वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 371–380

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 371–380

पृष्ठ 371

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 371 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म०५६-५७ ] वेदार्थपारिजात भाष्यसहिता ३३५ ये नाना कामाश्चक्षषि तांस्तद्दधाति सकृत् सादयत्येकं तच्चक्षः करोत्यथ यन्नाना सादयेच्चक्षुर्ह विच्छिन्द्यात् संषा त्रिवृष्टिका तस्योक्तो बन्धु: ' ( श ० ८ १ २ ३ ) | जमदग्निर्ऋऋषिरिति नवमो मन्त्रः । तद् व्याचष्टे - चक्षुर्वा इति । एनेन चक्षुषा जगद् रूपादिकं पश्यतीति यद् अथो अपि च चक्षुषैव मनुते जानातीति यत् तस्माद् हेतोर्जगन्मनुतेऽ. नेनेति व्युत्पत्त्या वर्णलोपेन जमच्चक्षुः प्रकाशत्वादग्निदर्शनादृषिश्चेति ' जमदग्निर्ऋऋषिः ' इति वाक्य तात्पर्येण चक्षुव प्रतिपाद्यत इत्यर्थः । प्रजापतिगृहीतयेति दशममन्त्रं पूर्ववद् व्याच प्रजापति सृष्टयेत्यादिना । पूर्ववदुपधाने नानात्वं सादने सकृत्त्वं च विधत्ते - नानोपदधातीत्यादिना । एकं तच्चक्षरिति । एकमविच्छिन्नम् । नानासादने पूर्ववद्दोषमाह - नाना सादयेदिति । विच्छिन्द्याद् विच्छिन्नं प्रशीर्णं वियुक्तं वा कुर्यादित्यर्थः । शेषं पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे - पूर्ववत् सार्वात्म्यविवक्षयैव तानि तानि कार्याणि कारणानि च निरूपितानि । अयमात्मव जमदग्निर्ऋषिः । चक्षुरप्ययमेव । प्रजापति गृहीतया त्वया हे बुढे, प्रजाभ्यश्चक्षुषश्चक्षुः परमात्मानमेव वा अहं गृह्णामि । अन्यत् पूर्ववत् । दयानन्दस्तु - ' हे वरानने, यथायमादित्य इव विद्वान् विश्वव्यचा विश्वं व्यचति प्रकाशेनाभिव्याप्य प्रकटयति, सन् पश्चात् पश्चिमस्यां दिशि वर्तमान आदित्यो वैश्वव्यचसं प्रकाशकं चक्षुर्नयनं चाक्षष्यश्चक्षुष दर्शनीया वर्षा या मेघा वर्षन्ति ता वर्षा वर्षाणां व्याख्यात्री जगती जगद्गता जगत्या ऋक्समम् ऋचः सनन्ति इमा सम्भजन्ति येन तद् ऋक्समम् ऋक्समात् शुक्रः पराक्रमः शक्रात् सप्तदशः सप्तदशानां पूरकः सप्तदशाद् वैरूपं विविधानि रूपाणि यस्मात् तस्येदम् । यथा च जमदग्निः प्रज्वलिताग्निर्नयनम् ऋषिरूपप्रापकः प्रजापतिगृहीतया तया सह प्रजाभ्यश्चक्षुर्गृह्णाति तथाहं त्वया साकं संसाराद् बलं गृह्णामि ' इति, तदपि यत्किञ्चित् सम्बोधनस्यैव निर्मूलत्वात् । आदित्यो विद्वानित्यपि निर्मूलम् लक्षणायां बीजाभावात् । पश्चिमदिशि वर्तमानः सूर्यः किमर्थं गृहाते? न च विद्वान् सूर्यवत् सर्वजगत्प्रकाशको भवति । तस्य चक्षुषा कः सम्बन्धः? वर्षाः कथं चक्षुष्यः? वसन्तादिष्वपि तत्सम्भवात् । कथं च जगती तद्वयाख्यात्री? काचिज्जगती तद्वयाख्यात्री सर्वा वा? आद्यं चेत् का सा? न चान्तिमं सर्वासां तथाऽदर्शनात् । कथं च जगत्या ऋक्सेवन हेतुभूतं विज्ञानमुत्पद्यते? कथं च विज्ञानं तदर्थः? तस्माद् विज्ञानात् कथं पराक्रमोत्पत्तिः? तस्माच्च कथं सप्तदशं विज्ञानम्? कानि च तत्पूर्व-वर्तीनि षोडश विज्ञानानि? सर्वथापि निरर्गलमुपेक्षणीयमेवैतद् व्याख्यानम् ॥ ५६ ॥

इ॒दम॑त्त॒रात् स्व॒स्तस्य॒ श्रोत्र॑ स॒॑ श॒रच्छ्रत्र्यनुष्टुप् शरद्यनष्टु ऐडमै डान्सन्थी म॒न्थिन॑ एकवि॒श एकविध्शाद्वैराजं विश्वामित्र॒ ऋषिः प्र॒जाप॑तिगृही॒तया त्वया श्रोत्रे गृह्णामि प्रजाभ्यः ॥ ५७ ॥

मन्त्रार्थ - उत्तर दिशा में स्वर्गं स्थित है । श्रोत्र स्वर्ग से सम्बद्ध है । ऋतु से अनुष्टुप् छन्द, अनुष्टुप् छन्द से ऐड साम, ऐड साम से मन्थी ग्रह, स्तोम से वैराज साम प्रकट होता है । श्रद्धापूर्वक दूसरों की बात सुनने के हे इष्टके, तुम प्रजापति के द्वारा सादर गृहीत हो, तुम्हारी सहायता से ग्रहण करता हूँ ॥ ५७ ॥

शरद ऋतु श्रोत्र से उत्पन्न होती है । शरद् मन्थी ग्रह सेएकविंश स्तोम और एक कारण श्रोत्र सबका मित्र और ज्ञाता है । प्रजाओं के निमित्त मैं श्रोत्र इन्द्रिय का

