वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 441–450
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 441–450
पृष्ठ 441
पाठ पढ़ें पाठ छिपाएँ
म ० ३ १ वेदार्थ पारिजात भाष्य सहिता ४०५ एवंविधा त्वं तां त्वां विश्वेदेवा अभिगृणन्तु स्तुवन्तु । स्तोमाः पृष्ठाश्च सन्ति यस्यां सा स्तोमपृष्ठा । अर्शआद्यच् चितौ सद । अर्थात् स्तोमः पृष्ठेश्च युता । घृतवती घृतमस्ति यस्यां सा होष्यमाणघृतयुक्ता । सा त्वमिह चतुर्थ्यां उपविश । अस्मे अस्मासु प्रजावत् पुत्रयुतं द्रविणं धनं यजस्व देहि । अत्र ब्राह्मणम् -'अथ दक्षिणतः । षोडशी स्तोम ओजो द्रविणमित्येकादशाक्षरा वै त्रिष्टुप् ष्टुभमन्तरिक्षं वज्रेणैतया चतस्रो दिश एष एव वज्रः पञ्चदशस्तस्यासावेवादित्यः षोडशी वज्रस्य भर्ता स एतेन पञ्चदशेन ' त्रिष्टुमा दक्षिणतः पाप्मानमपाहत तथैवैतद्यजमान एतेन पञ्चदशेन वज्रेणैतया त्रिष्टुभा दक्षिणतः पाप्मानमवहते ( श ० ८ | ५ | ११० ) | षोडशिमन्त्रोपात्तास्त्रिष्टुभोऽन्तर्गता इति दर्शयति - षोडशी स्तोम इत्यादिना । चेति त्रैष्टुभमन्त- कृत्वा । रिक्षमिति त्रिष्टुभो विकारभूतं त्रिष्टुभा वा सम्मितम्, दश दिश एकादशमन्तरिक्षं रुद्रायतनं दिशश्चतस्र इति तत्र उदयन्नेव सूर्यो मणिः, स च दश दिशोऽपेक्ष्य एकादशः । सूर्येणैव दिशो विभागाद् महत्यो । तस्य च वज्रं पञ्चदशः । पञ्चदशपरिमाणमस्य वज्रस्येति पञ्चदशः । उत्पत्त्यैवं वज्रमात्रेण प्रत्ययो द्रष्टव्यः यस्य पञ्चदशादित्यो भर्ता स च षोडशी । षोडशानां पूरण इत्येतस्मिन्नर्थे णिनिः । अथवा षोडशं स्थानमस्य यजमानस्यास्तीति षोडशी यजमानः । मत्वर्थीय एव णिनिः । एवं षोडश्युपादानेनैव वज्र इति त्रिष्टुभोऽनुपातं दर्शयित्वा प्रजापतिरेतेन ब्रूते, इमं मन्त्रार्थं दर्शयति । यः षोडशी स्तोम इति त्रिष्टुब वज्रस्तं । अर्थ हि पाप्मानमपहते तद्यदेताभि-यद्येतेनोपधेयमुपदधातीति । एवमुत्तरत्रापि यश्चतुश्चत्वारिंशो वज्रस्तमुपदधामीति मन्त्रार्थः पाहतेतीष्टकाभिरपयातो दर्शितः । तेन मन्त्रे इष्टका वज्रात्मिका दर्शनीया इति । ' अथोत्तरतः । चतुश्च-त्वारि शस्तोमो वर्चो द्रविणमिति चतुश्चत्वारिशदक्षरा वै त्रिष्टुप् त्रष्टुभो वज्रः स एतेन चतुश्चत्वारिख, शेन वज्रेणतया त्रिष्टुभोत्तरतः पाप्मानमपाहत तथैवैतद्यजमान एतेन चतुश्चत्वारि शेन वज्रेणैतया त्रिष्टुभोत्तरतः पादः । पाप्मानमपहते ' ( श ० ८ | ५ | १ | ११ ) । त्रिष्टुप् सम्मितो वज्रः, त्रिष्टुप् च चतुश्चत्वारिंशदक्षर । चतुभिः तदुपहितवदेव वज्रः एकैका दिगित्येवं संगृह्य एकादशं रुद्रस्थानमन्तरिक्षमपि चतुभिः पादैश्चतुश्चत्वारिंशद् भवति । ' अथ मध्ये | अग्नेः पुरीषमसीति ब्रह्म वै चतुर्थी चितिरग्निरु वै ब्रह्म तस्या एतत्पुरीषमिव यत्पञ्चम्यप्सो नामेति तस्योक्तो बन्धुः ' ( श ० ८ | ५ | १ | १२ ) । अग्निरु वै ब्रह्मेति चतुर्थ्यां चितौ ब्रह्मोपहितं तदग्न्यात्मकमिति दर्शयति । किदेवत्या पुनरेषा? पुरीषवती चन्द्रावतीति । अनन्तरं पूर्यते हैषा चन्द्रमाश्च देवमन्नमिति । तथा च ' अप्सो नाम ' इति मन्त्रवर्णस्य रसो नामेत्यर्थः । अध्यात्मपक्षे - हे राजराजेश्वरि, पञ्चदशकलस्य पक्षस्य भर्ता य आदित्यरूपः स्तोमः षोडशावृत्त्युपेतो वा यः स्तोमः, यच्च ओजो बलं द्रविणं धनं तदुभयरूपा त्वमसि । तां त्वामुपाश्रये । प्रशस्तानि षोडशाक्षराणि -वा सन्ति स्वररूपाणि, उच्चारणे परानपेक्षत्वात्, यस्मिन् स मन्त्रस्तोमः स्तुति समूहरूपः, ओजो लोकोत्तरसामर्थ्य रूपं द्रविणमनन्तैश्वयं तत्सर्वं त्वमेवासि । चतुश्चत्वारिशदावृत्त्या सम्पन्नो यः स्तोमस्त्रिष्टुब्रूपो वा यच्च वर्चस्तेजो यच्च द्रविणं तद्रूपा त्वमसि । यश्चाविनाशको नाम ( जाठररूपेण धारकः ) प्रसिद्धोऽग्निः, तस्य चन्द्ररूपस्य पञ्चदशकलस्य च पुरीषं पूरयित्री भवसि । हे देवि, यां त्वां विश्वेदेवा अभिगृणन्तु स्तुवन्ति स्तोमैः पृष्ठ: सामविशेषैश्च युता स्तुता सती स्वमिह भक्तहृदये सीद | अस्मभ्यं प्रजायुक्तं द्रविणं च देहि । दयानन्दस्तु - ' यः षोडशी प्रशस्ताः षोडशकलाः सन्ति यस्मिन् स स्तोमः स्तोतुमर्ह ओजः पराक्रमः, द्रविणं धनं यश्चत्वारिंश एतत्संख्यापूरको ब्रह्मचर्यव्यवहारकरः स्तोमो स्तुवन्ति येन स नाम प्रसिद्धं विश्वेदेवा द्रविणं च ददाति • योऽग्नेः पुरीषं पूर्तिकरं प्राप्तोऽप्सो न विद्यते परपदार्थस्य प्सो भक्षणं यस्य सः, तं त्वां तां च । अस्मे अभिगुणन्तु । सा त्वं स्वोमपृष्ठा स्तोमाः पृष्ठा ज्ञापयितुमिष्टा यस्याः सा घृतवती सतीह गृहाश्रमे सीद
पृष्ठ 442
पाठ पढ़ें पाठ छिपाएँ
४०६ शुक्ल यजुर्वेदसंहिता [ अ ० ] १५ अस्मभ्यं प्रजावद् द्रविणं च आयजस्व ' इति, तदपि यत्किञ्चित् षोडशी षोडशकला सम्पन्नः कोऽत्र वर्णितः? इति तदनिरूपणात् । स्तोमशब्दस्य स्तोतुमर्ह इति कथमर्थः? चत्वारिंश इत्यस्य ब्रह्मचर्यव्यवहारकर इति कथमर्थः? कथं च स तत्संख्यापूरक:? किं च तत्प्रमाणमित्याद्यनुक्तेश्च । वर्च इत्यस्य अध्ययनमर्थोऽप्य-साम्प्रतम् । स्तोमपृष्ठाघटकपृष्ठपदस्य ज्ञापयितुमिष्टेत्यर्थोऽपि निर्मूल एव ॥ ३ ॥
