वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 421–430

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 421–430

पृष्ठ 421

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 421 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २३ ] वेदार्थ पारिजातभाष्यसहिता ३८५ ' योनिश्चतुविश इति । य एव चतुर्वि शस्तोमस्तं तदुपदधात्ययो संवत्सरो वाव योनिश्चतुर्वि शस्तस्य चतुर्वि १७ शतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि सर्वेषां भूतानां योनिस्तदेव तद्रमुपधाति ' ( श ० ८ | ४ | १ | १८ ) । ' गर्भाः पञ्चविश इति । य एव पञ्चवि शस्तोमस्तं तदुपदधात्ययो संवत्सरो वाव गर्भाः पञ्चविशस्तस्य चतुर्वि शतिरर्धमासाः संवत्सर एवं गर्भाः पञ्चवि ७ शस्तद्यत्तमाह गर्भा इति संवत्सरो ह त्रयोदशी मासो गर्भोऽभूत्वत्न् प्रविशति तदेव तद्रपम्पदधाति । श ० ८ | ४ | १ | १ ९ ) । ' ओजस्त्रिणव इति । य एव त्रिवस्तोमस्तं तदुपदधाति तद्यत्तमाहौज इति वज्रो वा ओजो वज्रस्त्रिणवोऽयो संवत्सरो वा ओजस्त्रिणवस्तस्य चतुर्विशतिरर्धमासा द्वे अहोरात्रे संवत्सर एवोज स्त्रिणवस्तद्यत्तमाहौज इति संवत्सरो हि सर्वेषां भूतानामोज -स्वतमस्तदेव तद्रूपमुपदधाति ' ( श ० ८ | ४ | १ | २० ) । ' क्रतुरेकत्रिश इति । य एवैकत्रि ११ शस्तोमस्तं तदुप -दधात्यथो संवत्सरो वाव क्रतुरेकत्रि १७ शस्तस्य चतुर्वि १७ शतिरर्धमासाः षड़तवः संवत्सर एव क्रतरेकत्रि १० श स्तद्यत्तमाह क्रतुरिति संवत्सरो हि सर्वाणि भूतानि करोति तदेव तद्रूपमुपदधाति ' ( श ० ८ | ४ | १ | २१ ) । अत्र ब्राह्मणे तपोऽभीवर्त वर्चः सम्भरणयोमिगभौजः क्रतु प्रतिष्ठाब्रध्नस्य विष्टपनाकविवर्तद्यत्रैस्त्रयोदशभि-विशेषणविशेष्या नवदश- सविश - द्वाविंश - त्रयोविंशचत विश - पञ्चविंश - त्रिणवैकत्रिंश - त्रयस्त्रिश चतुस्त्रिश षट्त्रिंशाष्टा-चत्वारिंश चतुष्टोमाख्यास्त्रयोदशस्तोमा एव । तत्र पूर्वपूर्वस्तोमेभ्यश्चतुःस्तोत्रियाधिकस्तोमश्चतुष्टोमः । तस्य क्लप्तिप्रकारो वाय्वायने सामसूत्रे प्रदर्शितः । शिष्टास्तत्तत्संख्याकाभिः स्तोत्रियाभिनिष्पाद्यास्तत्रैव द्रष्टव्याः । एतैः सर्वैः सविशेषणैः स्तोमः प्रजापतिरेवाभिधीयते । तस्य तावत्संख्यापूरकत्वं मासार्धमास पञ्चषट्सप्तलोक-त्र्याहोरात्राद्यपेक्षया तत्र तत्रोक्तप्रकारेण द्रष्टव्यम् । तपआदिविशेषणानां संवत्सराभिधायकत्वं योजयित्वा प्रदर्श्यते । तथाहि - तपतीति तपः संवत्सरः । कथम्? संवत्सरो हि सर्वाणि भूतानि तेषामर्थाय तपति सकल-भौतिकपदार्थपरिपाकस्य संवत्सरकालाधीनत्वात् तत्तद्भूततपनस्य भूतार्थता । संवत्सरः सर्वाणि भूतान्यभिवर्तते, तदर्थं पुनः पुनरावर्तत इत्यभीवर्तः । अभिवर्तनस्य भूतार्थत्वं पूर्ववद् द्रष्टव्यम् । संवत्सरः सर्वेषां भूतानां मध्ये वर्चस्वतमः, अतिशयेन तद्वानित्यर्थः । तत्तद्वतोरभेदाद् वर्चः संवत्सरः । यस्मात् सर्वाणि भूतानि सम्भ्रियन्ते स्वाङ्गः सम्पूर्णैः, अतः सम्भरतीति सम्भरणः संवत्सरः । कालः सृजति सुतानि कालः संहरते प्रजा: ' ( म ० भा ० १ | १ | २४८ ) इति स्मरणात् सर्वभूतोत्पत्त्याश्रयत्वाद् योनिरुच्यते । संवत्सरः कदाचित् त्रयोदगेनाधिकमासेन गर्भः । अतः ' संवत्सरो ह त्रयोदशो मासो गर्भो भूत्वर्तन प्रविशति ' ( श ० ८ | ४ | १ | १ ९ ) इत्युक्तम् । यथा गर्भो जननीजठरे प्रविष्ट एवमृत्वन्तः प्रवेशाद् गर्भत्वम् । अयमेव मासोऽधिको भवतीति नियमाभावात् कदाचित् कस्मिश्चितावनुप्रवेशात् ऋतून प्रविशतीति बहुवचननिर्देशः । संवत्सरस्य ओजोरूपत्वमोजस्वित्वाभिप्रायेण । सर्वाणि भूतानि करोतीति क्रतुः । भूतशब्देन भूतविकारा: पदार्था उच्यन्ते । ' प्रतिष्ठा त्रयस्त्रिश इति । य एव त्रयस्त्रि शस्तोमस्तं तदुपदधाति तद्यत्तमाह प्रतिष्ठेति प्रतिष्ठा हि त्रयस्त्रि, शोऽयो संवत्सरो वाव प्रतिष्ठा त्रयस्त्रि शस्तस्य चतुत्रि ७ शतिरर्धमासाः षड् ऋतवो द्वे अहोरात्रे संवत्सर एव प्रतिष्ठा त्रयस्त्रि शस्तद्यत्तमाह प्रतिष्ठेति संवत्सरो हि सर्वेषां भूतानां प्रतिष्ठा तदेव तद्रूपमुपदधाति ' ( श ० ८ | ४ | १ | २२ ) । सर्वभूतानां प्रतिष्ठास्पदत्वात् संवत्सरः प्रतिष्ठा । ' ब्रध्नस्य विष्टपं चतुस्त्रि श इति । य एव चतुस्त्रि शस्तोमस्तं तदुपदधात्ययो संवत्सरो वाव ब्रध्नस्य विष्टपं चतुस्त्रि शस्तस्य चतुर्विंशतिरर्धमासाः सप्तर्तवो द्वे अहोरात्रे संवत्सर एव ब्रध्नस्य विष्टपं चतुस्त्रि शस्तद्यत्तमाह ब्रध्नस्य विष्टपमिति स्वाराज्यं वं ब्रध्नस्य विष्ट १७, स्वाराज्यं चतुस्त्रि शस्तदेव तद्रूपमुपदधाति ' ( श ० ८ | ४ | १ | २३ ) । चतुस्त्रिशस्तोमात्मकस्य संवत्सरस्य ब्रध्नस्य विष्टपत्वं प्रतिपादयति - स्वाराज्यं वै ब्रध्नस्य विष्टपं स्वाराज्यं चतुस्त्रिश इति । ब्रध्नो ४ ९

