वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 461–470
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 461–470
पृष्ठ 461
पाठ पढ़ें पाठ छिपाएँ
म ० २०-२२ ] वेदार्थ पारिजातभाष्यसहिता ४२५ अर्धपद्ये । अत्र पूर्वदिश्यनूकान्ते तिस्रो गायत्रीरिका उपदध्याद् उदङ्मुखः प्राग्लक्षणाः, अग्निमूर्धेति प्रत्युचम्. एवं वक्ष्यमाणा अपीति सूत्रार्थः । अयमग्निरादित्यरूपेण दिनो द्युलोकस्य ककुद् गोपृष्ठोन्नतावयववच्छेष्ठः । मूर्धा शिरः स्थानीयः । पृथिव्याः पतिर्दाहपाककारित्वेन पालकोऽप्ययमपां जलानां रेतांस्युदककार्याणि स्थावरजङ्गम-शरीराणि जाठराग्निरूपेण जिन्वति प्रीणाति । इयमृक् तृतीये द्वादश्यां कण्डिकायां व्याख्यातपूर्वा । आध्यात्मि aisa विशेषेण तत्रैवावसेयः । दयानन्दस्त-- ' यथा हेमन्ततवयमग्निदिवः पृथिव्याश्च मध्ये मूर्धा ककुत्पतिः सन्नपां रेतांसि जिन्वति तथैव मनुष्यं बलिष्ठेर्भवितव्यम् ' इति, तदपि यत्किञ्चित्, यथातथैवाद्यंशानां मन्त्रबाह्यत्वात् ॥ २० ॥
अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पति॑ः । मू॒र्धा क॒वीर॑य॒णाम् ॥ २१ ॥
मन्त्रार्थ - - यह अग्नि सहस्र संख्या वाले और शत संख्या वाले अन्न का स्वामी, क्रान्तदर्शी और सभी प्रकार के धनों में प्रधान धन है ॥ २१ ॥
अयमग्निः पुरोवर्ती सहस्रिणः सहस्राणि बहूनि विद्यन्ते यस्यासौ सहस्री तस्य, शतिनः शतान्यनन्तानि विद्यन्ते यस्यामौ शती, तस्य वाजस्य अन्नस्य पतिः स्वामी, अनन्तान्नप्रद इत्यर्थः । तथा रयीणां धनानां मूर्धा शिरोवदुत्तमः । अग्निर्हि सर्वधनानां प्रधानभूतः, दृष्टादृष्शभीष्टसाधनत्वात् । कविः क्रान्तदर्शी, अतीतानागत-वर्तमानद्रष्टा, अतस्तं स्तुम इति शेषः । अध्यात्मपक्षे --- अयं प्रत्यगभिन्नोऽग्निः परमेश्वरः सहस्रिणः शतिनश्च वाजस्य धनस्य पतिः, रयीणां धनानां मूर्धा, सर्वधनसाध्यसुख सिन्धुस्वरूपत्वात् । कविः क्रान्तदर्शी सर्वदर्शी । तमहमाश्रये । दयानन्दस्तु - ' हे मनुष्याः यथायमग्निः सहस्रिणः शतिनो वाजस्य रयीणां च पतिर्मूर्धा कविरस्ति, तथैव यूयं भवत ' इति, तदपि तुच्छम्, सम्बोधनोपसंहारयोनिर्मूलत्वात् ॥ २१ ॥
त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑व॒ निर॑मन्थत । मू॒र्ध्वो विश्व॑स्य वा॒घत॑ः ॥ २२ ॥
मन्त्रार्थ - हे अग्ने! प्राण ने जल के बीच में से मथ कर तुमको निकाला है । सम्पूर्ण संसार के यज्ञीय ऋत्विजों ने आवर के साथ तुम्हारा मन्थन किया है ॥ २२ ॥
इयमेकादशे द्वात्रिंशत्तमकण्डिकायां व्याख्यातपूर्वापि व्याख्यायते । हे अग्ने, अथर्वा एतदाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमन्यत निःशेषेण मथितवान्, ' पुष्करपर्णे ह्येनमुपश्रितमविन्दत् ' ( तै ० सं ० ५ | १ | ४ | ४ ) इति श्रुतेः । कीदृशात् पुष्करपर्णात्? मूध्नं उत्तमाङ्गवत् श्रेष्ठाद् विश्वस्य सर्वस्य जगतो वाघतो वाहकात् । इदं हि पुष्करपर्णमग्निमन्थनयज्ञनिष्पादनद्वारा सर्वं जगन्निर्वहति । अध्यात्मपक्षे हे अग्ने परमात्मन्, अथर्वोपलक्षिता ऋषयस्त्वां पुष्कराद हृदयकमलाद् ध्यानाभ्यासरूप-निर्मन्थनाद् आविर्भावितवन्तः । कोदृशात् पुष्करात्? मूर्धवदुत्तमाद् विश्वस्य सर्वस्य वाहकात् । विश्वाधारस्य भगवतो धारकत्वात् सुतरां सर्ववाहकत्वमिति । दयानन्दस्तु -- ' हे अग्ने विद्वन्, यथा अथर्वा रक्षको वाघतः सुशिक्षिताभिर्वाग्भिरविद्या हन्यते येन स मेधावी, ' वाघत इति मेधाविनामसु ' ( निघ ० ३ | १५ | २४ ) पठितत्वात् । पुष्कराद् अन्तरिक्षस्य अधि मध्ये मूर्ध्नः शिरोवद्धत्तं वर्तमानमग्नि विद्युतं निरमन्थत मथित्वा गृह्णाति तथैव त्वां बोधयामि ' इति, तदपि यत्किञ्चित्, द्वितीयान्ताग्निशब्दस्य मूलेऽभावात्, मूर्धन् इत्यस्य तद्विशेषणानुपपत्तेश्च ॥ २२ ॥
II
पृष्ठ 462
पाठ पढ़ें पाठ छिपाएँ
४२६ शुक्लयजुर्वेद संहिता [ अ ० १५
भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भः सच॑से शि॒वाभिः ।
दि॒वि मूर्धानं दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे ह॒व्य॒वाह॑म् ॥ २३ ॥
मन्त्रार्थ - हे अग्निदेव! तुम जब हवि को धारण करने वाली जिह्नारूप ज्याला को प्रकट करते हो, हो । मंगल रूप तब gor और देवता के त्यागरूप यज्ञ के एवं यज्ञ के परिणाम रूप जल के प्रवर्तक और प्रापक होते अश्वों के साथ तुम यहाँ आते हो और हुलोक में स्वर्ग को देने वाले आदित्य को धारण करते हो ॥ २३ ॥
