन्तो वा अङ्गुलयोऽन्तत एवास्मात्ता आप आयन् ' ( श ० ७७५२ ४४ ) | प्रकारान्तरेणाप्यस्योपधानं प्रशंसति यद्वेवेति । वित्रस्तावयवात् प्रजापतेराप आयन् निर्गताः । ततस्तासु निर्गतासु अविशत् उपाविशत् । अपां निर्गमने दौर्बल्याद गन्तुमक्षमस्तथैवोपविष्टवान् । ततश्चोपवेशन साधनत्वादपस्या विंशतिः सम्पन्नाः । यद्यपि पूर्व पञ्चदश अपस्या इत्युक्तम्, तथापि छन्दस्यासाहित्येन अत्र विंशतिरित्युक्तम् । सर्वासां वा अपस्याशब्देनाभिधानं भूमलिङ्गात्, सृष्टीरुपदधातीतिवत् । ' स यः स प्रजापतिर्व्यस्र सत । अयमेव स योऽयमग्निश्चीयतेऽथ या अस्मात्ता आप आयन्नेतास्ता अपस्यास्तद्यदेता उपदधाति या एवास्मात्ता आप आयस्ता अस्मिन्नेतत् प्रतिदधाति तस्मादेता अत्रोपदधाति ' ( श ० ७।५।२ । ४५ ) । एवमपि स यः प्रजापतिर्व्यस्रंसत सोऽयमेव य इदानीमग्निश्चीयते । अथ प्रजापतेः सकाशाद् या आपो निर्गतास्ता अपस्याः । ततश्च एतासामत्रोपधाने ततो निर्गता अप एव प्रतिदधाति । ' अपां त्वमन् सादयामीति । वायुर्वा अपामेम यदा होवैष इतश्चेतश्च वात्यथापो यन्ति वायो ता सादयति ' ( ० ७ | ५ | २ | ४६ ) । क्रमेण तासामुपधाने मन्त्रान् प्रदर्शयन् व्याचष्टे - अपां त्वे मन्नित्यादिना । यदा हि एष वायुरितश्चेतश्च वाति, तदा आपो यन्ति चलन्ति । अतो यन्त्यापोऽनेनेति व्युत्पत्त्या एम
पृष्ठ 362
पाठ पढ़ें पाठ छिपाएँ
३२६ शुक्लयजुर्वेदसंहिता [ अ ० १३ वायुः । ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२१७५ ) इति सूत्रेण इणधातोव्यत्ययेन करणे मनिन्प्रत्ययः । ' एमन्नादिषु छन्दसि पररूपं वक्तव्यम् ' ( पा ० सू ० ६ | १ | ७० वा ० १ ) इति ' त्वा एमन् ' इत्यवस्थायां पररूपत्वम् । ' अपां त्वोद्मन् सादयामीति । ओषधयो वा अपामोद्म यत्र ह्याप उन्दन्त्यस्तिष्ठन्ति तदोषधयो जायन्त ओषधिषु तासादयति ' ( श ० ७ | ५ | २ | ४७ ) । आपो यत्र देशे उन्दन्त्यस्तिष्ठन्ति तत्र ओषधयो जायन्त इत्यधिकरणव्युत्पत्त्या अपामोद्म ओषधयः । ' उन्दी क्लेदने ' इत्यस्माद् मनिन्प्रत्यये छान्दसेऽनुनासिकलोपे गुणे च ' ओधन् ' इति । ' अपां त्वा भस्मन् सादयामीति । अभ्रं वा अपां भस्माभ्रे ता साययति ' ( श ० ७५।२।४८ ) । अभ्रं मेघः । स चाप्सु निर्गतासु निःसारत्वाद् अपां भस्म इत्युच्यते । एवं भस्म मेघः । भस्मन् इति ' सुपां सुलुक्... ' ( पा ० सू ० ७ ११३ ९ ) इत्यादिना सप्तम्या लुक् । ' न ङिसम्बुद्धघो: ' इति नलोपाभावः । एवं मेघे त्वां सादयामीति । ' अपां त्वा ज्योतिषि सादयामीति । विद्युद्वा अपां ज्योतिर्विद्युति वा · सादयति ' ( श ० ७।५।२।४ ९ ) । प्रसन्ना कण्डिका । ' अपां त्वायने सादयामीति । इयं वा अपामयनमस्या, ह्यापो यन्त्यस्यां ता सादयति तद्या अस्यैतेभ्यो रूपेभ्य आप आयस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवा-स्मिन्नेतद्रूपाणि दधाति ' ( श ०७ / ५ / २ / ५० ) । सर्वा अप्यापः पृथिवीमधिष्ठायैव प्रवहन्तीति तत् तदा विस्रंसनावसरे खल्वस्य प्रजापतेरेतेभ्यो वाय्वादिभ्यो रूपेभ्य आपो निर्गताः । तथाविधास्ता अप एव एतस्मिन् प्रजापती प्रतिदधाति । न केवलमपामेव प्रतिनिधानम् अपि तु येभ्यो रूपेभ्य आपो निर्गतास्तेषामपि तदा निर्गतत्वात् तान्यपि पुनरस्मिन् योजयति । उक्तमन्त्रसाध्योपधानाः पञ्चेष्टका: पूर्वस्यां दिशि उपदध्यात् । एवं वक्ष्यमाणमन्त्रसाध्योपधाना अपोष्टकाः पञ्च पञ्च दक्षिणादिषु दिक्षूपधेयाः । ' अणंबे त्वा सदने सादयामीति ' प्राणो वा अर्णवः प्राणे ता सादयति ' ( श ० | ५ | २२५१ ) | ' अर्णो जलम् ' ( निघ ० ११ १२ १ ) औणादिकादसुन्प्रत्ययादर्तेनिष्पन्नात् सान्ताद् अर्णस् शब्दात् ' अर्णसो लोपश्च ' ( पा ० सू ० ५२ १० ९ वा ० २ ) इति मत्वर्थीये वप्रत्यये सलोपे चार्णवश्शब्दसिद्धिः । यदा तु पचाद्यजन्तस्तदा ' अन्येभ्योऽपि दृश्यते ' ( पा ० सू ० ५ | २ | १० ९ वा ० १ ) इति वप्रत्ययेऽर्णव शब्दसिद्धिः । उभयथापि निगमे प्रयोगः । तथाहि-' सृजदर्णास्व यद्युधा ' ( ऋ सं ० १ १७४१४ ), ' अग्ने दिवो अर्णमच्छा जिगासि ' ( ऋ ० सं ० ३।२२।३ ) इति । अर्णवत्वं च प्राणवता जलस्य पीयमानत्वात् । तथा च प्राणे त्वां सादयामीत्यर्थः । ' समुद्रे त्वा सदने सादयामीति । मनोवै समुद्र मनसो वै समुद्राद्वाचाध्या देवास्त्रयीं विद्यां निरखनंस्तदेष श्लोकोऽभ्युक्तो ये समुद्रान्निरखनन् देवास्तीक्ष्णाभिरभ्रिभिः । सुदेवो अद्य तद्विद्याद्यत्र निर्वपणं दधुरिति मनः समुद्रो वाक् तीक्ष्णास्त्रियी विद्या निर्वणमेतदेष श्लोकोऽभ्युक्तो मनसि ताछ सादयति । ( ० ७७५० २०५२ ) मनः समुद्राद्वाचा अभ्रया देवास्त्रयीं विद्यां निरखनन्निति मन्त्रे मनसि समुद्रशब्दप्रयोग उक्तः । तस्मात् समुद्रे मनसि त्वां सादयामीत्यर्थः । ' सरिरे त्वा सदने सादयामीति । वाग्वै सरिरं वाचि ता सादयति ' ( श ० ७५/२/५३ ) । सरणवत्त्वेन वाक सलिलं खलु । अतो वाचि तां सादितवान् भवति । ' अपां त्वा क्षये सादयामीति । चक्षुर्वा अपां क्षयस्तत्र हि सर्वदेवापः क्षियन्ति चक्षुषि ताछ, सादयति ' ( श ० ७५।