वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 51–60

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 51–60

पृष्ठ 51

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 51 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १०-११ ] वेदार्थपारिजातभाष्यसहिता १५ शमयत्येवैनामेतदहि सायै त्वया सत्येनादत्ते नार्यसीति वज्रो वा अभिर्योषा नारी न वै योषा स्वया कञ्चन हिनस्ति वयमग्नि १७ शकेम खनितुमस्मिन् सधस्थ वयमग्नि १७ शकेम खनि १७ सधस्थ एतीदं वै सधस्थं छन्दसाऽऽदत्तेऽथो अस्यां जागतं छन्दो दधाति ' इत्येतज्जागतेन छन्दसाङ्गिरस्वदिति तदेनां जागतेन अभ्रिवः हननसाधनत्वादुभयोर् अभ्रिनामासि । ( श ० ६।३।१।३२ ) । तृतीयं मन्त्रं विधते - अभिरसीति ॥ यथा योषा स्त्री न कञ्चन पुरुषं हिनस्ति, एवमः नार्यसीत्यस्य तात्पर्य माह- न वै योषा कञ्चन हिनस्तीति - इदं वै सधस्थमिति । त्वया वयमग्नि मृद्रूपं स्त्रीत्वात् सा न कस्यापि हन्त्रीत्यर्थः । सधस्थपदं विवृणुते खतुं शमेति ॥ नारी नरस्य जोवस्य अध्यात्मपक्षे - हे सुमते जिज्ञासे वा त्वमचिरसि वज्रवदज्ञानभेदनशीलासि । ज्ञान विराग नयन उरगारी ॥ भावसहित जो सहधर्मिणीव सहयोगिनी असि । ' मर्मी सज्जन सुमति ॥ ' कुदारो वज्रोपमया त्वया युक्ता वयं सधस्थे प्रवृत्तिलक्षणायाः खोदे प्राणी | पाव भक्ति मणि सब सुख खानी अज्ञानादिकमपसार्य प्राप्तुं शक्ता भवामः । प्रकृतेरुत्सङ्गे वर्तमानमग्नि ज्ञानरूपं सर्वकर्मदाहकं सुमतिरूपया खनितुम् अवघा खनित्वा ज्ञानविरागरूपाभ्यां नयनाभ्यां वेदपुराणादिपावन पर्वतेषु भगवतः कथामयेष्वाकरेषु प्राप्तुं शकेम शक्ता भवेम । वर्तमाना वयं खनका या अरियोमयं दयानन्दस्तु -- ' हे शिल्पिन, त्वया सह सधस्थे, समानस्थाने यां गृहीत्वा जागतेन जगत्या विहितेन साधनेन छन्दसा खननसाधनं भवसि नार्यसि नरस्य स्त्रीव साध्यसाधिका शक्नुयाम, तां त्वं निमिमीष्व ' इति । तथा कश्चित् अङ्गिरस्वत् प्राणैस्तुल्यम् अग्नि विद्युदादि खनितुं आशकेम मनुते ' तदुभयमपि तुच्छम् तादृशशब्दमात्रेण एतदर्था-' मन्त्रेऽस्मिन् अग्निपदेन तैजसस्य सुवर्णस्य निर्माणोपदेशं वक्तव्यत्वात् ॥ १० ॥

सम्भवात्, जागतेन छन्दसा कीदृशं साधनं विहितमित्यस्य पृथि॒व्या हस्ते आवार्य सविता त्रिभ्रत्रि हिरण्ययीम् । अ॒ग्नेर्ज्योतिर्निचाय्य॑ अध्याभ॑र॒दान॒ष्टुभेन॒ छन्द॑साङ्गर॒स्वत् ॥ ११ ॥

को अभि को हाथ में लेकर उसे धारण करते हुए मन्त्रार्थ - प्रेरक सविता देव ने अंगिरा ऋषि के समान सुवर्ण के उदर में से अनुष्टुप् छन्द के प्रभाव से उसका आहरण अग्नि की ज्योति का निश्चय करके कि वह कहाँ छिपी है, भूमि

किया है ॥। ११ ॥

छन्दः । तृतीयचतुर्थपादयोर्व्यूहेन पूर्तिः । अनुष्टुप् यजुरन्ता । आनुष्टुभेनेत्यादि यजुः हिरण्ययीं । तस्य त्रिष्टुप् हिरण्यमयीं हितरमणीयां स्वर्णमयीं वा । अथवा अनिदेवत्या । सविता सर्वप्रेरकः प्रजापतिर्हस्ते गायत्रत्रष्टुभ जागतानुष्टुभछन्दोरूपां वा एनामभ्रिम धाय हिरण्यपदेनामृतं छन्दश्चोच्यते । अमृतमयीं प्रागुक्त ज्योतिर्निचाय्य निभालय दृष्ट्वा पृथिव्या अधि भूमेः सकाशाद अवस्थाप्य बिभ्रत्तामेव धारयन् अग्नेः सम्बन्धि इति पूर्ववत् । आनुष्टुभेन छन्दसा आभरद् आहृतवान् । अङ्गिरस्वद् " अथास्यां चतुर्थेन " अथास्यां तत्र ब्राह्मणम् —'त्रिभिरादत्ते त्रिभिरादायाथैनां त्रिभिर्मन्त्रैरादत्ताया चतुर्थेनाभिमन्त्रयते अश्चतुर्थन मन्त्रेणाभिमन्त्रणं विधत्ते. चतुर्थेन वीर्यं दधाति ' ( श ० ६ ३२ ।४० ) । वीर्याधानमिति प्रशंसति चतुर्थेनेति । ' हस्त आधाय सवितेति । त्रिभिरादायनामित्यादिना । अभिमन्त्रणं नाम होना हिरण्ययीमिति हिरण्मयी ह्येषा छन्दोमय्यग्नेर्ज्योति-हस्ते ह्यस्याहिता भवति विदभ्रिमिति बिर्भात पृथिव्यं ह्येनदध्याभरत्यानुष्टुभेन छन्दसाङ्गिरस्वदिति निचाय्येत्यग्नेर्ज्योतिर्दृष्ट्वेत्येतत् पृथिव्या अध्याभरदिति

पृष्ठ 52

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 52 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६ शुक्लयजुर्वेदसंहिता [ अ ० ११ तदेनामानुष्टुभेन छन्दसादतेऽथोऽस्यामानुष्टुभं छन्दो दधाति तान्येतान्येव छन्दा ७ स्येषाम्रिरारम्भायैवेयं वैणवी क्रियते ' ( ० ६ | ३ | १ | ४१ ) | मन्त्रं व्याचष्टे - हस्ते ह्यस्याहितेति । हिरण्ययीति पदव्याख्याने हिरण्मयी ह्येषा या छन्दोमयीत्युक्तम् । तदुपपादयति तान्येवैतान्येवेति । आरम्भाय आलम्भनाय । केचित्तु मन्त्रगत हिरण्ययी. पदबलेन अभ्रिमपि हिरण्यनिर्मितामिच्छन्ति । तत्पक्षमनूद्य दूपयति -- तदु तथा न कुर्यात् । ' यद्वा एषा छन्दा सि तेनैषा हिरण्यममृत हिरण्यममृतानि छन्दा ७ सि ' ( ० ६ ३ | १४२ ) । पूर्वक्ति छन्दोमयत्वमिहोपदिशति-छन्दास्येषाभिरिति । अध्यात्मपक्षे - सविता देहेन्द्रियादिसर्व प्रेरकः साधको हस्ते क्रियाशक्ती हिरण्मयीं ज्योतिर्मयीं छन्दोमयीं वा सुमतिरूपामभ्रिमवस्थाप्य तामेव विद् अग्नेः स्वप्रकाशस्य तत्पदार्थस्य ज्योतिः स्वरूपभूतं ज्योतिर्निचाय्य निभालय दृष्ट्वा आनुष्टुभेन छन्दसा पृथिव्याः प्रकृतिलक्षणाया भूमेः सकाशादाहृतवान् । दयानन्दस्तु - ' सविता ऐश्वर्य प्रसाधक: शिल्प्यानुष्टुभेन अनुष्टुव्विहितार्थयुक्तेन छन्दसा हिरण्मयीं तेजोमयीम हस्ते आधाय बिभ्रत् सन्नङ्गिरस्वद् अङ्गिरसा प्राणेन तुल्यस्य अग्नेविद्युतो ज्योतिर्निचाय्य पृथिव्या अधि भरद् धरेत् ' इति, तदपि यत्किञ्चित् सर्वस्यैतस्य वर्तमान विद्युद्विज्ञानेन गतार्थत्वात् । न चानेन मन्त्रेणानेन विज्ञानेन कोऽपि विद्युत आविर्भावं कर्तुं प्रभवति । अत्रानुष्टुप्छन्दसा तेजोमय्या अभ्रया वा प्रयोगोऽपेक्षितः, तदन्तरापि तदुपपत्तेः ॥ ११ ॥

