वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 431–440

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 431–440

पृष्ठ 431

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 431 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २८ ] वेदार्थं पारिजातभाष्यसहिता ३ ९ ५ प्रजानां प्रजापतिरेवाधिपतिरासीत् । एवं षोडश मन्त्रा व्याख्येयाः । तिसृभिः प्राणोदानव्याने रस्तुवत अस्तुत । ब्रह्म ब्राह्मणजातिरसृज्यत सृष्टा । ब्रह्मणस्पतिरधिपतिरासीद् ब्रह्मणस्पतिर्ब्राह्मणजाते: स्वाम्यभूत् । पश्चभिः प्राणरस्तुवत अस्तीत् । भूतानि पञ्चमहाभूतानि, असृज्यन्त सृष्टानि । भूतानां पतिर्देवविशेषोऽधिपतिरासीत् तेषां स्वाम्यभूत् । सप्तभिः श्रोत्रचक्षुर्नासावाग्रूपैः सप्तशीर्षण्य प्राणैरस्तुवत अस्तीत् । सप्त ऋषयोऽसृज्यन्त सृष्टाः । धाता जगत्स्रष्टा आद्य देवोऽधिपतिरासीत् स्वाम्यभूदिति मन्त्रार्थः । ' तिसृभिरस्तुवतेति । त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेव तदस्तुवत ब्रह्मासृज्यतेति ब्रह्मणस्पति-रधिपतिरासीदिति ब्रह्मणस्पतिरत्राधिपतिरासीत् ' ( श ० ८ | ४ | ३ | ४ ) | ब्रह्म सर्वसृष्टिसाधनभूतो वेदराशिर्ब्रह्मे-त्युच्यते, ब्रह्मणस्पतिस्तत्पालकश्च चतुर्वक्त्रोऽधिपतिरासीत् । यद्वा उत्तरत्र पञ्चदशभिरस्तुवतेत्यत्र पञ्चदशेन स्तोमेन क्षत्रसृष्टेरभिधास्यमानत्वादत्र त्रिवृत्स्तोमेन ब्राह्मणजातिविवक्षिता । तत्र ब्रह्मणस्पतिरग्निरधिपतिरुच्यते, ' आग्नेयो वै ब्राह्मणः ' ( श ० ११ | ५ | ४ | १२ ) इति श्रुतेः । ' पञ्चभिरस्तुवतेति । य एवेमे मनःपञ्चमाः प्राणास्तैरेव तदस्तुवत भूतान्यसृज्यन्तेति भूतान्यत्रासृज्यन्त भूतानां पतिरधिपतिरासीदिति भूतानां पतिरत्राधिपतिरासीत् ' ( श ० ८ | ४ | ३ | ५ ) | मनः पञ्चमा इति । मन एकम् पूर्वोक्ताः वाक्प्राणेो दानव्यानाश्चेत्यवगन्तव्यम् | ' सप्तभि-रस्तुवतेति । य एवेमे सप्त शीर्षन् प्राणास्तैरेव तदस्तुवत सप्त ऋषयोऽसृज्यन्तेति सप्तर्षयोऽत्रासृज्यन्त धाताऽधिपति-रासीदिति धाताऽत्राधिपतिरासीत् ' ( श ० ८ | ४ | ३ | ६ ) । चक्षुः श्रोत्रनासारन्ध्रगताः षट् प्राणाः, वदनस्थ एक इति सप्त शीर्षण्याः प्राणाः । सप्त ऋषय इति । भरद्वाजः कश्यपोऽत्रिगौतमो विश्वामित्रो जमदग्निर्वशिष्ठः सप्तर्षयः । धाता देवता तेषामधिपतिरासीत् । अध्यात्मपक्षे - प्रजापतिः परमात्मा एक्या वाचा प्रधानभूतया वाग्देवीरूपया सरस्वत्या तं परमात्मान-मस्तौत् । तेन प्रजा उत्पादिताः । तासां प्रजापतिरेवाधिपतिरासीत् । पुनस्तिसृभिः प्राणोदानव्यानरस्तोत् । ब्रह्म ब्राह्मणजातिः सृष्ट ॥ ब्रह्मणस्पतिरधिपतिरासीत् तिसृभिरिति स्त्रीलिङ्गप्रयोगस्तु तदभिमानिदेवताभिप्रायेण । शेषं पूर्ववत् । अग्रिममन्त्रस्याप्येवमेवाध्यात्मिकोऽर्थो ज्ञातव्यः । दयानन्दस्तु ' हे मनुष्याः! यः प्रजापतिरधिपतिः सर्वस्य स्वामीश्वर आसीत्तमेकया वाण्यास्तुवत स्तुवन्तु सर्वा प्रजाश्चाधीयन्त अधीयताम् । यो ब्रह्मणस्पतिर्वेदस्य पालकोऽधिपतिरासीत्, येनेदं सर्वविद्यामयं ब्रह्म वेदोऽसृज्यत तं तिसृभिः प्राणोदानव्यानगतिभिरस्तुवत स्तुवन्तु । येन भूतान्यसृजन्त यो भूतानां पतिरधिपतिरासीत् सर्वे मनुष्याः पञ्चभिः समानचित्तबुद्धयहङ्कारमनोभिः स्तुवन्तु । येन पञ्च मुख्याः प्राणा महत्तत्त्वमहङ्कारश्चेति सप्त ऋषयोऽसृज्यन्त, यो धाताधिपतिरासीत् । सप्तभिर्नागकूर्मकृकलदेवदत्त-धनञ्जयेच्छाप्रयत्नः स्तुवन्तु ' इति, तदपि यत्किञ्चित् निर्मूलत्वात् । ' प्रजा अधीयन्त वेदद्वारा विद्यायुक्ताः कृता: ' इत्यपि निर्मूलम् । तथैव ' तिसृभिः प्राणोदानव्यानगतिभिः स्तुवन्तु ' इत्यपि निर्मूलम्, ताभिः स्तुते -रसम्भवात् । चेतनाधिष्ठातारोऽभ्युपेयन्ते चेत्, तदापसिद्धान्तापातः । एवमुपरिष्टादपि दोषा अनुसन्धेयाः । श्रुतिविरोधस्तु पूर्वोक्तव्याख्यानेन स्पष्ट एवं उपरिष्टादसृज्यत असृज्यन्तेत्यादिश्रुतिभिस्तस्य स्पष्टीकृतत्वात् । एवमेव प्रजा अधीयन्त इत्यत्रापि सृष्टिप्रस्तावे प्रजा धारिता आसनित्येवार्थः, उदपाद्यन्तेति वा, अत्र प्रकरणेऽधीतेरप्रसङ्गात् । दधातेः कर्मणि लङि बहुवचने रूपमिति प्रागुक्तमेव । उदपाद्यन्तेत्यर्थः ॥ २८ ॥