२।५४ ) । तत्र हीति । तत्र चक्षुषि सर्वदैवापः क्षियन्ति निवसन्ति, अतश्चक्षुरपां क्षयः । ' अपां त्वा सधिषि सादयामीति । श्रोत्रं वा अपाय सधिः श्रोत्रे ता सादयति तद्या अस्यैतेभ्यो रूपेभ्य आप आयंस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्येवास्मिन्नेतद्रूपाणि दधाति ' ( श ० ७५२ ५५ ) । सधिः शब्देन स्थानमुच्यते श्रोत्रस्यान्तरार्द्रीभावात् । एतच्च तैत्तिरीयके श्रूयते - ' तस्मादार्द्रा अन्तरतः प्राणाः ' ( तै ० सं ० ६ | २ | १११२ ) इति श्रुतौ । ' अपां त्वा सदने सादयामीति । द्यौर्वा अपा सदनं दिवि ह्यापः सन्ना दिवि ताथ सादयति ' ( श ० ७ ५२ ५६ ) । प्रसन्ना कण्डिका ।
पृष्ठ 363
पाठ पढ़ें पाठ छिपाएँ
म ० ५३-५४ ] वेदार्थ पारिजातभाष्यसहिता ३२७ ' अपां त्वा सधस्थे सादयामीति । अन्तरिक्षं वा अपा १ ९ सास्थमन्तरिक्षे ता ११ सादयति ' ( श ० ७५२२५७ ) । आपोऽस्मिन् सम्भूय तिष्ठन्तीत्यन्तरिक्षमपां सधस्थम् । ' सधमादस्थयोश्छन्दसि ' ( पा ० सू ० ६ | ३ | ९ ६ ) इति सहशब्दस्य सधादेशः । तत्रान्तरिक्षे त्वां सादयामीति तामन्तरिक्षे सादयति । ' अपां योनौ सादयामीति । समुद्रो वा अपां योनिः समुद्रे ता ७ सादयति ' ( श ० ७१५/२०५८ ) । समद्रस्य सकाशादपा-मुत्पतेरपां योनिः समुद्रः । ' अपां त्वा परीषे सादयामीति । सिकता वा पां परीष ११ सिकताम ता १७ साक्ष्यति ' ( श ० ७५ / २५ ९ ) । भक्तस्य निःसारोंऽशो लोके पुरीषशब्दवाच्यः, तद्रत् सिकतानामपि निःसारत्वादपां पुरीषत्वम् । सिक्तास त्वां सादयामीत्यर्थः । ' अपां त्वा पार्थामि सादयामीति । अन्नं वा अपां पाथोऽन्ने ता १ ९ सादयति तद्या अस्यैतेभ्यो रूपेभ्य आप यस्ता अस्मिन्नेतत् प्रतिदधात्यथो एतान्येवास्मिन्नेतद्रपाणि दधाति ' ( श ० ७७५/२/६० ) | पाथः सारांश: । अन्नस्य तत्सम्पाद्यत्वेन तत्सारत्वामां पाश: । ' गायत्रेण त्वा छन्दसा सादयामि । त्रैष्ट्रभेन त्वा छन्दसा सादयामि जागतेन त्वा छन्दसा सादयाम्यानष्टभेन त्वा छन्दसा सादयामि पाङ्क्तेन त्वा छन्दसा सादयामीति तथा अस्यैतेभ्यश्छन्दोभ्य आप आयस्ता अस्मिन्नेतत्प्रतिदधात्यथो एतान्ये-वास्मिन्नेतच्छन्दास दधाति ' ( श ० ७ | ५ | २२६१ ) | गायत्रेण त्वा छन्दसा सादयामीत्यादिभिः पञ्चभिर्मन्त्र-रुत्तरस्यां दिशि छन्दस्या उपदध्यात् । अध्यात्मपक्षे - हे सर्वात्मन् ब्रह्मन् कर्मलोकहेतुभृतानामपाम् एमन वायो त्वां सादयामि स्थापयित्वा तद्रूपेण त्वां चिन्तयामि । अन्यत् सर्वं पूर्ववदृह्यम् । गायत्रेण छन्दसा त्वामपदधामि गायत्रीच्छन्दसा त्वां सर्वत्र अनुसन्दधामि । त्रैष्टुभेन जागतेन आनुष्टुभेन पाङ्क्तेन च छन्दसा त्वामनुसन्दधामि । त्यानन्दस्तु - ' हे मनुष्य, शिक्षकोऽहमपां प्राणानां रक्षणे मे मन एति गच्छति तस्मिन् यायौ त्वां सादयामि | अपां जलानां भस्मन् अभ्रे त्वां सादयामि | अपां व्याप्नुवतां विद्यदादीनां ज्योतिषि विद्युति सादयामि । अपामन्तरिक्षस्यायने भूमौ त्वां सादयामि | अर्णवे प्राण सदने स्थातव्ये त्वा सादयामि । समुद्रे मनसि त्वा सदने गन्तव्ये सादयामि । सरिरे वाचि त्वा सदने प्राप्तव्ये सादयामि... ' इत्यादिकं शतपथानुसारेणैव कण्डिकां व्याख्याति । तत्र हे मनुष्येति सम्बोधनम् शिक्षकोऽहमित्यादिकं तु निर्मलमेव । मनुष्यस्य तत्र तत्र सादनायोगाच्च गायत्रेण गायत्रीनिर्मितेन छन्दसा स्वच्छेनार्थे सादयामीत्यादिकमपि निर्मूलमेव, गायत्री -निर्मित स्वच्छार्थस्याद्याप्यनिरूपणात् । सादयामि नियोजयामीत्यपि निर्मलमेव ॥ ५३ ॥
अयं परो भवस्तस्य प्राणो भौवायनो वसन्तः प्रोणायनो गायत्री वसन्ती गोयध्यै गा॑य॒त्राय॑ शुरूशोस्त्रिवृत् त्रिवृतो रथन्त॒रं वसि॑ष्ठ॒ ऋषिः प्र॒जाप॑तिगृहीता त्वया॑ प्रा॒णं गृह्णामि प्र॒जाभ्य॑ः ॥ ५४ ॥
-मन्त्रार्थ -- है इष्टके, जो यह सर्वप्रथम उत्पन्न होने वाला अग्नि है, तू उसके रूप वाली है । प्राण उस भुव नामक अग्नि की सन्तान है । प्राण का पुत्र वसन्त ऋतु है । वसन्त को सन्तान गायत्री है । गायत्री से गायत्र साम उत्पन्न होता है । गायत्र साम से उपांशु ग्रह उत्पन्न हुआ है । उपांशु ग्रह से त्रिवृत् स्तोम और त्रिवृत् स्तोम से रथन्तर साम उत्पन्न हुआ है । सभी जन्तुओं में अधिष्ठित सर्वाधार वसिष्ठ रूप प्राण सबको जानता है । हे इष्टके, तुम प्रजापति के द्वारा गृहीत हो, तुम्हारी सहायता से मैं प्रजा के नीरोग प्राण - लाभ के लिये तुम्हारा ग्रहण करता हूँ ॥ ५४ ॥
पृष्ठ 364
पाठ पढ़ें पाठ छिपाएँ
