वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 41–50
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 41–50
पृष्ठ 41
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २–३ ] वेदार्थ पारिजात भाष्यसहिता ' युक्तेन मनसा वयमिति मन एवैतदस्मै कर्मणे तदा कुर्यादिति पूर्वोक्तेः सम्पूर्णता चोक्ता । तत्र ब्राह्मणम् कर्तुं - देवस्य सवितुः सव इति देवेन सवित्रा प्रसूता युङ्क्ते । नह्ययुक्तेन मनसा किञ्चन सम्प्रति शक्नोति शक्त्येति शक्त्या हि स्वर्ग लोकमेति ' इत्येतत्स्वर्ग्याय शक्त्येति यथैतेन कर्मणा स्वर्ग लोकमियादेवमेतदाह ( श ० ६ | ३ | १ | १४ ) इति । देवस्य द्योतनात्मकस्य सवितुः अध्यात्मपक्षे - वयं साधका युक्तेन नियतेन समाहितेन मनसा परमात्मप्राप्तये चित्तेन हितं स्वग्यं ब्रह्मात्मसाक्षा-परमेश्वरस्य सर्वोत्पादकस्य सवे अभ्यनुज्ञायां वर्तमाना स्वर्याय स्वर्गाय इति शेषः । ' यन्न दुःखेन सम्भिन्नं न च कारात्मकं ज्ञानं तस्मै तदर्थं शक्त्या यथासामर्थ्यं प्रयतामह || ' इति रीत्या परमेश्वरसुखस्यैव स्वर्गत्वम्, अन्यस्या-ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् नन्तरं ग्रस्यमानत्वात् । वयं योगिनो युक्तेन कृतयोगाभ्यासेन दयानन्दस्तु - ' हे योगं तत्त्वविद्यां च जिज्ञासवो मनुष्याः सवितुरखिलजगदुत्पादकस्य , यथा परमेश्वरस्य प्रसवे मनसा विज्ञानेन शक्त्या सामर्थ्येन च देवस्य सर्वतकस्य ज्योतिराभरेम तथा यूयमप्याभरत ' इति, तदपि जगदाख्येऽस्मिन्नैश्वर्ये स्वर्ग्याय स्वः सुखं गच्छति येन तद्भावाय । योगजिज्ञासवः सम्बोध्या योगिनश्च वक्तार विशृङ्खलमेव, वाचकलुप्तोपमालङ्कारस्य प्रकृते सत्त्वे मानाभावात् वक्तव्यम् । हिन्दीभाषायां तदर्थे सुखप्राप्त्यर्थमित्यस्य इत्यपि साध्यमेव । स्वः सुखं प्राप्यते येन तत्साधनं सुखेतरदेव कथङ्कारं समन्वयः? एवमन्यदप्यूह्यम् ॥ २ ॥
यक्त्वा सविता देवान् स्वयंतो घिया दिव॑म् ।
बृहज्ज्योति॑ः करिष्य॒तः स॑वि॒ता प्रसु॑वाति॒ तान् ॥ ३ ॥
में मन्त्रार्थ - सारे जगत्को प्रेरणा देने वाले सविता देवता सभी देवताओं को स्वर्ग स्वर्ग प्रकाशित होता है, इन्द्रियगणों का दमन करने वाले हैं । यज्ञ आदि कर्मों के अनुठान का से संस्कार करने वाले और जानते हैं । वे सविता देवता महान् आवित्य नामक आत्मज्योति ॥ स्थानीय अग्निदेव को शुभ कर्मों में संयुक्त कर प्रेरित करने वाले हैं ॥ ३ प्रेरित करने वाले तथा इसको वे भली - भाँति सभी देवताओं में अग्र-प्रसिद्धान् देवान् प्रसुवाति प्रति अनुष्टुप । द्वितीयपादः सप्तार्णस्तेनैकोना । सविता सर्वस्य प्रसविता संयोज्य तान् । क्त्वो यकि रूपम् । कीदृशान् प्रेरयति । ' षु प्रेरणे ' । किं कृत्वा? युक्त्वाय प्रकृते अग्निचयने यः कर्मणि स दिवस्तम् ' इगुपधनात्रीकिरः कः ' ( पा ० सू ० देवान्? धिया बुद्धया कर्मणा वा दिवं यतः, दीव्यति प्रकाशते । यत इति ' इण् गती ' इत्यस्य शत्रन्तस्य ३ | १ | १३५ ) इति कप्रत्ययः । द्योतमानं स्वः स्वर्गं यतो गच्छतः करिष्यतः संस्कुर्वतः । कीदृशः सविता? रूपम् । पुनः कीदृशान्? बृहद् महद् ज्योतिरादित्यलक्षणमात्मत्वेन प्रेरयिता । यद्वा सविता प्रजापतिः, तान् इन्द्रियलक्षणान् अन्येन कर्मणा स्वगं गच्छतो देवान् अग्निकर्मणि सविता । किं कृत्वा? देवान् क्रीडापरत्वेन चपलान् स्वविषयद्योतकान् देवान् प्रसुवाति प्रकर्षेण अग्निकर्मणि प्रेरयति स्वगं गच्छतः स्वगं गन्तुमुद्यतान् । पुनः मनसा विषयेभ्यो युक्त्वाय नियम्य । पुनः कीदृशान् देवान् धिया ? स्वर्यतः तत्तदिष्टकादिविषयया प्रज्ञया दिवं द्योतमानं कोदृशान्? बृहत् प्रोढं ज्योतिश्चीयमानस्याग्नेस्तेजो युक्त्वा स्थित इति विशेषः । बृहज्ज्योतिरग्न्यात्मकं करिष्यतः कर्तुमुद्यतान् । यद्वा तादृशान् युक्त्वाय मनसा । सूर्यात्मकं च करिष्यतः संस्करिष्यत आत्मत्वेन भावयतः
पृष्ठ 42
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेद संहिता [ अ ० ११ तत्र ब्राह्मणम् -- ' युक्त्वाय सविता देवानिति । मनो वै सविता प्राणा देवा: स्वयंतो धिया दिवमिति स्वर्ग-१७ हैनां लोकं यतो धियंतस्मै कर्मणे युयुजे बृहज्ज्योतिः करिष्यत इत्यसौ वा आदित्यो बृहज्ज्योतिरेष उ एषोऽग्निरेतं वेते संस्करिष्यन्तो भवन्ति सविता प्रसुवाति तानिति सवितृप्रसूता एतत्कर्म करवन्नित्येतत् ' ( श ० ६ | ३ | १ | १५ ) । तृतीयं मन्त्रं विधत्ते - युक्त्वायेति । मन्त्रं व्याचष्टे - मनो वा इति । मन्त्रे मनो वै सविता प्राणा वै देवा उक्ताः । स्वर्यतो धिया दिवमित्यस्याभिप्रायमाह - स्वर्ग हैनां लोकं यतो धियैतस्मै कर्मणे युयुज इति । बृहज्ज्योतिः करिष्यत इत्यस्याभिप्रायमाह - असो वा आदित्यो बृहज्ज्योतिः । एष उ एषोऽग्निः । एतं वे संस्करिष्यन्तो भवन्तीति । शेषस्य तात्पर्यमाह -सवितृप्रसूता एतत्कर्म करवन्निति । करवन्दिति पञ्चमो लकार उदाहृतः । अध्यात्मपक्षे - सविता सूते सर्वमुत्पादयतीति परमेश्वरः तान् प्रसिद्धानिन्द्रियलक्षणान् देवान् क्रीडापर-वे बहिर्मुखान् धिया बुद्धया युक्त्वा विषयेभ्यो नियम्य प्रसुवाति प्रकर्षेण सोति प्रेरयति, प्रत्यक् चैतन्याभिन्ने परमात्मनीति शेषः । कीदृशान् देवान्? स्वर्यतः सुखं स्वगं वा गन्तुमुद्यतान् । पुनः कीदृशान्? ज्योतिः प्रत्यक् चैतन्यं बहद् महत् परमात्मज्योतिः करिष्यतः | अतद्व्यावृत्त्या परिच्छिन्नत्वेन प्रतीयमानं पूर्णत्वेना-परिच्छिन्नत्वेन व्यञ्जयन्ति । दयानन्दस्तु -- ' यान् सविता योग पदार्थविज्ञानस्य प्रसविता परमात्मनि मनो युक्त्वा युक्तं कृत्वा धिया प्रज्ञया दिवं विद्याप्रकाशं स्वर्यतः स्वर्गस्य प्रापकान् वृहद महदू ज्योतिविधानं करिष्यतः ये करिष्यन्ति तान्, देवान् दिव्यान् गुणान् प्रसुवाति उत्पादयेत् तानन्योऽपि सविता प्रसुवेत् ' इति, तदपि यत्किञ्चित्, अनुपपत्तेः, वाक्यानामसम्बद्धत्वात्, हिन्दीव्याख्यानस्य संस्कृतव्याख्यानविरुद्धत्वाच्च । योगपदार्थविज्ञानस्य को वा रचयिते-त्यनुक्तेः । स्वर्यतः सुखस्य प्रापकाः के भवन्ति? गुणा वा अन्ये वा? प्रापका इत्यस्योपलब्धार इत्यर्थकत्वेऽपि नोपपत्तिः, गुणस्योपलब्धत्वायोगात् ॥ ३ ॥
य॒ज्ञ्जते॒ मन॑ उ॒त य॑ज्जते॒ धियो विप्रा॒ विर॑स्य बृह॒तो विपश्चितः ।
विहोत्रां दधे वयुनाविदेक इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ ४ ॥
मन्त्रार्थ - अतिमहान् महापण्डित ब्राह्मण यजमान के लिये होता का कार्य करने वाले अध्वर्यु आदि इस अग्नियन कार्य में मन नियुक्त करते हैं, उसकी बुद्धि को नियुक्त करते हैं । एक अद्वितीय प्रज्ञा वाले और ऋत्विक्-यजमान के अभिप्राय को जानने वाले देव सविता ने इस सारे जगत् का निर्माण किया है । सबके प्रेरक सविता देव की सभी वेदों में महान् स्तुति सुनाई पड़ती है ॥ ४ ॥
जगती । विप्रस्य ब्राह्मणस्य विशेषेण प्राति पूरयति दक्षिणान्नदानादिना इति विप्रः, तस्य यजमानस्य सम्बन्धिनो विप्रा मेधाविन ऋत्विजः मनो युञ्जते स्वकीयं मनः प्रथमं विषयेभ्यो निवर्त्य समाहितं कुर्वते । उतापि च धिय इष्टकादिविषयाणि ज्ञानानि युञ्जते सम्पादयन्ति । कीदृशस्य विप्रस्य? बृहतः प्रभोरग्नि-चयनोद्योगेनाभिवृद्धस्य तथा विपश्चितो विदुषः प्रयोगाभिज्ञस्येत्यर्थः । यद्वा ' विप इति वाङ्नाम ' ( निघण्टु १।११.४१ ) । विपं सकलशाखागतान् मन्त्रानेकत्र कर्मणि रान्ति सञ्चिन्वन्तीति विप्राः । कथंभूता विप्राः? होत्रा होमशीलाः । जुह्वतीतिहोत्राः कर्मतत्परा इत्यर्थः । किञ्च सर्वमेतत् सवित्रात्मकत्वाद् दिव्यमित्याह ---एक एव सविता विदध इति सर्वमिदं विरचितवान् । कीदृशः सविता? वयुनाविद् वयुनानि विज्ञानानि
पृष्ठ 43
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ४ ] वेदार्थ पारिजातभाष्यसहिता वेत्तीति ऋत्विग्यजमानाभिप्रायज्ञः । सर्वज्ञत्वात् सर्वं कर्तुं क्षम इत्यर्थ: । ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६।३ १३७ ) इति दीर्घः । कथमेक एव सर्वं कृतवानिति न विस्मेतव्यम्, यतः सवितुर्देवस्य परिष्टुतिः परितः सर्ववेदेषु श्रूयमाणा स्तुतिः, मही महती, अचिन्त्यं माहात्म्यमित्यर्थः । यद्वा विप्रा मेधाविनो देवाः, विप्रस्य मेधाविनः प्रजापतेरग्न्यात्मकस्य विस्रस्तस्य पुन सन्धानार्थं मनो युञ्जते कर्मार्थमेकाग्रं कुर्वन्ति । उतापि च धियो बुद्धीः प्राणान् वा युञ्जते । वयुनावित् ' वयुनम् इति प्रज्ञानाम ' ( निघण्टु ३।११।१० ) । इह तु ज्ञाने लक्षणया वर्तते । वेदनस्य वेदनायोगाच्च ज्ञातसकलज्ञेय इत्यर्थः । एक इद् एव चीयमानोऽग्निः, होत्रा: सप्तहोत्राणां प्रथितयाज्या विदधे चकार, तदिदं सवितुर्देवस्य मही महती परिष्टुतिः । अत्र ब्राह्मणम् — ' युञ्जते मन उत युञ्जते धिय इति । मनश्चैवैतत्प्राणांश्चैतस्मै कर्मणे युङ्क्ते विप्रा विप्रस्येति प्रजापति विप्रो देवा विप्रा बृहतो विपश्चित इति प्रजापतिर्वै बृहन् विपश्चिद्वि होत्रा दध इति यद्वा एष चीयते तदेष होत्रा विधत्ते चिते ह्येतस्मिन् होत्रा अधिविधीयन्ते वयुनाविदित्येष हीदं वयुनमविन्ददेक इदियेको ह्येष इद सर्वं वयुनमविन्दन्मही देवस्य सवितुः परिष्टुतिरिति महती देवस्य सवितुः परिष्टुति-रित्येतत् ' ( श ० ६ | ३ | १ | १६ | । मन्त्रं व्याचष्टे - युञ्जते मन इत्यादिना । स्पष्टोऽर्थः । यद्वा य एष चीयते स ह्येतत्कर्माणि करोति । तदेव द्रढयितुमाह - चिते होतस्मिन्निति । ' चिते ' अग्नी होतृमैत्रावरुणादिक्रियाणां विधानात् तस्यैव कर्तृत्वमुपचरितम् । अध्यात्मपक्षे - विप्रस्य मेधाविन: सामान्येन सर्वज्ञानवतो बृहतो महतो विपश्चितो विशेषेण पश्यश्चासो चिच्चेति विपश्चित् तस्य सर्वविशेषज्ञानवतः परमेश्वरस्य सम्बन्धिनो विप्रा मेधाविनो जीवाः साधका मनः सङ्कल्पविकल्पात्मकं चेतः, उतापि धियो बुद्धीश्च प्राणान् वा युञ्जते प्रत्यक् चैतन्याभिन्ने परमात्मन्येव समादधते । कीदृशा विप्राः? होत्रा होमशीला अनलसाः पुरुषार्थपरायणाः । कुतस्तत्र मनो दधत इति । तत्र हि एकोऽसहायः, इद् एव, विदधे सर्वमिदं विरचयति । ननु कथमेक एव सर्वमपारं जगन्निर्माति? तत्राह -- वयुनाविद् ज्ञातज्ञेयः सर्वज्ञः, अतो नास्ति जगन्निर्माणे काचिदनुपपत्तिः । सर्वज्ञतापि कथं तस्येत्याशङ्कयाह - देवस्य सर्वद्योतकस्य सवितुर्जगदुत्पत्ति स्थितिलय लीलस्य तस्य परिष्टुतिः परितः सर्वेषु वेदेषु विद्यमाना स्तुतिः, मही महती सर्वोपरि विराजमानाऽस्ति, तस्याचिन्त्यमहिमत्वात् । दयानन्दस्तु - ' ये होत्रा दातुं शीलाः विप्रा मेधाविनः, यस्य बृहतो महतो विपश्चितोऽखि विद्यायुक्तस्य इव वर्तमानस्य विप्रस्य सर्वशास्त्रविदो मेधाविनः सकाशात् प्राप्तविद्याः सन्तो या सवितुर्देवस्य जगदीश्वरस्य मही महती परिष्टुतिः परितः सर्वतः स्तुवन्ति यया सा अस्ति, तत्र यथा मनो युञ्जते परमात्मनि तत्त्वज्ञाने वासमादधते, उतापि धियो बुद्धीर्युञ्जते, तथा वयुनाविद् वयुनानि प्रज्ञानानि वेत्ति स एक असहाय इद् एव, इदमहं विदधे ' इति, तदपि यत्किञ्चित् विपश्चित इव वर्तमानस्य विप्रस्य इत्यसङ्गतेः । अखिलविद्यायुक्तस्य सर्वशास्त्रविदश्वात्यन्ताभेदे उपमानोपमेयत्वायोगात् । किञ्च 1 निरर्थकमिदं दृष्टान्तोपादानम्, यद्यसहाय एव मनः समाधातुं शक्यते । लुप्तोपमालङ्कारोऽपि प्रकृते निर्मूल एव । वयुनानि प्रज्ञानानि वेत्तीत्यसङ्गतम्, ज्ञानस्य स्वप्रकाशत्वेन ज्ञानत्वायोगात् ॥ ४ ॥
यु॒जे वा॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वश्लोकं॑ एतु पये॒थ्व सुरेः । fa पुत्राआ ये धामनि दिव्यानि॑ त॒स्थुः ॥ ५ ॥
पृष्ठ 44
पाठ पढ़ें पाठ छिपाएँ
८ शुक्लयजुर्वेदसंहिता [ अ ० ११ मन्त्रार्थ - हे पत्नी और यजमान! तुम्हारे निमित्त ' नमः ' इस उक्ति के साथ पुरातन महर्षियों के द्वारा अनुष्ठित अग्निचयन नामक आत्मज्योति को बढ़ाने वाले शुभ कर्म का मैं अनुष्ठान करता हूँ । ब्राह्मण जाति को अन्न से तृप्त करता हूँ । पण्डित यजमान की कीर्ति उसी तरह से दोनों लोकों में व्याप्त हो, जैसे यज्ञ भाग में प्रवृत्त हुई आहुति दोनों लोकों को प्राप्त होती है । मरणधर्मरहित प्रजापति के पुत्र सभी देवगण यजमान की उस कीर्ति को सुनें, जो दिव्य स्वर्ग में भी फैली हुई है ॥ ५ ॥
त्रिष्टुप | हे पत्नीयजमानौ, वां युवयोरर्थे नमोभिरन्नः इदानीं हुतैर्धृतः सहितं पूर्व्यं पुरातनै महर्षिभि रनुष्ठितं ब्रह्म परिवृढमग्निचयनाख्यं कर्माहं युजे युनज्मि सम्पादयामि । यद्वा नमोभिर्नमस्कारपूर्वकैरिष्टको-पधानादिभिर्युजे सम्पादयामि । यद्वा ब्रह्मशब्देन प्राणाः सप्त ऋषयो ब्राह्मणाश्चोच्यन्ते । वां युवाभ्यामर्थे पूव्यं पुरातनं ब्रह्म ब्राह्मणजाति नमोभिरन्तैर्युजे योजयामि । अन्तर्भावित णिजर्थो बोध्यः । ब्रह्म ब्राह्मणांश्चाहं तरन्नैस्तर्पयामीत्यर्थः । ' इयमाहुतिरन्नशब्देनोच्यते ' इत्युव्वटाचार्यः । किमर्थमिति चेत्तत्राह - तस्मिन् सम्पादिते सति विश्लोक एतु पथ्येव सूरे: । सूरेविदुषो यजमानस्य श्लोको यशो व्येतु विविधं लोकद्वयं व्याप्नोतु पथ्या | ' व्यवहिताश्च ' ( पा ० सू ० ११४/८२ ) इति ' वि एतु ' अनयोर्व्यवधानम् । कथमिव? पथ्येव । पथोऽनपेता । किञ्च, यज्ञभागप्रवृत्ता आहुतिर्यथा लोकद्वयं व्याप्नोति एवं याजमानं यश उभयलोकसञ्चारि भवत्वित्यर्थः विश्वे सर्वे अमृतस्य अमरणधर्मणः प्रजापतेः परमेश्वरस्य पुत्रा देवाः शृण्वन्तु याजमानं यशः । के ते? ये दिव्यानि दिवि भवानि धामानि स्थानानि, आतस्थुः अधिष्ठितवन्तः, तेऽस्य यशः शृण्वन्त्विति सम्बन्धः । यद्वा है पत्नीयजमानौ, वां युवाभ्यामर्थाय नमोभिरन्तैः सहितं पूव्यं पुरातनं संहितं ब्रह्म ब्रह्मणि युजे युक्तवान् सविता | अत्रान्नवाचिना नमः शब्देन आहुतिरभिधीयते । तया आहुत्या पत्नीयजमानयोर्बुद्धीः प्राणान् एकस्मै ब्रह्मणे युङ्क्ते इत्यर्थः । यद्वा ' युजे ' इति लडुत्तमैकवचने रूपम् । अहमध्वर्युर्युजे योजयामीत्यर्थः । किमर्थमिति तदाह - सूरे: कर्मविदुषो यजमानस्य श्लोकः कीर्तिर्येतु उभयत्र देवेषु मनुष्येषु च प्रसृता भवत्वित्येतदर्थम् । तत्र दृष्टान्तः— पथ्येव । यथा पथो यज्ञमार्गादनपेता आहुतिरुभयत्र प्रसारिणी भवति, एवं श्लोकः सर्वत्र प्रसरत्विति । शेषं पूर्ववत् । तथा च ब्राह्मणम् - ' युजे वां ब्रह्म पूव्यं नमोभिरिति । प्राणो वै ब्रह्म पूर्व्यमन्नं नमस्तत्तदेषैवाहुति-रन्नमेतयैव तदाहृत्यं तेनान्नेन प्राणानेतस्मै कर्मणे युङ्क्ते विश्लोक एतु पथ्येव सूरेरिति यथोभयेषु देवमनुष्येषु कीर्तिश्लोको यजमानस्य स्यादेवमेतदाह शृण्वन्तु विश्वे अमृतस्य पुत्रा इति प्रजापतिर्वा अमृतस्तस्य विश्वे देवाः पुत्रा आ ये धामानि दिव्यानि तस्थुरितीमे वै लोका दिव्यानि धामानि तद्य एषु लोकेषु देवास्तानेतदाह ' ( ० ६ ३ | १ | १७ ) इति । एतद्ब्राह्मणानुसार्येव पूर्वोक्तं व्याख्यानम् । प्रजापतिरूपः प्राण एवात्र