वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 401–410
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 401–410
पृष्ठ 401
पाठ पढ़ें पाठ छिपाएँ
म ०१२ | वेदार्थपारिजात भाष्यसहिता ३६५ वायुदेवत्यं विकृतिच्छन्दस्कं यजुः स्वयमातृष्णोपधाने विनियुक्तम् । हे स्वयमातृष्णे, विश्वकर्मा प्रजापतिरस्वा त्वामन्तरिक्षस्य पृष्ठे उपरि सादयतु स्थापयतु । कीदृशीं त्वाम्? व्यचस्वतीम् अभिव्यक्तियुक्ताम् । पुनः कीदृशीम्? प्रथस्वतीं प्रथनं प्रथो विस्तारः सोऽस्त्यस्या इति प्रथस्वती ताम् । हे इष्टके, तादृशी त्वमन्तरिक्षं यच्छ यक्षगन्धर्वाप्सरोगणादिधारकतया नियमय । अन्तरिक्षं दृंह परोपद्रवाभावेन दृढीकुरु । तदन्तरिक्षं मा हिंसीः । किमर्थम्? विश्वस्मै सर्वस्मै प्राणाय अपानाय उदानाय, अर्थात् तत्तद्वायुवृत्तिलाभाय, प्रतिष्ठायै स्वगृहे स्थितिलाभाय चरित्राय शास्त्रीयाचरणाय । प्राणिनामेतत् सर्वं लोकदाढर्ये सत्येव सम्भवतीति तदर्थं मन्तरिक्षनियमनादिकं प्रायते । किञ्च, सर्वस्य सिद्धयर्थमयं वायुस्त्वामभितः सर्वतः पातु । त्वत्सहचारितया पातु रक्षतु च । केन प्रकारेण रक्षणमिति चेदुच्यते - मह्या महत्या स्वस्त्या योगक्षेमसम्पत्त्या शन्तमेन अत्यन्त शुभकारिणा छर्दिषा दीप्तिविशेषेण एतत्सर्वं सम्पाद्येति यावत् । तवाधिष्ठात्री या देवता, तया देवतयानु-गृहीता ध्रुवा स्थिरा सती सीद उपविश । अङ्गिरस्वद् अङ्गिरसां चयनानुष्ठाने यथा स्वं ध्रुवा स्थिता तद्वदत्र सीदेत्यर्थः । अत्र ब्राह्मणम् ' विश्वकर्मा त्वा सादयत्विति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीमित्यन्तरिक्षस्य ह्येतत्पृष्ठं व्यचस्वत्प्रथस्वदन्तरिक्षं यच्छान्तरिक्षं दृहान्तरिक्षं मा हि सीरित्यात्मानं यच्छात्मानं हहात्मानं मा हि सीरित्येतत् ' ( श ० ८ ३ | ११ ९ ) । हि यस्माद् विश्वकर्मा सकलजगन्निर्माता देवः, एतां तृतीयां चितिं स्वय मातृण्णाख्यामपश्यत् अतस्तन्मन्त्रोऽपि विश्वकर्मा त्वा सादयत्विति ब्रूते । कुत्र सादनम्? अन्तरिक्षस्य पृष्ठे, एतन्मध्यस्थानं यदन्तरिक्षस्य पृष्ठं न प्रसिद्धमन्तरिक्षमिति । अन्तरिक्षं । तच्च व्यचस्वद् व्यञ्जनवत् प्रथस्वत् प्रथनं निम्नोन्नतत्वराहित्यम्, तद्वद्विस्तारवदित्यर्थः यच्छेत्यादयस्त्रयो मन्त्रभागाः । तत्रत्यैरन्तरिक्षशब्द रात्मैवाभिधीयते । तथा चात्मानं यच्छ, आत्मानं हंह, आत्मानं मा हिसीरित्यर्थी ज्ञातव्यः । तत्र मध्यस्थाने स्थापिता स्वयमातृष्णापि व्यचस्वती पृथस्वती च भवति । ' विश्वस्मै प्राणायापानाय व्यानायोदानायेति । प्राणो वै स्वयमातृष्णा सर्वस्मा उ वा एतस्मै प्राणः प्रतिष्ठाय चरित्रायेतीमे वै लोकाः स्वयमातृष्णा इम उ लोकाः प्रतिष्ठा चरित्रं वायुष्ट्वाभिपात्विति वायुष्ट्वाभिगोपा-यत्वित्येतन्मह्या स्वस्त्येति महत्या स्वस्त्येत्येतच्छदषा शन्तमेनेति यच्छदिः शन्तमं तेनेत्येतत्सादयित्वा सुददोहसाधिवदति तस्योक्तो बन्धुरथ साम गायति तस्योपरि बन्धुः ' ( श ० ८ | ३ | १ | १० ) । विश्वमा इत्यादिमन्त्रभागस्य तात्पर्यमाह -- प्राणो वा इति । येयं स्वमातृष्णा सा प्राणो वै चित्यात्मशरीरस्य मध्ये प्राणरूपतयोपधीयमानत्वात् । अतस्तस्या उपधानम् एतस्मै परिदृश्यमानाय सर्वस्मं जगते तदर्थं प्राणाधार-स्थानीयमित्यर्थः । एतदर्थं त्वामुपदधामीत्यन्वयः । अपानादीनामपि प्राणवृत्तिविशेषत्वात् विवक्षितमिति प्राधान्येन व्याचष्टे- प्राणस्यैव कीर्तनम् - प्राणो वै स्वयमातृष्णा इति । मन्त्रे ' प्रतिष्ठाय चरित्राय ' इत्यनेन लोकत्रयं इमे वै लोक स्वयमातृष्णा इम उ लोकाः प्रतिष्ठा चरित्रमिति । प्रथममध्यमोत्तमचितिषु लोकत्रयरूपेणोपधेयत्वात् तिस्रः स्वयमातृष्णा इमे लोकाः खलु । इम उ इमे एव लोकाः प्रतिष्ठा चरित्रं चरत्यत्र कृत्स्नं जगदिति प्रतिष्ठात्मकत्वमस्य भूलोकस्यैव, तदर्थं चरित्रम् । प्रतितिष्ठत्यत्रेति प्रतिष्ठा, इमे त्रयोऽपि लोकाश्चरित्ररूपाः । त्वामुपधामीत्यर्थः । वायुष्ट्वेत्यस्य व्याख्यानभूतं ब्राह्मणं स्पष्टम् । मह्या इत्यस्य व्याख्यानं महत्या इति । तदयं मन्त्रभागत्रयस्यार्थः -- हे स्वयमातृष्णे, वायुर्महत्या प्रभूतया स्वस्त्या अविनाशेन शन्तमेन अत्यन्तसुख-हेतुभूतेन छर्दिषा, गृहनामैतत् ( निघ ० ३ | ४ | १८ ), त्वा त्वाम् अभिपातु सर्वतो गोपायतु । ' तया देवतया ' इति मन्त्रेण सादयित्वा ' ता अस्य सूददोहसः ' इति मन्त्रेणाधिवदति । गार्हपत्य चितो ( श ० ७ १ १ २६ ) उक्त-
पृष्ठ 402
पाठ पढ़ें पाठ छिपाएँ