पृष्ठ 372

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 372 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३३६ शुक्लयजुर्वेदसंहिता [ अ ० ] १३ दशमन्त्रैश्चतुर्थं दशकमुत्तरांसादारभ्योपदधाति । उत्तराद उत्तरस्यामित्युत्तरात् । ' उत्तराधरदक्षिणादातिः दिशि ' ( पा ० सू ० ५।३।३४ ) इत्यातिप्रत्ययः । स्व: सौति सर्वं जगत प्रेरयतीति स्वः प्रजापतिः । उत्तरस्यां यदिदं स्वः प्रजापतिशरीरम. हे इटके! त्वं तद्रपासि । अथवा उत्तराद् उत्तरस्यां सर्वस्मादुत्तरभागस्था या दिशः, यदिदं स्वः स्वर्गे लोकस्तां टिक स्वर्गरूपां त्वां मादयामि । दिग्रूपेण बहुस्त्रे कथमेकवचनमिति चेन्न, ' क्रियाव्ययविशेषणानां नपुंसकत्वमेकत्वं च ' इति वचनं व्याकरणान्तरगं गदाधरेण व्युत्पत्तिवादे कर्मविचार ' तस्येदम् ' उद्धतम. तट्टलात् । तस्य स्वर्गस्य सम्बन्धि श्रोत्रम । कीदृशं तदित्याह -- सौवम् जागमः | स्वरिदं । अव्ययानां सौवम् भमात्रे ( पा ० स ० ४ | ३ | १२० ) इत्यण् । ' द्वारादीनां च ' ( पा ० स ० ७१३४ ) इत्यं । शरद उत्पन्ना अनुष्टुप् टिलोपाद रूपसिद्धिः । श्रोत्रादुत्पन्ना या शरत् सा श्रोत्री । तद्रपां त्वां सादयामि । ऐडात् साम्न शारदी । अनुष्टुप छन्दोरूपां त्वां सादयामि । अनुष्टुभ उत्पन्नं यद् ऐडं साम तद्रूपां त्वां सादयामि स्तोमः, तद्रूपां त्वां उत्पन्नो यो मन्थी ग्रहः, तद्रां त्वां सादयामि । मन्थिग्रहादुत्पन्नो य एकविंशः ऋषिविश्वं सर्व मित्र सादयामि | एकविंशात स्तोमादुत्पन्नं यद् वैराजं पृष्टं तद्रूपां त्वां सादयामि । विश्वामित्र श्रोत्रं तद्रूपां त्वां येन सः । ' मित्रे चष ' ( पा ० स ० ६ ३ १३० ) इति दीर्घः । विश्वामित्रर्षिरूपं सादयति यत् । ये नाना कामाः सादयामि । प्रजापतिसृष्या त्वयेकया प्रजाभ्यः श्रोत्रं गृह्णामि । दशमन्त्रः श्रोत्रमेव श्रोत्रे तांस्तद्दधाति । सकृत् सादयति । एकं श्रोत्रं करोति । -- ' अथोत्तरतः । इदमुत्तरात् स्वरिति दिशो वा उत्तरात् तद्यत्ता आहोत्तरादित्युत्तरा अत्र ब्राह्मणम् ह दिशो भूत्वोत्तरतस्तस्थौ तदेव ह्यस्मात् सर्वस्माद्दिशोऽय यत्स्वरित्याह स्वर्गे हि लोको दिशः श्रोत्र मन्त्रदशकं विधाय व्याच — तद्रपमुपदधाति ' ( ० ८ | १ | २ | ४ ) । अथोत्तरस्यां दिश्युपधेयस्य प्राणभृदृशकस्य विवक्षितमर्थमाह् - दिशो अथोत्तरत इत्यादिना । ' इदमुत्तरात् स्व: ' इति प्रथमो मन्त्रः । उत्तरादिति पदस्य, तत्कारणमुच्यत वा उत्तरादिति । एतदेव विवृणोति तद्यदिति । तत् तत्र ता दिश उत्तरादिति शब्देन दिशः आह प्राच्याद्या उत्तरा इति शेषः । हि यस्माद् अस्माद् दृश्यमानात् स्थावरजङ्गमात्मकात् दिशः सर्वस्माज्जगतो प्रतिपाद्यन्त इत्यर्थः । दिशां स्वर्ग-उत्कृष्टतराः, उत्तरभागे वर्तमाना वा, अतो हेतोरुत्तरादिति पदेन स्वरिति । श्रोत्रं ह दिश इत्यादि । श्रोत्रं लोकात्मकत्वात् ' स्वः ' इति पदेनापि दिश एवोच्यन्त इत्याह -- अथ यत् दिशि तस्थौ । तद्रूपमिति । शब्दग्रहण साधनमिन्द्रियम्, तत्स्वकारणात्मना दिग्रूपत्वं प्राप्य उत्तरत । ' उत्तरस्यां तस्य श्रोत्र १७ सौवमिति । श्रोत्रं स्वकारणात्मकमेव दिगात्मकमेव रूपमुपहितवान् भवतीत्यर्थः छन्दः शरद तस्माद्रवाद्दिग्भ्यो निरमिमीत शरच्छौत्रीति शरदमृतु श्रोत्रान्निरमिमीतानुष्टुप् शारदीत्यनुष्टुभं साम्नो मन्थिनं ग्रहं ऋतोनिरमिमीतानुष्टुभ ऐडमित्यनुष्टुभश्छन्दस ऐड ११ साम निरमिमीतैडान्मन्थीत्यंडात् निरमिमीतै कवि १७ शाद्वैराजमित्येक वि७-निरमिमीत मन्थिन एकवि श इति मन्थिनो ग्रहादेकवि १ श स्तोमं सौवमिति द्वितीयो मन्त्रः । दिगात्मकत् शात् स्तोमाद्वैराजं पृष्ठं निरमिमीत ' ( श ० ८ | १ | २२५ ) । तस्य श्रोत्र १ ९ " श्रोत्रेन्द्रियं दिग्भ्यः सकाशाद् निर्मित-स्वर्गलोकाज्जातं श्रोत्रं सौवम् । तस्मात् स्वरशब्दाभिधेयाद् रूपात् वानित्यर्थः । श्रोत्रादुत्पन्ना शरच्छ्रौत्री । तस्याः शरदः सकाशादुत्पन्ना अनुष्टुप ऐडात् शारदी साम्नो । तथाविधादनुष्टुप्छन्दस मन्थिसंज्ञः सोमग्रहो ऐडं साम उत्पन्नम् । इडाशब्दोऽन्ते विद्यते यस्य तद् ऐडं साम । तस्माच्च पृष्ठं साम निर्मितम् । एतावदत्र निर्मितः । तस्मान्मन्थिग्रहाद् एकविंशाख्यः स्तोमः तस्माच्च वैराजाख्यं ऋषिर्यंदेनेन सर्वतः शृणोत्यथो प्रतिपाद्यम् | अक्षरयोजना पूर्ववत् । ' विश्वामित्र ऋषिरिति । श्रोत्रं वै विश्वामित्र त्वयेत्येतच्छत्रं यदस्मै सर्वतो मित्रं भवति तस्माच्छ्रोत्रं विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्ट्या सकृत् सादय गृह्णामि प्रजाभ्य इति श्रोत्रमुत्तरतः प्रापादयत नानोपदधाति ये नाना कामाः श्रोत्रे तांस्तद्दधाति

पृष्ठ 373

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 373 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५७-५८ ] वेदार्थपारिजातभाष्यसहिता ३३७ तच्छत्रं करोत्यथ यन्नाना सादयेच्छोत्र ह विच्छिन्द्यात् सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः ' ( श ०८ | १ | २२६ ) | श्रोत्रं वा इत्यादि । विश्वं सर्वं मित्रमनेन भवतीति विश्वस्य मित्रहेतुत्वाद् दर्शनसाधनत्वाच्च श्रोत्रं खलु विश्वामित्राख्य ऋषिरित्यर्थः । उक्तमेवार्थमाविष्करोति - - यदेनेनेति । अथो यदस्या इति व्युत्पत्यन्तरप्रदर्शनम् । अथ इति पक्षान्तरे । अस्मै शृण्वते जनाय यद् यस्मात् सर्वतः सर्वासु दिक्षु मित्रं भवति सम्पद्यते, तस्माद्विश्वामित्र इत्यर्थः । श्रोत्रस्य विच्छेदो बाधिर्यम् । अध्यात्मपक्षे - इदमुत्तरादित्यत्र पूर्वस्मान्मन्त्रादयमिति पदमनुवर्तनीयम् । सर्वस्मादुत्तरभागस्थाया दिशो यदिदं स्वं स्वर्गलोकः सा दिक् स्वर्गरूपा, अधिष्ठानसत्तातिरिक्तायाः कल्पितसत्ताया अभावात् । हे प्रत्यक् चैतन्याभिन्न परमात्मन् त्वं दिक्स्वरूपस्वर्गरूपोऽसि । एवं पूर्वोक्तेषु सार्वात्म्यबोधकेषु मन्त्रेषु सम्बोधनादिकमपि । तस्य स्वर्गस्य सम्बन्धि सौव श्रोत्ररूपोऽसि, श्रोत्रादुत्पन्न शरद्रूपोऽसि । तद्रूपां त्वां चिन्तयामीति शेषः । हे बुद्धे, प्रजापतिसृष्टया अनुगृहीतया प्रजाभ्यो हितार्थं श्रोत्रं गृह्णामि । प्रजानां श्रोत्रसिद्धये स्वां चिन्तयामीति पूर्ववत् । यद्वा श्रोत्रस्य श्रोत्रं परमात्मानं गृह्णामि ॥ ५७ ॥

