वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 381–390

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 381–390

पृष्ठ 381

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 381 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३-४ ] वेदार्थ पारिजातभाष्यसहिता ३४५ सती संविशस्व अवस्थानं कुरु । यद्वा तृतीयार्थे प्रथमा । स्वावेशया सुखप्रवेशवत्या तन्वा शरीरेण संविशस्व अवस्थानं कुरु । शेषं पूर्ववत् । अत्र ब्राह्मणम् -'स्वर्दक्षैर्दक्षपितेह सीदेति । स्वेन वीर्येणेह सीदेत्येतद्देवाना ११ सुम्ने बृहते रणायेति देवाना सुम्नाय महते रणायेत्येतत्पितेवैधि सूनव आ सुशेवेति यथा पिता पुत्राय स्योनः सुशेव एव सुशेवैधी-त्येतत् स्वावेशा तन्वा संविशस्वेत्यात्मा वै तनूः स्वावेशेनात्मना संविशस्वेत्येतदश्विनाध्वर्युं सादयतामिह वेश्वन ह्यध्वर्यू उपाधत्ताम् ' ( श ० ८२ १/६ ) । तृतीयं मन्त्रमनूद्य व्याचष्टे -- स्वैर्देक्षैरिति । दक्षशब्दो वीर्यंवचनः । बहुवचनं पूजार्थमभिप्रेत्याह - स्वेन वीर्येणेति । ' सुम्ने ' इति चतुर्थ्येकवचने ' सर्वे विधयछन्दि विकल्प्यन्ते ' इति ङेस्थाने यादेशस्य विकल्पितत्वात् ' अतो गुणे ' ( पा ० सू ० ६ | १ | ९ ७ ) इति पररूपमेव । तृतीय-पादमनूद्य व्याचष्टे - पितेवैधीति । तथा चायमर्थ: - हे इष्टके, दक्षपिता दक्षो वर्धयिताऽग्निः पिता पालको यस्याः सा तादृशी भूत्वा इह अस्मिन् स्थाने स्वेन वीर्येण उपविश । किमर्थम्? देवानां महते रणाय रमणीयाय सुम्नाय सुखाय! यथा पिता सूनवे पुत्राय स्योनः सन् सुशेवः सुमुखो भवति, एवं त्वं देवानां सुखयित्री एधि भव । चतुर्थपादमनूद्य व्याचष्टे -- स्वावेशा तन्वेति । अत्र तनूशब्दः शरीरवाचीत्याह - स्वावेशेनात्मनेति । सुष्ठु आवेश -यतीति स्वावेट्, ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२।७५ ) इति विच्, तस्य सर्वापहारिलोपे रूपम्, तया । तथा च स्वावेशेन सुखोपवेशन हेतुभूतेन आत्मना संविशस्व सम्यगुपविश । अध्यात्मपक्षे - हे ब्रह्मात्मप्रज्ञे, स्वैर्वीर्यैस्त्वमिह ब्रह्मात्मन्यासीद तद्विषयावरणनिवर्तकत्वेन तदाभिमुख्येन विष्ठ । कीदृशी त्वम्? दक्षपिता दक्षं वेदान्तविचारनिपुणं साधकं पातीति | किमर्थं स्थातव्यं तत्राह -- देवानां महते रमणीयाय सुम्नाय सुखाय । किश्च त्वमासमन्ताद् भावेन सुशेवा सुसुखा एधि भव । क इव? यथा पिता जनकः सूनवे पुत्राय सुखयिता भवति तद्वत् । स्वावेशा सुख प्रवेशवत्या तन्वा सुगमेन स्वरूपेण साधकानां बुद्धो अवस्थानं कुरु । शेषं पूर्ववत् । दयानन्दस्तु —- हे ' स्त्रि, त्वं यथा स्वैर्दक्षैर्बलैश्चतुरैर्भृत्यैर्वा सह वर्तमानो देवानां धार्मिकाणां विदुषां मध्ये बृहते महते रणाय संग्रामाय सुम्ने सुखे दक्षपिता दक्षस्य बलस्य चतुरभृत्यानां वा पिता पालको विजयेन वर्धते, तथैव एधि भव । सुम्न आसीद । पितेव सूनवे अपत्याय सुशेवा सुष्ठु सुखा स्वावेशा सुष्ठु आसमन्ताद् वेशो यस्याः सा तथाभूता सती तन्वा शरीरेण संविशस्व | अध्वर्यू अश्विनौ त्वामिह सादयताम् ' इति, तदपि यत्किञ्चित्, सम्बोधनस्यैव निर्मूलत्वात् पितेव सूनव इत्युपमानानुपपत्तेश्च । यथा पिता पुत्राय सुखाय ददाति तथा स्वलङ्कृता संविशस्व । पत्या सह प्रवेशवती शरीरेण प्रविशेति केन किं श्लिष्यते? वेशशब्दस्य स्वलङ्कारार्थता कुतस्त्या? बिशतेस्तदर्थत्वाभावात् ॥ ३ ॥

प॒थि॒व्याः पुरी॑षम॒स्यप्सो॒ नाम॒ ता॑ त्वा॒ विश्वे॑ अ॒भिग॑णन्तु दे॒वाः । स्तोम॑पृ॒ष्ठा घृ॒तव॑ती॒ह सौंद प्र॒जाव॑द॒स्मे द्रवि॒णाय॑जस्व॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ॥ ४ ॥

मन्त्रार्थ --- हे इष्टके! तुम पहली चिति की पूरक और जल के कारणीभूत रस से अभिन्न हो । सम्पूर्ण देवता तुम्हारी सब ओर से स्तुति करें । त्रिवृत् आदि स्तोम, रथन्तर आदि पृष्ठ जिसमें पढ़े जाते हैं, ऐसी हवन होने योग्य घृत से युक्त तुम इस दूसरी चिति में ठहरो । पुत्र, पौत्र आदि से युक्त धन को हमारे लिये सब ओर से दो । अध्वर्यु अश्विनीकुमार इस स्थान में तुमको स्थापित करें ॥ ४ ॥