' पुरस्तात्त्रष्टुभो रेतः सिग्वेलायां भवो यज्ञस्येति ' ( का ० श्र ० १७ | १२ | ७ ) । पूर्वभ्यां दिशि रेतः सिग्वे-लायां त्रिष्टुपसंज्ञकास्तिस्र इष्टकाः प्राग्लक्षणा उदङ्मुखास्त्रिष्टुप छन्दम्काभिस्तिभिर्ऋग्भिरुपदध्यादिति सूत्रार्थः । तिस्र ऋच आग्नेय्यः । तत्रेयं प्रथमा त्रयोदशेऽध्याये पञ्चदश्यां कण्डिकायां व्याख्याता । हे अग्ने, भुवो भूर्लोकस्य तत्रानुष्ठितस्य यज्ञस्य तस्मिन् यज्ञे प्रवर्तकस्य रजसो रजोगुणस्य च त्वं नेता निर्वाहकः । यत्र यस्यां दिवि सूर्यरूपो भृत्वा नियुद्भिर्नितरां योज्यमानाभिरश्वाभिः शिवाभिः सचसे समवैषि सम्बन्धं करोषि नियतो दधिषे वायो: ' ( निघ ० १ १५ ।१० ) इत्युक्तेर्नियुतो नाम वायोरश्वाः । तस्यां दिवि मूर्धानं शिरोवत् प्रधानमादित्यं धारयसि । कीदृशं मूर्धानम्? स्वर्षाम्, स्वः स्वर्गं सनोति ददातीति स्वर्षास्तम् । यद्रा स्वः स्वर्गे स्यति सदा तिष्ठति न ततोऽपसरतीति स्वर्षास्तम् । तथा अस्मिन् यज्ञे हव्यवाहं हव्यं वहतीति हव्यवाट् तां जिह्वां हविषः प्रापिकां ज्वालां चकृषे करोषि । अध्यात्मपक्षे हे अग्ने परमेश्वर, त्वं भुवो भूर्लोकस्य यज्ञस्य रजयश्च नेता प्रेरकः, यत्र यस्यां दिवि नियुद्भिर्नियुद्गुणविशिष्टाभिरश्वाभिः सहितं वायुं सचसे सेवसे, नियुद्भिर्वायुर्लक्ष्यते यत्र च मूर्धानमादित्यं करोषि दधिषे धारयसि कीदृशमादित्यम्? स्वर्षाम् स्वर्गलोकदातारम्, तत्र च हव्यवाहं हविवढीं जिह्वां चकृषे परमेश्वरस्यैवाग्निज्वालादिरूपेण देवेभ्यो हविषः प्रापकत्वात् ॥ २३ ॥
अबौध्यग्निः समिधा जनानां प्रतिधेनुमिवायतीम॒षास॑म् ।
॥
य॒ह्वा इ॑व॒ प्रव॒यामुज्जहा॑नाः प्रभा॒नवः॑ सिस्रते॒ नाकमच्छे ॥ २४
S मन्त्रार्थ - ज्ञान, श्रद्धा, द्विजतपंण, सत्य आदि से सम्पन्न अग्निहोत्रियों की संविदा से अग्नि प्रज्वलित पक्षी अपने पंखों की होतो है । दीप्तिमान् अग्नि की किरणें स्वर्ग के चारों ओर उसी प्रकार फैलती हैं, जैसे कि सहायता से वृक्षों की शाखाओं पर से आकाश में उड़ जाते हैं ॥ २४ ॥
ज्ञानश्रद्धाद्विजतर्पणसत्यादिनिष्ठानामग्निहोत्रिणां समिधा समिन्धनेन प्रत्यबोधि प्रतिबुद्धयते कर्मणि स्वाधिकारं जानातीत्यर्थः । क इव? यथा वत्स आयतीं समागच्छन्तीं धेनुं प्रतिबुद्धयते तद्वत् । यथा वा उषासम् उषःकालाधिष्ठात्री देवतां मनुष्याः प्रतिबुद्धयन्ते । ' अच्छाभेराप्तुमिति तद्वत् । आहुतिभिर्दीप्तस्य शाकपूणिः तस्याग्नेर्भानवो रश्मयो नाकमच्छ स्वर्गमभिप्राप्तुं प्र सिस्रते प्रसरन्ति ( निरु ० ५।२८ ) । तत्र दृष्टान्तः -- यह्वा महान्तो जातपक्षाः पक्षिणो वयां वृक्षशाखां प्रोज्जिहानाः परित्यजन्तो काष्ठेन नाकमाकाशं प्रति प्रसरन्ति तद्वत् । यद्वा जनानामृत्विजां सम्बन्धिन्या समिधा अग्निसमिन्धनसाधनेन अग्नि: प्रत्यबोधि प्रतिबोधितः प्रज्वलितो भवति । आयतोमागच्छन्तोमुषासं प्रातःकालं प्रति यथा धेनुं प्रतिबोधयन्ति उत्थापयन्ति जनाः, तथाग्निहोत्रणोऽग्निमुद्बोधयन्तीत्यर्थः । तस्य प्रबुद्धस्याग्नेर्भानवः प्रोज्जिहानाः
पृष्ठ 463
पाठ पढ़ें पाठ छिपाएँ
म ० २४-२५ ] वेदार्थपारिजातभाष्यसहिता ४२७ नाकमभि प्र सिस्रते । तत्र दृष्टान्तः वयां पक्षिणां मध्ये यह्वा महान्तः पक्षिणो यथा प्रोद्गच्छन्तः प्रसरन्ति, तद्वत् । वि: पक्षी, तस्य षष्ठीबहुवचने छान्दसे गुणे वयामिति रूपम् । एक: प्रशब्द उज्जिहाना इत्यनेनापर: सिस्रते इत्यनेन च सम्बद्धयते । उषासमिति ' व्यत्ययो बहुलम् ' ( पा ० सू ० ३।११८५ ) इति ह्रस्वस्य दीर्घव्यत्ययः । अयमभिप्रायः -- आयतीमागच्छन्तीं धेनुं गां वत्सो यथा प्रतिबुद्धयते, आयतीमुषासमुषसं प्रातःकालं यथा मनुष्याः प्रतिबुद्धयन्ते तथायमग्निर्जनानामाहिताग्नीनां समिधा समिन्धनेन प्रत्यबोधि कर्मणि स्वाधिकारं जानाति । यथा यह्वा महान्तः पक्षिण इति शेषः, वयां वृक्षशाखां प्रोज्जिहानाः परित्यजन्तो नाकमाका मच्छमभि सिस्रते प्रसरन्ति तथा तस्याग्नेर्भानवः किरणा नाकं स्वर्गमच्छ अभि सिस्रते । अत्र धेनुमित्यत्र वत्सस्य, उषास मित्यत्र मनुष्या इत्यस्य यह्वा इत्यत्र पक्षिण इत्यस्य च शेषत्वं द्रष्टव्यम् । यद्वा - अयमग्निर्जनानामाहि-ताग्नीनां समिधा अबोधि प्रज्वलितोऽभूत् । तत्र दृष्टान्तः --- आयतीमुषासं प्रति धेनुमिव उषःकाले समागते सति दोहनार्थं समागतां धेनुं प्रति यथा वत्सः प्रतिबुद्धयते तद्वत् । उद्बुद्धद्यमानस्याग्नेर्भानवः किरणाः प्रोज्जिहानाः प्रकर्षेणोद्गच्छन्तो नाकमच्छ स्वर्गमभिप्राप्तुं प्र सिस्रते । तत्र दृष्टान्तः - यह्वा महान्तः पक्षिण इव वयां वीनां पक्षिणां मध्ये नाकमच्छ सिस्रते आकाशमभिप्राप्तुं प्रसरन्ति तद्वत् । अध्यात्मपक्षे अयं ज्ञानाग्निर्जनानामधिकारिणां साधनचतुष्टयसम्पन्नानां समिधा ज्ञानसाधनेन वेदान्तश्रवणमननादिभिः प्रत्यबोधि