२ ९ ८ शुक्लयजुर्वेदसंहिता [ अ ० १३ ' व्याघारणवत् प्राणभृतः कर्णसहिता दश दश पुरुषमुपायैके रेतः सिग्वेलायां इति प्रतिमन्त्रम् ' ( का ० श्री ० १७ ६ ३ ) । ततो व्याघारणहोमक्रमेण च सर्वतो यथायोगमयं पूर तत उत्तरोण्यां ततो दक्षिणश्रोण्यां तत उत्तरेऽसे ततो मध्ये -- अनेन क्रमेण प्राणभृत्संजका इष्टकाः प्रथमं दक्षिणेऽसे च दश दश प्राणभृत उपदध्यात् । तत दक्षिणांसोत्तरश्रोण्योरक्ष्णयादेशे चतुर्ध्वप्यक्ष्णयादेशेषु संलग्ना मध्ये श्रोण्यत्तरांसयोरक्ष्णयादेशे चोदग्लक्षणाः । दक्षिणांस प्राणभृतां या दशमी प्राणभृतः प्राग्लक्षणा भवन्ति, दक्षिण-उत्तरांसप्राणभृतां च या दशमी स्वयमातृष्णा संलग्ना सा तिरश्रालिखिता स्वयमातृष्णासंलग्ना सा अर्धपद्या । स्वयमाणासंलरने ते द्वे अपि पादोने पादभागेन ऊने पद्ये इत्यर्थः । शेषाः । तथा दक्षिणोत्तरश्रोण्योर्ये दशम्यौ तत्र प्रथमं दक्षिणांसकोणादारभ्य प्राङ्मुख उपविष्ट एवोपसृत्योपसृत्य षट्चत्वारिंशत् पद्या एव भवन्ति । उपदधाति । तत्रयं पुरो भव इति प्रथमाम, तस्य प्राण इति द्वितीयाम, वसन्त स्वयमातृष्णापर्यन्ता दश प्राणभृत गायत्र्या इति पञ्चमीम् गायत्रादिति षष्ठीम, उपा ११ शोरिति सप्तमीम् त्रिवृत इति तृतीयाम, गायत्रीति चतुर्थीम, प्रजापतिगृहीतयेति दशमी स्वयमातृष्णास हितामर्धपद्याम् । ततः सकृन्नित्ये दशसु इत्यमीम, वसिष्ठ इति नवमीम, स्वयमातृष्णापर्यन्तं दश प्राणभृतः पश्चिमाभिमुखोऽपसृत्यापसृत्योपदध्यादिति । तत उत्तरश्रोणेरारभ्य विद्याधरः । सुत्रार्थस्तु - ततो व्याघारणवद् दक्षिणें से उत्तरश्रोण्यां दक्षिणश्रोण्यामुत्तरेऽसे प्रक्रियासहितः सुत्रार्थ इति कोणादारभ्य स्वयमातृष्णापर्यन्तं दश दश प्राणभृत्संज्ञका इष्टका उपदध्यात् मध्ये च कर्णसंलग्नाः प्रथमाधाय ततोऽणादेशे कोणपर्यन्तमुपधानमिच्छन्ति । अपरे तु कोणादारभ्य । पुरुषपर्यन्तमिति एके आचार्याः पुरुषममीपे रेतः सिग्देलायां सर्वासु दिक्षु यथायोगमुपदध्यादिति वदन्ति । एवं चतुर्ध्वक्ष्णयादेशेषु दश प्राणभृतो उपहिताः । अवशिष्टा दश । तासां दशानां मध्ये चतुर्ष्वपि स्थानेषु अक्ष्णयासंलग्ने द्वे चत्वारिंशत्प्राणभृत द्वे । एवमष्टौ
पश्चादनुकमभितश्च द्वे । एवं दश ॥
अत्र ब्राह्मणम् — ' प्राणभृत उपदधाति । प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ताः प्रथमायां उपदधाति पूर्वार्ध एषोऽग्नेर्यत्प्रथमा चितिः पुरस्तात् तत्प्राणान् दधाति तस्मादिमे चिता ( ० ८ १ १ १ ) । प्रथमचितो प्राणभृदुपधानं विधत्ते- प्राणभृत उपदधातीति । प्राणान् पुरस्तात् बिर्भात प्राणाः शरीरे ' धारयत्याभिरिति प्राणभृत इष्टकाः, प्राणलिङ्गोपेतमन्त्रोपधानाद्वा प्राणभृत इष्टकाः । श्रुत्या प्रकारान्तरेणापि निर्वचनमग्रे करिष्यते । ता उपदध्यादित्यर्थः । तदेतत्प्रशंसति - प्राणा वा इति तु । याः प्राणभृदाख्या इष्टकास्ताश्चक्षुरादिप्राणात्मिकाः खलु । तथा च एतद् एतेन प्राणभृदुपधानेनाग्नौ प्राणानेव स्थापितवान् भवति । प्रथमचितिरग्निशरीरस्य पूर्वो भागः । तत्र प्राणभृतामुपधानेन प्राणानेव स्थापयतीति । ' ता दशदशोपदधाति दश वै प्राणा यदु वा अपि बहुकृत्वो दश दश दशैव तत्पचकृत्वो दशदशोपदधाति पश्च वा एतान् । दशदश वा एकैकस्मिन् पशौ प्राणास्तदेषु सर्वेषु प्राणान् दधात्यनन्तर्हिता पशुभ्य उपदधात्यनन्त हितांस्तत्पशुभ्यः पशूनुपदधाति प्राणान् दधाति सर्वत उपदधाति सर्वत एवैष्वेतत् प्राणान् दधाति ' ( श ० ८ १ १ १ २ ) । ताः प्राणभृतो दशदशोपधेयाः । दशसंख्याकाः खलु प्राणाः सप्त शीर्षण्याः, द्वाववावी, नाभिर्दशमति पञ्चाशत्संख्याकाः संख्यासाम्यात् तासामिष्टकानां प्राणरूपता सिद्धेति । यदु वेत्यादि । यद् यद्यपि बहुकृत्वो बहुवारं 1 अतः इष्टका उपधीयन्ते तथापि विभज्यमानाः सत्यस्ताः प्राणभृतो दर्शव सम्पद्यन्ते । दशसङ्घातानां दशसंख्याका स्तौति – पञ्चकृत्वो दशदशोपदधातीति । पञ्चसंख्याकान् हि पशून् अयमध्वर्युरुपदधाति संख्यां विधाय पशो दश दश प्राणाः । तान् तथा सत्येषु सर्वेषु पञ्चस्वपि पशुषु प्रत्येकं दश दश । तेष्वेकैकस्मिन् भवतीत्यर्थः । उपहितानां पशुशीर्षाणां समीपे तासामुपधानं विधाय स्तौति --- अनन्तर्हिताः प्राणान् स्थापितवान् पशुभ्यः पशुशीर्षेभ्यः सकाशादनन्तर्हिता अव्यवहितास्तत् तेन पशुभ्योऽनन्तर्हितान व्यवहितानेव पशुभ्य प्राणान् इति ।
पृष्ठ 365
पाठ पढ़ें पाठ छिपाएँ
म ० ५४ ] वेदार्थ पारिजातभाष्यसहिता ३२ ९ स्थापयति । प्राच्याद्यास पञ्चसु दिक्षु तासामुपधानं विधत्ते - सर्वत उपदधातीति । सर्वतः सर्वासु दिक्षु दश दशोपदध्यात् । सर्वतः सर्वाभ्यो दिग्भ्यः । स्पष्टमन्यत् । प्रति म ' यदेव प्राणभूत उपदधाति । प्रजापतेवित्रस्तात् प्राणा उत्क्रामन् देवता भूत्वा तानब्रवीदुप मेत सृजामहा एतद्धत्त येन मे कमिष्टेति स वै तदन्न १७ सृजस्व यत्ते वयं पश्यन्त उपवसामेति ते उपधानं वा उभये प्रकारान्तरेण इति तथेति प्राणाश्र प्रजापतिश्चंतदन्नमसृजन्तैताः प्राणभृतः ' ( ० ८ | १ | १ | ३ ) | प्राणभृत । केन स्तौति - यदेव प्राणभृत उपदधातीति । वित्रस्ताद् विश्लिष्टावयवात् प्रजापतेः सकाशात् प्राणा उत्क्रान्ताः यूयं रूपेणेति? देवता भूत्वेति । अग्न्याद्यधिष्ठातृदेवतारूपं प्राप्येत्यर्थः । प्रजापतिस्तानब्रवीत् हेतुना - हे प्राणाः यूयमुदक्रमिष्ट , मा माम् उपेत उपगच्छत मे मदीयमेतदङ्ग