एव॒श्छन्दो॒ वरि॑व॒श्छन्द॑ः श॒म्भुश्छन्द॑ः परिभूश्छन्द॑ आ॒च्छच्छन्दो॒ मन॒श्छन्दो व्यच॒श्छन्द्ः सिन्धुइछन्दः समुद्रश्छन्दः सर॒रं छन्द॑: क॒कुप् छन्द॑स्त्रककुप् छन्द॑ः क॒व्यं छन्दों अकुपं छन्दोऽतरपक्तिश्छन्दः पदपङक्तिश्छन्दों विष्टारपङक्तिश्छन्दः क्षरोभ्रजश्छन्दः ॥ ४ ॥
12 मन्त्रार्थ --- हे इष्टके! जिसमें सब प्राणी चलते हैं, ऐसे भूलोक को मनन करते हुए तुम्हें मैं स्थापित करता हूँ । प्रभामण्डल से व्याप्त अन्तरिक्ष लोक को, सुखदायक द्युलोक को, सब ओर से व्याप्त कर वर्तमान दिशाओं को, अपने रस से शरीर को आच्छादित करने वाले अन्न को, प्रजापति रूप मन को, सब जगत् को व्याप्त करने वाले आदित्य को नाड़ियों द्वारा शरीर को व्याप्त करने वाले प्राण वायु को, समुद्र के समान गम्भीर विकल्पयुक्त मन को, मुख से निकलने वाली वाणी को, शरीर को धारण करने वाले प्राण को, पिये हुए जल को परिणत करने वाले उदान को, तीन वेदों को, कुटिल गति से चलने वाले जल को नाशरहित स्वर्गलोक को, चरण रखने के स्थान भूलोक को, सकल वस्तुओं के विस्तार स्थान पाताल को तीव्रता से आकाश में चमकने वाले विद्युत्पुञ्ज को और आदित्य को मनन करते हुए सावधानी से मैं तुम्हें यहाँ स्थापित करता हूँ ॥ ४ ॥
' विराजो दश दश प्रतिदिशं पुरस्तात् प्रथममेवरछन्द इति प्रतिमन्त्रम् ' ( का ० श्री ० १७११११५ ) । ततः सर्वासु दिक्षु दश दश सपत्नासंलग्ना अनूकमभितो विराट्संज्ञका इष्टका उपदध्यात् । ताश्च चत्वारिंशत्पद्या एवेति सूत्रार्थः चत्वारिशद्यजूंषि इष्टकादेवत्यानि । एवः एति गच्छति सर्वजन्तुसमूहो यस्मिन्नित्येवः पृथिवोलोकः, स एव छन्दोरूपेण स्थितत्वात् छादकत्वाद्वा छन्दः । हे इष्टके! त्वं तद्रूपासि, तां त्वामुपदधामीति शेषः । एवमुत्तरमन्त्रेषु श्रुत्युक्ता व्याख्या ज्ञेया, ' अयं वै लोक एवश्छन्द: ' ( श ० ८ | ५ | २ | ३ ) इति श्रुतेः । विश्छन्दः, द्रियते आव्रियते प्रभामण्डलेनेति वरिवोऽन्तरिक्षं स एव छन्दः, ' अन्तरिक्षं वै वरिवश्छन्दः ' ( श ० ८५२३ ) इति श्रुतेः । शम्भूश्छन्दः शं सुखं भवत्यस्मादिति शम्भूर्युलोकः, ' द्यौर्वै शम्भूश्छन्दः ' ( ० ८५ २३ ) इति श्रुतेः । परिभूश्छन्दः परितो भवति व्याप्य वर्तत इति परिभूदिग्वाचकः, ' दिशो वै परिभूश्छन्दः ' ( शः ८ | ५ | २ | ३ ) इति श्रुतेः । आच्छच्छन्दः, आच्छादयति स्वरसेन सर्वं शरीरमित्याच्छदन्नम्, ' अन्नं वा आच्छच्छन्दः ' ( श ० ८ | ५ | २३ ) इति श्रुतेः । मनश्छन्दः प्रथमसृष्टं प्रजापत्यात्मकं यन्मनस्तदेव छन्दः, तद्रूपासि, प्रजापतिर्वे मनश्छन्दः ' इति श्रुतेः । व्यचश्छन्दः, व्यचतिर्व्याप्तिकर्मा, विचति व्याप्नोति सर्वं जगदिति व्यच आदित्यः, ' असौ वा आदित्यो व्यचः ' इति श्रुतेः । सिन्धुश्छन्दः स्यन्दते नाडोभिः शरीरं व्याप्नोतीति सिन्धु: प्राणवायुः, ' प्राणो वै सिन्धुश्छन्दः ' ( श ० ८५ २/४ ) इति श्रुतेः । समुद्रश्छन्दः समुद्रवन्त्यस्माद्विकल्पसमूहा इति समुद्रो मनः, ' मनो वै समुद्रः ' इति श्रुतेः । यद्वा समुद्रसाम्याद् गाम्भीर्येण समुद्रो मनः । सरिरं छन्दः, सरिरं सलिलम्, रलयोरैक्यम्, सरति वदनगह्वरान्निर्गच्छतीति सरिरं वाक्, ' वाग्वै सरिरं छन्दः ' इति: ' श्रुतेः इति । ककुप्छन्दः कं सुखं शरीरे स्कुनाति धारयतीति ककुप् प्राणः सलोपश्छान्दसः, ' प्राणो वै ककुप्छन्द । श्रुतेः । त्रिककुप्छन्दः त्रेधा कं पीतमुदकं स्कुभ्नातीति त्रिककुब् उदानः, ' उदानो वै त्रिककुप्छन्दः ' छन्दः इति ' श्रुतेः इति काव्यं छन्दः कवेः क्रान्तदर्शिनः परमात्मन इदं काव्यं वेदत्रयीरूपं छन्दः, ' त्रयो विद्या काव्यं
पृष्ठ 443
पाठ पढ़ें पाठ छिपाएँ
म ०४ ] वेदार्थ पारिजातभाष्यसहिता ४०७ श्रुतेः । अकुपं छन्दः । ' अकि कुटिलायां गतो ' । अङ्केन कुटिलगत्या आप्नोतीति अङ्कुपम् उदकम्, ' आपो वा अकुपं छन्द: ' इति श्रुतेः । अक्षरपक्तिश्छन्दः, न क्षरतीत्यक्षरा नाशरहिता पङ्क्तिर्नक्षत्राणामावलियंस्या सा अक्षरपङ्क्तिद्यौः, ' असो वै लोकोऽक्षरपङ्क्तिः ' इति श्रुतेः । पदपङ्क्तिश्छन्दः पदानां चरणन्यासानां पङ्क्तयो यस्मिनसो पदपङ्क्ति लोकः, ' अयं वै लोकः पदपङ्क्ति छन्दः ' इति श्रुतेः । त्रिष्टारपङ्क्तिश्छन्दः, विस्तीर्यंत इति विस्तारा विस्तारिता प्रसारिता वस्तूनां पक्तयो यत्रेति विटारपक्तिर्दिक्, ' दिशो वै विष्टार पक्तिश्छन्दः ' इति श्रुतेः । क्षुरोभ्रजश्छन्दः क्षुरति विलिखति व्याप्नोतीति वा क्षुरम् भ्राजते दीप्यत इति भ्रजः, छान्दसो ह्रस्वः, क्षुरं तीव्रं यथा स्यात्तथा भ्रजः क्षुरोभ्रजः, छान्दस ओभावः, आदित्यः, ' असो वा आदित्यः क्षुरोभ्रजश्छन्द: ' ( श ० ८ । ५ । २1४ ) इति श्रुतेः । अत्र ब्राह्मणम् —'अथ छन्दस्या उपदधाति । एतद्वै प्रजापतिः पाप्मनो मृत्योर्मुक्त्वाऽन्नमैच्छत् तस्मादु हैतदुपतापी वसीयान् भूत्वाऽनमिच्छति तस्मिन्नाश १७ सन्तेऽन्नमिच्छति जीविष्यतीति तस्मै देवा एतदनं प्रायच्छन्नेताश्छन्दस्याः पशवो वै छन्दा स्यन्नं पशवस्तान्यस्मा अच्छदयंस्तानि यदस्मा अच्छदयंस्तस्मा च्छन्दा १ ९ सि ' ( श ० ८ | ५ | २ | १ ) प्रजापतिः पाप्मनो मृत्योरात्मानं मुक्त्वा मोचयित्वा अधियज्ञमेवान्नमैच्छत् । तस्मादु हैतदुपतापी उपतप्यतेऽनेनेत्युपतापो रोग:, सोऽस्यास्तीत्युपतापी आतुरः, वसोयान् भूत्वा, वसुशब्दः प्रशस्तवाची, तत ईयसुनि वसीयानिति । अत्र प्रशस्तता च रोगनिर्मुक्तौ सत्यां स्वस्थतायां पर्यवस्यति । ततश्च यथा प्रजापतिर्मृत्युमुक्तः सन् स्वस्थतायै अन्नमैच्छत्, तथैवाधुनातनोऽपि जनो रोगनिर्मुक्तो भूत्वा स्वस्थतायै अत्तुं बाञ्छति । तथा सति तत्पार्श्वस्था अयं जीवितं कामयते, अन्नमिच्छतीति मत्वा तस्मै अन्नं पचन्ति । तस्मै प्रजापतये एतदधियज्ञात्मकमन्नं छन्दस्यारूपं देवा दत्तवन्तः । एतदुक्तं भवति एता इष्टकारछन्दांसि पश्वात्मकानि पशवोऽन्नात्मकाः, तथा चछन्दस्येष्ट कोपधानेन प्रजापतिशरीरमेवोपदधात्येवं मन्त्रार्थ दश श्रुतिर्दर्शयति । एवमुत्तरेष्वपि द्रष्टव्यम् । तानि छन्दांस्यम्मं प्रजापतयेऽच्छदयन्नाराधयन्नित्यर्थः । उपदधाति ' ता दशोपदधाति । दशाक्षरा विराड् विराडु कृत्स्नमन्न सर्वमेवास्मिन्नेतत्कृत्स्नमन्नं दधाति सर्वत सर्वत एवास्मिन्नेतत्कृत्स्नमन्नं दधाति ' ( श ० ८ | ५ | २ | २ ) । ' एवश्छन्द इति । अयं वं लोक एवश्छन्दो वरिवश्छन्द इत्यन्तरिक्षं वै वरिवश्छन्दः शम्भूश्छन्द इति द्यौर्वे शम्भूश्छन्दः परिभूश्छन्द इति दिशो वै परिभूश्छन्द आच्छच्छन्द इत्यन्नं वा आच्छच्छन्दो मनश्छन्द इति प्रजापतिर्वै मनश्छन्दो व्यचश्छन्द इत्य वा आदित्य व्यचश्छन्दः ' ( श ० ८ | ५ | २ | ३ ) | ' सिन्धुरछन्द इति । प्राणो वै सिन्धुश्छन्दः समुद्रश्छन्द इति मनो वै समुद्रश्छन्दः सरिरं छन्द इति वाग्वै सरिरं छन्दः ककुप्छन्द इति प्राणो वं ककुप्छन्दस्त्रिककुप्छन्द इत्युदानो व त्रिककुप्छन्दः काव्यं छन्द इति त्रयी वै विद्या काव्यं छन्दोऽङ्कुपं छन्द इत्यापो वा अकुपं छन्दोऽक्षरपक्तिश्छन्द इत्यसो बँ लोकोऽक्षरपङ्क्तिश्छन्दः पदपङ्क्तिश्छन्द इत्ययं वै लोकः पदपङ्क्ति छन्दो विष्टारपङक्तिश्छन्द दति दिशो वं विष्टारपङ्क्तिश्छन्दः क्षुरोभ्रजश्छन्द इत्यसो वा आदित्यः क्षुरोभ्रजश्छन्द आच्छच्छन्दः प्रच्छच्छन्द इत्यन्नं वा आच्छच्छन्दोऽन्नं प्रच्छच्छन्द: ' ( श ० ८ | ५ | २२४! | इमाः कण्डिका मन्त्रव्याख्यानेनैव व्याख्याताः । अध्यात्मपक्षे - हे राजराजेश्वरि त्रिपुदसुन्दरि, त्वमेवश्छन्दो भूलोकरूपासि । त्वमेव वरिवश्छन्दोऽन्तरिक्ष-लोकरूपासि । अन्यत्सर्वं पूर्ववदेव व्याख्येयम्, सार्वात्म्यविवक्षया तस्या एव सर्वरूपत्वप्रतिपादनात् । दयानन्दस्तु – ' हे मनुष्याः, यूयं परमप्रयत्नेन एवो ज्ञानं छन्द आनन्दं वरिवः सत्यसेवनं छन्दः मनश्छन्दो सुखप्रदं शम्भूः सुखं भावुकश्छन्द आह्लादकारी व्यवहारः परिभूः सर्वतः पुरुषार्थी छन्दः सत्यदीपक आच्छच्छन्दो व्यचश्छन्दः सिन्धुश्छन्दः समुद्रश्छन्दः क्षुरोभ्रजश्छन्दः सुखाय साध्नुत ' इति, तदपि यत्किञ्चित् छन्दआदिशब्दानां व्याख्यानस्य निर्मूलत्वात् श्रुतिविरोधाच्च ॥ ४ ॥
पृष्ठ 444
पाठ पढ़ें पाठ छिपाएँ
४०८ शुक्ल यजुर्वेद संहिता | अ ० १५ आ॒च्छच्छन्द॑ः प्रच्छच्छन्दः गच्छन्द वियच्छन्दो॑ ब॒हच्छन्दो॑ रथन्तरं छन्दों निकाय छन्दों विव॒धइछन्दो गर्इछन्दो भ्रज॒ छन्द॑ स॒स्तुप्छन्दो॑न॒ष्टुप् छन्द॒ ए॒व॒श्छन्द॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छन्दो॒ विष्ष॑ध॒श्छन्दो॑ विशालं छन्द॑श्च॒दिश्छन्दो॑ दू॒रोहणं छन्द॑स्त॒न्द्रं छन्दो॑ऽ-ङ्काङ्कं छन्द॑ः ॥ ५ ॥
1 मन्त्रार्थ - है इष्टके! शरीर के आच्छादक अन्न को, शरीर के प्रच्छादक जल को, व्यापार की निवारक रात्रि को विशेष व्यापार के प्रवर्तक दिन को, रथ आदि के गमनस्थान भूलोक को अत्यन्त शब्दकारक वायु को, भूत - प्रेत 1 आदि के निवासस्थान अन्तरिक्ष लोक को, भक्षणयोग्य अन्न को, प्रकाशवान् अग्नि को वैखरी और को, विविध मध्यमा वाणी को पृथ्वी लोक को, प्रभामण्डल को, बाल्य आदि अवस्था के हेतु अन्न को, जठराग्नि से ऐश्वर्य वाले स्वर्ग लोक को, स्पर्धामूलक अहंतत्र को, मनुष्यों के निवासस्थान भूलोक को, सूर्य आदि की से किरणों युक्त जल आच्छादित अमर लोक को, ज्ञान और अज्ञान को, आस्तिकता के निदर्शक अथवा गर्त, पाषाण को भक्तिभावपूर्वक स्मरण करते हुए मैं तुम्हें यहाँ स्थापित करता हूँ ॥ ५ ॥
आच्छादयति शरीरमित्याच्छद् अन्नम् प्रच्छादयति शरीरमिति प्रच्छदन्नम्, ' अन्नं वा आच्छच्छन्दोऽन्नं व्यापारान्निवर्तयति जन्तूनिति संयद् रात्रिः, ' रात्रि प्रच्छच्छन्दः श ० ८ । ५ । २1४ ) इति श्रुतेः । संयत् संयच्छति संयच्छन्दः ' ( श ० ८।५।२।