इ॒यम॒परि॑ म॒तिस्तस्यै॒ वाङ्मत्या हेमन्तो वाच्यः प॒ङ्क्तर्हेमन्ती पङ्क्यै नि॒धन॑वन्भि॒जन॑वत आग्रय॒ण आ॑य॒णात् त्रिंणवत्रयस्त्रिंशौ णवत्रयस्त्रिशाभ्य शाक्वररे॑व॒ते वि॒श्वक॑र्म॒ ऋषिः प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाच॑ गृह्णामि प्र॒जाभ्यो॑ लो॒कं ता इन्द्र॑म् ॥ ५८ ॥

मन्त्रार्थ - सबसे ऊपर विराजमान चन्द्र यह वाणी है । वाणी उस चन्द्ररूप मति से उत्पन्न है । वाणी से हेमन्त ऋतु, हेमन्त से पंक्ति छन्द, पंक्ति छन्द से निधन साम, निधन साम से आग्रयण ग्रह आप्रयण ग्रह से त्रिणव और यश नामक दो साम एवं इन दो सामों से शाक्वर और रेवत नामक वो पृष्ठस्तोम प्रकट होते हैं । वाणी सम्पूर्ण संसार की रचना करने वाली है । हे इष्टके, तुम प्रजापति के द्वारा सावर गृहीत हो, तुम्हारी सहायता से प्रजाओं नीरोगता की प्राप्ति के निमित्त इन दस मन्त्रों से मैं वाणी को ग्रहण करता हूं ॥ ५८ की ॥ ' लोकम्पृणा दक्षिणा सादध्यामध्यान् प्रदक्षिणमानुकान्तात् पूर्वस्मात् । ( का ० श्र ० १७।६।५ ) | आत्मनो दक्षिणकोणादारभ्य आमध्यादधि स्वयमातृष्णापर्यन्तं लोकम्पृणा उपदध्यात् । तासां लोकम्पृणेत्यभिमन्त्रणम् ता अस्येति सुददोहः संज्ञकमन्त्रेणाधिवदनं स्पृष्ट्वा पठनमिति सूत्रार्थः । ' मध्ये पुरीषं निवपति पूर्ववत् ' । ( का ० श्री ० १७ / ६ / ९ ) । आत्मनो मध्ये स्वयमातृष्णाया उपरि पूर्ववत् ' इन्द्रं विश्वा ' ( वा ० सं ० १२।५७ ) इति मन्त्रेण चाश्वालात् पुरीषमादाय निवपेद् मध्ये राशि कुर्यादिति सूत्रार्थः । तिस्र ऋचः प्रतोकोक्ताः ' लोकं पृण ' ( वा ० सं ० १२।५४ ), ' ता अस्य ' ( वा ० सं ० १२।५५ ), ' इन्द्रं विश्वा ' ( वा ० सं ० १२ । ५६ ) पूर्वमुक्त्वा निवपेदिति । दशमन्त्रः पञ्चमं दशकं रेतः सिग्भ्यामुत्तरां प्रथमां कृत्वा प्रादक्षिण्येनोपधेयम् । उपरि ऊर्ध्वदेश-स्थश्चन्द्रः इयं मतिर्वाक् । मन्यते ज्ञायते यया सा मतिः । वागेव चन्द्रो भूत्वा उपरि तिष्ठति तद्रूपां त्वां सादयामि, ' चन्द्रमा वा उपरि ' ( श ० ८ | १ | २ | ७ ) इति श्रुतेः । तस्यै तस्याश्चन्द्ररूपाया मतेरुत्पन्ना अत एव मात्या, मरियं मात्या या वाक् तद्रूपां त्वां सादयामि, ' वाचं तस्माद्रूपाच्चन्द्रमसो निरमिमीत ' ( श ० ८ | ११२०८ ) इति श्रुतेः । वाचोऽपत्यं वाच्यः, वाच उत्पन्नो यो हेमन्तस्तद्रूपां त्वां सादयामि | हेमन्तस्येयं हेमन्ती या पङ्क्तिः, तन्नामकं छन्दः, तद्रूपां त्वां सादयामि । पङ्क्तेरुत्पन्नं यन्निधनवत्संज्ञकं साम तद्रूपां त्वां सादयामि । निधनवतः साम्न उत्पन्नो य आग्रयणो ग्रहस्तद्रूपां त्वां सादयामि । आग्रयणादुत्पन्नो यो त्रिणवत्रयस्त्रिशौ द्वौ ४३