३६६ शुक्लयजुर्वेदसंहिता [ अं ० १४ मस्यार्थवादमविदिशति - तस्योक्तो बन्धुरिति । अथ अधिवदनानन्तरं साम स्वयमातृष्णाङ्गभूतं गायेत् । तत्प्रतिपादकं ब्राह्मणमुपर्यन्त्यचितो प्रदर्शयिष्यते । अध्या - मपक्षे - हे महामाये, विश्वकर्मा परमेश्वरस्त्वामन्तरिक्षस्य आकाशस्य चिदाकाशस्य पृष्ठे उपरि सादयतु, ' आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला ' ( संक्षेपशारीरके, ११३१ ९ ) इत्युक्तेः । किमर्थं त्वां सादयतु ]? इत्युच्यते-- विश्वस्मै सर्वस्मै प्राणाय, सर्वस्य प्राणापानादिवृत्तिलाभाय । सर्वस्य च प्रतिष्ठाय स्थित्यं सर्वस्य चरित्राय कर्मोपासनज्ञानादिसम्पादनाय । कीदृशीं त्वाम्? व्यचस्वतीं विविधाश्चनवतीं प्रथस्वतीं देवनरतिर्यगादिविविधरूपेण विस्तारवतीम् । हे देवि त्वमन्तरिक्षं भौतिकं यक्षगन्धर्वादिसहितमाकाशं यच्छ नियमय । तदेव दृढीकुरु । तच्च मा हिंसीः । वायुः सूत्रात्मा त्वामभिपातु तत्तत्कार्य सम्पादनेन साहाय्यमाचरतु । महत्या स्वस्त्या योगक्षेमरूपया शन्तमेन परमसुखमयेन छर्दिषा प्रकाशेम अभिपातु । या परदेवता त्वदधिष्ठानभूता तया देवतयाऽनुगृहीता सती ध्रुवा सती सोद । अङ्गिरस्वद् यथा प्राणानां सम्बन्धिनी भूत्वा स्थितासि तद्वत् । दयानन्दस्तु – हे स्त्रि, विश्वकर्मा पतिर्या व्यचस्वतीं प्रशस्तं व्यचो विज्ञानं सत्करणं यस्यास्तां प्रथस्वतीमुत्तमविस्तीर्णविद्यायुक्तामन्तरिक्षस्य आकाशस्य पृष्ठे भागे त्वां सादयतु संस्थापयतु । सा त्वं विश्वस्मै समग्राय प्राणाय अपानाय व्यानाय उदानाय प्रतिष्ठायै चरित्राय शुभकर्माचाराय अन्तरिक्षं जलं यच्छ । अन्तरिक्षं प्रशस्तं शोधितमुदकं द्वंह । अन्तरिक्षं मधुरादिगुणयुक्तं रोगनाशकमुदकं मा हिंसीः । यो वायुः प्राण इव प्रियस्तव स्वामी मह्या महत्या स्वस्त्या सुखक्रियया छर्दिषा प्रकाशेन शन्तमेन अतिशयेन सुखकारकेण त्वामभिपातु । तया त्याकारया देवतया दिव्यसुख प्रदानक्रियया सह अङ्गिरस्वद् सूत्रात्मवायुवद् ध्रुवा निश्चलज्ञानयुक्ता सीद स्थिरा भव ' इति, तदपि विशृङ्खलम् सम्बोधनस्य निर्मूलत्वात् पत्यौ विश्वकर्मत्वा-योगात् । आकाशस्य पृष्ठं किम्? कथं च तत्र स्त्रियाः स्थापनम्? प्रथस्वतीपदेन उत्तमविद्या कथं गृहोता? तत्स्थापनेन कथं प्राणादे रक्षणम्? अत एव ते प्रतिष्ठा शुभाचरणं च खपुष्पायितमेव । अन्तरिक्षपदस्य जलार्थत्वेऽपि शोधितं जलं मधुरं रोगनाशकमिति कथमर्थः? ध्रुवेति त्वद्रीत्या स्त्रिया विशेषणम् । श्रोव्यं तद्विशेषणे ज्ञाने कथमुपपद्यते ॥ १२ ॥
राज्यसि प्राची दिग्विराईसि दक्षिणा दिक् सम्राडंसि प्रतीची दिकू स्वराडस्युदींची दिगर्विपत्न्यसि बृह॒ती दिक् ॥ १३ ॥
मन्त्रार्थ - दिया इष्टके! तुम पूर्व दिशा में राजमान गायत्री रूप हो, दक्षिण दिशा में विराजमान त्रिष्टुप् रूप हो, पश्चिम दिशा में राजमान जगती रूप हो, उत्तर दिशा में विराजमान अनुष्टुप् रूप हो । स्वयं अधिक रक्षा
करने वाली तुम पंक्ति छन्द रूप हो । मैं तुम्हें यहाँ स्थापित करता है ॥ १३ ॥
' अनूकेषु पञ्च दिश्या वैश्वदेवीवद्रायसीति प्रतिमन्त्रम् ' ( का ० श्र ० १७ / ९ ( २ ) । वैश्वदेवोवदिति प्रतिदिशं रेतः सिग्वेलायामनुकस्योपरि पञ्च दिश्यासंज्ञका इष्टका उपदध्यात् । अनूकः कोषः । तत्र पूर्वानुके उदङ्मुखः, दक्षिणस्यां दिशि प्राङ्मुखः, अपरस्यां दिशि दक्षिणामुखः, उत्तरस्यां दिशि प्राङ्मुखः, दक्षिणामुत्तरेण पञ्चमीमर्धपद्यामुदङ्मुख उपदध्यादिति सूत्रार्थः । वायुरपश्यत् । दिक्शब्दोपेत मन्त्रं रुपधेयत्वादासामिष्टकानां
पृष्ठ 403
पाठ पढ़ें पाठ छिपाएँ
म ० १३ ] वेदार्थं पारिजातभाष्यसहिता ३६७ दिश्या इति संज्ञा | दिग्देवस्यानि पञ्च यजूंषि । हे इटके, त्वं राज्ञी राजमाना सती दीप्यमाना सती प्राची पूर्वा दिग्भवसि । गायत्रीरूपासि । विराड़ विविधं राजमाना सती दक्षिणा दिग्भवसि त्रिष्टुब्रूपासि । सम्राट् सम्यग्राजमाना सती प्रतीची दिग् जगत्यसि । स्वराट् परनिरपेक्षतया स्वयं राजमाना उदीची दि अनुष्टुब्रूपासि । अधिपत्नी अधिकं पातीति तादृशी, त्वं बृहती प्रौढोर्ध्वा दिक् पङ्क्तिरसि । दिक् छन्दोरूपां त्वां सादयामीति सर्वत्र योज्यम् । अत्र ब्राह्मणम् -- ' अथ दिश्या उपदधाति । दिशो वै दिव्या दि r एवैतदुपदधाति तद्याभिरदो वायु-दिग्भिरनन्तर्हिताभिरुपैत्ता एतास्ता एवैतदपदधाति ता उष्वासः परस्तादर्भस्तम्बं च लोगेष्काण्चोपदधात्यसौ ar after r दादित्यं दिव rga far चिनोति ता यत्तत्रैव म्यद्विर्धा तत स्यहि वा एतद्यो रग्निकर्म यत्पुरा पुष्करर्णात्ता यदिहाहृत्योपदधाति तदेना योनौ पष्करवर्णे प्रतिष्ठापयति तथो हैता अबहिर्धा भवन्ति ता अनन्तर्हिताः स्वयमातृष्णाया उपदधात्यन्तरिक्षं वै मध्यमा स्वयमाण्णानन्तहितास्तदन्तरिक्षाि दधात्यत्तरा उत्तरास्तदन्तरिक्षादिशो दधाति रेतः सिचोर्वेलये मे वं रेतः सितावनयोस्तद्विणो दधाति तस्मादनयोदिशः सर्वत उपदधाति सर्वतस्तद्विशो दधाति तस्मात सर्वतो दिशः सर्वतः समीचीः सर्वतस्तरसमीची-दिशो दधाति तस्मात् सर्वतः समोच्यो दिश: ' ( श ० ८ | ३ | १ | ११ ) | दिव्या नामेषका विधाय प्रशंसति-अथ दिया इति । दिलिङ्ग मन्त्ररूपधेया दिश्याः ताः पञ्चोपदध्यात् । तेन साक्षाहिश एव उपहितवान् भवति, दिक्तदुपधेययोरभेदात् । तथाभिरिति । तत् तदा अटो विप्रक्रष्काले