वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 391–400
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 391–400
पृष्ठ 391
पाठ पढ़ें पाठ छिपाएँ
१०८ ] वेदार्थपारिजातभाष्यसहिता ३५५ वैश्वदेवीभ्य उपदधात्यनन्तर्हितांस्तत्प्रजाभ्यः प्राणान् दधाति प्राणं मे पाह्यपानं मे पाहि व्यानं मे पाहि चक्षुमं उर्व्या विभाहि श्रोत्रं मे श्लोकयेत्येताने वास्वेतत्क्लृप्तान् प्राणान् दधाति ' ( श ० ८ | २ | ३ | ३ ) । प्रकारान्तरेण प्राणभृतः प्रशंसति - यद्वेव प्राणभृत इति । आस्वेव प्रजास्विति वैश्वदेवीनां प्रजारूपत्वेन संस्तुतस्वात् तासामनन्तरं प्राणभृतामुपधानेन प्रजासु प्राणान् स्थापितवान् भवति । तासामुपधानमन्त्रान् विधाय संगृह्य तात्पर्यमाह -प्राणं मे इत्यादिना । प्राणं मे पाहीति प्रथमः, अपानं मे पाहीति द्वितीयः, व्यानं मे पाहीति तृतीयः, चक्षुर्म उर्व्या इति चतुर्थो मन्त्रः । हे चतुर्थेष्टके, मे मम चक्षुरुर्ष्या अविकृतया दृष्ट्या विभाहि विशेषेण दीपय । हे पञ्चमेष्टके, मे मम श्रोत्रं श्लोकय श्लाघनं कुरु । अत्र यद्यपि प्रथमेष्टकामन्त्र एव ' प्राणं मे ' इति प्राणलिङ्गमुक्तम्, तथापि छत्रिन्यायेन लिङ्गमात्रमपेक्ष्य सर्वा अपि प्राणभृत इत्युच्यन्ते । ' अथापस्या उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना वृष्टिमेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति ' ( श ० ८ | २ | ३ | ४ ) | अपस्या विधाय प्रशंसति -अथापस्या इति । अब्लिङ्गैर्मन्त्रैरुपधेयत्वादपस्याः । यद्वा वृष्टिमेव चितिमपश्यन्नित्युक्तत्वादभेदादाप एव अपस्याः । ‘ अपस्या उपदधाति । आपो वै वृष्टिर्वृष्टिमेवास्मिन्नेतद्दधाति रेतः सिचोर्वेलयेमे वै रेतः सिचावनयो-स्तद् वृष्टिं दधाति तस्मादनयोर्वर्षति सर्वत उपदधाति सर्वतस्तदृष्टि दधाति तस्मात् सर्वतो वर्षांति सर्वतः समीचीः सर्वतस्तत्समीचीं वृष्टिं दधाति तस्मात् सर्वतः सम्यभूत्वा सर्वाभ्यो दिग्भ्यो वर्षति वायव्या अनूपदधाति बायो तद्दृष्टि दधाति तस्माद्यां दिशं वायुरेति तां दिशं वृष्टिरन्वेति ' ( श ० ८ २३ ५ ) वृष्टिकर्मत्वादाप एव वृष्टिः । वायव्या अनूपदधातीति प्राणभृतामन्वित्यर्थः । शेषं स्पष्टम् । ' यद्वेवापस्या उपदधाति । एष्वेवैतत्प्राणेष्वपो दधाति ता अनन्तर्हिताः प्राणभृद्भघ उपदधात्यनन्तर्हितास्तत्प्राणेभ्योऽपो दधात्यथो अन्नं वा आपोऽनन्तर्हितं तत्प्राणेभ्योऽन्नं दधात्यपः पिन्वौषधोजिन्व द्विपादव चतुष्पात्पाहि दिवो वृष्टिमेरयेत्येता एवैष्वेतत्क्लृप्ता अपो दधाति ' ( श ० ८२३२६ ) | प्रकारान्तरेण स्तौति यद्वेवेति । एष्वेवैतदिति पूर्वोपस्थापितेषु प्राणेष्वापो दधाति, ' आपोमयः प्राणः ' ( छा ० उ ०६।५।४ ) इति श्रुतेः । तासामभावे प्राणाः सीदन्तीत्यतः प्राणेष्वपां निधानं युक्तम् । आसां प्राणभृद्भ्यो व्यवधानाभावं विधत्ते - ता अनन्तर्हिता इति । तेन प्राणानामपां चाव्यवधानं कृतं भवति । अनन्तर्हितत्वस्य परम्परायितं प्रयोजनं दर्शयति- अथो इति । अथो अपि च अन्नं वा एतत् अन्वयव्यतिरेकानुविधायित्वादन्नस्य । तत् तेन अन्नं प्राणेभ्योऽनन्तहितं स्थापितवान् भवति । अपस्यानां मन्त्रान् विधाय संगृह्य तात्पर्यमाह- अपः पिन्वेति । हे इष्टके, त्वमपः पिन्व सेचय । तेन च ओषधीर्त्रीहियवाद्या जिन्व प्रीणय । तदन्तरं हे इष्टके, द्विपात् पादद्वयोपेतं यन्मनुष्यादिकं तद् अव रक्ष । तथा चतुष्पात् पश्वादिकं पाहि पालय । दिवः सकाशाद् वृष्टिमेरय आसर्वतः प्रेरय । इत्येतदिष्टकोपधानेन एता एवापः क्लृप्ताः स्वकार्यं समर्था एष्वेव प्राणेषु दधाति स्थापितवान् भवति । अध्यात्मपक्षे - - हे राजराजेश्वरि त्रिपुरसुन्दरि, त्वमपः पिन्व सेचय । सर्वं पूर्ववद् व्याख्येयम्, आञ्जस्येन प्राणापानव्यानरक्षणस्य तत्रैव सम्भवात् । सैव विशालया अनुग्रहोपेतया दृष्ट्या चक्षुर्दीपयति । सैव च श्रोत्रं
श्लोकयति । भगवत्स्वरूपगुणचरित्रादिश्रवणाव सरशक्त्यादिप्रदानेन श्रोत्रं श्लाघनीयं करोति । सैवापः सेचयति ।
ओषधीः प्रीणयति । द्विपदश्चतुष्पदश्च सैव रक्षति । दिवः सकाशाद् वृष्टि चापि सैव प्रेरयति, तस्या अचिन्त्यानन्तशक्तिमत्त्वात् । दयानन्दस्तु - ' हे पते स्त्रि पुरुष वा त्वमुर्व्या बहुरूपया उत्तमफलप्रदया सह मे प्राणं नाभेरूर्ध्वगामिनं पाहि मेऽपानं यो नाभेर्वाग् गच्छति तं पाहि । मे व्यानं विविधेषु शरीरसन्धिष्वनिति तं पाहि । चक्षुर्म विमाहि ।
पृष्ठ 392
पाठ पढ़ें पाठ छिपाएँ
३५६ शुक्ल यजुर्वेद संहिता [ [ अ ० १४ श्रोत्रं मे श्लोकय शास्त्रश्रवणाय सम्बन्धय । अपः प्राणान् पिन्व पुष्णीहि । किञ्च, ओषधीः सोमयवादीन् जिन्व प्राप्नुहि । गतिकर्माद्विपाद् मनुष्यादीन् अव चतुष्पाद् गवादीन् पाहि । दिवः सूर्यप्रकाशाद् वृष्टिमेरय । यथा सूर्यो दिवो वृष्टि करोति, तथा गृहकृत्यमेरय ' इति, तदपि यत्किञ्चित् सम्बोधनासिद्धेः । किं स्त्रीपुंसादि-प्रार्थनया प्राणादिरक्षणं भवति? तत्रापि किं स्वीयं प्राणादिकं रक्षेति प्रार्थ्यते, प्रार्थयितुर्वा? सर्वस्य वा? नाद्यः 7 रागप्राप्तत्वादुपदेशानपेक्षणात् । नेतरी, तत्राक्षमत्वात् । उर्व्या सह प्राणरक्षणं तु ततोऽप्यसम्भवम् ।
श्लोकय सम्बन्धयेत्यप्ययुक्तम् धात्वर्थविरोधात् । अत एव वृष्टिमेरयेत्यत्रासम्भवदर्थकं समीक्ष्य गौणार्थताङ्गी-कृति दिक ॥ ८ ॥
" मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छन्द॑ क्ष॒त्रं वयो॒ मम॑न्द॒ छन्दो॑ विष्ट॒म्भो व॒योऽधि॑पति॒श्छन्दो॑ वि॒श्वक॑र्मा॒वयः॑ः परमे॒ष्ठी छन्दो॑ व॒स्तो वयो॑ विव॒लं छन्दो वृष्ण॒र्वयो॑ विशालं छन्द॒ पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयोऽना॑धृष्ट॒ छन्द॑ः स ü हो वय॑छ॒दिश्छन्द॑ः पृष्ठ॒वाड् वयो॑ बृह॒तो छन्द उक्षा वयः ककुच्छन्द ऋषभो वर्यः स॒तोबृ॑ह॒ती छन्दः ॥ ९ ॥
: मन्त्रार्थ प्रजापति ने गायत्री छन्द होकर वय द्वारा ब्राह्मण जाति की रचना की है, दु.ख से रक्षा करने वाली क्षत्रिय जाति और सुख देने वाले अनिरुक्त छन्द प्रजापति ही बने हैं । पालन करने वाले जगत् स्तम्भनकर्ता प्रजापति संसार रूप पशु की अवस्था वाले छन्द बने हैं । परम पद में स्थित होने वाले सब के स्रष्टा प्रजापति वय द्वारा छन्द बने हैं, अर्थात् प्रजापति ने छन्द के प्रभाव से विविध कर्मचारी सेवावृतियुक्त शूद्र जाति को उत्पन्न किया है । प्रजापति ने अजा ( बकरी ) जाति को एकपद नामक छन्द से, सेचन में समर्थ मेष ( भेड़ ) पशु को द्विपदा गायत्री छन्द से, किन्नरों की अवस्था को पंक्ति छन्द से, व्याघ्र आदि को विराट् छन्द से, सिंह आदि क्रूर पशुओं को अतिजगती छन्द से, पाँच वर्ष के पीठ पर भार वहन करने वाले पशु को बृहती छन्द से, सांड़ आदि को ककुप् छन्द से और भालू आदि को बारह अक्षर के त्रिपाद वाले सतोबृहती छन्द से उत्पन्न किया है ॥ ९ ॥
' वयस्याः पञ्च पचानुकान्तेषु मूर्धा वय इति प्रतिमन्त्रम् ( का ० श्र ० १७/८/२२ ), ' चतस्रः पुरस्तात् ' ( का ० श्री ० १७७८१२३ ) । दक्षिणोत्तरपश्चिमेष्वनुकान्तेषु पच पच पूर्वे तु चतस्रो वयस्यासंज्ञका इष्टका उपदधातीति सूत्रार्थः । एकोनविंशतिमन्त्रैरे कोनविंशतियजूंषि लिङ्गोक्तदेवत्यानि । वयः शब्दोपेतं मंन्त्र रुपधेया इष्टका वयस्या इत्युच्यन्ते । ता एव छन्दस्या अपि । पुरा खलु विस्रस्तात् प्रजापतेः शरीररूपकोशात् सृष्टाः पशवश्छन्दो रूपमास्थाय निरगच्छन् । प्रजापतिरपि गायत्र्यादिछन्दोरूपं कृत्वा पशुसम्बन्धिन्या तत्तद्वयोऽवस्थया तान् पशूनाप्नोत् । तत्र तावदादौ चतुभिर्मन्त्रैरष्टावयवात्मकं गायत्रीरूपं परिकल्प्यते । एवं गायत्री छन्दो रूपेण परिकल्पितोऽसौ प्रजापतिः स्वयमेव मूर्धा पशुसम्बन्धिशिरो वयः शरीरावस्था । प्रजापतिरेव मूर्धलक्षणं वयोऽभवत् । अत एव मूर्ध्नि इतरावयवेभ्यः प्राधान्यं दृश्यते । यद्वा मूर्धा मूर्धवत्प्रधानः प्रजापतिर्गायत्रीरूपो भूत्वा वयो वयसा, विभक्तिव्यत्यय, कृत्वा पशूनाप्नोदिति शेषः । हे इष्टके, तद्रूपां त्वां दधामीति सर्वत्र योज्यम् । प्रजापतिः स्वयमेव छन्दोऽभवत् । अनेन मन्त्रेण प्रजापतेर्द्वाववयवौ कल्पितौ । क्षत्रं क्षतात् त्रायत इति क्षत्रशब्देन क्षत्रिय जातिगतो बल विशेषो लक्ष्यते । ' क्षत्रं द्रविणं वा ' ( निघ ० २।१०।९ ) । बलमेव तस्य धनमिति यावत् । तादृशं वयः शरीरावस्था प्रजापतिरभवत् । मयन्दं छन्दः, मयं सुखं ददातीति तादृशमनिरुक्तं छन्द । प्रजापतिरभवत् । अधिपतिः अधिकं पालकः, अधिष्ठापयति वा एतदात्मकं छन्दो भवति । विष्टम्भो वयो
पृष्ठ 393
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ] वेदार्थ पारिजातभाष्यसहिता ३५७ विष्टभ्नोति जगत् कृत्स्नं शरीरं वेति तादृशः प्रजापतिर्वयः । वत्तत्पशुवयोऽवस्थावान् छन्दश्च स्वयमेव प्रजापतिरभवत् । विश्वकर्मा विश्वं सर्वं कर्म कर्तव्यं यस्य सः सर्वस्रष्टा प्रजापतिः परमेष्ठी परमे पदे तिष्ठतीति विश्वकर्मा वयश्छन्दश्चाभवत् । एवं प्रतिमन्त्रं द्वौ द्वौ अवयवावित्यष्टावयवः प्रजापित र्गायत्रीरूपः परिकल्पितः । तथा चाष्टसंख्योपेतत्वात् सर्वच्छन्दः प्रकृतिभूतं गायत्रीच्छन्दो भूत्वा वयसा वयोवस्थया वक्ष्यमाणान् पञ्चदश पशून् प्रजापतिरगृह्णात् । वय इति ' सुपां सुलुक् ' ( पा ० सू ० ७ | १ | ३ ९ ) इति तृतीया-विभक्तेर्लुक् । वस्तः अजः । अत्र द्वितीयाविभक्तेः ' सुपां सुलुक ' ( पा ० सू ० ७ | १ | ३ ९ ) इति ' सु ' आदेशः । वस्तः अजः पशुः विवलं विविधं विशिष्टं वा बलं वरम् उत्कृष्टुं वा विवलं छन्दोरूपमास्थाय उदक्रामत् । तं प्रजापतिर्गायत्रीरूपेण वयसा आप्नोत् । अथवा विबलं श्रुत्यनुसारं विबलं विगतं बलं यस्य तद् एकपदं च्छन्दो भूत्वा द्वितीयपदाभावादर्थापरिसमाप्तेरर्थावबोधनाक्षमत्वात् ' एषा वै सा गायत्री या तद् भूत्वा प्रजापतिरेतान् पशून् वयसाप्नोत् ' ( श ० ८ | २ | ३ | १४ ) इति श्रुतेः । एवमुत्तरमन्त्रेष्वपि विभक्तिविपरिणामं कृत्वा प्रजापति -स्तत्तच्छन्दो रूपमास्थाय तत्तद्वयसा तांस्तान् पशून् जग्राहेति योज्यम् । वृष्णिवंयः, विशालं छन्दः, विशालं द्विपदा गायत्री छन्दो भूत्वा वृष्णि सेचनसमर्थं मेषं वयसा जग्राह । एकपदापेक्षया द्विपदा गायत्रीच्छन्दो विशाल-मुच्यते । पुरुषो वयस्तन्द्रं छन्दः, तन्द्र पङ्क्तिश्छन्दो भूत्वा उत्क्रान्तं पुरुषं पशुं वयसाप्नोत् । अनाधृष्टं विराट्छन्दो भूत्वा उत्क्रान्तं व्याघ्रं पशुं वयसा अग्रहीत् । सिंहो वयश्छदिश्छन्दः । छादयतीति छदिः, अतिच्छन्दा छन्दो भूत्वा उत्क्रान्तं सिंहं पशुं वयसाऽग्रहीत् । पृष्टवाड् वयः, बृहतीछन्दः । पृष्ठे पृष्ठभागे वहतीति पञ्चवर्षः पशुः, वृहतीच्छन्दो भूत्वा उत्क्रान्तं पृष्ठवाहं पशुं वयसाग्रहीत् । उक्षा वयः ककुप्छन्दः । उक्षा सेचनसमर्थः पशुः ककुप्छन्दो भूत्वा उत्क्रान्तमुक्षाण पशुं वयसा अगृह्णात् । यस्या आद्यन्तावष्टाक्षरी पादो, मध्यमो द्वादशाक्षरः सा ककुप् ऋषभो वयः सतोबृहतीछन्दः । ऋषभः सेचनसमर्थोऽनड्वान् । सतोबृहतीछन्दो भूत्वा उत्क्रान्तमृषभं पशुं वयसाऽग्रहीत् । द्वादशाक्षर त्रिपादा सतोबृहती । अत्र ब्राह्मणम् -- ' अथ छन्दस्या उपदधाति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति । चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमानाः पशूनेव चितिमपश्यंस्तामस्मिन्नदधुस्तथैवास्मिन्नयमेतद्दधाति ' ( श ० ८।