पृष्ठ 374

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 374 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३३८ शुक्लयजुर्वेदसंहिता [ अ ० १३ स्तोमी तद्रूपां त्वां सादयामि । त्रिणवत्रयस्त्रिशाभ्यामुत्पते ये द्वे शाक्वरश्वते पृष्ठे तद्रूपां त्वां सादयामि । विश्वकर्मा विश्वं सर्वं करोति योऽसौ विश्वकर्मा ऋषिर्वागेव । वाचा हि सर्वं कुरुते 1 तद्रूपां त्वां सादयामि | प्रजापतिसृष्ट्या स्वष्टका प्रजाभ्यो वाचं गृह्णामि । एभिर्दशमन्त्रैर्वाचमेव गृह्णाति । अत्र ब्राह्मणम् - ' अथ मध्ये | इयमुपरि मतिरिति चन्द्रमा वा उपरि तद्यत्तमाहोपरीत्युपरि हि चन्द्रमा अथ यन्मतिरित्याह् वाग्वै मतिर्वाचा हीद सर्वं मनुते वाग्घ चन्द्रमा भूत्वोपरिष्टात् तस्थौ तदेव तद्रूपमुपदधाति ' ( श ० ८ | १ | २ | ७ ) | मध्यभाग उपधेयस्य प्राणभृद्द शकस्य दशमन्त्रान् प्रदर्शयन व्याचष्टे - अथ मध्य इति । अथ चतसृषु दिक्षूपधानान्तरमग्निक्षेत्रस्य मध्यभागे दश प्राणभृत उपदध्यादित्यर्थः । तत्र ' इयमुपरि मतिः ' इति प्रथमो मन्त्रः । उपरिशब्दस्य विवक्षितमर्थमाह- चन्द्रमा वा उपरीति । प्रतिज्ञातमर्थमुपपादयति - तद्यदिति । तं चन्द्रमसमुपरीत्यूर्ध्ववाचिना शब्देन यस्मात्कारणादाह तत्कारणमुच्यत इत्यर्थः । उपरि होति । यस्मादुपरिष्टा-द्दिश्याकाशे चन्द्रमा दृश्यते, तस्मात् तं सोममुपरि दिक्सम्बन्धादुपरीत्युच्यत इत्यर्थः । मतिः शब्दो ज्ञाने । मनुते जानाति हि यस्मादेवं तस्मान्मननसाधनत्वाद् वागिन्द्रियं चन्द्रमा भूत्वा चन्द्ररूपतां प्राप्य उपरिष्टादूर्ध्वदिशि तस्थौ । अतस्तदेव वागात्मकं रूपमुपहितवान् भवतीत्यर्थः । ' तस्य वाङ् मात्येति । वाचं तस्माद्रूपाच्चन्द्रमसो निरमिमीत हेमन्तो वाच्य इति हेमन्तमृतुं वाचो निरमिमीत पङ्क्तिर्हेमन्तीति पङ्क्ति छन्दो हेमन्तादृतोर्निरमिमीत पङ्क्त्यै निधनवदिति पङ्क्त्यै छन्दसो निधन-वत्साम निरमिमीत निधनवत आग्रयण इति निधनवतः साम्नः आग्रयणं ग्रहं निरमिमीताग्रयणास्त्रिणवत्रयस्त्रि७-शावित्याग्रयणाद् ग्रहात्त्रिणवत्रयस्त्रि १७ शो स्तोमो निरमिमीत त्रिणवत्रयस्त्रि शाभ्या शाक्वरवते इति त्रिणवत्रयस्त्रि ७, शाभ्याथ् स्तोमाभ्या शाक्वरस्वते पृष्ठे निरमिमीत ' ( श ० ८ १ २८ ) । तस्यै वाङ् मात्येति द्वितीयो मन्त्रः । मतेः सकाशाज्जाता वाग् मात्या । वाचं तस्मादित्यादि । तस्माद् वाक्कारणभूताद् रूपात् चन्द्रमसः सकाशाद् वाचं सृष्टवान् भवतीत्यर्थः । तस्या वाचः सकाशादुत्पन्नो हेमन्तो वाच्यः । तस्माद्धेमन्ता-दुत्पन्ना हैमन्ती पङ्क्तिः पङ्क्त्याख्यं छन्दः । पङ्क्त्यं पङ्क्त्याः सकाशाद् निधनवत् पञ्चभक्तिकस्य साम्नोऽन्तिमो भागो निधनम्, ' विश्वं समन्त्रिणं दहा ' इत्यादि, तद्युक्तं साम निधनवत्, तदुत्पन्नमित्यर्थः । तस्माच्च निधनवतः सकाशाद् आग्रयणाख्यः सोमग्रहो जातः । तस्माद् आग्रयणात् त्रिणवत्रयस्त्रिशी स्तोमो जाती । त्रिरावृत्त-स्तोत्रियानकेन निष्पाद्यः स्तोमस्त्रिणवः । त्रयस्त्रिशता स्तोत्रियाभिर्निष्पाद्यस्त्रयस्त्रिशः । ' स्तोमे डविधि: ' ( पा ० सू ० ५।१।५८ वा ० २ ) इति वार्त्तिक कृत्स्मृतेः स्तोमवाचिनः पञ्चदशसपदशादयः शब्दा उप्रत्ययान्ताः । ताभ्यां त्रिणवत्रयस्त्रिशाभ्यां सकाशात् शाक्वरश्वताख्ये पृष्ठसामनी निष्पन्ने । ' विश्वकर्म ऋषिरिति । वाग्वै विश्वकर्मणि-र्वाचा ही सर्व कृतं तस्माद्वाग्विश्वकर्मर्षिः प्रजापतिगृहीतया त्वयेति प्रजापतिसृष्टया त्वयेत्येतद्वाचं गृह्णामि प्रजाभ्य इति वाचमुपरिष्टात् प्रापादयत नानोपदधाति ते नाना कामा वाचि तांस्तद्दधाति सकृत्सादयत्येकां तद्वाचं करोत्यथ यन्नाना सादयेद्वाच विच्छिन्द्यात् सैषा त्रिवृदिष्टका तस्योक्तो बन्धुः ' ( श ० ८ ११२ ९ ) । विश्वकर्मर्षि-१ ह रिति मन्त्रस्य पूर्ववदिन्द्रियपरतामाह - वाग्वा इति । एतदुपपादयति वाचा हीदमिति । वागिन्द्रियेण खलु कारणेन इदं सर्वं जगत् प्रजापतिना कृतम् । अत एव करणीयस्य वाक्पूर्वकत्वमन्यत्राम्नातम् - ' यद्वै मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति ' इति । विश्वं क्रियतेऽनयेति व्युत्पत्त्या वागेव विश्वकर्मा सेव दर्शनादृषिव । अन्यन्निगदव्याख्यातम् । प्रजापतिर्वाचं सृष्ट्वा ऊर्ध्वायां दिशि तां प्रावेशयत् । पूर्वं व्याख्यातानन्तरासु पञ्चसु कण्डिकासु प्राणमनश्चक्षुः श्रोत्रवाचां प्रजाभ्यो ग्रहणमित्यस्य चतुर्थी-पञ्चमीभेदेन अर्थद्वयं प्रत्येतव्यम् । चतुर्थीपक्षे प्रजार्थं प्राणादीनां ग्रहणम्, पश्चाशदिष्टकास्थापनेन प्रजानां