प्रजापतिविस्रंसनावसरेऽनन्ताह-ताभिरतिरोहिताभिर्याभिदिग्भिः प्रजापत्यवयवभूताभिः सहितो वायुरुपैद उपगतः, ता एता इष्टका इति तासामुपधानेन दिश उपस्थापितवान् भवति । एतायां दिश्यानां प्रथमचितावेवोपहितत्वाद मध्यमचितो किमर्थं तदुपधानमित्याशङ्घ अत्राप्युपधेयत्वं सोपपत्तिकमा नाउ वासुरित्यादिना । नाउ एवं ता अपि प्रजापतेदिपावयवस्था एव या अमूदर्भस्तम्बं च लोगे काश्च पुरस्तात ताभ्य एवं प्रथमचितो उपदधाति । ear दिया: । असौ उपरि दृश्यमान आदित्यो रूक्मरूपेणोपहितः, अतोऽममादित्यं दिक्ष अध्यहति उपरि स्थापितवान् भवति । अतस्तत्रावश्यमेता उपधेया इत्यर्थः । ता दिया यद यदि तत्रैव म्यः प्रथमचितावेव भवेयुः, नात्र तत् तहि बहिर्धा भृगोलापेक्षया अत्यन्तं बहिरेव भवेयः । तत्कथमिति तदुपपादयति - बहिर्धो ar एतयोरग्निकर्म यत्परा पुष्करपर्णादिति । पुष्करपर्णोपधानस्य चितेर्योनिस्थानीयत्वात् ततः पूरा यदग्नि-चयनलक्षणं कर्म क्रियते, तत्सर्वं योनेर्बहिर्धो बाह्यं खलु । यस्मादेवं तस्मात ता दिश्या यदिह तृतीयायां चितो आहृत्योपदधाति तदेना दिश्या योनिभूते पुष्करपर्णे प्रतिष्ठापयति । तथा सति ता अबहिर्भूता भवन्ति । आसां स्वयमातृण्णानन्तर्हितत्वतदत्तरभावित्व- रेतः सिङ निकटभाक्त्व सर्वतोभावित्व- सम्यक्त्वार्थवादाः पूर्ववदित्यादि सर्व सायणाचार्याः स्पष्टयन्ति । ' यद्वेव दिश्या उपदधाति । छन्दा १७ सि वै दिशो गायत्री वै प्राची दिक् त्रिष्टुब् दक्षिणा जगती प्रतीच्य-नुष्टदीची पङ्क्तिरूर्ध्वा पशवो वै छन्दा ७ स्यन्तरिक्षं मध्यमा चितिरन्तरिक्षे तत्पशून् दधाति तस्मादन्तरिक्षा-यतनाः पशवः ' ( श ० ८ | ३ | १ | १२ ) । छन्दोरूपेण पुनस्ताः प्रशंसति-- यद्वेव दिश्या इति । कथं छन्दोरूपत्वमिति तत्राह - गायत्री वे प्राची दिगित्यादिना । प्रागादिदिशां गायत्र्यादिरूपत्वे लिङ्गमात्रं बीजम् । छन्दसां पशुरूपत्वे तु ' प्रजापतेवित्रस्तात्पशव उदक्रामन् छन्दांसि भूत्वा ' ( श ० ८२३१ ९ ) इति प्राक् प्रतिपादितम् । येयं मध्यमा चितिस्तदन्तरिक्षम्, अतोऽत्र दिश्यानामुपधानेन अन्तरिक्षे पशून् दधाति । तस्मादन्तरिक्षायतनाः पशवः, अवकाशे-नोरस्यवष्टम्भाभावात् । ' यद्वेव दिश्या उपदधाति । छन्दा १७ सि वै दिशः पशवो वै छन्दा स्यनं पशवो मध्यं
पृष्ठ 404
पाठ पढ़ें पाठ छिपाएँ
३६८ शुक्लयजुर्वेदसंहिता [ अ ० १४ मध्यमा चितिर्मध्यतस्तदन्नं दधाति ता अनन्तर्हिताः स्वयमातृष्णाया उपदधाति प्राणो वै स्वयमातृष्णामन्तर्हितं तत्प्राणादन्नं दधात्युत्तरा उत्तरं तत्प्राणादन्नं दधाति रेतः सिचोर्वेलया पृष्टयो वै रेतः सिचो मध्यम् पुष्टयो मध्यत एवास्मिन्नेतदन्तं दधाति सवंत एवास्मिन्नेतदन्नं दधाति ' ( श ० ८ | ३ | १ | १३ ) । अनरूपेणापि दिश्या इष्टकाः प्रशंसति - यद्वेवेति । अन्नं पशवः, उपभोग्यत्वात् । अन्यत् स्पष्टम् । पूर्व स्वयमातृष्णाया अन्तरिक्षरूपत्वेन संस्तुतिः, इह तु प्राणरूपत्वेन । दिश्यानां च छन्द पशूद्वारा अन्नरूपत्वेन स्तुतिरिति विशेष: । ' राज्यसि प्राची दिक । विरा s सि दक्षिणा दिक् सम्राडसि प्रतीची टिक स्वराडस्युदीची दिगधिपत्यसि बृहती दिगिति नामान्यासामेतानि नामग्राहमेवैना एतदुपदधाति ता नानोपदधाति नाना सादयति नाना सुददोहसाधिवदति नाना हि दिश: ' ( श ० ८ | २ | ३ | १४ ) । ' राज्यसि ' इत्यादयः पञ्च दिश्योपधानमन्त्रा, तेषां तात्पर्यंतो व्याख्यानम् -नामान्यासामेतानीत्यादिकम् । राज्ञी विराड् इत्यादीनि प्रागादिदिशां यानि नामानि एतद् एतेन ' राज्यसि ' इत्यादिमन्त्रेण तत्तनाम गृहीत्वैव एना इष्टका उपहितवान् भवति । हे प्राच्यामुपधेयेष्टके, त्वं राज्ञी एतन्नामिका भवसि । का सा? प्राची दिक् । एवं सर्वेऽपि व्याख्येयाः । दिश्यानां पृथक् पृथग मन्त्रभेदेनोपधानम्, पृथक पृथक् सादनम्, पृथक् पृथग अधिवदनं च । प्रागादीनां नानात्वात् पार्थक्यं युक्तमित्यर्थः । अध्यात्मपक्षे - हे महात्रिपुरसुन्दरि, त्वं राज्ञी राजमाना सती प्राचीदिग्रपासि । विविधं राजमाना दक्षिणा दिनूपासि । सम्यग्राजमाना प्रतीचीदिग्रपासि | स्वराट् चितिरूपत्वाद् अन्यनैरपेक्ष्येण उदीचीदिग्रूपासि । अधिपत्नी अधिकं पातीति बृहती प्रौढोवंदिनूपासि, प्रत्यगभिन्नायाः परचिद्रूपायास्तस्याः सार्वात्म्यप्रतिपादनात् । दयानन्दस्तु - ' हे स्त्रि, या त्वं प्राचीदिगिव राज्ञी राजमानासि भवसि, दक्षिणादिगिव विरा s सि विविध विनयविद्याप्रकाशयुक्तासि, प्रतीचीदिगिव सम्राडसि सम्यक् सुखे भूगोले राजमानासि, उदीची दिगिव स्वराजसि या स्वयं राजते सासि । बृहतीदिगिव अधिपत्नी गृहाधिकृता स्त्री असि सा त्वं पत्यादीन् प्रीणीहि ' इति, तदपि विशृङ्खलम्, प्राच्यादिदिशां साधर्म्यस्य स्त्रियामनिरूपणात् । न च स्त्रियां स्वरात्वादिकं सम्भवति, सर्वासु तदसम्भवात् जडायां जीवरूपायां वा तस्यां स्वातन्त्र्यायोगात् ॥ १३ ॥