२।३।७ ) । छन्दस्येष्टका विधाय प्रशंसति -अथ छन्दस्या इत्यादिना । चेतयमाना देवाः पशूनेव चितित्वेनापश्यन् । तां च पशुरूषां चितिमस्मिन् द्वितीयचयनेऽदधुः । अयं यजमानोऽपि तथैवास्मिन्नेतदिदानीं दधाति स्थापयति । ' छन्दस्या उपदधाति । पशवो वै छन्दा सि पशूनेवास्मिन्नेतद्दधाति सर्वत उपदधाति सर्वतस्तत्पशून् दधाति तस्मात् सर्वतः पशवोऽपस्या अनूपदधात्यप्सु तत्पशून् प्रतिष्ठापयति तस्माद्यदा वर्षत्यथ पशवः प्रतितिष्ठन्ति ' ( श ० ८ | २ | ३ | ८ ) । छन्दः शब्देन पशवो विवक्षिता इति दर्शयति - पशवो वै छन्दांसीति । एतासामपस्या सान्निध्यं विधाय प्रशंसति -- अपस्या अन्विति । तत् तेन अपस्यानन्तर्येण अप्सु उपजीवनीयासु पशून् प्रतिष्ठापयति स्थिरीकरोति । इदानीन्तनी या वृष्टिसमनन्तरभाविनी पशूनां प्रतिष्ठा साप्यपस्या, छन्दस्यानां मेलनप्रयुक्तेति दर्शयति - तस्माद्यदा वर्षति तदा पशवः प्रतितिष्ठन्तीति । ' यद्वेव छन्दस्या उपदधाति । प्रजापतेवित्रस्तात्पशव उदक्रामंश्छन्दासि भूत्वा तान् गायत्री छन्दो भूत्वा वयसाप्नोत्तद्यद् गायत्र्याप्नोदेतद्धि छन्द आशिष्ठ, सा तद्भूत्वा प्रजापतिरेतान् पशून् वयसाप्नोत् ' ( श ० ८२२३२ ९ ) । छन्दस्यानां पशुरूपत्वेन स्तुतिः कृता । पुनस्तामेव पशुरूपतां ज्येष्ठां दर्शयति - यद्वेव छन्दस्या इति । प्रजापतेवित्रस्ताद् विश्लिष्टाङ्गात् पशवो वक्ष्यमाणा अजादिलक्षणा उदक्रामन् । केन रूपेणेति चेत्, छन्दांसि भूत्वा वक्ष्यमाणाविवला दिछन्दो रूपमास्थाय । तान् उद्गतान् पशून् गायत्री छन्दो भूत्वा वयसा तत्तन्निर्गतपशुचितस्वशरीरपरिणामेन परिणतो भूत्वा । शीघ्रं आप्नोत् या पूर्वमन्तर्गतान् पशून् पुनः स्वस्मिन् कृतवान् । गायत्र्या यदाशुतरत्वं तद् गायत्रीद्वारा प्रजापतिना
पृष्ठ 394
पाठ पढ़ें पाठ छिपाएँ
३५८ [ अं ० १४ सर्व पश्याप्तिस्तन्मूलमिति दर्शयति - तद्यद् गायत्र्याप्तोदिति । यस्माद् गायत्र्यैव सर्वान् पशूनाप्नोत् तस्मादेतच्छन्दो गायत्र्याख्यम् आशिष्ठम् आशुतरं हि श्रुत्या स्वयं प्रतिपादितोऽर्थः । पूर्वं तथासीदिति श्रुतिराह -. सा तद्भूत्वेति । तत् तदा पूर्व प्रजापतिः सा गायत्री भूत्वा एतान् पशून् वयसाप्नोत् । ' मूर्धा वय इति । प्रजापतिर्वै मूर्धा स वयोऽभवत् प्रजापतिश्छन्द इति प्रजापतिरेव च्छन्दोऽभवत् ' ( श ० ८२३१० ) । इत्थमिष्टकानां पशुरूपतामुपपाद्य पूर्वदिश्युपधेयानां चतसृणामिष्टकानां मन्त्रान् विधाय व्याख्या-स्यन् अर्थान्निष्पन्नं गायत्रीरूपमिष्टमपि दर्शयति-- मूर्धा वय इत्यादिना । प्रजापतिर्वे मूर्धा, स त्रयोऽभवदिति, उत्तरतस्तत्प्राप्तव्य पशुचिता वयोविशेषास्तेन तेन प्राप्तव्यास्तत्तच्छन्दोरूपाः पशवश्च वक्ष्यन्ते । अत्र तावत्तानि वयांसि तानि छन्दांसि सामान्येन प्रजा एवेति प्रतिपाद्यते । यथा प्रजापतिः सर्वेषां प्रधानम्, तथा मूर्धापि सर्वेषामङ्गानां प्रधानमिति प्राधान्येन विवक्षितत्वात् प्रजापतिरेव मूर्धेत्युच्यते । एवमुत्तरवाक्येष्वपि तत्तदुपचारबीजं द्रष्टव्यम् । वयोऽभवद् वयस्वानभवदित्यर्थः । यद्वा स प्रजापतिर्वै प्रसिद्धः प्रजापतिर्ननु मूर्धावयोऽभवत् । मूर्धरूप मत्युत्कृष्टं वयोऽभवत् । एवमुत्र मन्त्रत्रयेऽपि योज्यम् । प्रजापतिश्छन्द इति । प्रजापतिरेव वक्ष्यमाणं तद्विवलं छन्दोऽभवत् । अथवा प्रजापतिरेव छन्दः प्राजापत्याख्यं छन्दोऽभवदित्यर्थः । ' क्षत्रं वय इति । प्रमापति क्षत्र स वयोऽभव-न्मयन्दं छन्द इति यद्वा अनिरुक्तं तन्मयन्दमनिरुक्तो वै प्रजापतिः प्रजापतिरेव च्छन्दोऽभवत् ' ( श ० ८ | २ | ३ | ११ ) । क्षत्रं वय इति क्षत्रियजातितया बलविशेषो लक्ष्यते, तछ्योरूपमत्यसृजत क्षत्रम् ' ( बृ ० उ ० १।४।११ इत्यादिश्रुतेः । अथवा क्षत्रमिति द्रविणनाम ( निध ० २ १० १ ९ ) । बलमेव क्षत्रस्य द्रविणम् । शरीरपरिणामेन तद्रूपं ) प्राप्त इत्यर्थः । मयन्दं छन्द इति । मय इति मुखनाम ( निघ ० ३।५०७ ), तद्ददातीति मयन्दम् । अस्य प्रजापति -रूपत्वे वीजमाह - यद्वा अनिरुक्तं तन्मयन्द इति । सुखदस्वरूपस्य विशेषेण अनभिधानाद् लोकेऽपीदृक् सुखद-मित्यविशेषितम्, सामान्येन मयन्दमिति व्यवहृतत्वादिदमनिरुक्तम् । प्रजापतेस्तु सर्वात्मकत्वाद् विशेषेण निर्वक्तु-मशक्यत्वादनिरुक्तत्वम् । ' विष्टम्भो वय इति । प्रजापतिर्वै विष्टम्भः स वयोऽभवदधिपतिश्छन्द इति प्रजापतिर्वा अधिपतिः प्रजापतिरेव च्छन्दोऽभवत् ' ( श ० ८ | २ | ३ | १२ ) । अत्र प्रजापतिर्वै विष्टम्भ इति वैशन्देन ' विष्टम्भो धरुणः पृथिव्या: ' इत्यादिसर्वश्रुतिगता प्रजापतेः सर्वजगदवलम्बन प्रसिद्धिर्धोत्यते । अधिपतिश्छन्द इत्यत्र प्रजापतेः सर्वाधिपतित्वम् ' सर्वस्याधिपतिः सर्वस्येशान: ' ( बृ ० उ ० ४।