पृष्ठ 375

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 375 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५८ ] वेदार्थपारिजातभाष्यसहिता ३३ ९ यजमानापत्यपश्वादीनां प्राणादयः पुष्टा भवन्तीत्यर्थः । पञ्चमीपक्षे प्रजाभ्यो नानालोकेभ्यः सकाशात् प्राणादीन् गृह्णामि मद्वशगान् करोमीति प्राणभृतामुपधानेन सर्वाः प्रजा मद्वशगा भवन्त्वित्यर्थ इति महीधराचार्याः । अत्र एकैकस्मिन् मन्त्रे प्रजापतिरिन्द्रियमृतुश्छन्दः साम विशेषग्रहस्तोमपृष्ठस्तोत्र सामऋष्यादीनां पदार्थानां यद्यपि लोकप्रसिद्धो जन्यजनकभावो नास्ति, तथापि मन्त्रार्थत्वेन मनसा भावयितुमिदमुक्तमित्यविरोधः । इत्थं पञ्चाश-त्संख्याकैर्मन्त्रैर्यावन्तोऽर्था उक्ता एतदात्मकं खलु तदन्नं यत्प्राणभृदाख्यमन्नं सृष्ट्यादौ प्राणाश्च प्रजापतिश्च सह मिलिताः सृष्टवन्त इति । एतद्वै तदन्नं यत्प्राणाश्च प्रजापतिश्चासृजन्त । एतदेव ' एतावान् वै सर्वो यज्ञो यज्ञ उ एव देवानामन्नम् ' ( श ० ८ | १ | २ | १० ) इति श्रुतो प्रतिपाद्यते । अग्नि प्राण- वसन्त- गायत्र्यादयो यावन्तोऽर्था अनुक्रान्ता एतावानेव सर्वो यज्ञः सर्वेषां यज्ञसाधनानां कालछन्दः सामग्रहस्तोमपृष्ठादीनामेतन्मन्त्रेष्वन्तर्भूतत्वात् । तादृशश्च यज्ञो देवानामन्नम् उपजीवनीयो जीवनोपायः । अतस्तन्मन्त्रोपहितानां प्राणभृतामन्नरूपत्वं युक्तमेव । ताः प्राणभृतः प्रतिदिशं दशदशोपधीयन्ते । दशाक्षरा विराडिति दशसंख्यायोगाद् विराडरूपता सम्पद्यते । लोके भुज्यमानं सर्वमन्नं विराडात्मकम्, अतोऽस्मिन् चित्येन सर्वमेवान्नजातं कृत्स्नं निरवशेषमेव प्राणभृदुपधानेन स्थापितवान् भवतीति । सर्वासु दिक्षूपधानेन सर्बत एवास्मिन्नेतत्कृत्स्नमन्नं दधाति ( श ० ८।१।२।११ ) ) । मनश्चक्षुरादिप्राणानां धारणादासां प्राणभृदित्यन्वर्थसंज्ञा सम्पन्ना | ननु ' अयं पुरो भुवः ' वा ० सं ० १३।५४ इत्यादिभिर्विभक्तैः पञ्चाशता मन्त्रः पञ्चाशदिष्टका उपधेयाः । अस्मिन् पक्षे कथं पञ्चाशदिष्टकाः प्राजापत्या सर्वा ' उपहिता भवन्ति । प्रजापतिगृहीतया इत्येकस्मिन्नेव मन्त्रे प्रजापतिनामनिर्देशादिति चेन्न ' कथमस्यैताः प्राजापत्या भवन्तीति यदेव सर्वास्वाह प्रजापतिगृहीतया त्वयेत्येवमु हास्यैताः सर्वाः प्राजापत्या भवन्ति सम्बन्धिन्य ' ( श ० ८१३२ ) इति श्रुत्या समाहितत्वात् । अस्या व्याख्यानेन सर्वं स्पष्टमतो व्याख्यायते । अस्याग्नेः एताः पञ्चाशदिष्टकाः सर्वाः कथं प्राजापत्याः प्रजापतिदेवताका उपहिता भवन्तीति प्रश्नः । तस्मिन् पक्षे एकस्मिन्नेव हि मन्त्रे प्रजापतिगृहीतया इति पदं न सर्वत्र । अतः सर्वासां प्राजापत्यता न सम्भवतीति । अस्योत्तरमाह - यदेव सर्वास्वाहेति । यस्मादेव कारणात् सर्वास्वपि पञ्चाशदिष्टकासु यत् प्रजापतिगृहीतयेत्याह, अनेनैव खलु एताः प्राणभृतः सर्वाः प्राजापत्या भवन्ति । अयमभिसन्धिः -- यत् ' अयं पुरः ' इत्यादीनां विभक्तानां मन्त्राणां प्रयोग एव न सम्भवति, अपरिसमाप्तार्थ-त्वात् । अयं पुर इत्यारभ्य प्रजाभ्य इत्यन्तेन वाक्येन ह्येकोऽर्थः परिसमाप्यते । एकार्थावच्छेदकत्वादेको मन्त्र इति प्रतीष्टकं सङ्घ एवावर्तनीयः । अतः सर्वास्वपीष्टकासु प्रजापतिगृहीतयेत्येतत् प्रजापतिशब्दसम्बन्धो भविष्य-तीत सर्वासां प्राजापत्यतासिद्धिरिति । ननु प्रथमं ग्रहग्रहणं तदनु स्तोत्रं तदनु शस्त्रमित्येवमनुष्ठानक्रमो भवति, अत्र च गायत्रादिसामानि वैपरीत्येनोक्तानीति क्रमभङ्ग इति चेन्न ' प्रतिपदा ग्रहो गृह्यत ऋचि साम गीयते ' ( श ० ८ | १ | ३ | ३ ) इत्यादिश्रुतौ तत्समाधानात् । प्रतिपद्यते ज्ञायते देवतास्वरूपमनयेति प्रतिपत्, तया खलु ऋचा प्रथममेन्द्रवायवादिग्रहो गृह्यते, ततः सामाधारभूतायाम् ऋचि साम गोयते, तत् तस्मात् साम्न ऋगा-श्रितत्वाद् ऋचश्च प्रतिपद्रूपत्वाद् ग्रहग्रहणात् पूर्वभावित्वाद् ऋचां गायत्रीत्रिष्टुबादीनां साम्नां गायत्रसामादीनां चोपांश्वादिग्रहेभ्यः पूर्वमुपधानमुत्पत्तिक्रमानुरोधाद् युक्तमेव । प्रयोगक्रमानुसारेणाप्युपांश्वादिग्रहाणामुपरिष्टाद् उत्तरकाले उपांशोस्त्रिवृत् त्रिवृतो रथन्तरमित्यादिना त्रिवृदादीन् स्तोमान् रथन्तरादीनि पृष्ठसामानि चोपदधाति, अतो न क्रमभङ्गः । अध्यात्मपक्षे - हे ब्रह्मनु, येयं वाग्रूना मतिश्चन्द्रो भूत्वा ऊर्ध्वायां दिश्याकाशे तिष्ठति त्वं तद्रूपमसि । या मतेरुत्पन्ना मात्या वाक् त्वं तद्रूपमसि । विश्वकर्म ऋष्यात्मकवानूपमसि । हे बुद्धे, प्रजापतिसृष्टया त्वया

पृष्ठ 376

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 376 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४० शुक्लयजुर्वेदसंहिता [ अ ० १३ प्रजाभ्यः प्रजाहितार्थं वाचं वाचो ह वाचं परमात्मानं गृह्णामि चिन्तयामि । एवमन्यान्यपि प्रश्नोत्तराणि शतपथ-श्रुती स्पष्टानोति तत्रैव कणेहत्या लोचनीयानि । दयानन्दस्तु - ' हे विदुषि पत्नि, य इयमुपरि सर्वोपरि विराजमाना मति: प्रज्ञा, तस्यै तस्या मात्या तेर्भावः कर्म वा, वाग बक्ति यया सा वाच्यो वाचो भावः कर्म वा । हेमन्तो हन्ति उष्णतां येन सः । हैमन्ती हेम्नो व्याख्यात्री, पङ्क्तिश्छन्दः पङ्क्त्या निधनवद् निधनं प्रशस्तं मृत्युव्याख्यानं विद्यते यस्मिंस्तत् साम । निधनवत आग्रयणः, अङ्गति प्राप्नोति येन तस्यायम् । आग्रयणात् त्रिणवत्रयस्त्रिशी ताभ्यां शाक्वरवतो शक्तिधनप्रतिपादके विदित्वा विश्वकर्मर्षिर्वर्तते तथाहं प्रजापतिगृहीतया त्वया सह प्रजाभ्यो वाचं विद्यासुशिक्षा-न्वितां वाणीं गृह्णामि ' इति एतदपि सर्वथा वैदिकवृत्तान्तानभिज्ञस्यैव शोभते, सम्बोधनस्य निर्मूलत्वात् । द्वादश- त्रयस्त्रिशसाम - स्तोत्राणि कानि? किम्प्रमाणकानीत्यस्य वक्तुमशक्यत्वात् । ताण्ड्यादिब्राह्मणेषु स्वोमस्वरूपभेदा उक्तःः । तानविज्ञायैवायं यस्किञ्चित् प्रलपति । पाञ्चभक्तिकसाम्नोऽन्तिमभागस्य संज्ञा निधनमिति छान्दोग्योपनिषदादिभिर्ज्ञातुं शक्यते । शाक्वर रैवतादिसामभेदमपि न जानात्ययं वराकः । कथं च पञ्चमीबोधितः कार्यकारणभावोऽत्रेति? प्रशस्तं मृत्युव्याख्यानं कस्मिन् साम्नि विद्यते? यथा कश्चन व्याघ्रशब्दस्य विशेषेण आसमन्ताद् जिघ्रतीति व्युत्पत्तिमभिप्रेत्य व्याघ्रमभिगच्छन् मृत्युमुपेयात्, तथैवास्य व्याख्यानम् । ' लोकं ता इन्द्रम् ' इति पाठोऽस्यां कण्डिकायाम् । परम्पराप्राप्तत्वात् कात्यायनसम्मतत्वाच्च स प्रामाणिक एव । सर्वयापि प्रमाणविधुरं दयानन्दीयं व्याख्यानम् ॥ ५८ ॥

इति वेदार्थपारिजाते त्रयोदशोऽध्यायः ।

पृष्ठ 377

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 377 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

चतुर्दशोऽध्यायः ध्रुवक्षितिर्धवयोनिर्भवासि ध्रुवं योनिमासींद साधुया । I उख्य॑स्य केतुं प्र॑थ॒मं ज॑षाणाश्विनाध्वर्यू सदयतामि॒ह त्वां ॥ १ ॥

मन्त्रार्थ - हे इष्टके! तुम स्थिर निवास वाली, अचल कारण वाली, उख्य अग्नि के पहले प्रथम चितिरूप स्थान को सेवन करती हुई स्थिर बनो । रेतःसिग्वेला नामक श्रेष्ठ स्थान पर बैठो । देवताओं के अध्वर्यु अश्विनीकुमार तुम्हें इस स्थान पर स्थापित करें ॥ १ ॥