ब्रह्मपदेन ग्राह्यः । अन्नमेव नमःशब्देन । तदप्याहुतिरूपमेव । आहुतिरूपेणान्तेन एतस्मै चयनरूपाय कर्मणे प्राणान् युङ्क्ते । शेषं स्पष्टमेव । अध्यात्मपक्षे - हे सीतारामौ रुक्मिणीकृष्णी लक्ष्मीनारायणी गौरीशङ्करौ वा, वां युवाभ्यामर्थे नमोभि-रभीष्टेरन्नैः पूव्यं पूर्वैराराधितं ब्रह्म ब्राह्मणकुलं युजे योजयामि तर्पयामीत्यर्थः । किमर्थम्? यथा सूरे: सर्वज्ञस्य श्रिया सहितस्य नारायणस्य सीतया सहितस्य रामस्य राधया सहितस्य कृष्णस्य गौर्या सहितस्य शङ्करस्य वा श्लोको यशो दिक्षु विदिक्षु च व्येतु प्रसृतमपि विशेषेण प्रसरत्विति । अमृतस्य तव परमेश्वरस्य विश्वे सर्वे पुत्राः सर्वे जीवाः शृण्वन्तु श्रुत्वा पूता भवन्तु ये दिव्यानि दिवि भवानि धामानि स्थानानि आतस्थु-विष्ठितवन्तो गोलोकवैकुण्ठ कैलासाख्यानि धामानि ये वा कैवल्यं परमं पदमास्थितास्तेऽपि शृण्वन्तु । यतो
पृष्ठ 45
पाठ पढ़ें पाठ छिपाएँ
मन्त्र: ५-६ ] वेदार्थपारिजात भाष्यसहिता मुक्ता अपि लीलया विग्रहं कृत्वा भगवन्तं भजन्ते, ' यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च ' ( नृ ० पू ० ता ० २।१७ ) इति श्रुतेः । अत्र ' ब्रह्मवादिनः ' इति पदेन मुक्ता गृहीता भगवत्पूज्यपादैः । दयानन्दस्तु ' योगजिज्ञासून संबोध्य कथयति भवन्तो यथा श्लोकास्तथा सत्यवाक्संयुक्तोऽहं नमोभिः सत्कारैर्यत्पूव्यं पूर्वैर्योगिभिः प्रत्यक्षीकृतं ब्रह्म बृहद् व्यापकं युजे आत्मनि समादधे तद् वां युवयोर्योगानुष्ठात्र-पदेशकयोः सकाशात् श्रुतवन्तौ सूरेविदुषः पथ्येव यथा पथि साध्वी गतिर्व्येतु प्राप्नोतु यथा ये विश्वे पुत्राः सुसन्ताना आज्ञापालका इव प्राप्तमोक्षा विद्वांसोऽमृतस्य योगेन दिवि सुखप्रकाशे भवानि धामानि स्थानानि आतस्थुः आस्थितवन्त एतां योगविद्यां शृण्वन्तु ' इति, तदपि न युक्तम्, निर्मूलकल्पनाप्रधानत्वात्, योगजिज्ञासोः सम्बोध्यत्वे प्रमाणाभावात् । पत्नीयजमानयोस्तु सम्बोध्यत्वं श्रुतिसूत्र सिद्धम् । श्लोकशब्दस्यापि त्वदुक्तोऽर्थो-प्रामाणिक एव । पूर्व्यमित्यस्यापि तादृशार्थत्वं निर्बीजमेव । हिन्दीभाष्यविरोधोऽपि । संस्कृतव्याख्याने तु तयोः सकाशात् श्रुतवन्तौ इत्यर्थः कृतः । हिन्दीव्याख्याने च ' वाम् ' इत्यस्य योगानुष्ठानोपदेशका इति व्याख्यानमिति परस्परं बिरुद्धघते, अस्पष्टार्थता च । भावार्थस्तु सर्वत्रैव मूलादसम्पृक्त एव ॥ ५ ॥
यस्य॑ प्र॒याण॒मन्व॒न्य इद्ययुर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा ।
यः पार्थि॑वानि विम॒मे स एत॑श॒ रजसि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥ ६ ॥
मन्त्रार्थ - अन्य देवता जिस सबिता देवता की प्रवृत्ति को महिमा को अपने तपोबल से जान पाते हैं, जिस परमात्मा ने सभी लोकों का निर्माण किया है, वह परमात्मा अपनी महाभाग्य महिमा के प्रभाव से इस स्थावरजंगमात्मक लोक में प्राण रूप से प्रविष्ट होकर व्याप्त है ॥ ६ ॥
सावित्री जगती । तस्मात् सविता प्रजापतिरेवात्राभिधीयते । व्यवहितपदप्रायमिदं मन्त्रवाक्यम् । अन्ये देवा यस्य देवस्य द्योतनशीलस्य सवितुः प्रजापतेः प्रमाणं प्रवृत्तिमनुययुरिद् अवश्यमनुगच्छन्त्येव । अन्ये देवा यस्य च देवस्य महिमानं महत्त्वं महाभाग्यं विभूति वा ओजसा बलेनानुययुः । यश्च सविता पार्थिवानि रजांसि पृथिवीप्रभृतिस्त्रिलोकान् विममे मिमीते विरचयति, ' लोका रजांसीत्युच्यन्ते ' ( नि ० ४।१ ९ ) इति यास्कोक्तेः । यद्वा यः सविता पार्थिवानि पृथिवोगतानि रजांसि परमाणून विममे विशेषेण गणयित्वा निश्चितवान् स देवो महित्वना स्वकीयेन महाभाग्येन एतश एतज्जगत् स्थावरजङ्गमप्राणिरूपेण शेते व्याप्नोतीति एतशः सविता । महित्वना महेर्महतो भावो महित्वना महत्त्वम् । भावे छान्दसत्वन्प्रत्ययः । यद्वा एतश इत्यश्वनामसु पठितम् । स देवोऽश्वरूपेण सर्वं जगदवष्टभ्य स्थितः । अश्वमेधीयस्याश्वस्य प्रजापतिरूपेण वर्णनं दृश्यते, ' उषा वा अश्वस्य मेध्यस्य शिरः ' ( श ० १० | ६ | ४ | १. ) इति श्रुतेः, ' सूरादश्वं वसवो निरतष्ट ' ( वा ० सं ० २ ९ १३ ) इति वक्ष्यमाण-मन्त्रवर्णाच्च । यद्वा एति सर्वत्र गच्छतीति एतशः यः सविता महित्वना महत्त्वेन सर्वं व्याप्तवान् । यद्वा अन्ये देवा यस्य देवस्य द्योतनशीलस्य प्रजापतेः प्रयाणं प्रथमगमनकर्मानुष्ठानमनुलक्ष्य ओजसा वीर्येण महत्त्वं महिमानं चयनात्मकं यज्ञं ययुरन्वगच्छन्, प्रजापत्यनुष्ठानानन्तरं सर्वे देवाश्चयनाख्यं कर्म कृतवन्तः । यः सविता पार्थिवानि पृथिव्यामवस्थितानि वस्तुनि सर्वं वस्तुजातं विममे स्वीयैस्तेजोभिर्ज्ञानात्मकैः प्रकाशैर्व्यनक्ति । ' माङ् माने ' । स देव एतशः सर्वत्र चरणशीलः । यद्वा मत्वर्थीयप्रत्ययलोपे एतशोऽश्ववान् । अन्यत् पूर्ववत् । अत्र ब्राह्मणम् – ' यस्य प्रयाणमन्वन्य इद्ययुरिति । प्रजापतिर्वा एतदग्रे कर्माकरोत्ततो देवा अकुर्वन् देवा देवस्य महिमान ( श ० ६ | ३ | १ | १८ ) । मन्त्रं प्रतिपादमनूद्य व्याचष्टे - यस्येति । यद्वा एतशोऽश्ववान् सविता आदित्यो देवो रजांसि पृथिव्यन्तरिक्षेद्युलोकान् सविता तानेष स्वमहिम्ना विमिमीते ।