४।२२ ) इत्यादिश्रुतिप्रसिद्धमुक्तम् । ' विश्वकर्मा वय इति । प्रजापतिर्वै विश्वकर्मा स वयोऽभवत् परमेष्ठी छन्द इत्यापो वै प्रजापतिः परमेष्ठी ता हि परमे स्थाने तिष्ठन्ति प्रजापतिरेव परमेष्ठी छन्दोऽभवत् ' ( श ० ८ | ३ | १३ ) । अत्र प्रजापतिर्वै विश्वकर्मा इति प्रजापतेविश्व-कर्मत्वम् ' यइमा विश्वा भुवनानि जुह्वत् ', ' यतो भूमिं जनयन् विश्वकर्मा ' इत्यादिप्रसिद्धि दर्शयति । अत्र प्रजापतेः परमेष्ठित्वं शब्दद्वारकमिति दर्शयति-- आपो वै प्रजापतिः परमेष्ठीति । जगत्सृष्टेः पूर्वमपां सर्जनात् तदभेदेनापां परमेष्ठिरूपप्रजापति रूपत्वम् । अपामस्तु प्रजापतिरूपत्वमभेदात् कथं पुनस्तासां परमेष्ठित्वमिति तद्दर्शयति हि परमे स्थाने तिष्ठन्तीति, ' आदित्याज्जायते वृष्टि: ' ( म ० स्मृ ० ३७६ ) इति स्मृतेः, ' दिवो वृष्टिमेरय - ता सं ० १४ ८ ), ' दिवो ह्यापः सन्ना: ' इत्यादिश्रुतेश्च वृष्टेः परमस्थानभूतद्युसम्बन्धः । ' ( वा ० ' तानि वा एतानि । चत्वारि वया सि चत्वारि छन्दा ९ सि तदष्टावष्टाक्षरा गायत्र्येषा वै सा गायत्री या तद् भूत्वा प्रजापतिरेतान् पशून् वयसाप्नोत् तस्माज्जीर्णं पशुं वयसाप्त इत्याचक्षते तस्मादु सर्वास्वेव वयो वय इत्यनुवर्ततेऽथ येऽस्मात्ते पशव उदक्रामन्नेते ते पञ्चदशोत्तरे वज्रो वै पशवो वज्रः पञ्चदशस्तस्माद्यस्य भवन्त्यपैव स पाप्मान, हते वज्रो हैव तस्य पाप्मानमपहन्ति तस्माद्यां कां च दिशं पशुमानेति वज्रविहताध् पशवो हैव तामन्वेति ' ( श ० ८ २ ३ | १४ ) । तान् गायत्री छन्दो भूत्वेति यद् गायत्रीछन्द उक्तं तदिदानीं सम्पाद्य तानि वा एतानि चत्वारि वयांसीत्यादिना । एषा वै सा गायत्रोति । एषेतीदानीं सम्पादितप्रकारा दर्शयति- गायत्रीया
पृष्ठ 395
पाठ पढ़ें पाठ छिपाएँ
] वेदार्थपारिजातभाष्यसहिता ३५ ९ प्राङनिर्दिष्टा सा खल | साकेति तामाह- या तद् भृत्वा प्रजापतिरिति । प्रजापतिर्याद भूत्वा पशूनाप्नोत सेत्यर्थः । ' वयोऽभवत '. ' वयोऽभवत् ' इति या प्रजापतेर्वयस आभिरुक्ता सा इदानीन्तनव्यवहारस्य मूलमिति दर्शयति-तस्माज्जीर्ण पशं वयसाप्त इत्याचक्षन इति । यथा जीणं वृद्धं पशं दृष्ट्वाऽसौ प्रभूतेन वयसाप्त इतीदानीं ब्रते, तथा पूर्वमपि प्रजापतिर्वय साप्नोदिति एष सत्यवादः । तस्माद् तस्मादेव वयसाप्तत्वादेव पशुस्थानीयासु सर्वास्वपीकास र्धा क्यः, वस्तो वय इत्येवं वयः शब्दोऽनुवर्तते । इत्थं गायत्र्यात्मना सम्पन्नेन मन्त्रचतुष्टयेन आप्तस्य प्रजापतेः स्वरूपं दर्शितम् । अथाप्तव्यानां पशूनां स्वरूपं सामान्येन निर्दिशन्ती श्रुतिः पशूंस्तद्गतसंख्यां च प्रशंसति — अथ मादिति । अस्माद् वित्रस्तात् प्रजापत्यङ्गाद् ये पशव उदक्रामन्, एते ते प्रसिद्धा वक्ष्यमाणा बस्तादय इत्यर्थः । के ते? कियन्तो वा? पञ्चदशेत्युत्तरम् । पञ्चदशस्तोमस्य प्रजापतेः सारभूतांशबाहुलक्षणावयवेभ्य उत्पन्नत्वाद्वा बोधसाधनत्वाद् वज्रत्वम् । पशूनां वज्रत्वं स्वयमेव दर्शयति तस्माद्यस्य पशवो भवन्तीति । पाप्मानं क्षुद्दारिद्रयलक्षणं स पशुमान् अपहत एव भवति । वज्रो हैव वज्रः खलु तस्य पाप्मानमपहन्ति । अतो यद्धनन-साधनं तद् वज्रमिति सिद्धोऽर्थः । युक्तिभिरुपपादितमर्थं लोकस्थित्या द्रढयति - तस्माद्यां कां चेति । तां दिशं वज्रविहतामेवान्वेति 1 पशुभिरुपक्रान्तस्य वर्त्मनोऽप्रतिहतत्वात् । ' वस्त व इति । वस्तं वयसाप्नोत् विवलं छन्द इत्येकपदा वै विवलं छन्द एकपदा ह भूत्वाऽजा उच्चक्रमुः ' ( श ० ८ | २ | ४ | १ ) । ' पञ्चदशोत्तरे ' इति ये पशवः संग्रहेण निर्दिष्टाः तानिदानीं दक्षिणोत्तरपश्चिम क्षुि क्रमेणोपधेयेष्टकानां मन्त्रव्याख्यानप्रसङ्गेन दर्शयति-- बस्तो वय इत्यादिना । बस्तः अजजातिः शरीरपरिमाण-विशेषः, वयो बस्ताकारः शरीरपरिमाणो बस्ततया प्रजापतिना स्वीकृत इत्यर्थः, ' अजेतराऽभवद् वस्त इतर ' इति श्रुतेः । ' स्तं वयसाप्नोत् ' इति तात्पर्यंतो व्याख्यानं बस्तोचितवयो धत्वा बस्तमाप्नोति । ब्राह्मणं तु मन्त्रयविभक्ति विपरिणमय्य व्याचष्टे - बस्तः, बस्तमित्यर्थं । वयः, वयसेत्यर्थः । वयसा बस्तमाप्नोदिति वाक्यार्थः । एवं सर्वत्र व्याख्येयम् । एवं स्वाभाविकं पशूनां रूपमभिधाय उत्क्रमणसमये छन्दोरूपेण उत्क्रान्तत्वात् तद्रूपप्राप्तिमाह - विवलं छन्द इति । स्वीकृतवानिति शेषः । एतद् व्याचष्टे - एकपदा वै विवलं छन्द इति । विगतं बलं यस्या एकपदायाः सकाशादित्येकपदा वाग् विवलं छन्दः । पदद्वयाभावाद् एकपदाया विवलछन्दोरूपता युक्ता, अर्थापरिसमाप्तेः । ननु बस्तापरपर्यायेष्वजेषूत्क्रान्तेषु विवलच्छन्दोऽत्राप्तिः कुत्रोपयुज्यते? इत्यत आह - एकपदा ह भूत्वाऽजा उच्चक्रमुरिति । एवमुत्तरत्र तत्तच्छन्दोवाक्यानि व्याख्येयानि । ' वृष्णिवंय इति । वृष्णि वयसाप्नोद्विशालं छन्द इति द्विपदा वै विशालं छन्दो द्विपदा ह भूत्वा वय उच्चक्रमुः ' ( श ० ८ | २ | ४ | २ ) । वृष्णिनामा अविजातिः । व्याख्या पूर्ववत् । विशालं छन्द इति । अत्र द्विपदा वै विशालं छन्द इति द्विपदायामृचि पादद्वयसद्भावादेकपदापेक्षया युक्ता विशालछन्दोरूपता । उत्क्रमणसमयेऽवीनां द्विपदारूपाश्रयणाद् द्विपदारूपस्य विशालच्छन्दस आप्तिः प्रजापतेर्युक्तव । ' पुरुषो वय इति । पुरुषं वयसाप्नोत्तन्द्र छन्द इति पङ्क्तिर्वै