४४

पृष्ठ 382

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 382 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४६ शुक्लयजुर्वेदसंहिता L अ ० १४ इष्टके, त्वं पृथिव्याः प्रथमचितेः पुरीषं पूरकं वस्तु असि, ' पृथिवी वै प्रथमा चितिस्तस्या एतत्पुरीषमिव यद् द्वितीया ' ( ० ८२ ११७ ) इति श्रुतेः । पृणाति पूरयतीति पुरीषम्, ' शुपृभ्यां किच्च ' ( उ ० ४ | २ | ७ ) इति पृणातेरीषन प्रत्ययः । ' उदोष्ठधपूर्वस्य ' ( पा ० सू ० ७ १।१०२ ) इत्युदादेशो रपरत्वं च । अप्सः अपः सनोति ददातीत्यप्सः । अप्सो नाम अपां कारणीभूतो रसः । तादृशरसरूपा त्वमसि । तां तादृशीं प्रथमचितिपूरिकां जलदरसभूतां त्वा त्वां विश्वे सर्वे देवा अभिगृणन्तु सर्वतः स्तुवन्तु । स्तोमपृष्ठा सप्तदशादिस्तोमैर्युक्तानि पृष्ठस्तोत्राणि यस्याः सा । अथवा स्तोमास्त्रिवृदादयः पृष्ठानि रथन्तरादीनि यस्याः सा । घृतवती होप्यमाणेन आज्येन युक्ता सती इह द्वितीयचितो सीद तिष्ठ । ततोऽस्मे अस्मभ्यं प्रजावत् पुत्रपौत्रादियुक्तं द्रविणा द्रविणं धनम् आ समन्ताद् यजस्व देहि । यजतिरिह दानार्थकः । अस्मे इत्यत्र ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इति विभक्तेः शे आदेशः । शेषं पूर्ववत् । अत्र ब्राह्मणम् - ' पृथिव्याः पुरीषमसीति । पृथिवी वै प्रथमा चितिस्तस्या एतत्पुरीषमिव यद् द्वितीयाप्सो नामेति रसोनामेत्येतत्तां त्वा विश्वे अभिगृणन्तु देवा इति तां त्वा सर्वेऽभिगृणन्तु देवा इत्येतत् स्तोमपृष्ठा घृतवतीह सीदेति यान् स्तोमानस्यां तथ्स्यमानो भवति तैरेषा स्तोमपृष्ठा प्रजावदस्मे द्रविणाऽऽयजस्वेति प्रजावदस्मे द्रविणमायजस्वेत्येतदश्विनाऽध्वर्य सादयतामिह त्वेत्यश्विनौ ह्यध्वर्यू उपाधत्ताम् ' ( श ० ८ २१ ७ ) । चतुर्थं मन्त्रमनूद्य व्याचष्टे - पृथिव्याः पुरीषमसीत्यादिना । प्रथमचितेरुपरि पुरीषमुप्यते, द्वितीया चितिरपि तथेति तस्याश्चितेः पुरीषसाम्यम् । अप्सपदं व्याचष्टे - रसो नामेत्येतदिति । अप्स इत्युदकनामसु पठितत्वात् तदपहाय श्रुत्या तेन अप्सशब्देन रसः प्रतिपाद्यत इत्यर्थः । स्तोमपृष्ठा इति पदं व्याचष्टे - यान् स्तोमानिति । यान् त्रिवृदाद्यान् स्तोमान् तस्यमानो विस्तारयिष्यमाणो भवति, तैः स्तोमैरुपेतत्वात् स्तोमाः पृष्ठे यस्या इति व्युत्पत्त्या, एषा स्तोमपृष्ठा । द्रविणा इति द्वितीयार्थे आकार इत्याह- द्रविणमायजस्वेति । शेषं पूर्ववत् । g ", त्वं पृथिव्याः प्रथमचितेरुपरि पुरीषं रज इवासि । अप्सो रसोऽसि । तां तादृशीं त्वां विश्वेदेवा अभिगृणन्तु -- इत्यादिमन्त्रार्थः पूर्वमुक्त एव । अध्यात्मपक्षे -- हे ब्रह्मात्मप्रज्ञे, त्वं पृथिव्या जीवभूतायाः परप्रकृतिरूपायाश्चितेः पुरीषमसि पूरकमसि, परिच्छिन्नायास्तस्या ब्रह्मात्मज्ञानेनैव पूर्णब्रह्मरूपताभिव्यक्तेः । अप्सो नाम रूपं नाम त्वमसि, अविद्यादि-मलाधारहेतुत्वात् । तादृशीं त्वां विश्वेदेवा अभिगृणन्तु । स्तोमपृष्ठा स्तोमास्त्रिवृदादयः स्तावकत्वेन पृष्ठे यस्याः सा । घृतवती घृतगन्धिस्नेहवती असि । सा त्वमिह ब्रह्मणि विषये विषयित्वेन सीद, अन्तःकरणे वा सीद तिष्ठ । इदमत्रावधेयम् — सत्यां तस्यां प्रज्ञायां देशकालवस्तुभेदाद्यभावोपलक्षिते ब्रह्मणि देशकालादिकमध्यस्तत्वेन प्रतीयते । अनन्तानन्तस्वर्ग वैकुण्ठादयोऽनन्तानन्त ब्रह्मचैतन्यसागरे तरङ्गादय इव स्फुरन्ति । अनन्तानन्त-जाग्रत्स्वप्नसुषुप्तिसमाधयो विज्ञेयाश्च अत्यन्तासन्तोऽपि तत्र प्रतीयन्ते । तादृशमपरिच्छिन्नं ब्रह्मैवात्मा, न परिच्छिन्नो देहादिः । यथा दर्पणे प्रतिबिम्बाः, जले छाया, वियति नीलिमादि प्रतीयमानमपि मिथ्या, तथैव प्रपञ्चः प्रतीयमानोऽपि मिथ्या । एकमपरिच्छिन्नं चैतन्यमेव वृत्तिवृत्तिमद्विषयाणामधिष्ठानम् । स्वप्रकाशत्वेन साक्षिणो ज्ञातत्वेऽपि तद् ब्रह्म वेदान्तैर्युक्तिभिश्व ज्ञातव्यम् । सर्वदेशकालवस्तुपरिच्छेदशून्यं सर्वभावाभावप्रकाशकं यद् ब्रह्म तत् प्रत्यक् चैतन्याभिन्नमेव । सर्वाणि देशकालवस्तूनि विशुद्धबोधे कल्पितानि, न तु बोधो सर्वत्रैवास्ते देशे काले । वा प्रतीयते । तादृशं ब्रह्म मदीयं त्वदीयं समेषामेव वा स्वरूपमेव । तदिदानीमपि सर्वदा अत एव विस्मृतकण्ठमणेरिव नित्यप्राप्तस्यैव प्राप्तिर्ज्ञानेनोपचर्यते । दयानन्दस्तु -- ' हे स्त्रि, या स्तोमपृष्ठा स्तोमानां पृष्टं ज्ञीप्सा यस्याः सा त्वमिह पृथिव्याः पुरीषं पालनम् अप्सो रूपं नाम आख्यां च धृतवत्यसि, तां त्वां विश्वेदेवा अभिगृणन्तु । इह गृहाश्रमे सीद । त्वाध्वर्यू अश्विनो

पृष्ठ 383

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 383 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४–५ ] वेदार्थ पारिजातभाष्य सहिता ३४७ इह सादयताम् । सा त्वं सत्वरमेव प्रजावद् द्रविणा यजस्व ' इति, तदपि यत्किचित् पृष्ठपदस्य ज्ञीप्सार्थतायाश्चिन्त्यत्वात् । ' अप्सः इति रूपनामसु ' ( निघ ० २२७१६ ) इत्यप्सशब्दस्य रूपपरत्वेऽपि तस्य नाम-शब्दस्य च कथं स्त्रिया विशेषणत्वम्? पृथिव्याः पुरीषमित्यस्य तथैव स्थितिः । यद्यस्य मन्त्रस्य परमेश्वरो वक्ता, तदा स कथं तस्याः सकाशात् प्रजावद् द्रविणं याचते । न च सा मानुषी सर्वेभ्यस्तद्दातुं प्रभवति । न वा काचित् केभ्यश्चित् प्रजां ददाति ॥ ४ ॥

अदि॑त्यास्त्वा पृ॒ष्ठे सा॑दयाम्य॒न्तरि॑क्षस्य ध॒त्र वि॒ष्टम्भ॑नी॑ दि॒शामधि॑पत्नी॒ भुव॑नानाम् । ऊ॒र्मिर्य॒सो अ॒पाम॑सि वि॒श्वक॑र्मा त॒ ऋषि॑र॒श्विना॑ध्व॒र्यू सदयतामि॒ह त्वो ॥५ ॥

मन्त्रार्थ - हे इष्टके! तुम भुवर्लोक को धारण करने वाली हो, पूर्व आदि दिशाओं का स्तम्भन करने वाली, सब प्राणियों की स्वामिनी तुमको प्रथम चिति रूप पृथ्वी के ऊपर स्थापित करता हूँ । तुम जल का रस और तरंगें हो । प्रजापति तुम्हारे द्रष्टा हैं । अध्वर्यु अश्विनीकुमार तुम्हें इस स्थान में स्थापित करें ॥ ५ ॥