प्रतिबुद्धयते प्रज्वलितो भवति । क इव? यथा आयतीमागतां धेनुं प्रति वत्सो बुद्धयते, यथा वा आयतीमुषासं प्रातःकालं प्रति मनुष्यादयो बुद्धयन्ते तद्वत् । तस्य ज्ञानाग्नेर्भानवो रश्मयो नाकं दुःखातीतं परमात्मानम् अच्छ अभि प्राप्तुं सिस्रते प्रसरन्ति । यथा वयां पक्षिणां मध्ये या महान्तो जातपक्षा नाकमाकाशमभि सिस्रते तद्वत् । दयानन्दस्तु -- ' है मनुष्याः, यथा समिधाऽयमग्निरबोधि प्रकाशते, आयतीमुषासं प्रति जनानां धेनुमिवास्ति यस्य, यह्वा इव महान्तो धार्मिका इव प्रवयां व्यापिकां सुखनीतिमुज्जिहाना उत्कृष्टतया प्राप्नुवन्तः प्रभानवः किरणा नाकमविद्यमानदुःखमाकाशम् अच्छ सम्यक् सिस्रते प्रापयन्ति तं सुखाय यूयं सम्प्रयुङ्क्ष्वम् ' इति, तदपि निरर्थकमेव, असम्बद्धत्वात्, अत्रत्यस्य हिन्दीभाष्यस्य चास्पष्टत्वात् ॥ २४ ॥
अाम कवये मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॑ व॒ष्णे 1 ।
गर्विष्ठरो नम॑सा॒ स्तोम॑म॒ग्नौ दिवीव रुक्मम॑रु॒व्यञ्च॑मत् ॥ २५ ॥
समर्थ अग्नि की स्तुति करने वाले आहवनीय अग्नि में उसी प्रकार आदि में प्रयुक्त स्तुति अर्पित मन्त्रार्थ हम कान्तदर्शी उद्गातागण यज्ञ के योग्य श्रेष्ठ कामना करने में वचनों का कथन करते हैं । वाणी में स्थिर होता हुआ पुरुष अन्न से युक्त स्तुति को अर्पित करता है, जिस प्रकार स्वर्ग में रोचमान आदित्य को सन्ध्यावन्दन, सूर्योपस्थान की जाती है ॥ २५ ॥
सामस्तोत्राणामुद्गातार ऋत्विजो वदन्ति । किं वदन्तीत्युच्यते-- कवये क्रान्तदर्शनाय मेध्याय मेधे यज्ञे योग्यो मध्यस्तस्मै । अग्नये अवोचाम स्तुतिरूपं वचो वाक्यमुक्तवन्तो वयम् । कीदृशं वचः? वन्दारु वन्दनशोलं स्तुतितत्परम् ' शृवन्द्योरारुः ' ( पा ० सू ० ३।२।१७३ ) | वन्दतेऽभिवादयते स्तौति वेति वन्दारु । कीदृशाय अग्नये? वृषभाय श्रेष्ठाय, कामानां वर्षित्रे फलदात्रे वा । आहुतिपरिणामाभिप्रायमेतत् । पुनः कीदृशाय? वृष्णे
पृष्ठ 464
पाठ पढ़ें पाठ छिपाएँ
४२८ शुक्लयजुर्वेद संहिता [ अ ० १५ सेक्त्रे | अर्थाद यूने परिणामादिविकारशून्यायेत्यर्थः नित्यं नवोनायेति तात्पर्यम् । गविष्ठिर इदानीं गवि वाचि स्थिरोऽप्रच्याव्यो होता, ' गवियुधिभ्यां स्थिर: ' ( पा ० सू ० ८ ( ३२ ९ ५ ) इति षत्वम् । नमसा अन्नेन युते स्तोमं स्तुतिम् अग्नी आहवनीये, अद् आसञ्जयिष्यति, अग्निसम्बद्धं करिष्यतीत्यर्थः । अन्तर्भुतण्यर्थः श्रयतिः । लङ् च लुडर्थे, ' छन्दसि लुङ्लङ् लिट: ' ( पा ० सू ० ३२४२६ ) इति वचनात् । ' बहुलं छन्दसि ' ( पा ० सू ० २ | ४ | ७३ ) इति शपो लुकि गुणः । कथमिव? दिवीव रुक्मम् । यथा द्युलोके रुक्मं रोचनमादित्यम्, उरु व्यञ्च सन्ध्यावन्दन सूर्योपस्थानादिषु विशेषेण प्रयुक्ता उरवा बहवो व्यचाः स्तुतयो गतयो वा यस्य सः, तमिव । अथवा उरुभिः स्तुतिभिर्भक्तिभिः स्वरसौष्ठवाद्युपेताभिर्युक्तम् । स्तोम आदित्येन आहवनीयो दिवा चोपमीयते । अध्यात्मपक्षे - उद्गावारो होतारो भक्ताश्च भगवन्तं स्तुवन्ति । वयमग्नये परमेश्वराय वचोऽवोचाम नैकधा स्तुतिवाचमुक्तवन्तः । कीदृशायाग्नये? कवयेतातानागतवर्तमानदर्शिने । पुनः कीदृशाय? मेध्याय परमपवित्राय, पावनानां पावनत्वात् । पुनः कीदृशाय? वृषभाय वृषो धर्मो भाति शोभते यस्मादसौ वृषभः, तस्मै । पुनः कीदृशाय? वृष्णे अभाष्टकामवर्षुकाय । कीदृशं वचः? वन्दारु वन्दनादियुक्तम् । गविष्ठिरो वाच्यस्खलितः, अथवा गवि उच्चभक्तिभूमिकायां स्थिरः स्थितो भक्तो नमसा हविनैवेद्याद्यनेन युक्तं स्तोमं स्तुतिसमूहम् अग्नौ भगवति, अत् आसञ्जयिष्यति । कुत्र किमिव? दिवि द्युलोके रुक्मं रोचमानम् उरुव्यञ्चं बहुभिः स्तुतिभिर्गतिभिर्वा युक्तमादित्यमिव । दयानन्दस्तु -- ' वयं यथा गविष्ठिरो गोषु किरणेषु तिष्ठतीति दिवि सूर्यप्रकाश इव, उरुव्यचम् उरुषु बहुषु विशेषेण अञ्चतीति उरुव्यश्वस्तम्, रुक्ममादित्यं अश्रेत् श्रयेत्, तथा मेध्याय सर्वशुभलक्षणसङ्गताय पवित्राय वृषभाय बलिष्ठाय वृष्णे वृष्टिकर्त्रे कवये मेधाविने बन्दारु प्रशंसनीयं वचोऽग्नौ पावके नमसा अन्नादिना अवोचाम उच्याम ' इति, तदप्यसङ्गतम्, विद्युदग्नेः सूर्यकिरणेषु सत्त्वे मानाभावात् । यदि किरणेषु तिष्ठति, तर्हि किरणा एवं तदाश्रयभूताः पुनः किमर्थमादित्याश्रयणम्? किन सूर्यस्य किरणा: प्रकाशाश्च परस्परमभिन्ना एवेति पृथग्वचनं निरर्थकमेव | किन, कोऽयं कविः यस्मै वन्दारुवचः प्रयोक्तव्यम्? न जीवः, निरर्थकत्वाद् रागप्राप्तत्वाच्च । नापीश्वरः, कवित्वादीनामन्यत्रापि सम्भवात् ॥ २५ ॥
अ॒यमि॒ह प्र॑थ॒मो धय धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वोडय॑ः ।