प्रतृ॑तं वाज॒नाम॑व॒ वरि॑ष्ठामनु॑ सं॒वत॑म् । वि॒वि ते॒ जन्म॑ पर॒मम॒न्तरि॑क्षि॒ तव॒ नाभि॑ः पथिव्यामधि योनिरित् ॥ १२ ॥

मन्त्रार्थ - हे शीघ्रगामी अश्व, तुम इस श्रेष्ठ यज्ञभूमि को लक्ष्य करके शीघ्र आओ । तुम्हारा द्युलोक में आदित्य रूप से उत्कृष्ट जन्म है, अन्तरिक्ष में तुम्हारी नाभि है, पृथ्वी के ऊपर तुम्हारा स्थान है, अर्थात् भूमि पर तुम्हारा निवास-स्थान प्रत्यक्ष दिखाई पड़ता है । इस प्रकार विष्णु के विराट् रूप से अश्व की तुलना कर यहाँ उसकी स्तुति की जाती है ॥ १२ ॥

' अश्वप्रभृतींश्च प्रत्युचं प्रतुतं युञ्जाथां योगे योग इति ' ( का ० श्र ० १६ / २ / ९ ) । ऋत्रयेण प्रत्यृचं तृणेनाश्वगर्दभाजानभिमन्त्रयतेऽग्रिहस्त उपविष्ट एव । आस्तारपङ्क्तिः । अश्वदेवत्या । नाभानेदिष्टस्थार्षम् । यस्या अन्त्यौ द्वादशकावाद्यावष्टको साऽस्तारपङ्क्तिः । संवतं संवन्यते संभज्यते मृद्ग्रहणार्थं सेव्यत इति संवत् । ' वन संभक्तौ ' विवपि रूपम् । मृत्खननयोग्या भूमिः, वरिष्ठा श्रेष्ठा, पाषाणाद्यभावेनातिप्रशस्तत्वात् । हे वाजिन्, शीघ्रगामिन्नश्व! वरिष्ठां श्रेष्ठां संवतं भूमिमभिलक्ष्य प्रतूर्तम् अतितूर्णं शीघ्रमाद्रव आगच्छ । त्वरतेरेतद्रूपं प्रकर्षेण तूतं तूर्णम् । हे वाजिन्, ते तव दिवि द्युलोके आदित्यरूपेण परममुत्कृष्टं जन्म भविष्यति । यद्वा ते जन्म दिवि रोहितादिदेवाश्वरूपेण प्रसिद्धम् । ' रोहितेन त्वाग्निर्देवतां गमयतु ' ( तै ० सं ० २२६ ४ ३ ), एते वा देवाश्वाः ' ( तै ० ब्रा ० ३।३।७४ ), ' रोहितेन त्वाग्निर्देवतां गमयत्वित्याहैते वै देवाश्वाः ' ( तै ० सं ० १।७।४।३ ) इति श्रुत्यन्तरप्रसिद्धेः । अन्तरिक्षे तव नाभिर् उदरम् । यद्वा नाभिशब्देन कृत्स्नं शरीरमुपलक्ष्यते । इदमपि पृथिव्यामधि उपरि योनिः स्थानम् इत् एव पादावेवेत्यर्थः । इति पृथिव्यां निवास: प्रत्यक्षमेव । यद्व नियुनामका वाय्वश्वास्तदीयं रथं वहन्तोऽन्तरिक्षे सञ्चरन्ति तद्रूपेणैवास्यान्तरिक्षवर्तित्वम् । प्रजापतिर्विराड्-रूपेणाश्वोऽत्र स्तूयते, ' उषा वा अश्वस्य मेध्यस्य शिरः ' ( १ १ १ १ १ ) इति बृहदारण्यकश्रुतेः ।

पृष्ठ 53

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 53 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १२-१३ ] वेदार्थ पारिजातभाष्यसहिता १७ तत्र ब्राह्मणम् — ' हस्त एषानिर्भवत्यथ पशूनभिमन्त्रयते । एतद्वा एषु देवा अन्वेषिष्यन्तः पुरस्ताद्वीर्य-मधुस्तथैवेष्वयमेतदन्वेषिष्यन् पुरस्ताद् वीर्यं दधाति ' ( श ० ६ ३ २ १ ) । पूर्वमाहवनीयस्य दक्षिणप्रदेशे त्रिवृन्मञ्जरशनाबद्धाः प्राङ्मुखा येऽश्वगर्दभाजास्तिष्ठन्ति, तेषामिदानीं यथाक्रममभिमन्त्रणं समन्त्रकं विधित्सुरभि -मन्त्रणं वीर्यात्मना प्रशंसति - हस्त एषाभ्रिर्भवतीति । तेना िहस्ते गृहीत्वैव पशूनभिमन्त्रयते । ' सोऽश्वमभि-मन्त्रयते । प्रतुतं वाजिन्नाद्रवेति यद्वै क्षिप्रं तत्तूर्तमथ यत्क्षिप्रात् क्षेपीयस्तत्प्रतुतं वरिष्टामनु संवतमितोयं वै वरिष्ठ संवदिमामनु संवतमित्येतद्दिवि ते जन्म परममन्तरिक्षे तव नाभिः पृथिव्यामधि योनिरिदिति तदेनमेता देवताः करोत्यग्नि वायुमादित्यं तदश्वे वीर्यं दधाति ' ( श ० ६ ३ २ २ ) । हे वाजिन्नश्व, वरिष्ठामतिशये -नोर्वीम् अनु संवतं सम्पूर्वाद् वनते: क्विपि ' अनुदात्तोपदेशवन तितनोत्यादीनामनुनासिकलोपो झलि ङिति ' ( पा ० सू ० ६ | ४ | ३७ ) इति नलोपे तुकि रूपम् । अस्माभिः क्रियमाणं संभजनमनुलक्ष्य भूमि प्रतुतं ' ज्वरत्वर-स्त्रिव्यविमवामुपधायाश्च ' ( पा ० सू ० ६ ४५२० ) इत्यूठि ' नसत्तनिषत्तानुत्तप्रतूर्तसूत गूर्तानि छन्दसि ' ( पा ० सू ० ८/२/६१ ) इति निष्ठातस्य नत्वाभावेन निपातनम् । अतिक्षिप्रमाद्रव आगच्छ । ते तव परमं जन्म दिवि आदिस्यरूपेण, अन्तरिक्षं तव नाभिर्वायुरूपेण, पृथिव्यां तव योनिरुत्पत्तिस्थानम्, अग्न्यात्मकत्वेन अश्वस्य लोकत्रयाभिमामिदेवतात्वेन स्तूयते । अत्र प्रतूर्तपदं व्याचष्टे - यद्वै क्षिप्रं तत्सूर्तम् अथ क्षिप्रादपि क्षेपीयः क्षिप्रतरं तत्प्रतूर्तम् । उतरार्धस्य तात्पर्यमाह - तदेनमेता देवताः करोत्यग्नि वायुमादित्यमिति । अभिमन्त्रणफलमाह-तदश्ये वीर्यं दधातोति । अध्यात्मपक्षे -- हे वाजिन, वाज्यभेदेन संवत्सरात्मक प्रजापतिभावापन्नोपासक! त्वं वरिष्ठां सर्वश्रेष्ठां संवतं संभजनीयामुपासनाभूमिकां निष्ठां प्रतूर्तमतिक्षिप्रम् आगच्छ प्राप्नुहि । तया ते तव दिवि सूर्यरूपेण परममुत्कृष्टं जन्म भविष्यति, अन्तरिक्षे तब नाभिः कृत्स्नं शरीरं पृथिव्यामधि उपरि योनिः पादौ इत् एव, तव त्रैलोक्यात्मकविराड्भावापत्तिर्भविष्यतीत्यर्थः । दयानन्दस्तु - ' हे वाजिन् प्रशस्तज्ञानयुक्त, यस्य ते तव शिल्पविद्यया दिवि सूर्यप्रकाशे परमं जन्म प्रादुर्भावः तवान्तरिक्षे नाभिः पृथिव्यामधि उपरि योनिः निमित्तं प्रयोजनमस्ति स त्वं विमानान्यधिष्ठाय वरिष्ठामतिशयेन वरां संवतं सम्यग्विभक्तां गतिं प्रतूर्तम् अतितूर्णमिदमन्वाद्रव आगच्छ ' इति, तदपि श्रुतिविरुद्ध -त्वादुपेक्ष्यमेव श्रुत्या अस्य मन्त्रस्याश्वाभिमन्त्रणे विनियुक्तत्वेन वाजिपदस्याश्वपरत्वनिश्चयात् । किञ्च वाजि-पदस्य प्रशस्तज्ञान युक्तेत्यर्थोऽसङ्गत एव । संवतमित्यस्य सम्यग्विभक्तां गतिमिति व्याख्यानमपि विसङ्गतमेव, वनतेर्गतिपरत्वायोगात् । न च शिल्पिबोधकं किञ्चिदपि पदं मन्त्रे दृश्यते । कथं च शिल्पविद्यया मनुष्यस्य दिवि परमं जन्म त्वद्रीत्या सम्भवति? कथं च तस्यान्तरिक्षे बन्धनम्? कथं वा पृथिव्याम्? किं निमित्तम्? कि वा प्रयोजनम्? अधीत्यस्याधिष्ठानार्थोऽपि चिन्त्यः ॥ १२ ॥

