वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 471–480

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 471–480

पृष्ठ 471

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 471 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३५-३६ ] वेदार्थपारिजातभाष्यसहिता ४३५

अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा॑नः सहसो यहो । अ॒स्मे धे॑हि॒ जातवेद॒ महि॒ भव॑ः ॥ ३५ ॥

मन्त्रार्थ - बल के पुत्र ज्ञानसम्पन्न हे अग्निदेव, तुम धेनुओं के और अन्न के अधिपति हो । तुम हमारे लिये ढेर सारा धन दो ॥ ३५ ॥

' अपरा गायत्रीभ्य उष्णिहोऽग्ने वाजस्येति ' ( का ० श्र ० १७/१२/१३ ) | गायत्रीभ्योऽपरास्तिस्र उष्णोऽग्ने इति ऋत्रयेण अर्धपद्यास्तिरश्चालिखिता उदगायताः प्राग्लक्षणा उदङ्मुख उपदध्यादिति सूत्रार्थः । तिस्र उष्णिहः । हे अग्ने, हे सहसो यहो बलस्य पुत्र! सह इति बलनाम । यहुरिति पुत्रनाम । बलप्रयुक्त-मन्थनाज्जायमानत्वाद् बलस्य पुत्रत्वम् । हे जातवेदो हे जातप्रज्ञ! अस्मे अस्मभ्यं महि महत् श्रवो धनं धेहि प्रयच्छ । यतो हि त्वं गोमतो धेनयुक्तस्य वाजस्य बाह्यस्य धनान्तरस्य ईशानः, अतो धनं प्रयच्छेति भावः । अध्यात्मपक्षे हे अग्ने, तेजोमय परमेश्वर, हे सहसो बलस्य कृते, यहो यातः पुण्यवशेन प्राप्तो हुतो विपदादिभ्यो रक्षार्थमिति यहुः, तत्सम्बुद्धी, हे भगवन् हे जातवेदो, जातप्रज्ञ! अथवा सहस्य बलस्याधिष्ठातु-रिन्द्रस्य यहो पुत्रवदुपेन्द्र महि महत्त्वपूर्णं श्रवो यशो ज्ञानविज्ञानरूपं धनं वा अस्मभ्यं देहि । यतो हि त्वं गोमतो गवादियुक्तस्य वाजस्य धनान्तरस्य बाह्यस्य चेशानो भवसि । दयानन्दस्तु - ' हे सहसो यहो जातवेदो जातं विज्ञानं यस्य तत्सम्बोधने, त्वमग्निरिव वाजस्य गोमत ईशानः सन्नस्मे महि श्रवो घेहि ' इति, तत्तुच्छम् मनुष्यं प्रति धनयाच्ञोपदेशस्य वेदेऽयोगात् । न चात्र धारणमेव प्रायते, तस्य रागप्राप्तत्वेन प्रार्थनासङ्गतेः ॥ ३५ ॥

स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरोडेन्यो॑ वि॒रा । दे॒वद॒स्मभ्य॑ पुर्वणोक दीदिहि ॥ ३६ ॥

मन्त्रार्थ - हे अग्निदेव, आप अनेक मुखों वाले और कान्तिमान् हैं । सबके निवास के हेतु और कान्तदर्शी हैं । तीनों वेदों को वाणी से आपकी स्तुति की जाती है । आप प्रथम यज्ञप्रवर्तक हैं । हे अग्निदेव, आप हमारे निमित धन के साथ दीप्ति भी प्रदान कीजिये ॥ ३६ ॥