हे इष्टके, अदित्याः प्रथमचितिरूपाया भूमेरुपरि त्वा त्वां सादयामि स्थापयामि । कीदृशीं त्वाम्? अन्तरिक्षस्य लोकस्य धर्त्री धारयित्रीम्, तथा प्राच्यादीनां दिशां विष्टम्भिनीं विविधकार्यार्थं स्तम्भयन्ती व्यवस्थापयित्रीम् भुवनानां सर्वेषामधिपत्नीम् आधिक्येन पालयित्रीम् । यस्यास्ते विश्वकर्मा प्रजापतिर्ऋषिर्द्रष्टाः सा त्वम् अपामूर्मिर्यश्च द्रप्सस्तदुभयरूपासि । शेषं पूर्ववत् । अत्र ब्राह्मणम् —'ता एता दिशः । ता रेतः सिचोर्वलयोपदधातीमे वै रेतः सिचावनयोस्तद्दिशो दधाति तस्मादनयोदिशः सर्वत उपदधाति सर्वतस्तद्दिशो दधाति तस्मात् सर्वतो दिशः सर्वतः समीचीः सर्वतस्तत्समीची-दिशो दधाति तस्मात् सर्वतः समीच्यो दिशस्ता नानोपदधाति नाना सादयति नाना सुददोहसाधिवदति नाना हि दिश: ' ( ० ८२/११८ ) एताश्चतस्त्र इष्टकाः सम्भूय प्रशंसति- --ता एता इति । प्राच्यादिदिक्षूपधीयमानत्वात् ता दिगात्मिकाः । तासामुपधाने स्थानविशेषं विधाय स्तोति ता रेतः सिचोरिति । इमे द्यावापृथिव्य रेतः सिचौ, अखिलजगदुत्पत्तिहेतुत्वात् । तत् तेन आश्विनीनां रेतः सिक्समोपोपधानेनानयोर्द्यावापृथिव्योः प्राच्याद्याश्चतस्रो दिशो दधाति स्थापयति । तस्मादिति लोकप्रसिद्धिकथनम् । सर्वासु दिक्षु क्रमेण चतसृणामुप-धानं विधत्ते -- सर्वत उपदधातीति । आसामुपधाने गुणान्तरं विधाय स्तौति - सर्वतः समीचीरिति । सर्वास्वपि दिक्षु समीचीरनूचीनाग्राः, न तु तिर्यगवस्थिता इत्यर्थः । उपधान - सादन - सुददोहसां नानात्वं विधाय स्तोति - ता नानोपदधातीति । ' अथ पञ्चमी दिश्यामुपदधाति । ऊर्ध्वा ह सा दिक् सा या सोर्ध्वा दिगसौ स आदित्योऽमे -वैतदादित्यमुपदधाति तामन्तरेण दक्षिणां दिश्यामुपदधात्यमुं तदादित्यमन्तरेण दक्षिणां दिशं दधाति तस्मादेषोऽन्त-रेण दक्षिणां दिशमेति ' ( श ० ८ | २ | ११ ९ ) । अथ मध्ये उपधेयामाश्विनीं विधत्ते - -अथ पञ्चमीमिति । इमां पञ्चमीमूर्ध्वदिगादित्यरूपेण स्तौति ऊर्ध्वा हेत्यादिना । या इयं पञ्चमी इष्टका सा ऊर्ध्वा दिक् । सा इष्टकारूपा या सा ऊर्ध्वादि । असौ एव सः प्रसिद्ध आदित्यः । ऊर्ध्वायां हि तस्य सवरणम् । अतोऽमुमाकाशे दृश्यमानमेवादित्यमेतदेतेन पञ्चमेष्ट कोपधानेनोपहितवान् भवतीत्यर्थः । तामन्तरेणेत्यादि । दक्षिणदिश्युपहिता येयं दिश्या तामन्तरेण तस्या अभ्यन्तरदेशे तां पञ्चमीमादित्यरूपामिष्टकामुपदध्यात् । तस्मात् कारणादेष आदित्य दक्षिणां दिशमन्तरेण दक्षिणस्या दिशोऽभ्यन्तरदेशे एति गच्छति । ' अदित्यास्त्वा पृष्ठे सादयामीति । इयं वा अदितिरस्यामेवैनमेतत्प्रतिष्ठायां प्रतिष्ठापयत्यन्तरिक्षस्य धर्ती विष्टम्भनीं दिशामधिपत्नीं भुवनानामित्यन्तरिक्षस्य

पृष्ठ 384

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 384 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३४८ शुक्लयजुर्वेद संहिता | अं ० १४ ह्येष धर्त्ता विष्टम्भन दिशामधिपतिर्भुवनानामूर्द्रिप्सो अपामसीति रसो वा ऊर्मिविश्वकर्मा त ऋषिरिति प्रजापति विश्वकर्मा प्रजापतिसृष्टाऽसीत्येतदश्विनाऽध्वर्यू सादयतामिह त्वेत्यश्विनी ह्यध्वर्यू उपाधत्ताम् ' ( श ० ८ | २ | १ | १० ) । तन्मन्त्रमनूद्य व्याचष्टे -- अदित्यास्त्वेति । अदितिशब्देनात्र पृथिवी विवक्षितेत्याह- इयं वा अदितिरिति । अस्यामेवैनमित्येनं पचमेष्टकारूपमादित्यम् | आदित्यरूपतया वर्णयति -अन्तरिक्षस्य बेत्यादि । एष खलु सूर्योऽन्तरिक्षस्य धर्ता धारयिता, यथा दिशो न पतन्ति तथा तासां विष्टम्भन विशेषेण स्तम्भयिता, भुवनानामधिकं प्रकाशवर्षादिना पालयिता । अतस्तद्रूपिण्या इष्टकाया अपि सर्वमेतदुपपद्यत इति विशेषणानामभिप्रायः, रसो वा ऊर्मिरिति । रस एव ह्यप्सु तरङ्गरूपेण वर्तते । तस्मादत्रोमिशब्दो रसपरः । एतदुक्तं भवति -- हे इष्टके, अपां सम्बन्धी यो रसरूप ऊर्मिस्तरङ्गो द्रप्सो दृढश्च, स्वं तदुभयरूपासीति । प्रजापतिर्वै विश्वकर्मेति । विश्वं सर्व जगत् कर्म कर्तव्यं येनेति व्युत्पत्तविश्वकर्मा प्रजापतिः । हे इष्टके, उदीरितरूपायास्ते तव विश्वकर्मा ऋषिष्थ । अस्य तात्पर्यमाह - प्रजापति सृष्टाऽसीत्येतदिति । अध्यात्मपक्षे - हे चितिरूपे भगवति, अदित्या अदीनायाः प्रकृतेरुपरि पृष्ठे त्वां सादयामि धारयामि, चिन्तयामीत्यर्थः । त्वमन्तरिक्षस्य धर्त्री धारयित्री, परमात्मरूपत्वात् । कीदृशीं त्वाम्? दिशां प्राच्यादीनां विष्टम्भिनी संस्तम्भनकर्त्रीम् सूर्यरूपया स्वयंव तस्या व्यवस्थापितत्वात् । पुनः कीदृशीम्? भुवनानां भूतजा-तानामधिपत्नी स्वामिनीम् । त्वमपां द्रप्सः कठिन उपल: कुर्चादिरूपः, ऊर्मिः कल्लोलरूपः, एतदुभयरूपासि । विश्वकर्मा प्रजापतिस्ते द्रष्टा, प्रजापतेस्त्वदुपासकत्वात् । शेषं पूर्ववत् । दयानन्दस्तु - ' हे स्त्रि, यस्ते विश्वकर्मा शुभाखिलकर्मा ते तव ऋषिविज्ञापकः पतिरहन्तरिक्षस्य अन्तर-क्षयविज्ञानस्य धर्त्री दिशां पूर्वादीनां विष्टम्भिनीं भुवनानामधिपत्नीमधिष्ठातृत्वेन पालिकां सूर्यामिव स्वादित्या भूमेः पृष्ठे उपरि सादयामि स्थापयामि । योऽपां जलानामूमिरिव ते द्रप्सो हर्षस्तेन युक्तासि तां स्वेहाध्वर्यू अश्विना सादयताम् ' इति, तदपि यत्किश्चित् सम्बोधनादेरनुपपत्तेः । नह्यनुपचारेण मनुष्यमात्रो विश्वकर्मा भवति, तस्य सीमितकर्मत्वात् । न वा पतिऋषिविज्ञानदाता भवति, ' ऋषिदर्शनात् ' ( निरु ० २।११ ) इति विरोधात् । न च विज्ञानदाता अध्यापकादिः पतिर्भवत्यन्तरिक्षस्य, न च सा अपामूर्द्रिप्सो वा सम्भवति, भेदावभासात् । पूर्वादिदिशां धारयित्रीत्वविष्टम्भिनीत्वमपि तत्र खपुष्पायितम् । भुवनानां स्वामिनीत्वमपि तत्र न सम्भवति । पृथिव्याः पृष्ठे सर्वोऽपि तिष्ठति, न तत्र स्थापनापेक्षा ॥ ५ ॥

शु॒क्रश्च॒ शुचि॑श्च॒ ष्मा॑वृत्त अ॒ग्नेर॑न्तः श्लेषोऽसि॒ कल्पे॑त॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप ओष॑धयः कल्प॑न्ताम॒ग्नयः पृथ॒ मम॒ ज्येष्ठ्या॑य॒ सव॑ताः । ये अ॒ग्नय॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । ग्रैष्मा॑व॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संविशन्तु॒ तया॑ दे॒वत॑याङ्गिर॒ स्वद् ध्रुवे सौदतम् ॥ ६ ॥