यु॒ञ्जाथा॒ रास॑भं यु॒वम॒स्मिन् यामे॑ वृषण्वसू । अ॒ग्नि भर॑न्तमस्म॒युम् ॥ १३ ॥

मन्त्रार्थ - हे अध्वर्यु और यजमान, तुम दोनों इस अग्निकार्य में अपने हितकारी अग्निरूप मृत्तिका को वहन करने वाले रासभ को इस कार्य में नियुक्त करो ॥ १३ ॥

गर्दभदेवत्या गायत्री कुश्रिदृष्टा । गर्दभमभिमन्त्रयते । हे वृषण्वसू, वृषा यागनिष्पादनद्वारा फलाभिवर्षण-निमित्तभूतं वसु धनं ययोस्तौ यजमानो दम्पती युवं युवामस्मिन् यामे मृद्ग्रहणरूपे नियमविशेषे निमित्तभूते सभं गर्दभं युञ्जाथां बध्नीतम् । कथंभूतं रासभम्? अग्नि भरन्तम् अग्निहेतुं मृदं वोढुं समर्थम् । अस्मयुम ३

पृष्ठ 54

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 54 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१८ शुक्लयजुर्वेदसंहिता [ अ ० ११ अस्मभ्यं कामयमानम् अस्मद्धितैषिणम् । यद्वा हे अध्वर्युयजमानौ वृषण्वसू वृषा सेक्ता रासभो वसु धनं ययोस्तौ । कथं भूतम्? अग्नि भरन्तम् अग्नि संहरन्तं अस्मयुम् अस्मान् कामयमानम् अस्मभ्यं फलं वा कामयमानम्, यद्वा याते रूपम्, अस्माभिः प्रेषितो यातीत्यस्मयुस्तम् | ' अस्मत्प्रेषितम् ' ( श ० ६ ३ २/३ ) इति श्रुतेः । तादृशम् अस्मिन् यामे यायते गम्यते प्राप्यते देवैरिति, यान्ति सङ्गच्छन्ते यत्र परस्परं देवा इति वा यामं कर्म, तस्मिन् । युवं युवां युञ्जाथां बध्नीतम् । तत्र ब्राह्मणम्- ' अथ रासभम् । युञ्जाथा १७ रासभं युवमित्यध्वयं चैतद्यजमानं चाहास्मिन् यामे वृषण्वसू इत्यस्मिन् कर्मणि वृषण्वसू इत्येतदग्नि भरन्तमस्मयुमित्यग्नि भरन्तमस्म-स्प्रेषितमित्येतद्रासभे वीर्यं दधाति ' ( श ० ६ | ३ | २ | ३ ) | रासभाभिमन्त्रणं समन्त्रकं विधत्ते - अथेति । युवति द्विवचनेन अध्वर्युयजमानावुच्येते । मन्त्रं व्याचष्टे - युञ्जाथामिति । अध्वर्युं चैतद्यजमानं चाह - यामे कर्मणी इति । अस्मयुमिति पदस्यार्थमाह- अस्मत्प्रेषित मिति! अस्मदुपपदाद् यातेः ' मृगय्वादिभ्यश्च ' ( उ ० १।३७ ) इति कुः प्रत्ययः । अध्यात्मपक्षे - वृषण्वसू वृषणं शीलं पुण्यं त्रसु ययोस्तौ वृषण्वसू, तत्सम्बोधने हे वृषण्वसू हे रामलक्ष्मणौ, युवं युवां अस्मिन् यामे त्वदाराधन नियमविशेषे रासभं रासभवद्विषयपरायणं स्वान्तं युञ्जाथां स्वस्वरूपे तम् । कीदृशम् अग्निम्? ज्ञानरूपं भरन्तं हरन्तम् अस्मयुम् अस्मत्प्रेषितम् । दयानन्दस्तु - ' हे वृषण्वसू सूर्यवायू इव शिल्पिनो शिल्पितत्स्वामिनो, युवं युवाम् अस्मिन् यामे ग्रामे रासभं लाग्न्योर्वेगगुणाख्य मश्वम् अस्मयुम् अस्मान् यापयितारं भरन्तं धरन्तम् अग्नि प्रसिद्धं विद्युतं वा युञ्जाथाम् ' इति, तदपि यत्किञ्चित् शिल्पिनोः शिल्पितत्स्वामिनोश्च द्वित्वस्याकिञ्चित्करत्वाद् निर्मूलत्वाच्च । सिद्धान्ते तु अध्वर्युं चैतद्यजमानं चेति श्रुति सिद्धम् अध्वर्युयजमानयोद्वित्वम् । तथैव रासभपदस्य जलाग्न्योर्वेगगुणाख्यमश्वमित्यपि निर्मूलम् । अन्यदपि गौणार्थंकल्पनमेव ॥ १३ ॥

योगेयोगे तवस्त॑रं वार्जेबाजे हवामहे । सखा॑य॒ इन्द्र॑मू॒तये॑ ॥ १४ ॥

मन्त्रार्थ -- परस्पर मित्रता को प्राप्त हुए हम सब ऋत्विक् और यजमान प्रत्येक कर्म में उत्साहवान् और बलवान् अज का रक्षा के निमित देवता और पितरों की तृप्ति के लिये अन्नप्राप्ति के लिये किये जा रहे इस यज्ञ कर्म में आह्वान करते हैं ॥ १४ ॥