पृष्ठ 432

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 432 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ९ ६ शुक्लयजुर्वेद संहिता [ अ ० ] १४ नवभिरस्तुत पि॒तरो॑ऽसृज्य॒न्तादि॑ति॒रधि॑पत्न्यासीदेकादशभिरस्तुवत ऋतवोऽसृज्यन्तात्वा अधि॑पतय आसंस्त्रयोद॒शभि॑रस्तुवत॒ मासा॑ असृज्यन्त संवत्स॒रोऽधि॑पतिरासीत् पञ्चदशभि-रस्तुवत क्ष॒त्रम॑सृज्य॒तेन्द्रोऽधिपतिरासीत् सप्तद॒शभि॑रस्तुवत ग्राम्याः प॒शवो॑ऽसृज्यन्त॒ बृहस्पति-रधिपतिरासीत् ॥ २ ९ ॥ मन्त्रार्थ -- प्रजापति ने सात शिरोभाग स्थित द्वार और दो नीचे के द्वार, कुल नौ द्वार वाले शरीर को धारण करने वाले प्राणों की सहायता से प्रार्थना की । उससे अग्निष्वात आदि पितृगण उत्पन्न हुए । प्रजापति की अखण्डित शक्ति उनकी स्वामिनी बनी । इसीलिये रिपत्र अपनी इस अखण्ड शक्ति की सहायता से श्राद्ध करने वालों के पास सब जगह पहुँच जाते हैं । जापति ने दस प्राण और ग्यारहवीं आत्मा की सहायता से स्तुति की । उससे वसन्त आदि ऋतुएं प्रकट हुई । उनके ऋतुपालक देवविशेष स्वामी बने, प्रजापति ने दस प्राण, दो पाद ( प्रतिष्ठा ), एक आत्मा इन तेरह अभ्यन्तरो संस्थानों से स्तुति की । उससे अधिमास सहित चैत्र आदि बारह मास उत्पन्न हुए । बो अयनों का अभिमानी वही उनका पालक हुआ । प्रजापति ने दस हाथ की अंगुलियाँ, दो हाथ, दो भुजा, एक नाभि का ऊध्वं भाग - इन पंचदश संस्थानों की सहायता से स्तुति की और क्षत्रिय जाति को उत्पन्न किया । इनका स्वामी इन्द्र बना । प्रजापति ने दस पैर की अंगुलियाँ, दो ऊरू, दो जानु, वो पाद और नाभि का अधोभाग -- इन सत्रह अवयवों की सहायता से स्तुति की । इससे ग्राम के गौ आदि पशुओं की रचना हुई । बृहस्पति इनके स्वामी बने ॥ २ ९ ॥ नवभिः सप्त शिरः प्राणा द्वावधो मलमूत्रत्यागमार्गस्थाविति सम्भूय नव प्राणास्तैः प्रजापतिरस्तोत् । ततः पितरोऽग्निष्वात्तादयः सृष्टाः । अदितिरखण्डिता प्रजापतिशक्तिः सृष्टानां पितॄणामधिपत्नी स्वामित्वे-नाधिकं पालयित्री आसीत् । एकादशभिः पूर्वोक्ता नव प्राणाः, दशमी नाभिः, एकादश आत्मा शरीरम्, तैरस्तुत । ततो वसन्तादय ऋतवः सृष्टाः । आर्तवा ऋत्वभिमानिनो देवास्तेषां स्वामिनोऽनुवन् । त्रयोदशभिः, उक्ता एकादश द्वौ पार्दा च सम्भूय त्रयोदश । तैः प्रजापतिरस्तोत् । ततो मासाश्चेत्रादयः सृष्टाः । षण्मासाभि-मान्ययनद्वयात्मकः संवत्सरस्तेषामधिपतिरासीत् । पञ्चदशभिः दश हस्ताङ्गुलयः करौ बाहू नाभेरूर्ध्वभागश्च तैरस्तोत् । ततः क्षत्रं क्षत्रियजातिः सृष्टा । इन्द्र ऐश्वर्यशाली तदभिमानी देवस्तस्याः स्वाम्यभूत् । सप्तदशभिः पादाङ्गुलयो दश ऊरू जानुनी पादौ नाभेरधोभागश्चेति । तैरेव प्रजापतिरस्तोत् । ततो ग्राम्या गवाश्वादयः पशवोऽजायन्त । बृहस्पतिस्तेषां स्वाम्यभूत् । अत्र ब्राह्मणम् -'नवभिरस्तुवतेति । नव वै प्राणाः सप्त शीर्षन्नवाची द्वो तैरेव तदस्तुवत पितरोऽसृज्यन्तेति पितरोऽत्रासृज्यन्तादितिरधिपल्यासीदित्यादितिरत्राधिपत्ल्यासीत् ' ( श ० ८ | ४ | ३ | ७ ) । अवाची द्वाविति । मलमूत्रद्वारस्थावित्यर्थः । पितरोऽग्निष्वात्ता बर्हिषदश्च असृज्यन्त । देवमाता अदितिरदीनत्वात् पितॄणामधिपत्न्यासीत् । ' एकादशभिरस्तुवतेति । दश प्राणा आत्मैकादशस्तेनैव तदस्तुवत ऋतवोऽ-सृज्यन्तत्यृतवोऽत्रासृज्यन्तार्तवा अधिपतय आसन्नित्यार्तवा अत्राधिपतय आसन् ' ( श ० ८ | ४ | ३ | ८ ) । ' नाभिर्दशमी ' ( तै ० ब्रा ० १ ३७१४ ) इति श्रुत्यन्तरान्नवभिः सहिताः पूर्वोक्ता दश, आत्मा देहः स चैकादशः । तस्मै एकादशाय अस्तुवत । आर्तव ऋत्वभिमानिदेवाः तेषामधिपतय आसन् ।

पृष्ठ 433

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 433 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० २ ९ -३०१ ] वेदार्थपारिजातभाष्यसहिता ३ ९ ७ ' त्रयोदशभिरस्तुवतेति । दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयोदशस्तेनैव तदस्तुवत मासा असृज्यन्तेति मासा अत्रासृज्यन्त संवत्सरोऽधिपतिरासीदिति संवत्सरोऽत्राधिपतिरासीत् ' ( श ० ८ ४ ३ ९ ) । द्वे प्रतिष्ठे इति द्वौ पादावित्यर्थः । अन्यत् स्पष्टम् । ' पञ्चदशभिरस्तुवतेति । दश हस्त्या अङ्गुलयश्चत्वारि दोर्बाहवाणि यदूध्वं नाभेस्तत्पदशं तेनैव तदस्तुवत क्षत्रमसृज्यतेति क्षत्रमत्रासृज्यतेन्द्रोऽधिपतिरासीदितीन्द्रोऽत्राधिपतिरासीत् ' ( श ० ८ | ४।३।१० ) । अत्र हस्तद्वयगता दशाङ्गुलयश्चत्वारि दोर्बाहवाणि दोर्द्वयं बाहुद्वयमिति चत्वारीत्यर्थः । नाभेरुपरिष्टाद्भाग सर्वोऽपि पञ्चदशः । क्षत्रं क्षत्रियजातिरसृज्यत, इन्द्रस्तस्या अधिपतिरासीत् । ' सप्तदशभिरस्तु -वतेति । दश पाद्या अङ्गुलयश्चत्वार्यर्वष्ठीवानि द्वे प्रतिष्ठे यदवाङ्नाभेस्तत्सप्तदशं तेनैव तदस्तुवत ग्राम्याः पशवोऽ • सृज्यन्तेति ग्राम्याः पशवोऽत्रासृज्यन्त बृहस्पतिरधिपतिरासीदिति बृहस्पतिरत्राधिपतिरासीत् ' ( श ० ८ | ४ | ३।११ ) । पाद्याः पादयोर्भवा अङ्गुलयो दश, ऊर्वष्ठीवानि चत्वारि ऊरुद्वयमष्ठीवद्वयं च । अष्ठोवच्छब्देन जानुमण्डलभाग उच्यते । द्वे प्रतिष्ठे द्वौ पादो । नाभेरधोभागः सप्तदशसंख्यापूरणः । ग्राम्याः पशवो गोमहिषाजादयः ॥ २ ९ ॥ नवदशभिरस्तुत शूद्रार्याव॑सृज्येतामहोरात्रे अधिपत्नी आस्तामेकविशत्याऽस्तुवते -केशफाः प॒शवो॑ऽसृज्यन्त॒ वरु॒णोऽधिपतिरासीत् त्र्यो॑विशत्याऽस्तुवत क्षुद्राः प॒शवो॑ऽसृज्यन्त पू॒षाधि॑पतिरासी॒त् पञ्च॑विशत्याऽस्तु ब॒तार॒ण्याः प॒शवो॑ऽसृज्यन्त वायुरधि॑िपतिरासीत् स॒प्तवि॑िशत्याऽस्तु॒वत॒ द्यावा॑पृथि॒वी व्ये॑ता॒ वस॑वो रु॒द्रा आ॑दि॒त्या अ॑नु॒व्याय॒स्त ए॒वाधि॑पतय आसन् ॥ ३० ॥