यमप्त॑वानो॒ भृग॑वो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥ २६ ॥
मन्त्रार्थ -- यह अग्नि देवताओं का आह्वान करने वाला, यज्ञ में स्थित अथवा अतिशय यज्ञ कराने वाला यज्ञों में ऋत्विजों के द्वारा स्तुत होकर इस कर्मस्थान में स्थापित किया गया है । पुत्रवान् यज्ञविद्या जानने वाले भृगुवंशी मुनियों ने यजमान के उपकारार्थं आश्रर्यरूप व्यापक शक्ति वाले इस अग्नि को प्रज्वलित किया था ॥ २६ ॥
' जगतीश्च पश्चादयमिहेति ' ( का ० श्री ० १७ २२८ ) । तिसृभिः पश्चाद्रेतः सिग्वेलायां तिस्रो जगती-संज्ञेष्टकाः प्राग्लक्षणा दक्षिणामुख उपदध्यादिति सूत्रार्थः । आसां मध्यमा पद्यानके तामभितो अर्धपद्ये । तासु तिसृषु जगतोषु प्रथमेयमृक् । इयं च तृतीयेऽध्याये पञ्चदश्यां कण्डिकायां व्याख्याता ॥ २६ ॥
अथ द्वितीया जगती -जन॑स्य गो॒पा अ॑जनिष्ट जागृ॑विर॒ग्निः सुदक्षंः सुवि॒ताय॒ नव्य॑से ।1 घृतप्रेतीको बृह॒ता दवि॒स्पृता॑ द्यु॒मद्वर्भात भर॒तेभ्यः॒ शुचि॑ः ॥ २७ ॥
पृष्ठ 465
पाठ पढ़ें पाठ छिपाएँ
म ० २७-२८ ] वेदार्थ पारिजातभाष्यसहिता ४२ ९ सावधान, अति उत्साह युक्त, घृत को मुख में रखने वाला यह पवित्र द्वारा प्रकट किया गया है । यह अग्नि स्वर्ग को स्पर्श करने वाली विशाल मन्त्रार्थ - यजमानों का रक्षक, कर्म में अग्नि नवीन यज्ञ के निमित्त ऋत्विजों के कान्ति से प्रकाशमान है ॥ २७ ॥
योऽग्निर्भरतेभ्य ऋत्विग्भ्यः सकाशाद् अजनिष्ट जातः । तैर्मथितत्वात् तेभ्यो जातत्वोक्तिः । भरता ' इति ऋत्विनामसु ( निघ ० ३।१८ १ ) पठितम् । किमर्थं जात इति चेदुच्यते - नव्यसे नवीयसे नवतराय अतिशयेन नवं नवीयस्तस्मै । ईकारलोप आर्ष: । अभिनवाय यागादिकर्मणे जात इत्यर्थः । कथंभूताय? नवीय से सुविताय सूताय प्रसूताय कर्मणे यागाय । सूतेरिडागम आर्षः । सोऽग्निदिविस्पृशा द्युलोक पशिना बृहता ज्वालासमूहेनेति शेषः । द्युमत्कान्तिमद्यथा स्यात् तथा विभाति विविधं दोप्यते । कोदृशोऽग्निः? जनस्य यजमानस्य गोपाः । गोपायति रक्षतीति गोपाः क्विप् । ' लोपो व्योवलि ' ( पा ० सू ० ६।१।६६ ) इति यकारलोपः । जागृविः जागरणशीलः कर्मणि रक्षायां च सावधानः । सुदक्षः सुष्ट शोभतो दक्ष उत्साहो यस्य सः, अतिकुशल इत्यर्थः । घृतप्रतीको घृतं प्रतीके मुखे यस्य सः, तदुद्देश्येनान्यदेवतोद्देश्येन वा घृतस्य तन्मुखे हूयमानत्वात् । शुचिः शुद्धः, बहूनां विषां भक्षणेनाप्यनुच्छिछ्रुत्वात् । अथवा शुचिः शोधकः । यद्वा ---योऽयं जनस्य यजमानस्य गोपा गोपायिता अजनि जातः, जागृविः, जागर्तीति तथोक्तः । अम्लानज्ञान इत्यर्थः । सुदक्षः शोभनोत्साहः । सुविताय सुप्रभूताय । नव्यसे नवतराय कर्मणे । घृतप्रतीको घृतमुखः । बृहता महता दिविस्पृशा दिवं स्पृशतीति दिविस्पृक् तेन भानुना द्युमद् दीप्तिमत् । भरतेभ्य ऋत्विग्भ्योऽर्थाय । शुचिः शुद्धः । मनुष्येभ्यो जायमानोऽपि मनुष्यसम्बद्धदषिनं लिप्यते । स विभाति विविधं दीप्यते । अध्यात्मपक्षे - अयमग्निः परमेश्वरो जनस्य भक्तजनस्य गोपा रक्षकोऽजनिष्ट श्रीरामकृष्णादिरूपेणोत्पन्नः । जागृविः सदा भक्तरक्षणे जागरूकः । सुदक्षः शोभनोत्साहोऽतिकुशलो वा । घृतप्रतीको घृतमुखः, नवनीत-प्रियस्वात् । शुचिर्भावानुसारेण सर्वेषां नैवेद्यानि भक्षयन्नप्यमेध्यो न भवति | किमर्थं जात इत्युच्यते? नव्यसे नवनवायमानाय सुविताय प्रसूताय चरित्राय तच्चरितस्य श्रवणमात्रेण विश्वपावनत्वात् । दयानन्दस्तु - ' हे मनुष्याः, यो जनस्य जातस्य गोपा रक्षको जागृविर्जागरूकः सुदक्षो घृतप्रतीकः प्रतीतिकरं जलमाज्यं वा यस्य सः । शुचिरग्निर्नव्यसे सुविताया जनिष्टातिशयेन नवीनायोत्पादनीय ऐश्वर्याय जातः, बृहता महता दिविस्पृशा दिवि प्रकाशे स्पृशति येन तेन भरतेभ्य आदित्येभ्यो घुमद् द्यौः प्रकाशोऽस्त्यस्मिन् तद् विभाति तं यूयं विजानीत ' इति, तदपि न, सम्बोधनोपसंहारयोनिर्मूलत्वात्, विद्युदग्निबोधस्य लोकिकोपाय-बोध्यत्वेनाज्ञातज्ञापकवेदस्य तद्बोधने तात्पर्यायोगात् । किञ्च त्वद्रीत्या वेदस्यानादित्वेन तद्विहितस्य विद्युदग्नि-ज्ञानस्य कथं नवीनत्वम्? कथं वा नव्यकार्यकरत्वं सम्भवति? घृतप्रतीक इत्यत्र प्रतीकशब्दस्य प्रतीतिकरत्वं कथमर्थः? कथं च प्रतीतेर्बुद्धिरर्थः? इत्यादिजाज्वल्य मानदोषाणां समुल्लासात् ॥ २७ ॥
त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहो हितमन्त्र॑विन्दञ्छिश्रियाणं वने॑वने ।
स जा॑यसे म॒थ्यमा॑न॒ः सहो॑ मह॒त्त्वमा॑ह॒ सह॑त॒स्पु॒त्रम॑ङ्गिरः ॥ २८ ॥
