वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 411–420
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 411–420
पृष्ठ 411
पाठ पढ़ें पाठ छिपाएँ
म ० २० ] बेदार्थपारिजातभाष्यसहिता ३७५ अत्र ब्राह्मणम् -'स वै निरुक्तानि चानिरुक्तानि चोपदधाति । स यत्सर्वाणि निरुक्तान्युपाधास्यदन्तव-द्धानमभविष्यदक्षेष्यत हाथ यत्सर्वाण्यनिरुक्तानि परोक्ष हान्नमभविष्यन्न हैनदद्रक्ष्यंश्चन निरुक्तानि चानि-रुक्तानि चोपदधाति तस्मान्निरुक्तमन्नमद्यमानं न क्षीयते ' ( श ० ८ ३।३।७ ) । अथ दक्षिणोत्तरपक्षपुच्छसन्धिषु निरुक्ता निरुक्तभेदेन द्विविधानामपि छन्दसामुपधानमन्यतरोपधानपक्षे दोषप्रदर्शनपुरःसरं प्रशंसति - स वै निरुक्तानि चेत्यादिना । स उपधाता यदि केवलं निरुक्तान्येवोपाधास्यत्, तर्हि छन्दसां पशुरूपत्वेनान्नत्वात् तेषां छन्दसां निशेषोपधानेन मितत्वादन्नमप्यन्तवदेवाभविष्यत् । यथा द्विप्रस्थं त्रिप्रस्थमित्येवं निरुक्तिमापनं ख्यापितं सत् पुनश्चानिरुक्तस्यान्नस्यासम्भवादन्तवदेव भवति । तथा सति को बाध:? इति चेत्तत्राह - अक्षेष्यत हेति । ' ह इति विनिग्रहार्थीय: ' ( निरु ० ११५ ) | क्षयमापद्येत । अथोक्तवैपरीत्येन यदि सर्वाण्यपि छन्दांस्यनिरुक्तान्येवो-पाधास्यत्, तहदमिति निरुक्तत्वाभावादनं परोक्षमभविष्यत् । न हैनदद्रक्ष्यंश्वनेति । तथा सत्येतदन्नं जना नाप्यद्रक्ष्यम्, अस्पष्टत्वेनेन्द्रियाविषयत्वात् । अतो दोषद्वयासंस्पर्शायोपायमाह - निरुक्तानि चानिरुक्तानि चोपदधातीति । तस्मादुभयस्याप्यनुष्ठितत्वान्निरुक्तमन्नमद्यमानमप्यनिरुक्तस्यासंख्यातस्यान्यस्यान्नस्य सद्भावान्न संक्षीयते । अतः केषानिन्निरुक्तानां केषादिनिरुक्तानां चोपधानं प्रशस्तम् । ' तानि वा एतानि । त्रीणि द्वादशान्युपदधाति तत् षट्त्रि शत् षट्त्रि I शदक्षरा बृहत्येषा वै सा बृहती यां तद्देवा अन्तरिक्षं बृहतीं तृतीयां चितिमपश्यंस्तस्या एतस्यं देवा उत्तमा ' ( श ० ८ ३ ३ ८ ) । प्रतिदिक्षु यद् द्वादशत्वं तद् बृहतीसम्पत्तिद्वारा स्तीति- तानि वा एतानीनि । छन्दसां यद् द्वादशकं द्वादशम् तादृशानि त्रीणि द्वादशान्युपदध्यात् । मिलितानि षट्त्रिंशत्, बृहत्याश्च षट्त्रिंशदक्षराणि, अत एषा बृहती सम्पन्ना । तृतीयचित्युपक्रमे प्रतिपादिता या बृहतो, ' अन्तरिक्षं बृहतीं तृतीयां चितिमपश्यन् ' ( श ० ८ | ३ | ११२ ) इति, तस्या एतस्मै देवा उत्तमाः उपधीयन्त इति शेषः । ते च ' अग्निर्देवता वातो देवता ' इत्यादिना निर्दिष्टाः । ' यद्वेवैता इष्टका उपदधाति । प्रजापतेवित्रस्तात् सर्वाणि भूतानि सर्वा दिशोऽनु व्युक्रामन् ' ( श ० ८ | ३ | ३ ९ ) । स यः स प्रजापतिर्व्यस्र. सत । अयमेव स योऽयमग्निश्चीयतेऽथ यान्यस्मात् तानि भूतानि व्युदक्रामन्नेतास्ता इष्टकास्तद्यदेता उपदधाति यान्येवास्मात्तानि भूतानि व्युदक्रामंस्तान्यस्मिन्नेतत्प्रतिघात ' ( श ० ८ १३ | ३ | १० ) । ' तद्या दश प्रथमा उपदधाति । स चन्द्रमास्ता दश भवन्ति दशाक्षरा विराडनं त्रिराडन्नमु चन्द्रमा अथ या उत्तराः षट्त्रि शदर्धमासाश्च ते मासाश्च चतुर्वि शतिरर्धमासा द्वादश मासाश्चन्द्रमा वे संवत्सरः सर्वाणि भूतानि ' ( श ० ८ | ३ | ३ | ११ ) । एता एवेष्टकाः पुनर्वित्रस्त प्रजापत्यवयवप्रतिसन्धान रूपत्वेन स्तौति यद्वेवैता इष्टका उपदधाति प्रजापतेरित्यादिना । प्रजापतिर्नाम चितिलक्षणोऽग्निः, ततो विस्रस्तानि भूतानीत्येताः शिदिष्टकाः, अत एतासामुपधानेन विस्रस्तात् प्रजापतेर्निर्गतानां भूतानां प्रतिसन्धानं कृतं भवतीत्यर्थः । अथैताः पूर्वोक्ताभिः सह समुच्चित्य स्तौति- तद्या दशेत्यादिना । या दश प्रथमाः प्राणभृत उपहिताः स चन्द्रमाः । चन्द्रमोक्ष इति पुंल्लिङ्गनिर्देशः । उक्तं चन्द्रमस्त्वमेवोपपादयति - ता दश भवन्तीत्यादिना । ताः प्राणभृतो दश विराडपि दशाक्षरा । सा तु अन्नम् । विराजोऽन्नत्वं प्रागुक्तम् ( श ० ८ ३ २ १३ ) इत्यत्र | चन्द्रमा अपि अन्नमु अन्नमेव, ' एष वै सोमो राजा देवानामन्नम् । तं देवा भक्षयन्ति ' ( श ० २ | ४ | ४ | १५ ) इति श्रुतेः । ओषध्यादिरूपस्य तस्यान्नत्वं व्यक्तमेव । अथ या उत्तराः षट्त्रिंशत् छन्दस्याः सन्ति, तेऽर्धमासाश्च मासाश्च । मासापेक्षया ' ते ' इति पुंल्लिङ्गनिर्देश: । चन्द्रमस उपचयापचयाभ्यां शुक्लकृष्णो पक्षो भवतः, तयोरावृत्त्वा मासादिद्वारेण संवत्सरो निष्पद्यत इत्यभिप्रेत्य चन्द्रमा में संवत्सर इत्युक्तम् । स च सर्वाणि भूतानि संवत्सरकाले सर्वं भूतानामुत्पत्तेः । ' तं यत्र देवाः समस्कुर्वन् । तदस्मिन्नेतानि सर्वाणि भूतानि मध्यतोऽदधुस्तथैवास्मिन्नय-मेघातिता अनन्तर्हिता ऋतव्याभ्य उपधात्यृतुषु तस्सर्वाणि भूतानि प्रतिष्ठापयति ' ( श ० ८ ३ | ३ | १२ ) ।
पृष्ठ 412
पाठ पढ़ें पाठ छिपाएँ
३७६ शुक्लयजुर्वेदसंहिता [ अ ० १४ यस्मिन् काले देवास्तं प्रजापति समस्कुर्वन, तदा सर्वाणि भूतानि मध्यदेशे स्थापयामासुः । यजमानोऽप्येतेन छन्दस्येष्टकोपधानेन सर्वाणि भूतानि स्थापयति । तथैव देववदयं अध्यात्मपक्षे - हे चिते, त्वमेवाग्निर्देवता, त्वमेव वातो देवता, त्वमेव सूर्यो देवता त्वमेव वसवो देवता, त्वमेव रुद्रादित्यमरुद्विश्वेदेवबृहस्पतीन्द्रवरुणाख्या देवताः, अतस्तां त्वामहमाश्रये , त्वमेव चन्द्रमा देवता, । दयानन्दस्तु - ' हे स्त्रीपुरुषाः, युष्माभिरग्निर्देवता वातो देवता चन्द्रमा वसवः प्रसिद्धाग्न्यादयोऽष्टौ रुद्राः प्राणान्य एकादश आदित्या द्वादशमासा वसूद्रादित्यसंज्ञका विद्वांसश्च मरुतो ब्रह्माण्डस्था मनुष्या ऋत्विजो विश्वे सर्वे देवा दिव्यगुणा मनुष्याः पदार्थाश्च बृहस्पतिबृहतो ब्रह्माण्डस्य पालको देवता विद्वांस परमैश्वयं वा देवता वरुणो जलं वरगुणाढ्घोऽर्थो वा देवता सम्यग्विज्ञेया: ' इति, तदपि यत्किञ्चित् इन्द्रो , विज्ञेया विद्युत् इति पदस्य मूलेऽभावात् विज्ञानफलानुक्तेश्च । नहि वेदे निरर्थकानि क्रिया ज्ञानानि चोपदिष्टानि । भूमिकायां योनिविशेषाणां देवत्वसाधनाच्च ॥ २० ॥