पृष्ठ 422

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 422 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८६ शुक्लयजुर्वेदसंहिता [ अ ० १४ बध्नाति तिमिरमित्यादित्यस्तस्य विष्टपं विशन्त्यत्र जना इति स्थानम्, ब्रध्नस्य विष्टपं तत् स्वाराज्यम् । स्वयमेव राजतेऽनन्यपरतन्त्रतयेति स्वराट् तस्य भावः स्वाराज्यम् । सूर्यलोके हि तथाविधस्वाराज्योपपत्तेरत्र लोक एव स्वाराज्यमिति व्यपदिश्यते । ' नाकः षट्त्रिं ११ श इति । य एव षटत्रि शस्तोमस्तं तदुपदधात्ययो संवत्सरो वाव नाक: षट्त्रिं 52 शस्तस्य चतुर्वि १७ शतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति न हि तत्र गताय कस्म-चनाकं भवत्ययो संवत्सरो वाव नाकः संवत्सरः स्वर्गे लोकस्तदेव तद्रपमुपदधाति ' ( श ० ८ | ४ | १ | २४ ) । नाकशब्देन षट्त्रिशस्तोमो विशेष्यते । कथं स नाक इति तदुपपादयति- न हि तत्र गताय कस्मैचनाकं भवतीति । स्वगं प्राप्ताय कस्मैचन पुरुषाय अकं दुःखं न खलु भवति, अतो न विद्यतेऽकं यत्रेति नाकः । ' न वे तत्र जग्मुषे किञ्चनाकम् ' ( ता ० म ० ब्रा ० २११८०४ ) इति श्रत्यन्तर प्रसिद्धेश्च । ' षड्दङङेति मासा स्तान् मासेभ्यः संवत्सर १ ९, संवत्सरादादित्यम् ' ( छा ० उ ० ४ १५१५ ) इति छन्दोगश्रुतेश्च । सुकृतिभिः प्राप्तव्यत्वात् संवत्सरो वाव नाक:, अत एव स स्वर्गो लोकः । ' विवर्तोऽष्टाचत्वारिश इति । य एवाष्टाचत्वारि १ शस्तोमस्तं तदुपदधात्यथो संवत्सरो वाव विवर्तोऽष्टा-चत्वारि ९९ शस्तस्य षवि ७ शतिरर्धमासास्त्रयोदश मासाः सप्तर्तवो द्वे अहोरात्रे तद्यत्तमाह विवर्त इति संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते तदेव तद्रूपमुपदधाति ' ( श ० ८ | ४ | १ | २५ ) | ' संवत्सराद्धि सर्वाणि भूतानि विवर्तन्ते ' इति श्रुतिप्रतिपादनात् सर्वभूतविवर्तनायतनत्वाद् विवर्तः संवत्सरः । ' धत्रं चतुष्टोम इति । य एव चतुष्टोमस्तोमस्तं तदुपदधाति तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धत्रं प्रतिष्ठा चतुष्टोमोथो वायुर्वाव धत्रं चष्टोमः स आभिश्चतसृभिर्दिग्भिः स्तुते तद्यत्तमाह धर्त्रमिति प्रतिष्ठा वै धत्रं वायुरु सर्वेषां भूतानां प्रतिष्ठा तदेव तद्रूपमुप-दधाति स वै वायुमेव प्रथममुपदधाति वायुमुत्तमं वायुनैव तदेतानि सर्वाणि भूतान्युभयतः परिगृह्णाति ( ० ८ | ४ | १ | २६ ) । धत्रं चतुष्टोम इति । स च घरमेष्ट कोपधानमन्त्रः । उक्तं चतुष्टोमस्वरूपम् ( अत्रैव १४ afusio याख्याने ) धचतुष्टोमावुभावपि प्रतिष्ठात्मना स्तौति - प्रतिष्ठा वै धत्रं प्रतिष्ठा चतुष्टोम इति । यद् ध धारकं वस्तु तस्य सर्वस्याप्याश्रयः संवत्सर इति धर्मशब्दवाच्यस्य संवत्सरस्य प्रतिष्ठात्मकता । चतुष्टोमस्यापि चतुः संख्यायोगात् पादचतुष्टयोपेतमिवेति प्रतिष्ठारूपत्वम् । प्रकारान्तरेण व्याचष्टे - अथो वायुरिति । वायो-तुष्टोमवाच्यत्वमाह -- स आभिश्चतसृभिदिग्भिः स्तुत इति । वायोश्चतुर्दिङमध्ये सशब्दं सञ्चारात् चतसृभि-दिग्भिः स्तुते स्तूयते इत्युपचर्यते । यकारलोपश्छान्दसः । ततश्च निमित्ताभावाद् दीर्घाभावः । अतश्चतसृभिः स्तूयमानत्वाच्चतुष्टोमः । वायुपक्षेऽपि धशब्दस्य सङ्गतार्थतामाह प्रतिष्ठा वै धर्त्रमिति । यद् धत्रं सा प्रतिष्ठा इत्येतत् पृथिव्यादौ दृष्टम् । वायुरपि सर्वेषां भूतानां प्रतिष्ठा, प्राणरूपेण धारकत्वात् । एवं स्तोमविशेषण-त्वपक्षेऽपि तपत्रादिशब्दा यथायोगं द्रष्टव्याः । शिष्टं त्रिवृदादिवाक्यवद् व्याख्येयम् । आद्यन्तस्तोमेटकयोर्वायुरूपतां स्तौति-- स वै वायुमेव प्रथममित्यादिना । अध्यात्मपक्षे - हे चिते, त्वमाशुस्त्रिवृत्स्तोमरूपासि, त्रिलोकवासिवायुरूपा वासि । हे चिते, त्वं भारतो वज्ररूपो यः पञ्चदशस्तोमस्तद्रूपासि । भा कान्तिरेवान्वः अन्तर्गतं स्वरूपं यस्य तादृशचन्द्ररूपासीति । हे चिते, त्वं व्योमा सप्तदशस्तोमरूपासि । विविधमवतीति व्युत्पत्त्या संवत्सरात्मप्रजापतिरूपा वाऽसीति सर्वं पूर्ववदेव व्याख्यानम्, चितेः सार्वात्म्यप्रतिपत्तिपर्यंबसानात् । ---दयानन्दस्तु - ' हे मनुष्याः, यूयं यस्मिन् संवत्सर आशुस्त्रिवृत् शीते चोष्णे द्वयोर्मध्ये च वर्तते सः । भान्तः प्रकाशः पञ्चदशः पञ्चदशानां पूरणः, पञ्चदशविधो व्योमा व्योमवद् विस्तृतः सप्तदशो धरुणो धारणगुणः, एकविंश एकविंशतिधा प्रतूर्तिः शीघ्रगतिः, अष्टादशः अष्टादशधा तपः सन्तापः सन्तापिगुणः, नवदशः नवदशधा

पृष्ठ 423

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 423 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २३-२४ ] वेदार्थ पारिजातभाष्यसहिता ३८७ अभीवर्तीय आभिमुख्ये वर्तते सः, सविंशः विंशत्या सह वर्तमानो वर्चो दीप्तिः, द्वाविंश: द्वाविंशतिधा सम्भरणः सम्यग् धारकः, त्रयोविंशः त्रयोविंशतिधा योनिः संयोजको वियोजको गुणः, चतुर्विंशः चतुर्विंशतिधा गर्भः गर्भधारणशक्तयः, पञ्चविंशः पञ्चविंशतिधा ओजः पराक्रमः, त्रिणवः सप्तविंशतिधा क्रतुः कर्म प्रज्ञा वा, एकत्रिंशः प्रतिष्ठा प्रतितिष्ठति यस्यां सा, त्रयस्त्रिशो ब्रध्नस्य महतो विष्टपं व्याप्तिः, चतुस्त्रिशः नतुस्त्रिंशद्विधो नाक आनन्दः, षट्त्रिंशः विवर्तः विविधं वर्तते यस्मिन् सः, अष्टाचत्वारिंशः धत्रः धारणः " चतुष्टोमः चत्वारः स्तोमाः स्तुतयो यस्मिन् संवत्सरे तं संवत्सरं विजानीत ' इति, तत्सर्वं मूढजनप्रतारणमेव, उक्तविशेषणः संवत्सरस्य विशेष्यत्वोक्ती मानाभावात् । प्रकाशस्य पञ्चदशादिपदानि पञ्चदशधाद्यर्थं पराणीत्यपि चिन्त्यम् । त्रिवृत् कथमायुः? शीतोष्ण-योर्मध्ये कथं प्रकाशः? के चाकाशतुल्यविस्तारयुक्ताः? पञ्चदश प्रकाराः सप्तदशधा धारणगुणाः के के? एकविंशतिधा शीघ्रगतिमत्त्वं कथम्? किञ्च तत्र प्रमाणमित्यादिचोद्यानां परिहारानुक्तेः । अष्टादशधा सन्तापि -गुणाः के? एकोनविंशतिधा के अभीवर्ताः? सविशाः का दीप्तयः? द्वाविंशतिधा के धारणकारका गुणाः? चतुर्विंशतिधा का गर्भधारणशक्तयः? पञ्चविंशतिधा कः पराक्रमः? सप्तविंशतिधा कानि कर्माणि प्रज्ञा वा? काः परमेश्वरस्य त्रयस्त्रिशद्वयाप्तयः? चतुर्विंशतिरानन्दाः के? अष्टाचत्वारिंशत्संख्याकानि धारणानि स्तुतिवाक्यानि किप्रमाणानि चेत्याद्यनुक्तेश्च । वस्तुतस्तु दुःसाहसमेव ईदृशं मन्त्राणां यत्किश्चिदर्थापनम् ॥ २३ ॥