प्रतिवत्त व्यवहारयोग्यं संस्कुरुत । वै येन तदन्नमित्यादि विस्रस्तेन । हे प्रजापते, स उत्क्रान्ता अभूत तद्यथापूर्वं कुरुत । एवं प्रार्थितानां प्राणानां वाक्यम् - स उपवसाम उपविशाम इति । तादृशस्त्वमस्मदर्थमन्नं सृजस्व । ते तव सम्बन्धि सृष्टमनं पश्यन्तो वयं तव समीपे सन्तस्तदन्नं सृजामहा इति अथ प्रजापतिस्तानब्रवीत् । ते तथाविधा उभये उभयविधा अहं च यूयं च मिलिताः सृजन्तेत्यर्थः । प्रार्थितवान् । तेऽपि तथेत्यङ्गीचक्रुः । तदनन्तरं ते प्राणाः प्रजापतिश्च सम्भूय प्राणभृदिप्रकारूपमन्नम । योऽयं तत्र पञ्चाशद्यजूंषि प्राणभृदिष्टकादेवत्यानि प्रतिकण्डिकं दश दश । प्रथमं दशकं दक्षिणेऽसे त्वामुपदधामीति प्रभुवश्चाग्निर्वर्तते है इप्के! त्वं तद्रूपासि । प्राण एवाग्निभूत्वा पुरस्तिष्ठति । अतोऽग्निरूपां दिश्ययं भुवः प्रजापतिर्वर्तत शेषः । अथवा भवत्यस्माज्जगदिति भुवः शब्दः प्रजापतिमाचष्टे । पुरः पूर्वस्यां शब्दाभिधेयस्य प्रजापतेः सम्बन्धी इति शेषः । हे इटके, त्वं तद्रूपासीति । एवमुत्तरेषु योज्यम् । तथा प्राणस्य भुवः श्वासवृत्तिरूपस्यापत्यत्वेनोपचरितः प्राणः । अत एव तत्रापत्यत्वमुपचर्यते । भुवोऽपत्यं भौवायनः । तस्य गायत्र्या सम्बन्धि गायत्रं प्राणायनो वसन्त ऋतुः । तस्य च वसन्तस्य सम्बन्धिनी गायत्री । तस्याश्छन्दोरुनाया । तस्मात् त्रिवृत्स्तोमा-साम । तस्माच्च गायत्रसाम्न इवोपांशग्रहः । तस्माच्चपशुग्रहादुत्पन्नमिव त्रिवृत्स्तोमम् प्रजापतिप्राणवसन्तादिरूपोपचारेण दुत्पन्नं रथन्तरं साम । यो वसिष्ठ ऋषिस्तद्रूपासि । हे इष्टके, यथोक्तप्रकारेण प्राणसिद्धये त्वां गृह्णामीत्यर्थः । प्रजापतिगृहीतया त्वया प्रजाभ्यः सर्वासां प्रजानां प्राणं गृह्णामि, प्रजानां इति कण्डिकार्थः । यद्यप्यनेकवाक्यत्वाभावादेक एव मन्त्रः, तथापि प्रतीष्टकमावृत्त्या दश मन्त्राः सम्पद्यन्त अत्र ब्राह्मणम् -'स पुरस्तादुपदधाति । अयं पुरो भुव इत्यग्निर्वे पुरस्ताद्यत्तमाह हाग्निर्भूत्वा पुर इति पुरस्तात्तस्थौ प्रा १२, ह्यग्निमुद्धरन्ति प्रामुपचरन्त्यथ यद्भुव इत्याहाग्निर्वै भुवोऽग्नेर्ही सर्वं भवति समन्त्रकं प्राणो विधत्ते -- स पुरस्तादिति । तदेव तद्रूपमुपदधाति ' ( श ० ८ १ १ ४ ) । अथ प्राच्यां दिशि प्राणभृदुपधानं खण्डशः पञ्चाशद्धा पुरस्तात् पूर्वस्यां दिशि । सप्तम्यर्थेऽस्तातिः । अत्र ' पञ्चाशदिष्टकाः पञ्चाशद्यजूंषि ' इति वचनात् पञ्चैव मन्त्राः, विभक्ता मन्त्राः प्रयोक्तव्या इत्येकः पक्षः । विभक्तानां मन्त्रभागानामपरिसमाप्तार्थत्वात् च तद्वचनम् — पञ्चाशत्संख्या त्वावृत्त्या पूरणीयेति पक्षान्तरम् । कर्काचार्यरीत्या त्वन्तिम एव पक्षो ज्यायान् । तथा ' अत्र चैके खण्डशो मन्त्रान् प्रयुञ्जते, पञ्चाशदिष्टकाः पञ्चाशयजूंषीति वचनात् । तत्पुनरयुक्तम् कथमस्यैताः , वाक्याना- सर्वाः मपरिसमाप्तत्वात् । कथं तर्हि यजुषां पञ्चाशत्त्वम्? अभ्यासेनेत्यदोषः, लिङ्गाच्च । हास्यैताः सर्वाः प्राजापत्या भवन्तीति प्रकृत्याह - यदेव सर्वास्वाह । प्रजापतिगृहीतया त्वयेत्येवमु पक्षद्वयमेतदुपस्थाप्य प्रथमं प्रजापत्या भवन्ति । तस्मात् सकलमन्त्रप्रयोगो न खण्डशः ' इति । सायणाचार्यस्तु । ' अग्नि प्रथमपक्षानुसारं व्याख्याति । तथाहि - ' अयं पुरो भुवः ' इत्याद्याः पूर्वस्यां दिशि प्राणभृदुपधानमन्त्राः - तद्यत्तमाद्देति । पुरः इति पूर्वदिग्वाचिना पुरः शब्देन तत्सम्बद्धोऽग्निरत्र विवक्षित इत्यर्थः । तदेवोपपादयति ४२
पृष्ठ 366
पाठ पढ़ें पाठ छिपाएँ
३३० शुक्लयजुर्वेद संहिता [ [ अ ० १३ तत् तत्र यद् यस्मात् तमग्नि पुर इत्याह पुरः शब्दवाच्यतया प्रतिपादयति, तत्कारणमभिधीयत इति शेषः । प्राञ्चं हीत्यादिना तत्कारणवर्णनम् । प्राञ्चं पूर्वदिगभिमुखमग्निमाहवनीयात्मना उद्धरन्ति । तथा चरन्ति अग्निपरिचर्यां कुर्वन्ति हि यस्मात तस्मात् पुरः शब्देनाग्निरभिधीयत इत्यर्थः प्राञ्चं । पक्षान्तरमनूद्य प्रागपवर्गमुप. व्याचष्टे - अथ यद्भव इति । भवत्यस्मादिति व्युत्पत्त्या भवः शब्दोऽग्निवचनः । उक्तार्थं परतामाह -- प्राणो हेति । प्राणवायुरेव ह्यग्निभूत्वा पुरस्तात् पूर्वस्यां दिण्याहवनीयात्मना तस्थौ स्थितवान् | तत् तेनान्यात्मकं प्राणमेवोपहितवान् भवति । एवं पुरस्तादपधीयते प्रागुद्धियते प्रापचर्यंत इति पुरोऽग्निः । अतो हे इष्टके, प्राणात्म काग्निरूपां त्वामुपदधामीति शेष इति प्रथममन्त्रार्थः । ' तस्य प्राणी भौधायन इति । प्राणं तस्माद्रपादग्नेनिरमिमीत वसन्तः प्राणायन इति वसन्तमृतं प्राणान्निरमिमीत गायत्री वासन्तीति गायत्री छन्दो वसन्तादृतोनिरमिमीत गायत्र्यं गायत्रमिति गायत्र्यं छन्दसो गायत्र १ ९. साम निरमिमीत गायत्रादपा १७ शरिति गायत्रात् साम्न उपा १७ शुं ग्रहं निरमिमीतोपा ११ शोस्त्रिवृदि-त्या शोर्ग्रहात त्रिवत १ ९ स्तोमं निरमिमीत त्रिवृतो रथन्तरमिति त्रिवृतः स्तोमाद् रथन्तरं पृष्ठं निरमिमीत ' ( श ० ८११११५ ) । द्वितीयं