II 2 मन्त्रार्थ -- प्रजापति ने बस हाथ की अंगुलियों और ऊपर नीचे के नवद्वाररूप नो प्राणों से स्तुति की । उससे शूद्र और वैश्य जाति उत्पन्न हुई । दिन और रात उनके स्वामी बने । बीस हाथ पैर की अंगुलियों और एक आत्मा से प्रजापति ने स्तुति की । इससे एक खुर वाले पशु उत्पन्न हुए । वरुण उनके स्वामी बने । बीस हाथ पैर की अंगुलियों, दो चरणों और एक आत्मा से प्रजापति ने स्तुति की । इससे क्षुद्र पशु अजा आदि उत्पन्न हुए । पूषा उनके स्वामी बने । बीस हाथ पैर की अंगुलियों, दो हाथ, वो चरण और एक आत्मा की सहायता से प्रजापति ने स्तुति की । उससे वन के कृष्णमृग आदि पशु उत्पन्न हुए । वायु उनके स्वामी बने । बीस हाथ - पैर की अंगुलियों, दो भुजाओं, दो ऊरू, प्रतिष्ठा, एक आत्मा इन सत्ताईस अवयवों को सहायता से प्रजापति ने स्तुति की । इससे स्वर्गलोक, भूलोक और अन्तरिक्ष लोक प्रकट हुए । वसुगण, रुद्रगण और आदित्यगण इनके अनुगत होने से क्रमशः यही तीन उक्त तीनों लोकों के स्वामी बने ॥ ३० ॥

नवदशभिः, दश हस्ताङ्गुलय ऊर्ध्वाधश्छिद्ररूपा नव प्राणाश्च नवदश, तैरस्तोत् । ततः शूद्राय शूद्रवैश्यो असृजेतां सृष्टी, ' अर्य: स्वामिवैश्ययो: ' ( पा ० सू ० ३।१।१०३ ) इति पाणिनिस्मरणात् । अहोरात्रे तयोः स्वामित्वेनास्ताम् | एकविंशत्या विंशतिः करचरणाङ्गुलय आत्मा चेत्येकविंशतिस्तया अस्तीत् । तत एकशफाः पशवोऽश्वादयः सृष्टाः । एकं शफं खुरः प्रतिपादं येषां ते, ' शफं क्लीबे खुरः पुमान् ' ( अ ० को ० २ / ८ / ४ ९ ) इत्यमर-कोषवचनात् । वरुणस्तेषामधिपतिरासीत् । त्रयोविंशत्या करपादाङ्गुलयोविंशतिः पादौ आत्मा चेति त्रयोविंशति-स्तथा अस्तीत् । ततः क्षुद्राः पशवोऽजादयः सृष्टाः । तेषां स्वामी पूषाऽभूत् । पचविंशत्या विंशतिः करपादाङ्गुलयः करो पादौ आत्मा चेति तैरस्तोत् । व्रत आरण्याः पशवः कृष्णमृगादयः सृष्टाः । तेषां स्वामी वायुरभूत् । सप्तविंशत्या

पृष्ठ 434

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 434 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३ ९ ८ शुक्लयजुर्वेद संहिता [ अ ० ] १४ करपादाङ्गुलयः करौ पादौ आत्मा चेति तेरस्तोत् । ततो द्यावापृथिवी द्युभूलोको व्यैतां विशेषेण आगच्छतामित्यर्थः । विपूर्वादिण्गताविति धातोर्लङि प्रथमपुरुषद्विवचनम् । वसवोऽष्टौ रुद्रा एकादश आदित्या द्वादशेति ते अनुव्यायन् अन्वगच्छन् । त एव स्वामिनोऽभूवन् । अत्र ब्राह्मणम् —'नवदशभिरस्तुवतेति । दश हस्त्या अङ्गुलयो नव प्राणास्तैरेव तदस्तुवत शूद्रार्यावसृज्ये -तामिति शूद्रार्यावत्रासृज्येतामहोरात्रे अधिपत्नी आस्तामित्यहोरात्रे अत्राधिपत्नी आस्ताम् ' ( श ० ८ | ४।३।१२ ) । ' एकविंशत्याऽस्तुवतेति । दश हत्या अङ्गुलयो दश पाद्या आत्मैकवि शस्तेनैव तदस्तुवतैकशफाः पशवोऽसृज्यन्तेत्येकशफाः पशवोऽत्रासृज्यन्त वरुणोऽधिपतिरासीदिति वरुणोऽत्राधिपतिरासीत् ' ( श ० ८ | ४ | ३ | १३ ) । एकशफाः पशवः गर्दभाश्वादयः, ' अप्सुयोनिर्वा अश्व: ' ( श ० १३ | २ | २ | १ ९ ) इति श्रुतेः, अपां च वरुणस्वामि-करवादेकशफानां वरुणोऽधिपतिरासीदित्युक्तम् । ' त्रयोविशत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्या द्वे प्रतिष्ठे आत्मा त्रयोवि शस्तेनैव तदस्तुवत क्षुद्राः पशवोऽत्रासृज्यन्त पूषाधिपतिरासीदिति पूषात्राधिपति-रासीत् ' ( श ० ८ | ४ | ३ | १४ ) । क्षुद्राः पशवोऽजाविप्रभृतयः तेषां पूषा पुष्ट्यभिमानी देवोऽधिपतिः स्वामी इत्यभिप्रायः । ‘ पञ्चवि‍शत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दवा पाद्याश्चत्वार्यंङ्गान्यात्मा पञ्चवि १५ शस्तेनैव तदस्तुवतारण्याः पशवोऽसृज्यन्तेत्यारण्याः पशवोऽवासृज्यन्त वायुरधिपतिरासीदिति वायुरत्राधिपतिरासीत् ' ( श ० ८ | ४ | ३ | १५ ) । चत्वार्यङ्गानीति द्वौ पादौ पाणी चेत्यर्थः । आरण्यानां वायुरधिपतिरित्यर्थः । ' सप्तवि शत्यास्तुवतेति । दश हस्त्या अङ्गुलयो दश पाद्याश्चत्वार्यङ्गानि द्वे प्रतिष्ठे आत्मा सप्तवि शस्तेनैव तदस्तुवत द्यावापृथिवी व्यतामिति द्यावापृथिवी अत्र व्येतां वसवो रुद्रा आदित्या अत्रानुव्यायंस्त एवाधिपतय आसन्निति त उ एवात्राधिपतय आसन् ' ( श ० ८ | ४ | ३ | १६ ) | द्यावापृथिवी अत्र व्यतामिति । पूर्वसृष्टे द्यावा-। संसर्गस्तु शाखान्तर उक्तः-- - ' " द्यावापृथिवी संसृष्टे आस्तां ते पृथिव्यो प्राप्युपकारार्थं विभक्ते अभवताम् वि r ती अब्रूताम् ' ( तै ० ब्रा ० १ १ ३ २ ) । द्यावापृथिव्योर्ग्रहणेन तदन्तरालवर्तिनोऽन्तरिक्षस्यापि ग्रहणं बोध्यम् । अत एव तत्तत्स्वामिनो वसवो रुद्रा आदित्या अनुध्यायन्नित्युक्तम् । अध्यात्मपक्षे -- नवदशभिः पूर्वोक्तैः परमात्मानं प्रजापतिरस्तौत्, ततः शूद्रार्यावसृज्येताम् अहोरात्रे तयोरधिपत्नी स्वामिनावभूताम् । एवमेवान्यदपि व्याख्येयम् । दयानन्दस्तु -- ' हे मनुष्याः, यूयं येनोत्पादिते अहोरात्रे अधिपत्नी आस्ताम् येन शूद्रार्यावसृज्येताम्, तं परमात्मानमेकविंशत्या स्तुवत । येन निर्मितः पूषाधिपतिरासीत् येन पशवोऽसृज्यन्त तं त्रयोविंशत्यास्तुवत | येनोत्पादितो वायुरधिपतिरासीत्, येनारण्याः पशवोऽसृज्यन्त तं पञ्चविंशत्यास्तुवत । येन सृष्टे द्यावापृथिवी व्यताम्, येन रचिता वसवो रुद्रा आदित्या अनुव्यायन् तं सप्तविंशत्या स्तुवत ' इति, तदपि यत्किचित्. स्वसिद्धान्तभङ्गप्रसङ्गात् । तथाहि शूद्रार्यावित्यत्र शूद्रस्यार्यस्य चोत्पत्तावभ्युपगम्यमानायां शूद्रा आर्य पदव्य-देश्यायोग्या इत्यायातम् । सामाजिकैस्तु सर्व एवार्या उच्यन्त इत्यपसिद्धान्तापातः सुस्थिरः । किञ्चात्र पूर्व ब्रह्मक्षत्रिययोरुत्पत्तिः समाम्नाता, तेनात्र शूद्रवैश्ययो रेवोत्पत्तिर्वक्तव्या । अत एव सिद्धान्त व्याख्याने ' अर्यः स्वामिवैश्ययोः ' इति पाणिनिसूत्रमुद्धृतम् । ' मनुष्याणां त्रयोविंशतिसंख्याकैरवयवैः स्तुवन्तु ' इत्यपि यत्किञ्चित्, अवयवेषु स्वावकत्वानुपपत्तेः । सिद्धान्ते तु स्रष्टुर्गुणाभिव्यञ्जनरूपा स्तुतिः सम्भवत्येव, ' अभिमानिव्यपदेशस्तु '