मन्त्रार्थ - ज्येष्ठ और आषाढ़ मास ग्रीष्म ऋतु से सम्बद्ध हैं । हे ऋतुरूप दोनों इष्टकाओं, तुम अग्नि के मध्य में स्थित हो, मेरे उत्कर्ष के निमित्त द्युलोक और भूलोक में स्थित हो, जल और औषधि को देने में समर्थ हो, समान कर्म वाली स्वयमातृष्णा आदि इष्टकाएँ तुम्हारा ही स्वरूप हैं । तुम द्युलोक और भूलोक के मध्य में समान वित वाली दूसरी इष्टकाओं के साथ ग्रीष्म ऋतु का सम्पादन करती हुई इस स्थान में स्थित रहो, जैसे देवता इन्द्र को प्राप्त होते हैं । ऋतथ्य इष्टके! देवताओं के द्वारा स्थापित तुम अंगिरा ऋषि के समान दृढता के साथ यहाँ रहो ॥ ६ ॥

पृष्ठ 385

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 385 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६ ] वेदार्थपारिजातभाष्यसहिता ३४ ९ ' शुक्रश्च शुचिश्चेत्तव्ये पूर्वयोरुपरि ' ( का ० श्री ० १७ | ८ | १६ ) । प्रथमचितावुपहितयोर्ऋतव्ययोरुपरि ग्रैष्मावृतू इति मन्त्रशेषो ऋतव्ये पद्ये प्राग्लक्षणेऽनुकमभित उदङ्मुख उपदध्यात् । शुक्रश्च शुचिचेति प्रत्येकमुपधाय । हे ग्रीष्माख्य द्वे अप्यालभ्य पाठ्य इति सूत्रार्थ: । शुक्रो ज्येष्ठमासः शुचिराषाढः तावुभौ ग्रीष्मसम्बन्धिनावृतू तद्वत् । ममाग्नि ऋतो, त्वं चीयमानस्याग्नेरन्तः श्लेषोऽसि यथा कुड्यस्यान्तदर्थं काष्ठपाषाणादयः श्लेष्यन्ते | आपश्च चिन्वतो यजमानस्य ज्येष्ठयोत्कर्षार्थमिमे द्यावापृथिव्यो स्वोचितमुपकारं कल्पेतां एकस्मिन् सम्पादयेताम् कर्मण्यवस्थिता ओषधयश्च कल्पन्तां स्वोपकारं सम्पादयितुम् । समानव्रताः समानं व्रतं कर्म येषां ते । द्यावापृथिवी अन्तरा आहवनीयाद्यग्नयः पृथक् कल्पन्ताम्, प्रत्येकं स्वोचितव्यापारं सम्पादयन्तु । किन इमे अभिकल्पन्तां अनयोर्मध्ये वर्तमानाः समनस एकमनस्का येऽग्नयस्ते सर्वेऽपि ग्रीष्मसम्बन्धिनावेतावृत्ववयवा । सर्वे देवा सर्वतः सम्पादयन्त एतत्कर्म अभिसंविशन्तु । तत्र दृष्टान्तः - इन्द्रमिव देवाः अङ्गिरसां यथा कर्मणां अन्ये च ध्रुवे स्थिरे इन्द्रमभितः सेवन्ते, तद्वत् । हे ऋतव्ये इष्टके, युवां तया देवतया अङ्गिरस्वद् सत्यो सीदतम् । अत्र ब्राह्मणम् —'अथर्तव्ये उपदधाति । ऋतव एते यहतव्ये ऋतूनेवैतदुपदधाति शुक्रश्च सादयत्येकं शुचिश्च ग्रैष्मावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः - अथर्तव्ये सकृत् उपदधातीति । तदृतुं करोति ' ( श ० ८ | २ | १ | १६ ) । इत्थमाश्विनीविधाय ऋतव्ययोरुपधानं विधत्ते ऋतव्या तत्प्रशंसति - ऋतव्य इति । संवत्सरात्मकस्य चित्यस्याग्नेः ' मधुश्च माधवश्च ' इत्यादिमन्त्रैरुपधेया विधाय व्याचष्टे - शुक्रश्च इष्टका ऋतुस्थानीयाः । अतस्तदुपधानेनैव ॠतून स्थापितवान् भवतीत्यर्थः । मन्त्रं नामनी, अतो शुचिश्चेति । नामनी एनयोरिति । एनयोग्रष्मत्र्त्वात्मिकयोर्ऋतव्ययोरेते शुचिशुक्रशब्दरूपे द्वित्वमनूद्य स्तौति -नामभ्यामेव एतयोरुपधानं कृतं भवतीत्यर्थः । ऋतव्ये उपदधातीति विशिष्टविधिनैव सिद्धं इष्ट भवतो द्वौ हि मासौवृत इति । हिशब्दः सर्वजनप्रसिद्धिद्योतनार्थः । इष्टकयोद्वित्वात् पृथक् पृथक् अत्रो -सादनप्रसक्तौ आह - सकृत् सादयतीति । तेन सकृत्करणेन ऋतुमेकमद्वयात्मकं करोति यजमानः तदस्यैषा । तद्यदेते द्वितीया पदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य यदूध्वं पृथिव्या अर्वाचीनमन्तरिक्षात् तस्मादेते अत्रोपदधाति ' चितिस्तद्वस्य ग्रीष्म ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति ( श ० ८ | २ | १ | १७ ) । ऋतव्ययोद्वितीयचितावुपधानं प्रशंसति - तद्यदेते अत्रेति । वसन्ताद्युत्विष्टकानिष्पाद्यत्वात् सृष्टत्वात् । अग्नेः एष चीयमानोऽग्निः संवत्सरः । स च संवत्सर इमे लोकाः खलु, संवत्सरात्मकेन प्रजापतिना संवत्सररूपस्य लोकत्रयात्मकत्वकल्पनायाः प्रयोजनमाह --तस्य यदूर्ध्वमिति । पृथिव्याः प्रथमचितिरूपायास्तदु- ग्रीष्म ऋतुः । परितनमन्तरिक्षादधस्तनं यदस्ति तदस्याग्नेद्वितीयचितिस्थानम् । तदु तदेव अस्य संवत्सररूपस्य शरीरस्येष्टकाद्वय-तत् तस्माद् एते इष्टके अत्र द्वितीयायां चितौ उपदधातीति यत् तत् तेन यदेवास्याग्नेरात्मनः भवति । तस्मादेते इति रूपमङ्गं विकलमभूत्, तद् विकलमस्मिन्नात्मन्येतदिदानीं प्रतिदधाति पुनः स्थापितवान् तद् द्वितोयचित्य-निगमनम् । अयमत्र भावः -- लोकत्रयात्मकस्य चित्याग्नेर्यत्पृथिव्यन्तरिक्षान्तरालरूपमङ्गं । ' यद्वेवैते अत्रोपदधाति । नुष्ठानेन यत्तु संवत्सरात्मकस्य ग्रीष्मर्तुरूपं तदृतव्ययोरुपधानेन प्रतिहितं भवतीति द्वितीया चितिस्तद्वस्य प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य यदूध्वं प्रतिष्ठाया अवाचीनं मध्यात्तदस्यैषा अत्रोपदधाति ' ग्रीष्म ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेते प्रजापतिः सोऽपि संवत्सर एव । तस्य संवत्सरादभिन्नस्य ( श ० ८ । २ । १ । १८ ) । एष चीयमानोऽग्निः च यदस्ति । शेषं प्रजापतिरूपस्याग्नेर्यत् प्रतिष्ठायाः प्रतिष्ठापादौ तस्या ऊर्ध्वं मध्यात् कटिप्रदेशादधस्तनं पूर्ववद् व्याख्येयम् ।