पृष्ठ 46
पाठ पढ़ें पाठ छिपाएँ
शुक्ल यजुर्वेद संहिता 1370 35 अध्यात्मपक्षे - यस्य देवस्य ब्रह्मणः सर्वेश्वरस्य प्रयाणं प्रवृत्तिमन पश्चाद् अन्ये देवा ययुः इत् एव, अधिष्ठान सत्तास्फूर्तीरनु सर्वेषां सत्तास्फूर्तिमत्त्वम्, ' तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ' ( क ० उ ० ५.१५ ) इति श्रुतेः । यस्य महिमानं लोकोत्तरमाहात्म्यमोजसा तपसा अनुययुरवगतवन्तः, यश्च देव: पार्थिवानि रजांसि परमाणून् तत्सम्बन्धिनो लोकान् वा विममे मिमीते विरचयति जानाति वा, स सविता सर्वस्य प्रसविता देवः स्वप्रकाशः परमेश्वरो महित्वना स्वकीयेन माहात्म्यातिशयेन एतशो जगत्त्रयं व्याप्नोति । दयानन्दस्तु – ' हे योगिनः, युष्माभिर्यस्य परमेश्वरस्य महिमानं स्तुतिविषयं प्रयाणं प्रयान्ति सर्वाणि सुखानि येन तत् प्रकृष्टं यानमनु पश्चाद् अन्ये देवा विद्वांसो ययुः प्राप्नुयुः, य एतशः सर्वं जगदितः स्वव्याया प्राप्तः । ' इणस्तशुनी ' ( उ ० ३।१४७ ) इति साधुः । सविता सर्वस्य निर्माता देवो दिव्यस्वरूपो भगवान् महित्वना स्वमहिम्ना । अत्र बाहुलकाद् औणादिक इत्वनच्प्रत्ययः । ओजसा पराक्रमेण पार्थिवानि पृथिव्यां विदितानि रजांसि सर्वान् लोकान् विममे विमानयानवन्निमिमीते स इद् एव सततमुपास्यो मन्तव्यः ' इति, तदपि न, अध्याहार बाहुल्यात् । यत्तु - ' सायणाचार्येण व्यत्ययेन नाभावो व्याख्यातः सोऽशुद्धः, पक्षान्तरे ' ० सुषां सं ० सुलुक् १।१६६।१२ ) ( पा ० सू ० ७ । १ । ३ ९ ) इत्याजादेशो नकारोपजनश्चेति ' तदपि चिन्त्यम् । अन्यत्र ' महित्वनम् ' ( ऋ हेत्व-इत्यादिप्रयोगदर्शनात्, ' महित्वन ' इत्यन्तोदात्तप्रातिपदिकस्य निर्विवादत्वाच्च ' इति, तदपि न, प्रथमे नुक्तेः, प्रतिज्ञामात्रेण वस्त्वसिद्धेः, ' वा छन्दसि सर्वे विधयः ' इति युष्माभिरपि छान्दसत्वाश्रयणात् । पक्षान्तरीय-दोषोऽपि तथाविध एव, महित्वनमित्यत्र तथात्वाभावेऽपि प्रकृते तथात्वे बाधाभावात्, महित्वनेत्यत्राद्युदात्तत्वस्य साम्प्रदायिकत्वात् ॥ ६ ॥
देवं सवितः दिव्यो ग॑न्ध॒र्वः
प्रसंव यज्ञं प्रसंव य॒ज्ञप॑त॒ भगा॑य । ।
त॒पूः केत॑ नः पुनातु वाचस्पति॒र्वाच॑ नः स्वदतु ॥ ७ ॥
है सबके प्रेरक सविता देव! यज्ञ को प्रेरित करो, यजमान को भी सौभाग्य के निमित्त प्रेरित करो । स्वर्ग में स्थित दूसरे के चित्त में वर्तमान ज्ञान का शोधन करने वाले, वाणी को धारण करने वाले सविता देवता हमारे चित्तवर्ती ज्ञान को ब्रह्मज्ञान से पवित्र करें । वाणी के पति सबिता देव हमारी वाणी को मधुरता से भर दें, हमारी वाणी उन्हें भलो लगे ॥ ७ ॥
त्रिष्टुप् । हे देव सवितः, यज्ञं प्रसुव प्रकर्षेण प्रेरय यज्ञपति यजमानं भगाय सौभाग्याय । किञ्च दिव्यो दिवि भवः स्वर्गस्थः, केतपूः केतं परचित्ते वर्तमानं ज्ञानं पुनाति शोधयतीति केतपूः । गन्धर्वो गां वेदलक्षणां वाचं धारयतीति । सविता नोऽस्माकं केतं चित्तवति पुनातु विषयोपरागबाधेन नित्यज्ञानात्मक ब्रह्मत्वापादनेन शोधयतु । वाचो वाण्याः पतिः सविता नोऽस्माकं वाचं स्वदतु अस्मदुक्ता वाक् तस्मै रोचताम् । अत्र ब्राह्मणम्-' देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपति भगायेति । असौ वा आदित्यो देवः सविता यज्ञो भगस्तमेतदाह प्रसुव यज्ञं प्रसुव यज्ञपति भगायेति दिव्यो गन्धर्वः केतपूः केतं नः पुनावित्यसो वा आदित्यो दिव्यो गन्धर्वोऽन्नं केतोऽन्नपूरन्नं नः पुनात्वित्येतद्वाचस्पतिर्वाचं नः स्वदत्विति वाग्वा इदं कर्म प्राणो वाचस्पतिः प्राणो न इदं कर्म स्वदत्वित्येतत् ' ( श ० ६ | ३ | १ | १ ९ ) । असो वा आदित्यो देवः सविता स एव गन्धर्वः केतोऽन्नं वाग्वा इदं कर्म प्राणो वाचस्पतिः प्राणो देव इदं नः कर्म स्वदत्विति ।
पृष्ठ 47
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ७-८ ] वेदार्थपारिजातभाष्यसहिता ११ अध्यात्मपक्षे --- हे देव, दीव्यतीति देवः स्वप्रकाशस्तत्सम्बुद्धौ । सवितर्जगदुत्पादक, यज्ञं ज्ञानरूपं प्रसुव यज्ञपतिं यज्ञस्य ज्ञानस्य पतिः पालकस्तं प्रसुव उत्पादय । किमर्थम्? भगाय अनैश्वर्यनिवारणाय ब्रह्मात्मतापत्ति-लक्षणसौभाग्याय । भवान् दिव्यो गन्धर्वो गोः पृथिव्या धारकः, केतपूः केतं ज्ञानं पुनातीति नः केतं ज्ञानं पुनातु, वाचस्पतिर्भवान् नो वाचं स्तुतिलक्षणां स्वदतु । दयानन्दस्तु - हे देव सत्ययोगविद्ययोपासनीय सवितर्भगवन्, त्वं नो भगाय अखिलेश्वर्याय यज्ञं सुखानां सङ्गमकं व्यवहारं प्रसुव उत्पादय । यज्ञपति तादृशस्य यज्ञस्य पालकं प्रसुव । दिव्यो दिवि शुद्धगुणकर्मसु साधुन्ध यो गां पृथिवीं धारयति स केतपूः यः केतेन विज्ञानेन पुनाति स भवान् नोऽस्माकं केतं विज्ञानं पुनातु पवित्रीकरोतु । वाचस्पति: सत्यविद्यान्विताया वेदवाण्याः पतिः प्रचारेण रक्षकः, नोऽस्माकं वाचं वाणीं स्वदतु स्वदतां स्वदिष्ठां करोतु । व्यत्ययेन परस्मैपदम् ' इति, तदपि यत्किञ्चित्, मुख्यार्थत्यागेन गौणार्थाश्रयणात् । नहि सुखजनकव्यवहारे यज्ञपदप्रयोगः, योगोपयुक्तभोजनपानव्यवायादिषु तथा प्रयोगापत्तेः । विद्यापदेन यथार्थ -ज्ञानमिष्यते चेत्, तदा सा सत्यैव भवति नासत्या । स्वदिष्ठामित्यत्रापि गौणार्थतैव ॥ ७ ॥