वि॒श्वक॑र्मा॒ त्वा सादयत्व॒न्तरि॑क्षस्य पृष्ठे ज्योतिष्मतीम् । विश्व॑स्मै॑ प्रा॒णाया॑ पा॒नाय॑ व्या॒नाय॒ विश्वं ज्योति॑र्यच्छ । वा॒युष्टेऽधि॑पति॒स्तया॑ दे॒वत॑याङ्गर॒स्वद् ध्रुवा सद ॥ १४ ॥
मन्त्रार्थ - इटके! वायुरूप प्रजापति तुमको अन्तरिक्ष के ऊपर स्थापित करें । तुम यजमान के सम्पूर्ण प्राण पान और ध्यान के निमित्त अपनी सारी ज्योति प्रदान करो । वायु देवता तुम्हारे स्वामी हैं । उस अधिष्ठात्री dear के प्रभाव से समष्टि प्राण के साथ तुम इस अग्निचयन कार्य में बिना हिले - डुले दृढ़ रूप से स्थित रहो ॥ १४ ॥
' विश्वकर्मेति विश्वज्योतिषमुपरि पूर्वस्या: ' ( का ० श्र ० १७२ ९ । ३ ) । प्रथमायां चिता उपहिताया विश्वज्योतिष उपरि यजमानकृतां द्वितीयां विश्वज्योतिषं पद्यामिष्टकां प्राग्लक्षणामुदङ्मुख उपदध्याद् विश्वकर्मेति मन्त्रेणेति सूत्रार्थः । वायुदेवत्यं शक्वरीच्छन्दस्कं यजुः । हे इष्टके, विश्वकर्मा परमेश्वरो ज्योतिष्मती वायुरूपां स्वा त्वामन्तरिक्षस्य पृष्ठे उपरि सादयतु सर्वप्राणिनां प्राणवृत्तिलाभार्थम् । हे इष्टके, त्वं विश्वं सर्वं ज्योतिर्यच्छ प्रयच्छ, वायुस्ते तव अधिपतिः अधिदेवः । तया देवतया ध्रुवा स्थिरा सती अङ्गिरसां चयन इव अत्रापि प्रविष्टा वायोरन्तरिक्षस्य भागे सीद ।
पृष्ठ 405
पाठ पढ़ें पाठ छिपाएँ
भ ० १४-१५ ] वेदार्थपारिजात भाष्य सहिता ३६ ९ अत्र ब्राह्मणम् -'अथ विश्वज्योतिषमुपदधाति । वायुर्वे मध्यमा विश्वज्योतिर्वाय वान्तरिक्षलोके विश्वं ज्योतिर्वायुमेवैतदपदधाति तामनन्तर्हितां दिश्याभ्य उपदधाति दिक्षु तद्वायुं दधाति तस्मात् सर्वासु दिक्षु वायः ' ( श ० ८ | ३ | २ | १ ) | विश्वज्योतिराख्यामिष्टकां विधाय स्तौति - - अथ विश्वज्योतिषमिति । मध्यमाया विश्व-ज्योतिरिकाया वायुत्वोक्तो मध्यमचिने स्तद्वत्त्वात् तद्देवताकान्तरिक्षस्थानीयत्वं बीजम् । ननु तथापि कथं वायोस्तच्छब्दवाच्यत्वम्? इति चेत्तत्राह - वायुवान्तरिक्षलोक इति । उपचारप्रयोजनमाह --- वायुमेवैतदुप-दधातीति । पूर्वेद्रकाभ्योऽस्या अव्यवहितत्वं विधाय स्तौति - तामनन्तर्हितामिति । ' यदेव विश्वज्योतिषमुप-दधाति । प्रजा वै विश्वज्योति: प्रजा ह्येव विश्वं ज्योतिः प्रजननमेवैतदुपदधाति तामनन्तर्हितां दिश्याभ्य उपदधाति दिक्षु तत्प्रजा दधाति तस्मात् सर्वासु दिक्ष प्रजा: ' ( श ० ८ ३ २ २ ) । इत्थं वायरूपेण प्रशस्याथ प्रजारूपेणापि प्रशंसति यद्वेव विश्वज्योतिषमित्यादिना । ' विश्वकर्मा त्वा सादयत्विति । विश्वकर्मा ह्येतां तृतीयां चितिमपश्यदन्तरिक्षम्य पृष्ठे ज्योतिष्मतीमित्यन्तरिक्षस्य हायं पृष्ठे ज्योतिष्मान् वायुः ' ( श ० ८ | ३ | २ | ३ ) । स्वयमातृष्णावद्विश्वज्योतिषोऽपि विश्वकर्मणा सादनम् । अयं वायुरेव अन्तरिक्षस्य पृष्ठवर्ती ज्योतिष्मान्, तत्स्थानत्वात् । अतस्तदभेदेन इष्टकापि तर्पिणीत्यर्थः । ' विश्वस्मै प्राणायापानाय व्यानायेति प्राणो वे विश्व-ज्योतिः सर्वस्मा उ वा एतस्मै प्राणो विश्वं ज्योतिर्यच्छेति सर्वं ज्योतिर्यच्छेत्येतद्वायुष्टेऽधिपतिरिति वायुमेवास्या अधिपति करोति सादयित्वा सूददोहसाधिवदति तस्योक्तो बन्ध: ' ( श ० ८ ३ २२४ ) | स्पष्टार्था कण्डिका । अध्यात्मपक्षे - हे प्रज्ञे, विश्वकर्मा परमेश्वरस्त्वां ज्योतिष्मती चिदाभासयुक्तां त्वामन्तरिक्षस्य पृष्ठे चिदाकाशस्य उपरि तदाकाराकारितां स्थापयतु । विश्वस्मै प्राणाय प्राणादिवृत्तिलाभाय त्वं तदाकाराकारिता सती विश्वं ज्योतिर्यच्छ सर्व प्रकाशं प्रयच्छ । वायुः सूत्रात्मा ते अधिपतिः । तया देवतया ध्रुवा सोद । दयानन्दस्तु - ' हे स्त्रि, यां ज्योतिष्मती बहुविज्ञानवेत्री विश्वस्मै प्राणायापानाय व्यानायान्तरिक्षस्य जलस्य पृष्ठे उपरिभागे विश्वकर्मा सकलेष्टक्रियः सादयतु सा त्वं विश्वं सर्वं ज्योतिर्विज्ञानं यच्छ गृहाण । यो वायुरिव ते प्राणप्रियोऽधिपतिरस्ति, तया देवतया सह ध्रवाऽङ्गिरस्वत् सोद ' इति, तदपि यत्किञ्चित्, जलस्य पृष्ठे तत्सादनानुपपत्तेः, नौव्यवहिते तत्सादनसम्भवेऽपि विशेषानुपपत्तेः । न च तेन प्राणादिपुष्टिरन्यथासिद्धेः । मनुष्येषु
विश्वकर्मत्वं वायुत्वं चौपचारिकमेव । तस्मान्मुधैव श्रोतार्थत्यागः ॥ १४ ॥
नभ॑श्च॒ नम॒स्य॒श्च॒ वार्षिकावृतू अ॒ग्नेर॑न्तः श्ये॒षोऽसि॒ कल्पे॑त॒ द्यावा॑पृथि॒वो कल्प॑न्ता॒माप॒ ओष॑धय॒ः कल्प॑न्ताम॒ग्नय॒ः पृथ॒मम॒ ज्यैष्ठ्या॑य॒ सव॑ताः । ये अ॒ग्नय॒ सम॑नसोऽन्त॒रा द्यावा॑-पृथि॒वी इ॒मे । वार्षिकाव्र॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संविशन्तु॒ तया॑ दे॒वत॑याऽर॒स्वद् ध्रुवे सौदतम् ॥ १५ ॥
मन्त्रार्थ- श्रावण और भाद्रपद ये दोनों वर्षा ऋतु के मास हैं । हे ऋरूप दोनों इष्टकाओं! तुम चीयमान अग्निके अन्तर स्थिर होकर दृढ़तापूर्वक रहने के लिये लगाई गई हो । मुझ यजमान के उत्कर्ष के निमित्त यह द्युलोक और भूलोक हमारे योग्य उपकार की कल्पना करें । जल और औषधि हमारा प्राधान्य सम्पादन करें । समान व्रत वाली अनेक नाम की अग्नियों की स्वयमातृष्णा आदि इष्टकाएं उत्कृष्टता सम्पादित करें । यह द्यावापृथिवी के मध्य में वर्तमान एक मन वाली अग्नियाँ चयन को हुई वर्षा सम्बन्धी ऋतुको सम्पादित करके इस कर्म को सहारा दें, जैसे कि देवगण इन्द्र की परिचर्या करते हैं । हे इण्टके! उस प्रसिद्ध देवता द्वारा अंगिरा के समान स्थिर होकर तुम यहाँ रहो ॥५१ ॥