( ब्र ० सू ० २०१५ ) इति न्यायात् । तदधिष्ठातृदेवैर्वा तत्सम्भवः ॥ ३० ॥

१. तत्र तु — ' द्यावापृथिवी सहास्तां ते त्रियती अब्रूताम् ' इति पाठः । -

पृष्ठ 435

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 435 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३१ ] वेदार्थपारिजातभाष्यसहिता ३ ९९ नव॑विशत्याऽस्तुवत॒ वन॒स्पत॑योऽसृज्यन्त॒ सोमोऽधि॑पतिरास॒देक॑त्रिशताऽस्तुवत प्रजा अ॑सृज्यन्त॒ यश्चाय॑वा॒श्चाधिपतय आसंस्त्रयस्त्रिंशताऽस्तुवत भूतान्यशाम्यन् प्र॒जाप॑तिः परमे॒ष्ठ्चधि॑प॑तिरासील्लो॒कं ता इन्द्र॑म् ॥ ३१ ॥

sa श्रीमाध्यन्दिनीयायां वाजसनेयसंहितायां चतुर्दशोऽध्यायः ॥ मन्त्रार्थ - बीस हाथ पैर की अंगुलियों और नो प्राणों के छिद्रों से प्रजापति ने स्तुति की । इससे वनस्पति, अश्वत्थ, वट आदि की रचना की । उनके स्वामी सोम बने । बोस हाथ पैर की अंगुलियों, दस इन्द्रियों और एक आत्मा इन इकतीस अवयवों की सहायता से प्रजापति ने स्तुति की । इससे अन्यान्य सारी प्रजा की सृष्टि हुई । पूर्व पक्ष और उत्तर पक्ष इनके स्वामी बने । बीस अंगुलियों, दस इन्द्रियों, दो पाद और आत्मा इन तैंतीस अवयवों से प्रजापति ने स्तुति की । इससे अब तक उत्पन्न समस्त प्राणियों को शान्ति का लाभ हुआ, सारी प्रजा सुखपूर्वक रहने लगी । सत्य लोक में स्थित होने वाले प्रजापालक ईश्वर उनके स्वामी बने ॥ ३१ ॥

नवविंशत्या करपादाङ्गुलयो विंशतिः सप्त शीर्षण्याः प्राणाः, हावयाची, सम्भूय नवविंशतिस्तया । ततो वनस्पतयोऽश्वत्थवटाद्याः सृष्टाः । तेषां स्वामी सोम आसीत् । एकत्रिंशता करपादाङ्गलयो विंशतिः, दशेन्द्रियाणि आत्मा चैकत्रिंशत् तैरस्तुवत । ततः प्रजाः सृष्टाः । यवाः पूर्वपक्षाः, अथवा अपरपक्षाः, स्वामिनोऽभूवन् । त्रयस्त्रिशता अङ्गलय इन्द्रियाणि पादो आत्मेति । तैर्देवैः सह प्रजापतिरस्तवत । ततो भूतानि सर्वे प्राणिनोऽशाम्यन् शान्ताः सुखिनोऽभूवन् परमेष्ठी परमे सत्यलोके तिष्ठतीति परमेष्ठी प्रजापतिः सर्वभूतानामधिपतिरासीत्, अत्र या या इष्टका येन येन मन्त्रेणोपधेया सा सा तन्मन्त्रोपदिष्टदेवतारूपेण ध्येयेत्यर्थः । ‘ उत्तरा 9 सादधि लोकम्पृणाः पूर्ववत ' ( का ० श्री ० १७।१०।१८ ) । उत्तरांसादारभ्य प्रागनुकोत्तरांसाक्ष्णया देशान्तराले मध्यपर्यन्तं ततो दक्षिणपक्षपुच्छोत्तरपक्षेषु प्रथमचितिवल्लोकम्पृणा उपधाय प्रत्येत्य प्रागनुकम्य दक्षिणत आरभ्य प्रदक्षिणमुत्तरांसाक्ष्णयादेशपर्यंन्तं पूर्ववल्लोकम्पृणा उपदध्यात् । पुरीषनिवपनं सप्तर्चोपस्थानं च कुर्यादिति सूत्रार्थः । अत्र ब्राह्मणम् –'नववि 9, शत्यास्तवतेति । दश हस्त्या अङ्गुलयो दश पाद्या नव प्राणास्तैरेव तदस्तुवत वनस्पतयोऽसृज्यन्तेति वनस्पतयोऽत्रासृज्यन्त सोमोऽधिपतिरासीदिति सोमोऽत्राधिपतिरासीत् ' ( श ० ८ | ४ | ३ | १७ ) | अत्र वनस्पतिशब्देन ओषध्यादयोऽपि विवक्षिताः, तासां पृथगनभिधानात् । ' एकत्रि ११ शतास्तुवतेति । दश हत्या अङ्गुलयो दश पाद्या दश प्राणा आत्मैकत्र शस्तेनैव तदस्त्वत प्रजा असृज्यन्तेति प्रजा अत्रासृज्यन्त यवाश्चायवाश्चाधिपतय आसन्निति पूर्वपक्षापरपक्षा एवात्राधिपतय आसन् ' ( श ० ८ | ३ | १८ ) । विविच्याभिहितं संगृह्याभिधत्ते - प्रजा असज्यन्तेति । तासां यवाश्चायवाश्चाधिपतय आसन् । अत एव प्रजा अधीयन्तेति न पुनरुक्तिः । तासां यवाश्चायवाश्चाधिपतय आसन् । सर्वासां प्रजानामुत्पत्तेः कालसव्य-पेक्षत्वान्मासत्र्त्वादिकालस्य पूर्वपक्षा परपक्षावृत्तिसाध्यत्वात् तेषां तदधिपतित्वाभिधानमिति द्रष्टव्यम् । ' त्रयस्त्रि, शतास्तुवतेति । दश हस्त्याङ्गुलयो दश पाद्या दश प्राणा द्वे प्रतिष्ठे आत्मा त्रयस्त्रि शस्तेनैव तदस्तुवत भूतान्यशाम्यनिति सर्वाणि भूतान्वत्राशाम्यन् प्रजापतिः परमेष्टयधिपतिरासीदिति प्रजापतिः परमेष्टयत्राधिपतिरासीत् ' ( श ० ८ | ४ | ३ | १ ९ ) । श्रयस्त्रिशेन स्तोमेन स्तुते सर्वाणि भूतान्य शाम्यन्