५ ) इति श्रुतेः । वियद् विशेषेण यच्छन्ति गच्छन्ति व्यापारायेतस्ततो जना यत्रेति वियद् दिनम्, ' अहर्वै वियच्छन्द: ' इति श्रुतेः । बृहद् विस्तीर्णं स्वः, ' असो वै लोको बृहच्छन्द: ' इति श्रुतेः । रथन्तरं रथैस्तीर्यते स्थानात् स्थानान्तरं गम्यते यत्र तद् रथन्तरं भूमण्डलम्, ' अयं वै लोको रथन्तरं छन्दः ' इति श्रुतेः । निकाय नितरां कायति शब्दं करोति वृक्षादीनुन्मूलयन्निति निकायो वायुः, ' वायुर्वै निकायश्छन्द: ' इति श्रुतेः । विवध विविधं वध्यन्ते हन्यन्ते पापफलानि भोज्यन्ते भूतप्रेतादिरूपेण प्राणिनो यत्रेति विवधोऽन्तरिक्षम्, ' अन्तरिक्षं वै विवधश्छन्दः ' इति श्रुतेः । गिरो गीर्यते भक्ष्यत इति गिरोऽन्नम्, ' अन्नं वै गिरः ' ( श ० ८ | ५ | २२५ ) इति श्रुतेः । भ्रजो भ्राजते दोप्यत इति भ्रजोऽग्निः, ' अग्निर्वे भ्रजश्छन्द: ' इति श्रुतेः । संस्तुप्-छन्दोऽनुष्टुप् छन्दः सम्यक स्तुभ्यते रुध्यते वशीक्रियतेऽनयेति संस्तुप् अनु निरन्तरं स्तुभ्यते वशोक्रियतेऽनयेत्य-टुब वाक्, ' वागेव स्तुप् छन्दो वागनुष्टुप्छन्दः ' इति श्रुतेः । एव, वरिव इति पदद्वयं पूर्वस्यां कण्डिकायां व्याख्यातम् । वयो बाल्यादिवयो हेतु तमन्नम्, ' अन्नं वै वयश्छन्दः ' इति श्रुतेः । वयस्कृद् वयांसि बाल्यादीनि करोतीति वयस्कृद् जाठराग्निः, ' अग्निर्वै वयस्कृत् ' इति श्रुतेः । विष्पर्धा विविधं स्पर्धन्ते ऐश्वर्याधिक्यदर्शनेन जना यत्रासौ विष्पर्धाः स्वर्गः, ' असौ वै लोको विष्पर्धाश्छन्दः ' इति श्रुतेः । विशालं विशन्ति जना यत्रेति विशालं भूतलम्, ' तमिविशि ' इत्यादिना ओणादिकः कालन्प्रत्ययः, ' अयं वै लोको विशालं छन्दः ' इति श्रुतेः । छदिश्छाद्यतेऽर्क रश्मिभिरिति छदिरन्तरिक्षम्, ' अन्तरिक्षं वै छदिश्छन्दः ' इति श्रुतेः । दूरोहणं दुःखेन रोढुमारोहणं कर्तुं शक्यं निष्कामज्योतिष्टोमादियज्ञप्रयासजातज्ञानसाध्यत्वादिति दूरोहणं रविः, ' असो वा आदित्यो दूरोहणं छन्दः ' इति श्रुतेः । तन्द्रं तद् द्राति कुत्सितं सीदति स्थानसङ्कोचेनेति तन्द्र श्रेणी, ' स्पृहिगृहि ' ( पा ० सू ० ३।२।१५८ ) इत्यादिना तदो नान्तत्वं निपात्यते, ' पङ्क्तिर्वै तन्द्र छन्दः ' इति श्रुतेः । अङ्काङ्कम् अङ्के स्थले अङ्कानि गर्तपाषाणादिचिह्नानि यत्रेत्यङ्काङ्कं जलम्, ' आपो वा अङ्काङ्कं छन्द: ' इति श्रुतेः । अत्रैष्टकानां भूलोकादिरूपेण स्तुतिः ।
पृष्ठ 445
पाठ पढ़ें पाठ छिपाएँ
म ० ५-६ ] वेदार्थपारिजातभाष्यसहिता ४० ९ अत्र ब्राह्मणम् -- ' संयच्छन्द इति । रात्रिर्वै संयच्छन्दो वियच्छन्द इत्यहर्वै वियच्छन्दो बृहच्छन्द इत्यसो वे लोको बृहच्छन्दो रथन्तरं छन्द इत्ययं वै लोको रथन्तरं छन्दो निकायश्छन्द इति वायुर्वै निकाय छन्दो विवछन्द इत्यन्तरिक्षं वै विवधश्छन्दो गिरश्छन्द इत्यन्नं वै गिरश्छन्दो भ्रजश्छन्द इत्यग्निर्वै भ्रजश्छन्दः स ७ स्तुप्छन्दोऽनुष्टुप्छन्द इति वागेव स स्तुप छन्दो वागनुष्टुप्छन्द एवश्छन्दो वरिवछन्द इति तस्योक्तो बन्धुः ' ( श ० ८५२२५ ) । सुप्रसन्ना कण्डिका । ' वयश्छन्द इति । अनं वै वयश्छन्दो वयस्कृच्छन्द इत्यग्नि arto छन्दो विष्पर्धाश्छन्द इत्यसौ वै लोको विष्पर्धाश्छन्दो विशालं छन्द इत्ययं वै लोको विशालं छन्दश्छदि-श्छन्द इत्यन्तरिक्षं वै छदिश्छन्दो दुरोहणं छन्द इत्यसौ वा आदित्यो दूरोहणं छन्दस्तन्द्रं छन्द इति पङ्क्ति तन्द्रं छन्दोऽङ्काङ्कं छन्द इत्यापो वा अङ्काङ्कं छन्द: ' ( श ० ८५ २२६ ) । इयमपि सुप्रसन्ना । अध्यात्मपक्षे - हे राजराजेश्वरि परचिते, त्वम् अच्छत् प्रच्छदन्नादिरूपासि तां त्वामुपाश्रये । एवमन्यदपि पूर्ववदेव व्याख्येयम् । दयानन्दस्तु - ' मनुष्यं राच्छच्छन्दः प्रच्छच्छन्दः स्वीकृत्य प्रचार्य प्रयतितव्यम् । आच्छद् आसमन्तात् पापनिवारकं कर्म छन्दः प्रकाशनं प्रच्छत् प्रयत्नेन दुष्टस्वभावदूरीकरणार्थं कर्म छन्द उत्साहनम् इत्यादिकमाह । तत्सर्वं निर्मूलमेव, श्रुतिविरुद्धं चेत्युपेक्षणीयमेव ॥ ५ ॥
श रश्मि सत्याय॑ स॒त्यं जिन्व प्रेति॑ना॒ धर्म॑णा धर्मे जिन्वान्विंत्या दिवा दिवं जिन्व सन्धिनान्तरिक्षेणान्तरिक्षं जिन्व प्रति॒धना॑ पृथि॒व्या पृथि॒वीं जिन्व विष्टम्भेन वृष्ट्या वृष्टिं जिन्व प्र॒वयाह्नाह॑जन्वानुया रात्र्या॒ रात्र जिन्वो॒शिजो॒ वसु॑भ्यो॒ वसू॑ना॒ जिन्व प्रके॒तेना॑दि॒त्येभ्य॑ आदि॒त्यान् जि॑न्व॒ ॥ ६ ॥
मन्त्रार्थ - हे इष्टके! तुम अन्न के प्रभाव से सत्य के निमित्त सत्यवाणी से प्रीति करो, देह में गति वाले अन्न के प्रभाव से. धर्म के निमित्त धर्म से प्रीति करो, दिव्य लोक के निमित्त द्युलोक से प्रोति करो, बल आदि के आधार अन्न के प्रभाव से अन्तरिक्ष के निमित्त अन्तरिक्ष से प्रोति करो, प्रत्येक इन्द्रिय के आधार अन्न के प्रभाव से अन्तरिक्ष के निमित पृथ्वी से प्रीति करो, देहादि का स्तम्भन करने वाले अन्न के प्रभाव से वृष्टि के निमित्त वर्षा से प्रीति करो, देह में गमनागमन करने वाले अन्न के प्रभाव से दिन के निमित्त दिन से प्रोति करो, देहान्तर्गत बहत्तर नाडियों में गमनागमन करने वाले अन्न के प्रभाव से रात्रि के निमित्त रात्रि से प्रीति करो, समस्त प्राणियों के वांछनीय अन्न के प्रभाव से वसुमणों के निमित्त उनसे प्रीति करो, सुखानुभूति के कारण अन्न के प्रभाव से आदित्यों के निमित्त आदित्यों से प्रीति करो ॥ ६ ॥