अजदेवत्या गायत्री शुनःशेपदृष्टा । योगे योगे युज्यतेऽनुष्ठीयत इति योगः कर्म, तस्मिन् कर्मणि कर्मणि, तत्तत्कर्मणि । तवस्तरं तव इति बलनाम ( निघ ० २ ९ १५ ) | बलवत्तरम्, तवो बलमस्यास्तीति तवस्वि, अत्यन्तं तवस् तवस्तरम्, तरपि विनो लुक, उत्साहवन्तम् । अजम् अजत्वजातिविशिष्टम् । इन्द्रम् इन्द्रियवन्तं वीर्यवन्तं इन्द्रिय वा । ऊतये अवनाय रक्षणाय । वाजे वाजे मनुष्याणामन्नेऽन्ने दातव्ये स्थिते सति तत्तदन्नप्राप्ति-निमित्तं वा । सखायः समानख्यानाः परस्परं सख्यं प्राप्ता ऋत्विग्यजमाना वयं हवामहे आह्वयामः । अत्र ब्राह्मणम्- ' अथाजम् । योगे - योगे तवस्तरं वाजे - वाजे हवामह इत्यन्नं वै वाजः कर्मणि- कर्मणि तवस्तरं मन्नेऽन्ने हवामह इत्येतत्सखाय इन्द्रमूतय इतीन्द्रियवन्तमूतय इत्येतत्तदजे वीर्यं दधाति ' ( श ० ६ | ३ | २ | ४ ) । अजाभि-मन्त्रणं विधत्ते - अथाजं योगे योग इति । मन्त्रगतयोगवाजेन्द्रपदानि व्याचष्टे -- अन्नं वै वाज इत्यादि । अध्यात्मपक्षे - वयमास्तिका योगे योगे तत्तल्लौकिकवैदिककर्मसु वाजे वाजे तत्तदभीष्टान्नादिप्राप्तिनिमित्तं तवस्तरं बलवत्तमम् इन्द्रं परमात्मानं हवामहे, तस्यैवातिशयैश्वर्यं बलवत्स्वोपपत्तेः ।

पृष्ठ 55

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 55 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १४-१५ ] वेदार्थपारिजातभाष्यसहिता १ ९ दयानन्दस्तु – ' हे सखायः, यथा वयमूतये रक्षणाद्याय योगे योगे युञ्जते यस्मिन् तस्मिन् वाजे वाजे संग्रामे संग्रामे तवस्तरमत्यन्तं बलयुक्तम् इन्द्रं परमैश्वर्ययुक्तं राजानं हवामहे, तथा यूयमप्येतमाह्वयत ' इति, तदपि यत्किञ्चित् तादृशाह्वानस्य रागप्राप्तत्वादुपदेशासङ्गतेः, ' सखायः ' इत्यस्य स्वारस्यासङ्गतेः उक्तश्रुति-व्याख्यानविरोधाच्च ॥ १४ ॥

प्र॒तूर्व॒न्नेह्य॑व॒क्राम॒न्नश॑स्ती रु॒द्रस्य॒ गाण॑वत्यं मयो॒भूरेहि॑ । उ॒र्व॒न्तरि॑क्षं वीहि स्व॒स्ति ग॑व्यूति॒रभ॑यानि कृ॒ण्वन् पू॒ष्णा स॒युना॑ स॒ह ॥ १५ ॥

A मन्त्रार्थ -- हे अश्व, तुम शत्रुगण का वध करते हुए, शत्रुओं की कीगई निन्दा का निवारण करते हुए हमारे निकट आओ, हमारे सुख के कारण होते हुए रुद्र देवता के गणपतित्व को प्राप्त करो । हे रासभ, तुम भयरहित होकर चलो, हमें अभय प्रदान करते हुए ऋत्विक् यजमान आदि के रोगों को दूर करने वाले योगी के समान पृथ्वी के साथ विस्तीर्ण अन्तरिक्ष लोक को प्राप्त करो ॥। १५ ॥ ' अनुपस्पृशन्नुत्क्रमयत्येनान् प्राचः प्रतिमन्त्रं प्रतुर्वन्नुर्वन्तरिक्षं पृथिव्याः सधस्थादिति ' ( का ० श्रौ ० १६।२।१० ) । अस्पृशन्नश्वादीन् हस्तमुद्यम्य भयं दर्शयन् प्राचो गमयति । विराहरूपा त्रिष्टुब यजुर्मंध्या । उर्वन्तरिक्षं वोहीत्येतावद्यजुः । त्रय एकादशाक्षराश्चतुर्थोऽष्टाक्षरः पादो यस्याः सा विरारूपा । अत्र द्वितीयः पादो द्वादशार्णस्तेनैकाधिका । ऋचो मध्ये यजुः । अस्याः पूर्वार्धस्याश्वो देवता । हे अश्व, एहि आगच्छ । किं कुर्वन्? प्रतून् विरोधिनः शत्रून् हिंसन् । तूर्वतिर्वधकर्मा | प्रकर्षेण त्वरमाणो वा । अशस्तीः अपकीर्तीः भ्रातृव्यादिभिः क्रियमाणाः पाप्मनो वा अवक्रामन् पादेरवष्टम्भयन् निवारयन् । रुद्रस्य पशुपतेर्यद् गाणपत्यं पशुसमूहपतित्वं तस्मादागत्य मयोभूः अस्माकं सुखं भावयन् । एहि आगच्छ । यद्वा आगमने को मेहि गुण इत्याशङ्क्याह - मयोभूः मयः सुखं भावयतीति मयोभूः अस्मभ्यं सुखं भावयन् सन् रुद्रस्य गणवतो गाणपत्य आसमन्तात् प्राप्नुहि, अत्रागमनेन गणपतित्वलाभः सेत्स्यतीत्यर्थः । उर्वन्तरिक्षं यजुः सहितोत्तरार्धस्य रासभोत्क्रमणे विनियोगः । हे रासभ, अभयानि ऋत्विग्यजमानानां विनाशहेतुभ्यो व्याघ्रादिभ्यो भयपरिहाराणि कृण्वन् कुर्वन् सयुजा समानयोगिन्या पूष्णा पृथिव्या सह यद्वा सयुजा सहायभूतेन पूष्णा पोषकेण सह । उर्वन्तरिक्षं रक्षोभिरनाकुलितं वीहि विशेषेण प्राप्नुहि ' इयं वै पूषा ' ( श ० ६ ३३२८ ) प्रति श्रुतेः । सह युङ्क्ते या सा सयुक् तया सयुजा पूष्णेत्यनुषङ्गः । कीदृशस्त्वम्? स्वस्तिगव्यूतिः स्वस्ति विनाशरहितो गव्यूतिः ' ( क्रोशद्वयोप- म ० ४।६० ) लक्षितो मार्गो यस्य सः, भयवर्जितप्रभूतयवसोदकमार्गः सन् आगच्छेत्यर्थः । ' नैकः प्रपद्येताध्वानम् इति । यद्वा युति गोसञ्चर भूमि क्षेमेण कुर्वन् न्यायात् पूष्णा सहेत्युक्तिः । अत्र ब्राह्मणम् -'अथैनान् प्राच उत्क्रमयति । तदेनमेतैः पशुभिरन्विच्छति नोपस्पृशत्यग्निरेष यत्पशवो नेन्मायमग्निर्हिनसदिति ' ( श ० ६ | ३ | २१६ ) । सूत्रमूलभूतमिदं ब्राह्मणवाक्यम् । पशून् प्राङ्मुखानुद्गमयेत् । उद्गमितैः पशुभिर्मृद्रूपमग्निमन्विष्टवान् भवति । नोपस्पृशतीति ' यत् ' यतः ' पशवोऽग्निः ' यतोऽग्निस्पर्शनेन हिंसा स्यात् सा मा भूदिति । हिनसदिति हिंसे: पचमलकारे रूपम् । ' सोऽश्वमुत्क्रमयति । प्रतुर्वन्नेह्यव-क्रामन्नशस्तीरिति पाप्मा वा अशस्तिस्त्वरमाण एह्यवक्रामन् पाप्मानमित्येवद्रुद्रस्य गाणपत्यं मयोभूरेहीति रौद्रा वै पशवो याते देवता तस्यै गाणपत्यं मयोभूरेहीत्येतत्तदेनमश्वेनान्विच्छति ' ( श ० ६ ३ २२७ ) । ' अथ रासभम् । उर्वन्तरिक्षं वीहि स्वस्तिगव्यूतिरभयानि कृण्वन्निति यथैव यजुस्तथा बन्धुः । पूष्णा सयुजा सहेतीयं वै पूषानया सयुजा सहेत्येतत्तदेन रासभेनान्विच्छति ' ( श ० ६ । ३ । २ । ८ ) इति ।