मू॒र्धासि राहू धबासिं ध॒रय॑सि॒ धर्म॑णो । आयु॑षे त्वा॒ वर्च॑से त्वा कृ॒ष्य॑ त्वा॒ क्षेम त्वा ॥ २१ ॥
मन्त्रार्थ - गलखिल्ये! हम प्रकाशवान् मूर्धा के समान उत्तम हो, घारण हेतु और स्थिर हो, तुम ध्रुव रूप से इस स्थान को धारण करो • तम धारण करने वाली भूमि हो, धरणी रूप से इस स्थान को धारण करने में तत्पर बनो । आयु को वृद्धि के लिये तुमको स्थापित करता हूँ । कान्ति के लिये, अन्न की वृद्धि के लिये और कल्याण को वृद्धि के लिये तुमको स्थापित करता हूँ ॥ २१ ॥
' वालखिल्याः सप्त पुरस्तात् प्राणभृद्भयो वाऽपराः, द्वादशभ्योऽपरास्तु मूर्धासि राडिति प्रतिमन्त्रम् ' का ० श्री ० १७३ ९।१०-१३ ) | प्रागुक्ताः सप्त वालखिल्यसंज्ञका इष्टका दशप्राणभृद्भयः पूर्वा अपरा वोपदध्याद् मूर्धाऽसीत्यादिभिः सप्तभिर्मन्त्रैः । तु विशेषे । अपराः सप्त वालखिल्यास्तु द्वादश च्छन्दस्याभ्योऽपरा एवोपया यन्त्रीत्यादिभिः सप्तभिर्मन्त्रैरिति सूत्रार्थः । मूर्धासीत्यनुष्टुप् । यन्त्रीति परोष्णिक् । ऋग्द्वये चतुर्दश यजूंषि वालखिल्यादेवत्यानि । हे इके, त्वं मूर्धा मूर्धवदूत्तमा राड् राजमाना चासि । हे इष्टके, त्वं ध्रुवा स्थिरा धरुणा धारणतश्वासि । हेइके, त्वं धत्र धारणं कुर्वती भूमिरूपा चासि । एवमिष्टकात्रयस्य त्रिलोकीरूपत्वम् । आयुषे त्वा आयुवृद्धयर्थं त्वामुपदधामि । वर्चसे कान्त्यर्थं त्वामुपदधामि । कृष्यं सस्यनिष्पत्तये त्वामुपदधामि । क्षेमाय सम्पादितधनरक्षणाय त्वामुपदधामि । तदेतत्सर्वं स्पष्टं ब्राह्मणे । तथाहि-' अथ वालखिल्या उपदधाति । प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता यद् वालखिल्या नाम यद्वा उर्वरयोरसम्भिनं भवति खिल इति वै तदाचक्षते वालमात्रादु हेयं प्राणा असम्भिन्नास्ते यद्वालमावादसम्भिन्ना स्तस्माद्रालखिल्याः ' ( श ० ८ | ३ | ४ | १ ) । वालखिल्येष्टका विधाय स्तौति - अथ वालखिल्या इति । प्राणत्वमुपरिष्टाद् वक्ष्यते । प्रतिज्ञापूर्वकं नाम निर्बते - ता यद्वालखिल्या नामेति । तत्प्रकार: प्रदर्श्यत इति शेषः । खिलस्वरूपं तावदाह - यद्वा इति । यदेव खलु क्षेत्रम् उवरयोः सर्वसस्याढ्ययोर्द्वयोः क्षेत्रयोरसम्भिन्नमस्पृष्टं भवति, स्वयमसस्यं भवतीत्यर्थः, तत्क्षेत्रं खिल इत्याचक्षते जनाः । ' पलिहर ' इति भोजपुरीभाषायाम् । प्रकृते तत्कथमित्यत आह - वालमात्राद्विति । इमे प्राणा वालमात्राद् व्यवधानादसम्भिन्ना असंस्पृष्टा अत एव खिला, खिला एव खिल्याः । यस्मादेवं तस्मात् प्राणा वालखिल्याः । देहे स्थितानां प्राणानां वालमात्रेणापि भेदाभावे देहेन साङ्ख्यं
पृष्ठ 413
पाठ पढ़ें पाठ छिपाएँ
म ० २१ ] वेदार्थपारिजातभाष्यसहिता ३७७ स्यात् । प्राणानां वालमात्रनाडीव्यवधानं शास्त्रसिद्धम् । स वै सप्त पुरस्तादुपदधाति । सप्त पश्चात्तद्याः सप्त पुरस्तादुपदधाति य एवेमे सप्त पुरस्तात् प्राणास्तानस्मिन्नेतद्दधाति ' ( श ० ८ | ३ | ४ | २ ) । प्रसन्ना कण्डिका । ' अथ याः सप्त पश्चात् । एषामेवैतत्प्राणानामेतान् प्राणान् प्रतिप्रतीन् करोति तस्माद्यदेभिरन्नमत्ति तदेत रत्येति ' ( श ० ८ | ३ | ४ | ३ ) | तत्पश्चाद्भागे च सप्त उपदध्यात् । एषामेव पुरस्तादुपधीयमानेष्टका लक्षण सप्तप्राणानामेव एतद् एतेन पश्चादुपधानेन एतान् अधोवर्तिनः प्राणान् प्रतिप्रतीन् प्रतिनिधिरूपान् अथवा प्रतिकूलव्यापारवतः करोति । तेषामूर्ध्वमुखव्यापारः, एषां त्वधोमुख इति प्रातिकूल्यमेव दर्शयति - तस्माद्यदेभिरन्नमत्तीति । एभिः पुरस्ताद्वर्तमानैर्भक्षितमन्नमेतैरधो वर्तमानैरत्येति देहान्मलादिरूपेण अतिक्रमयति निःसारयतीत्यर्थः । यद्यप्यूर्ध्व-प्राणेष्वेकस्यैवात्तृत्वम्, तथापीतरेषां षण्णां तदनुकूलव्यापारवत्त्वादत्तृत्वमुपचर्यते । एवमधस्तात् प्राणानामप्य-नापसारकत्वम् । ' यद्वेव सप्त पुरस्तादुपदधाति । सप्त वा इमे पुरस्तात् प्राणाश्चत्वारि दोर्बाहवाणि शिरोग्रीवा यदुवं नाभेस्तत्सप्तममङ्गेऽङ्गे हि प्राण एते वै सप्त पुरस्तात् प्राणास्तानस्मिन्नेतद्दधाति ' ( श ० ८ ३ ४ ४ ) । इत्थं प्राणात्मना पुरस्तात् पश्चाच्चोपधेयेष्टकाः प्रशस्येदानीं प्राणशब्दस्य विवक्षितमर्थमभिदधत् प्रकारान्तरेण स्तौति--द्वेव सप्त पुरस्तादित्यादिना । के ते पुरस्तात् प्राणा इति तान् दर्शयति - चत्वारि दोर्बाहवाणीति । दोर्द्वयं बाहुद्वयं चेति चत्वार्यङ्गानि । मध्यसन्धेरुपरिभागो दो, अधोभागो बाहुः, एवं चत्वारि दोहवाणि, शिरो ग्रीवा चेति द्वे अङ्ग, नाभेरूध्वं यदेकमङ्गं तत्सप्तमम् । सर्वाणि मिलित्वोपरिष्टात् सप्त प्राणाः । नन्वेतान्यङ्गानि भवन्ति, कथमेषां प्राणत्वमिति तत्राह - अङ्गे हि प्राण इति । प्रत्यङ्गं प्राणाभावे तु तत्तदङ्गचेष्टेव नोपपद्यते । ' अथ याः सप्त पश्चात् । सप्त वा इमे पश्चात् प्राणाश्चत्वार्यर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेः तत्सप्तममङ्गेऽङ्गे हि प्राण एते वै सप्त पश्चात् प्राणास्तानस्मिन्नेतद्दधाति ' ( श ० ८ | ३ ४ ५ ) । पादस्य मध्यसन्धेरुपरिभाग ऊरुः, अधोभागोऽष्ठोव शब्दवाच्यः । द्वे प्रतिष्ठे पादो नाभेरधोऽङ्गं सप्तमम् । ' मूर्धासि राड् । ध्रुवासि धरुणा धसि धरणी यन्त्री राड् यन्त्र्यसि यमनी ध्रुवासि धरित्रीत्येतानेवास्मिन्नेतद् ध्रुवान् प्राणान् यच्छति ' ( श ० ८ | ३ | ४ | ६ ) । पुरस्तात् पश्चाच्चोपधेयानां मध्ये त्रींस्त्रीन् मन्त्रानुदाहृत्य संगृह्य तात्पर्यमाह मूर्धासीत्यादिना । उत्तरत्र मूर्धादीनां त्रयाणां भूरादिलोकत्रयरूपेण स्तूयमानत्वान्मूर्धादिभिः शब्दैर्भुरादयो लोका विवक्षिता: । हे इष्टके, त्वं मूर्धाि मूर्धवदुत्कृष्टभूर्लोकरूपासि । मूर्धत्वं भूमेः सर्ववस्त्वाश्रयत्वात् । तथा राड् राजमानासि । हे द्वितीयेष्टके, त्वं ध्रुवा उभयतो लोकसद्भावाद ध्रुवोऽन्तरिक्षलोकः, तद्रूपासि । तामेव विशिनष्टि - धरुणेति । सर्वस्य पक्ष्यादेरपि धारिका । हे तृतीयेष्टके, त्वं धर्म्यंसि धरणी चासि । त एते त्रयो मन्त्राः | आयुषे त्वा, वर्चसे त्वा, कृष्यं वा क्षेमाय त्वेति चत्वार आम्नास्यन्ते । ते तु स्पष्टार्थाः । तान् पृथगुदाहृत्य व्याख्यास्यति श्रुतिः । तत्र यन्त्री राड् इति पश्चादुपधेयानां प्रथमो मन्त्रः । एतेषां त्रयाणां स्वर्गादिक्रमणसाधनत्वेन स्तूयमानत्वादिष्टकाः स्वर्गादिरूपेण स्तूयन्ते - हे प्रथमे के, त्वं यन्त्री सर्वस्य नियमयित्री राड् राजमाना, उक्तलक्षणस्वर्गरूपासीत्यर्थः । हे द्वितीयेष्टके, त्वं यमनी विशेषेण नियन्तृरूपा यन्त्री उक्तलक्षणान्तरिक्षरूपासीत्यर्थः । हे तृतीयेष्टके, त्वं ध्रुवा अविचलिता धरित्री सर्वस्य धारिका उक्तलक्षणपृथिवीरूपासीत्यर्थः । अग्रिमेष्ट कोपधानमन्त्राश्चत्वारः । इषे त्वा, ऊर्जेत्वा, रय्यं त्वा, पोषाय त्वा - इत्येते उपरिष्टादाम्नास्यन्ते । ते स्पष्टार्थाः । निर्दिष्टानां षण्णां मन्त्राणां तात्पर्यं माह – एतानेवास्मिन्नेतद् ध्रुवान् प्राणान् यच्छतीति । एषु मन्त्रेषु ध्रुवसंशब्दनाद् एतानेव ध्रुवान् लोकान् ध्रुवप्राणात्मकान् कृत्वा अस्मिन् प्रजापतिशरीरात्मके चितिस्वरूपे एतेन मूर्धादिमन्त्रसाध्येष्ट कोपधानेन यच्छति स्थापयतीत्यर्थः । ४८
पृष्ठ 414
पाठ पढ़ें पाठ छिपाएँ
३७८ शुक्लयजुर्वेद संहिता [ अ ० १४ ' यद्वेव वालखिल्या उपदधाति । एतद्वै देवा वालखिल्याभिरेवे माँल्लोकान्त्समयुरितश्चोर्ध्वानमुतश्चार्वाचि स्तथैवैतद्यजमानो वालखिल्याभिरेवे माल्लोकान्त्संयातीतश्चोर्ध्वानमुतश्चार्वाचः ' ( श ० ८ | ३ | ४१७ ) | प्रकारान्तरेण स्तीति द्वेव वालखिल्या इत्यादिना । एतद्वै एतत्खलु पुरासीत् । देवाः पुरा वालखिल्याभिरिष्टकाभिरेवे-मस्त्रींल्लोकान् समयः सम्यगाप्तवन्तः । केन क्रमेणेत्युच्यते - इतो भूलोकाद् ऊर्ध्वान् अमुतः स्वर्गाद् अर्वाचोऽध-स्तनान् इत्यारोहावरोहभेदाद् द्विप्रकारेण समयुरित्यर्थः । शेषं स्पष्टम् । ' मूर्धासि राडितीमं लोकमरोहन् । ध्रुवासि धरुणेत्यन्तरिक्षं लोकं धत्र्यंसि धरणीत्यमुं लोकमायुषे त्वा वर्चसे त्वा कृष्ये त्वा क्षेमाय वेत चत्वारश्चतुष्पादाः पशवोऽन्नं पशवस्त एतैश्चतुभिश्चतुभिश्चतुष्पादैः पशुभिरेतेनान्नेनामुष्मिँल्लोके ' ' ' ' प्रतितिष्ठति ' ( श ० ८ | ३ | ४ | ८ ) । उक्तं प्रकारं विभज्य दर्शयति-- मूर्धासीति । एतन्निगदसिद्धम् । पुरस्तादुपधेयेष्टकानां चतुरो मन्त्रानुदाहृत्य तात्पर्यं दर्शयति- आयुषे त्वेत्यादिना । एते चत्वारः पशवश्चतुष्पादाः । ते च अन्नम् । ते देवा एतैश्चतुभिर्मन्त्रैश्चतुःसंख्यासाम्येन चतुष्पादयुक्तैः पशुभिस्तद्रूपेणैतेनामुष्मिन् भूरादिक्रमेणारूढे स्वर्गे प्रतिष्ठिता अभूवन् । एवं पूर्वोक्तास्त्रयो मन्त्राः क्रमेण लोकत्रयाक्रमणस्थानीयाः उपरितनाश्चत्वार आक्रान्तवतां देवानामन-स्थानीया इति सिद्धा पुरस्तादुपधेयानां वालखिल्यानां स्तुतिः । स स पराङिव रोहः । इयमु वै प्रतिष्ठा ते har इमां प्रतिष्ठामभिप्रत्यायंस्तथैवैतद्यजमान इमां प्रतिष्ठामभिप्रत्यैति ' ( श ० ८ | ३ | ४ | ९ ) । पश्चाद्वालखिल्या-प्रसञ्जनार्थमाह- स स पराङिवेति । लोकानां त्रित्वेन तदारोहस्यापि त्रित्वात् तदपेक्ष्य स स इति वीप्सा । पराङिव पुनरावृत्तिरिव इयम् । ननु स्वर्गेऽपि प्रतिष्ठानं किं न स्यात्? इत्यत आह - इयम् वै प्रतिष्ठेति । सुकृतक्षये पुनर्भूलोके पतनात् । अस्याः प्रतिष्ठात्वं तु सर्वजीवाश्रयत्वात् । यस्मादेवं तस्माद्देवाः स्वर्गं प्राप्ताः सन्तोऽपीमां प्रतिष्ठां भुवमभिलक्ष्य प्रत्यायन प्रतिमुखं प्राप्ताः । ' यन्त्री राडित्यमुं लोकमरोहन् । यन्त्र्यसि यमनोत्यन्तरिक्षलोकं ध्रुवासि धरित्रीतीमं लोकमिषे त्वोर्जे त्वा रय्ये त्वा पोषाय त्वेति चत्वारश्चतुष्पादा ' ' ' ' ( श ० ८ | ३ | ४ | १० ) । प्रतिगतिप्रकारं विभज्य दर्शयति - यन्त्री राडित्यमुं लोकमित्यादिना । एवमुत्तरांश्चतुरो मन्त्रान्प्रदर्शयन् भुवः प्रतिष्ठात्वमन्नत्वेन स्तोति - इषे त्वेत्यादिना । अध्यात्मपक्षे - हे चिते, त्वं मूर्धासि मूर्धवत् सर्वोत्कृष्टासि । राड़ राजमानासि, अवेद्यत्वे सत्यपरोक्षस्य व्यवहारायोग्यत्वात् । ध्रुवासि कूटस्थासि । धरुणासि धरित्री असि + सर्वाधिष्ठानरूपत्वात् । त्वं धर्त्री धारणं कुर्वती धरित्रीरूपासि । आयुषे आयुर्वृद्ध्यर्थं वर्चसे कान्त्यर्थं कृष्यं सस्यादिनिष्पत्तये क्षेमाय प्राप्तज्ञान - ध्यान-योग- लक्ष्म्यादिरक्षायै च त्वामुपाश्रये । ' अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ ' भा ० पु ० २ । ३ । १० ) इति श्रीमद्भागवत महापुराणवचनात् । दयानन्दस्तु – ' हे स्त्रि, या त्वं सूर्यवन्मूर्धासि राडिव ध्रुवासि स्वकक्षायां गच्छन्त्यपि निश्चलासि । धरुणा धरणीव धसि । तामायुषे त्वां वर्चसे त्वां कृष्यं त्वां क्षेमाय त्वामहं परिगृह्णामि ' इति, तदपि यत्किचित् आयुरादीनां तदनधीनत्वात् । नहि कृषिकर्मण्यपि तदुपयोगः, हलबलीवर्दादिभिरन्यथासिद्धत्वात् ॥ २१ ॥