इ॒मं नो॑ दे॒व सवितर्य॒ज्ञं प्रण॑य देवा॒व्य॒ सव॒विद॑ सत्राजिते॑ धन॒जित॑ स्व॒शत॑म् । ऋ॒चा स्तोम॒ सम॑र्व॑व गाय॒त्रेण॑ रथन्त॒रं बृ॒हद् गा॑य॒त्रव॑र्तनि॒ स्वाहा॑ ॥ ८ ॥
मन्त्रार्थ - हे सविता देव! सब देवताओं को तृप्त करने वाले, सबको मिश्र बनाने वाले यजमान को जानने वाले, सम्पूर्ण अन्य यज्ञ कार्यों को वश में करने वाले, द्वादशाह आदि को वश में करने वाले, गो आदि के रूप में धन को जीतने वाले, यज्ञ के फल से स्वर्ग को जीतने वाले हमारे इस यज्ञ को सम्पन्न करो । हे देव! स्तोत्र की कारणभूत सामाधार ऋचा से त्रिवृत् आदि को समृद्ध करो, गायत्री छन्द से रथन्तर साम को और बृहत् साम को सम्पन्न करो । यह आहुति भली प्रकार गृहीत हो ॥ ८ ॥
आऽवसानाद्यजुः । प्राजापत्या जगती । हे सवितर्देव, नोऽस्माकमिमं यज्ञं प्रणय प्रापय । कथंभूतम्? देवाव्यं देवा अव्यन्ते तयन्ते यस्मिन्नसौ देवावीः तम् । ' अव प्रीणनादी ' | ' अवितृस्तृत त्रिभ्य ई: ' ( उ ० ३ | १५८ ) इत्यादिकेन ईप्रत्ययेन रूपसिद्धिः । सखिविदं सखायं स्वनिष्पादकं यजमानं वेत्तीति सखिवित् तम् । ' विद् ज्ञाने ' । सखीनृत्विजो विन्दते प्राप्नोतीति वा सखिवित्तम् । ' विद्लृ लाभे ' । सखायो विद्यन्ते यस्मिन्निति वा सखिवित्तम् । ' विद् सत्तायाम् । सत्राजितं सत्राणि द्वादशाहादीनि जयति वशीकरोतीति सत्राजित्तम् । छान्दसो दीर्घः । तत्तदनुष्ठाने तेषामपि चीयमानाग्निसापेक्षत्वात् । यद्वा सत्राशब्दः सत्यवाची । सत्रा सत्यं ब्रह्म जयति फलरूपेण प्राप्नोतीति सत्राजित्तम् । ' सत्रा इति सत्यनामसु ' ( निघ ० ३ | १० | ३ ) । धनजितं धनं गवादिरूपं फलरूपेणार्जयतीति धनजित्तम् । स्वर्जितं स्वः स्वर्गं जयति फलत्वेन सम्पादयतीति स्वर्जित् तम् । हे सवितः ऋचा स्तोत्रहेतुसामाधारभूतया ऋचा सह स्तोमं त्रिवृदादिकं समर्धय समृद्धं कुरु । ' ऋच्ध्यूढसाम ' इति रीत्या ऋचामेव सामाधारत्वात् । गायत्रेण साम्ना सह रथन्तरं साम समर्धय बृहत्साम च समर्धय । कीदृशं बृहत्? गायत्रवर्तनि गायत्रं सामैव वर्तनिर्मार्गो यस्य तत् । बृहत्साम्नो गायत्रं साम वर्त्मभूतमित्यर्थः ।
पृष्ठ 48
पाठ पढ़ें पाठ छिपाएँ
१२ [ अ ० ] ११ अत्र ब्राह्मणम् - ' इमं नो सवितर्यज्ञं प्रणयेति । असो वा आदित्यो देवः सविता यदु वा एष यज्ञियं कर्म प्रणयति तदनार्त स्वस्त्युचमश्नुते देवाव्यमिति यो देवानवदित्येतत् सखिविद सत्राजितं धनजित स्वर्जितमिति य एतत्सर्वं विन्दादित्येतद्वचेत्यृचा स्तोम १७ समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनीति सामानि स्वाहेति यजू ७ षि सैषा त्रयी विद्या प्रथमं जायते यथैवादोऽमुत्राजायतैवमथ यः सोऽग्निरसृज्यतैष स योत ऊर्ध्वमग्निश्चीयते ' ( श ० ६ | ३ | १ | २० ) | प्रणयेति पदस्यार्थमाह - यदु वा इति । यज्ञियं कर्म प्रणयति प्रकर्षेण नयति । तदेवाह - तत्सवित्रा प्रणीतं कर्म अनार्तम् अनुपहतं स्वस्ति क्षेमेण उट्टचं समाप्तिम् अश्नुते । देवाव्यंपदं व्याचष्टे -- देवानवतीति तर्पयतीत्यर्थः । अस्य यजुषस्त्रयीविद्यात्वमुपपादयितुमाह-ऋचेति । अस्मिन् यजुषि ऋचा स्तोमं समर्धय गायत्रेण रथन्तरं बृहद् गायत्रवर्तनि स्वाहेति कण्डिकायां पठ्यते । तत्र ऋचेतिपदेन ऋग्वेदोऽभिधीयते । स्तोम- गायत्र रथन्तर बृहदादिभिः पदैः सामान्युच्यन्ते । स्वाहेतिपदेन यजुर्वेदोऽभिधीयते । अत एवैष मन्त्रो वेदत्रयात्मकत्वात् त्रयी विद्या । अत्र त्रय्याः कः प्रसङ्गः? इत्यत आह - यथैवादोऽमुत्रेति । अद इति स्थितिक्रियाविशेषणम् । अमुत्रेति विप्रकृष्टवचनः । यथा प्रागध्यायादी सर्वसृष्टेः पुरा त्रयी विद्या उत्पन्ना, एवमेतद्यजुरपि । स श्रान्तस्तेपानो ब्रह्मैव प्रथममसृजत त्रयीमेव विद्याम् ' ( ० ६ | १ | ११८ ) इति श्रुतेः । पूर्वं योऽग्निः सृष्टः, अथ यो गर्भेऽन्तरासीत् तमग्निमसृजत् । स सृष्टोऽग्निरेव चीयमानोऽग्निरित्यर्थः । अध्यात्मपक्षे -- हे सवितः प्रपञ्चोत्पादयितः! देव सृष्ट्यादिक्रीडापरायण! नोऽस्माकमिमं त्वदुपासनलक्षणं यज्ञं प्रणय प्रापय । कीदृशं तम्? देवाव्यम्, देवा अव्यन्ते वर्ण्यन्तेऽनेनेति देवावीस्तम् । सखिविदं सखायं परमात्मानं विन्दते लभते येन तम् । सत्राजितं सत्रा सत्यं ब्रह्म जयति प्राप्नोति येन तम् । धनजितं धनं देवीसम्पद्रूपं जयति येन तम् । स्वर्जितं स्वो ब्रह्मानन्दाख्यं सुखं जयति प्राप्नोति येन तम् । हे सवितः, ऋचा स्तोत्रहेतु-सामाधारभूतया सह स्तोमं त्रिवृदादिकं बृहद् रथन्तरं च स्वोपासनायां