पृष्ठ 56

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 56 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२० शुक्लयजुर्वेदसंहिता [ अ ० ११ अध्यात्मपक्षे - हे भगवन् इष्टदेव त्वमेहि अस्मद्धृदयमागच्छ । किं कुर्वन्? कामक्रोधादीन् रिपून तुर्वन् हिंसन् विनाशयत् । कीदृशस्त्वम्? मयोभूरस्माकं मयः सुखानि भावयन् । रुद्रस्य रोदकस्याहङ्कारस्य गाणपत्यं देहेन्द्रियप्राणादिस्वामित्वं यत् तत्त्वमेहि आसमन्तात् प्राप्नुहि । हे देव, अभयानि साधकस्य मम बाह्याभ्यन्तरशत्रुकृतभयपरिहारं कुर्वन् । सयुजा समानयोगिन्या पूष्णा पोषयित्र्या मम जनन्या स्वशक्त्या सह उरु विस्तीर्णमन्तरिक्षं हृदयाकाशमागच्छ, ' यावान् वा अयमाकाशस्तावानेषोऽन्त दय आकाश: ' ( छा ० उ ० १३ ) इति श्रुतेः । कीदृशस्त्वम्? स्वस्तिगव्यूतिः स्वस्ति विनाशरहितो गव्यूतिः गव्यूत्युपलक्षितो मार्गो यस्य स निर्विघ्नक्षेममार्ग आगच्छेत्यर्थः । दयानन्दस्तु - ' हे राजन्, स्वस्तिगव्यूतिस्त्वं स्वस्ति सुखेन सह गव्यूतिर्मार्गो यस्य सः । सयुजा पूष्णा यत्समानं युनक्ति तेन सहितः पूष्णा पुष्टेन स्वकीयेन सैन्येन सह अशस्ती: अप्रशस्ताः शत्रुसेनाः प्रतर्वन्नेहि शत्रु देशानवक्रामन्नेहि । मयोभूः मयः सुखं भावयन् त्वं रुद्रस्य शत्रुरोदकस्य स्वसेनापतेर्गाणपत्यं गणानां सेनासमूहानां पतित्वमेहि । अभयानि स्वराज्ये सेनायां चाविद्यमानं भयं येषु तानि कृण्वन् सम्पादयन् उर्वन्तरिक्षं उरु आकाशं वीहि विविधतया गच्छ ' इति, तत्सर्वमसङ्गतमेव, निर्मूलत्वात्, राजन्निति सम्बोधने बीजानु-पलम्भात् । श्रुतौ तु सोऽश्वमुत्क्रमयतीति स्पष्टमश्वस्य प्रसङ्गः । तथैव सयुजा पूष्णेत्यत्र पुष्टेन स्वकीयेन सैन्येनेत्यपि चिन्त्यम् । रुद्रस्य स्वसेनापतेरित्यपि निर्मूलमेव, तदतिरिक्तस्यापि तद्वाच्यत्वसम्भवेन सेनापत्यर्थे विनिगमनाविरहात् ॥ १५ ॥

पृथि॒व्याः स॒धस्थ॑द॒ग्नि पु॑रोष्य॒मङ्गर॒स्वदाभ॑रा॒ग्निं पु॑रोष्य॒मङ्गर॒स्वदच्छेमा॒ग्निं पु॑रोष्य॒-मङ्गिर॒स्वद् भ॑रिष्यामः ॥ १६ ॥

मन्त्रार्थ हे अनि! तुम भूमि के स्थान से पशु सम्बन्धी अग्नि का अंगिरा ऋषि के समान आहरण करो । हम पशुसम्बन्धी अग्नि को अंगिरा के समान प्राप्त करने के लिये अभिमुख होते हैं । हम पशु सम्बन्धी अग्नि को अंगिरा के समान संपादित सुसंस्कृत करेंगे ॥ १६ ॥

अजोत्क्रमणे विनियोगः । यजुः । आसुरी गायत्री । आग्नेयो । हे अभ्रे! त्वं पृथिव्या भूमेः सधस्थात् नितुं योग्यात्, कृत्स्नापि मृत्तिका मिलित्वा सह तिष्ठति वर्तते यत्रासो सधस्थः प्रदेशविशेषः, तस्मात् प्रदेशात् पुरीष्यं पांसुरूपं शुष्कमृत्तिकायोग्यं यद्वा पुरीष्यं पशव्यं पशुषु हितं ' पशवो वै पुरीषम् ' इति श्रुतेः । तादृशीमग्न्यवस्थान हेतुभूतां मृदमाभर आहर । तत्र दृष्टान्तः -- अङ्गिरस्वत्, यथा पूर्वमङ्गिरस ऋषयोऽग्निमाहृतवन्तस्तद्वत् । त्रिषु अग्निषु दीप्यमानेषु उखार्थं ब्रह्म - यजमाना ध्वर्यवश्चतुष्कोणश्वभ्रस्थं मृत्तिकापिण्डं प्रति गच्छन्ति अश्वगर्दभाजा अपीति । पुरीष्यमग्न वयं ब्रह्मयजमानाध्वर्यवः, अङ्गिरस्वद् अङ्गिरस इव अच्छ अभिमुखम् इमः गच्छामः । ' अच्छाभेराप्तुमिति शाकपूणिः ' ( नि ० ५।२८ ) इति यास्कोक्तेः । ' अनद्धा पुरुषमोक्षते देवपितृमनुष्यापार्थंकर्माग्नि पुरीष्यमिति ' ( का ० श्र ० १६ । २ । १३ ) | देवपितृमनुष्याणां निष्प्रयोजनोऽनद्धापुरुषस्तं यं कचित् पुरुषं पश्येत् । आग्नेयं यजुः । आसुर्यनुष्टुप् । पशव्यं पशुषु हितं पुरीष्यं अङ्गिरस इव वयं ब्रह्मयजमानाध्वर्यवः भरिष्यामः सम्पादयिष्यामः । अत्र ब्राह्मणम् -'अथाजं पृथिव्याः सधस्थादग्नि पुरीष्यमङ्गिरस्वदाभरेति पृथिव्या उपस्थादग्नि पशव्य-मग्निवदाभरेत्येतत्तदेनमजेनान्विच्छति ' ( श ० ६ | ३ २ ९ ) । अजोत्क्रमणं विधत्ते - अथाजमिति । अन्यत् पूर्ववत् । सर्वमेतत्सोपपत्तिकं ब्राह्मणे निरूपितम् । तथाहि - ' प्रदीप्ता एतेऽग्नयो भवन्ति । अथ मृदमच्छयन्तीमे वै लोका