पूर्वस्मिनध्याये त्रयोदशे प्रथमा भूलोकरूपा चितिरुक्ता, ' अयं वै लोकः प्रथमा चितिः ' ( श ० ८२ | १ | १ ) इति श्रुतेः । चतुर्दशेऽध्याये द्वितीयादिचितित्रयं वक्ष्यते, ' द्वितीयां चितिमुपदधाति ( श ० ८२ १ १ ) इति श्रुतेः । तस्यां त्रितौ पञ्चाश्विन्य इष्टकाः । द्वितीय चितिमन्त्रा देवदेवत्याः । ' आश्विनी ध्रुवक्षितिरिति प्रतिमन्त्रम् ' ( का ० श्री ० १७।८।१५ ) । पञ्चकण्डिकाभिराश्विनी संज्ञका इष्टका रेतः सिग्वेलायामुपदध्यात् प्रतीष्टकं नित्ये इति सूत्रार्थः । पञ्चाश्विनीदेवत्याः प्रथमा विराट् चतस्रस्त्रिष्टुभो यजुरन्ताः । अश्विनाध्वर्यू सादयतामिह त्वेति यजुः । आदित्यास्त्वार्षी त्रिष्टुबेकाधिका पादानियमात् । हे इष्टके, ध्रुवक्षितिर्ध्रुवा स्थिरा क्षितिर्निवासभूमिर्यस्याः सा । यस्यां भूमी इष्टकावसतिस्तस्या भूमेश्र्वाचल्याभावात् स्थैर्यमिति ज्ञातव्यम् । ध्रुवयोनिर्धुवा विनाशरहिता योनिरुत्पत्तिहेतुर्मृपा यस्याः सा ध्रुवयोनिः । हे इष्टके, तादृशी त्वं स्वरूपतो ध्रुवासि, आमकपालादिभिः संयोज्य निर्मितत्वात् । साधुया अस्माभिः साधनीया उपधातव्या त्वं ध्रुवं योनि स्थिरमग्निक्षेत्ररूपं स्थानम् आसीद आगत्य उपविश । किच, उख्यस्य उखायां स्थितस्याग्नेः केतुं प्रज्ञापकं स्थानं वा प्रथमं द्वितीयायां चितौ मुख्यं स्थानं जुषाणौ सेवमानो देवानामध्वर्यू उभा अश्विनो इह अस्मिन्नग्निक्षेत्रे रेतः सिग्वेलायां वा हे इष्टके, त्वां सादयताम् । यद्वा साधुया साधुस्थानम् ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इत्यमो यादेशः । केचिदिदं यजुश्चतुर्थं पादमङ्गीकृत्य त्रिष्टुभमभिप्रयन्ति । अत्र ब्राह्मणम् -'द्वितीयां चितिमुपदधाति । एतद्वै देवाः प्रथमां चितिं चित्वा समारोहन्नयं वै लोकः प्रथमा चितिरिममेव तल्लोक संस्कृत्य समारोहन ' ( श ० ८ २ १ १ ) । इत्थं प्रथम चितावुपधेयानां प्राणभृता-मुपधानं पुरीषनिव पनान्तं वर्णितम् । तावता प्रथमा चितिः समापिता । अथ द्वितीयस्याश्चितेरुपधानं विधत्ते --द्वितीयां चितिमुपदधातीति । इष्टकानां प्रस्तारश्चिति: । एतस्य द्वितीयचित्युपधानस्य प्रयोजनं प्रथमचिति-प्रयोजन प्रतिपादन पूर्वकमुपपादयति - एतद्वै देवा इत्यादिना । एतद् एतहि खलु देवा उदीरितरूपां प्रथमां चितिं चित्वा समारोहन सम्यगारोहणं कृतवन्तः । समारोहणीय माह- अयं वै लोक इति । स्वयमातृष्णोपधानादी पूर्वचितेर्भूलोकरूपतोक्ता । तथा च प्रथम चित्यात्मना इममेव भूलोकं संस्कृत्य तस्योपरि देवताः समारोहन् । ' तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना एतां द्वितीयां चितिमपश्यन् यदूध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तेषामेष लोकोऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत् ' ( श ० ८२१२ ) । तेऽब्रुवन्नित्यादि व्याख्यातपूर्वम् । इत ऊर्ध्वमिच्छतेति । इतोऽस्मात् प्रथमचितिरूपाद

पृष्ठ 378

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 378 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४२ शुक्लयजुर्वेद संहिता [ अ ० १४ भूलोकाद ऊध्वं लोक मिच्छतेति । एवं परस्परं सम्प्रधार्यं चेतयमानाः सखानन्तस्ते देवा एतां वक्ष्यमाणां द्वितीयां चितिमपश्यन् । तामेव लोकात्मना विशिनष्टि -- यदूर्ध्वमिति । पृथिव्या ऊर्ध्वमुपरिभागः, अन्तरिक्षादर्वाचीन-मधोभागः पृथिव्यन्तरिक्षयोर्मध्यवर्ती यो लोकस्तदात्मिका द्वितीया चितिरित्यर्थः । तत्राश्विनीनां प्रथममुपधानं विधित्सुराह - तेषामेष लोक इति । एष उदीरितलक्षणो लोकस्तेषां देवानामप्रतिष्ठित आधार रहित इवासीत् । ' तेऽश्विनावब्रुवन् । युवं वं ब्रह्माणो भिषजो स्थो युवं न इमां द्वितीयां चितिमुपधत्तमिति किं नौ ततो भविष्यतीति युवमेव नोऽस्या अग्निचित्याया अध्वर्यू भविष्यथ इति तथेति तेभ्य एतामश्विनौ द्वितीयां चितिमुपाधत्तां तस्मादाहुरश्विनावेव देवानामध्वर्यू इति ' ( श ० ८ | ३ | १ | ३ ) । ते देवास्तस्य लोकस्य प्रतिष्ठितत्वाय अश्विनावब्रुवन् । युवं युवां खलु ब्रह्माणी परिवृढो भिषजौ स्थः, अतो युवां नोऽस्माकमिमां द्वितीयां चितिमुपधत्तम् उपधानेन सम्पादयतमिति देवानां वचः श्रुत्वा अश्विनावब्रूताम् । ततो द्वितीयचित्युपधानान्नो आवयोः किं प्रयोजनं भविष्यतीति । नोऽस्माकं सम्बन्धिन्या अस्या अग्निचित्याया युवामेवाध्वर्यू भविष्यथ इति देवानां वाक्यमश्विनावपि तथास्त्वित्यङ्गीकृत्य तेभ्यो देवेभ्य एतां वक्ष्यमाणां द्वितीयां चितिमुपाधत्ताम् उपहितवन्तौ । यस्मादेवमश्विभ्यामाध्वर्यवमाचरितं देवकर्तृकेऽग्निचयने, तस्मादेव कारणाद् अश्विनावेव देवानामध्वर्यू इत्याह्मवादिनः । ' स उपदधाति । ध्रुवक्षितिर्ध्रुवयोनिर्धुवाऽसीति यद्वै स्थिरं यत्प्रतिष्ठितं तद् ध्रुवमथ वा एषामेष लोकोऽध्रुव इवाप्रतिष्ठित इव मनस्यासीत्तमेवैतत्स्थिरं ध्रुवं कृत्वा प्रत्यधत्तां ध्रुवं योनिमासीद साधुयेति स्थिरं योनिमासीद साधुयेत्येतदुख्यस्य केतुं प्रथमं जुषाणेत्ययं वा अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिस्तं जुषाणेत्येत-दश्विनाध्वर्यू सादयतामिह त्वेत्यश्विनो ह्यध्वर्यू उपाधत्ताम् ' ( श ० ८ २ ११४ ) । एवमुपोद्घातत्वेन द्वितीय-चित्युपधानेऽश्विकर्तृत्वं प्रतिपाद्य ओपोद्वातिकमाश्विनीनामुपधानं समन्त्रकं विधत्ते - स उपदधातीति । स अध्वर्युः प्रथममाश्विनीः पञ्चेष्टका उपदध्यात् । ध्रुवक्षितिरित्याद्यास्तन्मन्त्राः | अत्र प्रथम मन्त्रे ध्रुवशब्दं कुर्वन् प्रागुक्तदोषपरिहाररूपं तस्य प्रयोजनमा विष्करोति - यद्वै स्थिरमिति । स्थिरमनश्वरं यत्खलु प्रतिष्ठितं लब्धास्पदं च तदुभयं ध्रुवं ध्रुवशब्दप्रतिपाद्यम् । एषामित्यादि । अथ खल्वेषां प्रागुक्तानां देवानां मनसि पृथिव्यन्तरिक्षमध्यवर्ती लोकोऽस्थिर इव निराधार इव च आसीत् । तमेव लोकमेत देतेन ध्रुवशब्दोपेत. मन्त्रकरणकोपधानेन स्थिरमनश्वरं प्रतिष्ठितं च कृत्वा प्रत्यधत्ताम् अश्विनी समाहितवन्तौ । द्वितीयपादमनूद्य तत्रापि ध्रुवशब्दस्योक्तार्थं परतामाह - स्थिरं योनिमिति । तृतीयं व्याचष्टे - अयं वा अग्निरुख्य इति । उखायां भवोऽग्निरुख्यः । गर्भरूपेण स्थित उख्योऽग्निरेव शिरःपक्षाद्युपेतचित्याग्निरूपेण स्थितः । तस्य चोख्यस्याग्नेरेष प्रथमः केतुः प्रज्ञापकोऽवयवः येयं प्रथमा चितिः । तमवयवं जुषाणा सेवमानेत्यर्थः सम्पद्यते । अश्विनाध्वर्यू इत्यादि निगदसिद्धम् । मन्त्रार्थस्तु - हे इष्टके, त्वं ध्रुवक्षितिः स्थिर निवासा, ध्रुवयोनिः स्थिराधारा, धवा स्थिरस्वरूपा चासि । ध्रुवं स्थिरतरं योनि प्रथमचितिलक्षणमासीद उपविश । साधुया अस्माभिः साधनीया । उख्यस्य उखायामुत्पन्नस्य चित्याग्नेः केतुं प्रज्ञापकं प्रथमं प्रथमचितिरूपं जुषाणा सेवमाना असि । तादृशीं त्वामध्वर्यू सह सादयतामत्र स्थापयताम् । अध्यात्मपक्षे - हे ब्रह्मात्मज्ञाननिष्ठे, त्वं ध्रुव क्षितिनिश्चलनिवासा ध्रुवयोनिः स्थिराधारा, स्थिरा बुद्धिरेव तस्या वसतिः । स्थिरं नित्यमपौरुषेयं वेदान्तशास्त्रमेव तस्या योनिः । ध्रुवासि स्थिरस्वरूपासि ॥ ध्रुवं स्थिरतरं योनि ब्रह्मात्मतत्वमभिलक्ष्याभिव्यञ्जिका सती आसीद । साधुया त्वमस्माभिः साधनीयासि, निष्ठाया अभ्यासादि-