अग्ने भागोऽसि दीक्षाया आधि॑पत्य॒ ब्रह्म॑ स्प॒तं त्रि॒व॒त्स्तोम॒ इन्द्र॑स्य भागोऽसि॒ विष्णो राधि॑िपत्यं क्ष॒त्रधि॑ स्पृ॒तं प॑ञ्चद॒शः स्तोमो॑ न॒चक्ष॑सां भागोऽसि धातु॒राधि॑पत्य॑ ज॒नित्र॑थ॒ स्पृ॒तं स॑प्तद॒शः स्तोमो॑ मि॒त्रस्य॑ भा॒ग॒ोऽसि॒ वरु॑ण॒स्याधिपत्य॑ दि॒वो वृष्टि॒िवत॑ः स्पृ॒त ए॑कवि॒शः स्तोमः ॥ २४ ॥

मन्त्रार्थ - इष्टके! तुम अग्नि के भाग को ग्रहण करने वाली हो, तुम्हारे ऊपर दीक्षा का आधिपत्य है । इस कारण तुमसे त्रिवृत् स्तोम द्वारा ब्राह्मण जाति मृत्यु से रक्षित हुई है । त्रिवृत् स्तोम का मनन करते हुए मैं तुम्हारा यहाँ सावन करता हूँ । है इष्टके! तुम इन्द्र का भाग हो, तुम्हारे ऊपर विष्णु का आधिपत्य है । तुमने पंचदश स्तोम से क्षत्रिय जाति की मृत्यु के मुख से रक्षा की है । हे इष्टके! तुम मनुष्यों के शुभाशुभ को जानने वाले देवताओं का भाग हो, तुम्हारे ऊपर धाता का आधिपत्य हैं । सप्तदश स्तोम द्वारा तुमने वैश्य जाति की मृत्यु के मुख से रक्षा की है, सप्तदश स्तोम का मनन करते हुए मैं तुमको स्थापित करता हूँ । है इष्टके! तुम प्राणों का भाग हो, तुम्हारे ऊपर वरुण का आधिपत्य है, एकविश स्तोम के द्वारा तुम द्युलोक से सम्बद्ध वर्षा और पवन की मृत्यु के मुख से रक्षा करती हो ॥ २४ ॥

' दक्षिणां पूर्वयोरग्नेर्भागं इति ' ( का ० श्री ० १७ | १० | ११ ) । पूर्वानुकान्ते विहितयोर्जङ्घानाभ्योर्मध्ये दक्षिणां तन्नाम्नीमिष्टकां जङ्घामात्रीमुदङ्मुख उपदध्यादिति सूत्रार्थः । उत्तरेष्टका तु पूर्वमुपहिता । अत्र कण्डिकासु दश यजूंषि । तत्र चतुर्भिर्मृत्युमोहन्युपधानम्, षभिश्च षट्पद्योपधानम् । इमे दशेष्टकाः स्पृतसंज्ञकाः । हे इष्टके, या त्वमग्नेर्भागोऽसि, यस्यां च त्वयि दोक्षाया वाच आधिपत्यं स्वामित्वम्, यया च त्वया त्रिवृत् स्तोमः, त्रिवृता स्तोमेन, विभक्तिव्यत्ययः, ब्रह्म ब्राह्मण्यं स्पृतं पाप्मनो मृत्योरपनीतं रक्षितम्, अथवा यस्यां त्वयि त्रिवृत्स्तोमः, एतादृशगुणगणविशिष्टां त्वामुपदधामीति शेषः । स्पृ प्रीतिपालनयो: ' स्वादिर्गणः । प्रीतिर्बलम्, ' वाग्वं दीक्षा ' ( श ० ८ ४ २३ ) इति श्रुतेः । ' उत्तरामुत्तरयोरिन्द्रस्य , पालनं जीवनमिति क्षीरस्वामी भाग इति ' ( का ० श्री ० १७ १० १४ ) । उदगनुकान्ते विहितयोर्दक्षिणोत्तरयोः पद्ययोर्मध्ये उत्तरामिन्द्रस्य भागोऽसीति मन्त्रेण प्रत्यङ्मुख उपदध्यादिति सूत्रार्थः । दक्षिणा तूपहिता । हे इष्टके, त्वमिन्द्रस्य भागोऽसि ।