पृष्ठ 57

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 57 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १६-१७ ] वेदार्थं पारिजात भाष्यसहिता २१ देवाः कर्मान्वैच्छंस्तद्यदेतानग्नीनतीत्य sa यदा प्रदीप्ता अर्थत इमे लोका: पुरो वा एतदेभ्यो १ लोकेभ्योऽग्रे ) | ' अग्निषु ज्वलत्सु पिण्डं गच्छन्त्यग्निं पुरीष्य-मृदमाहरति तदेनं पुरभ्यो लोकेभ्योऽन्विच्छति ' ( श ० ६ | ३ | ३ | ज्वलत्सु अग्नि पुरीष्यमिति मन्त्रेण ब्रह्मयजमाना -मिति ' ( का ० श्र ० १६ । २ । ११ ) । गार्हपत्यादिषु त्रिष्वग्निषु प्रदीप्ता भवन्ति । अथ मृदमच्छयन्ति ध्वर्यवो गच्छेयुरिति विधत्ते - प्रदीप्ता इति । एते गार्हपत्यादयोऽग्नयः ( पा ० सू ० १ । ४ । ६ ९ ) इत्यच्छशब्दस्य गतिसंज्ञा । मृत्पिण्डमभिलक्ष्य गच्छन्ति ब्रह्मादयः । ' अच्छ गत्यर्थवदेषु ' इति । अग्रे पूर्वं देवा एभ्यो लोकेभ्यः पुरः अग्निषु प्रदीप्तेष्वभिगच्छन्तीत्यग्निसान्निध्यं प्रशंसति - इमे वा । लोका तत् तस्माद् एतान् लोकत्रयात्मकान् अग्नीन् पूर्वस्मिन् प्रदेशे लोकानां पुरः प्रदेशे कर्म चयनमन्विष्टवन्तः मृदानयनं लोकानां पुरोदेशे मृद्रूपमग्नि कृतवन्तो अतीत्य आदीप्य प्रज्वाल्य मृदमाहरेयुः । अग्निषु ज्वलस्सु स्वायां दिशि विन्दति ' ( श ० ६ | ३ | भवन्ति । ' प्राचो यन्ति । प्राची हि दिगग्नेः स्वायामेवैनमेतद्दिश्यन्विच्छति यन्तीति । आहवनीयस्याग्नेः प्राची दिक् स्वा ३।२ ) । गच्छतामध्वर्यु प्रभृतीनां प्राङ्मुखत्वं विधत्ते --- प्राचो पशव्यमग्निवदच्छेम इत्येतत् ' ( श ० ६ ३।३।३ ) । भवति । ' ते प्रयन्ति । अग्नि पुरीष्यमङ्गिरस्वदच्छेम इत्यग्नि । अग्नि पुरीष्यमङ्गिरस्वद् भरिष्याम अभिगमनमनूद्य मन्त्रं विधत्ते - ते प्रयन्त्यग्निमिति । ' अथानद्धापुरुषमीक्षते ' ( श ० ६ | ३ | ३ | ४ ) | यथा पशुभिः इत्यग्नि पशव्यमग्निवद् भरिष्याम इत्येतत्तदेनमनद्धापुरुषेणान्विच्छति । पूर्वं श्रुतौ ( श ० ६ । ३ । १ । २४ ) पुरुषपशोः पुरीष्यस्याग्नेरन्वेषणं कृतं तथैवानद्धापुरुषेणापि तदन्वेषणमकारि । अनद्धापुरुषनिरीक्षणं प्रतिनिधित्वेन अनद्धापुरुष उक्तः, तस्येदानीं विनियोगमाह - अथानद्धापुरुषमिति तेनाग्नेरन्वेषणमित्येतत् । ब्रह्मज्ञानाग्नि अध्यात्मपक्षे - हे देव, पृथिव्याः प्रकृतेः सधस्थादुत्सङ्गात् पुरीष्यं मदर्थमाहर सर्वजीवपशुषु आनय हितमग्नि , परमेश्वरकृपयैव ब्रह्मरूपमेवाग्निमङ्गिरस्वद् यथा अङ्गिरस ऋषयोऽग्निमाहृतवन्तस्तथा इव पुरीष्यमग्निमच्छेम आभिमुख्येन इमो तत्प्राप्तिसम्भवात् । त्वत्कृपया वयं सर्वे साधका । जिज्ञासवोऽङ्गिरस गच्छामः । तद्वदेव वयं तं भरिष्यामो धरिष्यामः अङ्गिरसा सूर्येण तुल्यं दयानन्दस्तु - ' हे विद्वन्, यथा वयं पृथिव्याः सधस्थात् सहस्थानाद् विद्युतं अङ्गिरस्वद् वा अच्छेम अच्छ उत्तमरीत्या इमः पुरोष्यं यः सुखं पृणाति स पुरीषस्तत्र साधुं सुखजनकमन्तरिक्षस्थं वाय्वादिस्थं भरिष्यामो धरिष्यामः तथा त्वमप्य-गच्छामः । यथा चाङ्गिरस्वत् प्राणैस्तुल्यं पुरीष्यमग्निमन्तरिक्षे तत्रासम्बोधनीयत्वात्, उखासम्भरणस्य ङ्गिरस्वत्युरीष्यमग्निमाभर ' इति, तदपि यत्किञ्चित् श्रुतिविरुद्धत्वात् प्रकृतत्वाद् अत्र विद्युनिर्माणाप्रसक्ते ॥ १६ ॥

अन्वग्निरु॒षसामग्र॑मख्य॒दन्वनि प्रथमो जातवेदाः । अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीनन द्यावा॑पृथि॒वी आत॑तन् ॥ १७ ॥

वाला वह अग्नि मुख्य मन्त्रार्थ - जो अग्नि उषा काल से पहले अग्नि रूप से प्रकाशित रहा, सबको जानने को प्रकाशित करता हुआ, स्वर्ग और पृथ्वी रूप से दिन को प्रकाशित करता हुआ, सूर्य की किरणों को बहुत प्रकार लोकस्रष्टा से अग्नि को हम देखते हैं ॥ १७ ॥

क्रम से सब प्रकार प्रकाशित करता हुआ स्थित है । उस सर्वप्रकाशक ) | वल्मीकस्योन्नतत्वेनाभि-' वल्मीकवपामादाय छिद्रेण पिण्डमोक्षतेऽन्वग्निरिति ' ( का ० श्र ० सच्छिद्रां १६।२।१४ वपां गृहीत्वा तत्स्थाने स्थित्वा वृद्धोऽवयवो वपा । सा पिण्डाहवनीयान्तराले स्थापितास्ति । तां