पृष्ठ 379

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 379 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १-२ ] वेदार्थ पारिजातभाष्यसहिता ३४३ प्रयत्नसाध्यत्वात् । उखायां बुद्धौ भवमुख्यं ज्ञानविज्ञानादिकं तस्य केतुं प्रज्ञानं साक्षिणं परमात्मानं सेवमानासि । तादृशीं त्वां ज्ञानयज्ञस्य अध्वयूं निर्वाहको शास्त्राचाय श्रोतृवक्तारौ अध्येत्रध्यापको वा सादयेताम् । दयानन्दस्तु - ' हे स्त्रि, या त्वं साधुया साधुना धर्मेण उख्यस्य उखायां स्थाल्यां भवस्य पाकसमूहस्य प्रथमं विस्तीर्ण केतुं प्रज्ञां जुषाणा प्रीत्या सेवमाना ध्रवक्षितिर्धवा निश्चला क्षितिर्जनपदो यस्याः सा । ध्रुवयोनि-वा योनिगृहं यस्याः सा ध्रुवा निश्चलासि सा त्वं ध्रुवं योनि गृहमासीद । त्वामिहाध्वर्यू आत्मनोऽध्वरम हिंस-ati गृहाश्रमादिकं ज्ञमिच्छ्र अश्विनौ अध्यापकोपदेशको सादयताम् अवस्थापयताम् इह गृहाश्रमे त्वां सादयताम् ' इति, तदपि यत्किञ्चित् सम्बोधनस्यैव निर्मूलत्वात । अध्वर्युपदस्य ' अध्वरं कामयत इति वा ' ( निरु ० ११८ ) इति रीत्या यज्ञकामयित्रर्थत्वेऽपि गृहाश्रमस्य यज्ञत्वासिद्धया त्वदभिमतार्थासिद्धेः । नह्यहिंसनीयत्वमात्रेण गृहाश्रमस्य यज्ञत्वमुपपद्यते, संन्यासाश्रमस्यापि तथात्वेन तादृशार्थग्रहणे विनिगमनाभावात् । तथात्वेऽपि नाध्या-पकोपदेशकयोः स्त्रियो गृहसादयितृत्वम्, अन्यथासिद्धत्वात् । पतिरेव तत्सादयिता भवति । परम्परया कथञ्चित् कारणत्वे त्वन्यथासिद्धत्वमेव । न वा तयोरश्विनोरिव नियतसहभावित्वं सौभ्रात्रत्वं वा, पृथग्व्यापार-स्वात् ॥ १ ॥

कुलायिनौ घृ॒तव॑ती॒ पुर॑न्धिः स्यो॒ने सी॑द॒ सद॑ने पृथि॒व्याः ।

गृणन्त्व॒मा ब्रह्म पीपिहि सौभ॑गाया॒श्विना॑ वध्व॒र्युं सोदयतामि॒ह वो ॥

अ॒भि त्वा॑ रु॒द्रा वस॑वो २ ॥ मन्त्रार्थ - हे इष्टके! पक्षी के घोंसले के समान आकार वाली, होमे हुए घृत से युक्त, नीचे स्थित प्रथम feft इष्टकाओं को धारण करने वाली तुम पृथ्वी के सुखदायक स्थान में स्थिर रहो । ग्यारह रुद्र और आठ वसु तुम्हारी स्तुति करें । इन मन्त्रों को ऐश्वर्य के निमित्त वृद्धि दो, यजमान का भाग्योदय हो । अध्वर्यु अश्विनीकुमार इस स्थान में तुमको स्थापित करें ॥ २ ॥