पृष्ठ 436

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 436 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४०० शुक्लयजुर्वेदसंहिता [ अ ० १४ स्थाने तिष्ठतीति अपगसोपद्रवाण्यभवत् । त्रयस्त्रिशस्तोमो हि सर्वेषां स्तोमानां श्रेष्ठः । अतः परमे निरतिशये यत्तम् । ' ता वा एताः । सप्तदशेष्टका उपदधाति परमेष्ठी, तादृशः प्रजापतिहिरण्यगर्भोऽत्राधिपतिरिति प्रजनयित्रताः प्रजाः सप्तदशो वे संवत्सरः प्रजापतिः स प्रजनयिता तदेतेन वै सप्तदशेन संवत्सरेण प्रजापतिना सिचोर्वेलया पृष्टयो वै प्राजनयत यत्प्राजनयदसृजत तदस्जत तस्मात् सृष्टयस्ताः सृष्ट्वात्मन् प्रपादयते सर्वत रेतः एवास्मिन्नेताः प्रजाः रेतः सिटी मध्यम पृष्टयो मध्यत एवास्मिन्नेताः प्रजाः प्रपादयति सर्वत उपदधाति संवत्सरात्मकः प्रजापतिः प्रपादयति ' ( श ० ८ । ४ । ३ । २० ) । इष्टकागतां संख्यां स्तौति - ता वा एता इति । एव भूतानां प्रजनयिता तत्स्रष्टव्यं सप्तदशः सप्तदश समुदायात्मकः, द्वादश मासाः पञ्चर्तव इति सप्तदशता । स प्रजापतिना स्वकीयकालात्मकशरीरेण जगत्सवा स प्रजापतिस्तेन सप्तदशेन सप्तदश संख्यात्मकेन संवत्सरलक्षणेन कालत प्रजनयित्रा सर्वोत्पादकेन एता ब्रहक्षत्रादिरूपाः प्रजाः प्राजनयद् उदपादयत् । सर्वेषामेवोत्पत्तिमतां सृष्टय एवोत्पत्तेः प्रजनयित्त्वम् । तद्यदसृजत तस्मात् सर्जनात् सुथ्र्य इत्युक्तम् । ननु सृष्टाः प्रजाः । कथमिष्टकाः इत्युच्यन्ते? इति चेन्नैष दोषः, इष्टकासु तासामध्यस्तरूपत्वात् । अन्यत् पूर्वं व्याख्यातमेव अध्यात्मपक्षे - देवः सह प्रजापतिर्नवविंशत्या हस्तपादयोविंशतिरङ्गलयो । नव तथैव प्राणास्तैरेतैः एकत्रिंशताऽस्तीत् परमात्मान- । मस्तौत् । ततः प्रजा असृज्यन्त यवाश्चायवाश्च पूर्वापरपक्षास्तत्राधिपतय आसन् तेषामधिपतिर्जातः । परमेश्वरानु-ततो भृतान्यशाम्यन् शान्ताः सुखिनः सञ्जाताः । परमेष्ठी हिरण्यगर्भश्च ग्रहेणैव प्रजापतिः सर्वमुत्पादितवान् । स एव सर्वजनकत्वात् सर्वाराध्य इत्यर्थः । तं जगदीश्वरं दयानन्दस्तु - ' हे मनुष्याः, यूयं येनोत्पादिताः सोमोऽधिपतिरासीत्, येन ते वनस्पतयोऽसृज्यन्त प्रकृत्यवयवाः सत्त्वरजस्तमांसि नवविंशत्या स्तुवन्तु । यासां यवा मिश्रिताः पर्वतादय त्रसरेणवः, अयवाः । यस्य प्रभावाद् भूतान्यशाम्यन्, गुणाः परमावश्चाधिपतय आसन्, ताः प्रजा येनासृज्यन्त तमेकत्रिशतास्तुवत येनोत्पादिताः सोम यः प्रजापतिः परमेष्ठ्यधिपतिरासीत्, तं त्रयस्त्रिशतास्तुवत ' इति, तदपि यत्किश्चित् । नवविंशतिरङ्गानि इत्यादेनि मूलत्वात् । ' सोमेन ते वनस्पतय उदपाद्यन्त ' इत्यप्यसाम्प्रतम्, निर्मूलत्वादेव कानि? कथं च तस्तत्स्तुतिरित्याद्यनुक्तेः ॥ ३१ ॥

इति श्रीवेदार्थपारिजातभाष्ये चतुर्दशोऽध्यायः ॥

पृष्ठ 437

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 437 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

अ जातान् पञ्चदशोऽध्यायः

प्रदानः स॒पत्नान् प्रत्यजा॑तान् नुद जातवेदः ।

अर्ध नो ब्रूहि सपना अहेडस्तवं स्याम शर्मास्त्रिवरूथ उद्धौ ॥ १ ॥

2 मन्त्रार्थ हे सबको जानने वाले अग्निदेव! हमारे पूर्व उत्पन्न शत्रुओं को पूरी तरह से नष्ट कर दो । अब उत्पन्न होने वाले शत्रुओं को भी नष्ट कर दो । अच्छे मन से क्रोधरहित होकर हमें वर प्रदान करो । हे अग्निदेव! आपकी प्रसन्नता के कारण सुख से सम्पन्न होकर हम मनुष्य, पशु, धन धान्य आदि के प्रभवस्थान सर्वोमण्डप, हविर्धाग्य और आग्नीध्र नामक तीन स्थानों में सदा यज्ञ का अनुष्ठान करें ॥ १ ॥