पृष्ठ 424

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 424 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३८८ शुक्लयजुर्वेद संहिता [ अ ० १४ यस्यां त्वयि विष्णोराधिपत्यम् । यया त्वया पञ्चदशेन स्तोमेन क्षत्रं क्षत्रजातिः स्पृतं मृत्योर्मोचितम् । ' उत्तरां दक्षिणयोर्नृचक्षसां भाग इति ' ( का ० श्र ० १७।१०।१३ ) । दक्षिणानूकान्तविहितयोर्दक्षिणोत्तरयोः पद्ययोर्मध्ये उत्तरां पद्यां प्राङ्मुख उपदध्यादिति सूत्रार्थः । दक्षिणा तूपहिता । हे इष्टके, त्वं नृचक्षसां नृन् शुभाशुभकर्तन चक्षते जानन्तीति नृचक्षसो देवास्तेषाम् । चक्षिरत्र ज्ञानसामान्यार्थः । भागोऽसि । यस्यां त्वयि धातुराधिपत्यम् यया त्वया सप्तदशेन स्तोमेन जनित्रमाश्चर्येण जायत इति । अथवा वैश्यजातिः ' विड् वै जनित्रम् ' ( श ० ८ | ४ | । इति श्रुतेः । स्पृतं रक्षितम् । यद्वा ये नरो मनुष्याः सन्तश्चक्षते वेदं व्यक्तमुच्चारयन्ति ते नृचक्षस ऋत्विजः २ | ५ ) । तेषां भागोऽसि । दक्षिणा गवादिरूपासि । धातृप्रभृतेयं दाधिपत्यं यच्च स्पृतं प्रीतिकारणं जनित्रं जननशीलमन्नं यश्च सप्तदशः स्तोमः, तत्सवं त्वमसि तद्रूपां त्वामुपदधामि । ' उत्तरामपरयोमित्रस्य भाग इति ' ( का ० श्री ० १७।१०।१२ ) । अपरानुकान्तविहितयोदक्षिणोत्तरयोर्जङ्घामात्र्योमंध्ये उत्तरां जङ्घामात्रीं दक्षिणामुख उपदध्यादिति सूत्रार्थः । दक्षिणा तूपहिता । हे इष्टके, त्वं मित्रस्य प्राणस्य भागोऽसि । त्वयि वरुणस्य अपानस्य आधिपत्यम् । यया त्वया एकविंशेन स्तोमेन दिवो वृष्टिर्युसम्बन्धिनी वर्षा वातश्च स्पृतस्तादृशीं त्वां सादयामि | अत्र ब्राह्मणम् -'अथ स्पृत उपदधाति । एतद्वै प्रजापतिरेतस्मिन्त्रात्मन: प्रतिहिते सर्वाणि भूतानि गर्भ्यभवत्तान्यस्य गर्भ एव सन्ति पाप्मा मृत्युरगृह्णात् ' ( ० ८ | ४ | २ | १ ) । अथ स्पृत्संज्ञकेष्टका विधाय स्तौति--अथ स्पृत उपदधातीत्यादिना । पुरा प्रजापतिरात्मनः स्वशरोरस्य सम्बन्धिन्येतस्मिन्नन्तरिक्षस्वर्गयोरन्तराल-लक्षणेऽङ्गे पूर्वोक्तेष्टको पधानेन प्रतिहिते सति सर्वाणि भूतान्यपेक्ष्य गर्भी अभवद् भूतज्ञानलक्षणेन गर्भेण तद्वानासीत् । तान्यस्य प्रजापतेर्गर्भ एव सन्ति अवस्थितान्युदरस्थान्येव पाप्मा पापरूपो मृत्युरगृह्णात् । ' स देवानब्रवीत् । युष्माभिः सहेमानि सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणवानीति किं नस्ततो भविष्यतीति वृणीध्वमित्यब्रवीत्तं भागो नोऽस्त्वित्येकेऽब्रुवन्नाधिपत्यं नोऽस्त्वित्येके स भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योरस्पृणोद्यदस्पृणोत्तस्मात् स्पृतस्तथैवैतद्यजमानो भागमेकेभ्यः कृत्वाधिपत्यमेकेभ्यः सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणोति तस्मादु सर्वास्वेव स्पृत स्पृतमित्यनुवर्तते ' ( श ० ८ | ४ | २२ ) । स प्रजापति-देवानब्रवोत् । हे देवाः! युष्मत्सहायो भूत्वाहं गर्भस्थानीमानि भूतानि मृत्योः सकाशात् स्पृणवानि स्पृतानि चलितानि करवाणीति । अथ देवैः किं नस्तत इति पृष्टो वृणीध्वमित्युक्तैर्वृतश्च केषाञ्चिद्देवानामिष्टकास्वध्यस्त-रूपाणां ब्रह्मक्षत्रादिरूपाणां भूतानां भागम्, केषाञ्चिदाधिपत्यं च तत्तदभिलाषानुसारेण प्रदाय पश्चाद् देवसहायः सन् सर्वाणि भूतानि पाप्मनो मृत्योरस्पृणोद् बलवन्ति कृतवान् । ' स्पृ प्रीतिपालनयोः ' प्रीतिर्बलम् | पालनं जीवनमिति क्षीरस्वामी । प्रीतिवलनयोरित्येके, प्रीतिचलनयोरित्यन्ये । स्थितिचलनयोरिति केषाञ्चित् प्रविचालितवानित्यर्थः । प्रसङ्गात् तन्नामनिर्वचनम् - यदस्पृणोत्तस्मात् स्पृत इति । स्परणात् स्पृत पाठः । भवति । तथैव यजमानोऽप्येकेभ्यो भागमपरेभ्य आधिपत्यं दत्त्वा सर्वाणि भूतानि पाप्मनो मृत्योः स्पृणोति इत्युक्तं । तस्मात् सर्वास्विष्टकासु स्पृतं स्पृतमित्यनुवर्तते । शेषं स्पष्टम् ' ' अग्नेर्भागोऽसि 1 । दीक्षाया आधिपत्यमिति वाग्वै दीक्षाग्नये भागं कृत्वा वाच आधिपत्यमकरोद् ब्रह्म स्पृतं त्रिवृत् स्तोम इति ब्रह्म प्रजानां त्रिवृता स्तोमेन पाप्मनो मृत्योरस्पृणोत् ' ( श ० ८ | ४ | २३ ) । प्रथमेष्टकामन्त्रं विधाय व्याचष्टे -- अग्नेर्भागोऽसीत्यादिना । हे इष्टके, त्वमग्नेर्देवस्य भागोऽसि । तथा दीक्षाया वाग्देव्या आधिपत्य-मधिपतित्वं तव, त्वं दीक्षास्वामिकेत्यर्थः । ब्रह्म स्पृतं त्रिवृत्स्तोम इति भागान्तरम् । अत्र अध्यासाश्रयाणामिष्ट-कानामध्यस्यमानानां ब्रह्मक्षत्रादिभूतानां चाभेदस्य विवक्षितत्वात् तत्स्थं रूपमभिधीयते । प्रजानां भूतानां मध्ये

पृष्ठ 425

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 425 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २४ ] ] वेदार्थपारिजात भाष्यसहिता ३८ ९ ब्रह्म ब्राह्मणजातिः स्पृतं पाप्मनो मृत्योः सकाशादपसारितम् । केन साधनेनेति? तदुच्यते - त्रिवृत्स्तोम इति । ब्राह्मणानुसारं विभक्तिर्विपरिणमयितया । तव स्वभूतेन त्रिवृता स्तोमेन । तत्र दीक्षाशब्दस्यो क्तार्थपरतामाह— वाग्वै दक्षेति । वाग्देवताया दोक्षाभिमानिदेवतात्वाद्वा नियन्तव्यतया वाक्सम्बन्धाद्वा दीक्षा वागित्युच्यते । तामिष्टकामग्नये भागं कृत्वा दीक्षायै तस्या इष्टकाया आधिपत्यमकरोत् प्रजापतिः । भागान्तरं व्याख्यातुं ब्रह्म स्पृतं त्रिवृत्स्तोम इत्यस्य विभक्तिविपरिणामः कृतः । ब्रह्म प्रजानां त्रिवृता स्तोमेन पाप्मनो मृत्योरस्पृणोत् । अत्र ब्रह्मणस्त्रिवृत्स्तोमसम्बन्धे प्राथम्यं बीजम् प्रजापतिमुखात् सहोत्पत्तिर्वा कारणं त्रिवृद्ब्रह्मणोः सम्बन्धे । एवमुत्तरेषां मन्त्राणां ब्राह्मणान्यपि व्याख्यातव्यानि । ' इन्द्रस्य भागोऽसि । विष्णोराधिपत्यमितीन्द्राय भागं कृत्वा विष्णव आधिपत्यमकरोत् क्षत्र ४ स्पृतं पञ्चदशस्तोम इति क्षत्रं प्रजानां पञ्चदशेन स्तोमेन पाप्मनो मृत्यो-स्पृणोत् ' ( ० ८ ४ | २ | ४ ) | व्याख्यातप्रायं ब्राह्मणम् । पञ्चदशेन स्तोमेन प्रजानां मध्ये क्षत्रं क्षत्रियजातिमृत्योः पाप्मनोऽपसारितम् । ' नृचक्षसां भागोऽसि । धातुराधिपत्यमिति देवा वै नृचक्षसो देवेभ्यो भागं कृत्वा धात्र आधिपत्य-मकरोज्जनित्र, स्पृत, सप्तदश स्तोम इति विड् वै जनित्रं विशं प्रजाना १७ सप्तदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ' ( श ० ८ | ४ | २५ ) | देवा वै नृचक्षस इति । नृन् पुण्यपापकृतो मनुष्यान् साक्षितया चक्षते पश्यन्तीति नृचक्षसो देवाः । विड् वै जनित्रमिति । जायत इति जनित्रम्, विड् वैश्यजातिः, एतच्छूद्रस्याप्युप-लक्षणम् । यद्वा सामान्येन विट्शब्द: प्रजामभिधत्ते । प्रजानां मध्ये जनित्रं विशं प्रजासामान्यं वा सप्तदशेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् । ' मित्रस्य भागोऽसि । वरुणस्याधिपत्यमिति प्राणो वै मित्रोऽपानो वरुणः प्राणाय भागं कृत्वाऽपानायाधिपत्यमकरोद्दिवोर्वृष्टितः स्पृत एकविशः स्तोम इति वृष्टिं च वातं च प्रजानामेकवि९ ७. शेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ' ( श ० ८ ४ २ ६ ) | मित्रः मेथनं हिंसा मित्, ततस्त्रायत इति मित्रः प्राणः । ऊध्वं निर्गच्छन्तं प्राणमावृणोतीति वरुणोऽपानः, वृष्टिं वातं चैकविंशस्तोमेनास्पृणोद् रक्षितवान् । यद्वा मित्रस्य हविर्लक्षणो भागः, यच्च वरुणस्याधिपत्यम्, यश्च दिवः सम्बन्धिनी वृष्टिर्वातश्च स्पृतः, एकविंशस्तोमश्च, तत् सर्वं त्वमसि | अध्यात्मपक्षे - हे चिते, त्वमग्नेर्यो हविर्लक्षणो भागो यच्च वाग्देव्या आधिपत्यं यच्च प्रीतिकरं ब्रह्म यश्च त्रिवृत्स्वोमः, तत्सर्वं त्वमसि । तद्रूपां त्वां चिन्तये । तथा यश्चेन्द्रस्य भागो यच्च विष्णोराधिपत्यं यच्च प्रीतिकरं क्षत्रं यश्च पञ्चदशस्तोमः, तत्सर्वं त्वमसि । यश्च नृचक्षसां देवानां हविर्भागो यच्च धातुराधिपत्यं यच्च प्रीतिकरं जनित्रमन्नं वैश्यकुलं वा, यश्च सप्तदशस्तोमः, तत्सर्वं त्वमसि । यश्च मित्रस्य देवस्य भागो यच्च वरुणस्याधिपत्यं यच्च प्रीतिकारणं दिवो वृष्टिर्वातश्च एकविशस्तोमश्च तत्सर्वं त्वमसि । तद्रूपां त्वां चिन्तय इति यावत् । दयानन्दस्तु -- ' यस्त्वं पञ्चदशस्तोमो नृचक्षसां भाग इवासि, स त्वं धातुः स्पृतं जनित्रमाधिपत्यं प्राप्नुहि । यस्त्वं सप्तदशस्तोमो मित्रस्य भाग इवासि स त्वं वरुणस्याधिपत्यं याहि । यस्त्वं वातः स्पृत एकविंशस्तोम इवासि तेन त्वया दिवो वृष्टिविधेया ' इति, तत्सर्वं मूढजनप्रतारणमेव सामप्रसिद्ध त्रिवृत्स्तोमपञ्चदशस्तोमाद्यनभिज्ञानात् । मूले दीक्षा आधिपत्यमिति पठितम् । तत्सम्बन्धमपहाय ब्रह्मज्ञकुलस्याधिपत्यमिति कुतो लब्धम्? एतादृशं व्याख्यानं व्याख्यातुर्धाष्टर्धमेव सूचयति । एवं क्षत्रकुलस्याधिपत्यमाप्नुहोत्यपि निर्मूलमेव । विष्णोः स्पृतमित्यस्य हिन्दीभाष्ये व्यापकस्येश्वरस्य प्रीत्या सेवितुं योग्यानां क्षत्रियाणामाधिपत्यं प्राप्नुहोत्युक्तम् । तत्कथं सङ्गतमिति तु विद्वद्भिर्विभावनीयम् ॥ २४ ॥