' सर्वतोऽषाढावेलाया ७ स्तोमभागा रश्मिना सत्यायेति प्रतिमन्त्रम्, पञ्चदश दक्षिणेनानुकम् ' ( का ० श्री ० १७।११।९ -१० ) । अषाढावेलायां सर्वासु दिक्षु स्तोमभागसंज्ञका एकोनत्रिंशदिष्टका रश्मिनेत्याद्येकोनत्रिंशन्मन्त्रैरुपदध्यात् । तन्मध्ये पश्चदश स्तोमभागा इष्टकाः प्रागनूकं दक्षिणेन चतुर्दश प्रागनूकमुत्तरेणोपदध्यादिति सूत्रार्थः । एकोनत्रिंशद्यजूंषीष्टका देवत्यानि । इमे मन्त्राः श्रुत्या त्रिधा व्याख्याताः । तत्र कण्डिकाद्वयपर्यंन्तममुनोपहिता सती अदो जिन्वेति प्रथमः प्रकारः । अदोऽस्यमुष्मं त्वामुपदधामीति द्वितीयः प्रकारः । अधिपतिनोर्जोजं जिन्वेति तृतीयः प्रकारः । तथा च हे इष्टके, त्वं रश्मिना तेजोरूपेणान्नेन सत्याभिमानिदेवतार्थमुपहिता सती सत्यं जिन्वती प्रीणय । यद्वा सत्यायोपहिता सती सत्यं वचस्तर्पय । ५२
पृष्ठ 446
पाठ पढ़ें पाठ छिपाएँ
४१० शुक्लयजुर्वेदसंहिता [ अ ० १५ तेजोवृद्धिप्रदत्वादनं रश्मिः, ' रश्मिरनम् ' ( श ० ८/५/३३३ ) इति श्रुतेः । प्रेतिना प्रकर्षेण देहमेति गच्छतीति प्रकारेण प्रेतिरन्नम् तेन । ' धर्मणा ' इत्यत्र विभक्तिव्यत्ययः । धर्मणा धर्मायोपहिता सती धर्म जिन्व प्रीणयेति, सम्बन्धः । परस्तात् सर्वमन्त्रेषु द्वितीयं पदं चतुथ्र्यन्तं कार्यम् । अन्वित्या अन्वेति देहमनुगच्छतीत्यन्वितिरन्नम् तया दिवा दिवेऽर्थाय दिवं जिन्व प्रीणय, ' अन्वितिरन्नम् ' इति श्रुतेः । सन्धिना सम्यग् प्रतिधिना बलादिकं धीयतेऽस्मिन्निति सन्धिरसम् तेन । अन्तरिक्षेण अन्तरिक्षाय उपहिता सती अन्तरिक्षं जिन्व । प्रतिधीयतेऽस्मिन्निति प्रतिधिरन्नम् तेन । पृथिव्या पृथिव्यं उपहिता सती पृथिवीं जिन्न । विष्टम्भेन प्रकर्षेण विष्टम्भयति वाति देहं धारयति देहमिति विष्टम्भोऽन्नं तेन । दृष्टया वृष्टये उपहिता सती वृष्टि जिन्व । प्रवया गच्छतीति प्रवा अन्नम्, तया । अह्ना अ उपहिता सती अहदिनं जिन्व । अनुया ० देहान्तर्गतद्वासप्तति- सू ० ६ । ४ । १४० ) नाडीभिरनुयात्याप्नोति देहमित्यनुया अन्नम्, तया । तृतीयैकवचने ' आतो धातो: ' ( पा, तेन । इत्यकारलोपः । रात्र्या रात्र्यं उपहिता सती रात्रीं जिन्व । उशिजा उश्यते सर्वेः काम्यत इत्युशिगन्नम् प्रकेतमन्नं ' वश कान्त ' । वसुभ्योऽर्थायोपहिता सती वसून जिन्व । प्रकेतेन प्रकर्षेण कं सुखमीयतेऽनेनेति तेन आदित्येभ्योऽर्थाय उपहिता सती आदित्यान् जिन्व । अत्र ब्राह्मणम् -'अथ स्तोमभागा उपदधाति । एतद्वै प्रजापतेरेतदन्नमिन्द्रोऽभ्यध्यायत् मा सोऽस्मादुदचि- सह प्रपद्यस्वेति क्रमिषत् तमब्रवीत् कथोत्क्रामसि कथा मा जहासीति स वै मेऽस्यान्नस्य रसं प्रयच्छेति तेन वै इति । तत तस्मा एतस्यान्नस्य रस प्रायच्छत् तेन सह प्रापद्यत ' ( श ० ८ | ५ | ३ | १ ) | अथ स्तोमभागा उपदधतीत्यतः परेणेतिहासेन तासामधिदेवं निरूपयन्नाह-- एतद्वा इति । पूर्वमेतद्वै छन्दस्यात्मकं प्रजापतेरन-मासीत् । तदिन्द्रः प्राणोऽभिध्यातवान् । स इन्द्रोऽस्मात्प्रजापतेरपक्रमितुमैच्छत् । तमिन्द्रं प्रजापतिरब्रवीत् कथा केन हेतुना मा पित्तरं जहासीति स प्रजापतिमुवाच अस्यान्नस्य छन्दस्यात्मकस्य रसं प्रयच्छेति । प्रजापतिरुवाच इन्द्राय एतस्य तेन रसेन सहैव त्वं मा मां प्रपद्यस्व, अर्थाद मच्छरीररस एव भव । तथेत्यङ्गीकृते प्रजापतिस्तस्मा एनं प्रजापतिमिन्द्रः छन्दस्यात्मकस्य अधिदेवतया अध्यात्मस्यान्नस्य रसं प्रायच्छत् । तथैवानेन रसेन सहैव अथ यः सोऽन्नस्य रस प्रपन्नः । स यः स प्रजापतिः । अयमेव स योऽयमग्निश्चीयतेऽथ यत्तदन्नमेतास्ताश्छन्दस्या एतास्ता स्तोमभागा अथ यः स इन्द्रोऽसौ स आदित्यः स एष एव स्तोमो यद्धि किश्व स्तुवत एतमेव तेन स्तुवन्ति ( श ० तस्मा एतस्मै स्तोमायतं भागं प्रायच्छत्तद्यदेतस्मै स्तोमार्यतं भागं प्रायच्छत्तस्मात् स्तोमभागाः ' ५२ ) । स यः स प्रजापतिरिति । प्रजापत्यादीनि मन्त्राद्यात्मकानि शरीराणि दृश्यन्ते । तत्राध्यात्मादि-पक्षत्रयम् । योऽयमग्निश्चीयतेऽथ यत्तदन्नमिति ताछन्दस्या इति च तदधियज्ञमधिभूतं च । अथ यः सोऽलस्य वाचैव रस्ताः स्तोमभागा इत्यध्यात्मम् । यः स इन्द्रोऽसौ स आदित्य इति अधिदैवम् । रसाज्जायमानत्वाद्वाचो स्तुवन्ति तदाह - आदित्यश्च स्तोमश्च यद्धि किचित् स्तुवतः एतमेव तेन स्तुवन्तीति । यतः परमात्मसपत्नकं देवाधिदेवाकारेणावस्थितं ततो भजनीयमित्यत्र हेतुभूतं प्रभवमित्यादिनिर्वचनम् । तथा च यथा प्राणः शरीरे तथा आदित्यमण्डलान्तर्वर्ती पुरुषः स एव वाचा स्तोमरूपेणासञ्जनीयः । तस्यैव भाग इति स्तोमभागशब्दे षष्ठीसमासं दर्शयति -- अतः स्तोमस्य भागाः स्तोमभागा इति । आसामिष्टकानां भागवत्त्वात् स्त्रीलिङ्ग-बहुवचनेनोपधेयता । ' रश्मिना सत्याय सत्यं जिन्वेति । एष वै रश्मिरन्न १ ९ रश्मिरेतं च तद्रसं च सन्धायात्मन् प्रपादयते प्रेतिना धर्मणा धर्मं जिन्वेत्येष चे प्रेतिरन्नं प्रेतिरेतं च तद्रसं च सन्धायात्मन् प्रपादयतेऽन्वित्या दिवा दिवं जिन्वेत्येष वा अन्वितिरन्नमन्वितिरेतं च तद्रसं च सन्धायात्मन् प्रपादयते तद्यदेतदाह तच्च तद्रसं च सन्धायात्मन् प्रपादय-ते मुनादो जिन्वादोऽस्यमुष्मं त्वाधिपति नोजजं जिन्वेति त्रेधा विहितास्त्रेधा विहित, ह्यन्नम् ' ( ०८ | ५ | ३ | ३ ) ।
पृष्ठ 447
पाठ पढ़ें पाठ छिपाएँ