मन्त्रार्थ -- निरन्तर यज्ञ में विचरण करने वाले हे अग्निदेव! अंगिरा ऋषि के वंश में उत्पन्न हुए ऋषियों ने निगूढ़ देश में स्थित, अनेक वनस्पतियों में निवास करने वाले तुमको खोजा है । वह तुम बड़े बल से मध्यमान होने के कारण अरणि से उत्पन्न होते हो । इसी कारण मुनिगण तुमको बल का पुत्र और ब्रह्मज्योति कहते हैं ॥ २८ ॥
१. वस्तुतस्तु ऋत्विङ्नामसु भारतशब्दस्य पाठः । यज्ञद्वारेण कृत्स्नं भरन्तीति स्कन्दस्वामिरीत्या भरता अपि ऋत्विज एव ।
पृष्ठ 466
पाठ पढ़ें पाठ छिपाएँ
१ ४३० शुक्ल यजुर्वेदसंहिता [ अ ० १५ हे अग्ने, यं त्वामङ्गिरसोऽङ्गिरोवंशोद्भवा ऋषयः, अन्वविन्दन् उपलब्धवन्तः, अन्विष्य प्रापुरित्यर्थः । कीदृशं त्वाम्? गुहा गुहायां निगूढे प्रदेशे हितं स्थितम् अप्सु प्रविष्टमित्यर्थः । ' अग्निर्देवेभ्य उदक्रामत् सोऽप आविशत् ' इति श्रुतेः ' । ' सुपां सुलुक् ' ( पा ० सू ० ७ / १ / ३ ९ ) इति गुहाशब्दात् सप्तमीलोपः । हे अग्ने, नष्टं त्वां वने वने शिश्रियाणं नानावनस्पतिश्रितमङ्गिरसोऽन्वविन्दन् । ' नित्यवीप्सयो: ' ( पा ० सू ० ८ ११४ ) इति वपदस्य द्वित्वम् । स त्वमिदानीमपि जायसे उत्पद्यसे, अरणिभ्य इति शेषः । कीदृशस्त्वम्? महत् सहो मध्यमानो महता बलेन अरणिकाष्ठेभ्यो मध्यमानः । महत् सहस् - शब्दाभ्यां परस्यास्तृतीयाया लोपः । अतश्च कारणाद हे अङ्गिरः! अग्ने त्वां सहसस्पुत्रं सहसो बलस्य पुत्रमृषय आहुः, बलेन मथनाज्जायमानत्वात् । अध्यात्मपक्षे -- हे अग्ने, त्वा अङ्गिरसस्तदुपलक्षिता ऋषयो गुहाहितं गुहायां बुद्धिरूपायां हितं स्थितमन्व-विन्दन् उपलब्धवन्तः । शिश्रियाणं सर्वभूतेषु श्रितम् । कीदृशा अङ्गिरसः? वने वने तपस्यमाना इति शेषः । स त्वं हे अङ्गिरो अग्ने, महता बलेन प्रयासेन मथ्यमानो ध्याननिर्मथनाभ्यां मनसि स्थिरोक्रियमाणो जायसे प्रादुर्भवसि । अतो मुनयस्त्वां सहसस्पुत्रमाहुः । दयानन्दस्तु - ' हे अङ्गिरोऽग्ने प्राणवत् प्रिय, त्वं मध्यमानोऽग्निरिव विद्यया जायसे । यथा महत्सहोमयं सहसपुत्रं वने वने शिश्रियाणं गुहाहितं त्वामाहुरङ्गिरसोऽन्वविन्दन् तथा स्वामहं दीपयामि ' इति, तदपि तुच्छम् प्रमाणमन्तरा लक्षणावृत्तेराश्रयणस्यायुक्तत्वात् त्वद्रीत्या बळयुक्तस्य वायोः पुत्राप्रसिद्धधा तद्दृष्टान्तानुप-पत्तेश्च । न च रश्मी रश्मो पदार्थ पदार्थ कस्यचिन्मनुष्यस्य विदुषोऽविदुषो वा श्रयणं गुहाहितत्वं च सम्भवति । तस्मान्निरर्थकमेव तत्प्रलपनम् ॥ २८ ॥
सखा॑य॒ सं व॑ स॒म्यञ्च॒मिषि॒ स्तोमं चाग्नये॑ । वर्षिष्ठाय क्षितीनामूर्जोनत्रे सहस्वते ॥ २ ९ ॥ मन्त्रार्थ - यजमान ऋत्विजों से कहते हैं कि है ऋत्विजों, मेरे साथ मित्रता का व्यवहार करने वाले तुम लोग मनुष्यों के परम उपकारक, जल के पौत्र रूप, बड़े बल वाले अग्निदेवता के निमित्त समीचीन नवीन हविरूप अन प्रदान करों और स्तोत्र का पाठ करो ॥ २ ९ ॥ ' अपरास्ताभ्योऽनुष्टुभः सखायः सं व इति ' ( का ० श्र ० १७११२२ ९ ) । जगतीभ्योऽपरास्तिस्रोऽनुष्टु-संज्ञेष्टकाः प्राग्लक्षणा दक्षिणामुखः सखाय इति ऋक्त्रयेणोपदध्यादिति सूत्रार्थः । आसां मध्यमा पद्यातू के तामभितो द्वे अर्धपद्ये । तिस्रोऽनुष्टुभः । ऋत्विजो यजमानेन सम्बोद्धयन्ते - हे सखाय ऋत्विजः सम्यञ्च समोचनमिषपन्नं हविर्लक्षणं समोचोनं स्तोमं च अग्नये अग्निदेवतायें यूयं सम्पादयत । अग्निदेवताकं हविः कुरुतेत्यर्थः । त्रिवृत् पञ्चदशादिस्तोमं च वदतेत्यर्थः । व्यत्ययेन प्रथमास्थाने द्वितीयाबहुवचनं कृत्वा वसादेशे व इति रूपम् | समित्युपसर्गस्यागीक्षितः क्रियाविशेषोऽध्याहर्तव्यः, सम्पादयति । कीदृशानाग्नये? क्षितीनां वर्षिष्ठाय । क्षियन्ति निवसन्ति भूमाविति क्षितयो मनुष्यास्तेषाम् । अतिशयेन वृद्धो वर्षिष्ठः, तस्मै वृद्धतमाय | ' प्रियस्थिर '... ( वा ० सू ० ६ । ४ ११५७ ) इति वृद्धशब्दस्येष्ठनि वर्षादेशः, सर्वपूज्यायेति यावत् । तथा कर्जो जलस्य नत्रे पौत्राय | अद्भूयो वनस्पतयो जायन्ते, तेभ्योऽग्निरित्यपां पौत्रत्वमग्नेः । तथा सहस्वते सहो बलमस्यास्तीति सहस्वानग्निः, तस्मै । यद्वा हे सखायः शृणुत, वो युष्मान् ब्रवीमीति शेषः । सम्यञ्चमेकीभूतम् इषं हविलक्षणमन्नं स्तोमं च त्रिवृत्पचदशादि अग्नये, भरतेति शेषः । शेषं पूर्ववत् । १. इयं श्रुतिर्नाधुनोपलभ्यते ।
पृष्ठ 467
पाठ पढ़ें पाठ छिपाएँ
म ० २ ९ -३१ ] वेदार्थ पारिजातभाष्यसहिता ४३१ अध्यात्मपक्षे - हे सखायो मित्राणि, यूयं शृणत वो युष्मान् ब्रवीमीति शेषः । सम्यञ्चं समीचीनमुत्कृष्टमिषं निवेदनीयमन्नं स्तोमं स्तृतिसमूहं चाग्नये परमात्मने समर्पयत । कीदृशायाग्नये? क्षितीनां प्राणिनां वर्षिष्ठाय पूज्यतमाय, ऊर्जा जीवरसस्य नप्त्रे पौत्राय पौत्रवत प्रियतमाय, सहस्वने प्रशस्तवलाय । दयानन्दस्तु यथा विद्वांसः सखायः सन्तः क्षितीनां वो युष्माकमूर्जोनत्रे सहस्वते वर्षिष्ठशयाग्नये यं सम्यचमिषं स्तोमं च समाहः, तथा यूयमनुतिष्ठत ' इति तदपि यत्किचित, गौणार्थाश्रयणात्, सम्बोधनोपसंहारयो-निर्मलत्वाच्च ॥ २ ९ ॥