तन्द्र छन्दः पङ्क्ति भूत्वा पुरुषा उच्चक्रमुः ' ( श ० ८ | २ | ४ | ३ ) । ' व्याघ्रो वय इति । व्याघ्रं वयसाप्नोदनाधृष्टं छन्द इति विराड़वा ' ' ' ' छन्दोऽन्नं वं विराजन्नमनाधृष्टं विराड्ढ भूत्वा व्याघ्रा उच्चक्रमुः ' ( श ० ८ २ २४ ४ ) । वयसाप्नुव्यस्य व्याघ्रस्यानाधृष्टत्वात् तदीयस्य छन्दसोऽप्यनाधृष्टत्वेनैव भवितव्यमित्येतद् व्याचष्टे - विराड्वा अनाधृष्टं छन्द इति । विराट्छन्दोऽन्नात्मना स्तौति – अन्नं वै विराडिति । अन्नत्वेन स्तुती बीजमनाधृष्टत्वसाम्यमिति दर्शयति-अन्नमनाधृष्टमिति । अन्नस्य धर्षणायोग्यत्वं सर्वप्रसिद्धम् । ' सि हो वय इति । सिहं वयसाप्नोच्छदिश्छन्द इत्यतिच्छन्दा वै छदिश्छन्दः सा हि सर्वाणि छन्दासि छादयत्यति च्छन्दा ह भूत्वा सि हा उच्चक्रमुरथातो निरुक्तानेव पशुनिरुक्तानि च्छन्दा, स्युपदधाति '
पृष्ठ 396
पाठ पढ़ें पाठ छिपाएँ
३६० शुक्लयजुर्वेदसंहिता [ अ ० १४ ( श ० ८ | २ | ४ | ५ ) । छर्दिश्छन्द इति । सर्वेषां च्छन्दसामाच्छादकम्, न चैकपदा द्विपदा पङिक्तरित्येवमादीनि छन्दांसि यथा प्रसिद्धानि तादृशमिव छदिश्छन्दः, अतस्तस्यार्थमाह- अतिच्छन्दा वे छदिश्छन्द इति । यथा सिंहः सर्वान् पशूनतीत्य वर्तते, एवं तद्रूपं छन्छोऽप्यतिच्छन्दा इति यक्तम्! कृतस्तस्यातिच्छन्दस्त्वमिति तत्राह- इ- सा हि सर्वाणि छन्दांसि छादयतीति । सर्वाण्यतिजगत्यादीनि छन्दांसि ' सा ' इति तच्छन्दो-बहामृचमपेक्ष्य स्त्रीलिङ्गता । अस्याश्च इतो न्यूनच्छन्दसामन्तर्भावादतिच्छन्दस्त्वव्यपदेशः । अर्थात् छादनात् छदिरिति व्युत्पत्तिः प्रदर्शिता भवति । इत्थं दक्षिणत उपधेयानां पञ्चानामिष्टकानां पञ्च मन्त्रा व्याख्याताः । अर्थ सरतः पश्चाच्चोपधेयानां दशानामिष्टकानां मन्त्रान् विधाय व्याचिख्यासूरुतेभ्यो वक्ष्यमाणानां किञ्चि-लक्षण्यमाह- अथातो निरुक्तानेव पशुनिरुक्तानि च्छन्दांस्युपदधातीति । उक्तवैलक्षण्य द्योतनार्थमथशब्दः । पूर्वत्र पशवो निरुक्ता अजाव्यादयः, छन्दांसि विवलादीन्यनिरुक्तान्यक्तानि । यद्वा पूर्वत्र छन्दांसि पशवश्चेत्यू -भयमप्यनिरुक्तम्, उत्तरत्र निरुक्तमिति विशेषः । पूर्वं हि प्रजापतिएछन्दः मयन्दं छन्द इत्युक्तत्वाच्छन्दसां मध्ये प्रजापतिमयन्दादेरपि गणनात् । वक्ष्यमाणास्तु पष्ठवाडादयस्तद्भेदयुक्ता निरुक्ता एवं छन्दांस्यपि बृहती-ककुबादीनि निरुक्तान्येव । अत उत्तरत्र निरुक्तानेव पशून् निरुक्तानि छन्दांस्युपदध्यात् । ' पष्टवाड् वय इति । पष्ठवाहं वयसाप्नोद् बृहती छन्द इति बृहती है भूत्वा पष्ठवाह उच्चक्रमः ' ( श ० ८।२।४।६ ) । तत्र प्रथमं परां छन्दश्च निरुक्तं दर्शयति- पष्ठवाडित्यादिना । पष्ठं पृष्ठभागः । तत्र भारं वोढुं शक्तः पष्ठवाट् तं पष्ठवाहं प्रजापतिराप्तव्य पष्ठवाड् योऽयं वयः शरीरविकारं प्राप्तवानित्यर्थः । बृहती छन्द इति बृहती ककुबादीनि छन्दांसि प्रसिद्धानि । बृहतीरूपेणोत्क्रान्तत्वात् प्रजापतिरपि बृहतोच्छन्दोऽभूदित्यर्थः । ' उक्षा वय इति । उक्षाणं वाप्नोत् कुप् छन्द इति ककुब्भ भूत्वोक्षाण उच्चक्रमुः ' ( श ० ८ १२.४७ ) | सेचनसमर्थ: पशुरुक्षा । कुप् छन्द इति । ' ककुन्मध्ये चेदन्त्यः ' ( पि ० छ ० ३।१ ९ ) । गायत्रयोः पादयोर्मध्ये जागतश्चेत्पादो भवति, तदा सा उष्णिक् ककुपसंज्ञां लभत इति तदर्थः । अष्टाक्षरयोर्मध्ये द्वादशाक्षर इति भावः । ' ऋषभो वय इति । ऋषभं वयसाप्नोत् सतोबृहती छन्द इति सतोबृहती है भूत्वर्षभा उच्चक्रमुः ' ( श ० ८।२।४८ ) । ऋषभस्ततोऽप्युत्कृष्टवयाः । सतोबृहती छन्द इति । आद्यतृतीयो पादो द्वादशाक्षरो द्वितीयचतुथों अष्टाक्षरौ चेत्सा सतो बृहतीनाम बृहत्यवान्तरविशेषः । ' अयुजो जागतो सतोबृहती ' इति तल्लक्षणमिति सायणाचार्यः । पिङ्गलछन्दः सूत्रे तु - त्रिभिजगत महाबृहनी ' ( पि ० छ ० ३।३५ ) । त्रिभिर्जागतः पादैश्छन्दो महाबृहती नामेति तदर्थं इति हलायुधः । ' सतोबृहती ताण्डिन: ' ( पि ० छ ० ३ | ३६ ) । इयमेव महाबृहती ताण्डिन आचार्यस्य मतेन सतोबृहती नामेति तदर्थः । अध्यात्मपक्षे - प्रजापतिः परमेश्वरो मूर्धा सर्वेषां प्रधानश्छन्दः स्वतन्त्रो वयो वयस्वान् तत्तच्छरीरा-वस्थावान् जात इति शेषः । स एव क्षत्रं क्षत्रियजातिगतं बलं तदनुगुणं वयो मयन्दं सुखकरं छन्दः स्वातन्त्र्यं च गतवानिति शेषः । स एव विष्टम्भो जगद्धारकः । अधिपती राजादिः, तदुचितवयोऽवस्थावान्, छन्दस्त-दुचितस्वातन्त्र्योपेतः, अभवदिति शेषः । प्रजापतिरेव परमेष्ठी परमे उत्कृष्टे ब्रह्मादिपदे स्थितः सन् विश्वकर्मा विश्वस्रष्टा भूत्वा तदुचित शरीरावस्थास्वातन्त्र्योपेतोऽभवत् । स एव बस्तः, अजस्तदुचितवयस्वान् विवलं छन्दो विगतबलस्वाच्छन्द्योऽभवत् । स एव वृष्णिर्मेष:, तदुचितवयस्त्रान् पूर्वापेक्षया विशालस्वातन्त्र्योऽभवत् । स एव पुरुषो मनुष्यस्तदुचितवयोऽवस्थावान् तन्द्रं पङ्क्तिश्छन्दः स्तुतोऽभवत् । स एव व्याघ्रस्तदनुगुणवयस्वान् विराट्छन्दः स्तुतोऽभवत् । तथैव सिंहस्तदनुगुणवयस्वान् अतिच्छन्दः स्तुतोऽभवत् । पष्ठवाडुष्ट्रादि तदनुगुणवयस्वान् बृहतीछन्दः स्तुतोऽभवत् । उक्षा तदनुगुणवयस्वान् । अन्यानि वाक्यानि रीत्याऽनया व्याख्येयानि ।
पृष्ठ 397
पाठ पढ़ें पाठ छिपाएँ