पृष्ठ 426

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 426 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१० शुक्ल यजुर्वेद संहिता [ अ ० ] १४ वसू॑नां भागोऽसि रु॒द्राणामाभि॑पत्य॒ चतु॑ष्पात्स्पृ॒तं च॑तु॒व॒शः स्तोम॑ आ॒दि॒त्याना॑ म॒रुतामाधि॑त्य॒ गर्भोः स्पृ॒ताः प॑ञ्चवि॒ध॒वाः स्तोमोऽवि॑ित्यै भागोऽसि पृष्ण आधि॑पत्य॒मोज॑ः भागोऽसि स्तं त्रिंण॒वः स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भागोऽसि॒ बृह॒स्पतेराधिपत्यधः॑ स॒मोच॒र्दश॑ः स्पृ॒ताश्च॑ष्ट॒मः स्तोम॑ः ॥ २५ ॥

मन्त्रार्थ - इ! तुम वसुगण का भाग हो, तुम्हारे ऊपर रुद्रों का आधिपत्य तुमने चौपायों की मृत्यु के मुख से रक्षा की है । हे इष्टके! तुम आदित्यगणों का भाग है । चतुविश स्तोम के द्वारा आधिपत्य है । पञ्चविंश स्तोम के द्वारा तुम गर्भों की मृत्यु के मुख से रक्षा करती हो हो, तुम्हारे ऊपर मरुद्गणों का मनन करते हुए मैं तुमको इस स्थान में स्थापित करता हूँ । है इष्टके! तुम अदिति का । चतुविश और पञ्चविश स्तोम का देवता का अधिकार है, तुमने त्रिणव स्तोम द्वारा प्रजा के ओज नामक आठवों धातु की भाग हो, तुम्हारे ऊपर पूषा देवताओं का मनन करते हुए मैं तुमको स्थापित करता हूँ । है इष्टके! तुम सबके प्रेरक रक्षा की है । त्रिणव स्तोम के तुम्हारे ऊपर बृहस्पति देवता का अधिकार है । चतुष्टोम स्तोम के द्वारा तुमने सम्पूर्ण मनुष्यों सविता देव का भाग हो, की मृत्यु से रक्षा की है । चतुष्टोम स्तोम के देवताओं का मनन करते हुए मैं तुम्हारा यहाँ सादन के जाने योग्य दिशाओं करता हूँ ॥ २५ ॥

' षट् प्रतिमन्त्रं वसूनां भाग इति ' का ० श्री ० १७।१०।१५ ) । उदङ्मुख उत्तरामारभ्य श्चतुर्दशभ्योऽपराः षट्पद्या वसूनां भाग इत्यादिभिः षड्भिर्मन्त्रैरुपदध्यादिति सूत्रार्थः । हे इष्टके दक्षिणसंस्था- , त्वं वसूनां भागोऽसि । त्वयि रुद्राणामाधिपत्यम् । त्वया चतुर्विशेन स्तोमेन प्रजानां चतुष्पाद् गवाश्वादिकं स्पृतं पापान्मोचितम् | त्वामुपदधामि । तत्तद्रूपां वा त्वामुपदधामि । या त्वमादित्यानां भागोऽसि, यस्यां त्वयि मरुतामाधिपत्यम्, यया त्वया पञ्चविंशेन स्तोमेन प्रजानां गर्भा मृत्यो रक्षिताः, तां त्वामुपदधामि । या त्वमदित्यै अदितेर्भूमेर्भागोऽसि, यस्यां त्वयि पूष्ण आधिपत्यम्, यया त्वया त्रिणवेन स्तोमेन प्रजानामोजो बलम्, अष्टमो धातुर्वा पृतं मृत्योर्मोचितम् तां त्वामुपदधामि । या त्वं देवस्य सवितुर्भागोऽसि, यस्यां त्वयि बृहस्पतेराधिपत्यम्, यया त्वया चतुष्टोमेन स्तोमेन समीची: समीच्यः सम्यगवन्ति जना यासु ताः • दिशः स्पृता मृत्योर्मोचिताः तां त्वामुपदधामि । अत्र ब्राह्मणम् -'वसूनां भागोऽसि । रुद्राणामाधिपत्यमिति वसुभ्यो भागं कृत्वा रुद्रेभ्य आधिपत्य-मकरोच्चतुष्पात् स्पृतं चतुर्विशस्तोम इति चतुष्पात् प्रजानां चतुर्वि शेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ' ( श पशुजातं ' स्पृतम् ' इति सामान्याभिप्रायेण नपुंसकता । ' आदित्यानां ० ८ | ४ | २ | ७ ) अत्र चतुष्पादोपेतं भागोऽसि । मरुतामाधिपत्यमित्यादित्येभ्यो भागं कृत्वा मरुद्भय आधिपत्यमकरोद् गर्भाः स्पृताः पञ्चवि शस्तोम इति गर्भान् प्रजानां पञ्चवि १७ शेन स्वोमेन पाप्मनो मृत्योरस्पृणोत् ' ( श ० ८ | ४ | २८ ) । सुप्रसन्ना कण्डिका । ' अदित्यै भागोऽसि । पुष्ण आधिपत्यामितीयं वा अदितिरस्यं भागं कृत्वा पूष्ण आधिपत्यमकरोदोजः स्मृतं त्रिणवस्तोम इत्याजः प्रजानां त्रिणवेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ' ( श ० ८ | ४ / २ / ९ ) । सुप्रसन्ना कण्डिका । ओजो बलम्, तत्कारणमष्टमो धातुर्वा, ' ओजो नामाष्टमो धातुः ' इत्याचार्यस्मरणात् । ' देवस्य सवितुर्भागोऽसि । बृहस्पतेराधिपत्यमिति देवाय सवित्रे भागं कृत्वा बृहस्पतय आधिपत्यमकरोत् समीचीदिशः स्पृताश्चतुष्टोमस्तोम इति सर्वा दिशः प्रजानां चतुष्टोमेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ' ( श ० ८ | ४ | २ | १० ) । सुप्रसन्ना कण्डिका ।