४७
पृष्ठ 406
पाठ पढ़ें पाठ छिपाएँ
३७० शुक्लयजुर्वेदसंहिता [ अ ० १४ ' ऋतव्ये नभश्च नभस्यश्चेति ' ( का ० श्रो ० १७१ ९ / ४ ) । पूर्वयोर्ऋतव्ययोः पुरीषाच्छनयोरुपरि अवका निधाय प्राग्लक्षणे अर्धोत्सेधे पद्ये द्वे ऋतव्ये अनुकमभित उदङ्मुख उपदध्याद् नभश्च नभस्यश्चेति मन्त्रेणेति सूत्रार्थः । ऋतुदेवत्यमुत्कृतिछन्दस्कं यजुः । नभः श्रावणः । नभस्यो भाद्रपदः । एतावुभौ वार्षिको मासौ वर्षा ऋतुः । हे तादृश ऋतो, त्वं चीयमानस्याग्नेरन्तर्मध्ये व्यवस्थितः सन् श्लेषकोऽसि । यथा काष्ठपाषाणादयः कुड्यस्यान्तर्दाढर्घाय श्लिष्यन्ते, तद्वन्ममाग्नि चिन्वतो यजमानस्य ज्येष्ठयाय उत्कर्षाय इमे द्यावापृथिवी कल्पेतां स्वोचितमुपकारं सम्पादयेताम् । यद्वा ममेति तवस्थाने व्यत्ययः । आपश्चौषधयश्च ज्येष्ठयाय कल्पन्ताम् । सव्रताः समानं व्रतं कर्म येषां ते तादृशा येऽग्नय इमे द्यावापृथिवी अन्तरा अनयोर्मध्ये वर्तमानाः समनस एकमनस्का येऽग्नयः, अन्यरपि चिता ये तेऽपि वार्षिक मृतुमभिकल्पमानाः सम्पादयन्तोऽभिसंविशन्तु एतत्कर्म आश्रयन्तु । तत्र दृष्टान्तः - यथा देवा इन्द्रं परिचरणाय अभिसंविशन्ति एवमन्येष्टका वर्षातुं परिचरणायाग्निमभि-संविशन्तु | अन्यत् पूर्ववत् । अत्र ब्राह्मणम् —'अथर्तव्या उपदघाति । ऋतव एते यदृतव्या ऋतूनेवैतदुपदधाति नभश्च नभस्यश्र्च वार्षिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वौ हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोत्यवकासूपदधात्यवकाभिः प्रच्छादयत्यापो वा अवका अपस्तदेतस्मिन्नृतौ दधाति तस्मादेतस्मिन्नृतो भूयिष्ठं वर्षति ' ( श ० ८ ३ २ ५ ) | ' अथर्तव्या उपदधाति ' इत्यादिः ' एकं तदृतुं करोति ' इत्यन्तो द्वितीय चितिवद् द्रष्टव्यः । नभश्च नभस्यचेति तयोरुपधानमन्त्रः । नभो नाम श्रावणो मासः, नभस्यो नाम भाद्रपदः, तावुभौ वर्षाख्यो ऋतू । अवयवापेक्षया द्विवचनम् । ताश्चतस्र ऋतव्या अवकासूपधायावकाभिरेव प्रच्छादयेत् । अवका नाम हृदादिजलेषु स्तवकाकारेण प्ररोहन्तो हरितवर्णाः पदार्थाः, शैवलानीत्यर्थः । तासां चाप्सु एव जायमानत्वाद् आश्रयाश्रयिणोरभेदेन अबात्मता । ऋतव्यानामृतुत्वात् तेनावकास्थापनेन तस्मिन्नेवता अप एव स्थापितवान् भवति ।
अध्यात्मपक्षे - व्याख्यानं पूर्ववद् ( १३२५ ) अनुसन्धेयम् ।
स्वामी दयानन्दस्तु स्त्रीपुरुषावेव सम्बोधयति । तच्च पूर्ववनिराकरणीयम् ॥ १५ ॥
इ॒षश्च॒र्जश्च॑ शर॒दावृतू अ॒ग्नेर॑न्तः श्ये॒षोऽसि॒ कल्पे॑ता॒ द्यावा॑पृथि॒वी कल्प॑न्त॒माप॒ ओष॑धय॒ः कल्प॑न्ताम॒ग्नयः पृथङ्मम॒ ज्येष्ठया॑य॒ सव॑ताः । ये अ॒ग्नयः सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे शार॒दाव॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑िशन्तु तय दे॒वत॑याऽङ्गर॒स्वद् ध॒वे सौदतम् ॥ १६ ॥
मन्त्रार्थ - आश्विन और कार्तिक ये दो मास शरद् ऋतु से सम्बद्ध हैं । बाकी मन्त्र का अर्थ ऊपर के मन्त्र के जैसा ही है । विशेषता इतनी हो है कि यहाँ वर्षा ऋतु के स्थान पर शरद ऋतु की चर्चा है ॥ १६ ॥
' इषश्वोश्चेत्यपरे ' ( का ० श्री ० १७ ९ १६ ) । अपरे तथाविधे ऋतव्ये पूर्वयोरुपरि दधाति इषश्वोश्चेति मन्त्रेणेति सूत्रार्थः । तेन तृतीयायां चितौ चतस्र ऋतव्याः । इतरासु द्वे द्वे इति । ऋतव्या नभस्वद्देवत्या । उत्कृतिच्छन्दः । यजुः । इष आश्विनः, ऊर्जः कार्तिकः, तौ शारदो शरहतुसम्बन्धिनौ मासी । हे शरहतो, त्वमग्नेश्वीयमानस्य श्लेषोऽसि । शेषं पूर्ववत् ।
पृष्ठ 407
पाठ पढ़ें पाठ छिपाएँ
म ० १६-१७ ] वेदार्थ पारिजात भाष्यसहिता ३७१ अत्र ब्राह्मणम् – ' अथोत्तरे । इषश्वोर्जंश्च शारदावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्ट भवतो द्वो हि मासावृतुः सकृत्सादयत्येकं तदृतुं करोत्यवकासूपदधात्यापो वा अवका अपस्तदेतस्यतः पुरस्ताद्दधाति तस्मादेतस्यर्तोः पुरस्ताद्वर्षति नोपरिष्टात् प्रच्छादयति तस्मान्न तथेवोपरिष्टाद्वर्षति ' ( श ० ८ | ३ | २२६ ) । ' अथोत्तरे ऋतव्ये इष्टके अभिधीयेते इति शेषः । ' इषश्वोश्व शारदावृत् ' इत्युत्तरयोर्ऋतव्ययोरुपधानमन्त्रः । अत्रोत्तरयोर्ऋतव्ययोर वकासूपधानमेव, नोपर्यवकाभिश्छादनं कर्तव्यमित्यमुमर्थं मिदानीन्तनवर्षण प्रकार प्रदर्शन मुखे-नोपपादयति - अबकासूपदघातीति । अधस्तादवकासम्बन्धाद्यथा ऋत्वादौ वृष्टिर्जायते, तथैवोपरिष्टात्तु तत्वन्ते वृष्टिर्नास्ति, अवकासम्बन्धाभावात् । अत एतस्य तादृग्विधत्वं सिद्धमित्यर्थः । अध्यात्मपक्षे - संवत्सरात्मनः कालस्यावयवभूता ऋतवः । चीयमानोऽग्निश्च