मन्त्रमनुद्य व्याचत्रे तस्य प्राण इति । भवति सर्वरूपेणेति भुवोऽग्निः, अथवा भवति सर्वमस्मादिति भवोऽग्निः । अग्निरूपेणेष्टका ध्येयेति । भुवस्यापत्यं भौवायनः । स च प्राणस्याग्नेरनन्तर-मुत्पन्नः । प्राणं तस्मादिति । तस्मात्प्रथममन्त्रप्रतिपाद्यादग्न्यात्मकाद् रूपात् प्राणं निरमिमीत निर्मितवान सृष्टवान् भवतीत्यर्थः । ' वसन्तः प्राणायनः ' इति तृतीयो मन्त्रः । प्राणस्यापत्यं प्राणायनः । अत्र पूर्वपूर्वमन्त्रप्रतिपाद्या-दत्तरोत्तरमन्त्रप्रतिपाद्यानामुत्पत्तिरिति प्रकरणार्थः । स च प्राणसष्टो वसन्तः । हे इष्टके, तदात्मिकां त्वामुपदधा-मीति सर्वत्र योजना | प्राणायन इत्यनेन प्राणाद्वसन्तमृतं सृष्टवान् इत्यर्थः सिद्धः । वसन्तादुत्पन्नत्वाद् गायत्री वासन्ती । तदेवाह -- गायत्रीमिति । गायत्र्याः सकाशाद् गायत्र्याख्यं साम सृष्टम् । तदाह - गायत्र्यै छन्दस इति । पर्थे ' षष्ठ्यर्थे चतुर्थीति वाच्यम् ' ( पा ० स ० २२३: ६२ वा ० १ ) इति चतुर्थी । तस्माच्च गायत्र्याख्यात् साम्न उपनामको ग्रहो निर्मितः । तदाह - गायत्र्यात् साम्न उपांशमिति । स्तोत्रियानवकात्मकः स्तोमस्त्रिवृत् । स च उपांशोनिर्मितः । तदाह -- उपशोर्ग्रहात् त्रिवृतमिति । तस्मात् त्रिवृतो रथन्तराख्यं साम निर्मितम् । पृष्ठस्तोत्रस्य निष्पादकत्वाद् रथन्तरं साम पृष्टम् । ' वसिष्ठ ऋषिरिति । प्राणो वै वसिष्ठ ऋषिर्य नु श्रेष्ठस्तेन वसिष्टोऽथो यद्वस्तृतमो वसति तेनो एव वसिष्ठः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येतत्प्राणं गृह्णामि प्रजाभ्य इति प्राणं पुरस्तात् प्रापादयत नानोप-दधाति ये नाना कामाः प्राणे तांस्तद्दधाति सकृत्सादयत्येकं तत्प्राणं करोत्यथ यन्नाना सादयेत् प्राण ह विच्छिन्द्यात् सँषा त्रिवृदिका यजुः सादन १ ९ सुददोहास्तत् त्रिवृत् त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावत्कृत्वोपदधाति ' ( श ० ८१११११६ ) । तस्याद्वसिष्ठ ऋषिरुत्पन्नः । तस्य वसिष्ठस्य स्वरूपमाह - प्राणो वा इति । देहस्थितिहेतुत्वेनेन्द्रियाणां वासयितृत्वेन वसिष्ठ इति प्राण एवोच्यते । तदेवाह - यद्वा इति । यद्वै यस्मादेव नु निश्चितमिन्द्रियाणां मध्ये प्राणः श्रेष्ठः, अनुग्रहीतृत्वात् । तदनुगृहीतानि हीन्द्रियाणि स्वस्वव्यापारं कर्तुं प्रभवन्ति । तेन श्रष्ठ योगेन प्राणो वसिष्ठो जातः । पक्षान्तरमाह-- अथो इति । यद् यस्मात् प्राणो वस्तृतमोऽतिशयेन ' वासयिता सन् शरीरे वर्तते, तेनैव कारणेन वसिष्ठः । वस्तृशब्दादातिशायनिकेऽर्थे ' तुश्छन्दसि ' ( पा ० सू ० ५।३ / ५ ९ ) इतीष्ठनि ' तुरिष्ठेमेयस्सु ' ( पा ० सू ० ६ । ४ । १५४ ) इति तृशब्दस्य लोपे वसिष्ठ इति रूपम् । प्रजापतिगृहीतयेति दशमो मन्त्रः । तं व्याचष्टे - प्रजापतिसुष्टयेति । कर्तृविशेषोपादानसामर्थ्यादत्र ग्रहिः सृज्यर्थकः । हे इष्टके, प्रजापतिसृष्टया त्वया प्रजाभ्यः सर्वप्रजार्थं प्राणं गृह्णामि सृजामि । प्रजापतिरनेन प्राणं पूर्वस्यां दिशि प्रापादयत
पृष्ठ 367
पाठ पढ़ें पाठ छिपाएँ
म ० ५४-५५ ] वेदार्थं पारिजातभाष्यसहिता ३३१ प्रावेशयत् यजमानोऽप्यनेन मन्त्रेण प्राणं प्रपादयति प्रवेशयतीत्यर्थः । दशानां पूर्वदिगुपधेयानां प्राणभृतामुप-धानस्य पृथक्त्वं विधाय स्तौति - नानोपदधातीति । ये नाना कामा इति । प्राणाख्ये वायौ ये नानाविधफलविषयाः कामाः सन्ति, ताद तेनोपधानेन स्थापितवान् भवतीत्यर्थः । सादनस्याप्युपधानवत् प्रसक्तं नानात्वं व्यावर्तयति -सकृत्सादयतीति । तत् तेन सकृत्सादनेन प्राणमेकमविच्छिन्नं करोति । व्यतिरेके बाधं दर्शयति-- अथ यन्नाना सादयेदिति । पार्थक्येन सादने त्रिवृत्त्वसम्पत्तिविघातः स्यादित्यर्थः । त्रिवृत्त्वं विवृणोति - सैषेत्यादिना । संषा प्राणभृदिष्टका त्रिवृत् त्रिगुणा । त्रैगुण्यमेव दर्शयति- यजुरिति । तत्तदुपधानमन्त्री यजुः, तया देवतयेत्ये-तत्सादनम्, ता अस्येति सूददोहा: । तदेतत् त्रितयं मिलितं सत् त्रिवृत् । स्पष्टमन्यत् । अध्यात्मपक्षे - अनया कण्डिकया परमेश्वरस्य सार्वात्म्यमुच्यते । अयं प्रत्यक् चैतन्याभिन्नः परमेश्वरः पुरो भुव आहवनीयाग्निरूपः । शेषं पूर्ववत् । पुरोभुवाग्निभौवायनप्राणादिवसिष्ठ ऋषिपर्यन्तः कार्यकारणभावेन प्रसिद्धः सकलोऽपि वैदिकः पदार्थजातोऽयं परमेश्वर एव तज्जत्वात् । हे प्रज्ञे, प्रजापतिगृहोतया प्रजापतिनानु-गृहीतया त्वयाऽहं प्रजाभ्यः प्रजाहितार्थं प्राणं प्राणस्यापि प्राणं परमात्मानं गृह्णामि हृदये धारयामि, ' प्राणस्तथा-नुगमात् ' ( ब्र ० सू ० १।१।