यन्त्र॒ राड् य॒न्त्र्यसि॒ यम॑नी ध्रुवासि॒ घरि॑त्री । इ॒षे त्वा॒जें त्वा॑ र॒थ्ये॑ त्वा॒ पोषय त्वा लो॒कं ता इन्द्र॑म् ॥ २२ ॥
मन्त्रार्थ -- है वालखिल्ये! तुम नियम से युक्त विराजमान हो, इस स्थान में विराजमान हो, स्वयं नियम में रहती हुई सबको नियमित करने वाली हो, स्थिर धरणी भूमि रूप हो । हे वालखिल्ये! अन्न की प्राप्ति के निमित्त, बल की प्राप्ति के निमित्त धन की प्राप्ति के निमित्त और धन की पुष्टि के निमित्त तुमको स्थापित करता हूँ ॥ २२ ॥
पृष्ठ 415
पाठ पढ़ें पाठ छिपाएँ
म ० २२-२३ ] वेदार्थपारिजात भाष्यसहिता ३७ ९ इष्टके, त्वं यन्त्री नियमोपेता राड् राजमानासि । तथा स्वयमपि यन्त्री सती यमनी सर्वेषां नियमनकारिणी असि भवसि । ध्रुवा स्थिरा सती धरित्री भूमिरूपा चासि । अत्र पूर्वस्यां कण्डिकायां वर्णितो ब्राह्मणोक्तोऽर्थोऽनुसन्धेयः । हे इष्टके, इषेऽन्नाम त्वामुपदधामि । ऊर्जे बलाय त्वामुपदधामि । रय्ये धनाय त्वामुप-दधामि । पोषाय धनपुष्टयै त्वामुपदधामि । चतसृणां पूर्वोक्तब्राह्मणानुसारेण पशुरूपेण संस्तव: । ' उत्तराश्रोणेरधि लोकम्पुणाः पूर्ववत् ' ( का ० श्री ० १७ / ९ / १५ ) । तव उत्तरोणेरारभ्य प्रदक्षिणं पूर्वानुकान्तं यावत् प्रथमचित्युक्त-प्रकारेण लोकम्पृणा उपदध्यात्, ततः प्रत्यागत्य प्रागनूकस्य दक्षिणत आरभ्योत्तरश्रोण्यक्ष्णयादेश पर्यन्तं लोकम्पृणाशेषमुपदध्यात् । ततो दक्षिणपक्षपुच्छोत्तरपक्षेष्विति सूत्रार्थः । ततः पुरीष निर्वापोपस्थाने । लोकम्, ता, इन्द्रम् इति तिस्र ऋचः प्रतीकगृहीताः -- ' लोकम्पूण छिद्रम्पूण ' ( वा ० सं ० १२।५४ ), ' ता अस्य ' ( वा ० सं ० १२ ।५५ ), ' इन्द्रं विश्वा ' ( वा ० सं ० १२२५६ ) इति । तत्र लोकम्पृणेत्यनया लोकम्पृणा उपदध्यात् । ता अस् सूददोहःसंज्ञकया अधिवदनं स्पृष्ट्वा पठनम् । ' इन्द्र विश्वा ' इति मन्त्रेण स्वयमातृग्णोपरि मृत्क्षेप इति पूर्वं व्याख्यातमनुसन्धेयम् । तथा च ब्राह्मणम् -'अथ याः सप्त पश्चात् । य एवेमे सप्त पश्चात्प्राणास्तानस्मिन्नेतद्दधाति ता अनन्तर्हिता एवाभ्यो द्वादशभ्य उपदधात्यनन्तर्हितांस्तदात्मनः प्राणान् दधाति स एष वायुः प्रजापतिरस्मिस्त्रष्टुभेऽन्तरिक्षे समन्तं पर्यवनस्तद्यत्तृतीयां चितिमुपदधाति वायुं चैव तदन्तरिक्षं च संस्कृत्योपधत्तेऽथ लोकम्पृणे उपदधात्यस्याछ, क्त्यां तयोरुपरि बन्धुः पुरीषं निवपति तस्योपरि बन्धुः ' ( श ० ८ | ३ | ४ | १५ ) । एवमेव ' अथ याः सप्त पश्चात् ' इत्युत्तरवाक्यमपि व्याख्येयम् । सप्त पश्चात् प्राणाः ' चत्वायुर्वष्ठीवानि ' इत्यादिनोक्ताः । एताभ्यो द्वादशभ्य इति । मध्यत उपधेयाभ्यश्छन्दस्याभ्योऽनन्तहिता उपदध्यात् स एषः प्राणभृदादिवालखिल्यान्त इष्टकारूप: प्राण-शरीरवान् प्रजापतिरस्मिन् स्वयमातृष्णाद्यतव्यान्तैकादशेष्टका रूपे त्रैष्टुभेऽन्तरिक्षे समन्तं पर्यक्नः परिव्याप्तो वर्तते । तत् तस्मादिमां तृतीयां चितिमुपधातीति यत् तत् तेनोपधानेन वायुं चान्तरिक्षं च संस्कृत्योपहितवान् भवति । अथ लोकम्पूणे इति द्वे इष्ट के उपदधाति । तयोर्ब्राह्मणमुपरि वक्ष्यते-- ' असो वा आदित्यो लोकम्पृणा इति ' ( ० ८ | ७ | २ | १ ) । अथ पुरीषं निवपति । एतस्यापि ब्राह्मणमुत्तरत्र वक्ष्यत इत्यतिदिशति -- तस्योपरि बन्धुरिति । ' असो वा ' ' ' ' अन्नं वै पुरीषम् ' ( श ० ८७।३।१ - २ ) इत्यादिना वक्ष्यत इत्यर्थः । अध्यात्मपक्षे - हे चिद्रूपे भगवति, त्वं यन्त्री नियन्त्री सर्वस्यैव प्रपञ्चस्य नियामिकासि राड् राजमानासि । त्वं यन्त्र सती स्वयं नियमवती सती सर्वेषां यमयित्री ध्रुवा सती धरित्री भूमिरूपा चासि । इषे वृष्टत्वा ऊर्जे बलाय रसाय च रय्यं धनलाभाय च पोषाय धनशरीरादिपुष्टयं च त्वामुपाश्रये । त्वां लोकं भोगरूपां ता इष्टकारूपामिन्द्रं परमात्मरूपां च त्वामुपाश्रये । दयानन्दस्तु -- ' हे स्त्रि, या त्वं यन्त्री राड् यन्त्री भूमिरिवासि । यमनी ध्रुवा धरित्र्यसि । इषे इच्छासिद्धये ऊर्जे पराक्रमप्राप्तये पोषाय चाहं त्वां स्वीकरोमि इति, तदपि यत्किञ्चित् स्त्रीमात्रात्तदसिद्धेः ॥ २२ ॥
आ॒शुस्त्रि॒िवृद् भान्तः प॑ञ्चद॒शो व्यो॑मा सप्तद॒शो ध॒रुण॑ एकवि॒ध॒शः प्रत॑तिरष्टाद॒शस्तपो॑ नवदशोऽभव॒र्तः स॑वि॒शो वर्चो द्वावि॒शः स॒म्भर॑णस्त्रयोवि॒शो योनि॑श्च॒तु॑व॒शो गर्भाः पञ्चविश ओज॑स्त्रिण॒वः क्रत॒रेकस्त्रज्ञः प्र॑ति॒ष्ठान॑यस्त्रि ँशो ब्र॒ध्नस्य॑ वि॒ष्ट चतुस्त्रि॒िशो नार्कः षट्त्रि॒शोवि॑द॒र्तोऽष्टाचत्वारि॒शो ध॒त्रं च॑तुष्टोमः ॥ २३ ॥
पृष्ठ 416
पाठ पढ़ें पाठ छिपाएँ