तदभिन्न एव । अतो वार्षिक मास वर्षतुं शारदो मासौ शरहतुं सम्बोद्धय कालात्मनोऽग्नेः संश्लेष उक्तः । त्वत्प्रसादान्ममोपासकस्य इमे द्यावापृथिवी द्यावापृथिव्यो स्वोचितमुपकारं सम्पादयताम् । आपश्वोषधयश्च मम ज्यैष्ठ्याय कल्पन्ताम् । सव्रताः समनसोऽग्नय इमे द्यावापृथिवी अन्तरा अनयोर्मध्ये वर्तमाना आहवनीयादयो देवा इन्द्रमिव वर्षाख्यं शरदाख्यं च ऋतुं तदुपलक्षितं संवत्सराख्यं प्रजापतिम् अभिसंविशन्तु । हे ऋतव्ये ऋतुसम्बन्धिन्यो मासद्वयाधिष्ठात्र्यौ देवते तया संवत्सररूपया देवतया अधिष्ठिते अनुगृहीते अङ्गिरसः प्राणा इव ध्रुवे सीदतम् । दयानन्दस्तु - ' हे मनुष्याः, याविषश्चोर्जंश्च शारदावृतू यथा मे ज्येष्ठ्याय भवतो ययोरग्नेरन्तः श्लेषो मध्यस्पर्शोऽस्ति द्यावापृथिवी कल्पेताम् | आप ओषधयश्च कल्पन्ताम् । सव्रता अग्नयः पृथक् कल्पन्ताम् । येऽन्तरा समनसोऽग्नय इमे द्यावापृथिवी कल्पेताम् । शारदावृतू इन्द्रमिवाभिकल्पमाना देवा अभिविशन्तु | तथा तथा देवतया सह अङ्गिरस्वद् ध्रुवे सीदतम् ' इति, तदपि यत्किचित् मासयोर्ऋतोश्च जाडयेन प्रार्थनीय-त्वानुपपत्तेः । न च तयोरवकाशपृथिव्योरप्युपकारकत्वं सम्भवति । आपश्चोषधयश्चापि मासद्वयात्मकर्तु प्रार्थनया नोपकारसम्पादनक्षमा भवितुं शक्नुवन्ति न वा मनुष्या एतेषां प्रार्थनया समर्था भवितुं शक्नुवन्ति, न वा बाह्याश्चाभ्यन्तराश्चाग्नयस्तथा कर्तुं प्रभवन्ति, न वा ते सर्वे वार्षिकं शारदं वा ऋतुं समर्थं कर्तुं शक्नुवन्ति । fear देवा इन्द्रमिवेत्यस्यार्थोऽप्यस्पष्ट एव त्वद्रीत्या तदनभ्युपगमात् । नह्येश्वर्यतुल्यं देवा विद्वांसोऽभि-संविशन्ति ॥ १६ ॥
आयु में पाहि प्राणं में पाह्यपानं में पाहि व्यानं में पाहि॒ चक्षु ' में पाहि श्रोत्रं मे पाहि वाच॑ मे पिन्व॒ मनो॑ मे जिन्वात्मानं मे पाहि॒ ज्योति॑र्मे यच्छ ॥ १७ ॥
मन्त्रार्थ - हे इष्टके! तुम मेरी आयु की रक्षा करो, मेरे प्राण, अपान और ध्यान वायु की रक्षा करो । मेरे दोनों नेत्रों की और दोनों कानों की रक्षा करो । मेरी वाणी को कामनाओं से पूर्ण करो, मेरे मन को प्रसन्नता से भर हो, मेरे शरीर की जन्म से लेकर मृत्यु पर्यन्त रक्षा करो, मेरे प्राण रूप तेज की रक्षा करो ॥ १७ ॥
' पूर्वार्ध प्राणभृतो दशायुर्म इति प्रतिमन्त्रम् ' ( का ० श्री ० १७ / ९ / ७ ) | आत्मनः पूर्वभागे प्राणभृत्संज्ञका दशेष्टका उपदध्यादिति सूत्रार्थः । दश यजूंषि लिङ्गोक्तदेवत्यानि । हे इष्टके, मे मम आयुस्त्वं पाहि रक्ष । एवं प्राणमपानं व्यानं चक्षुः श्रोत्रं रक्ष । मे वाचं पिन्व सिव, कामैः पूरयेत्यर्थः । मनो जिन्व प्रीणय । ममात्मानं जीवं पाहि । मह्यं ज्योतिस्तेजो यच्छ ।
पृष्ठ 408
पाठ पढ़ें पाठ छिपाएँ
३७२ शुक्ल यजुर्वेदसंहिता [ अ ० १४ अत्र ब्राह्मणम्- ' अथ प्राणभृत उपदधाति । प्राणा वै प्राणभृतः प्राणानेवैतदुपदधाति ता दश भवन्ति दश वै प्राणाः पूर्वार्ध उपदधाति पुरस्ताद्धोमे प्राणा आयुर्मे पाहि ज्योतिर्मे यच्छेति प्राणो व ज्योतिः प्राणं मे यच्छेत्येवं तदाह ता अनन्तर्हिता ऋतव्याभ्य उपदधाति प्राणो वे वायुॠतुषु तद्वायुं प्रतिष्ठापयति ' ( श ० ८ | ३ | २ | १४ ) | प्राणलिङ्गकमन्त्रोपधेयाः प्राणभृत इष्टकाः । ता दश एव । दश वै प्राणा इति सप्त शीर्षण्याः, द्वाववाची, नाभिर्दशमीति । एतां चितिं पूर्वार्धं उपदध्यात् । तत्रोपपत्तिः -- पुरस्ताद्धीमे प्राणा इति । दुरस्तात् शरीरस्य पुरोभागे इमे शीर्षण्यादयः प्राणाः वर्तन्त इति शेषः । निगदव्याख्यातमन्यत् । अध्यात्मपक्षे - हे प्राणभृत्परमेश्वरि, त्वं मे प्राणादिकं पाहि । ' प्राणापानौ तथा व्यानं समानोदानमेव च । यशः कीर्ति च लक्ष्मी च सदा रक्षतु चक्रिणी ॥ ' इत्युक्तेः ॥ १७ ॥
मा छन्दः प्रमा॒ छन्द॑ः प्रति॒मा छन्दो॑ अस्रा॒वय॒ छन्द॑ः प॒ङ्क्तश्छन्द॑ उ॒ष्णक् छन्दों बृहती छन्दोऽनुष्टुप् छन्दो॑ वि॒राट् छन्दो॑ गाय॒त्री छन्द॑स्त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्द॑ः ॥ १८ ॥
2 मन्त्रार्थ --- हे इष्टके! अन्तरिक्ष लोक का मनन करते हुए तुम्हें स्थापित करता हूँ, तुम प्रतीतिकारक द्युलोक को छादिका हो । प्रतिमा छन्द का मनन करते हुए तुमको स्थापित करता हूँ । पतनशील अन्न त्रिलोकी का छादक हो । अस्त्रीय छन्द का मनन करते हुए, पंक्ति छन्द का मनन करते हुए, उष्णिक छन्द का मनन करते हुए, बृहती छन्द का मनन करते हुए, अनुष्टुप् छन्द का मनन करते हुए, विराट् छन्द का मनन करते हुए, गायत्री छन्द का मनन करते हुए, त्रिष्टुप् छन्द का मनन करते हुए और जगती छन्द का मनन करते हुए तुमको यहाँ स्थापित करता हूँ! इन सब छम्बों के गुण तुम्हारे में विद्यमान हैं ॥ १८ ॥