सं ० ६-७ ] वैदार्थपारिजातभाष्यसहिता II स्तोमभागाः, छन्दस्या इत्यादिनिरूढबहुवचनान्तस्त्रीलिङ्गस्य व्युत्पत्तिमप्रदश्यैव मन्त्रमात्र पुरस्कारेणैव व्याख्यानमारभ्यते श्रुत्या -- रश्मिनेति । एष वै रश्मिरित्यादिनेतिहासार्थं मन्त्राणामभिधानं दर्शयति । विश्वरूपस्य प्रजापतेः सत्यधर्मादिभिराकारैरवस्थितस्य रश्मिः स्थावरजङ्गमात्मकमन्नमादाय सञ्चरति सर्वाश्च प्रत्यङ्गभूता देवता रसेन तर्पयति । न केवलमात्मानं तर्पयति । तथैवायमध्यात्मं प्राणः सर्वान् प्राणान् प्राणिनामात्मान-मवान्तररसेन तर्पयतीति प्रजापतिसंवादेन निष्पन्नम् । तच्चैतदधियज्ञमन्त्रेणेष्टकासु दर्शयते श्रुतिः । तत्र प्रथम-मन्त्रं व्याचष्टे हे इष्टके, सत्याय सत्यात्मकाय प्रजापतये यदात्मने उपहिता सती सत्यमादित्यं जिन्व तर्पयेति । अत्र श्रुतिकृता व्याख्या -- अमुना अदो जिन्वेति अदोऽस्यमुष्मं त्वाधिपतिनोर्जोजं जिन्वेति प्रथममन्त्रगणस्य द्विकण्डिकाधिपठितस्य व्याख्यानम् । अमुना रश्मिना अदः सत्यं जिन्व । रश्मिना अन्नेन सत्याय उपहिता सती सत्यं जिन्व तर्पयेति द्वितीयमन्त्रगणस्य व्याख्यानम् । अदोऽसि अमुष्मै त्वा यथा प्रतिपदसि प्रतिपदे त्वा उपदधामीति । अधिपति नोजजं जिन्वेत्यधिपतिना ईश्वरेण ऊर्जा अन्नरसेन ऊर्जमन्त्ररसं जिन्व तर्पयेत्यर्थः । एवमेते मन्त्रास्त्रिषु स्थानेषु त्रेधा विहिताः । आयुक्का इष्टकास्त्रेधा विहिताः । त्रेधा विहितमन्नम् । तत्र जङ्गमं तावत् पिता, माता, पुत्र इत्येव । स्थावरं तपो वृष्टिर्बीजमिति । तदनुकारेण मन्त्रोऽपि त्रेधा विहितः । तदनुकारा इष्टका इत्यभिप्रायः । अध्यात्मपक्षे - हे परचिते, रश्मिना अन्नेन रसाय आराधिता सती सत्यं जिन्व प्रोणय । प्रेतिना अन्नेम धर्मणा धर्म धर्माय आराधिता सती धर्मं जिन्व प्रीणय । तादृशी त्वामुपाश्रये । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु -- ' हे विद्वन् त्वं रश्मिना सत्याय सति वर्तमाने भवाय स्थूलाय पदार्थसमूहाय सूर्य इव नित्यसुखाय सत्यं जिन्व अव्यभिचारि कर्म प्राप्नुहि । प्रेतिना प्रकृष्टविज्ञानयुक्तेन धर्मणा न्यायाचरणेन धर्मं जिन्व जानीहि । अन्वित्या अन्वेषणेन दिया धर्मप्रकाशेन दिवं सत्यप्रकाशं जिन्व । सन्धिना सन्धानेन अन्तरिक्षेण आकाशेन अन्तरिक्षमवकाशं जिन्व जानीहि । प्रतिधिना प्रतिदधाति यस्मिंस्तेन पृथिव्यां भूगर्भविद्यया पृथिवी भूमि जिन्व जानीहि । विष्टम्भेन विशेषेण स्तभ्नोति शरीरं येन तेन वृष्ट्या वृष्टिविद्यया वृष्टि जिन्व जानीहि । प्रथा कान्तिमता अहा अविद्यया अहर्दिनं जिन्व | अनुया यानुयाति तथा राज्या रात्रि जिन्व | उशिजा कामयमानेन वसुभ्योऽग्न्यादिभ्यो वसून् अग्न्यादीन् जिन्ब । प्रकेतेन प्रकृष्टविज्ञानेन आदित्येभ्यो मासेभ्य आदित्यान् द्वादश मासान जिन्व ' इति, तदपि कल्पनामात्रम्, सत्यशब्दस्य स्थूलपदार्थत्वे मानाभावात् । सूक्ष्मपदार्थानामपि सति भवत्वात् । तथैवाव्यभिचारिकर्मार्थत्वमपि न युज्यते, ज्ञानस्याप्यव्यभिचारित्वोपपत्तेः । कथं च रश्मिशब्दे करणत्वं घटते? प्रेतिना प्रकृष्टविज्ञानयुक्तेन धर्मणा न्यायाचरणेनेत्यपि तथाविधमेव, निर्मूलत्वात् । दिवा धर्म-प्रकाशेन दिवं सत्यप्रकाशमित्यपि नार्थः, विनिगमनाविरहात् । इत्थं सर्वत्रास्य स्वेच्छाचारितव दृश्यते, सर्वत्रैव प्रायः शाब्दन्यायातिपातः । सन्धिनाकाशेन प्रतिधिना सम्बन्धेन विष्टम्भेन शरीरधारणभूतेन अन्नरसेन अवकाश-पृथिवीवृष्टीनां कार्यकारणभावासिद्धेः तत्तच्छब्दानां तत्तदर्थासिद्धेश्च, श्रुतिविरोधश्च । अनुयापदस्य रात्रिः, त्रिपदस्य रात्रिविद्या, वसुपदस्य वसुविद्या अर्थ इत्यप्यसिद्धम् । लक्षणा गौणी च वृत्तिर्मुख्यार्थबाध एव सम्भवति, प्रकृते तदभावान काप्यनुपपत्तिः ॥ ६ ॥
तन्त॑ना रायस्पोषैण रायस्पोषे जिन्व ससर्पेण॑ श्रु॒ताय॑ श्रु॒तं ज॑न्व॑दे॒नष॑धीभि॒रोष॑धी-जिन्वोत्त॒मेन॑ त॒नूभि॑स्त॒नूजिन्व वयो॒धसाधी॑ते॒नार्धीतं जिन्वाभि॒जिता॒ तेज॑सा॒ तेज जिन्व ॥ ७ ॥
पृष्ठ 448
पाठ पढ़ें पाठ छिपाएँ
४१२ शुक्ल यजुर्वेद संहिता [ अ ० ] १५ मन्त्रार्थ - शरीर के वर्धक अन्म के प्रभाव से धन की पुष्टि के लिये धन की पुष्टि से प्रीति करो, प्रत्येक इन्द्रिय में फैलने वाले अन्न के प्रभाव से शास्त्र के निर्मित शास्त्र से प्रोति करो, प्रसिद्ध औषधियों के निमित्त औषधियों से प्रीति करो, पृथ्वी के उत्कृष्ट पदार्थ अन्न के प्रभाव से शरीर के निमित्त शरीर से प्रीति करो, शरीर के उपचयकारी अन्न के प्रभाव से अध्ययन के निमित्त अध्ययन से प्रीति करो, बलकारी अन्न के प्रभाव से तेज के निमित्त तेज से प्रोति करो ॥ ७ ॥