पृष्ठ 58

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 58 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२ शुक्लयजुर्वेदसंहिता [ अ ० ११ तस्याद्रेिण पिण्डं पश्यति । अग्निदेवत्या त्रिष्टुप् पुरोधोदृष्टा । प्रजापतिरूपेणात्राग्निः स्तूयते । उषसामुषः-कालानामग्रमुपक्रममन्वख्यद् अनुक्रमेण प्रकाशितवान् । जातवेदाः जातं जातं यो वेद वेदयति वा सोऽयमग्नि-जतिवेदाः प्रथमो मुख्यः सन् अहानि दिवसानि अन्वख्यत् प्रकाशितवान् । सूर्यस्य रश्मीन् किरणान् पुरुत्रा बहुधा अन्वख्यत् । किञ्च द्यावापृथिवी उभे अपि क्रमेण आततन्थ आतेनिथ, आततान सर्वतो व्याप्तवान् । पुरुषव्यत्ययः । ' बभूथाततन्यजगृम्भववर्थेति निगमे ' ( पा ० सू ० ७ २०६४ ) इति निपातः । सर्वप्रकाशको लोकस्रष्टा योऽग्निस्तमग्नि पश्याम इति शेषः । यद्वा उषसामग्रमादित्यमनुलक्ष्याग्निः, अन्वख्यद् अनुदीप्यते । कथंभूतः सः? प्रथम आद्यः, जातवेदा जातप्रज्ञः, ' जातानि भूतानि वेतीति वा, जाते जाते विद्यते जायत इति वा जातवेदा: ' ( नि ० ७३५ ) इति यास्कोक्तेः । अहानि अनुलक्ष्य दीप्यते पुरुत्रा बहुषु देशेषु सूर्यस्य रश्मीन लक्ष्य दीप्यते । एवं पारोक्ष्येणोक्त्वा चतुर्थपादेनाग्नि सम्बोध्याह -- स त्वमग्ने द्यावापृथिवी अनुलक्ष्य आततन्य स्वतेजसा आतेनिथ व्याप्तवान् । अत्र ब्राह्मणम् – ' अथ वल्मीकवपा सुषिरा व्यध्वे निहिता भवति । तामन्वीक्षत इयं वै वल्मीकवपेयमु वा इमे लोका एतद्वा एनं देवा एषु लोकेषु विग्राहमैच्छंस्तथैवैनमयमेतदेषु लोकेषु विग्राहमिच्छति ' ( श ० ६ । ३।३।५ ) । अत्र सूत्रम् - पिण्डमपरेण व्यध्वे वल्मीकवपां छिद्रां निदधाति ' ( का ० श्र ० १६ । २/३ ) । अर्थाद् अश्वादिपशूनां त्रिवृन्मुञ्जाभिधानीबन्धनात् पूर्वं मृत्पिण्डस्य पश्चिमदेशे व्यध्वे पिण्डाहवनीययोरर्धपथे सच्छिद्रवल्मीकवपा निधेयेत्युक्तम् । इदानीं वपामादाय छिद्रेण पिण्डमीक्षतेऽन्वग्निरिति । तदिदं विधिद्वयं दर्शयति - अथ वल्मीकवपेति । पूर्वमेव व्यध्वे सुषिरायाः सच्छिद्राया वल्मीकवपायाः स्थापनं सूचयितुं निहितेति भूतकालवाचि निष्ठान्तं पदम् । ' इयं वै वल्मीकवपा ' इत्यादिब्राह्मणस्यायमर्थः - वल्मीकवपा नाम ' इयं ' भूमिः, तत्कार्यत्वात् । भूमिहि सर्वे लोकाः, तत्प्रमुखत्वात्, इतरेषां कर्मभूमित्वेन विशिष्टत्वाच्च । पूर्वं देवा एनमग्निमेषु सर्वलोकेषु विग्राहमैच्छन् विगृह्यात्रास्तीति सर्वत्रान्विवन्तः । इदानीं तच्छिद्रेण पिण्डनिरीक्षणं सर्वलोकेषु मृद्रूपस्याग्नेविगृह्यान्वेषणमिति । ' अन्वग्निरुषसामग्रमख्यदिति । तदेनमुषःस्वैच्छन्नन्वहानि प्रथमो जातवेदा इति तदेनमहः स्वैच्छन्ननु सूर्यस्य पुरुत्रा च रश्मीनिति तदेन, सूर्यस्य रश्मिष्वैच्छन्ननु द्यावापृथिवी आततन्थेति तदेनं द्यावापृथिव्योरच्छंस्तम बिन्द-स्तथैवैनमयमेतद्विन्दति तं यदा परापश्यत्यथ तामवास्यत्यागच्छन्ति मृदम् ' ( श ० ६ | ३ | ३ | ६ ) | मन्त्रस्तु व्याख्यातः । मन्त्रस्य तात्पर्यमाह तदैनमुषः स्विति । यदा परापश्यतीति यदा पिण्डं छिद्रेण पश्येत् तदा मृदमवस्यति निश्चिनोति । अथ तां मृदमनुलक्ष्य गच्छेदिति । अध्यात्मपक्षे – अग्निः परमेश्वर उषसामग्रमुपक्रममादित्यं वा अन्वख्यद् अनुक्रमेण प्रकाशयति । कीदृशोऽग्निः? जातवेदाः, जातं जातं वेत्ति वेदयति वा, सर्वज्ञः सर्ववेदयिता वा तदनुग्रहेणैव शरीरिणामपि ज्ञानोत्पत्तेः । अयमग्निः प्रथमो मुख्यः, सर्वकारणत्वात् सर्वेश्वरत्वाच्च । अहानि दिनानि चान्वख्यत् प्रकाशयति । किन, सूर्यरश्मीन् किरणांश्च पुरुत्रा बहुधा अन्वख्यत् । स एव द्यावापृथिवी उभे अप्यनुक्रमेण आसमन्ताद् आततन्थ व्याप्तवान् । पूर्ववत् पुरुषव्यत्ययः । दयानन्दस्तु – ' हे विद्वन्, त्वं यथा प्रथमो जातवेदा यो जातेषु विद्यते स सूर्यः अग्निः पावकः, उषसामग्रं पूर्वमहानि दिनानि, अख्यत् प्रख्यापयति । सूर्यस्य पुरुत्रा बहून् रश्मीन् आततन्थ तनोति द्यावापृथिवी चान्वख्यत्, तथा विद्याव्यवहारानन्वातनु ' इति, तदपि न किञ्चित् सर्वत्र लुप्तोपमालङ्कारेणैव निर्वाहे उपमा-वाचकेवादिप्रयोगवैयर्थ्यापत्त्या प्रकृते तद्बोधकपदाभावेन तथात्वमित्यनुपपत्तेः कथमग्निर् उषःकालान् प्रथममहानि प्रख्यापयतीत्यस्याप्युपपादनीयत्वात् । विद्याव्यवहाराद्यध्याहारोऽपि निर्मलः ॥ १७ ॥

पृष्ठ 59

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 59 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मन्त्रः १८-१९ ] वेदार्थपारिजातभाष्यसहिता आ॒ग॒त्य॑ वा॒ज्यध्वा॑न॒ सर्वा॑ मृधो विधूंनुते । P अग्नि सधस्थे महति चक्षुषा निचिकीषते ॥ १८ ॥

२३ मन्त्रार्थ- -- यह वेगवान् अश्व मार्ग में आकर सब संग्रामों को कम्पित करता है, उत्कृष्ट पृथ्वी के स्थान में वर्तमान होकर स्थिर चक्षु से अग्नि को देखता है ॥ १८ ॥

' आगत्येत्यभिमन्त्रयतेऽश्वम् ' ( का ० श्री ० १६ । २ । १६ ) | आगत्येति मन्त्रेण मृत्पिण्डान्ते तिष्ठन्नश्वमभि-मन्त्रयते । अश्वदेवत्यानुष्टुप् । वाजी वेजनवान् बलवान् वेगवान् वायमश्वः, अध्वानं मार्गमागत्य प्राप्य सर्वाः सर्वान् मृधः पाप्मनो मार्गश्रमादीन् बाधकान् विधुनुते विकम्पयति विनाशयति, ' पाप्मा वै मृधः ' ( श ० ६ ३ ३ ८ ) ० ' अश्वः स्यत्वा विधूनुते ' ( श ० ६ | ३ | ३ | ८ ) इति श्रुतेः । ततो विगतश्रमः सन् यत्र पांसवः सहावतिष्ठन्ते तत्स्थानं सधस्थम्, तस्मिन् पृथिव्या महति विस्तीर्णे सधस्थे वर्तमानमग्निमयमश्वश्र्वक्षुषा दृष्ट्वा अग्निहेतुं मृदं निचिकीषते नितरां चेतुं सम्पादयितुमिच्छति । यद्वा छान्दसोऽयं धातुः पश्यत्यर्थः । मृदं तद्रूपमग्नि चक्षुषा निचिकीषते पश्यति । तत्र ब्राह्मणम् - अथाश्वमभिमन्त्रयते । एतद्वै देवा अब्रुवन् पाप्मानमस्थापनामेति श्रमो वै पाप्मा श्रममस्य पाप्मानमपहनामेति तस्य श्रमं पाप्मानमपाघ्नंस्तथैवास्यायमेतच्छ्रमं पाप्मानमपहन्ति ' ( श ० ६।३।३।७ ) | अश्वाभिमन्त्रणं विधत्ते - अथाश्वमिति । पूर्वं देवाः पथि श्रान्तस्याश्वस्य श्रमलक्षणं पाप्मानमपहतवन्तः । एवमभिमन्त्रणेन पथि श्रान्तस्याश्वस्य श्रमापनयनं भवति । ' आगत्य वाज्यध्वानमिति । आगतो ह्यस्याध्वा भवति सर्वा मृधो विधूत इति पाप्मा वै मृधः सर्वान् पाप्मनो विधूनुत इत्येतत्तस्मादु हैतदश्वः स्यत्त्वा विधूनुते-नि सधस्थे महति चक्षुषा निचिकीषत इतीदं वै महत्सधस्थमग्निमस्मिन् महति सधस्थे चक्षुषा दिक्षत इत्येतत् ' ( श ० ६।३।३।८ ) । द्वितीयं पादं व्याचष्टे -- पाप्मा वै मृध इति । कथमश्वविधूननमित्युपपादयति तस्मादु हैतदिति । स्यत्त्वा इति स्यन्दतेः क्त्वाप्रत्यये इडभावे नलोपे च कृते रूपम् । अध्वानं गत्वा स्वशरीरं विधूनुते कम्पयति । तथा च वाजी बलवानश्वोऽध्वानमागत्य सर्वा मृधः सर्वान् पाप्मनः श्रमादीन् विधूनुते प्रकम्पयति, गात्रविधूननेन नाशयतीत्यर्थः । ततो विगतश्रमः सन् पृथिव्या महति विस्तीर्णे सधस्थे उत्सङ्गे वर्तमानमग्नि चक्षुषा निचिकीषते क्षिते । अध्यात्मपक्षे - वाजी वाजमन्नमस्यास्तीति भोक्ता जीवः, अध्वानं संसारमागत्य सर्वा मृधः सर्वान् पाप्मनः स्वधर्मानुष्ठानपूर्वकेण भगवदाराधनेन विधूनुते प्रकम्पयति । महति सधस्थे सह स्थाने अग्नि परमेश्वरं चक्षुषा प्रसिद्धेन बाह्येनान्तरेण ज्ञानमयेन च निचिकीषते दिदृक्षते । दयानन्दस्तु --- हे विद्वन् राजन् भवान् यथा वाज्यश्वोऽध्वानमागत्य सर्वा मृधः संग्रामान् विधनु कम्पयति, यथा गृहस्थश्चक्षुषा महति सधस्थे सहस्थानेऽग्नि निचिकीषते चेतुमिच्छति, तथा सर्वान् संग्रामान् विधुनोतु गृहे गृहे विद्यानिचयं करोतु ' इति, तदपि चिन्त्यम्, मूले राजन् गृहस्थ इति शब्दयोरभावेन तादृश-व्याख्यानस्यावैदिकत्वात् । गृहे गृहे विद्यानिचयोऽपि निर्मूल एव ॥ १८ ॥