समिह वसे वनग्ने॒ विश्वा॑न्य॒ आ । इडस्प॒दे समि॑िध्य॒मे॒ स नो वस॒न्याभ॑र ॥ ३० ॥
मन्त्रार्थ - हे सेचन करने वाले अग्निदेव, तुम हमारे स्वामी हो, सम्पूर्ण यज्ञ - पलों को कराते हो, तुम पृथ्वी के स्थान उत्तरवेदि में कर्म के निमित्त प्रदीप्त होते हो । तुम हमारे लिये जुटाकर प्राप्त कराओ ॥ ३० ॥
यजमान को प्राप्त सभी ओर से धन हे वृषन, वर्षति कामानिति वृषा तत्सम्बुद्धी, सेक्त: अभीष्टवर्षणशील! ' प्रसम्पोदः पादपूरणे ' ( पा ० स ० ८६ ) इत्युपसर्गाभ्यासः । इदिति पादपूरणोऽनर्थकः । अग्ने विश्वानि सर्वाणि वसूनि धनानि अर्यः स्वामीश्वरः सन् त्वम् आलोच्यालोच्य समन्तात संयुवसे संयोषि यजमानेन सङ्गमयसि, नोऽस्माकं यजमानानामिड याच पदे कर्मार्थं समिद्धय से टीप्यसे । यद्वा इडायाः पृथिव्याः पदे उत्तरवेदी सन्दीप्यसे । यद्वा अय: स्वामी त्वं विश्वानि सर्वाणि फलान्यासमन्तात् संयुवसे । युवसे इति विकरणव्यत्ययः । ईदृशस्त्वं नोऽस्मभ्यं वसुनि आभर आहर । ' अर्य: स्वामिवैश्ययोः ' ( पा ० ० ३ । १ । १०३ ) इति निपातनम् । आभरेत्यत्र ' ग्रहोर्भर छन्दसि ' ( पा ० सू ० ३ । १ । ८४ वा ० ) इति हकारस्य भकारः । अध्यात्मपक्षे - हे अग्ने परमेश्वर, हे वृषन् अभीष्टफलवर्षितः! विश्वानि सर्वाणि वसूनि धनानि बाह्या-न्याध्यात्मिकानि च आसमन्तात् संयुवसे भक्तैः सङ्गमयसि । इडाया गवाम् जानावेकवचनम् । पदे गोष्ठे व्रजे समिध्य से दीप्यसे श्रीरामरूपेण सरखा उत्तरस्मिन् भागे कृष्णरूपेण वृन्दावने च । स एवं नोऽस्मभ्यं वसूनि त्वदाकारा वृत्तीराभर सङ्गमय । दयानन्दस्तु - ' हे वृषन्नग्ने, अर्यं वैश्य, त्वं सं समायुवसे मिश्रय । इडः प्रशंसनीयस्य पदे प्रापणीये समिध्यसे प्रदोप्य से, स नो वसून्याभर ' इति, तदपि यत्किञ्चित् सम्बोधनस्य अग्नेपदस्य स त्वमिदमग्निनेत्यन्वयानुपपत्तेः, तदन्यस्य तृतीयान्तस्य तस्य मन्त्रेऽभावात् । न च वैश्यः प्रार्थयितृणामर्थाय धनमर्जयति, समेषां स्वाभीष्ट -सिद्धयर्थमेव प्रवृत्तिदर्शनात् । न च ' युवसे ' इति पदस्यापि तत्र सङ्गतिः ॥ ३० ॥
त्वां चि॑ित्रश्रवस्तम॒ हव॑न्ते वि॒क्षु ज॒न्तवः॑ । श॒चिष्कैशं पुरुप्रियायें ह॒व्याय॒ वोढवे ॥ ३१ ॥
मन्त्रार्थ - कीति और ऐश्वयं से अतिविचित्र यजमानों के प्रिय हे अग्निदेव! प्रजा के कल्याण के लिये ऋत्विक और यजमान तुमको हषि का वहन करने के लिये बुलाते हैं ॥ ३१ ॥
हे चित्रश्रवस्तम! चित्रं नानारूपं धनं कीर्तिर्वा यस्य स चित्रश्रवाः, अतिशयेन चित्रश्रवा इति चित्रश्रवस्तमस्तत्सम्बुद्धौ । हे पुरुप्रिय पुरूणां बहूनां यजमानानां प्रियः पुरुप्रियस्तत्सम्बुद्धी । अथवा पुरवो बहवो यजमाना: प्रिया यस्य स पुरुप्रियस्तत्सम्बुद्धौ । अथवा पुरु बहु हव्यं प्रियं यस्य स पुरुप्रियस्तत्सम्बुद्धौ । हे अग्ने, विक्षु प्रजासु जन्तव ऋत्विग्यजमानास्त्वां हवन्ते आह्वयन्ति । ' ह्वः सम्प्रसारणम् ' ( पा ० सू ० ६ | १/३२ ) इति
पृष्ठ 468
पाठ पढ़ें पाठ छिपाएँ
४३२ शुक्लयजुर्वेदसंहिता [ अ ० १५ शपि विनापि निमित्तं सम्प्रसारणम, छन्दसि दृष्टानुविधित्वात । कीदृशं स्वाम? शोचिष्केशम् शुच्यन्ते स्वभावतः पता भवन्तीति शोचींषि ज्वालाः केशा इव वेशस्थानीयानि वा यस्य स शोचिष्केशस्तम् । ' अर्चिशुचि... ( उ ० २०१०८ ) इनि इसि । ' ईचिर प्रतीभावे ' इति त्वादिकस्य रूपम् । यत्त व्याकरणज्ञानशून्येन दयानन्देन टिटीकायां शोभतीति शचिरिति तरत्यन्तं मन्दम, ज्वालायास्तसिद्धान्ते जडत्वात् शोकाभावात् । किमर्थम? हव्याय वोढवे हव्यं वोर्ड प्राप्तम् । विभत्तिव्यत्ययः । ' तुमर्थे सेसेनसेऽसेन् ' ( पा ० सू ० ३ | ४ | ९ ) इति तवेप्रत्यगः । अध्यात्मपक्षे - हे अग्ने तेजस्विन् भगवन हे चित्रश्रवस्तम लोकोत्तरयशोदीप्त, हे पुरुप्रिय सर्वप्राणिपर-प्रेमास्पद, दिक्ष प्रजास बहवो भक्तात्वां हवन्ते आह्वयन्ति । कीदृशं त्वाम्? शोचिष्केशं हिरण्यश्मश्रुत्वादि-विशिष्टत्य मण्डलस्थम । किमर्थम्? हत्यायाभीज्ञानवैराग्यातिप्राप्तये वोढवे हृदयकमले त्यां वोढुं धारयितमित्यर्थः । दयानन्दस्तु - ' हे रुप्रिय अद्धतान्नाग्ने! विक्ष प्रजास हव्याय वोढवे वोढुं यं शोचिष्केशं सूर्यस्य रश्मय तेजांसि यस्य तं त्वां जन्तवो हवन्ते, तं वयमपि हवामहे ' इति, तदपि तुच्छम्, मनुष्यस्य शोचिष्केशत्वा नृपपत्तेः । न च ' हवामहे ' हत्या स्वीकर्म इत्यर्थः धात्वर्थाननुरोधात् ॥ ३१ ॥