स पूर्वोक्तगुणः, अग्निरये नयतीति तथोक्तः प्रथमं यज्ञप्रवर्तक, इधान दीप्यमानः, वसुरुपकारभूतः, पाकतापप्रकाशैरुपकारकत्वात् । धनस्वरूपो वासयिता निवासहेतुर्वा । कविः क्रान्तदर्शनो मेधावी । ईडेन्य ईडितुं स्तोतुं योग्य:, औणादिक एन्यः प्रत्ययः । हे पुर्वणीक पुरु बहु रमणीयमनीकं मुखं यस्य सः, ' यतो ह्येव कुतश्चाग्नावभ्यादधाति तत एव प्रदहति ' ( श ० ४।६।३।१५ ) इति श्रुतेः । अस्मभ्यमस्मदर्थं रेवद् रयिमद् धनवद् यथा स्यात्तथा दीदिहिं दीप्यस्व । दिवेः शपः श्लुः, द्वित्वम्, ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० ६।१७ ) इत्यभ्यासदीर्घः, ' लोपो व्योर्वलि ' ( पा ० सू ० ६ १/६६ ) इति वलोप:, ' रयेर्मती ' ( पा ० सू ० ६ ११३७ ) इति सम्प्रसारणेन रयिरस्यास्तीति रेवत् । त्वया तथा हविग्रह्यं यथास्माकं धनावाप्तिः स्यादिति तात्पर्यम् । अध्यात्मपक्षे स त्वं पूर्वोक्तविशेषणो हे पुर्वणीक बहुमुख विश्वरूप, इधानः कोटिकोटिमार्तण्डमण्डल इव दीप्यमानः, वसुर्भक्तानां चिन्तामणिकोटिदुर्लभधनमसि । कविः सर्वज्ञः अग्निः सर्वेषां देवानां नेता, गिरा त्रय्या रेवद् रयिमद् यथा स्यात्तथा दीप्यस्व । दयानन्दस्तु - ' हे पुर्वणीक! पुरु बहु अनीकं सैन्यं यस्य तत्सम्बुद्धी, हे विद्वन् स त्वं गिरेडेन्यो गिरा वाण्या अन्वेषणीयः कविः समर्थ इधानः प्रदीप्तः सोऽग्निरिवास्मभ्यं रेवत् प्रशस्तधनयुक्तं दीदिहि प्रकाशय ' इति,

पृष्ठ 472

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 472 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४३६ शुक्लयजुर्वेदसंहिता [ अ ० ] १५ तदपि तुच्छम् मनुष्यान् प्रति वेदेन याच्ञोपदेशानुपपत्तेः । न च मनुष्यः प्रभूतं दातुं शक्नोति तस्य परिच्छिन्न-साधनत्वात् । रागप्राप्ता च सा न तत्र इधानप्रभृतीनि विशेषणानि सङ्गच्छन्ते । न च वेदस्य मनुष्यस्तावकत्वं सम्भवति, तस्य धर्मब्रह्मपरत्वात् ॥ ३६ ॥