पृष्ठ 386

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 386 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५० शुक्लयजुर्वेद संहिता [ अ ० १४ अध्यात्मपक्षे – भगवद्भजनोन्मुखस्य साधकस्य कृते सर्वोऽपि स्वोचितमुपकारपरायणो भूयादित्यर्थे प्रथमार्थेनैव गतार्थतेति न पृथगर्थो निर्दिश्यते । दयानन्दस्तु – ' हे स्त्रीपुरुषौ यथा मम ज्यैष्ठयाय शुक्रश्च शुचिश्च ग्रैष्मावृतू ययोरग्नेरन्तः श्लेषोऽस्या-स्तीति याभ्यां द्यावापृथिवी कल्पेताम् तया देवतया परमेश्वररूपया सह युवामिमे द्यावापृथिवी ध्रुवे एती चाङ्गिरस्वद् ध्रुवं सीदतम् ' इति, तदप्यज्ञानविजृम्भितम् । कस्यचिज्ज्यैष्ठधाय शुक्रशुचिमासयोग्रष्मत्वाभावात् । न चात्र कफबोधकः कश्चन शब्दोऽस्ति श्लेषश्लेष्मयोरैक्यायोगात् । संस्कृतव्याख्याने मध्य आलिङ्गनमित्युक्तम् तेन स्वोक्तिविरोधश्च । श्रुतिविरोधश्च पदे पदे प्राप्त एव ॥ ६ ॥,

स॒तुभिः॑ स॒व॒धाभि॑ः सजूर्देवैः: स॒जूर्देवैर्व॑यो न॒धे॑र॒ग्नये॑ त्वा वैश्वान॒राय॒श्विना॑ ध्वर्यू सदयतामि॒ह त्वा॑ स॒र्ऋतुर्भिः स॒व॒धाभिः॑ स॒जुर्वसुभिः सजूर्देवैवयोनाधैरग्नये स्वा वैश्वान॒राय॒श्विना॑ध्व॒र्यु सा॑दयतामि॒ह त्वा॑ स॒र्ऋतुभिः॑ स॒व॒धाभि॑ः स॒जू रु॒द्रे सजूर्देवैवैयो-नाधैर॒ग्नये॑ त्वा वैश्वान॒राय॒श्विना॑ध्व॒र्यू सा॑दयतामि॒ह त्व । स॒तुभिः॑ स॒व॒धाभि॑ः स॒जरा॑दि॒त्यैः स॒र्दे॒वैर्व॑योना॒धेर॒ग्नये॑ त्वा वैश्वान॒राय॒श्विना॑ध्व॒र्यू सवयतामि॒ह त्व । स॒र्ऋतुर्भिः स॒व॒धाभि॑ः स॒वश्वैर्देवैः स॒जुर्दे॒वैर्वयोना॒धेर॒ग्नये॑ त्वा वैश्वान॒राय॒श्विना॑ध्व॒र्यू सदयतामिह वा ॥ ७ ॥

मन्त्रार्थ - हे इष्टके! तुम ऋतुओं के साथ और जल के साथ प्रीतिमान् हो, बाल्य आदि अवस्था बाले प्राणों के साथ तथा इन्द्र आदि देवताओं के साथ प्रेम करने वाली हो । तुमको सबके हितकारी प्राप्त करने तृप्ति के लिये ग्रहण करता हूं । अध्वर्यु अश्विनीकुमार तुम्हें इस दूसरी चिति में स्थापित करें । हे इष्टके! ऋतुओं अग्निदेवता के की साथ, जल के साथ, वसुओं के साथ, प्राणों और देवताओं के साथ प्रीति रखनेवाली तुमको विश्व के हितकारी अग्निदेवता तृप्ति के निमित्त स्थापित करता हूं । अध्वर्यु अश्विनीकुमार तुमको इस दूसरी चिति में स्थापित करें | हे इष्टके की ऋतुओं के साथ, जल के साथ, रुद्रों के साथ, प्राणों के साथ और देवताओं के साथ प्रीति रखने वालो तुमको विश्व के! हितकारी अग्निदेवता के निमित्त स्थापित करता हूँ । अध्वर्यु अश्विनीकुमार तुमको इस तीसरी चिति में स्थापित इष्टके! ऋतुओं के साथ, जल के साथ, आदित्य के साथ और प्राण देवताओं के साथ प्रोति करनेवाली करें । विश्व के हितकारी अग्निदेवता की प्रीति के निमित स्थापित करता हूँ । अध्वर्यु अश्विनीकुमार तुमको इस तुमको सारे स्थापित करें । हे इष्टके! तुम ऋतुओं से, प्राणों से, सम्पूर्ण देवताओं से और प्राण देवताओं से सेवित चौथी चिति में सब जगत् के हितकारी अग्निदेवता की प्रीति के लिये ग्रहण करता हूँ । अध्वर्यु अश्विनीकुमार तुमको इस पांचवीं हो, तुमको स्थापित करें ॥ ७ ॥ चिति में

{ ' वैश्वदेवी: सतुभिरिति प्रतिमन्त्रम् ' । का ० श्र ० १७८ । १८ ) । सर्ऋतुभिरित्यादिभिः र्वेश्वदेवीसंज्ञकाः पूर्वादिदिक्षु मध्ये चोपदध्यादिति सूत्रार्थः । विश्वदेवदृष्टानि विश्वेदेवदेवत्यानि पञ्च पञ्चभिर्मन्त्र- यजूंषि ऋतुभिर्वसन्तादिभिः सज्जुः समानप्रीतिरसि । वसन्तादीनां यादृशी प्रीतिस्तादृशीत्यर्थः । विधाभिविविधं । जगद् दधति पोषयन्तीति विधा ब्रह्मादयः तैः समानप्रीतिरसि । यद्वा विधा आप:, ' आपो वै विधा