३८० शुक्लयजुर्वेद संहिता [ I II मन्त्रार्थ - हे इष्टके! त्रिवृत् स्तोम तथा त्रिलोक में व्याप्त वायु देवता का ध्यान करते हुए त्रिवृत् आशु रूप तुमको मैं इस स्थान में स्थापित करता हूँ । पन्द्रह दिन में हास और वृद्धि को पाने वाले पंचदश कला के अधिपति चन्द्रज्योति को नमन करते हुए तुम्हारा सादन करता हूँ । अनेक प्रकार से रक्षा करने वाले प्रजापति सप्तदश स्तोम रूप हैं । धारणकर्ता प्रतिष्ठारूप एकविंश स्तोम है । संवत्सर बारह महीना, पाँच ऋतु और एक वर्ष को मिलाकर अठारह अवयव वाला है । नवदश स्तोम तपोरूप है । सविंश स्तोम समावृति रूप है । द्वाविंश स्तोम विशेष बल देने वाला है । त्रयोविंश स्तोम सम्यक् पुष्टि को देनेवाला है । चतुविश स्तोम प्रजा का उत्पादक है । पंचविश स्तोम सामगर्भ है । त्रिणव स्तोम तेज को देने वाला है । एकत्रिंश स्तोम यज्ञ के लिये उपयोगी है । त्रयस्त्रिश स्तोम स्थिति का कारण है । चतुस्त्रिश स्तोम सूर्य का स्वाराज्य निवासस्थान है । पश स्तोम स्वर्ग को देने वाला है । अष्टाचत्वारिंश स्तोम साम के आवर्तनों से युक्त है और धारक होने से त्रिवृत्, पंचदश सप्तदश, एकविंश- इन चार स्तोमों का समूहरूप है ॥२३ ॥
' उत्तरां पूर्वयोरा शुस्त्रि वृदिति ' ( का ० श्र ० १७ | १० | ६ ) । पूर्वयोः पूर्वानुकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये उत्तरां जङ्घामात्रीमुदङ्मुख उपदध्यादिति सूत्रार्थः । अस्यां कण्डिकायामष्टादश यजूंषि । तत्र चतुर्णां मृत्यु-मोहिन्युपधाने विनियोगः, प्रतूर्ति रित्यादीनां चतुर्दशानां चार्धपद्योपधाने । चतुर्थी चितिमृषयोऽपश्यन् । हे इष्टके, त्वं त्रिवृत् स्तोमरूपासि । अत्र त्रिवृत्पञ्चदश सप्तदशादिशब्दाः स्तोमविशेषवाचिनः । स्तोमाश्च त्रिवृतस्त्रिष्वस्य साम्न आवृत्तिभेदानिष्पद्यन्ते । आवृत्तिप्रकारस्तु एकादशाध्याये पूर्वमुक्त एव । एकविंशत्रिणव- त्रयस्त्रशाख्या आपस्तोमाः सामब्राह्मणे पठिताः । अष्टादशनवदशादयस्तु तेनैव न्यायेनोन्नेयाः । आवृत्तिप्रकारः सामसूत्रतोऽ-वगन्तव्यः । यद्वा - आशुर्वायुः, अश्नुते व्याप्नोति सर्वान् स्तोमान् सर्वांल्लोकान् वेत्याशुः । ' अनूङ व्याप्ती ' | स हि त्रिवृत् त्रिषु लोकेषु वर्तत इति । क्विप् । सर्वभूतव्यापकत्वादाशुर्वायुः । त्वं तद्रूपासि । ' दक्षिणां दक्षिणयो-र्भान्तः पश्चदश इति ' ( का ० श्र ० १७/१०१८ ) | दक्षिणानू कान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये भान्त इति मन्त्रेण दक्षिणां पद्यां प्रत्यङ्मुख उपदध्यादिति सूत्रार्थः । भान्तो वज्ररूपो यः पञ्चदशः स्तोमः, हे इष्टके, त्वं तद्रूपासि । यद्वा भान्तश्चन्द्रः पञ्चदशाहानि पूर्यमाणत्वात् पञ्चदशाहानि क्षीयमाणत्वात् पञ्चदशः । भा कान्तिरेव अन्तः स्वरूपं यस्यासौ । हे इष्टके त्वं तद्रूपासि । दक्षिणामुत्तरयोव्यमा सप्तदश इति ' ( का ० श्री ० १७।१०।९ ) । उत्तरानुकान्तविहितयोर्दक्षिणोत्तरपद्ययोर्मध्ये दक्षिणां पद्यां व्योमेति मन्त्रेण प्रत्यङ्मुख उपदध्यादिति सूत्रार्थः । व्योमा विविधमवतीति प्रजापतिः सप्तदशः स्तोमः । हे इष्टके, त्वं तद्रूपासि । ' दक्षिणामपरयोर्धरुण एकविश इति ' ( का ० श्र ० १७ | १० | ७ ) । अपरानुकान्तविहितयोर्दक्षिणोत्तरयोर्मध्ये दक्षिणां जङ्घामात्री धरुण मन्त्रेण दक्षिणामुख उपदध्यादिति सूत्रार्थः । धरुणो धारकः, प्रतिष्ठाभूत एकविंशः स्तोमः । यद्वा धरुण आदित्यः इति । स एकविंशावयवत्वाद् एकविंशः । द्वादशमासाः पञ्चर्तवः, त्रयो लोकाः, आदित्य इत्यवयवाः । हे इष्टके, त्वं तद्रूपासि । ' चतुर्दश प्रतिमन्त्रं प्रवृतिरष्टादश इति ' ( का ० श्री ० १७।१०।१० ) । चतस्र उपधाय चतुर्दश अर्धपद्या उदङ्मुख उपदध्याच्चतुर्दशमन्त्रीरति सूत्रार्थः । अतः परं संवत्सररूपाण्युपदधाति । प्रतूर्तिः प्रकृष्टा तूर्तिस्त्वरा यस्य स अष्टादशः स्तोमः । यद्वा संवत्सरः प्रतूतिः, स ह्यष्टादशावयवः । द्वादशमासाः पञ्चर्तवः संवत्सरश्चेत्यवयवाः । तद्रूपां त्वामुपदधामीत्यर्थः तपस्तपोरूपो नवदशः स्तोमः । यद्वा संवत्सर एव तपः । स हि शीतोष्णवर्षैस्तपतीति । स खलु नवदशः । द्वादश मासाः षडृतवः संवत्सर इति । हे इष्टके त्वं तद्रूपासि । अभीवर्तः, अभिवर्त्यत आवर्त्यत इत्यभीवतः, । आवृत्तिरूपः सविशः स्तोमः । यद्वा अभिवर्तयत्यावर्तयति सर्वाणि भूतानीत्य भीवर्तः संवत्सरः । स च द्वादशमास-सप्तर्तु - संवत्सरूपविशतिसंख्यया सहितः । अत एव सर्विशः । हे इष्टके, तद्रूपां त्वामुपदधामि । वर्षो बलविशेषप्रदो
पृष्ठ 417
पाठ पढ़ें पाठ छिपाएँ
भ ० २३ ] वेदार्थ पारिजात भाष्यसहिता ३८१ द्वाविंश: स्तोमः । यद्वा वर्चः संवत्सरो वर्चस्वितमः, द्वादश मासाः सप्तर्तवो द्वे अहोरात्रे संवत्सरश्चेति द्वाविंशति-संख्योपेतत्वाद् द्वाविंशः । हे इष्टके, स्वं तद्रूपासि । तद्रूपां त्वामुपदधामि । सम्भरणः सम्यग् बिर्भात पोषयतीति त्रयोविंशः स्तोमः । सम्भरत्युत्पादयति संहरति विनाशयतीति वा सम्भरणः संवत्सरः । त्रयोदश मासाः सप्तर्तवो द्वे अहोरात्रे एकः संवत्सर इति त्रयोविंशावयवः । हे इष्टके, स्वं तद्रूपासि । योनिः प्रजोत्पादकश्चतुर्विंशः स्तोमोऽसि । यद्वा योनिः सर्वस्थानभूतः संवत्सरश्चतुर्विंशतिपक्षात्मकः । हे इष्टके, त्वं तद्रूपासि । गर्भाः, व्यत्ययेन बहुत्वम् | सामगर्भः पञ्चविंशः स्तोमोऽसि । यद्वा गर्भः संवत्सरः, भूतोत्पादकत्वाच्चतुविशतिः पक्षा एक: संवत्सर इति । अधिकमासो भूत्वा ऋतुषु गर्भो भवतीति वा । ओज ओजस्वी, तेजस्वी । मतुब्लोपः । वत्रो वा ओजः, तद्रूपस्त्रिगवः स्तोमोऽसि । यद्वा ओजः संवत्सरश्चतुर्विंशतिः पक्षाः, अहोरात्रे द्वे, संवत्सरश्चेति विः त्रिरावृत्ता नव यत्रासी । हे