अ॒पो रा॑जन्न॒ त्मना॑ग्ने॒ वस्तो॑रु॒तोषस॑ः । स ति॑िग्मजम्भ र॒क्षस दह प्रति ॥ ३७ ॥

मन्त्रार्थ -- हे दीप्यमान करालवदन बज्र के समान दृढ़ बाढ़ों वाले अग्निदेव! आप स्वभाव से ही राक्षसों का नाश करने वाले हैं । इसलिये दिन और रात्रि में विचरण करने वाले राक्षसों को आप भस्म कर दीजिये || ३७ ॥ हे राजन्, राजते दीप्यत इति राजा, तत्सम्बुद्धौ । हे तिग्मजम्भ! तिग्मास्तीक्ष्णा जम्भा दंष्ट्रा यस्य स तिग्मजम्भस्तत्सम्बुद्धौ । यद्वा ' तिग्मेति वज्रनाम ' निघ ० २ ( २०११४ ) तिग्मा वज्ररूपा दंष्ट्रा यस्य सः, तत्सम्बुद्धौ । हे अग्ने, स त्वं वस्तोरहः सम्बन्धिनः ' वस्तोरित्यहर्नामसु ' ( निघ ० १ ९ | १ ) उताप्युषस उषःकालसम्बन्धिनो रक्षसो राक्षसान् प्रति दह प्रत्येकं भस्मीकुरु । लिङ्गव्यत्ययेन रक्षस इति पुंस्त्वम्! ' छन्दसि परेऽपि ' ( पा ० सू ० ११४४८१ ) इति क्रियापदात् प्रत्युपसर्गस्य परत्वम् । कीदृशस्त्वम्? क्षपः क्षपयताति क्षपः, ' क्षप प्रेरण ' इति चौरादिकस्य पचाद्यच् । रक्षसा क्षपयिता नाशयितासि । केन रूपेण नाशयतेति चेत्, त्मना स्वरूपेणैव स्वभावत इति यावत् । ' मन्त्रेष्वाङयादेरात्मन: ' ( पा ० सू ० ६ । ४ । १४१ ) इत्यात्मनस्तृतोयैकवचने आकारलोपः । अध्यात्मपक्षे - हे राजन्, राजमानतिग्मजम्भवत्रद्रष्ट्रनृसिंह कालरुद्र! ' वज्रदंष्टं त्रिनयनं कालकण्ठ-मरिन्दमम् ' ( स्कन्दमहापुराणे ब्रह्मोत्तरखण्डे ११ अध्याये ) इति स्कन्दपुराणवचनात् । हे अग्ने, अग्निवदुर्धषं वस्तोरहः सम्बन्धिनः, उतापि उषस उषःकालसम्बन्धिनो रक्षसो रक्षांसि राक्षसान् प्रति दह । उत त्मना आत्मनापि स्वभावेनापि त्वं रक्षसां क्षपयितासि । दयानन्दस्तु -- ' हे तिग्मजम्भ! तिग्मं तीव्रं जम्भो गात्रविनामं यस्मात्तत्सम्बुद्धौ राजन्नग्ने, स त्वं यथा तीक्ष्णतेजा अग्निः क्षपो रात्रीर् उत वस्तोदिनम् उतोषसः सायंसमयान् जनयति तथा सुशिक्षां जनय । रक्षसस्तम इव तीव्रात्मना प्रतिदह ' इति, तदपि विसङ्गतमेव, निर्मूलाध्याहार बाहुल्यात्, गौणार्थाश्रयणस्या-प्रामाणिकत्वाच्च । गात्रविनामस्य तीक्ष्णतापि चिन्त्या ॥ ३७ ॥

भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॒भगा॑ भ॒द्रो अ॑ध्व॒रः । भ॒द्रा उ॒त प्रशस्तयः ॥ ३८ ॥

मन्त्रार्थ - हे श्रेष्ठ ऐश्वर्य से सम्पन्न, ऋत्विजों के द्वारा बुलाये गये अग्निदेव! आप हमारे लिये कल्याणकारी बनिये | हमारे यज्ञ, दान आदि कल्याणकारी हों, हमारी प्रशस्तियाँ भी सुखकारी हों ॥ ३८ ॥

' भद्रो न इति ककुभस्ताभ्यो बृहत्यन्तरश्रुतेर्मन्त्रक्रमेण ' ( का ० श्री ० १७।१२।११ ) । भद्रो न इत्येभिर्मन्त्रैर्बहतीनां पुरस्तान्मन्त्रक्रमेण तिस्रः ककुप्संज्ञका इष्टका उपदध्यादिति सूत्रार्थः । प्रगाथः । कुतो बृहतीभ्यां पादावृत्त्या तिस्रः ककुभः कृताः । पूर्वा ककुप् सतोबृहती उत्तरा ' भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥ ' इति ककुप्, मध्यः पादो द्वादशक आद्यतृतीयावष्टकाविति तल्लक्षणम् । ' भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥ ' इति सतोबृहती, आद्यतृतीयौ द्वादशको द्वितीयतुर्यावष्टकाविति तल्लक्षणम् । आवृत्तस्य