पृष्ठ 387

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 387 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७ ] वेदार्थपारिजातभाष्यसहिता ३५१ अद्भिर्हीींद सर्वं विहितम् ' ( श ० ८२२२२८ ) इति श्रुतेः । ताभिः समानप्रीतिरसि । सजुर्देवैरिन्द्रादिभिर्वयो-नायो बाल्यादि नह्यन्ति बध्नन्तीति वयोनाधाः प्राणा देवा दीप्यमानास्तैश्च सजुः समानप्रीतिरसि, ' प्राणा वयोधाः प्राणद सर्वं वयुनं नद्धम् ' ( श ० ८ २ २१८ ) इति श्रुतेः । यद्वा - वयोनाधैर्देवैश्छन्दोभिः सजूः समानप्रीतिरसि, ' अथो छन्दा ७ सि वै देवा वयोनाधाश्छन्दोभिर्हीींद सर्व वयुनं नद्धम् ' ( श ० ८ २२२८ ) इति श्रुतेः । यद्वा- - ऋतुदेवप्राणान् जनयित्वा तैः सजूः सयुग्भूत्वा प्रजापतिर्यथा त्वामुपहितवान् एवं तादृशैस्तैर्देवैः समानप्रीति-युक्तां त्वां वैश्वानराय अग्नये सर्वपुरुषाणां हितकारिवह्नयर्थमहमुपदधामीति शेषः । एवमुपहितां त्वां देवानामध्वर्युं अश्विनी इहास्मिन् क्षेत्रे सादयताम् । यद्वा - - हे इष्टके, देवानामध्वर्यू अश्विनो देवो तां त्वा त्वामिह स्थाने द्वितीयचितसादयताम् । किमर्थम्? विश्वेभ्यः सर्वेभ्यो नरेभ्यो हिताय अग्नये अग्नितृप्तये । अग्नये त्वेति त्वाशब्दो या इति प्रथमार्थे । प्रातिपदिकसुपोर्व्यत्ययः । तां कां या त्वमृतुभिः सजूः । जोषणं जुट् प्रीतिः । ' जुषी प्रीतिसेवनयोः ' सम्पदादित्वाद् भावे क्विप् । ' सम्पदादिभ्यः क्विप् ' ( पा ० सू ० ३ । ३ । ९ ४ वा ० ४ ) इति वार्तिकात् । ' समानस्य छन्दस्य मूर्धप्रभृत्युदर्केषु ' ( पा ० सू ० ६ | ३ | ८४ ) इति समानशब्दस्य सादेशः । एवं वसुभी रुद्ररादित्यै-विश्वेदेवैः सरित्युत्तर चतुर्मन्त्रेषु विशेषः । अत्र ब्राह्मणम् – ' अथ वैश्वदेवीरूपदधाति । एषा वै सा द्वितीया चितियमेभ्यस्तदश्विना उपाधत्तां तामुपधायेद सर्वमभवतां यदिदं किन ' ( श ० ८ २२1१ ) । ऋतव्ययोरुपधानानन्तरं वैश्वदेवीनामुपधानं विधाय आख्यायिकया स्तौति - अथ वैश्वदेवीरिति । यामिष्टकामेभ्योऽर्थाय अश्विनी उपाधत्ताम्, सैषा द्वितीया चितिः । तां द्वितीयामुपधायेदं सर्वमभवताम्, सर्वमिदं तयोः स्वाधीनमभूदित्यर्थः । सर्वशब्दस्यासङ्कोचं दर्शयति-यदिदं किञ्चेति । यत्प्रतीयते तत्सर्वमित्यर्थः । ' ते देवा अब्रुवन् । अश्विनौ वा इद सर्वमभूतामुप तज्जानीत यथा वयमिहाप्यसामेति तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाब तदब्रुवंस्तदिच्छत यथा वयमिहात्यसामेति ते चेतयमाना एता इष्टका अपश्यन् वैश्वदेवी: ' ( श ० ८ारारा २ ) ' तेऽब्रुवन् । अश्विनौ वा इद, सर्वमभूता-मश्विभ्यामेवाश्विनोश्चितिमनुपदधामहा इति तेऽश्विभ्यामेवाश्विनोश्चितिमनूपादधत तस्मादेतामाश्विनी चिति-रित्याचक्षते तस्माद्यथैव पूर्वासामुदर्क एवमेतासामश्विभ्या ह्येवाश्विनोश्चितिमनूपादधत ' ( श ० ८ २ २ १ ३ ) | ते देवा इदं सर्वमश्विनावेवाभूताम्, अतो यथा येन प्रकारेण इहास्मिन् वयमप्यसाम तत्तथा उपजानीत इति परस्परमब्रुवन् । पुनरब्रुवन् चेतयध्वमिति । एवं वदतामुक्तेरभिप्रायं श्रुतिरिवरथा ब्रूते - चितिमिच्छतेति । इतस्ततो विक्षिप्ताया बुद्धिवृत्तेरैकाग्र्येणैकत्र समावेशश्चितिः । स्वातन्त्र्येण कार्यं साधयितुमशक्तास्ते देवा एव-मब्रुवन् । कथं पूर्वमिदं सर्वमश्विनावेव अभूताम्, अतो वयमप्यश्विभ्यामेव साधनाभ्यां ( तद्धस्तादित्यर्थः ) तयोश्चितिमनुसृत्यैव वैश्वदेवीरूपदधामहा इति । एवमुक्त्वा ते तथैवाकुर्वन् । तस्मादश्विप्रधानत्वादेतां द्वितीयां चितिमाश्विनीत्याचक्षते तज्ज्ञाः । तस्मादश्विसाधितत्वाद् यथा पूर्वासामाश्विनीनाम् उदर्के मन्त्रस्यावसानम् अश्विनावध्वर्यू सादयतामित्येवंरूपम्, एवमेतासां वैश्वदेवीनामुदकं इति शेषः । ' यद्वेव वैश्वदेवी रुपदधाति । ये वं ते विश्वे देवा एतां द्वितीयां चितिमपश्यन् ये त एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति वा एताः सर्वाः प्रजास्ता रेतः सिचोर्वेलयोपदधातीमे व रेतः सिचावनयोस्तत्प्रजा दधाति तस्मादनयोः प्रजाः सर्वत उपदधाति सर्वतस्तत्प्रजा दधाति तस्मात् सर्वतः प्रजा दिया अनूपदधाति दिक्षु तत्प्रजा दधाति तस्मात् सर्वासु दिक्षु प्रजाः ' ( श ० ८ २ २ ४ ) । यत्कारणाद् वैश्वदेवी रुपदधाति तदभिधीयत इत्यर्थः । ये खलु ते विश्वे देवा एवां वैश्वदेवोभिर्निर्मितां द्वितीयां चितिमपश्यन्, ते देवा एतेन रसेनोपायन् रसेन सङ्गता अभवन्नित्यर्थः । त एते प्रसिद्धा विश्वे देवाः । तानेव रसेनोपेतान् देवानेव एतद् एतेन

पृष्ठ 388

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 388 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५२ शुक्लयजुर्वेदसंहिता [ अ ० १४ वैश्वदेवीनामुपधानेनोपदधात्यध्वर्युः । कोऽसौ रस इत्युच्यते - ता एताः सर्वाः प्रजा इति । ता रसत्वेन निर्दिष्टा इष्टका एताः परिदृश्यमानाः सर्वाः प्रजाः । एतासां स्थानमाह -ता रेतः सिचोर्वेलयेति । तस्माद्रेतः-सिचोर्द्यावापृथिव्यात्मकत्वाद् अनयोर्द्यावापृथिव्योमध्ये प्रजा वर्तन्त इति शेषः । तत्रापि विशेषं सार्थवादमाह -सर्वत उपदधातीति । तत्राप्यश्विनीनामान्तर्यमाह - दिश्या अन्विति । दिश्या आश्विन्यः । ताः सर्वत उपहिताः, ता अनु एता अप्युपदध्यात् । ' यद्वेव वैश्वदेवोरुपदधाति । प्रजापतेवित्रस्तात् सर्वाः प्रजा मध्यत उदक्रामन्ने तस्या अधि योनेस्ता एनमेतस्मिन्नात्मन: प्रतिहिते प्रापद्यन्त ' ( श ० ८ २२२५ विस्रस्तात्प्रजापतेर्मध्यतः सर्वाः प्रजा उद्गताः । मध्यं विशिनष्टि- एतस्या अधि योनेरिति । अधि ) | पचम्यर्थानुवादी । एतस्याः प्रजोत्पादिकाया योनेः सकाशाद् उदक्रामन् । ता उद्गताः प्रजापतिसम्बन्धिन्य इति एतस्मिन् मध्ये प्रतिहिते समाहिते सत्येनं प्रजापति पुरस्तात् प्रापद्यन्त । स यः स प्रजापतिव्यं त्र सोऽयमग्निश्चीयतेऽथ या अस्मात्ताः प्रजा मध्यत उदक्रामन्नेतास्ता वैश्वदेव्य इष्टकास्तद्यदेता १७ सत उपदधाति । अयमेव एवास्मात्ताः प्रजा मध्यत उदक्रामंस्ता अस्मिन्नेतत् प्रपादयति रेतः सिचोर्वेल्या पृथ्र्यो वै रेतः या पृष्टो मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति सर्वत एवास्मिन्नेताः प्रजाः प्रपादयति सिचो मध्यमु विस्रस्तः प्रजापतिरिति तमाह -- अयमेव स इति । उत्क्रान्ताः प्रजाः का इति ' ( श ० ८ २२२२६ ) । कोऽसो वैश्वदेवीर द्वितीयायां चिता उपदधाति या एव प्रजा अस्मात् प्रजापतेर्मध्यतो तत्राह - एतास्ता इति । तद्यदेता पुनस्तत्र प्रपादयति । ' यद्वेव वैश्वदेवी रुपदधाति । एतद्वै प्रजापतिरेतस्मिन्नात्मनः मध्यदेशाद् उत्क्रान्ता ता एव प्रजायेयेति स ऋतुभिरद्भिः प्राणैः संवत्सरेणाश्विभ्या सयुग्भूत्वैताः प्रजाः प्रजनयति प्रतिहितेऽकामयत प्रजाः सृजेय सजुरित्यनुवर्तते ( श ० ८ २२७ ) । अथासां पञ्चानां वैश्वदेवीनामुपधाने मन्त्रं तस्मादु सर्वास्वेव सजूः रित्यादिना । आत्मनः शरीरस्य एतस्मिन् मध्यमेऽङ्गे प्रतिहिते सत्यकामयत विधातुमाह - यद्वेव वैश्वदेवी-मानप्रजारूपेण मम प्रादुर्भावोऽप्यस्त्वित्यर्थः । एवं कामयमानः स ऋत्वप्प्राणसंवत्सराश्विभिः प्रजाः सृजेयेति । प्रजायेयेति सृज्य-भूत्वा एता वक्ष्यमाणवैश्वदेव्याख्याः प्रजाः प्राजनयत् । तस्माद् एवं सयुग्भावाद्धेतोर्वैश्वदेवीनामुपधानमन्त्रेषु सयुक् तत्सहायो सजूः सजुरित्यनुवर्तते । ' सर्ऋतुभिरिति । ततून प्राजनयहतुभिर्वै सयुग्भूत्वा प्राजनयत् सजूविधाभिरित्यापो अद्भिर्ही सर्वं विहितमद्भिर्वे सयुग्भूत्वा प्राजनयत् सजूर्देवैरिति तद्देवान् प्राजनयद्यद्देवा वै विद्या योनाधैरिति प्राणा वै देवा वयोनाधाः प्राणैर्हीींद, सर्वं वयुनं नद्धमयो छन्दा इत्याचक्षते सजुर्देवै-हींद ७ सर्वं वयुनं नद्धं प्राणैर्वे सयुग्भूत्वा प्राजनयदश्विनाध्वर्यू सादयतामिह त्वेत्यश्विभ्यां सि वै देवा वयोनाधाश्छन्दोभि-यत् ' ( श ० ८ | २ | २८ ) । अनुवृत्तिप्रकारं स्वयमेवाह सर्ऋतुभिरिति । ' इति वे सयुग्भूत्वा प्राजन-ऋतून् प्राजनयत् । ऋतूत्पादन मितरप्रजा सृष्टे ऋतु सयुग्भावान्यथानुपपत्त्या ' एवं प्रतिमन्त्रमनुवर्तते । तत् तेन यदिति । अन्यानिति शेषः । उत्पन्नस्य ऋतोः सयुग्भावमापद्य तत्साहायवान् समर्थयते-- ऋतुभिर्वे सयुग्भूत्वा प्राजन-दित्यर्थः । एवमुत्तरेष्वपि ' सजूविधाभिः ', ' सजूर्देवः ' ' सजुर्देवैर्वयोनाधैः अन्यान् विश्वदेववस्वादीन् प्राजनय-सविधाभिरित्यनुषञ्जनीयो द्वितीयभागः । तत्र विधाशब्दार्थमाह- आपो वै ' इत्यादिष्वनुषञ्जनीय विधा भागेष्वपि द्रष्टव्यम् । अद्भिर्हति । विधीयते क्रियत आभिरद्भिरिति विधा आपः । हिशब्दोऽपां इति । तत्प्रवृत्तिनिमित्तं दर्शयति-शिष्टं पूर्ववत् । इत्थं पञ्चस्वपि मन्त्रेषु पूर्वभागेऽनुषञ्जनीयमभिधाय प्रथमं सर्वाश्रयत्वस्य प्रसिद्धिद्योतनार्थः । प्राजनयद् इत्यत्रत्यदेवशब्देन वक्ष्यमाणा वस्वादयः सर्वेऽपि देवा विवक्षिताः मन्त्रं व्याचष्टे - सजूर्देवैरिति । तद्देवान् येऽभिधीयन्ते, ते सर्वेऽप्यनेन विवक्षिता इत्यर्थः । उपरिष्टादनुषञ्जनीयप्रथमभागं । यद्देवा इत्याचक्षत इति देवशब्देन वयोनाधशब्दार्थमाह - प्राणा वै देवा वयोनाधा इति । वयोनाधशब्दस्य प्राणाभिधानतामुपपादयति व्याचष्टे - सजूर्देवं वयो नाधैरिति । - प्राणैर्हीडं