इष्टके, स्वं कुलायिनी कुलायं नीडं गृहमस्ति यस्याः सा, ' कुलायो नीडमस्त्रियाम् ' ( अ ० को ० २।५।३७ ) इत्यमरात् । सा हि रेतः सिग्वेलायामिष्टकाभिरुपहिताभिर्गृहाकारा भवति । अत्र इनिः सादृश्यार्थकः । निवास-स्थानवती वा । घृतवती भविष्यवृत्त्या । होष्यमाणेन आज्येन संयुता । इह हि वसोर्धाराद्या आहुतयो होष्यन्ते । पुरन्धिः पुरमिष्टकासमूहं दधातीति । अथवा पुरु बहुधा धीयते सम्यगवस्थाप्यत इति । तादृशी त्वं पृथिव्याः प्रथम चितिरूपाया भूमेः सम्बन्धिनि स्योने सुखरूपे स्थाने सीद उपविश । किञ्च, सौभगाय ऐश्वर्याय । रुद्रा वसव इत्युपलक्षणं सर्वदेवानाम् । सर्वे देवास्त्वामभिगृणन्तु स्तुवन्तु । इमा इमानि ब्रह्म ब्राह्मणानि मन्त्रात्मकानि पीपिहि आप्यायस्व प्राप्नुहोति यावत् । ब्रह्मेत्यत्र ' सुपां सुलुक्... ' ( पा ० सू ० ७ ११३ ९ ) इति सुपो लुक् । ' पी पाने ' इति दैवादिकस्य ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७६ ) इति श्यन: श्लो ' श्लो ' ( पा ० सू ० ६ | १ | १० ) इति द्वित्वे ' तुगादीनां दीर्थोऽभ्यासस्य ' ( पा ० सू ० ६ | ११७ ) इत्यभ्यासदीर्घे पीपिहोति रूपम् । शेषं पूर्ववद् व्याख्येयम् । अत्र ब्राह्मणम् – ' कुलायिनी घृतवती पुरन्धिरिति । कुलायमिव वै द्वितीया चितिः स्योने सीद सदने पृथिव्या इति पृथिवी वै प्रथमा चितिस्तस्यै शिवे स्योने सीद सदन इत्येतदभि त्वा रुद्रा वसवो गृणन्त्वित्येतास्त्वां देवता अभिगृणन्त्वित्येतदिमा ब्रह्म पीपिहि सौभगायेतीमा ब्रह्माव सौभगायेत्येतदश्विनाध्वर्यू सादयतामिह स्वेत्यश्विनो ह्यध्वर्यू उपाधत्ताम् ' ( श ० ८ | २ | ११५ ) । द्वितीयं मन्त्रं पादशोऽनूद्य व्याचष्टे -- कुलायिनीति |

पृष्ठ 380

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 380 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४४ शुक्लयजुर्वेदसंहिता [ अ ० १४ कुलायमिव वा इति । कुलायो नीडम्, तदिव हि द्वितीया चितिर्भवति । यथा वृक्षादेरुपरि नीडमवतिष्ठते, तथा द्वितीयचितेरपि प्रथमचितेरुपर्यवस्थानात् तत्सादृश्यम् । द्वितीयपादे पृथिव्यं इति पदस्यार्थमाह पृथिवी वै प्रथमा चितिरिति । प्रथमचितेः पृथिवीरूपता प्राक् प्रतिपादिता ( श ० ८ | २ | १ | १ ) इत्यत्र । तस्याः सम्बन्धिनि शिवे शोभने स्योने सुखकरे । अथ मन्त्रार्थ: - हे इटके, त्वं कुलायसदृशी, द्वितीया चितिः कुलायस्तत्सम्बन्धिनी, घृतमुदकमाज्यं वा तद्वती । पुरन्धिः पुरं शरीरं धीयते गर्भतया यस्यां सा, योषिद्रपासि । सा त्वं पृथिव्याः प्रथमचितेः सम्बन्धिनि सुखकरे स्थाने सीद आस्व । रुद्रा वसवो देवास्त्वामभिष्टुवन्तु । सौभाग्याय यद्वा धनाय इमानि ब्रह्माणि परिवृढानि हविरादीनि पीपिहि अभिपालय वर्धय । शेषं पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे – हे ब्रह्मात्मप्रज्ञे, त्वं कुलायिनी देहमये वृक्षे बुद्धिमयकुलाय सम्बन्धिनी असि । घृतवती घृतसार-स्नेहवती, ज्ञानवैराग्यादीनां भक्तिपुत्रत्वेन तत्सम्बद्धत्वात् । पुरन्धिः पुरं बहुगुणजातं शमदमादिकं दधातोति तथा रुद्रवसूपलक्षिताः सर्वेऽपि देवास्त्वामभिगृणन्तु अभिगृणन्ति स्तुवन्ति । किञ्च त्वं सौभगाय स्वस्याः । च सौभाग्याय इभा इमानि ब्रह्म ब्रह्माणि ब्रह्मावबोधकमन्त्रान् पोपिहि अविद्यातत्कार्यात्मक प्रपञ्चापनोदनेन साधकस्य साफल्यापादनेन आप्यायस्व । दयानन्दस्तु – ' हे स्योने, यां त्वां रुद्रा मध्या विद्वांसः, वसव आदिमा विपश्वितो ब्रह्मदातून गृणन्तु प्रशंसन्तु, सा स्वं सौभगाय एतानि पोपिहि प्राप्नुहि । घृतवती पुरन्धिः कुलायिनी कुलं गृहीतृनभि-तत्प्रशस्तं विद्यते यस्याः मा सती पृथिव्या भूमेः सदने सीद | अध्वर्यू अश्विना त्वेह यदेति तत्कुलायम्, यत्किञ्चित् निरर्थक कल्पना बाहुल्यात् । ' स्योनम् ' निघण्टौ ( ३२६ | १५ ) सुखनामसु नपुंसकस्य सादयताम् ' इति, तदपि पाठात् ' स्योने ' इति सप्तमीरूपम्, न तु सम्बोधनम्, स्त्रीलिङ्गत्वाभावात् । रुद्रवस्वादिशब्दैर्देवविशेषानपहाय स्योनमित्यस्य आदिमध्यादिकक्ष्याकल्पनं निर्मूलमेव । कुलायिनीशब्दस्यापि प्रसिद्ध कुलायशब्दप्रकृतिकतामपहाय विद्वत्सु तत्कुलायं तत्प्रशस्तं विद्यते यस्याः सा ' इत्यादिकल्पनं निरर्थकमेव । तथा विवक्षायां ' कुलं यदेति सभ्या इत्यादयः प्रयोगाः स्युः । नहि लोके त्वां रुद्रा वसवः प्रशंसन्त्विति स्त्रियं कश्चिदुपदिशति कुलवती ॥ २ कुलीना ॥ आर्या स्वैर्दश॒र्दक्ष॑पिवे॒ह सद॑ दे॒वाना॑ सु॒म्ने बृह॒ते रणा॑य । पि॒तेवैध सूनव॒ आ स॒शेवः॑ स्वावे॒शा त॒न्वा संवंशस्व॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥ ३ ॥

-मन्त्रार्थ - हे इष्टके! बल की रक्षा करने वाली तुम देवताओं के रमणीय अपने बल के साथ स्थिर और सदा सुख देने वाली बनो, जिस प्रकार कि पिता पुत्र सुख को देने वाली इस दूसरी चिति में सुख देने वाले शरीर के साथ यहाँ रहो । अध्वर्यु अश्विनीकुमार इस स्थान में तुमको स्थापित के लिये करें सुखदायक ॥ ३ ॥ होता है । तुम

हे इष्टके, त्वं स्वः स्वकीय दक्षैर्वीर्यः सह दक्षपिता दक्षं वीर्यं पातीति वीर्यस्य पालयित्री चितौ सोद उपविश । किमर्थम्? देवानां सम्बन्धिने रणाय रमणीयाय बृहते सती इह द्वितीयायां चतुर्थ्यर्थे सप्तमी । देवानां सुखार्थं तिष्ठेत्यर्थः । तत्र आ सर्वतः सुशेवा सुखेन सुम्ने सेवितुं सुम्नाय सुखाय सुखप्राप्त्यर्थम् । सुखं यस्यास्तादृशी वा एधि भव । क इव? सूनवे पितेव तद्वत् । अथवा पुत्रार्थं पिता सुखेन सेव्यो भवति तद्वत् ॥ यथा जनकः सूनवे पुत्राय तन्वा स्वकीयेन शरीरेण शक्या सुष्ठु शोभनं शेषं सुशेवः सुखयिता भवति स्वावेशा सुखेन प्रवेशवती