म ० ९ -१० ] वेदार्थ पारिजातभाष्यसंहिता ३६१ दयानन्दस्तु -- ' हे स्त्रि पुरुष वा, मूर्धा मूर्धवदुत्तमं ब्राह्मणकुलं प्रजापतिरिव च वयः कमनीयं मयन्दं यन्मयं सुखं ददाति तत् छन्दो विद्या धर्मः शमादिकं क्षत्रं क्षत्रियकुलमेरय । विष्टम्भो विशो वैश्यस्य विष्टम्भो रक्षणं येन सः । अधिपतिः अधिष्ठातेव त्वं वयो न्यायविनयपराक्रमव्याप्तं छन्दो बलयुक्तमेश्य | विश्वकर्मा अखिलोत्तरकर्मकर्ता राजा परमेष्ठीव सर्वेषां स्वामीव त्वं वयः कमिता छन्दः स्वाधीन एरय । बस्तो व्यवहारैराच्छादित इव त्वं वयो विविधव्यवहारव्यापी विबलं विविधं बलं यस्मात् तच्छन्द एरय । वृष्णिः सुखसेचकस्त्वं विशालं विस्तीर्णं छन्दः स्वाच्छन्द्यम् एरय । पुरुषः पुरुषार्थयुक्त डव त्वं वयः सुखप्रापकं तन्द्रं कुटुम्बधारणं ' तत्रि कुटुम्बधारणे ' छन्दो बलम् एरय । व्याघ्र इव त्वं यो विविधान समन्ताद जिघ्रति स इव त्वं वयः कमनीयम् अनाधं धाष्टयं छन्दो बलम् एग्य । सिंह: यो हिनस्ति पण्वादीन से हव त्वं वयः पराक्रमं छदिर् अपवारणं छन्दः प्रदीपनम् एरय । पष्ठवाडिव यः पृष्ठेन वहत्यष्ट्रादिः स डव त्वं बृहती महत्त्वं वयो बलवान् छन्दः पराक्रमम् एरय । उक्षेव सेचको वृषभ इव त्वं वयो बलिष्ठः ककूप दिशश्छन्द आनन्दम एरय । ऋषभ इव गतिमान् पशुरिव त्वं वयो बलिष्ठः सतोबृहतीछन्दः स्वातन्त्र्यमेरय ' इनि, तत्सर्वमसङ्गतमेव, सम्बोधनस्य निर्मूलत्वात्, गौणार्थाश्रयणात् मुख्यार्थत्यागात्, वयश्छन्दआदिपदानां निर्मूलशब्दार्थ कल्पना बाहल्याच्च, श्रुति सूत्रविरोधाच्च । ' तद्यानि वर्षिष्ठानि छन्दा सि । स्थविष्ठाः पशवस्तान्मध्य उपदधाति मध्यं तत्प्रति पशुं वरिष्ठं करोति तस्मान्मध्यं प्रति पशुर्बरिष्ठोऽथ ये वीर्यवत्तमाः पशवस्तान् दक्षिणत उपदधाति दक्षिणं तदर्ध पशोर्वीर्यवत्तरं करोति तस्मादक्षिणोऽर्धः पशोर्वीर्यवत्तरः ' ( श ० ८ | २ | ४ | १ ९ ) इत्यादिश्रुतिभिः स्पष्टमेव छन्दसां पशूनां च सम्बन्धे छन्दस्वानामिष्टकानां चयने उपधानमुक्तम् ॥ ॥ ९ ॥
अनड्वान्वर्यः प॒ङ्क्तश्छन्दो॑ धे॒नुर्व॑यो॒ जग॑तीच्छन्द॒स्त्र्यवि॒र्वय॑स्त्रष्टुप् छन्दो॑ दित्य॒वाड्व यौ विराट् छन्दः पञ्च वि॒र्वयो॑ गाय॒त्रीच्छन्द॑स्त्रव॒त्सो धर्य उष्णिक छन्द॑स्त॒र्य॒ वाक्यनुष्टुप छन्दो॑ लो॒कं ता इन्द्र॑म् ॥ १० ॥
मन्त्रार्थ - प्रजापति ने पंक्ति छन्द से बलीवर्द को, जगती छन्द से धेनु को, त्रिष्टुप् छन्द से पशु को, विराट् छन्द से धान्य वहन करने वाले पशुओं को, गायत्री छन्द से ढाई वर्ष के पशुओं को, तीन वर्ष के पशुओं को और अनुष्टुप् छन्द से चार वर्ष के पशुओं को उत्पन्न किया ॥ १० ॥
अठारह मास के उष्णिक छन्द से अनड्वान् अनः शकटं वहतीति तथोक्तो बलीवर्दः पङ्क्ति छन्दो भूत्वा उत्क्रान्तमनडवाहं पशं वयसाग्रहीत् । धेनुर्नवप्रसूता सवत्सा गौर्जंगतीच्छन्दो भूत्वा उत्क्रान्ता, तां वयसाऽग्रहीत् । षण्मासात्मकः कालोऽवि: षडभिर्मासः खलु ता जायन्त इत्यविशब्देन गर्भधारणं प्रारभ्य प्रसवपर्यन्तः षण्मासकालो लक्ष्यते । तिस्रोऽवयोऽस्येति त्र्यविरष्टादशमासात्मकः पशुस्त्रिष्टुप् छन्दो भूत्वोत्क्रान्तः तं वयसाऽग्रहीत् । दित्यवाड् दिति खण्डनमर्हतीति दित्यं धान्यं तद्वहतीति दित्यवाट्, यद्वा द्विवर्षः पशुदित्यवाट्, विराटछन्दो भृत्वोत्क्रान्तः तं पशुं वयसाऽग्रहीत् । पश्चाविः पञ्चावयो यस्य सः सार्धद्विवर्षः पशुर्गायत्रीच्छन्दो भूत्वोत्क्रान्तः तं वयसा पर्यगृह्णात् । त्रिवत्सो वत्सो नवमासात्मकः कालः, त्रयो वत्सा यस्यासी त्रिवत्सः पशुरुष्णिक छन्दो भूत्वा उत्क्रान्तः तं वयसा जग्राह । तुर्यवाट् तुयं चतुथं वर्षं वहतीति तथोक्तश्चतुर्वर्षः पशुः, अनुष्टुप छन्दो भूत्वा उत्क्रान्तः, तं प्रजा-पतिर्वयसा जग्राह । एवं श्रुत्यनुसारेण मन्त्रा व्याख्याताः । ' दक्षिणश्रोणेरधि लोकम्पूणाः पूर्ववत् ' ( का ० श्री ० १७।८।२५ ) । दक्षिणश्रोणेरारभ्य पूर्ववत् प्रथमं द्वे ततो दश दश लोकम्पृणाः प्रदक्षिणमुपदध्यात् ततः पूर्ववत् पक्षपुच्छ्चयनम्, ततः पुरीषनिवापः सप्तर्चोपस्थानं चेति सूत्रार्थः । II
पृष्ठ 398
पाठ पढ़ें पाठ छिपाएँ
३६२ शुक्लयजुर्वेदसंहिता [ ० १४ अत्र ब्राह्मणम् -- ' अनड्वान् वय इति । अनड्वाहं वयसात्मोत् पङ्क्तिश्छन्द इति पङ्क्तिर्ह भूत्वाऽनड्वाह उच्चक्रमुः ' ( श ० ८ | २ | ४१ ९ ) । अनो वहनसमर्थोऽनड्वान् । अष्टाक्षरपञ्चपदा पङ्क्तिः । धेनुवंय इति वयसाप्नोज्जगती च्छन्द इति जगती ह भूत्वा धेनव उच्चक्रमुः ' ( श ० ८ | २ | ४ | १० ) । धेनुनवप्रसूतिका । धेनंं रिंशदक्षरा जगती । ' त्र्यविर्वय इति । त्र्यवि वयसाप्नोत् त्रिष्टुप्छन्द इति त्रिष्टुब्भभूत्वा । अष्टाचत्वा-त्र्यवय उच्चक्रमुः ' ( श ० ८ | २ | ४ | ११ ) | पश्चादुपधेयानां मन्त्रानाह - त्र्यविवंय इति । त्रेधा मनसा वाचा कर्मणा अवतीति त्र्यविः वार्षिको वा अविस्त्र्यविः । त्रिष्टुप्छन्द इति । चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । ' दित्यवाड् वय, वयसाप्नोद् विराट्छन्द इति विराड़ढ भूत्वा दित्यवाह उच्चक्रमुः ' ( श ० ८ | २ | ४ | १२ ) । दित्यवा इति । दित्यवाहं खण्डनम्, तदर्हतीति दित्यं धान्यम्, तद्वहतीति तथोक्तः । अल्पानल्पवाहक इत्यर्थः दितिरथ-' पञ्चाविषय इति । पञ्चावि वयसाप्नोद् गायत्री छन्द इति गायत्री ह । दशाक्षरा विराट । ८ । २ । ४ । १३ ) । पञ्चाविवय इति । पञ्चवार्षिकोऽत्यन्तवर्षीयान् वा अविः । भूत्वा गायत्री पञ्चावय छन्द उच्चक्रमुः ' ( श गायत्री । ' त्रिवत्सो वय इति । त्रिवत्सं वयसाप्नोदुष्णिक् छन्द इत्युष्णग्ध इति चतुर्विंशत्यक्षरा ( श ० ८ | २ | ४ | १४ ) । त्रिवत्सस्त्रयो वत्सा यस्य साम्येन शक्ताः स त्रिवत्सः । भूत्वा उष्णिग् त्रिवत्स! उच्चक्रम् ः ' ' वाड् वय इति । तुर्यवाहं वयसाप्नोदनुष्टुप्छन्द इत्यनुष्टुब्भ भूत्वा तुयंवाह उच्चक्रमुः ' ( श ० अष्टाविंशत्यक्षरा ८ | । अनआदेरग्रतः प्रविश्य तुर्यत्वेन वोढुं शक्तस्तुर्यवाट् । द्वात्रिंशदक्षरानुष्टुप् । ' एते वै ते पशवः २ | ४ | १५ ) । सानोत स वै पशुं प्रथममाहाथ वयोऽथ छन्दो वयसा च ह्येनांश्छन्दसा च परिगत्यात्मन्नधत्तात्मन्नकुरुत । यांस्तत्प्रजापति-तथैवैनानयमेतद्वयसा चैव छन्दसा च परिगत्यात्मन् धत्त आत्मन् कुरुते ' ( श ० ८ | २ प्रतिपादितमर्थं प्रतिज्ञापयन्नुपसंहरति- एते वै ते पशव इति । एते प्रागुक्ताः पशवस्ते वै बस्तो | ४ | १६ ) । उपक्रमे खलु । के ते? यांस्तत्प्रजापतिर्वंयसाप्नोद् इत्युत्तरम् । तत् तदा यात् पशून् प्रजापतिर्वंयसाप्नोत् वय इत्यादिनोक्ताः सर्वेषु मन्त्रेषु पशुवयश्छन्दसां यत्पौर्वापर्यं तत्प्रशंसति - स वै पशुमिति । स प्रजापतिस्तो वय त एत इत्येवमादौ इत्यर्थः । बस्तं पं पश्चात् वयः, तदनन्तरं विवलं छन्दः, तथा सत्येनं प्रथम निर्दिषं पशुं वयसा स्वाभाविकेन रूपेण छन्दसा पलायनोचितैकपदादिरूपेण परिगत्य आत्मन् आत्मनि अधत्त धृत्वा च स्वात्मन्यकुरुत सहैकीकृतवान् । तथैवैनान् यजमानोऽपि स्वात्मनि धत्ते । इति द्वितीया चितिः सम्पूर्णा । स्वात्मना अध्यात्मपक्षे -- पूर्वकण्डिकाव्याख्यानवदेव व्याख्यानम् । दयानन्दस्तु हे स्त्रि पुरुष, अनड्वानिव त्वं पङक्तिश्छन्दो वयो बलं प्रेरय । धेनुरिव त्वं जगती छन्दो जगदुपकारकमाह्लादकं वयः प्रजननं प्रेरय । त्र्यविरिव त्रयोऽव्यादयो यस्मात्तं त्रिष्टुप् त्रीणि कर्मोपासनाज्ञानान स्तुवन्ति यया सा तथोक्ता । छन्दो वयः प्रापणम् एरय । दित्यवाडिव त्वं बिराट् छन्दो वय एरय । पञ्चाविरिव एवं गायत्री छन्दो वय एरय । त्रिवत्स इव त्वमुष्णिक छन्दो वय एरय । त्रिवत्स इव त्वमुष्णिक छन्दो वय एरय । वाडव त्वमनुष्टुप् छन्दो वय एरय ' इति, तदपि पूर्ववदेव खण्डनीयम् ॥ १० ॥
इन्द्रा॑ग्नी अव्यथमानामिष्ट॑कां दृद्ध्हतं यु॒वम् ।
पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ विबोधसे ॥ ११ ॥
मन्त्रार्थ - हे इन्द्र और अग्नि नामक देवताओं! तुम दोनों अचक और वक्रता से रहित इष्टका को हढ़ करो स्वयमातृष्णा नामक । स्वयमातृष्णा इटके! तुम अपने ऊपर के भाग में पृथ्वी, स्वर्ग और अन्तरिक्ष को बाधित करने में समर्थ बनो ॥ ११ ।
पृष्ठ 399
पाठ पढ़ें पाठ छिपाएँ
०१०-११ ] वेदार्थपारिजात भाष्यसहिता ३६३ अथ तृतीया चितिः । इन्द्राग्नी विश्वकर्मा च तन्मन्त्राणामृषिः । ' तृतीयाया स्वयमातृष्णामिन्द्राग्नी इति मध्ये ' ( का ० श्र ० १७१ ९ | १ ) । तृतीयायां चितावात्मनो मध्ये स्वयमातृष्णामुपदध्यादिति सूत्रार्थः । अनुष्टुप् । पूर्वोऽधंर्च इन्द्राग्निदेवत्यः, उत्तरः स्वयमा तृण्णादेवत्यः | अर्थानुरोधादुत्तरोऽर्धर्चः पूर्वं व्याख्यायते-विबाधस इति पुरुषव्यत्ययः, विबाधत इति । येयमिष्टका पृष्ठेन स्वकीयेनोत्तरभागेन च द्यावापृथिवी अन्तरिक्षं च, लोकत्रयमित्यर्थः । विबाधते अभिभवति । हे इन्द्राग्नी, युवं युवाम् अव्यथमानाम् अचलन्तीम् अभङ्गुरां तामिष्टकां स्व मातृष्णाख्यां हतं दृढीकुरुतम् । अत्र ब्राह्मणम् -- ' तृतीयां चितिमुपदधाति । एतद्वै देवा द्वितीयां चिति चित्वा समारोहन् यदूध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तदेव तत्संस्कृत्य समारोहन ' ( श ० ८ | ३ | १ | १ ) । तृतीयां चिति विधाय प्रशंसति T - तृतीयां चितिमित्यादि । एतद्वै एतत्खलु पूर्वमासीद् यद् देवा द्वितीयां चिति चित्वा समारोहन् । तस्किमित्याह -- यदूध्वं पृथिव्या इति । पृथिव्यन्तरिक्षयोर्मध्यदेशमा रोहन्नित्यर्थः । तत्समारोहणकाले तदेव द्वितीयचितिस्वरूपं संस्कृत्य समारोहन् । ' तेऽब्रुवन् । चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेतयमाना अन्तरिक्ष-मेव बृहतीं तृतीयां चितिमपश्यंस्तेभ्य एष लोकोऽच्छदयत् ' ( श ० ८ | ३ | ११२ ) । लोकान्तरसमा रोहणेऽपि चितिसंस्कारमेवोपायत्वेनामनन्तस्ते देवाः परस्परं चेतयध्वमित्यब्रुवन् । चेतयमानास्तेऽन्तरिक्षमेव बृहतीं तृतीयां चितिमपश्यन् । अस्या बृहतीत्वमुत्तरत्र षट्त्रिंशत्संख्या केष्टका सम्पादनेन वक्ष्यति - ' त्रीणि द्वादशान्युपदधाति ' ( श ० ८ | ३ | ३ | ८ ) इति कण्डिकायाम् । एषोऽन्तरिक्षलोक इष्टकाच्छादनाभिधः, अच्छदयद् आत्मानं छादित्वा आच्छन्नोऽभूत्, अस्पष्टोऽभूदित्यर्थः । ' त इन्द्राग्नी अब्रुवन् । युवं न इमां तृतीयां चितिमुपधत्तमिति । किं नौ ततो भविष्यतीति युवमेव नः श्रेष्ठौ भविष्यथ इति तथेति तेभ्य एतामिन्द्राग्नी तृतीयां चितिमुपाधत्तां तस्मादाहु-रिन्द्राग्नी एव देवानाथ " श्रेष्ठाविति ' ( श ० ८ | ३ | १ | ३ ) | ते देवा इन्द्राग्नी प्रति एवमब्रुवन् । युवं युवां नोऽस्मदर्थे इमां तृतीयामन्तरिक्षरूपां चितिमुपधत्तमिति । अथ ती सर्वदेवेष्वात्मनः श्रेष्ठयं वृतवन्तौ । तच्च लब्ध्वा तृतीयां चितिमुपाधत्ताम् । तस्माद् वेदवादिन इन्द्राग्नी एव देवानां