आ॒क्रस्य॑ वाजिन् पृथि॒वी म॒ग्निमि॑च्छ रु॒चा त्वम् ।

भूम्य॑ व॒त्वाय॑ नो ब्रूहि यतः खने॑न॒ तं व॒यम् ॥ १ ९ ॥

पृष्ठ 60

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 60 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४ शुक्लयजुर्वेदसंहिता कर, भूमि के प्रदेश मन्त्रार्थ हे अश्व! तुम भूमि पर आक्रमण करके, दीप्ति आदि के द्वारा अग्नि को पहचान बताये हुए देश से मृतिका का को छूकर हमसे यह कहो कि यह देश अग्नि के हेतु मृत्तिका ग्रहण के योग्य है, तुम्हारे खनन कर हम अग्नि को प्राप्त कर सकते हैं ॥ १ ९ ॥ ' आक्रम्येत्यनेन पिण्डमधिष्ठापयति ' ( का ० श्र ० १६/२/१७ ) । आक्रम्येत्यनेन मन्त्रेण पिण्डस्योपरि अश्वस्य सव्यं पादं निदध्यात् । अश्वदेवत्यानुष्टुप् । हे वाजिन् अश्व, पृथिवीमाक्रम्य अधिष्ठाय पादस्पर्शेन । भूम्या परीक्ष्य रुचा दीप्त्या बुद्धिवृत्त्या कृत्वा त्वमिच्छ अग्नेरन्वेषणं कुरु । अग्निहेतुं मृदं प्रदेशोऽग्निहेतुमृद्योग्य निश्चिन्वित्यर्थः इति वृत्वाय भूमेः प्रदेशं स्पृष्ट्वा । क्त्वो यकि धातोः स्पर्शनार्थे वृत्तिः । नोऽस्माकमयं मृदं खनेम, यद्वा यतः ब्रूहि । यद्वा वृस्वा वरणं कृत्वा दृष्ट्वेत्यर्थः । यतो यस्मात् प्रदेशाद् वयं तमग्नि रुचा चक्षुषा, प्रदेशात्तादृशी मृल्लभ्येत, तं प्रदेशं वयं खनेम खननमवदारणं करवाम । यद्वा कुरु पृथिवीमाक्रम्य । ' भूम्याः ' इति कर्मणि ' चक्षुर्वे रुक् ' ( श ० ६ | ३ | ३ | ११ ) इति श्रुतेः । अग्निमिच्छ कुत्र तिष्ठतीत्यन्वेषणं खनेम । षष्ठी । भूमि वृत्वाय स्पृष्ट्वा भूप्रदेशं स्पर्शयित्वा नो ब्रूहि यतः प्रदेशान्मृद्रूपमग्नि ' अत्र ब्राह्मणम् -- ' अथैनमाक्रमयति । एतद्वा एष एतं देवेभ्योऽनुविद्य विधत्ते प्राब्रवीद्यथाय - अथैनमाक्रमयतीति मिहेत्येवम् । पिण्डमश्वेनाधिष्ठापयतीत्यर्थः । तद् ( श ० ६ । ३ । ३ । ९ ) । आक्रम्येति मन्त्रेण देशे तिष्ठतीति मृत्पिण्डमश्वेनाक्रामयेदित्यर्थः । पूर्वं यथाश्व एतमग्निस्थानमनुविद्य लब्ध्वा देवेभ्योऽयमग्निरिह । ' यद्वेवाक्रमयति । एतद्वै देवा पादाक्रमणेन प्राब्रवीत् एवमश्वेन पिण्डाधिष्ठापनं नाम तस्मादग्नेर्वेदनमित्यर्थः अभियुर्यद्वै न इममिह रक्षा सि नाष्ट्रा न हन्युरिति तस्मा एतं वज्रमुपरिष्टादभिगोप्तारमकुर्वन्नमुमेवादित्यमसौ आक्रमणं वा आदित्य एषोऽश्वस्तथैवास्मा अयमेतं वज्रमुपरिष्टादभिगोप्तारं करोति ' ( श ० ६ | ३ | ३ | १० ) । प्रकारान्तरेण स्तोतुमनुवदति - यद्वेवेति । देवा रक्षोभ्यो भीतवन्तः, एतं वज्रं वज्ररूपमश्वमादित्यमुपरिष्टाद् २२६ | ३ | ९ ) इति उपरिभागे अभिगोप्तारं रक्षकमकुर्वन् आदित्यस्याश्वरूपता ' तस्याश्वः श्वेतो दक्षिणा ' ( श ० च श्रुतौ श्रुता । कण्डिकायाम्, तथा ' अर्थभ्यः सूर्य दक्षिणामानयन् ' ( श ० ३ | ५ | १ | १ ९ ) इति कण्डिकायां कृतवान् भवति । तथैवास्मै पिण्डरूपायाग्नयेऽयमनुष्ठाताऽश्वाक्रमणेनैतं वज्ररूपमश्वमादित्य उपरिष्टादभिगोप्तारं ' आक्रम्य वाजिन् । पृथिवीमग्निमिच्छ रुचा त्वमिति चक्षुर्वै रुमाक्रम्य त्वं वाजिन् पृथिवीमग्निमिच्छ एनं खनेमेत्येतत् चक्षुषेत्येतद् ' भूम्या वृत्वाय नो ब्रूहि यतः खनेम तं वयमिति भूमेस्तत्स्पाशयित्वाय नो ब्रूहि चक्षुर्वे यत रुगिति, भूमस्तत् ( श ० ६।३।३।११ ) । मन्त्रगतं ' रुचा ' इति पदं ' वृत्वाय ' इति पदं च व्याचष्टे -स्पाशयित्वायेति ' स्पर्श ' बाधनस्पर्शनयोः ' इति भौवादिकस्य रूपम् । क्त्वो यक् । अध्यात्मपक्षे - हे वाजिन् साधक, पृथिवीमाक्रम्यासनेनाधिष्ठाय अग्नि परमेश्वरमिच्छ । रुचा वेदान्त-विचारेण तदन्वेषणं कुरु । भूम्या भूमिमुत्कृष्टां ज्ञानभूमिकां वृत्वा स्वीकृत्य नोऽस्मान् तं वेदपुराणादि पावनं पर्वतं ब्रूहि यतो वयं खनेम भक्तिज्ञानमयं मणि खनेम खनित्वा लभेमहि । दयानन्दस्तु — ' हे वाजिन् विद्वन् सभेश, त्वं रुचा प्रीत्या शत्रूनाक्रम्य पृथिवीं भूमिराज्यम् अग्निमग्निविद्यां चेच्छ । भूम्याः क्षितेमंध्ये नोऽस्मान् वृत्वाय स्वीकृत्य ब्रूहि भूगर्भविद्यामुपदिश, यतो वयं तं भूगोलं खनेम ' इति, तदपि यत्किञ्चित्, वाजिन्नित्यस्य विद्वदाद्यर्थाभावात्, आक्रम्येति क्रियाया उपस्थितं पृथिवीमिति कर्मपदमपहाय शत्रूनित्यध्याहारस्याप्रामाणिकत्वात्, भूगर्भाग्निविद्योपदेशस्यापि तथाविधत्वात् ॥ १ ९ ॥