पृष्ठ 389

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 389 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७ ] वेदार्थपारिजातभाष्यसहिता ३५३ सर्व वयुनं नद्धमिति । वयो वयुनं नह्यन्ति बध्नन्ति ये ते वयोनाधाः प्राणाः । वयःशब्दस्य विवक्षितमर्थान्तर-माह - अथ छन्दांसि वै वयोनाधा इति । शिघ्रं पूर्ववद् व्याख्येयम् | अनुषङ्गस्य द्वितीयभागमुदाहृत्य व्याचष्टे -- अग्नये स्वा वैश्वानरायेत्यादिना । तृतीयभागं विधाय व्याचते - अश्विनाध्वर्युं सादयतामिह त्वेति । है इष्टके, त्वामश्विनावध्वर्य इह द्वितीयचितिप्रदेशे सादयतामिति । ' सर्वसुभिरिति दक्षिणतः । तद्वसून प्राजनयत् सजू रुद्रैरिति पश्चात्तद्वान प्राजनयत् सजूरादित्यैरित्यु-तरतस्तदादित्यान् प्राजनयत् सजूविश्वैर्देवैरित्यपरिष्टात्तदिश्वान् देवान् प्राजनयत्ता वै समानप्रभृतयः समानोदर्का नाना मध्यतस्ता यत्समानप्रभृतयः समानोदर्काः समानीभिर्हि देवताभिः परस्ताच्चोपरिष्टाच्च सयुग्भृत्वा प्राजनय-दथ यन्नाना मध्यतोऽन्या अन्या हि प्रजा मध्यतः प्राजनयत् ' ( श ० टा २ / २ / ९ ) । द्वितीयेप्रकोपधानमन्त्रमुक्त्वा व्याचष्टे - सर्वसुभिरिति । दक्षिणत इति, उपदध्यादिति शेषः । तत् तेन एतन्मन्त्रसाध्ये कोपधानेन वसुन् अष्टसंख्याकान् प्राजनयत् । सजू रुद्रैरिति तृतीयो मन्त्रः । रुद्रा एकादश, तन्मन्त्रेण पश्चादुपदध्यात् । सजुरा-दित्यैरिति चतुर्थेन मन्त्रेण उत्तरतः सादयेत् । सजुर्देवैरित्युपरिष्टात् सादयेत् । उक्तानां सादनमन्त्राणामाद्यन्ता-नुषङ्गसाम्यमाह - ता वै समानप्रभृतयः समानोदर्का इति । प्रभृतिरुपक्रमः । उदर्कोऽवसानम् । तौ सर्वासामिष्टकानां समानावित्यर्थः । कृत्स्नमन्त्राणां मध्यमभागस्य नानारूपतामाह - नाना मध्यत इति । ' सजूर्ऋतुभिः ' इत्यादिकः सर्वासामुपक्रमः । मध्ये ' सजुर्देवैः सजर्व पुभि: ' इत्यादिकः पञ्चसु मन्त्रेषु एकैको मन्त्रः । अन्ते ' सजूर्देवैर्वयोनाधेः ' इत्यादिक इत्यर्थः । एतत् त्रितयं प्रशंसति- - ता यत्समानप्रभृतय इत्यादिना । ' समानीभिर्हि देवताभिः ' ' पुरस्ताच्चोपरिष्टाच्च ' इति ऋत्वादिभिः पुरस्तात् ' सजुर्वयोनाधेः ' इत्यादिभिरुपरिष्टाच्चेति विभागः । अन्या अन्या हि प्रजा इति प्रजानां वैलक्षण्यं वस्वादीनां विलक्षणत्वाद् द्रष्टव्यम् । अध्यात्मपक्षे – हे प्रज्ञे, यथा ऋतुभिः समानजोषणो यथा च विधाभिरद्भिः सह समानजोषणो देवैश्चेन्द्रा-दिभिर्वयोनार्देवैश्छन्दोरूपः प्राणरूपैर्वा जोषणः परमेश्वरो वैश्वानराय विश्वेभ्यो नरेभ्यो हिताय अग्नये ज्ञानाग्नये त्वामुपहितवान्, एवमहमप्येताभिर्देवताभिः समानप्रीतिर्भूत्वा त्वामुपदधामि । अश्विनी चाध्वर्यू इह पारम्पर्यादध्येत्रध्यापयितारौ त्वां सादयताम् ऋतुविद्यादेवादीनामपि तत्र सहायकत्वात् । अथवा हे ब्रह्मात्मप्रज्ञे, या त्वमृत्यादिभिः समानप्रीतिरसि तां त्वा त्वाम् अश्विनावध्वर्य इह बुद्धौ स्थापयताम् । दयानन्दस्तु – हे स्त्रि पुरुष वा यं यां वा त्वामिहाध्वर्यू अश्विना वैश्वानरायाग्नये विश्वेषां नराणामिदं हितं तस्मै अग्नये सुशिक्षा प्रकाशाय वयं यं च त्वा सादयेम स त्वम् ऋतुभिः सह सजूः । यः समानं प्रीणाति सेवते वा सः सजुः । विधाभिरद्भिः सह सजुः । देवैदिव्य गुणैर्वयोनाधैर्वयांसि जीवनादीनि गायत्र्यादीनि छन्दांसि वा नह्यन्ति यैः प्राणैस्तैर्देवैः सजुश्च भव । हे पुरुषार्थयुक्त स्त्रि पुरुष वा, यं त्वां वैश्वानरायाग्नये अध्वर्यु अश्विना सादयताम्, यं त्वा वयं च सादयेम, स त्वम् ऋतुभिः सह सजूविधाभिः सह सजुर्वसुभिः सह सर्वयो-पैः सह सजूर्भव विद्याध्ययनाय प्रवृत्ते ब्रह्मचारिणि ब्रह्मचारिणं यं वैश्वानरायाग्नयेऽध्व चाश्विना सादयताम्, यं त्वा वयं सादयेम, स त्वमृतुभिः सह सजुर्विधाभिः सह सजू रुद्रः सह सजुर्वयोनाधैर्देवैः सह सजूभंव । हे पूर्णविद्ये, त्वां वैश्वानरायाग्नयेऽश्विनौ सादयताम्, यं त्वा वयं सादयेम स त्वमृतुभिः सजूरादित्यैः सह सजुर्वयो-नाः सह संभव । हे सत्यार्थोपासिके, यं त्वेह वैश्वानरायाग्नयेऽश्विना अध्वर्यू सादयताम्, यं त्वा वयं सादयेम, स त्वमृतुभिः सह सजूविधाभिः सह सजूविश्वदेवैः सह सजूर्वयोनाधैर्देवैः सह सजुर्भव ' इति, तदपि यत्किश्चित् तादृशसम्बोधनादौ मानाभावात्, गौणीवृत्त्याश्रयणात्, अध्याहार बाहुल्यात्, श्रुतिविरोधाच्च ॥ ७ ॥