पृष्ठ 427

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 427 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २५-२६ ] वेदार्थपारिजातभाष्यसहिता ३ ९ १ अध्यात्मपक्षे - हे परचिते, यो वसूनां हविर्लक्षणो भागः, यच्च रुद्राणामाधिपत्यं यच्च स्पृतं प्रीतिकरं चतुष्पात् पशुजातं यश्च पञ्चविशस्तोमः, तत्सर्वं त्वमसि, अधिष्ठानसत्तातिरिक्तायाः कल्पितसत्ताया अनङ्गी-कारात् । यश्चादित्यानां भागः, यच्च मरुतामाधिपत्यम्, ये च स्पृता गर्भाः, यश्च त्रिणवः स्तोमः, तत्सर्वं स्वमसि । यश्च सवितुर्भागः, यच्च बृहस्पते राधिपत्यम्, यच्च स्पृतमोजः, यश्च चतुष्टोमस्तोमस्तत्सर्वं त्वमसि । दयानन्दस्तु - ' हे विद्वन्! यस्त्वं वसूनां भागोऽसि, स त्वं रुद्राणामाधिपत्यं गच्छ ' इत्यादिकमाह । तत्सर्वमपि निर्मूलम्, सर्वत्र गौणार्थाश्रयणात् । ' गर्भा गर्भतल्या विद्याभि: शुभगुणैराच्छादिताः ' इत्यपि निर्मूलम, विगानात् । त्रिणवः सप्तविंशतिधा स्तोमः स्तोतव्य इत्यप्यसम्बद्धमप्रामाणिकं च ॥ २५ ॥

L यर्थानां भागोऽस्यर्यवानामाधिपत्यं प्र॒जाः स्पताश्च॑तुश्चत्वारि॒शः स्तोम॑ ऋभूणां भागोऽसि विश्वे॑षां दे॒वाना॒मधि॑पत्यं भूत स्प॒तं त्र॒यस्त्रिंशः स्तोम॑ः ॥ २६ ॥

मन्त्रार्थ --- हे इष्टके! तुम शुक्ल पक्ष के भाग हो, तुम्हारे ऊपर कृष्ण पक्ष की तिथियों का स्वामित्व है, तुमने चत्वारिंश मृत्यु मुख स्तोम के द्वारा प्रजाओं की के से रक्षा की है । हे इष्टके! तुम ऋभु नामक देवताओं का भाग हो, तुम्हारे ऊपर सम्पूर्ण देवताओं का आधिपत्य है । त्रयस्त्रिश स्तोम के द्वारा तुमने प्राणी मात्र की मृत्यु के मुख से रक्षा की है ॥ २६ ॥

हे इष्टके, त्वं यवानां पूर्वपक्षाधिष्ठातृदेवानां भागोऽसि । अयवानामपरपक्षाधिष्ठातृदेवानामाधिपत्यं त्वयि । त्वया चतुश्चत्वारिंशेन स्तोमेन प्रजाः स्पृता रक्षिताः तां त्वामुपदधामि । त्वमृभूणां देवविशेषाणां भागोऽसि त्वयि विश्वेषां देवानामाधिपत्यम् त्वया त्रयस्त्रिशेन स्तोमेन तं प्राणिमात्रं स्पृतं रक्षिनम् । तां त्वामुपधामीति शेषः । अत्र ब्राह्मणम् – ' यवानां भागोऽसि । अयवानामाधिपत्यमिति पूर्वपक्षा वै यवा अपरपक्षा अयवास्ते ही. सर्वं युवते चायुवते च पूर्वपक्षेभ्यो भागं कृत्वाऽपरपक्षेभ्य आधिपत्यमकरोत् प्रजा स्पृताश्चतुश्चत्वारिंशस्तोम इति सर्वाः प्रजाश्चतुश्चत्वारि शेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् ' ( श ० ८ | ४ | २ | ११ ) यवायवशब्दयोः पूर्वपक्षापरपक्षवाचकत्वमुपपादयति - ते दमित्यादिना । ते पूर्वपक्षा अपरपक्षाश्च क्रमेणेदं सर्वं जगद् युवते चायुवते च यथाक्रमं मिश्रणामिश्रणं कुर्वन्ति । अयुक्त इत्यत्र ' अमानोनाः प्रतिषेधे ' इति ' स्मरणाद् अ इति प्रतिषेधवाचि भिन्नं पदम् । पूर्वपक्षेषु चन्द्रस्य कलावृद्धिसद्भावात् सर्वजगदाप्यायनस्य च तदधीनत्वाद् युवत इत्युक्तम् उक्तवैपरीत्याच्चायुवत इति । यद्वा मासर्तुसंवत्सरादिरूपस्य कालस्य पूर्वापरपक्षावृत्तिरूपत्वात् ते पूर्वापरपक्षरूपाः कालविशेषा इदं सर्वमुत्पत्त्य-वस्थापन्नं युवते, विनाशावस्थापन्नं वियुत्रते चेत्यर्थः । ' ऋनृणां भागोऽसि । विश्वेषां देवानामाधिपत्यमित्यभुभ्यो भागं कृत्वा विश्वेभ्यो देवेभ्य आधिपत्यमकरोद् भूत स्पृतं त्रयस्त्रि शः स्तोम इति सर्वाणि भुनान त्रयस्त्रि ७ शेन स्तोमेन पाप्मनो मृत्योरस्पृणोत्तथैवैतद्यजमानः सर्वाणि भूतानि त्रयस्त्रि ५ शेन स्तोमेन पाप्मनो मृत्योः स्पृणोति ' ( श ० ८ | ४/२/१२ ) । इत्थं भूतानां मध्ये ब्रह्मक्षत्रादि सुतैकैकदेशमभिधायान्ते सर्वं भूतजातं संगृह्याभिधत्ते -- भूतं स्पृतं त्रयत्रिंशः स्तोम इति । भूतशब्दस्य भविष्यदादिप्रतियोगिकालविशेषे प्रसिद्धेरत्राभि १. एतच्च ' चादयोऽसत्त्वे ' ( १ । ४ । ५७ ) इत्यत्र काशिकायां स्थितम् ।

पृष्ठ 428

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 428 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ९ २ शुक्लयजुर्वेदसंहिता [ अ ० १४ मतमर्थमाह- सर्वाणि भूतानीति । एतदेवाभिप्रेत्य विश्वेभ्यो देवेभ्य आधिपत्यमकरोदित्यन्ते विश्वेऽपि देवा उपात्ताः । ' ये देवासो दिव्येकादश स्थ ' ( वा ० सं ० ७ १ ९ ) इत्यादिकण्डिकास त्रयत्रिशत्संख्याकानां देवानामभि-धानात् ' त्रयत्रिंशद्वै सर्वा देवता: ' ( शाङ्खा ० ब्रा ० ८ ६ ) इति श्रुतेव सर्वेषां देवानामेष्वन्तर्भावादुचितस्त्रयस्त्रिश-स्तोमोऽन्ते निर्दिष्ट इति वेदितव्यम् । इत्थं प्रजापत्यनुष्ठितमयं दृष्टान्तत्वेन प्रदश्यं दाष्टन्तिकतया यजमानेऽपि योजयति --- तथैवैतद्यजमानः सर्वाणि भूतानि त्रयस्त्रिशेन स्तोमेन पाप्मनो मृत्योः स्पृणोतीति । अन्तिमवाक्ये तथैवै-तदित्यभिधानमितरवाक्येष्वप्येवं द्रष्टव्यमित्यवगमयितुम् । यद्वास्य सर्वोत्त्ार्थं परत्वादस्मिन्नेवाभिधानं कृतमिति । अध्यात्मपक्षे - हे परचिते, यश्च यवानां पूर्वपक्षाधिष्ठातृदेवानां भागो हविलक्षणः, अयवानामपरपक्षाधिष्ठातृ-देवानां च यदाधिपत्यम्, याश्च प्रीताः प्रजाः, यश्च चतुश्चत्वारिंशस्तोमः, तत्सर्वं त्वमसि । यश्च ऋभूणां भागो यच्च विश्वेषां देवानामाधिपत्यं यच्च स्पृतं भूतं यश्च त्रयस्त्रिशः स्तोमः, तत्सर्वं त्वमेवासि । इत्थं ब्रह्मरूपायाश्चितेः सार्वात्म्यमिह विवक्षितम् । दयानन्दस्तु -- ' हे मनुष्य, यस्त्वं यवानां मिश्रितानां भागः शरहतुरिवासि, योऽयवानाममिश्रिताना-माधिपत्यं प्राप्य प्रजाः स्मृताः करोति यश्चतुश्चत्वारिश स्तोमः, ऋभूणां मेधाविनाम्, ' ऋभुरिति मेधाविनामसु ' ( निघ ० ३।१५१८ ), भागोऽसि विश्वेषां देवानां भूतं स्मृतं सेवितमाधिपत्यं प्राप्य यस्त्रयस्त्रिशः स्तोमोऽसि, स त्वमस्माभिः सत्कर्तव्यः ' इति, तदपि यत्किञ्चित्, गौणार्थाश्रयणेऽप्यसङ्गतेस्तादवस्थ्यात् स्तोमानामर्थानव-गमाच्च । शरदृतुः कथं यवानां भागः सेवनीयः? कथमयवानामाधिपत्येन प्रजानां स्परणम्? चतुश्चत्वारिंशः कोऽयं स्तुत्यः? इत्याद्यनुपपत्तेः ॥ २६ ॥