श्रेष्ठावित्याहुः । स वा इन्द्राग्निभ्यामुप-दधाति । विश्वकर्मणा सादयतीन्द्राग्नी च वै विश्वकर्मा चैतां तृतीयां चितिमपश्यंस्तस्मादिन्द्राग्निभ्यामुपदधाति विश्वकर्मणा सादयति ' ( श ० ८ | ३ | १ | ४ ) | स खलु यजमानोऽपि इन्द्राग्निभ्यां तृतीयां चितिमुपदधाति उपधानमन्त्रे तथा प्रतिपादनात् । विश्वकर्मणा विश्वकर्मलिङ्गकेन मन्त्रेण सादयति । ' विश्वकर्मा त्वा सादयतु ' इति हि मन्त्रः । ननु देवैः प्रार्थितत्वाद् इन्द्राग्निभ्यामुपधानम्, विश्वकर्मणः कः प्रसङ्ग इति तत्राह -- इन्द्राग्नी च विश्वकर्मा च एतां तृतीयां चितिमपश्यन्निति । तस्मादित्युपसंहारः । ' यद्वेवेन्द्राग्निभ्यामुपदधाति । विश्वकर्मणा सादयति प्रजापति विस्रस्तं देवता आदाय व्युदक्रामंस्तस्येन्द्राग्नी च विश्वकर्मा च मध्यमादायोत्क्रम्या तिष्ठन् ' ( ८ | ३ | १ | ५ ) । उक्तमर्थमनूद्य प्रकारान्तरेण प्रशंसति यद्वेवेन्द्राग्निभ्या-मित्यादिना । पुरा किल विस्रस्तस्य प्रजापतेरेकैकमंशमादाय देवतः व्युदक्रामन् विविधमुद्गताः । तस्य मध्यभाग-मिन्द्राग्नी च विश्वकर्मा च आदायोत्क्रम्यातिष्ठन् । ' तानब्रवीत् । उप मेत प्रति म एतद्धत्त येन मे यूयमुदक्रमिष्टेति किं नस्ततो भविष्यतीति युष्मद्देवत्यमेव म एतदात्मनो भविष्यतोति तथेति तदस्मिन्नेत दिन्द्राग्नी च विश्वकर्मा च प्रत्यदधुः ' ( श ० ८ | ३ | १ | ६ ) । तान् मध्यदेशापहर्तृन् प्रजापतिरब्रवीत् - उपमेतेति मा माम् उपेत उपगच्छत, उपगत्य च मे मदीयमेतदपहृतमङ्गं प्रतिधत्त सन्धानं कुरुत । तस्मादस्माकं को लाभः? इति तैरुक्ते - ममात्मनः शरोरस्य सम्बन्धि एतदङ्गं तृतीयचितिरूपं युष्मद्देवत्यं यूयं देवता दीपयित्र्यो यस्य तद् युष्मद्देवतमिति
पृष्ठ 400
पाठ पढ़ें पाठ छिपाएँ
३६४ शुक्लयजुर्वेद संहिता [ अ ० १४ प्रजापतिनोत्तमाकर्ण्य तथेत्यङ्गीकृत्य तदङ्गमस्मिन् चयनात्मकप्रजापतिशरीरमध्यदेशे प्रत्यदधुः प्रतिनिहितवन्तः । ' तद्यषा मध्यमा स्वयमातृष्णा । एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति यदेवास्यैषात्मनस्तदस्मिन्नेतत्प्रतिदधाति तस्मादेतामत्रोपदधाति ' ( श ० ८ | ३ | ११७ ) । किं तदङ्गमिति तत्राह - तद्यैषेति । स्वयमातृष्णा एव मध्ये उपधेयत्वेन प्राधान्यान्मध्यमचितिरूपास्ति । एतदस्य प्रजापतेरात्मनः शरीरस्य तद् विस्रस्तमङ्गम् । तद्यदेतां स्वयमातृणामत्र मध्यदेशे उपदधाति । ' इन्द्राग्नी अव्यथमानाम् । इष्टकां ६१७ हतं युवमिति यथैव यजुस्तथा बन्धुः पृष्ठेन द्यावापृथिवी अन्तरिक्षं च विबाधस इति पृष्ठेन ह्येषा द्यावापृथिवी अन्तरिक्षं च विबाधते ' ( श ० ८३१८ ) । स्वयमातृष्णाया उपधानमन्त्रस्य पूर्वभागः स्पष्टार्थं इत्याह- इन्द्राग्नी अव्यथमानामित्यादिना । हे इन्द्राग्नी, युवं युवामव्ययमानां कुशलां युवाभ्यामुपधेयत्वाद् व्यथारहितां सुखितामित्यर्थः । दृंहतं दृढीकुरुतम् । हे स्वयमा तृण्णेष्टके, त्वं पृष्ठेन द्यावापृथिवी अन्तरिक्षमिति लोकत्रयं विबाधसे अभिभवसि । अध्यात्मपक्षे - हे इन्द्राग्नी जीवेश्वरो, युवामव्यथमानां प्रपञ्चोपप्लवैरनुपद्रुतामिष्टकां तद्वत् संसार-मण्डपभित्तिरूपां महामायां वा हतं दृढीकुरुतम् । जीवः कर्मानुष्ठानेन तां द्रढयति, ईश्वरश्च सत्तास्फूर्तिप्रदानेन । हे महामाये, पृष्ठेन पृष्ठभागेन भित्तोष्ट केव द्यावापृथिवी अन्तरिक्षं च न केवलं वहसि, अपितु विबाधसे लोकत्रयमभिभवसि । दयानन्दस्तु - ' हे इन्द्राग्नीव वर्तमानौ स्त्रोपुरुषौ युवमव्यथमानां प्रज्ञां प्राप्य इष्टकामिव गृहाश्रमं हतं दृढीकुरुतम् । यथा द्यावापृथिवी पृष्ठेन अन्तरिक्षं बाधेते, तथा दुःखानि शत्रूश्च बाधेथाम् । हे पुरुष, स्वमेतस्याः स्वपत्न्याः पीडां विबाधसे, तथा चेयमपि तव पीडां बाधताम् ' इति, तदप्युच्छृङ्खलत्वमेव व्याख्यातुर्बोधयति, तादृशसम्बोधने मानाभावात् । स्त्रीपुरुषयोश्च नहोन्द्राग्निद्वयवद् वर्तमानत्वं सम्भवति । लक्ष्मीनारायणी गौरीशङ्करी इत्येव स्यात् । तथात्वे च विबाधस इत्यस्य का गतिः? वचनव्यत्ययश्च निर्मूल एव, शत्रुदुःखादीना-मध्याहारोऽपि निर्मूल एव । पुनश्च प्रथमवचनेन परस्परदुःखबाधकत्वोपन्यास इत्येतत्सर्वमपि स्वैरित्वमेव द्योतयति । कीदृशी परस्परसम्बन्धिनीं पीडां दम्पती बाधेते? ॥ ११ ॥
विश्वकर्मा त्वा सादयत्व॒न्तरि॑क्षस्य पृ॒ष्ठे व्यव॑स्वती॒ प्रय॑स्वतीम॒न्तरि॑क्षं यच्छान्तरिक्षं वृहान्तरिक्षं मा हिंसीः । विश्व॑स्मै॑ प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायें च॒रित्राय । वा॒युष्ट्वाभिपा॑तु॒ मह्या स्व॒स्त्या छ॒र्दिषि॒ शन्त॑मे॒न॒ तया॑ दे॒वत॑याङ्गर॒स्वद् ध्रुवा सौद ॥ १२ ॥
मन्त्रार्थ - हे स्वयमातृष्णे! विश्वकर्मा प्रजापति अवकाशयुक्त विस्तार वाली तुमको अन्तरिक्ष के ऊपर स्थापित करें | हे इष्टके! तुम सम्पूर्ण प्राणियों के प्राण, अपान, व्यान, उदान नामक वायुबल की दृढ़ता के निमित्त, स्वगृह की प्रतिष्ठा और शास्त्रानुसार आचरण के निमित्त अन्तरिक्ष को गन्धर्व, अप्सरा आदि के धारणयोग्य बनाओ, अन्तरिक्ष को दृढ़ करो, अन्तरिक्ष को पीड़ा मत दो । वायु देवता तुम्हारी योगक्षेम की सम्पत्ति से, शुभकारी विशेष तेज से सब ओर से रक्षा करे । तुम्हारे जो अधिष्ठात्री देवता हैं, उन देवताओं से अनुगृहीत हुई तुम अंगिरा के समान निश्चल एवं दृढ़ बनो ॥ १२ ॥