चतुर्दशेऽध्याये द्वितीयतृतीयचतुर्थचितिमन्त्रा उक्ताः । पञ्चदशेऽध्याये पञ्चमचितिमन्त्रा उच्यन्ते । ' पञ्चम्यामन्तेष्वाश्विनीवदसपत्ना: दक्षिणयोररत्न्यन्तरम्, अग्ने जातानिति प्रतिमन्त्रम् ' ( का ० श्री ० १७।११।१-३ ) । पञ्चम्यां चितौ प्रतिदिशमात्मनः प्रान्तेष्वाश्विनीवदसपत्नासंज्ञकाः पञ्चपद्या इष्टका ' अग्ने जातान् ', ' सहसा जातान् ', ' षोडशी ' ' चतुश्चत्वारिश: ' ' अग्नेः पुरीषम् ' इति पञ्चभिर्मन्त्रैरुपदध्यादिति सूत्रार्थः । पञ्चमचिति-मन्त्राणां परमेष्ठी ऋषिः । तत्र द्वे अग्निदेवत्ये त्रिष्टुभो । हे अग्ने, नः अस्माकं जातान् पूर्वमुत्पन्नान् सपत्नान् शत्रून् प्रणुद प्रकर्षेण नाशय । किञ्च, हे जातवेदः! जातप्रज्ञान अग्ने! अजातान् अनुत्पन्नांश्च इतः परमुत्पत्ति-! किञ्च, सुमनाः प्रसक्तियुक्तांश्च प्रतिनुद उत्पत्तिप्रतिबन्धेन निराकुरु । प्रतीत्युपसर्गव्यवधान मार्षम् स्नेहानुबन्धेन सानुग्रह चित्तः, अहेडन् अनादरमकुर्वन्, अनुपेक्षमाण इत्यर्थः । नः अस्मान् अधिब्रूहि अधिवद, उपदिशेति यावत्, यज्ञसम्बन्धिनीमितिकर्तव्यतामिति शेषः । किञ्च त्वत्सम्बन्धिनि त्रिवरूथे वरूथं गृहं त्रयाणां वरूथानां समाहारस्त्रिवरूथम्, तस्मिन् । अत्र यज्ञगृहे सदो हविर्धानाग्नीध्ररूपे । कीदृशे? शर्मन् शर्मणि सुखाश्रये । पुनः कीदृशे? उद्भौ उद्भवति समृध्यते द्विपदचतुष्पदधनधान्यादिभिरित्युद्भिः तस्मिन् । वयं स्याम भवेम । आर्षोऽयं प्रयोगो भवते डिप्रत्ययेन साधनीयः । नह्याकरे पञ्चपाद्यामुणाद्यां वा डिप्रत्ययोपलब्धिः । यद्वा हे अग्ने, जातान् उत्पन्नान् सपत्नान् समानपतित्वदर्शिनः प्रणुद प्रेरय नाशय अपुनरागमनायेति । प्रत्यजातान् प्रतिज्ञाय प्रतिज्ञाय अजातान् अनुत्पन्नान् जनिष्यमाणान् नुद उत्पत्तिप्रतिबन्धेन अनुत्पादाय प्रेरय । शर्मन् शरणे आश्रये त्रिवरूथे त्रिपुरे उद्धी उद्भिनत्ति अन्येषां यज्ञक्रतू नित्युद्भिः " तस्मिन् । शेषं पूर्ववत् । अत्र ब्राह्मणम् - ' पञ्चमों चितिमुपदधाति । एतद्वै देवाश्चतुर्थी चितिं चित्वा समारोहन् यदूर्ध्वमन्तरिक्षा-दर्वाचोनं दिवस्तदेव तत्संस्कृत्य समारोहन् ' ( ८ | ५ | १ | १ ) | विराजामुपधानमुपन्यस्यति – पञ्चमीं चितिमित्यादि । कुत एतदिति चेत् - ' तेऽब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवन्नित ऊर्ध्वमिच्छतेति ते चेत-यमाना दिवमेव विराजं पचमीं चितिमपश्यंस्तेभ्य एष लोकोऽच्छदयत् ' ( श ० ८५११२ ) । ' ते चेतयमाना विराजं पचमीं चितिमपश्यन् ' इति वचनात् ' एषा वै सा विराड् यां तद्देवा विराजं पञ्चमीं चितिमपश्यन् ' ( श ० ८०५/११५ ) इति वचनाच्च तेभ्यो देवेभ्यः, एष लोको यो नाम अच्छदयत् अरुचत् । यद्यपि ' छद अपवारणे ' इति चुरादौ पठ्यते, तथापि धातूनामनेकार्थत्वादत्र रुच्यर्थता । तथा सत्येव तेभ्य इत्यत्र ' रुच्यर्थानां प्रीयमाण: ' ( पा ० सू ० १ ४ | ३३ ) इत्यनेन सम्प्रदानत्वं ततश्चतुर्थीति नान्या चतुर्थी युज्यते । ' तेऽकामयन्त । ५१

पृष्ठ 438

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 438 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४०२ शुक्लयजुर्वेदसंहिता [ अ ० १५ असपत्नमिमं लोकमनुपबाधं कुर्वीमहोति तेऽब्रुवन्नुप तज्जानीत यथेमं लोकमसपत्नमनुपबाधं करवामहा इति ब्रुवं चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्तदिच्छत यथेमं लोकमसपत्नमनुपबाधं करवामहा इति ' ( श ० ८५ १ ३ ) । ' ते चेतयमानाः । एता इष्टका अपश्यन्न सपत्नास्ता उपादधत ताभिरेतं लोकमसपत्न-मनुपबाधमकुर्वत ' ' तस्मादेता असपत्नास्तथैवैतद्यजमानो यदेता उपदधात्येतमेवैतल्लोक मसपत्नमनुपबाधं कुरुते... ( श ० ८५/११४ ) इति कण्डिकाद्वयेनैतेन असपत्नानां पञ्चानामिष्टकानामुपधानं तस्य च देवा द्रष्टार इत्युच्यते । सर्वतः सर्वासु दिक्षु । परार्द्ध परस्मिन्नग्नेर्मार्गेऽन्ये लोक इत्यर्थः । पञ्चम्या उपधानं च वक्ष्यति ' अन्तरेण दक्षिणस्यां दिश्याम् ' ( श ० ८२५ | १ | १३ ) इति कण्डिकायाम् । ' अथ विराज उपदधाति । एषा वैसा विराड्यां तद्देवा विराजं पञ्चमों चितिमपश्यंस्ता दश दशोपदधाति दशाक्षरा विराड् विराडेषा चितिः सर्वत उपदधाति यो वा एकस्यां दिशि विराजति न वै स विराजति यो बाव सर्वासु दिक्षु विराजति स एव विराजति ' ( श ० ८ ११५ ) । अथ विराज इति । असपत्ना उपधाय अथ अनन्तरं विराज उपदधातीति क्रमवचनम् । अथ यदुक्तम्- ' पञ्चमीं चितिमुपदधाति ते चेतयमाना दिवमेव विराजं पञ्चमीं चितिमपश्यन् ' इति, किमियं पञ्चमी चितिः? किं पूर्वमुक्त एवार्थोऽत्र पुनरुपन्यस्यते, आहोस्विदन्यासामेवेष्टकानामपूर्वमेवेद-मुपधानमुपदिश्यते? इति सन्देहनिवृत्त्यर्थमाह - एषा वै सा विराडिति । ननु च ' अथ विराजः ' इति या विराज उपक्रान्ताः, कथं ता ' एषा वै सा विराट् ' इत्येकवचनेन परामृश्यन्ते? इति चेन्नैष दोषः, विराडक्षरास्तावच्छन्दो-वचनास्ते संख्या सामान्याच्च प्रयुज्यन्ते । तच्त छन्दो दशाक्षरेणवैकेनापि पादेन विराडित्युच्यते, चतुभिरपि । ततश्च तदनुकारेणायमत्र विरा ' इष्टकानां दशके यदा प्रयुज्यते, तदा ते चत्वारो दशका इति कृत्वा विराज इति बहुवचनं भवति । यदा तु चत्वारिंशदक्षरा विराट् च तत्सामान्यादिष्टकानामपि चत्वारिंशदेव विराज् इत्येतदभिप्रायकमेतदेकवचनमेव भवतीत्युपपन्नम् । उपधीयमाना कीदृशी सा विराट्? किं चत्वारिशदात्मिका, आहोस्विद् दशात्मिका? इत्यत आह - ता दश दशेति । दशात्मिका विराजो न चत्वारिशदात्मिका इति तदर्थः । चत्वारिंशद्विराज इत्येतदात्मका एव लोकाः । चतस्रो विराजो दशात्मिकास्ताश्चत्वारिंशद्यजुष्मत्य इति । अत्र सायणभाष्ये व्याख्यान्तरमपि प्रपञ्चितम् । तत्तु तत एवावसेयम् । ' यद्वैवैता असपत्ना उपदधाति । एतद्वै प्रजापतिमेतस्मिन्नात्मनः प्रतिहिते सर्वतः पाप्मोपायतत स एता इष्टका अपश्यदसपत्नास्ता उपाधत्त ताभिस्तं पाप्मानमपात पाप्मा वै सपत्नस्तद्यदेताभिः पाप्मान, सपत्नमपाहत तस्मादेता असपत्ना: ' ( श ० ८/५/१/६ ) । एवं तावद्देवैरसपत्ना विराजश्च दृष्टा इत्येतदुक्तम् । सम्प्रति ब्राह्मण-शेषेणासपत्नासु प्राजापत्यं दर्शनं प्रपञ्च्यते । परेण च ब्राह्मणेन विराड् ' एतस्मिन्नात्मनः ' इति तदूर्ध्वमध्या..... सर्वतः सर्वासु दिक्षु पाप्मा न क्षरणे पातव्यं तस्मादिति पाप्मा दृष्टादृष्टम् उपपातकम् । अदृष्टस्तावदधर्मः तत्पूर्वश्चाध्यात्मिको मोहरागद्वेषमिथ्याभिनिवेशनिद्रालस्यप्रमादव्याधिगौरवादि, बाह्यरचाकीर्तिप्रभवो विभूतिः, । साधनवैगुण्यष्टा द्वेष्यदात्मको दन्दशूकोऽन्यो वा न तु कुलशीतोष्णादि उपायतत इति ( प्रद्यां तु उपरमन्ते द्यतस्तस्मिन् ) । ' तद्यदेताभिः ' इत्यनेन सोपपन्नताकारणभूता असपत्ना इत्येतद्दर्शयति । ' तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं स्विम स पाप्मा नोपयतते यत्त्वेतत्करोति यद्देवा अकुवंस्तत्करवाणीत्ययो य एव पाप्मा यः सपत्नस्तमेताभिरपहते तद्यदेताभिः पाप्मान सपत्नमपहते तस्मादेता असपत्ना: सर्वत उपदधाति सर्वत एवैतत् पाप्मान. सपत्नमपहते परार्ध उपदधाति सर्वस्मादेवैतदात्मनः पाप्मान सपत्नमपहते ' ( श ० ८।५।१।७ ) । प्राजापत्यस्येतिहासस्यायमधियज्ञमुपसंहारः -- यद्देवा अकुर्वन्निति । प्रजापतिवद् देवैरप्युपहिता इति बहुवचनम् । इतरथा त्वेवमवक्ष्यत् तद्वा एतस्क्रियते यत्प्रजापतिरकरोदिति । इदमिति सन्निहितं प्रमाणान्तरं दृश्यं दर्शयति । चतुर्थ्यां चितो चितायां यजमानं स पाप्मा चोपयवते, इदं दृश्यत एव न वियोग: । एतस्यामवस्थायां स केन-