सहुश्च सह॒स्यश्च॒ हैम॑न्तिकात् अ॒ग्नेर॑न्तः श्ये॒षोऽसि॒ कल्पैतां द्यावा॑पृथि॒वी कल्प॑न्त॒माप॒ ओष॑धयः कल्प॑न्ताम॒ग्नयः पृथङ् मम॒ ज्येष्ठया॑य॒ सव॑ताः । ये अ॒ग्नय॒ सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे । हैम॑न्तिकाव॒त अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवंशन्तु तया॑ दे॒वत॑याऽङ्गरस्वद् वे सीदतम् ॥ २७ ॥

2 मन्त्रार्थ - मार्गशीषं और पौष ये दोनों मास हेमन्त ऋतु के अवयव हैं । हे ऋतुरूप दोनों इष्टकाओं! तुम atra अग्नि के अन्तर में स्थिर होकर दृढ़ता से बंठने के लिये लगाई गई हो, मुझ यजमान के उत्कर्ष के लिये यह लोक और भूलोक अपने योग्य उपकार की कल्पना करें । जल और औषधि हमारा प्राधान्य सम्पादन करें | समान व्रत वाली अनेक नामों वाली अग्नि स्वयमातृष्णा आदि इष्टकाओं में उत्कर्ष का आधान करें, यह द्यावापृथिवी के मध्य में वर्तमान एक मन बाली अग्नियाँ हेमन्त ऋतु का सम्पादन कर इस कर्म को आश्रय दें । जैसे देवता इन्द्र को परिचर्या कर अपने अभीष्ट को पाते हैं, उसी प्रकार हमारी सारी इच्छाएँ इन इष्टकाओं के द्वारा प्राप्त हों । हे इष्टके! उस प्रसिद्ध देवता द्वारा अंगिरा के समान स्थिर होकर तुम यहाँ स्थित रहो ॥ २७ ॥

' ऋतव्ये सहश्च सहस्यश्चेति ' ( का ० श्र ० १७।१०।१६ ) । अनुकमभित एकैकां पद्याम् अर्थाद्द्वे पद्ये सहश्च सहस्यश्चेति मन्त्रेणोपदध्यादिति सूत्रार्थः । ऋतुदेवत्यं यजुः । सही मार्गशीर्षः, सहस्यः पौषः । एती हैमन्तिको हेमन्तावयवी । शिष्टा कण्डिका ( १३।२५ ) इत्यत्र व्याख्यातपूर्वा ।

पृष्ठ 429

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 429 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २७-२८ ] वेदार्थ पारिजात भाष्यसहिता ३ ९ ३ अत्र ब्राह्मणम् -'अथर्तव्ये उपदधाति । ऋतव एते यदृतव्ये ऋतूनेवैतदुपदधाति सहश्च सहस्यश्च हैमन्तिकावृतू इति नामनी एनयोरेते नामभ्यामेवैने एतदुपदधाति द्वे इष्टके भवतो द्वो हि मासावृतुः सकृत्सादयत्येतदृतुं करोति ' ( श ० ८ | ४ | २ | १४ ) । अथर्तव्ये उपदधातीत्यादिकमृतव्येष्टकाब्राह्मणं पूर्वचितिब्राह्मणवद् व्याख्येयम् | ' तद्यदेते अत्रोपदधाति । संवत्सर एषोऽग्निरिम उ लोकाः संवत्सरस्तस्य यदुवं मन्तरिक्षादर्वाचीनं दिवस्तदस्येषा चतुर्थी चितिस्तद्वस्य हेमन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यै आत्मनस्तदस्मिन्नेतत् प्रतिदधाति तस्मादेते अत्रोपदधाति ' ( श ० ८ | ४ | २ | १५ ) । ' यद्वेवैते अत्रोपदधाति । प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिस्तस्य यदूध्वं मध्यादवाचीन शीर्ष्णस्तदस्यैषा चतुर्थी चितिस्तद्वस्य हेमन्त ऋतुस्तद्यदेते अत्रोपदधाति यदेवास्यैते आत्मनस्तदस्मिन्नेतत् प्रतिदधाति तस्मादेते अत्रोपदधाति ' ( श ० ८ | ४ | २ | १६ ) । ' प्रजापतिरेषोऽग्निः संवत्सर उ प्रजापतिः ' इत्यर्थवादद्वयेन प्रजापतेर्लोकत्रयात्मकं संवत्सरात्मकं चेति यद्रूपद्वयम् यच्च तस्य विश्लिष्टमङ्गम्, तत्प्रतिसन्धानस्थानीयमिति ऋतव्ययोः स्तुतिः कृतेति तात्पर्यार्थः । अन्यत्सर्वं पूर्ववदेव व्याख्येयम् ।

आध्यात्मिकोऽर्थः पूर्वव्याख्यानस्थले पठनीयः ।

दयानन्दीयं व्याख्यानं तत्समीक्षा चेत्युभयं तत्रैवावलोकनीयम् ॥ २७ ॥

एकया s स्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒रधि॑पतिरासीत्ति॒सृभि॑रस्तुवत॒ ब्रह्मसृज्यत ब्रह्म॑ण॒स्पति॒रधि॑पतिरासीत् पञ्चभि॑िरस्तुवत भूतान्य॑सृज्यन्त भूताना॒म्पति॒रधि॑पतिरासीत् स॒प्तभिरस्तुवत सप्त ऋषयो॑ऽसृज्यन्त धा॒ताऽधिपतिरासीत् ॥ २८ ॥

मन्त्रार्थ - प्रजापति ने एक ही वाणी के साथ आत्मा की स्तुति की । उससे सारी प्रजा उत्पन्न हुई । प्रजापति उसके स्वामी बने । प्रजापति ने प्राण, उदान और व्यान से स्तुति कर वेदों को रचना की । वे वेदकर्ता कहलाये । प्रजापति ने पाँच प्राणों से स्तुति की । उससे पाँच भूत और सम्पूर्ण प्राणी प्रकट हुए । भूतपति महादेव उनके स्वामी हुए । प्रजापति ने दो कान, दो नासिका, दो आँख और एक जिह्वा - इन सातों की सहायता से