इष्टके, त्वं तन्तुना तन्यते विस्तार्यंत इति तन्तुरन्नम्, तेन । रायस्पोषेण रायस्पोषाय धनपुष्ट्ये उपहिता सती रायस्पोषं जिन्व । संसर्पण सम्यक् सर्पति देहे रसरक्तादिरूपेणेति संसर्पोऽन्नम्, तेन श्रुताय शास्त्राय उपहिता सती श्रुतं जिन्व । इडा अन्नम्, इडेवैडं प्रज्ञादित्वात् स्वार्थिकोऽण् । तेन औषधीभिरोषध्यर्थमुपहिता सती ओषधीः जिन्व । उत्तमेन उद्गतं तमो यस्मात् तद् उत्तममन्नमुत्कृष्टं वा तेन तनूभिः शरीरार्थमुपहिता सती तनूः शरीराणि जिन्व । वयोधसा वयो दधाति पुष्णातीति वयोधा अन्नम् तेन । अधीतेन अधीताय वेदाध्ययनाय उपहिता सती अधीतं वेदाध्ययनं जिन्व | अभिजिता अभि अभितः सर्वतो जीयते येनेत्यभिजित् सर्वजयहेतुरन्नम्, तेन । तेजसा तेजोऽर्थंमुपहिता सतो तेजो जिन्व । तत्तदवस्था विशिष्टेनान्नेन साधनेन तत्तदर्थायोपहिता सती तत्तदथं प्रीणयेत्यर्थः । अध्यात्मपक्षे - हे परचिते, स्वं तन्तुना अन्नेन रायस्पोषायोपाश्रिता सतो रायस्पोषं जिन्ब प्रीणय । अन्यत् पूर्ववद् व्याख्येयम् । दयानन्दस्तु – ' हे मनुष्य, त्वं तन्तुना विस्तृतेन रायस्पोषेण धनस्य पुष्ट्या धनस्य पोषं जिन्व प्राप्नुहि । सम्यक् प्रापणेन श्रुताय श्रवणाय श्रुतं श्रवणं जिन्व । इडाया अन्नस्येदं संस्करणमैडं तेन ओषधीभिरोषधिविद्यां जिन्व ' इत्यादिकम्, तदपि यत्किञ्चित्, धनस्य पुष्ट्या धनपुष्टि प्राप्नुहीत्यस्यासङ्गतेः, कार्यकारणभावस्य भेदनियत-स्वात् । तथैव श्रवणाय श्रवणं जिन्वेत्यपि निरर्थकम् । अन्नसंस्करणस्योषधीषु कथं करणत्वम्? अधीतेनाधीत-मित्यपि तादृगेव ॥ ७ ॥
प्र॑ति॒पद॑सि प्र॒ति॒पदे त्वानु॒पव॑स्यनुपदे॑ त्वा स॒म्पद॑सि स॒म्पदे॑ त्वा॒ तेजऽसि॒ तेज॑से त्वा ॥ ८ ॥
मन्त्रार्थ - हे इष्टके! जिससे जीवन का अस्तित्व प्राप्त होता है, उस अन्न का रूप धारण कर अन्न की प्राप्ति के निमित्त तुम्हारा उपधान करता हूं । इन्द्रियों को अपने अपने कार्यों में समर्थ करने वाली तुम अन्न रूप हो, अन्न के निमित्त तुम्हारा उपधान करता हूं । तुम सम्पत्ति की दाता अन्न रूप हो, अन्न - सम्पत्ति के निमित्त तुम्हारा सावन करता हूं । शरीर में तेज का आधान करने वाली अन्न रूप तुम्हारा तेज के निमित्त सादन करता हूं ॥ ८ ॥
' अदो s स्यमुष्मै त्वा ' ( श ० ८ | ५ | ३ | ३ ) इति श्रुत्या व्याख्यातमन्त्रानाह - प्रतिपदसीति । द्वितीयस्य मन्त्रवर्गस्य व्याख्यानम् -- हे इष्टके, त्वं प्रतिपत् प्रतिपद्यते जीवनमनेनेति प्रतिपदन्नम् असि । प्रतिपदेऽन्नाय त्वामुपदधामोति शेषः । एवं सर्वत्र व्याख्येयम् । अनुपत् प्रतिदिनमनुपद्यत इत्यनुप अन्नम् असि । अनुपदेऽन्नाय स्वामुपदधामि । हे इष्टके, स्वं सम्पत् सम्पद्यत इति सम्पदन्नम् असि । सम्पदेऽर्थाय त्वामुपदधामि । तेजसः कारणत्वात् तेजोऽन्नम्, तेजसे त्वामुपदधामि । तेजसेऽर्थायोपहिता सती तेजो जिन्व प्रीणय | अध्यात्मपक्षे - हे परचिते, सर्वात्मरूपत्वात् त्वं प्रतिपदन्नरूपासि तेन प्रतिपदेऽन्नाय त्वामुपाभये । एवमन्यदपि ।
पृष्ठ 449
पाठ पढ़ें पाठ छिपाएँ
मं ० ८ - ९ ] वैदार्थपारिजातभाष्यसहिता दयानन्दस्तु - ' हे पुरुषार्थनि विदुषि, त्वं प्रतिपदिव प्राप्यते या सा लक्ष्मीरसि । प्रतिपदे ऐश्वयाय त्वां गृह्णामि । अनु पश्चात् प्राप्यते या सा अनुपत् शोभा । त्वं तत्तुल्यासि तां त्वामनुपदे विद्याध्ययनपश्चा-प्राप्तव्याय त्वां गृह्णामि ' इति, तदपि यत्किञ्चित् वैरूप्यात् । पूर्वं त्वं लक्ष्मीरूपासि, ऐश्वर्याय त्वां गृह्णामी-त्युक्तम्, उत्तरत्र तु शोभारूपासि विद्याध्ययनपश्चात्प्राप्तव्याय त्वां गृह्णामीति । हिन्दीटोकायां तु पश्चात् प्राप्तव्यां त्वां गृह्णामीत्युक्तम् । नहि त्वदर्थमेव त्वां गृह्णामीति सम्भवति, प्रयोज्य प्रयोजकभावस्यैकत्रा-योगात् ॥ ८ ॥
त्रिवृद॑सि त्रिवृते॑ त्वा प्रवृद॑सि प्र॒वृते॑ त्वा वि॒वृद॑सि वि॒वृते॑ त्वा स॒वृद॑सि स॒वृते॑ त्वा क्रमोऽस्याक्रमाय॑ त्वा संक्रमोऽसि संक्रमाय॑ त्वोत्क्रमोऽस्युत्क्रमाय॒ स्वोत्क्रान्तिर॒स्युत्क्रस्यै स्वाऽधि॑पतिनोर्जोर्जं जिन्व ॥ ९ ॥
मन्त्रार्थ - हे इष्टके! तुम कृषि, वृष्टि और बीज से उत्पन्न अन्न हो, अन्न के निमित्त तुम्हारा सादन करता हूँ । तुम सब प्राणियों को अपने - अपने कार्यों में प्रवृत्त करने वाले अन्न का रूप हो, कार्यप्रवृत्ति के निमित्त तुम्हारा सावन करता हूँ । तुम प्रत्येक इन्द्रिय को अपने - अपने कार्य में प्रवृत करने वाले अन्न का रूप हो, प्रवृत्ति के निमित्त तुम्हारा सावन करता हूँ । तुम जीवन के सहचारी अन्न का रूप हो, अन्न के निमित्त तुम्हारा सावन करता हूँ । तुम क्षुधा का तिरस्कार करने वाले अन्न का रूप हो, अन्नप्राप्ति के निमित्त तुम्हारा साइन करता हूँ । तुम सन्तान उत्पत्ति के बीज अन्न का रूप हो, सन्तानप्राप्ति के निमित्त तुमको उपहित करता हूँ । तुम जन्म के निवानभूत अन्न का रूप हो उत्पत्ति के निमित्त तुम्हारा सादन करता है । तुम उत्कृष्ट गमन करने वाले अन्न का रूप हो, उत्क्राति के निमित्त तुम्हारा सादन करता हूँ ॥ ९ ॥