' छन्दस्याद्वादश द्वादशाप्ययेषु मा छन्द इति प्रतिमन्त्रम् ( का ० श्री ० १७ ९ ८ ) । अप्ययाः पक्षपुच्छारम सन्धयः । तेषु त्रिष्वप्ययेषु, अर्थाद् दक्षिणपक्षसन्धौ पुच्छसन्धौ उत्तरपक्षसन्धी चानूकमभितो द्वादश द्वादश छन्दस्या इष्टका उपदध्यादिति सूत्रार्थः । अनूकः कोषः । षट्त्रिंशद्यजूंषि लिङ्गोक्तदेवत्यानि । मा छन्दो मीयत इति मा मितः, छादनाच्छन्दः, अयं लोको मितत्वात्, छन्नत्वाच्च । हे इष्टके, त्वं तद्रूपानि । प्रमा छन्दः अस्माल्लोकात् प्रमीयत इति प्रमा अन्तरिक्षलोकः । हे इष्टके, त्वं प्रमा अन्तरिक्षलोकरूपासि । प्रतिमा छन्दः, प्रतिमीयत इति प्रतिमा सान्तरिक्षे प्रतिमिता । अस्रीवयश्छन्दः । अस्यते क्षिप्यत इत्यस्त्रि पतनशीलं वयोऽन्नं यस्मात् तदस्रिवयः । दीर्घ छान्दसः । अस्त्रीवयो लोकत्रयरूपं छादनाच्छन्दः, तद्रूपासि । हे इष्टके, त्वं माच्छन्दोरूपा, प्रमाच्छन्दोरूपा प्रतिमाच्छन्दोरूपा, अस्त्रीवयश्छन्दोरूपासि । इतः स्पष्टान्येव छन्दांसि पङ्क्त्यादीन्यष्टौ । अर्थाद हे इष्टके, त्वं पङ्क्त्युष्णिग्बृहत्यनुष्टुब्विराङ्गायत्रीत्रिष्टुब्जगतीछन्दोरूपासीत्यर्थः । अत्र ब्राह्मणम् - ' मा च्छन्द इति । अयं वै लोको माध्य 2G हि लोको मित इव प्रमाच्छन्द इत्यन्तरिक्षलोको वै प्रमाऽन्तरिक्षलोको ह्यस्माल्लोकात् प्रमित इव प्रतिमाच्छन्द इत्यसौ वै लोकः प्रतिमेष ह्यन्तरिक्षलोके प्रतिमित इवास्रीवयश्छन्द इत्यन्नमसीवयस्तद्यदेषु लोकेष्वन्नं तदस्रीवयोज्यो यदेभ्यो लोकेभ्योऽन्न १७ स्रवति तदस्त्रीयोऽथातो निरुक्तान्येव छन्दा स्युपदधाति ' ( श ० ८ | ३ | ३ | ५ ) । तत्र दक्षिणत उपधेयेष्टकानां मन्त्रान् विधाय व्याचष्टे-माच्छन्द इत्यादिना । मासंज्ञया छन्दो माच्छन्दः । तच्चायं लोको वै लोकः खलु । मीयते परिछिद्यत इति मा इति व्युत्पत्तेः । एतल्लोक साम्यमुपपादयति- अयं हि लोको मित इवेति । सर्वतः परिच्छिन्न एव,
पृष्ठ 409
पाठ पढ़ें पाठ छिपाएँ
म ० १८-१९ ] वेदार्थपारिजातभाष्यसहिता ३७३ पञ्चाशत्कोटियोजनविस्तारा पृथिवीति ह्याचक्षते । प्रमाच्छन्द इति द्वितीयो मन्त्रः । प्रकर्षेण मितः प्रमा, तत्संज्ञकश्छन्दोऽन्तरिक्षलोकः खलु । तल्लोकसाम्यमाह — अन्तरिक्षलोको ह्यस्माल्लोकात् प्रमित इवेति । भूलोका-दधिकतरेण मानेन मित इव वर्ततेऽन्तरिक्षलोकः । छादनाच्छन्दः । तथा च भूलोको माख्यं छन्दः, अन्तरिक्ष-लोकश्च प्रमाख्यं छन्दः । हे इष्टके, त्वं तद्रूपासि । प्रतिमाच्छन्द इति तृतीयो मन्त्रः । असौ वै लोकः प्रतिमेत्यसो द्युलोकः प्रतिमाच्छन्दः । कुतः? एषोऽन्तरिक्षलोके प्रतिमित इव अन्तरिक्षपरिमाणेन परिच्छिन्न इव वर्तते । अतः प्रतिरूपत्वेन मितत्वात् प्रतिमा असौ लोकः । चतुर्थं मन्त्रं विधाय व्याचष्टे – अस्रीवयश्छन्द इति । अन्नम् अस्रीवयः, लोकानां त्रित्वात् तनिष्ठान्नस्यापि त्रित्वम् । अस्यते क्षिप्यत इत्यसि पतनशीलं वयोऽन्नं यस्मात्तदस्त्रिवयो लोकत्रयरूपं छादनाच्छन्दस्तद्रूपासि । यद्वा यदेभ्यो लोकेभ्य आहुतिपरिणामभूतमन्नं सवति तदस्त्रीवयः । हे इष्टके, त्वं तद्रूपासि । यद्वा भूम्यादिलोकेभ्यो य आ समन्ताद् वृष्टिरूपेण स्रवति सोऽस्रीविः । छान्दसत्वादभिमतरूप-सिद्धिः । लोकत्रयापेक्षया बहुवचनेऽस्रीवय इति । हे इष्टके, त्वं तद्रूपासि । एवं ब्राह्मणेन मादीनां छन्दसामर्थाद् वैलक्षण्यं व्युत्पत्तयः प्रदर्शिताः । मादीनि हि गायत्र्यादिष्वपाठादनिरुक्तानि । अत उक्तेभ्यो वक्ष्यमाणानां दर्शयन्नुत्तरा अष्टाविष्टका विधत्ते - अथातो निरुक्तान्येव छन्दांस्युपदधातीति । अनिरुक्तेष्टकामन्त्रचतुष्टयादनन्तरं निरुक्तानि पत्यादीनि प्रसिद्धानि छन्दांस्युपदधातीत्युच्यते । अध्यात्मपक्षे - हे प्रत्यगभिन्नब्रह्मचिते, त्वं सर्वस्वरूपासि, ब्रह्मस्वरूपत्वात्, ' सर्वं खल्विदं ब्रह्म ' ( छा ० उ ० ३ | १४ | १ ) इत्यादिश्रुतिभ्यः । त्वं पृथिवीलोकात्मक माच्छन्दोरूपासि, अन्तरिक्षलोकात्मकप्रमाच्छन्दोरूपासि, द्युलोकात्मक प्रतिमाच्छन्दोरूपासि, लोकत्रयात्मक लोकत्रयस्राव्यन्नरूपात्मकात्रीवयश्छन्दरूपासि । पङ्क्त्यादि -छन्दोरूपा चासि | -दयानन्दस्तु – ' हे मनुष्याः, युष्माभिर्यया मीयते सा माच्छन्द आनन्दकरी, प्रमा यया प्रमीयते सा प्रमा च प्रज्ञाच्छन्दो बलम्, प्रतिमीयते यया क्रियया सा प्रतिमाच्छन्दः स्वातन्त्र्यम् । अस्रीवयो यदस्यति कामयते तदस्रीवयोऽन्नादिकं छन्दः बलकारि । पङ्क्तिः पश्चावयो योगश्छन्दः प्रकाशः, उष्णिक् स्नेहनम्, छन्दः प्रकाशः, बृहती महती प्रकृतिः, छन्द आश्रयः । अनुष्टुप् सुखानामनुष्टम्भनम्, छन्दो योगः । विराड् विविधविद्याप्रकाशनं छन्दो विज्ञानम्, गायत्री गायन्तं त्रायते सा ( ईश्वर: ) छन्दस्तद्बोधः, त्रिष्टुब यया त्रीणि सुखानि स्तोभति सा छन्द आनन्दः जगती गच्छति सर्वं जगद्यस्यां सा, छन्दः पराक्रमः । इत्येतत्सर्वं स्वीकृत्य विज्ञाय च सुखयितव्यम् ' इति, तदपि यत्किञ्चित् सर्वस्यैव निर्मूलत्वात् । एकस्यैव छन्दः शब्दस्य नैकधोच्चरितस्य आनन्द-करत्वादयोऽर्थाः कथमिति तु नोक्तम् । माप्रमादीनां तदुक्ता व्युत्पत्तयस्तु पूर्वोक्तश्रुतिविरुद्धा एव । पङ्क्त्यादीनां पञ्चावियोगादयोऽर्था निर्मूला, छन्दः शास्त्रविरुद्धाश्च । हे मनुष्याः, युष्माभिः सर्वं स्वीकृत्य विज्ञाय च सुखयितव्यमिति तु स्पष्टमेव व्याख्यातुः स्वकपोलकल्पना ॥ १८ ॥