इष्टके, त्वं तद्रूपासि । क्रतुः करोति सर्वाणि भूतानीति क्रतुः । यज्ञोपयोगी एकत्रिंशः स्तोमोऽसि । यद्वा संवत्सर एव क्रतुः स हि पक्षतुंसंवत्सरात्मकत्वादेकत्रिंशः । हे इष्टके, त्वं तद्रूपासि । प्रविष्ठा प्रतितिष्ठत्यनेनेति प्रतिष्ठा स्थितिहेतुस्त्रयस्त्रिशः स्तोमोऽसि । यद्वा संवत्सर एव प्रतिष्ठा, संवत्सरे सर्वस्य प्रतिष्ठितत्वात् पक्षत्वंहोरात्र संवत्सरात्मकत्वात् । स हि त्रयस्त्रिशः । हे इष्टके, त्वं तद्रूपासि । ब्रध्नस्य बध्नाति तिमिरमिति ब्रध्नः सूर्यस्तस्य विष्टपं निवासस्थानम् । ' जगती लोको विष्टपं भुवनं जगत् ' ( अ ० को ० २२११६ ) इत्यमरकोषात् । ब्रध्नस्य विष्टपं स्वाराज्यं स्वतन्त्रत्वं तद्रूपस्तत्प्रदो यश्चतुस्त्रिशः स्तोमस्तद्रूपासि । यद्वा संवत्सरो ब्रध्नस्य विपम्, रविणैव कालनिर्माणात् । चतुर्विंशतिपक्षसप्तत्व होरात्र संवत्सरात्मकत्वाच्चतुस्त्रिशः । इष्टके, त्वं तद्रूपासि । नाकः स्वर्गः, अर्थात् स्वर्गप्रदः ' स्वर्गनाकत्रिदिवत्रिदशालयाः ' ( अ ० को ० १ १/६ ) इति कोषात् । षट्त्रिंशः स्तोमोऽसि । संवत्सरो वा नाकः । काम्यते सर्वैरिति कं सुखं न कमकं दुःखं तन्नास्ति षत्रिशः । हे इष्टके, त्वं यत्रासौ नाकः । तद्रूपो यः षट्त्रिंशः स्तोमः । संवत्सरो हि पक्षमासात्मकत्वात् तासि । विवर्तः, विवर्त्यन्त आवर्त्यन्ते सामानि यत्रेति विवर्तः, अष्टाचत्वारिंशः स्तोमः I । हे इष्टके, त्वं तद्रूपासि । या संवत्सरोविवर्तः, विविधं वर्तन्ते भूतानि यत्रेति । स धिमासत्वेन षड्वंशतिः पक्षाः सप्तर्तवस्त्रयोदश मासा द्वे अहोरात्रे इत्यष्टाचत्वारिंशः । हे इष्टके, त्वं तद्रूपासि । धत्रं धारकः चतुष्टोमश्वतुरुतरः स्तोमश्चतुष्टोमः । मध्यमपदलोपी समासः । त्रिवृत्पञ्चदश सप्तदर्शक विशानां समूहः । हे इटके, त्वं तद्रूपासि । अथवा वायुः, जगदाधारत्वात् । स एव चतुर्दिग्भिः स्तूयमानत्वाच्चतुष्टोमः । आदावन्ते च वायुपधानेन वायुना सर्वभूतानि इत्यर्थं वशीकरोतीति भावः । एतैरष्टादशमन्त्रः स्तोमवादिभिः स्तोमरूपत्वं नीता अष्टादशेष्टका उपधेया इति महीधराचार्यः । श्रीमदुव्वाचार्यस्तु -- अथो वायुर्वा आशुः शीघ्रः, त्रिवृत् त्रिलोकसञ्चारी । भान्तः पञ्चदशः, चन्द्रमा उच्यते । स हि भाति च पञ्चदशाहान्यापूर्यते चापक्षीयते च । व्योमा सप्तदशः संवत्सर उक्तः । स हि विविध-मवति प्राणिनः सप्तदशावयवश्व | धरुण एकविंश आदित्यः स्तोमो वोच्यते । प्रतूर्तिः संवत्सरः । स हि सर्वाणि भूतानि प्रतिरति प्रवर्धयति । तपः संवत्सरो हि सर्वाणि भूतानि तपति शीतोष्ण वर्षेः । अभीवर्तः संवत्सरो हि सर्वाणि भूतान्यभिवर्तते । तेनाभिवृत्तेन हि ऋतुलिङ्गानि भूतेषु दृश्यन्ते । वर्षं इति । ' संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमः ' ( श ० ८ | ४ | १ | १६ ) इति ब्रुवन्ती श्रुतिर्मतुब्लोपं दर्शयति । वर्चो वर्चस्वी महाभाग्यवान् संवत्सरः । संभरणः संवत्सरः । संवत्सरो हि सर्वाणि भूतानि सम्भरत्युत्पादयति संहरति वा विनाशयतीति । गर्भः संवत्सरस्त्रयोदशमास इहोच्यते । स च गर्भो भूत्वा ऋतून् प्रविशति । कथं पुनस्त्रयोदशो मास ऋतू प्रविशति? उच्यते - साग्रेरे कोनमासाहोरात्रैश्चन्द्रो द्वादशराशीं विभ्रमति । जादित्यस्तु कि विन्न्यून रकषष्टिदिवसै राशिद्वयमतिक्रामति । स कालः सौर ऋतुर्भवति । तैश्च पद्भिः सौरऋतुभिः
पृष्ठ 418
पाठ पढ़ें पाठ छिपाएँ
३८२ शुक्लयजुर्वेद संहिता [ अ ० १४ संवत्सरो भवति । ततश्च एकस्मिन्नृतो सौरचान्द्रो मासो भवतः, तिथिद्वयं चान्द्रमासादतिरिच्यते । एवं षड् ऋतुषु द्वादश तिथयः प्रविशन्ति । अपरेषु षट्स्वपरा द्वादश । अपरेषु त्रिषु षट्तिथयः । स एषोऽर्धतृतीयेषु संवत्सरेषु चान्द्रो मासः प्रविशति । स एवाधिमासः, स एव त्रयोदशो मासः सौरान् ऋतुन द्वाभ्यां तिथिभ्यां प्रविशतीति । अत्रावधेयम् - त्रयोदशस्य मासस्य कस्मिन्नप्येकस्मिन् ऋतौ प्रवेशो न नियन्तुं शक्यः । अतः षट्सु ऋतुषु न तस्यान्तर्भावः । किन्तु षडतिरिक्तः सप्तमः कश्चन ऋतुरङ्गीकरणीयः । तथा चाह श्रुतिः -- ' द्वादशमासाः सप्तर्तवो द्वे अहोरात्रे संवत्सरः ' ( श ० ८ | ४ | १ | १६ ) इति । कालगणनायामृतूनामपि समावेशमाह भीष्मः -कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च । अर्धमासाश्च मासाच नक्षत्राणि ग्रहास्तथा ॥
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि । एवं कालविभागेन कालचक्रं प्रवर्तते ॥
( म ० भा ०, विराट ० ५२।१-२ ) अत्र ब्राह्मणम् -- ' चतुर्थी चितिमुपदधाति । एतद्वै देवास्तृतीयां चिति चित्वा समारोहन्नन्तरिक्षं वै तृतीया चितिरन्तरिक्षमेव तत्संस्कृत्य समारोहन् ' ( श ० ८ | ४ | १ | १ ) । चतुर्थचित्या उपधानं विधाय स्तौति - चतुर्थी चितिमित्यादिना । अन्तरिक्षादूध्वं दिवोऽर्वाचीनं यत्स्थानं तच्चतुर्थी चितिः । ते ब्रह्माब्रुवन् । त्वामि-होपदधामहा इति किं मे ततो भविष्यतीति त्वमेव नः श्रेष्ठं भविष्यसीति तथेति तेऽत्र ब्रह्मोपादधत तस्मादाहुर्ब्रह्मैव देवानां श्रेष्टमिति तदेतया वै चतुर्थ्या चित्येमे द्यावापृथिवी विष्टब्धे ब्रह्म वै चतुर्थी चिति-स्तस्मादाहुर्ब्रह्मणा द्यावापृथिवो विष्टब्धे इति स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै ब्रह्म ब्रह्मेवैतदुपदधाति ' ( श ० ८ | ४ | १ | ३ ) । ते देवा ब्रह्माख्यां देवतामब्रुवन् त्वामिहोपदधामहा इति । तान् ब्रह्म किं तेन मे