I

पृष्ठ 390

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 390 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३५४ शुक्लयजुर्वेद संहिता [ अ ० ] १४ प्राणं में पापानं में पाहि व्यानं में पाहि चक्ष उर्व्या विभोहि श्रोत्रं मे श्लोकय । अप: पि॒न्वोष॑धोजिन्व द्वि॒पाद॑व॒ चतु॑ष्पात् पाहि दि॒वो वृ॒ष्टि॒मेर॑य ॥ ८ ॥

मन्त्रार्थ - हे इष्टके! तुम मेरी नाभि से ऊपर चलने वाली प्राण वायु की रक्षा करो, मेरी नाभि से नीचे चलने वाली अपान वायु की रक्षा करो, मेरे शरीर की संधिगत वायु की रक्षा करो । इष्टके! तुम मेरे नेत्रों को विस्तीर्ण दृष्टि से देखने में समर्थ करो, मेरे कानों को शब्दों के श्रवण में समर्थ करो । हे इष्टके! तुम्हारे प्रसाद से यह पृथ्वी वृष्टि के जल से सिंचित हो, औषधियाँ तृप्त हों । दो पैर वाले प्राणी मनुष्यों की तुम रक्षा करो, चौपाये पशुओं की रक्षा करो, चुलोक से वर्षा को सब ओर प्रेरित करो ॥ ८ ॥

' प्राणभृतः प्राणं म इति ' ( का ० श्र ० १७७८/२० ) । पन यजुभिः प्राणभृत्संज्ञका इष्टकाः पूर्वादिषू-पदधातीति सूत्रार्थः । पच वायुदेवत्यानि यजूंषि । हे इष्टके त्वं मे मदीयं प्राणं प्राणस्वरूपं वायुं पाहि रक्ष । एवमपानं मे पाहि । व्यानं वायुं च मे मम पाहि । उर्व्या विस्तीर्णया दृष्ट्या मे चक्षुर्विभाहि विशेषेण प्रकाशय, इष्टानिष्टदर्शनसमर्थं कुवित्यर्थः । मे मदीयं श्रोत्रं कर्णेन्द्रियं श्लोकय सङ्घाते शक्तं कुरु, बहुविधशास्त्र-श्रवणसमर्थं कुर्वित्यर्थः । ' श्लोकृ सङ्घाते ' । यद्वा - श्रोत्रं मे श्लोकय श्लोकं पाहि । श्लोक इति वाङ्नामसु ( निघ ० १ | ११ | १ ) | वेदादिलक्षणवाक् समूहश्रवणधारणसमर्थं कुरु । यद्वा - श्रोत्रं श्लोकय स्तुत्यं कुरु वेदाद-शास्त्रग्रहणेनैव श्रोत्रं प्रशस्यते । ' अपः पिन्वेत्यस्याः ' ( का ० श्री ० १७/८/२१ ) । अपस्यासंज्ञकाः पञ्चेष्टकाः पभिर्मन्त्रैरुपदध्यादिति सूत्रार्थः । हे इष्टके, त्वमपो जलानि पित्व सिध्र्व । ' पिवि सेवने सेचने चेत्येके ' इति भौवादिकस्य रूपम् । ओषधी जिन्व प्रीणय, ' जिवि प्रीणने ' इति रूपम् । द्विपाद् मनुष्यशरीरम् अव रक्ष । चतुष्पाद् गवादिपशुशरीरं पाहि पालय । यद्वा - द्विपाद् द्विपादं मनुष्यमव गोपाय । चतुष्पात् चतुष्पादं गवादिपशं पाहि पालय । विभक्तिव्यत्ययः । दिवो द्युलोकसकाशाद् वृष्टिम् आसमन्दाद् ईरय आगमय प्रवर्तय । अत्र ब्राह्मणम् —'अथ प्राणभृत उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना वायुमेव चितिमपश्यंस्तामस्मिनदधुस्तथैवास्मिन्नयमेतद्दधाति ' ( श ० ८ २३ श? ) । प्राणभृत्संज्ञकानामिष्टकानामुपधानं विधाय स्तौति अथ प्राणभृत इति । चेतयमानास्ते वायुमेव चितिमपश्यन् । तां वायुरूपां चितिमस्मिन् द्वितीयचितिप्रदेशेऽदधुः स्थापितवन्तः । तथैवायं यजमानोऽस्मिन्नेतद्दधातीति । ' प्राणभृत उपदधाति । प्राणो वै वायुर्वायुमेवास्मिन्नेतद्दधाति रेतः सिचोर्वे लयेमे वै रेतः सिचावनयोस्तद्वायुं दधाति तस्मादनयोर्वायुः सर्वत उपदधाति सर्वतस्तद्वायुं दधाति तस्मात् सर्वतो वायुः सर्वतः समीची: सर्वतस्तत्सम्यञ्च वायुं दधाति तस्मात् सर्वतः सम्यङ् भूत्वा सर्वाभ्यो दिग्भ्यो वाति दिश्यो अनूपदधाति दिक्षु तद्वायुं दधानि तस्मात् सर्वासु दिक्षु वायु ' ( श ० ८ २३२ ) । पुनः स्तोतुमनुवदति प्राणभृत इति । प्राणो वै वायुरिति । वैशब्दो ' वायुः प्राणो भूत्वा नासिके प्राविशत् ' ( ऐ ० उ ० १ ४ ) इति श्रुत्यनन्तराम्नात-वायुप्राणैकत्वप्रसिद्विद्योतनार्थः । तासां स्थानमाह रेतः सिचोर्वेलयेति । तस्मात् क्षित्यन्तरिक्षसंस्तुत रेतः-सिचोनिकटे प्राणभृतामुपधानाद् रेतः सिग्रूपयोरनयोः क्षित्यन्तरिक्षयोर्मध्ये वायुः सचरतीति शेषः । सर्वतः समीचीरिति प्रागादिसर्वदिक्षु तिर्यक्त्वाभावेन आर्जवेन यथा वर्तन्ते तथा उपदध्यादित्यर्थः । तत् तेन तथोपधा-न वायुमपि सम्यञ्चम् अकुटिलं स्थापितवान् भवति । दिश्या अनूपदधातीति दिश्यानन्तर्यार्थवादो वैश्व-देवीष्टकावाक्यवद् व्याख्येयः । ' यद्वेव प्राणभृत उपदधाति । आस्वेवैतत्प्रजासु प्राणान् दधाति ता अनन्तर्हिता