पृष्ठ 439

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 439 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १-२ 1 वेदार्थपारिजातभाष्यसहिता ४०३ चिदाध्यात्मिकेन बाह्येन चोपद्रवेणासाध्यत इत्यर्थः । ' अथो य एव ' इति यद्यप्य पूर्वपाप्मानमेनमपाहत तयोर्याभि-मनुष्यत्वात् तस्यास्त्येव कश्चित् पाप्मा । तम् ' एताभिर पाहते ' यः सपत्नः पाप्मविशेष एव यश्च समानार्थस्य पतिरेकार्थाभिलाषी सोऽपि सपत्नः समुच्यते । तस्य च भेदेन ग्रहणमिहासपत्नशब्दार्थः । एतदुक्तं भवति -असपत्नशब्दे सपत्नशब्दः पाप्मलक्षणार्थ: । सपत्नः स पाप्मा इत्येवार्थः । सर्वत उपदधातीति सर्वत उपधानेन सर्वस्मादेवैतदात्मनः पाप्मानं सपत्नमुपहते! ' स पुरस्तादुपदधाति । अग्ने जातान् प्रणुदा नः सपत्नानिति यथैव यजुस्तथा बन्धुरथ पश्चात् सहसा जातान् प्रणुदा नः सपत्नानिति यथैव यजुस्तथा बन्धुः ' ( श ० ८ | ५ | ११८ ) । ' सर्वत उपदधाति ' ( श ० ८२५ | १ | ७ ) इति श्रुत्या दिशः प्राप्ताः । सर्वत उपधाने कां दिशं प्रारभ्योपदध्यादिति प्रश्ने पुरस्तात् प्रथमं ततः पश्चात् ततो दक्षिणतस्तत उत्तरतो मध्ये चेत्युत्तरम् । यद्यपीह दिग्विधानं स्पष्टं नास्ति, यथा गायत्र्यादिषु तत्र हि - ' तस्य शिरो गायत्र्यः । ता यद् गायत्र्यो भवन्ति गायत्र हि शिरस्तिस्रो भवन्ति त्रिवृद्धि शिरः पूर्वार्ध उपदधाति पुरस्ताद्धोद शिर: ' ( श ० ८६ २२६ ) इति दिग्विधानं स्पष्टम्, तथाप्येत-दनुरोधेनैवाश्विनीकमुत्तरेण द्वितीयेषु लोकेषूपधेया इति गम्यते । यथैव यजुरितीष्टकाशरीरोऽग्निरात्मन्युप-धीयत इत्यभिप्रायः । ' सा या पुरस्तादग्निः । सा या पश्चादग्निः साग्निनैव तत्पुरस्तात् पाप्मानमपाहताग्निना पश्चात्तयेवैतद्यजमानोऽग्निनैव पुरस्तात् पाप्मानमपहतेऽग्निना पश्चात् ' ( श ० ८५११ ९ ) । पूर्वकण्डिको मर्थं स्पष्टयति - सा या पुरस्तादित्यादिना । सा या पुरस्तादुपधीयत इष्टकाभ्योऽग्निरूपा इष्टका, साग्निनैव पुरस्तात् पाप्मानमपहत । तथैवैतदेतेन पुरस्तादिष्टकोपधानेन यजमानोऽग्निनैव पुरस्तात् पाप्मानं हन्ति, अग्निनेव पश्चादपि पाप्मानं हन्ति । अध्यात्मपक्षे - हे अग्ने परमेश्वर! त्वं जातानुत्पन्नान् सपन्नान् बाह्यानान्तरांश्च शत्रून् प्रणुदा नाशय । अजातान् प्रतिनुद तदुत्पत्तिप्रतिबन्धेन निवर्तय । किञ्च, अहेडन् अनादर मकुर्वन्, अनुपेक्षमाण इति यावत् । सुमनाः शोभनमनस्कः संस्त्वमस्माकमधिवद उपदिशस्व प्राप्त्युपायानुष्ठानप्रकारमिति यावत् । किञ्च वयं तव त्वत्सम्बन्धिनि विथे त्रयाणां स्थूल सूक्ष्म कारणदेहरूपाणां वरूथानां गृहाणां समाहारस्त्रिवल्थं तस्मिन् । शर्मन शर्माणि सन्तोषावहे सुखाश्रये स्याम जीवन्मुक्ता भवेम । कीदृशे समाहारे? उद्भौ उद्भवन्ति सुखान दुःखानि च यस्मिन्नसौ उद्भु, तस्मिन् । ननु प्रार्थनामन्तरापि सर्व स्वभावादेव त्रिवरूये सम्भवन्ति, किमिति प्रार्थनयेति चेन्न, अज्ञानिनां विवेकाभावात् वृङ्घातात्मनैव स्थितत्वात् शरीरत्रयव्यतिरिक्तात्मदर्शिन एव शरीरेऽ-वस्थानसम्भवात् । ‘ सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन्! ' ( भ ० गी ० ५। १३ ) इति श्रीमद्भगवद्गीतोक्तः । दयानन्दस्तु - ' हे अग्ने राजन् त्वं नो जातान् प्रसिद्धात् सपत्नान् प्रणुद । हे जातवेदः, अजातान् अप्रकटान् शत्रून् नुद | अहेडन् अनादरमकुर्वन् सुमनाः प्रसन्नस्वान्तस्त्वं नोऽस्मान् प्रति अधिब्रूहि अधिकमुपदिश । यतो वयं तवउ उत्कृष्टानि वस्तूनि भवन्ति यस्मिन् तस्मिन्, त्रिवरूथे त्रीणि वरूथानि आध्यात्मिकाधिदैविकाधि-भौतिकानि सुखानि यस्मिन् तस्मिन् शर्मन् शर्मणि गृहे स्याम ' इति, तदपि यत्किचित्, अग्निपदेन राज्ञो ग्रहणे मानाभावात् । वरूथशब्दस्यापि त्वदुक्तार्थता स्वकपोलकल्पिता, निघण्टी तृतीयेऽध्याये गृहनामसु वरूथशब्द-पाठात् । उणादौ स्वव्याख्यायामपि सुखस्य वरूथशब्दार्थानुक्तेः ॥ १ ॥