एना वो अग्नि
नम॑सोर्जोनपा॑त॒माहवे ।
प्रियं चेति॑िष्ठमरति स्व॑ध्व॒रं विश्व॑स्य दूतम॒मत॑म् ॥ ३२ ॥
मन्त्रार्थ हे ऋत्विक और यजमानों, तुम्हारे इस अन्न के द्वारा जलदेवता के पौत्र, यजमान की प्रीति के कारण, अतिशय चैतन्यधर्मा ज्ञानदाता. सवा उद्यमी श्रेष्ठ यज्ञ वाले, सम्पूर्ण गृहपाक आदि कार्य करने से दूतरूप मरणरहित अग्निदेव को आदरपूर्वक तुम लोग यहाँ बुलाओ ॥ ३२ ॥
' अषाढावेलायाः पुरस्ताद् बृहतीरेना व इति । ' ( का ० श्री ० १७१२।१० ) । अषाढायाः पुरस्ताद् उदङ्मुखस्तिस्रो बृहतीप्रकाः प्रारलक्षणा एना व इति तिसृभिन्नग्भिरुपदध्यादिति सूत्रार्थ । आसां मध्यमा पद्या अनु तामभितो अर्धपदो । तिस्रो बृहत्यः प्रगाथः । ऋग्यग्रन्थनेन ऋक्त्रयसम्पादनं प्रगाथः । बृहती पूर्वा सतो बहती उत्तरा । आभ्यां प्रग्रथनेन तिस्रो बृहत्य: सम्पादिताः । यस्यास्तृतीय: पादो द्वादशाक्षरोऽन्ये यो s र्णाः सा बृहती । ' एना वो s नि नमसोऽजनपातमाहवे । प्रियं चेतिष्ठमरति १ ९ स्वध्वरं विश्वस्य दूतममृतम् ॥ ' इति । यस्याः प्रथमद्वितीयो द्वादशार्णो द्वितीयचतुर्थावठाणौ सा सोबृहती । ' स योजते अरुषा विश्वमोजसा स दद्रवत् स्वाहतः । सुब्रा यज्ञः सुशमी वसूनां देव राधो जनानाम् ॥ ' इति । तत्र बृहत्यास्तरीयं पादं द्विरावर्त्य तो हत्या: पूर्वार्धन सह द्वितीया बृहती कृता । सतोबृहत्वा द्वितीयं पादं द्विरावर्त्य तस्या एवोत्तरार्धेन सह तृतीया बृहती कृता । एवं तिस्रो बृहत्यः सहितायां पठिताः । तत्रावर्तितपादानामर्थान्तराभावादाची व्याख्यायेते इति महीधराचार्यः । हे ऋत्विग्यजमानाः वो शुष्माकं सम्बन्धिना एना एनेन नमसा हविर्लक्षणेन अन्नेन अग्निमहमाहवे आह्वयामि । वो युष्माकमेनमग्नि नमसा हवे इति वा । एना इत्यत्र तृतीयाया द्वितीयाया वा स्थाने आकारः । कीदृशमग्निम्? ऊर्जोनपातम् अपां पौत्रं पौत्रवत् प्रियम्, यजमानानां प्रीतिहेतुम्, सर्वजनप्रियमिति वा प्रियमिति पदमावर्त्योभयत्र योज्यम् । पुनः कीदृशम्? चेतिष्ठम्, अतिशयेन चेतयितारम् । ' तुरिष्ठेमेयस्सु ' ( पा ० सू ० ६।४।१५४ ) इतीष्ठनि परे तृचो लोपः । अरतिम् अलं मत पर्याप्तमतिम् । यद्वा रतिरुपरमो विरामः, तद्रहितम्,
पृष्ठ 469
पाठ पढ़ें पाठ छिपाएँ
म ० ३२-३३ ] वेदार्थपारिजातभाष्यसहिता ४३३ सततोद्युक्तम् । पुनः कीदृशम्? स्वध्वरम्, सु शोभना अध्वरा यस्य स स्वध्वरः तम । यहा है अत्विग्यजमानाः, वो युष्माकं सम्बन्धिनमग्निम् 1 एना एनेन नमसा नमस्कारेण यक्तो s हं हवे आहयामि । कीदृशमग्निम्? ऊर्जा अशस्य नपातं विनाशयितारम् । पुनः कीदृशम्? प्रियम, प्रीतिदेतं विश्वस्य सर्वस्य जगतो दू दूतवत् कार्यकारिणम् । सर्वस्य गृहे दाहपाकादिकार्य करोत्यग्निः । अस्तं मरणरहितम, मनुष्यादिवद देवानां शीघ्र मरणायोगात् । अध्यात्मपक्षे -- हे भक्ताः, वो युष्माकं सम्बन्धिनमेनरिंन भगवन्तं नमसा नमस्कारेण हविलक्षणेन अन्नेन वा युक्तोऽहं हवे । कीदृशमग्निम्? प्रियं सर्वप्राणिपरप्रेमाम्पटम. सर्वेषामात्मत्वात । ऊर्जोऽतिबलवतो रावणादेर्नपातं विनाशयितारम् । चेतिष्ठम् अतिशयेन चेतनायत्तम, चेतनानां चेतनत्वात आत्मनामप्यात्मत्वात् ' नित्यो नित्यानां चेतनश्चेतनानाम् ' ( कठोप ० २/२/१३ ) इति मन्त्रवर्णात | अरति भक्तेभ्यो हिताय, दोद्यमशीलम् । अथवा अलंमति वा । स्वध्वरं स सष्ठ शोभनोव्यध्वरो यज्ञो यस्मात् स स्वध्वरः, ' यस्य स्मृत्या च नामोक्त्या तपोयजक्रियादिष । न्यनं सम्पूर्णतां याति सद्यो वन्दे तमच्यतम ॥ ' इति स्मरणात तम्, । ' यत्पादपद्मस्मरणाद् यस्य नामजपादपि । न्यूनं कर्म भवेत पूर्ण तं वन्दे साम्बमीश्वरम् ॥ ' ( शिव ० पृ ० कैलास ० १२ ६४ ) इति शिवमहापुराणवचनात् ' मन्त्रतस्तन्त्रतरि देशकालार्हवस्तनः । सर्वं करोति निश्छिद्रं नामसङ्कीर्तनं तव ॥ ' ( भाग ० प ० ८१२३३१६ ) इति श्रीमद्भागवतमहापुराणवचनाच्च । विश्वस्य जगतो दूतं सन्देशहरणादिनेति दूतः तम् । नैकधा कष्टान सोहवापि हितकारिणं सहृदम् । ' सहदं सर्वभूतानां ज्ञात्वा मां शान्तिमुच्छति ' ( भ ० गी ० ५१२ ९ ) इति श्रीमद्भगवद्गीतावचनात । पुनः कीदृशम्? अमृतम षड्विधभावविकारवर्जितम् ।, दयानन्दस्तु -- ' हे मनुष्याः यथाहं वो युष्मभ्यमेना एनेन पूर्वोक्तेन नमसा ग्राह्येणान्नेन नपातमपतनशीलं प्रियं चेतिष्ठं स्वध्वरं शोभना अहिंसनीया व्यवहारा यस्मात्तम, अरतिम नास्ति रतिश्चैतन्यं यस्मिस्तम् कारकरूपेण नित्यम्, विश्वस्य दूतं सर्वत्राभिगन्तारम्, विद्यतमग्निमूर्जः पराक्रमाद आहवे, अमृतं मह्यं जुहत ' इति, तदपि विसङ्गतमेव, मन्त्रे यथातथाशब्दाभावात, अन्नस्य विद्यतोऽनुपकारकत्वाच्च स्वीकरोमि, तथा । ययं न चात्र परस्परार्थं तदङ्गीकरणम, तथाऽदर्शनात ॥ ३२ ॥