२८ ) इति न्यायात् । दयानन्दस्तु – ' हे स्त्रि, यथायं पुरो भुवः पुरः पूर्वं यो भवति सोऽग्निस्तस्य भौवायनो भुवेन सत्तारूपेण कारणेन निर्वृत्तः प्राणो येन प्राणिति स प्राणायनो प्राणा निर्वृत्ता यस्मात् । वसन्तो यः सुगन्धादिभिर्वासयति । वासन्ती वसन्तस्य व्याख्यात्री गायत्री या गायन्तं त्रायते सा । गायत्र्यं गायत्र्याः । गायत्रं गायत्र्येव छन्दः । गायत्रादुपांशु उपांशुगृहीता । उपांशोस्त्रिवृद् यस्त्रिभिः कर्मोपासनाज्ञानैर्वर्तते सः । त्रिवृतो रथन्तरं यद्रथं रमणीयै-स्तारयति तत् । वसिष्ठ ऋषिश्च प्रजापतिगृहीतया स्त्रिया तया त्वया सह प्रजाभ्यः प्राणं गृह्णाति तथा त्वया साकमहं प्रजाभ्यो बलं गृह्णामि इति तदपि यत्किञ्चित् स्त्रियाः सम्बोधनस्य निर्मूलत्वात् । भौवायनः प्राणः प्राणायन इत्यादीनामपि व्याख्यानं तथाविधमेव । न चाग्नेः प्रथमभुवस्वम्, वाय्वाकाशयोः ततः प्राग्भावित्वात्, श्रुतिविरोधाच्च । श्रुतौ तु प्राञ्चं ह्यग्निमुद्धरन्ति प्रामुपचरन्तीत्यादिना पूर्वादिकसम्बन्धेन पुरोभुवत्वमुक्तम् । ' अथ दक्षिणतः ' ( ० ८ | १ | १ | ७ ), ' अथ पश्चात्तात् ' ( श ० ८ | १ | २ | १ ), ' अथोत्तरतः ' ( श ० ८ | १ | २४ ) इति श्रुतिषु दिशामेव प्रसङ्ग उक्तः । भुवेन सत्तारूपेण कारणेन निर्वृत्त इत्यपि रिक्तं वचः, वस्तुजातस्य सर्वस्यैव तथात्वात् । नह्यसिद्धेन कारणेन किञ्चिदुत्पद्यते । यः सुगन्धादिभिर्वासयति स वसन्तः " प्राणा निर्वृत्ता यस्माद् इत्यादिकमपि निःसारमेव । वसन्तस्य व्याख्यात्री गायत्रीत्यादिकमपि तथाविधमेव, निर्मूलत्वात् । त्रिवृद्रथन्तरादि-व्याख्यानमप्येतादृशमनाघ्रातवेदार्थ गन्धस्यैव शोभते, शतपथे पूर्वोक्तरीत्या तद्वघाख्यानात् ॥ ५४ ॥
अ॒यं द॑क्षि॑णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्मणं ग्रीष्मो मा॑न॒सस्त्रिष्टुब्ग्रैष्म त्रि॒ष्टुभः स्वा॒रधि॑ स्व॒राद॑न्तय॒मोऽन्तय॒मात् प॑श्चद॒शः प॑ञ्चद॒शाद् बृ॒हद् भ॒रद्व॑ज॒ ऋषिः प्र॒जाप॑ति-गृहीत्वा मनो॑ गृह्णामि प्र॒जाभ्य॑ः ॥ ५५ ॥
मन्त्रार्थ- -इस इटका को विश्व का निर्माता विश्वकर्मा नाम से प्रसिद्ध देवता दक्षिण दिशा से आर्यावर्त में वहन करता है । मन उस विश्वकर्मा का अपत्य है । ग्रीष्म ऋतु मन का अपत्य हे । त्रिष्टुप् छन्द ग्रीष्म ऋतु से प्रकट होता है । त्रिष्टुप् छन्द से स्वार नामक साम प्रकट होता है । स्वार साम से अन्तर्याम ग्रह, अन्तर्याम से पंचदश स्तोम और पंचदश स्तोम से बृहत् साम प्रकट होता है । अन्न को धारण करने वाला मम सचेतन है । हे इष्टके, तुम प्रजापति द्वारा सादर गृहीत हो । तुम्हारी सहायता से मैं प्रजाओं का मन ग्रहण करता हूँ ॥ ५५ ॥
पृष्ठ 368
पाठ पढ़ें पाठ छिपाएँ
३३२ शुक्लयजुर्वेद संहिता [ अ ० १३ एभिर्मन्त्रस्तृतीयं दशकं दक्षिणश्रोणेरारभ्योपधेयम् । विश्वकर्मा विश्वानि कर्माणि जगद्वघापारादीनि यस्यासो | हे इष्टके, त्वं तद्रूपासि । अथवा विश्वं सवं करोति सृजतीति विश्वकर्मा वायुः । अयं दक्षिणा दक्षिणस्यां दिश्यार्यावर्ताद् भूयो वाति । तद्रूपां त्वां सादयामि । तस्य विश्वकर्मणोऽपत्यं मनः । अत एव ' तस्येदम् ' ( पा ० सू ० ४ | ३ | १२० ) इत्यणि ' इनण्यनपत्ये ' ( पा ० सू ० ६ | ४ | १६४ ) इति प्रकृतिभावे टिलोपाभावाद् वैश्वकर्मणं रूपम् । मनोरूपां त्वां सादयामि । मनसोऽपत्यं ग्रीष्म ऋतुर्मानसः । मानसग्रोष्मरूपां सादयामि } | ग्रैष्मी ग्रीष्मस्येयं ग्रैष्मी ग्रीष्मोत्पन्ना त्रिष्टुप्छन्दः । तद्रूपां त्वां सादयामि । त्रिष्टुभ उत्पन्नं त्रिष्टुप् } सादयामि । स्वारादुत्पन्नोऽन्तर्यामग्रहः । तद्रूषां त्वां सादयामि । अन्तर्यामादुत्पन्नः पञ्चदशः स्वारं साम । तद्रूपां त्वां त्वां सादयामि | पञ्चदशस्तोमादुत्पन्नं बृहत्पृष्ठम् । तद्रूषां त्वां सादयामि । भरद्वाज ऋषिविभर्तीति स्तोमः । तद्रूपां वाजमन्नं यः स भरद्वाजोऽन्नधर्ता मनः, मनसि स्वस्थे ह्यन्नादनेच्छोत्पत्तेः । ऋषिः सचेतनो मनोरूपः भरन्, भरन् त्वां सादयामि । तथा च श्रुतिः - ' मनो वै भरद्वाज ऋषिरन्नं वाजो यो वै मनो बिर्भात । तद्रपां तस्मान्मनो भरद्वाज ऋषि: ' ( श ० ८ | १ | ११ ९ ) इति । प्रजापतिगृहीतया धातृसृष्टया त्वयेष्टकया सोऽन्नं वाजं भरति मनो गृह्णामि । एभिर्दशभिर्मन्त्रमन एव गृह्णामीत्यर्थः । प्रजाभ्यो तथा चात्र ब्राह्मणम् -'अथ दक्षिणतः । अयं दक्षिणा विश्वकर्मेत्ययं वै वायुविश्वकर्मा एष हो, सर्व करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति मनो ह वायुत्वा दक्षिणतस्तस्थौ योऽयं पवत तदेव तद्रूपमुपदधाति ( श ० ८ | १ | १७ ) | दक्षिणस्यां दिश्युपधेयानां प्राणभृतां मन्त्रान् दक्षिणत इति । पुरस्तादुपधानानन्तरं दक्षिणस्यां दिशि ' अयं दक्षिणा ' इत्यादिभिर्मन्त्रैर्दश विधाय व्याचष्टे प्राणभृत - अथ उपदध्यादित्यर्थः । अयं वै वायुरिति । योऽयमन्तरिक्षे पवते सञ्चरति सोऽयं जगत् कर्म कर्तव्यं यस्य सूत्रात्मनो वायोः सः । श्रूयते हि --- ' वायुर्वे गौतम वायुविश्वकर्मा विश्वं सवं सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्हब्धानि ' ( श ० १४ / ६ / ७१६ तत्सूत्रम् ) इति वायुना वै गीतम वस्थित एष खलु वायुरिदं सर्वं करोति । तस्माद्विश्वकर्मोच्यते । तत् तत्र तं वायुं दक्षिणेति । क्रियाशक्त्यात्मनाऽ-शब्देन यद् यस्मादाह, तस्मादेष वायुः प्राणः