पृथि॒वी छन्दोऽन्तरिक्षं छन्दो द्यौश्छन्दः समाइछन्दो नक्ष॑त्राणि॒ छन्दो॒ वाक् छन्दो॒ मन॒श्छन्द॑ क॒षिश्छन्दो॒ हिर॑ण्य॒ छन्द॒ो गौश्छन्दोऽजा छन्दो॑ऽश्व॒ छन्द॑ः ॥ १ ९ ॥ मन्त्रार्थ – पृथिवी देवता वाले छन्द का मनन करते हुए मैं इस इष्टका को स्थापित करता हूँ । अन्तरिक्ष देवता वाले छन्द का लोक के देवता वाले छन्द का, वर्ष के देवता वाले छन्द का, नक्षत्र देवता वाले छन्द का, वाग् देवता वाले छन्द का मन देवता वाले छन्द का कृषि देवता वाले छम्व का, हिरण्य देवता वाले छन्द का, गो देवता वाले छन्द का, अजा देवता वाले छन्द का और अश्व देवता वाले छन्द का मनन करते हुए मैं इस इष्टका को स्थापित करता हूँ ॥१९ ॥
पृष्ठ 410
पाठ पढ़ें पाठ छिपाएँ
३७४ शुक्लयजुर्वेद संहिता [ अ ० १४ है इष्टके, पृथिव्यादिदेवत्थानि यानि छन्दांसि त्वं तद्रूपासि | स्पष्टमन्यत् । अत्र ब्राह्मणम् -- पङ्क्ति-छन्दः । उष्णिक छन्दो बृहतोछन्दोऽनुष्टुप्छन्दो विराट्छन्दो गायत्रीछन्दस्त्रिष्टुप्छन्दो जगतीच्छन्द इत्येतानि निरुक्तानि विराडष्टमानि छन्दा स्युपदधाति पृथिवीच्छन्दोऽन्तरिक्षं छन्द इति यान्येतद्देवत्यानि छन्दा तान्येवैतदुपदधात्यग्निर्देवता वातो देवतेत्येता वै देवताश्छन्दा सि तान्येवैतदुपदधाति ' ( श ० ८।३।३।६ ) । तानि निरुक्तानि छन्दांसि दर्शयति – पक्तिश्छन्द इत्यादिना । एतेषां प्रजापतिरूपता द्वितीयचितौ दर्शिता ( श ० ८ | २ | ४ | ३ - १५ ) । विराट्छन्दस: प्रसिद्ध गायत्र्यादिछन्दोमध्ये पाठाभावात् ' द्वाभ्यां विराट्स्वराजी ' ( पि ० सू ० ३।६० ) इति पिङ्गलोक्तेर्गायत्र्यामन्तर्भावान्निर्दिष्टस्याप्य निरुक्तवद् विराडष्टमानीति पुनरभि • धानम् । पक्तिएछन्द इत्यादिमन्त्रैरुपहिता इष्टका निरुक्तछन्दोरूपाः, तासामुपधानेनेमानि छन्दांस्युपहितवान् भवति । पश्चादुपधेयानां द्वादशानामिष्टकानां ये मन्त्रास्तेषां प्रतीकमादाय तेषां समानार्थत्वेन मादिच्छन्दोरूपता -माशङ्क्य तद्भिनत्वमुपपादयन् तात्पर्यमाह - पृथिवोच्छन्दोऽन्तरिक्षं छन्द इति । एतद्देवत्यानि पृथिव्यन्तरिक्षादि-देवताकमन्त्रोपरिबुद्धानि यानि छन्दांसि तान्येवैतदुपदधाति । पूर्ववदुपधेयेष्टकामन्त्रप्रतीकमुपादाय व्याचष्टे-अग्निर्देवतेति । एता वै देवताश्छन्दांसि तान्येवैतदुपदधतीत्यग्निवातसूर्यादिदेवताः खलु छन्दांसि । अग्नेर्गायत्र्य-भवदिति वाक्याद् देवताभ्यश्छन्दसामुत्पत्तेरुत्पादकोत्पाद्यानामभेदविवक्षया देवतानामेव छन्दस्त्वव्यपदेशः । निरुक्तानि पङ्क्त्यादिजगत्यन्तानि छन्दांस्यष्टादश्यां पृथिवीच्छन्दोऽन्तरिक्षं छन्द इत्यादीन्येकोनविंश्याम्, अग्नि-देवता वा देवतेत्यादीनि विश्यां कण्डिकायामस्मिन्नेवाध्याये वर्णितान्यनुसन्धेयानि । अध्यात्मपक्षे - हे प्रत्यगभिन्नब्रह्मचिते स्वं पृथिवीदेवताकमन्त्रोपरिबद्धच्छन्दोरूपासि । तथैवान्तरिक्ष-द्युलोकसमानक्षत्रवाङ्मनः कृषिहिरण्यगोऽजाश्वादिदेवताकास्तत्तत्प्रतिपादका ये मन्त्राः सन्ति, तदुपरिबद्धच्छन्दो-रूपासि । वेदमन्त्रेषु पूर्वोक्ताः सर्वेऽर्थास्तत्तत्प्रसङ्गेषूक्ताः । ते ते मन्त्राः, ते तेऽर्थाः, तदीयच्छन्दांसि च त्वमेव भवस, सर्वात्मत्वात् । दयानन्दस्तु -- ' हे स्त्रीपुरुषाः, यूयं यथा पृथिवी च्छन्दोऽन्तरिक्षं छन्दो द्यौश्छन्दः समाश्छन्दो नक्षत्राणि छन्दो वाक् छन्दो मनश्छन्दः कृषिश्छन्दो हिरण्यं छन्दो गौश्छन्दोऽजाश्छन्दोऽश्वच्छन्दोऽस्ति तथा विद्याविनयधर्माचरणेषु स्वाधीनतया वर्तध्वम् ' इति, तदपि यत्किचित् छन्दः शब्दस्यार्थानां निर्मूलत्वात् श्रुतिविरोधाच्च । नहि पृथिव्यादीनां स्वातन्त्र्यमस्ति जडत्वात् । नहि मनुष्यरजाश्वादयोऽनुकरणीया भवन्ति ॥ १ ९ ॥ अ॒ग्निर्दे॒वता॒ वातो देवता सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो दे॒वता॑ रु॒द्रा दे॒वता॑दि॒त्या दे॒वता॑ म॒रुतो॑ दे॒वता॒ विश्वे॑दे॒वा दे॒वता॒ बृह॒स्पति॑र्दे॒षतेन्द्रो॑ दे॒वता॒ वरु॑णो दे॒वता॑ ॥ २० ॥
मन्त्रार्थ - अग्नि देवता का मनन करते हुए इस इष्टका को स्थापित करता हूँ । वायु देवता, सूर्य देवता, चन्द्रमा देवता, वसु देवता, रुद्र देवता, आदित्य देवता, मस्तु देवता, विश्वेदेव देवता, बृहस्पति देवता और इन्द्र देवता का मनन करते हुए मैं इस इष्टका को स्थापित करता हूँ ॥ २० ॥
gh, स्वमग्न्यादिदेवतारूपासि । तां त्वामुपदधामीति शेषः । एवं सर्वत्र योज्यम् । अग्न्यादीनां देवतात्वं प्रसिद्धम् । ' अग्निर्देवता वातो देवतेत्येता वै देवताश्छन्दाछ सि तान्येवैतदुपदधाति ' ( श ० ८ | ३ | ३ | ६ ) इति पूर्वस्यां कण्डिकायामुद्धृतेन ब्राह्मणेन, गायत्र्यादीनामग्न्यादिप्रभवत्वेन च कार्यकारणाभेदेनाग्न्यादिदेवतानां छन्दोरूपत्वमुक्तम् ।