सह॑सा जा॒तान् प्रणे॒दा नः स॒पत्नान् प्रत्यजा॑तान् जातवेदो नुदस्व ।

अनो ब्रूहि सुमन॒स्यमा॑नो व॒य ँ स्या॑म॒ प्रणे॒दा नः स॒पत्ना॑न् ॥ २ ॥

पृष्ठ 440

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 440 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४०४ शुक्लयजुर्वेदसंहिता [ अ ० १५ मन्त्रार्थ - हे सबको जानने वाले अग्निदेव! अब तक उत्पन्न हुए हमारे सभी शत्रुओं का सभी ओर से बलपूर्वक नाश कर दो, भविष्य में होने वाले शत्रुओं को उत्पन्न ही मत होने दो । अच्छे मन से क्रोधरहित हो हमारे सभी शत्रुओं से हमारी रक्षा करो, हमें बलवान् बनाओ । आपके प्रसाद से हम सदा शत्रुओं से बढ़ चढ़ कर रहें, हमारे सभी प्रकार के शत्रुओं को आप नष्ट कर दें ॥ २ ॥

ततः पश्चाद् दक्षिणाभिमुखः ' सहसा जातान् ' इत्यपरामुपदध्यात् । सहसा बलेन जातानुत्पन्नान् उत्पत्स्यमानानपि नोऽस्माकं सपत्नान् प्रणुद नाशय । यद्वा सहसा बलेन स्वशक्त्या उत्पन्नान् नः सपत्नान् प्रणुद | अजातान् प्रतिनुदस्व । आत्मनेपदमार्षम् । किञ्च सुमनस्यमानोऽस्मासु शुभचित्तः सन् नोऽस्मानधिब्रूहि । शत्रुभ्योऽधिकान् । नः सपत्नान् वद । तथा सति तव सत्यवचनसङ्कल्पत्वात् त्वदधिवदनेन वयं सपत्नेभ्योऽधिकाः स्याम भवेम सुमना भूयो भूयश्च प्रणुद | पुनरुक्तिरादरार्थी । सुमनस्यमान इति शोभनं मनो यस्यासौ सुमनाः, असुमनाः भवतीति सुमनस्यते ' भृशादिभ्यो भुव्यच्वेर्लोपश्च हल: ' ( पा ० सू ० ३।१: १२ ) इत्यभूततद्भावे क्यङ् । लोपाभाव आर्षः । ततः शानच् । अध्यात्मपक्षे -- हे जातवेदः! जातान् वेत्तीति जातवेदाः, अथवा जाता वेदा अस्माद्वा जातवेदाः परमेश्वर-स्तत्सम्बुद्धौ । शेषं पूर्ववत् । विजयस्व । दयानन्दस्तु - हे जातवेदः, हे राजन् त्वं नः सहसा बलेन जातान् सपत्नान् विरोधिनः प्रणुद तान् प्रत्यजातान् युद्धे अप्रकटान् शत्रुसेविनो मित्रान् जातवेदो जातप्रज्ञान नुदस्व पृथक्कुरु । सुमनस्यमानस्त्वम् वयमपि अधि नो ब्रूहि विजयोपायविधिमुपदिश । वयं तव सहायाः स्याम । यान्नः सपत्नान् त्वं प्रणुद ॥ २, ॥ तान् प्रणुदेम ' इति, तदपि यत्किञ्चित्, अल्पज्ञस्योपदेशानधिकारात्, सर्वज्ञस्योपदेशप्रार्थनानुपपत्तेश्च षोडशी स्तोम ओजो द्रवि॑णं चतुश्चत्वार॒शः स्तोमो॒ वच॒ द्रवि॑णम् । अ॒ग्नेः पुरी॑षम॒स्यप्सो॒ नाम॒ ता॑ त्वा॒ विश्वे॑ अ॒भिर्गृ॒णन्तु दे॒वाः । स्तोम॑पृ॒ष्ठा घृ॒तव॑ती॒ह सौद प्र॒जाव॑द॒स्मे द्रवि॒णा य॑जस्व ॥ ३ ॥

मन्त्रार्थ - - इष्टके! पंचदश कला और पक्ष के स्वामी आदित्यरूप षोडश वृतिमय स्तोम के प्रभाव से तुम्हें स्थापित करता हूँ । इस स्थल में तेज और धन की प्राप्ति हो । हे इष्टके! चौवालीस आवृत्ति वाला चतुश्चत्वारिंश करने स्तोम वाली रूप वज्र कान्तियुक्त धन प्राप्त करावे । रक्षक नाम से युक्त पंचदश कला वाले चन्द्र रूप अग्नि को तुम पूर्ण हो, सभी देवता तुम्हारी स्तुति करते हैं । सम्पूर्ण स्तोमपृष्ठ मन्त्रों के प्रभाव से होमे हुए घृत से संयुक्त होकर तुम इस चौथी चिति के ऊपर ठहरो, हमें इस अनुष्ठान के फलस्वरूप पुत्र और धन की प्राप्ति कराओ ॥ ३ ॥

अथ दक्षिणत उपदध्यात् । इष्टकादेवत्यं यजुः । हे इष्टके, यस्यास्तव षोडशी पञ्चदशकलस्य पक्षस्य भर्ता य आदित्यरूपः स्तोमः षोडशावृत्त्युपेतो वा यः स्तोमः, यच्च ओजो बलरूपं द्रविणं धनं त्वं तदुभयरूपासितां त्वामुपदधामि । अथोत्तरत उपदध्यात् । इष्टकादेवत्यं यजुः । हे इष्टके, यस्यास्तव चतुश्चत्वारिंशस्त्रिष्टुप् वज्राक्षरसम्मितः स्तोमश्चतुश्चत्वारिंशदावृत्या सम्पन्नो वा यः स्तोमः यच्च वर्चोरूपं द्रविणं धनं तदुभयरूपां त्वामुपदधामि । अथ मध्ये पञ्चमीमुपदध्यात् । त्रिष्टुप् । अप्सः, न प्ताति भक्षयति विनाशयतीत्यप्सो रक्षको नाम, ' सा भक्षणे ', योऽग्निस्तस्याग्नेश्चन्द्ररूपस्य पञ्चदशकलस्य पुरीषमसि पूरयित्री भवसि । हे इष्टके, या