सन् दक्षिणैव शरीरस्य दक्षिणभाग एव दक्षिणदिग्वाचिना सरते । मनो ह वायुर्भूत्वेत्यादि । सुखापरोक्ष्य साधनमान्तरमिन्द्रियं मनः । भूयिष्ठमधिकतरं वाति देहस्य दक्षिणभागे तस्थौ स्थितवत् । तस्मात्तदेव वाय्वात्मकं मनसो रूपमुपहितवान् तत्खलु प्राणवायुर्भूत्वा दक्षिणतो वैश्वकर्मणमिति । मनस्तस्माद्रूपाद्वायोर्निरमिमीत ग्रीष्मो मानस इति ग्रीष्ममृतुं भवति । तस्य मनो त्रिष्टुब् ग्रैष्मीति त्रिष्टुभं छन्दो ग्रीष्मादृतोनिरमिमीत त्रिष्टुभः स्वारमिति मनसो निरमिमीत निरमिमीत स्वारादन्तर्याम इति स्वारात् साम्नोऽन्तर्यामं ग्रहं निरमिमीतान्तर्यामात् त्रिष्टुभएछन्दसः स्वार, साम पञ्चदश९, स्तोमं निरमिमीत पञ्चदशात् बृहदिति पश्चदशात् स्तोमाद् बृहत्पृष्ठं निरमिमीत पञ्चदश इत्यन्तर्यामाद् ग्रहात् तस्य मनो वैश्वकर्मणमिति । द्वितीयदशकस्य द्वितीयमन्त्रः । विश्वकर्मसंज्ञकाद् ' ( श ० ८ | १ | ११८ ) । इष्टके, तद्रूपां त्वामुपधामीति शेषः । एतन्मन्त्रप्रयोगेण तस्माद् विश्वकर्मसंज्ञकाद्वायोर्मन वायोर्जातं मनो वैश्वकर्मणम् । ग्रीष्मो मानस इति तृतीयेन मन्त्रेण ग्रीष्माख्यमृतुं मनसः सकाशान्निर्मितवान् । इन्द्रियं सृष्टवान् । त्रिष्टुप् च ग्रैष्मी । त्रिष्टुबादीनां स्त्रीलिङ्गत्वाद् ग्रैष्मीति । तथा च ग्रीष्मातोः ग्रोष्मादुत्पन्नं सकाशात् छन्दस्त्रिष्टुप् । छन्दो निर्मितवान् । त्रिष्टुभः स्वारमिति पञ्चमो मन्त्रः । स्वरसंज्ञकैरकारादिभिरेव वर्णैः त्रिष्टुबाख्यं साम स्वारम्, तदुत्पन्नमित्यर्थः । अन्तर्यामपदेन सोमग्रहः । पञ्चदशभिः स्तोत्रियाभिर्ऋग्भिर्निष्पाद्यः समाप्यमानं पञ्चदशः । बृहत्पृष्ठमिति । ' त्वामिद्धि हवामहे ' इत्यस्यामृच्युत्पन्नं साम बृहत् । तच्च पृष्ठस्तोत्ररूपेण स्तोमः प्रयुज्यमानत्वात् पृष्ठम् । I
पृष्ठ 369
पाठ पढ़ें पाठ छिपाएँ
म ० ५५-५६ ] वेदार्थपारिजातभाष्यसहिता ३३३ ' भरद्वाज ऋषिरिति । मनो वै भरद्वाज ऋषिरन्नं वाजो यो वै मनो बिर्भात सोऽन्नं वाजं भरति । तस्मान्मनो भरद्वाज ऋषिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येतन्मनो गृह्णामि प्रजाभ्य इति मनो दक्षिणतः प्रापादयत नानोपदधाति ये नाना कामा मनसि तांस्तद्दधाति सकृत्सादयत्येकं तन्मनः करोत्यथ नाना सादयेन्मनो ह विच्छिन्द्यात् संषा त्रिवृदिष्टका तस्योक्तो बन्धुः ' ( श ० ८ | १ | ११ ९ ) । भरद्वाज ऋषिरिति नवमो मन्त्रस्तं व्याचष्टे – मनो वा इति । एतन्निब्रूते -- अन्नं वाज इति । यः खलु प्राणी मनो बिभर्ति धारयति जीवनविशिष्टो भवतीत्यर्थः, स च वाजाख्यमन्नं भरति देहे धत्ते । तस्माद् भरणाद् वाजेन धार्यमाणत्वाच्च भरन् त्रियमाणो वाजश्च यस्येति व्युत्पत्त्या मन एव भरद्वाज ऋषिः । मनो गृह्णामि प्रजाभ्य इत्यनेन मन्त्रभागेन दक्षिणदिशि प्राणमृदुपधानं कुर्वन् प्रजापतिर्दक्षिणतः शरीरस्य दक्षिणभागे मनः प्रापादयत प्रावेशयत् । उपधानस्य नानात्वं सादनस्य सकृत्त्वं पूर्ववद्विधाय स्तौति नानोपदधातीत्यादिना । मन स्थिताये नानाविधाः कामा अभिलाषविशेषाः, तांस्तत्र मनसि स्थापयति । एकं तन्मन इति । तत् तेन मनः सादनसकृत्त्वेन एकमविच्छिन्नं मनः सम्पादयति । पृथक्सादने तु दोषविशेषमाह - यन्नाना सादयेदिति । संषा दशमीष्टका त्रिवृत् । स्पष्टार्थमन्यत् । अध्यात्मपक्षे अयं परमेश्वराभिन्नः प्रत्यगात्मा दक्षिणा दक्षिणस्यां दिशि विश्वकर्मा हिरण्यगर्भरूपो वायुः । शेषं पूर्ववदृह्यम् । प्रजापतिगृहोतया त्वया बुद्धया अहं प्रजाभ्यो मनो मनसो मनः परमात्मानं गृह्णामि । दयानन्दस्तु ' हे स्त्रि, यथा दक्षिणा दक्षिणतोऽयं विश्वकर्मा वायुरिवास्ति, तस्य वैश्वकर्मणं मनो यस्माद् विश्वानि कर्माणि निर्वृत्तानि भवन्ति तद् मानसो मनस ऊष्मेव वर्तमानो ग्रोष्मो यो रसान् ग्रसते सः । ग्रैष्मी ग्रीष्मर्तुव्याख्यात्री ऋक् । त्रिष्टुप् छन्दः । त्रिष्टुभश्छन्दसः स्वारं तापाज्जातं तेजः, स्वाराद् अन्तर्यामोऽन्तर्मध्ये यामाः प्रहरा यस्मिन् समये सः । अन्तर्यामात् पञ्चदशः पञ्चदशानां तिथीनां पूरक: स्तोमः । पञ्चदशाद् बृहद् महान् । भरद्वाजो वाजोऽन्नं विज्ञानं वा बिभर्ति येन श्रोत्रेण तत् । ऋषिविज्ञापकः प्रजापतिगृहीतया विद्यया त्वया सह राजा प्रजाभ्यो मनो गृह्णातीति विज्ञानयुक्तं चित्तं गृह्णाति तथा त्वया साकमहं विश्वस्माद्विज्ञानं गृह्णामि ' इति, तदपि निरर्थक प्रतारणमात्रम्, विशृङ्खलत्वात् सम्बोधनस्य निर्मूलत्वाच्च । विश्वकर्मपदस्य वार्थत्वे तद्वद्वानिति कथमर्थः? स च दक्षिणदेशादेव किमर्थं चलति? वेदे तद्वर्णनस्य किं प्रयोजनम्? मनस ऊष्मा कीदृशः? तस्यास्पर्शवत्त्वेन तदयोगात् । ततश्च ग्रीष्मर्तुः कथं जायते? त्रिष्टुभा कया रीत्या ग्रीष्मर्तु-व्याख्यानं भवति? कथं च तस्मात् वापजं तेजः? कथं च ततः पौर्णमासी भवति? कथं च ततः श्रोत्रमिति सामाजिका विचारयन्तु ॥ ५५ ॥