भविष्यती-त्यब्रवीत् । ते देवास्त्वमेव श्रेष्ठं भविष्यतीत्यब्रुवन् । तथेति चोक्तास्ते ब्रह्मवात्रोपादधत । तस्माद् वेदविदो वदन्ति ब्रह्मैव देवानां श्रेष्ठमिति । तत् तस्मात् परिवृढस्य ब्रह्मण उपहितत्वादेतया चतुर्थ्या चित्या इमे द्यावा-पृथिवी विष्टब्धे विशेषेण धृते । चतुर्थ्याश्चित्या विष्टम्भकारणमाह - ब्रह्म वे चतुर्थी चितिरिति । स्तोमसंज्ञका इष्टका विधाय ब्रह्मात्मना स्तौति प्राणा वै स्तोमा इति । त्रिवृत्स्तोमस्य वायुत्वेन स्तूयमानत्वाद् वायोश्च प्राणत्वात् तत्प्राधान्येन सर्वेऽपि स्तोमाः प्राणा इत्युच्यन्ते । ते च प्राणा ब्रह्मैव तदधिष्ठितत्वात् । अतस्तेनोपधानेन साक्षाद् ब्रह्मैवापदधाति । ' यद्वेव स्तोमानुपदधाति । एतद्वै देवाः प्रजापतिमब्रुवंस्त्वामिहोपदधामहा इति तथेति सवै नाब्रवीत्कि मे ततो भविष्यतीति यदु ह किञ्च प्रजापतिर्देवेष्वीषे किमस्माकं ततो भविष्यतीत्येवो चुस्तस्मादु हैतद्यत्पिता पुत्रेष्विच्छते किमस्माकं ततो भविष्यतीत्येवाहुरथ यत्पुत्राः पितरि तथेत्येवा हैव हि तदग्रे प्रजापतिश्च देवाश्च समवदन्त स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वै प्रजापतिः प्रजापतिमेवैतदुपदधाति ' ( श ० ८ | ४ | ११४ ) | पुनः प्रजापत्यात्मना स्तौति -- यद्वेवेत्यादिना । पुरा देवाः प्रजापति चतुर्थचिता उपदधामहा इत्यब्रुवन् । स तु तथैवाङ्गीचकार ब्रह्मवत् किं मे ततो भविष्यतीति नोवाच । तदमुमर्थं लौकिक-पितृपुत्रव्यवहारप्रदर्शन पूर्वकमुपपादयति- स वै नाब्रवीदित्यादिना । यदेव किचित् फलं प्रजापतिर्देवानधिकृत्य ऐच्छत्, तदा देवाः किमस्माकं ततो भविष्यतीत्येवोचुः । तस्मादेव कारणाद् इदानीमपि पिता पुत्रेषु कार्यमिच्छते यदि किञ्चित्फलमिच्छति तदा स्वकर्तव्य प्रतिनिधित्वे किमस्माकं ततो भविष्यतीत्येव पुत्रा ब्रूयुः । अथ यत्पुत्राः पितरि इच्छेयुस्तहि तथैवेत्याह । पिता हि पुत्रार्थं कस्मिन्नपि फले साध्ये सति तथैवेत्यङ्गीकुर्यात् किं ततः स्यादिति न ब्रूयादित्यर्थः । शेषं स्पष्टम् । अङ्गाङ्गिनोरभेदात् प्राण एव प्रजापतिः । अतः स्तोमोपधानेन प्रजापतिमेवोपदधाति ।
पृष्ठ 419
पाठ पढ़ें पाठ छिपाएँ
म ० २३ ] वेदार्थ पारिजातभाष्यसहिता ३८३ ' ये वै ते प्राणा ऋषय एतां चतुर्थी चितिमपश्यन् ये त एतेन रसेनोपायंस्त एते तानेवैतदुपदधाति स्तोमानुपदधाति प्राणा वै स्तोमाः प्राणा उ वा ऋषय ऋषीनेवैतदुपदधाति ' ( श ० ८ | ४ | ११५ ) | ये प्राणाख्या ऋषय एतां चतुर्थी चितिमपश्यत् । एते चितिद्रष्टार ऋषयः प्राणाः । एतेन रसेन चतुर्थचित्यात्मना दृष्टेन सारेण उपायन् । ते प्रजापत्यात्मकतां प्राप्ता एव एते प्रसिद्धाः प्राणा इत्यर्थः । तानेव चितिरसाभिज्ञान् प्राणाने वोपदधाति । उक्तमृषित्वमुपजीव्य पुनः स्तौति प्राणा उ वा ऋषय इति । स्तोमदर्शनाद् ऋषयः प्राणाः । ' यद्वेव स्तोमानुपदधाति । प्रजापति विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य यदूध्वं मध्यादवाचीन शीर्ष्णस्तदस्य वायुरादायोत्क्रम्या तिष्ठदेवताश्च भूत्वा संवत्सररूपाणि च ' ( श ० ८ | ४ | ११६ ) । पुनर्वित्रस्त प्रजापत्यवयव प्रतिसन्धानरूपतया प्रशंसति -- यद्वेवेत्यादिना । पितुः प्रजापतेः सर्वपुत्रसाधारणद्रव्यत्वाद् इतरदेवतावद् वायुरपि प्रजापतेर्मध्यभागशिरोभागयोर्मध्यदेशमादाय देवताश्च संवत्सररूपाणि च भूत्वा उत्क्रम्य अतिष्ठत् । ' तमब्रवीत् । उप मेहि प्रति म एतद्धेहि येन मे त्वमुदक्रमीरिति किं मे ततो भविष्यतीति त्वद्देवत्यमेव म एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतद्वायुः प्रत्यदधात् ' ( श ० ८ | ४ | १ | ७ ) | अथ तं वायुं प्रजापतिरब्रवीत् । मा माम् उपेहि मदीयमेतदङ्गं यत्त्वयापहृतं तत् प्रतिधेहि । येन मे अङ्गेन सह त्वमुदक्रमीर् उत्क्रम्य गतवानसि । किं मे तत इति वायुनोक्ते त्वद्देवत्य-तदङ्गं भविष्यतीति प्रजापतिरुवाच । तथेत्युक्त्वा वायुस्तदङ्गं प्रत्यदधात् । तद्या एता अष्टादश प्रथमाः । तदात्मनः... ' ( श ० ८ | ४ | १८ ) । प्रतिहितो भागः क इति तं दर्शयति --- तद्या इत्यादिना । प्रथमम् एतदस्य ' आशुस्त्रिवृत् ' इत्यादि मन्त्रैरुपधेया या अष्टादशसंख्याकाः स्तोमेष्टकाः सन्ति एतदेव तदङ्गमित्यर्थः । ‘ स पुरस्तादुपदधाति । आशुस्त्रिवृदिति य एष त्रिवृत्स्तोमस्तं तदुपदधाति वद्यत्तमाहाशुरित्येष हि स्तोमाना-माशिष्ठोऽथो वायुर्वा आशु स्त्रिषुवृत् स एष त्रिषु लोकेषु वर्तते तद्यत्तमाहाशुरित्येष हि सर्वेषामाशिष्ठो वायुर्ह भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधाति ( श ० ८ | ४ | ११ ९ ) । उपधानमनूद्य मन्त्रान् विधाय व्याचष्टे -- स पुरस्तादित्यादिना । आशुस्त्रिवृदिति मन्त्रसाध्येष्ट कोपधानेन य एव त्रिवृदाख्यः ' तिसृभ्यो हिङ्करोति ' इत्याद्युक्तलक्षणः स्तोमोऽस्ति, तमेव तत्रोपदधाति । एवं पञ्चदशस्तोमादिष्वपि योज्यम् । त्रिवृतो यद्विशेषण-माशुरिति तद् व्याचष्टे - तद्यत्तमाहेति । तत् तत्र यद् येनाभिप्रायेण तं त्रिवृत्स्तोमम् आशुरित्याह मन्त्रः, सोऽभिप्रायोऽभिधीयत इत्यर्थः । एष हि त्रिवृत्स्तोमः खलु स्तोमानां पञ्चदशादीनां मध्ये आशिष्ठोऽतिशयेन आशुः, ऋचां नवकरूपेण शीघ्रं समाप्तेः । प्रकारान्तरेण मन्त्रं व्याचष्टे - अथो वायुर्वा आशुस्त्रिवृदिति । स च त्रिषु लोकेषु वर्त्तमानस्त्रिवृत् । अस्तु त्रिवृद् वायुः, तस्य आशुत्वविशेषणं कथमिति तदुपपादयति - त