इष्टके, त्वं त्रिवृत् कृषिवृष्टिबीजरूपेण त्रिगुणत्वात् त्रिधा वर्तत इति त्रिवृन्नम् असि तादृशीं त्वां त्रिवृतेऽन्नायोपदधामीति शेषः । प्रवृत् प्रवृणोति भूतानीति प्रवृदन्नम् असि अतः प्रवृतेऽन्नाय त्वामुपधामीति शेषः । विवृद् विशेषेण वर्तते भूतेष्विति विवृदन्नम् असि विवृतेऽर्थाय त्वामुपदधामि । सवृत् सह वर्तत इति सवृद् अन्नमसि, तस्मै सवृते त्वामुपदधामि । आक्रम आक्राम्यति पराभवति क्षुधामित्याक्रमोन्नम् त्वमा-क्रमोऽसि, आक्रमाय त्वामुपदधामि । संक्रमः संक्राम्यति देह इति संक्रमोन्नम् त्वं संक्रमोऽसि संक्रमाय त्वामुपदधामीति । उत्क्रमः सन्तानोत्पत्यं बीजरूपेण परिणम्योत्क्रामतीत्युत्क्रमोऽन्नम् त्वं तद्रूपासि, उत्क्रमाय त्वामुपदधामि । उत्क्रान्तिरुत्कृष्टा क्रान्तिर्गमनं यस्याः सा उत्क्रान्तिरन्नम् । हे इष्टके, त्वमुत्क्रान्तिरसि, अत उत्क्रान्त्य अर्थाय त्वामुपदधामि । अथ तृतीयो व्याख्याभेदः - अधिपतिना अधिकं पातीत्यधिपतिः तेन अधिकपालकेन ऊर्जा अन्नरसेन ऊर्जम् अन्नरसं जिन्व तर्पय । एवं मन्त्रेष्वभिधेयगतां क्रियां पर्यालोच्याभिधानव्युत्पत्तिः कृता । ' यत्तदन्नमेता-स्ताश्छन्दस्या अथ यः सोऽन्नस्य रस एतास्ता स्तोम भागाः ' ( श ० ८ ५ ३ २ ) इति श्रुतिरीत्या अन्नरूपाश्छन्दस्या इष्टकाः, अन्नरसरूपाः स्तोमभागा इष्टका इत्यन्नावस्थाभेदेन नामभेदस्तद्भेदाच्चेष्टकाभेदोपपत्तिः । अध्यात्मपक्षे - हे परचिते परदेवते, त्वं त्रिवृदन्नरूपासि सर्वाधिष्ठानत्वात् । त्रिवृतेऽन्नाय त्वामु-पाश्रये । अन्यत् पूर्ववत् । हे परदेवते, अधिपतिना परमपालकेन ऊर्जान्नरसेन ऊर्जमन्नरसं जिन्व तर्पय, सर्वशक्तिमत्त्वात् ॥ ९ ॥
पृष्ठ 450
पाठ पढ़ें पाठ छिपाएँ
४१४ शुक्लयजुर्वेदसंहिता [ अ ० १५ राज्ञ्य॑सि॒ प्राच॒ दिग्वस॑वस्ते दे॒वा अधि॑पतय॒ग्निर्हेतीनां प्र॑तिध॒र्ता त्रि॒वृ॑त्त्वा॒ स्तोम॑ः पृथि॒व्या अ॑य॒त्वाज्य॑म॒क्थमव्य॑थायै स्तभ्नातु॒ रथन्त॒ साम॒ प्रति॑ष्ठत्या अ॒न्तरि॑क्ष ऋष॑यस्त्वा प्रथमजा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒ता॑ चा॒ायमधि॑पतिश्च॒ ते त्वा सर्वे संविदाना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥ १० ॥
मन्त्रार्थ हे इष्टके! तुम राजमान पूर्व दिशा का रूप हो, आठ वसु देवता तुम्हारे पालक हैं, अग्नि देवता तुम्हारी सारी बाधाओं को दूर करते हैं, त्रिवृत् स्तोम तुमको पृथ्वी पर स्थापित करें आज्यनामक शस्त्र व्यथा के निवारण के लिये तुमको दृढ़ करें, रथन्तर साम अन्तरिक्ष लोक में प्रतिष्ठा के लिये तुमको दृढ़ करें, प्रथम उत्पन्न प्राण देवता आकाश के विशाल परिमाण के समान तुम्हारा विस्तार करें । इष्टका को बनाने वाला और उसका पालन करने वाला भी तुम्हारा विस्तार करे । इस प्रकार से वे सम्पूर्ण वसु आदि देवता एक विचार में स्थित होकर सुख-स्वरूप लोक के ऊपर स्वर्ग लोक में यजमान को अवश्य हो प्रतिष्ठित करें ॥ १० ॥
' नाकसदोकेषु पूर्ववर्जमृतव्या वेलायामाश्विनीवद् राज्यसीति प्रतिमन्त्रम् ' ( का ० श्री ० १७/१२/१ ) । पूर्वानुके स्थानाभावात् पूवानकवजं त्रिदिक्ष्वनुकेषु ऋतव्यावेलायामनुकोपरि राज्ञीत्यादिपञ्चकण्डिकाभिराश्विनी-वनाकसत्संज्ञेष्टका उपदध्यादिति सूत्रार्थः । ' स पुरस्तादुपदधाति । राज्यसि ( श ० ८ | ६ | ११५ ) इति हि श्रुतिः । अत्र कण्डिकायां पञ्च यजूंषि लिङ्गोक्तदेवतानि । हे इष्टके, त्वं राज्ञी राजमाना पूर्वा दिगसि । वसवः पृथिव्यादयोऽष्टो देवास्तेऽधिपतयोऽधिकं पालयितारः, अधिष्ठातारो वा । अग्निर्हेतीनामुपद्रवकार्यायुधानां प्रतिधर्ता प्रतोपतया धारयिता, निराकर्तेति यावत् । किञ्च त्वा त्वां त्रिवृत्स्तोमः पृथिव्यां श्रयतु स्थापयतु । आज्यमाज्यनामकमुक्थं शस्त्रम् ' प्र वो देवायाग्नये ' ( ऐ ० ब्रा ० २।४० ) इत्यादिकम् अव्यथायें व्यथा विचलं तदभावाय त्वां स्तभ्नातु दृढीकरोत्विति यावत् । रथन्तरं साम अन्तरिक्षे लोके प्रतिष्ठित्यं प्रतिष्ठानाय त्वां स्तभ्नातु । प्रथमजाः प्रथमोत्पन्ना ऋषयः प्राणाः, ' प्राणा वा ऋषयः प्रथमजा. ' ( श ० ८/६/१५ ) इति श्रुतेः । देवेषु द्युलोकमध्ये दिव आकाशस्य मात्रया परिमाणेन वरिम्णा उरुत्वेन त्वां प्रयन्तु प्रथयन्तु । ' छन्दस्युभयथा ' ( पा ० सू ० ३ | ४ | ११७ ) इति शपः सार्वधातुकार्धधातुकोभयसंज्ञत्वाद् आर्धधातुकं मत्वा णिलोपः । आकाशवत् त्वां त्रिशालां कुर्वन्त्वित्यर्थः । विधर्ता इष्टका निर्माता चायमधिपतिरिष्टकापालकश्च त्वां प्रथयताम् । यद्वा विधर्ता विशेषेण धारयिता वागभिमानी देवः, अयमधिपतिः प्रधानभूतो देवो मनोऽभिमानी च तौ द्वौ त्वां प्रथयताम्, ' विध चायमधिपतिश्चेति वाक् च मनश्च तो होद, सर्वं विधारयतः ' ( श ० ८ | ६ | ११५ ) इति श्रुतेः । किच, ते सर्वे वस्वादयो देवाः संविदाना ऐकमत्येनावस्थिताः सन्तो नाकस्य पृष्ठे कं सुखं न कम् अकम दुःखम्, न अर्क नाकं सुखम्, ' नभ्राण्नपात् ' ( पा ० सू ० ६ । ३।७५ ) इत्यादिनिपातनात् साधु । तस्य पृष्ठे स्वरूपे, सुखस्वरूप इति यावत् । स्वर्गे लोके यजमानं चकाराद् हे इष्टके! त्वां च सादयन्तु । स्तोमाः सामानि च राजसूयप्रकरणे दशमेऽध्याये ' प्राचीमारोह ' ( वा ० सं ० १०1१० ) इत्यादिपञ्चकण्डिकासु व्याख्यातानि । अत्र ब्राह्मणम् - ' नाकसद उपदधाति । देवा वै नाकसदोऽत्रेष सर्वोऽग्निः संस्कृतः स एषोऽत्र नाकः स्वर्गो लोकस्तस्मिन् देवा असीदंस्तद्यदेतस्मिन्ना के स्वर्गे लोके देवा असोदंस्तस्माद्देवा नाकसदस्तथैवैतद्यजमानो यदेता उपदधात्येतस्मिन्नेवैतन्नाके स्वर्गे लोके सीदति ' ( श ० ८ | ६ | १ | १ ) | नाकसत्संज्ञकानां पञ्चेष्टकानामुपधानमेतासु