प्रवर्तितं समर्धय सफलय, भगवत्स्तुतावेव? तेषां साफल्यात्, ' यस्तन्न वेद किमृचा करिष्यति ' ( ऋ ० सं ० १ | १६४ / ३ ९ ) इति मन्त्रवर्णात् । कीदृशं बृहत् गायत्रवर्तनि गायत्रं साम वर्तनिर्मार्गो यस्य तत् तादृशं बृहत् । दयानन्दस्तु -- ' हे देव सवितर्जगदीश, त्वं न उक्तं वक्ष्यमाणं च देवाव्यं देवान् दिव्यान् गुणान् विदुषो गुणान् वा अवति येन स देवावीस्तं सखिविदं सखीन् सुहृदो विन्दति येन तं सत्राजितं सत्रा सत्यं जयत्युत्कर्षति येन तम्, धनजितं धनं जयत्युत्कर्षति येन तं स्वर्जितं स्वः सुखं जयत्युत्कर्षति येन तम्, ऋचा ऋग्वेदेन स्तोमं स्तूयते यस्तं यज्ञं विद्याधर्मं संगमयितारं प्रणय प्रापय । गायत्रेण गायत्रीप्रभृतिच्छन्दस्व गायत्रवर्तनि गायत्रस्य वर्तनिर्मार्गो वर्तनं यस्मिन् तद् बृहद् रथन्तरं रथं रमणीयैर्यानैस्तरति येन तं समर्धय वर्धय । स्वाहा सत्यया क्रियया वाचा वा ' इति, हिन्दीभाष्ये च तं मार्गं सम्यग वर्धय ' इति, तत्सर्वं यत्किञ्चित्, मुख्यार्थत्यागेन काल्पनिकार्थप्रतिपादनात् ब्राह्मणेन अन्यथा व्याख्यातत्वाच्च । रथन्तरबृहदादिसामविशेषास्ताण्ड्य ब्राह्मणादी प्रसिद्धाः, तदतिक्रम्य मार्गपरत्वेन व्याख्यानस्य तद्विरुद्धत्वेनोपेक्षणीयत्वात् ॥ ८ ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व॑ ऽश्विनो॑र्बा॒हुभ्यां॑ पृ॒ष्णो हस्ता॑भ्याम् । आद॑दे गाय॒त्रेण॒ छन्द॑साङ्ग-1 र॒स्वत्पृ॑थि॒व्याः स॒स्मा॑द॒ग्न पु॑रोष्यमङ्गर॒स्वदाभि॑र॒ त्रैष्टुभेन॒ छन्द॑साङ्गर॒स्वत् ॥ ९ ॥
पृष्ठ 49
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः १ ९ ] वेदार्थं पारिजातभाष्यसहिता १३ मन्त्रार्थ - हे अनि! सबके प्रेरक सविता देव की प्रेरणा से, गायत्री छन्द के प्रभाव से, अश्विनीकुमारों की भुजाओं से, पूषा देवता के हाथों से तुमको अंगिरावंशी ऋषियों के समान ग्रहण करता हूँ । अंगिरावंशियों के समान त्रिष्टुप् छन्द के प्रभाव से पृथ्वी के उत्संग के भीतर से पशुओं की हितकारिणी अग्नि का आहरण करता हूँ ॥ ९ ॥
' देवस्य त्वेत्यभ्रिमादाय हस्त आधायेत्येनामभिमन्त्रयते ' ( का ० श्र ० १६।२१८ ) | देवस्य त्वेत कण्डिकाद्वयात्मकेन मन्त्रेण वैणवोमभ्रिमादाय ' हस्त आधाय ' इत्येकादश्या कण्डिकया ऋचा एनामभिमन्त्रयते इति अभिर्देवता । देवस्य त्वेति प्रजापतिः साध्या वा ऋषयः । सावित्रं यजुः । तच्च व्याख्यातमेव । आददे बाहुभ्यां अतिधृतिश्छन्दः । हे अभ्रे, सवितुर्देवस्य प्रसवे प्रेरणे सति, अश्विनोः सम्बन्धिभ्यां मणिबन्धपर्यन्ताभ्यां त्वा त्वामहमाददे पूष्णो हस्ताभ्यां साङ्गुलिभ्यां कराभ्यां साधनभूताभ्यां गायत्रेण छन्दसा सहायभूतेन युक्तः सन् गृह्णामि । अत्रानिशब्देनोभयतस्तीक्ष्णीकृतोऽरत्निप्रमाणको वैणवो दण्डविशेष उच्यते । तत्र दृष्टान्तः -- अङ्गिरस्वत् रुत्वाभावे । अङ्गिरोभिस्तुल्यमङ्गिरोवदिति प्राप्ते ' अयस्मयादीनि छन्दसि ' ( पा ० सू ० १।४।२० ) इति भसंज्ञायां अभ्रे, त्वं गृहीता अङ्गिरस्वदिति रूपम् । यथा पूर्वमङ्गिरस ऋषयस्त्वामगृतम् तद्वदहं गृह्णापीति सम्बन्धः । हे ) इति सती पृथिव्याः सधस्थादुत्सङ्गाद् अग्निमाभर आहर । ' हृप्रहोर्भश्छन्दसि ' ( पा ० सू ० वा ० ८/२/३२ पुनर्वचनं हस्य भः । त्रैष्टुभेन छन्दसा कृत्वा अङ्गिरस्वद् अङ्गिरसो यथा अग्निमाजहः । अङ्गिरस्त्रदित्यस्य ४२ ) इति दृष्टान्तार्थातिशयार्थम् । ' अहो रमणीयाहो रमणीयेति । अभ्यासे भूयांसमर्थं मन्यन्ते ' ( नि ० १० | यास्कोक्तेः । कथंभूतमग्नि पुरीष्यं ' पशवो वै पुरीषम् ' ( श ० ६ | ३ | ४ | ३८ ) इति श्रुतेः पुरीषेभ्य: पशुभ्यो हितः पुरीष्यस्तं पशव्यम् । यद्वा पुरीषशब्देन पांसुरूपा गुष्का मृदुच्यते, तदर्हतीति पुरीष्योऽग्निः । मृदमादायोखां कृत्वा तस्यामग्निः स्थाप्यतेऽतोऽग्नेर्मृदश्चाभेदोपचारेण मृदाहरणमेवाग्न्याहरणमित्यभिप्रायेण पुरीष्यमग्निमाभरेत्युच्यते । अयं चोपचारोऽग्निचयनप्रकरणे सर्वत्रानुवर्तिष्यत इति काण्वभाष्ये सायणाचार्यः । तत्र ब्राह्मणम् ' दक्षिणत आहवनीयो भवति । उत्तरत एषाभिरुपशेते वृषा वा आहवनीयो योषाभि-दक्षिणतो वै वृषा योषामुपशेतेऽरत्निमात्रेऽरत्नि मात्राद्धि वृषा योषामुपशेते ' ( श ० ६ | ३११३० ) | अथाहवनी-याग्न्ययोः स्त्रीपुंसात्मना प्रशंसा । स्त्रिया दक्षिणप्रदेशे वृषा पुरुष उपशेते । स्त्रीपुरुषयोर्मध्ये श्वासादिसञ्चाराय संबाधपरिहारायारत्निमात्रोऽवकाशो युक्त इत्यरत्निमात्र्या अभ्रया व्यवधानस्वरूपता युक्ता । ' सा वैणवी स्यात् " १ ( श ० ६ | ३ | ११३१ ) अग्निर्देवेभ्य उत्क्रम्य वेणुं प्रविष्टवान् । अतः स ससुषिरः सच्छिद्रो वेणुः । यथान्ये मां न जानीयुस्तथा स्वाच्छादनाय यानि वर्माणि पार्श्वयोरकरोत् तानि पर्वाणि सन्धयः । वेणोः प्रवेशकाले यत्र यत्र प्रदेशेऽग्निर्ददाह तानि कल्माषाणि कृष्णबिन्दुचिह्नान्यभवन् । ' सा कल्माषी स्यात् ' ( श ० ६ | ३ | १ | ३२ ) । अतः सा अभिः