विश्वस्य वृतममत विश्व॑स्य दूतम॒मत॑म् । स यौजते अरुषा विश्वभौमसा स नंदवत स्वहितः ॥ ३३ ॥
मन्त्रार्थ- -मरण धर्म रहित, सब के लिये दूत का रहित होकर यज्ञ के भाग को भोगने वाले दो अश्वों को आहुति को ग्रहण करने के लिये शीघ्र यहां आता है ॥ ३३ ॥
काम करने वाले जिस अग्नि को हम बुलाते हैं. वह क्रोध-रथ में जोतता है और रथ पर चढ़ कर हमारी दी हुई विश्वस्य सर्वम्य जगतो दूतं दूतवत् कार्यकारिणम्, अमृत ममरणशीलमग्निमाह्वयामि । पुनर्वचनमादरार्थम् । अथ सतोबृहती व्याख्यानम् - स योजत इति । यमग्निमानुयामि सोऽग्निररुषा अरुषो रोषरहितावक्रोधनो अश्वो । विश्वभोजसा विश्वभोजसौ विश्वं भुञ्जाते इति विश्वभोजसो, तो सर्वस्य भोक्त्तारौ । उभयत्र द्वितीयाद्विवचने आकारः । भुजेरसून ' सर्वधातुभ्योऽसुन ' ( उ ० ४।१ ९ ० ) इति । एवंविधावश्वौ रथे योजते युनक्ति । विशेषणाभ्यां विशेष्यमश्वपदं रथपदं चाध्याहार्यम् । स एव च दुद्रवद् द्रवति गच्छति । ' द्रु इति भौवादिकस्य लुङि ' णिश्रिस्रुभ्यः कर्तरि चङ् ' ( पा ० सू ० ३ | १ | ४८ ) इति चलेश्चङि द्वित्वं दुद्रवदिति गतौ ' ५५
पृष्ठ 470
पाठ पढ़ें पाठ छिपाएँ
४३४ शुक्लयजुर्वेदसंहिता [ अ ० १५ रूपम्, अडभाषगुणाभावावाष । कथम्भूतोऽग्निः? स्वाहुतः सुष्ठ शोभनप्रकारेण आहुतः सन् । रथेन अस्मद् यज्ञे, आगमनायेति शेषः । अध्यात्मपक्षे - विश्वस्य सर्वस्य दूतं दूतवद्धितकारिणम्, अमृतं मरणादिवर्जितं भगवन्तमहमाहवे युनक्ति ॥ आदरार्थमभ्यासः । सोऽश्रागमनाय अरुषा अक्रोधनो विश्वभोजसा सर्वस्य भोक्तारो अश्वो रथे योजते द्योत्यते । स स्वाहृतः सुष्ठु आहत आहूतः व्यत्ययेन ह्रस्वः, दुद्रवद् आगच्छतीति भक्तपारवश्यं दयानन्दस्त- ' हे मनुष्याः यथाहं विश्वस्य दृतं परितापकं विदग्निममृतमाहवे यः स्वाहृतः , तथा सम्यक विश्वभोजसा स्वीकृतः विश्वस्य पालकेन अरुषा रूपवता पदार्थसमूहेन सर्वैः पदार्थः सह वर्तते स योजते । व्याख्यानस्य निर्मलत्वात् । सन् द्रवद् स युष्माभिर्वेद्यः ' इति, तदपि यत्किञ्चित, अरषा रूपरहितपदार्थ समूहेनेति च विद्यतः सर्वलोकतापकत्वम्, तथात्वे सर्वलोकनाशापत्तेः । न चाप्येतद्वर्णनं फलपर्यंवसायि, I सदुद्भूतिप्रकारानिरूपणात् ॥ ३३ ॥
दे॒व राधो स द॑द्रव॒त स्वाहा॒ सद॑द्रव॒त् स्वाहृतः । सब्रह्म । य॒ज्ञः सशमी वसू॑नां जना॑नाम् ॥ ३४ ॥
सम्पन्न हो रहे हैं । इसमें मन्त्रार्थ - हमारा यह यज्ञ श्रेष्ठ ऋत्विजों से युक्त है । इसके सारे कार्यं भली - भांति वसु, रुद्र आदि देवगणों के तीन सवन वह अग्नि भली - भाँति आहुत है । वह जहाँ यजमानों का दीप्यमान धन है, वहीं वाले यज्ञ में अवश्य आता है ॥ ३४ ॥
क्व गच्छति सोऽग्निरित्याह- स इति । स एवाग्निः, रथारूढः सन् स्वाहुतः शोभनत्विजामुपलक्षणार्थम् शोभनप्रकारेणाहुतः सन् । दुद्रवत् द्रवति गच्छति यत्र सुब्रह्मा सु शोभनो ब्रह्मा यत्र सः, सुब्रह्मग्रहणं , ' शमीति सर्वेषां कर्मनासु ' ( निघ ० २११।२३ ), एवंभूतो यज्ञः सुशमी सु शोभनाः शम्यः कर्माणि यस्मिन् सः । वसुग्रहणं रुद्रादित्ययोरप्युपलक्षणार्थम् । शोभनकर्मवान् यज्ञः । वसूनां वसुरुद्रादित्यानां सवनत्रयदेवानाम् यजमानानां देवं दीप्यमानं राधो धनं देवं दीप्यमानम् | अर्थाद् यत्र यज्ञस्तत्र तथा यत्र च जनानां रथेऽश्वान्नियुज्य आश्वागच्छतीति हविलक्षणं चास्ति, तत्राग्निर्गच्छतीत्यर्थः । एवं च आहुतोऽग्नियज्ञे हविर्भोक्तुं सर्वकण्डिकार्थः । अध्यात्मपक्षे - ' स परमेश्वरः स्वाहुतः सुष्ठु रीत्या हुतो बलिपूजोपहारादिभिराहूतो यत्र सुब्रह्मा सगुणं । अन्यत् पूर्ववद् व्याख्येयम् । यद्वा सुब्रह्मा सु शोभनं कमनीयं यज्ञस्तत्र दुद्रवद् गच्छति शमो मनोनिग्रहोऽस्ति यस्मिन् सः । वसूनां ब्रह्मोपास्यत्वेनास्ति यत्र तादृशो यज्ञो यत्र तत्र गच्छति । सुशमी सुष्ठु ज्ञानविज्ञानलक्षणं राधो धनं यत्रास्ति, तत्र वस्वादिदेवानामङ्गोपाङ्गतया अर्चनं यत्र सः । जनानां देवं दीप्यमानं गच्छतीत्यर्थः । सुब्रह्मा सुष्ठुतया दयानन्दस्तु - ' हे मनुष्याः, स स्वाहुतः सखिवद् बुद्रवत् स्वाहुतो विद्वानिव च देवं दुद्रवत् कमनीयं राधो धनमस्ति चतुर्वेदविद् यज्ञः सङ्गन्तुं योग्यः सुशमीव सुशमयितुमर्हो वसूनां पृथिव्यादीनां वेदोपदेशमन्तरेव लोकतः सिद्धत्वात् । तं यूयं प्रयुध्वम् ' इति, तदपि यत्किञ्चित् सर्वस्यैतस्य, तत्र संहारकत्वस्यापि दर्शनात् ॥ ३४ ॥
सुब्रह्मेत्यादिविशेषणानि तत्रासङ्गतान्येव, जडत्वात् । न च स सुशमी