द्यत्तमाहेत्यादिना । अस्तु व्युत्पत्त्या वायुरास्त्रिवृत् तथापि तस्य चितिसम्बन्धः कथमिति तत्राह - वायु भूत्वेत्यादि । पुरा त्रिवृत्स्तोमो वायुर्भूत्वा पूर्वस्यां दिशि देवानां चयनानुष्ठानसमये तस्थौ स्थितवान् । तदेव वायुरूपं पुरस्ताद्देशे उपदधाति यजमानः । ' भान्तः पञ्चदश इति । य एव पञ्चदशस्तोमस्तं तदुपदधाति तद्यत्तमाह भान्त इति वज्रो वै भान्तो वज्रः पञ्चदशोऽथो चन्द्रमा वै भान्तः पञ्चदशः स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि चन्द्रमाश्चन्द्रमा ह भूत्वा दक्षिणतस्तस्थौ तदेव तद्रूपमुपदधाति ( श ० ८ | ४ | १ | १० ) । दक्षिणत उप द्वितीयेष्टकामन्त्रं व्याचष्टे - भान्त पञ्चदश इति । मन्त्रेण द्वितीयामिष्टकामुपदध्यात् । सप्तदशादिस्तोमाश्च सामब्राह्मणे तत्सूत्रे च द्रष्टव्याः । पञ्चदशस्तोमेष्ठकोपधानेन साक्षात्तं स्तोममेवोपदधाति । भान्त इति पञ्चदश-स्तोमविशेषणम् । विशेषणविशेष्ययोः सामानाधिकरण्याय एकार्थपरतामाह - वज्ञो वै भान्तो वज्रः पञ्चदश इति । मन्त्रस्यार्थान्तरमाह - अथो चन्द्रमा वै भान्तः पञ्चदश इति । पञ्चदशस्तोमस्य यथा स्तोत्री यागत-
पृष्ठ 420
पाठ पढ़ें पाठ छिपाएँ
३८४ शुक्लयजुर्वेदसंहिता [ अ ० १४ पञ्चदशसंख्यासम्बन्धः, एवं पञ्चदशशब्दाभिधेयस्य चन्द्रमसोऽपि पञ्चदशसंख्यायोगमाह - स च पञ्चदशा-हान्यापर्यंत इत्यादि । सर्वजनदृश्योऽयमर्थः । उपचयापचयकालावच्छेदकत्वेन पञ्चदशानामह्नां सम्बन्धाच्चन्द्रोऽपि पञ्चदश उच्यते । एवं भान्तशब्दस्यापि चन्द्रे प्रवृत्तिनिमित्तं दर्शयति - भाति हि चन्द्रमा इति । भाति दीप्यत इति भान्तश्चन्द्रः । ' दक्षिणतस्तस्थो ' इति लिङ्गादनेन मन्त्रेण दक्षिणत उपदध्यादित्यर्थः । एवमेवोत्तरतः पश्चादित्यनयोरपि वाक्ययोरभिप्रायः । ' व्योमा सप्तदश इति । य एव सप्तदशस्तोमस्तं तदुपदधाति तद्यत्तमाह व्योमेति प्रजापतिर्वे व्योमा प्रजापतिः सप्तदशोऽथो संवत्सरो वाव व्योमा सप्तदशस्तस्य द्वादशमासाः पञ्चर्तवस्तद्यत्तमाह व्योमेति व्योमा हि संवत्सरः संवत्सरो ह् भूत्वोत्तरतस्तस्थौ तदेव तद्रूपमुपदधाति ' ( श ० ८ | ४ | १ | ११ ) । उत्तरत्रोपधेयेष्टकामन्त्रः - व्योमा सप्तदश इति । तत्र उभे अपि विशेष्यविशेषणे एकार्थवृत्तित्वप्रदर्शनाय प्रजापतिमेव ब्रूत इत्याह- प्रजापतिर्वै व्योमेति । विशेषेणावति सर्वमिति व्योमा । प्रजापतिः सप्तदश इति । सप्तदशत्वं स्पष्टयति-- द्वादश मासाः पञ्चर्तव इति । ' धरुण एकविश इति । य एव एकवि शस्तोमस्तं तदुपदधाति तद्यत्तमाह धरुण इति प्रतिष्ठा वे धरुणः प्रतिष्ठैकविशोऽथ असो वा आदित्यो धरुण एकवि शस्तस्य द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असा-dar दित्य धरुण एकवि १७ शस्तद्यत्तमाह धरुण इति यदा होवैषोऽस्तमेत्यथेद १७ " सर्वं ध्रियत आदित्योह भूत्वा पश्चात्तस्थौ तदेव तद्रूपमुपदधात्यथ संवत्सररूपाण्युपदधाति ' ( ० ८ | ४ | १ | १२ ) । पश्चादुपधेयेष्टकामन्त्रमुदाहृत्य व्याचष्टे - धरुण एकविंश इति । आदित्यस्य कविशत्वं द्वादशमासपञ्चर्तु लोकत्रयात्मकान् पदार्थानपेक्ष्यास्यैक-त्रिशतिसंख्यापूरकत्वादित्याह - द्वादशेत्यादिना । आदित्यस्य धरुणत्वमुपपादयति - यदा ह्येवैषोऽस्तमेत्यथेदं सर्व प्रियत इति । अस्तमयानन्तरं स्वस्वव्यापारस्य दृष्टिप्रसवाभावात् सर्वं निभृतं धृतमिव भवति, अतोऽगावे-वादित्यो धरुण इति । इत्थं चतुर्दिक्षु वाय्वादिदेवतारूपाणां चतसृणामिष्टकानामुपधानमभिधायोत्तरत्रोपधेयानां चतुर्दशानामिष्टकानां संवत्सररूपतां प्रतिजानीते - अथ संवत्सररूपाण्युपदधातीति । ' प्रतूर्तिरष्टादश इति । य एवाष्टादशस्तोमस्तं तदुपदधात्यथो संवत्सरो वात्र प्रतूतिरष्टादशस्तस्य द्वादश मासाः पञ्चर्तवः संवत्सर एव प्रतुति रष्टादशस्तद्यत्तमाह प्रतुर्तिरिति संवत्सरो हि सर्वाणि भूतानि प्रतिरति तदेव तद्रूपमुपदधाति ' ( श ० ८ | ४ | १ | १३ ) । तानि क्रमेण दर्शयति -- प्रतिरष्टादशेत्यादिना । प्रजापतेः प्रतूर्तित्वमुपपादयति संवत्सरो हि सर्वाणि भूतानि प्रतिरतीति सर्वाणि भूतानि उद्दिश्य तत्तदुत्पत्त्यादिनिमित्तं स्वयं प्रतिरति, कलाकाष्ठादिक्रमेण वर्धते । शेषं पूर्ववत् । ' तपो नवदश इति । य एव नवदशस्तोमस्तं तदुपदधात्ययो संवत्सरो वाव तपो नवदशस्तस्य द्वादश मासाः षड़तवः संवत्सर एवं तपो नवदशस्तद्यत्तमाह तप इति संवत्सरो हि सर्वाणि भूतानि तपति तदेव तद्रूपमुपदधाति ' ( ० ८ | ४ | १ | १४ ) । ' अभोवर्तः सविश इति । य एव सवि शस्तोमस्तं तदुपदधात्यथो संवत्सरो वा अभीवर्तः सवि शस्तस्य द्वादश मासाः सप्तर्तवः संवत्सर एवाभीवतः सवि शस्तद्यत्तमाहाभोवत इति संवत्सरो हि सर्वाणि भूतान्यभिवर्तते तदेव तद्रूपमुपदधाति ' ( श ० ८ | ४ | १ | १५ ) | ' वर्चो द्वाविश इति । य एव द्वाविशस्तोमस्तं तदुपदधात्ययो संवत्सरो वाव वर्चो द्वावि शस्तस्य द्वादश मासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव वर्चो द्वावि स्तद्यत्तमाह वर्च इति संवत्सरो हि सर्वेषां भूतानां वर्चस्वितमस्तदेव तद्रूपमुपदधाति ' ( श ० ८ | ४ | १ | १६ ) । ' सम्भरणस्त्रयोविश इति । य एव त्रयोवि ७ शस्तोमस्तं तदुपदधात्ययो संवत्सरो वाव सम्भरणस्त्रयोवि शस्तस्य त्रयोदश मासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव सम्भरणस्त्रयोवि १७, शस्त-द्यत्तमाह सम्भरण इति संवत्सरो हि सर्वाणि भूतानि सम्भृतस्तदेव तद्रूपमुपदधाति ' ( श ० ८२४ | १ | १७ ) ।