कल्माषी कल्माषकवलितवेणुमयो कर्तव्या । कल्माषालाभेऽन्य रूपोऽपि ग्राह्यः । अतोऽग्निरूपमृत्तिकाखनने अग्निरूपाभ्रिकरणं स्यात् । ' प्रादेशमात्री स्यात् । प्रादेशमात्र हीदमभि वाग्वदत्यरत्नमात्री त्वेव भवति बाहुर्वा अरलिः । बाहुनो वै वोयं क्रियते वीर्य सम्मितैव प्रादेशप्रमाण- तद् भवति ' ( श ० ६ | ३ | १ | ३३ ) | प्रादेशप्रमाणत्वमरत्निप्रमाणत्वं च कल्पितं यस्मादिदानीं वागिन्द्रियं मभिलक्ष्यते प्रथमं ताल्वोष्ठपुटव्यापारेण प्रादेशपर्यन्तं वाचमुच्चार्य ततो देशसंयोगविभागाभ्यां परश्रोत्रं प्रादेशपर्यन्तं गृह्णाति । यद्वा जिव वागुच्यते सा प्रादेशमात्री । वाक्पदेन प्राणवायुर्वा लक्ष्यते । स हि नासापुटान्निर्गच्छन् गच्छतीत्यागमसिद्धम् । स्वाभिमतमाह-- अरलिमात्री त्वेव स्यादिति । बाह्वेकदेशत्वादरत्नेः समुदायभूतो बाहुरेक-देशेनापि व्यवह्रियते । ' यद्वेवोभयतः क्ष्णुत् ' ( श ० ६ | ३ | ११३५-३६ ) । निशितपार्श्वद्वयी सा कार्या । एतया अभ्रया निशिताग्रया मद्रूपमग्निमनुविद्य एभ्यो लोकेभ्यः सकाशाद् देवा अखनन् तथैवायं यष्टा एतया लोकत्रयसकाशाद्
पृष्ठ 50
पाठ पढ़ें पाठ छिपाएँ
१४ शुक्लयजुर्वेद संहिता [ अ ० ११ मृदात्मकमग्नि खनति । अग्नेः खननव्यापारे प्रथममवक्षेपणमुत्क्षेपणं मध्ये सञ्चारक्रिया चेति व्यापारत्रयेण लोक-त्र्याग्नेः खननम् । तदेवाह - ' स यदिति खनति । तदेनमस्माल्लोकात् खनत्यथ यदूर्वोच्चरति तदमुष्माल्लोकादथ यदन्तरेण सञ्चरति तदन्तरिक्षलोकात् सर्वेभ्य एवैनमेतदेभ्यो लोकेभ्यः खनति ' ( श ० ६ | ३ | १ | ३७ ) । ' तामादत्ते । देवस्य अङ्गिरस्वदिति सवितृप्रसूत एवैनामेतदेताभिर्देवताभिरादत्ते गायत्रेण छन्दसाऽथो अस्यां गायत्रं छन्दो दधाति पृथिव्याः सदस्थादग्नि पुरीष्यमङ्गिरस्वदाभरेति पशवो वै पुरीषं पृथिव्या उपस्थादग्नि पशव्य-मग्निवदाभरेत्येतत् त्रैष्टुभेन छन्दसाङ्गिरस्वदिति तदेनां त्रष्टुमेन छन्दसाऽऽदत्तेऽथो अस्यां त्रैष्टुभं छन्दो दधाति ' ( श ० ६ | ३ | ११३८ ) । अभ्रेरादानं विधत्ते - तामादत्त इति । उत्तरत्र त्रिभिरादत्त इत्यादाने त्रित्वसंख्या विशिष्टानां मन्त्राणां विधानम् । अग्नि त्रिभिर्मन्त्रराददीतेत्यर्थः । प्रथममन्त्रं विधत्ते -- देवस्य त्वेति । मन्त्रस्तूत्तार्थः । मन्त्रस्य तात्पर्यार्थमाह - सवितृप्रसूत इति । द्वितीयं मन्त्रं विधत्ते --- पृथिव्या इति । मन्त्रं व्याचष्टे --- पशवो वै पुरीषमिति । अध्यात्मपक्षे - हे जिज्ञासे सुमते वा, त्वा त्वां सवितुर्देवस्य प्रसवे प्रेरणे अश्विनो रामलक्ष्मणयोर्हस्ताभ्यां कृपाकटाक्षाभ्यां पूष्णः सर्वपोषकस्य शिवस्य हस्ताभ्यां वराभयरूपाभ्यामहं गायत्रेण छन्दसा सहायभूतेनाङ्गिरस्वद् अङ्गिरोभिस्तुल्यं ( ते यथा त्वामगृह्णन् तथाहं ) त्वामाददे गृह्णामि । तथा गृहीता त्वं पृथिव्याः प्रकृतिलक्षणायाः सदस्यादुत्सङ्गात् सर्वजीवप गुहितमग्नि ज्ञानरूपं त्रष्टुमेन छन्दसा अङ्गिरोवदाभर ' यथाङ्गिरसोऽग्निमाजह्नुस्तथा त्वं ज्ञानाग्निमाहर । दयानन्दस्तु - ' हे विद्वन्, अहं यं त्वा देवस्य सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामङ्गिरसा अङ्गिरोभिरङ्गारस्तुल्यमाददे स त्वं गायत्रेण गायत्रीनिमितेनार्थेन छन्दसा पृथिव्याः सधस्थात् सहस्थानात् तलात् अङ्गिरस्वत् त्रैष्टुभेन त्रिष्टुभा निर्मितेनार्थन छन्दसा स्वच्छन्देत अङ्गिरस्वत् प्राणैस्तुल्यं पुरीष्यं पुरीष उदके साधुम् । पुरीष इत्युदकनामसु ( निघ ० १।१३ ) | अग्नि विद्युदादिस्वरूपमाभर आधर ' इति, तदपि यत्किञ्चित्, गायत्रेण छन्दसा त्रैष्टुभेन छन्दसा वा कोऽर्थो निष्पद्यत इत्यस्यानुक्तेः । कथं चैकशब्देनैकत्र अङ्गारैस्तुल्यार्थग्रहणमन्यत्र चप्राणस्तुल्यार्थं ग्रहणमिति । सर्वथाप्यश्विनोर्बाहुभ्यामित्यादीनामप्यर्थः पूर्वं खण्डित एव ॥ ९ ॥
असि नासि त्वया॑ व॒यम॒ग्निः शकेम खनितु सधस्थ छन्द॑साङ्गर॒स्वत् ॥ १० ॥
आ जागतेन मन्त्रार्थ - हे वैणवि, तुम उखा निर्माण करने के लिये मिट्टी खोदने का साधन नूत काष्ठविशेष हो, तुम अनि नाम वाली हो, स्त्रीरूप हो । तुम्हारे द्वारा हम अंगिरावंशियों के समान जगतो छन्द के प्रभाव से पृथ्वी की गोद में faree बैठी हुई अग्नि को खनन द्वारा प्राप्त करने में समर्थ हों ॥ १० ॥
अरिसि, उखां निर्मातुं मृत्खनन हेतु भूतकाष्ठ विशेषोऽसि । यद्वा हे अभ्रे, त्वं वज्ररूपासि, ' वज्रो वा अभ्रिः ' ( श ० ६ | ३ | १ | ३ ९ ) इति श्रुतेः । नारी असि स्त्रीरूपासि | स्त्रीत्वारोपस्तस्यास्तत्कर्तृकहिंसोपशमनार्थः । यद्वा न विद्यतेऽरिः शत्रुर्यस्याः सा नारी । खननकालेऽश्मादिना तव कुण्ठीभावो नास्तीत्यर्थः । किञ्च त्वया अभ्रघा साधनभूतया युक्ता वयं सधस्थे पृथिव्या उत्सङ्गे वर्तमानमग्नि जागतेन छन्दसा खनितुं शकेम शक्ता भवेम । शक्नोतेर्व्यत्ययेन श । अङ्गिरस्वदिति दृष्टान्तः । शेषं पूर्ववत् । अत्र ब्राह्मणम् -'अरिसीति । अभ्रिषा तदेनख