स्तुति की । इससे सात ऋषि प्रकट हुए । जगत् के कर्ता देव उनके स्वामी बने ॥ २८ ॥

‘ रेतःसिग्वेलायां च सप्तदश सर्वतो नव दक्षिणेनानुक, सृष्टीरेकयाऽस्तुवतेति प्रतिमन्त्रम् ' ( का ० श्र ० १७।१०।१७ ) । सर्वासु दिक्षु रेतः सिग्वेलायां सृष्टिसंज्ञकाः सप्तदशेष्टका उपदध्यात् । तासां मध्ये प्रागनुकं दक्षिणेन नव, उत्तरेणाष्टौ । तेन प्रतिदिशं चतस्रश्चतस्रः पद्या दक्षिणतः पञ्चेति सूत्रार्थः । सप्तदश यजूंषि सृष्टीष्टका देवत्यानि । कण्डिकार्थस्य स्पष्टतया प्रतिपत्त्यर्थं पूर्वं ब्राह्मणमुद्भियते । ' अथ सृष्टीरुपदधाति । एतद्वै प्रजापतिः सर्वाणि भूतानि पाप्मनो मृत्योर्मुक्त्वाऽकामयत प्रजाः सृजेय प्रजाति ' ( ० ८ | ४ | ३ | १ ) । स प्राणानब्रवीत् । युष्माभिः सहेमाः प्रजाः प्रजनयानीति ते वै केन स्तोष्यामह इति मया चैव युष्माभिश्चेति तथेति ते प्राणेश्चैव प्रजापतिना चास्तुवत यदु ह किश्च देवाः कुर्वते स्तोमेनैव तत्कुर्वते यज्ञो वै स्तोमो यज्ञेनैवतत्कुर्वते तस्मादु सर्वास्वे वास्तुवताऽस्तु तेत्यनुवर्तते ' ( श ० ८।४।३२ ) । सृष्टिसंज्ञकाः ५०

पृष्ठ 430

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 430 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ९ ४ [ अ ० १४ सप्तदशे का विधाय स्तौति - अथ सृष्टीरुपदधातीत्यादिना । ' तद्यदसृजत तस्मात् सृष्टयः ' ( श ० ८ | ४ | ३ | २० ) इति श्रुतेः सृष्टिशब्दोपेतमन्त्रैरुपधेयत्वात् सृष्टिशब्दवाच्यता । यद्यपि ' एकयाऽस्तुवत, सप्तविंशत्या स्तुवत ' ( श ० ८ | ४ | ३ | ३ - १६ ) इत्यादौ सृष्टिशब्दो नास्ति, तथापि धातुमात्रं सृष्टानां प्राणिनां तत्सृष्टीनां च समूहे वर्तते । नहि कोऽपि धातुरेतं व्यभिचरतीति सर्गसामिष्टकानां सृष्टिशब्दवाच्यता द्रष्टव्या । पुरा प्रजापतिः पूर्वोक्तप्रकारेण सर्वाणि भूतानि ब्रह्मक्षत्रादीनि पाप्मनो मृत्योः सकाशात् सर्वभूतानां स्वव्यक्तिरूपत्वाद् भूतसमष्टिरूपः स्वयं मृत्योः सकाशान्मुक्तः सन्नित्यर्थः । यद्वा भूतानां गर्भरूपावस्थानस्योक्तत्वात्तानि स्वयं मुक्त्वा इत्युच्यते । यद्वा मुक्त्वा मोचयित्वा देहारम्भककर्माणि तत्संस्कारविशेषांश्च प्रादुर्भाव्येत्यर्थः । अकामयत । किमिति? प्रजाः सृजेयेति । सृष्टाभिस्तभिः स्वयमेव प्रजायेयेत्यकामयत । स स्वयमेक एवाशक्तः सन् युष्माभिः सहितः प्रजायेयेति प्राणानब्रवीत् । प्रजापतेः स्थूलशरीरत्वात् प्राणाभावे केवलस्य शरीरस्य निर्वाहाभाषात् सृज्यमानस्य प्राणिजातस्य शरीरप्राणसङ्घातात्मकत्वात् प्राणसाहाय्यमपेक्षितवानित्यभिप्रायः । इत्थं सृष्टि पुरुषसामग्रीमभिधाय सृष्टेः सामर्थ्य सव्यपेक्षत्वात् तस्याश्च कर्मजन्यत्वात् तद्रपां सामग्री दर्शयति - ते वै केन स्तोष्यामह इति, अब्रुवन्निति शेषः । स्वव्यतिरिक्तस्य कस्याप्यन्यस्याभावाद् उद्गात्रादिस्थानीयेन केन स्तोष्यामह इति पृष्टवन्तः । अलमन्यैरस्मद्वयतिरिक्तः, परं मया च युष्माभिश्च स्तोष्यामह इति प्रजापतिरब्रवीत् । तथेति प्राणा अङ्गीकृत्य ते प्राणा प्रजापतयः प्राणैः स्वस्वरूपेण प्रजापतिना चास्तुवत | स्वात्मानमेव देवत्वादनन्यतयाऽभिधानम्, स्वयमेव कर्तारः स्वैरेव कारणभूतैरस्तवतेत्यर्थः । स्तोत्रं त्रिवृदादिस्तोमसाध्यम् । स च स्तोमः किमर्थमपेक्ष्यत इत्यत आह- यद् ह किञ्च देवाः कुर्वत इति । यज्ञो वै स्तोम इति । स्तोमप्राधान्याज्ज्योतिष्टोमादियज्ञो नाम स्तोम एवेत्यर्थः । अस्तुवतास्तवतेत्यनुवर्तत इति । तस्मात् सर्वस्या विकृतेः स्तोमसाध्यत्वात् सर्वास्विष्टकासु तत्तत्सृष्ट्यभिधायकेष्टकामन्त्र इति यावत् । अयमभिप्रायः - प्रजापतिरिन्द्रियाद्यधिष्ठातृदेवान् मां स्तुवध्वमित्यब्रवीत् । ते च देवाः केन स्तोष्यामह इत्यवोचन् । एवमुक्तः प्रजापतिर्मया च युष्माभिश्च स्तुतिः करिष्यत इति प्रोवाच । इत्थं सर्वं निदानं स्पष्टमुक्तमुद्धते ब्राह्मणे । ' एकया s स्तुवतेति । वाग्वा एका वाचैव तदस्तुवत प्रजा अधीयन्तेति प्रजा अाधीयन्त प्रजापतिरधिपतिरासीदिति प्रजापतिरत्राधिपतिरासीत् ' ( श ० ८२४ | ३ | ३ ) | तत्र प्रथमेष्टकामन्त्रं विधाय व्याचष्टे - वाग्वा एकेत्यादिना । यद्यपि परापश्यन्त्यादिभेदेन बहुविधा वाक्, तथापि वागात्मना एकत्वात् ' वाग्वा एका ' इत्याह श्रुतिः । तत् तेन एकयास्तवतेति मन्त्रपाठेन वाच एकत्वात् साक्षाद् वाचैवाऽस्तुवत | यद्वा तदा प्रजासृष्टिसमये वाचैवाऽस्तुवत, अतो मन्त्र: ' एकया s स्तुवत ' इत्याहेत्यर्थः । एवमुत्तरत्रापि व्याख्येयम् । एकया स्तोत्रियया अस्तुवत, एकेन स्तोमेनाऽस्तुवतेत्यर्थः । संवैका स्तोत्रिया वागात्मना स्तुता भवति । भागान्तर-मुदाहृत्य व्याचष्टे - प्रजा अधीयन्तेति प्रजा अत्राधीयन्तेति । अत्र सृष्टिप्रस्तावे प्रजा धारिता आसन् । दधातेः कर्मणि लङ बहुवचने रूपम् । अतः प्रजा अधीयन्तेति मन्त्र आहेत्यर्थः । अपरं भागान्तरमुदाहृत्य व्याचष्टे -प्रजापतिरधिपतिरासीदिति । अत्र प्रजासष्टी प्रजापतिः प्रजास्वाधिपत्यवानासीत् । तस्मान्मन्त्रः प्रजापतिरधिपति-रासीदित्याहेत्यर्थः । एवमुत्तरत्र षोडशमन्त्राणां तद्ब्राह्मणानां चापि व्याख्यानं द्रष्टव्यम् । अधीयन्तेत्यस्य स्थानेऽसृज्यन्तेति विशेषः । प्रजापतिरेकया वाचा सहात्मानमस्तुवत अस्तुत स्तुतवान् । एनं देवाः प्रथममस्तुवत स्तुतिमकुर्वन् । ततः प्रजापतिना प्रजा अधीयन्त उदपाद्यन्त | ' डुधाञ् धारणपोषणयोः ' प्रजापत्यर्थमस्थाप्यन्तेति वा । सृष्टानां