अ॒यं प॒श्चाद्वश्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यचसं व॒र्षाश्चक्षुष्यो जग॑ती वार्षी जगत्था ऋक्सम॒मृक्स॑माच्छुक्रः शुक्रात् स॑प्तद॒शः स॑प्तद॒शाद्वैरूपं ज॒मद॑ग्न॒ऋषिः प्र॒जाप॑तिगृहोतया त्वया चक्षु॑र्गृह्णामि प्र॒जाभ्यः ॥ ५६ ॥
6 मन्त्रार्थ - यह पश्चिमगामो नेत्र ऋतु उत्पन्न है, ऋतु चक्षु से प्रकट होती है, जगती छन्द वर्षा ऋतु से प्रकट होता है, जगती छन्द से ऋक्साम, ऋक्साम से शुक्र ग्रह, शुक्र ग्रह से सप्तदश स्तोम, सप्तदश स्तोम से रूप पृष्ठ और वंरूप पृष्ठ से चक्षुरूप जमग्नि ऋषि प्रकट होते हैं । हे इष्टके, तुम प्रजापति द्वारा सादर गृहीत हो । तुमको मैं प्रजा के निमित्त चक्षु इन्द्रिय के रूप में ग्रहण करता हूँ ॥ ५६ ॥
पृष्ठ 370
पाठ पढ़ें पाठ छिपाएँ
३३४ शुक्लयजुर्वेद संहिता [ अ ० १३ अयं पश्चादित्यादिमन्त्रैद्वितीयं दशकमुत्तरश्रोणेरारभ्योपदधाति । अयं प्रसिद्धः पश्चात् प्रतीचीं दिशमति गच्छतीति पश्चात् प्रतीचीगमनशीलः । विश्वव्यचा विश्वं सर्वं विचति व्याप्नोतीति विश्वव्यचाः प्रजापतिः । अथवा विश्वं विचति उदितः सन् प्रकाशयतीति विश्वव्यचा आदित्यः । तद्रूपां त्वां सादयामि । तस्यादित्यस्य सम्बन्धि चक्षुः । अत एव वैश्वव्यचसं विश्वव्यचसो रवेरुत्पन्नं तद्रूपां सादयामि । चाक्षुष्यः चक्षुष उत्पन्ना वर्षा ऋतुस्तद्रूपां सादयामि । वर्षाभ्य उत्पन्नं जगती च्छन्दस्तद्रूपां सादयामि । जगतीच्छन्दस उत्पन्नम् ऋक्समसंज्ञं साम तद्रूपां सादयामि । ऋक्समादुत्पन्नो यः शुक्रग्रहस्तद्रूपां सादयामि । शुक्रादुत्पन्नो यः सप्तदशः स्वोमस्तद्रूपां त्वां सादयामि । सप्तदशात् स्तोमादुत्पन्नं यद् वैरूपं पृष्ठं तद्रूपां सादयामि । जमदग्निः जमति जगत्पश्यतीति जमत् अङ्गति सर्वत्र कुटिलमूर्ध्वं गच्छतीत्यग्निः, जमच्चासावग्निश्च्चेति । ऋषिः ऋषति जानातीति ऋषिः । ईदृशं यच्चक्षुस्तद्रपां सादयामि । प्रजापतिसृष्ट्या स्वयेकया प्रजार्थं चक्षुर्गृह्णाति दशमन्त्रैश्चक्षुरेव गृह्णाति । एतदेवाह ब्राह्मणम् -'अथ पश्चात् । अयं पश्चाद्विश्वव्यचा इत्यसौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेत्यथेद सर्वं व्यचो भवति तद्यत्तमाह पश्चादिति तस्मादेतं प्रत्यचमेव यन्तं पश्यन्ति चक्षुर्ह्रादित्यो भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधावि ' ( श ० ८ १ २११ ) । अथ प्रतीच्यां दिश्युपधेयानां प्राणभृतां दशकस्य दश मन्त्रान् दर्शयन् क्रमेण व्याचष्टे - अथ पश्चादिति । ' अयं पश्चाद्विश्वव्यचा: ' इति प्रथमो मन्त्रः । पश्चाद् अपरस्मिन्निति पश्चात् | ' पश्चात् ' ( पा ० सू ० ५।३।३२ ) इति सूत्रेण अपरशब्दस्य पश्चभावोऽस्तात्यर्थे आतिश्च प्रत्ययो निपात्यते । प्रतीच्यां दिशीति तदर्थः । व्यचतिर्व्याप्तिकर्मा विश्वं व्यचति व्याप्नोतीति विश्वव्यचाः । असो लोकस्थ आदित्यः । एतदेवाह यदा ह्येवैष इति । यस्मिन् काले एष सूर्य उदेत्यथानन्तरमेवेदं सर्वं व्यचो व्यापनं भवति । तस्मादसो विश्वव्यचा इत्यर्थः । तद्यतमाहेति । तमादित्यं पश्चादिति प्रत्यग्दिग्वाचिना शब्देन यद्यस्मात् प्रतिपादयति, तस्मादेव प्रतीचीदिक्सम्बन्धकारणादेतमादित्यं प्रत्यञ्चं प्रत्यङ्मुखमेव यन्तं गच्छन्तं पश्यन्ति जनाः । सर्वप्राणिनां चक्षुरेव ह्यादित्यो भूत्वा पश्चात् प्रत्यङ्मुखस्तस्थौ । तदेव चक्षुरात्मकमेव तदादित्यात्मकं रूपमुपहितवान् भवतीत्यर्थः । ' तस्य चक्षुर्वेश्वव्यचसमिति । चक्षुस्तस्माद्रूपादादित्यान्निरमिमीत वर्षाश्चाक्षुष्य इति वर्षाऋतुं चक्षुषो निरमिमीत जगती वार्षीति जगतीं छन्दो वर्षाभ्य ऋतोनिरमिमीत जगत्या ऋक्सममिति जगत्यं छन्दस ऋक्सम साम निरमिमीतर्क्समाच्छुक्र इत्युक्समात् साम्नः शुक्रं ग्रहं निरमिमीत शुक्रात् सप्तदश इति शुक्राद् ग्रहात् सप्तदश स्तोमं निरमिमीत सप्तदशाद्वैरूपमिति सप्तदशात् स्तोमाद्वैरूपं पृष्ठं निमिमीत ' ( श ० ८: श २२ ) । तस्य चक्षुर्वेश्वव्यचसमिति द्वितीयो मन्त्रः । विश्वव्यचसो जातं वैश्वव्यचसम् । अनेन मन्त्रेण तस्मादादित्यरूपात् कारणात् चक्षुनिर्मितवान् प्रजापतिरिति शेषः । वर्षा ऋतुश्चाक्षुष्यः, तस्माच्चक्षुषः सृष्टाः । ' अप्सुमनःसिकतासमावर्षाणाम् ' ( लिङ्गानुशासनम् ११२ ९ ) इति स्मरणान्नियत बहुदेन एकस्मिन्नपि बहुत्वम् । वर्षाख्यमृतुं चक्षुषो निर्मितवान् । जगतीं छन्दो वर्षाभ्यः ऋतोर्निर्मितवान् । वर्षाभ्यो जाता वार्षी । जगत्या ऋक्सममिति । यत्साम ऋचा समं समाप्यते न न्यूनाधिक-भावेन, तत् ऋक्समं साम जगतीच्छन्दसः सकाशात् सृष्टम् । तदेवाह – जगत्यै छन्दस इति । षष्ठ्यर्थे चतुर्थी । तस्माद् ऋक्समाख्यात् साम्नः शुक्राख्यः सोमग्रहः सृष्टः । सप्तदश इति । सप्तदशभिः स्तोत्रियाभिर्निष्पाद्यः स्तोमः सप्तदशः । तस्माच्च वैरूपाख्यं पृष्ठं साम निर्मितम् । ' जमदग्निर्ऋषिरिति । चक्षुर्वे जमदग्निर्ऋषिर्यदेनेन जगत्पश्यत्यथो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येच्चक्षुर्गृह्णामि प्रजाभ्य इति चक्षुः पश्चात् प्रापादयत नानोपदधाति