पृष्ठ 473

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 473 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३८-१० ' ' वेदार्थपारिजातभाष्यसहिता ४३७ नार्थान्तरम् । हे सुभग, सुष्ठु शोभनानि भगान्येश्वर्यधर्मादीनि यस्य स सुभगस्तत्सम्बुद्धौ । ' ऐश्वर्यस्य समग्रस्य afts are: श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ' ( ६ ५/७४ ) इति विष्णुपुराणवचनात् । धैश्वर्ययुक्त! आहुत ऋत्विग्भिराहृतो भवान् अग्निनोऽस्माकं भद्रो भन्दनीयः कल्याणकरो भवत्विति शेषः । रातिर्दानं भद्रा भवतु । अध्वरो यज्ञो भद्रो भवतु । उतापि प्रशस्तयः कीर्तयो भद्राः सुखदायिन्यः सन्तु । अध्यात्मपक्षे - हे सुभग षड्भगोपेत परमेश्वर! तत्रैव निरुपचारेण षण्णां भगानां सम्भवात् । नोऽस्माक. माहूत आहुत्यादिभिः सत्कृतोऽग्निर्भद्रः सुखकरो भवतु । रातिर्भवदीयं दानं भद्रमस्तु । नोऽस्माकमध्वरो भद्रोऽस्तु । नोऽस्मत्कृताः प्रशस्तयो भवत्प्रशंसनानि भद्रा भवन्तु । दयानन्दस्तु - ' हे सुभग विद्वन्, यथाहुतः सखाग्निः संगृहीतो धर्म इव भद्रो भजनीयो रातिभद्रा सेवनीया अध्वरो भद्रः कल्याणकरः, उत प्रशस्तयो भद्राः कल्याणप्रतिपादकाः स्युस्तथा त्वं नो भव ' इति, तदपि तुच्छम् सम्बोधनोपसंहारयोनिर्मूलत्वात् ॥ ३८ ॥

भ॒द्रा उ॒त प्रश॑स्तयो भ॒द्रं मनः कृणुष्व वृत्र॒तूय । येन स॒मत्सु सासः ॥ ३ ९ ॥

मन्त्रार्थ -- हे अग्निदेव! जिस मन से संग्रामों में आप हमारे शत्रुओं का मर्दन करते हैं, उस मन को हमारे पापों के नाश के निमित कल्याणकारी बनाइये! हमारी प्रशस्तियां भी सुखकारी हों ॥ ३ ९ ॥ अथ द्वितीया ककुप् । हे अग्ने, येन मनसा समत्सु संग्रामेषु त्वं सासहः शत्रूनभिभवसि ' वह मर्षणे ' छन्दस्यभिभवे च वृत्तिः लङ्, द्वित्वाऽभावो छान्दसो, संहितायामभ्यासदीर्घः । तन्मनो वृत्रतुर्ये पापनाशाय शत्रुवधाय वा भद्रमस्मत्कल्याणकरं कृणुष्व कुरुव । वृत्रः पापम्, ' पाप्मा वै वृत्र: ' ( श ० ६ ४ २३ ) इति श्रुतेः । तुतिर्वधकर्मा, छान्दसो यकारः । अध्यात्मपक्षे --- हे अग्ने परमेश्वर, येन मनसा सङ्कल्पेन समत्सु रावणादिसंग्रामेषु त्वं सासहः शत्रून पराजित्य अभिभवसि तन्मनस्तादृशं सङ्कल्पं वृत्रतुर्येऽस्माकं पापनाशाय भद्रं कल्याणकरं कुरुष्व । बयानन्दस्तु -- ' हे सुभग, येन नोऽस्माकं वृत्रतुयें भद्रं मनः, उतापि भद्राः प्रशस्तयो येन समत्सु सासहः स्यात्, तत्कर्म कृणुष्व ' इति, तत्र, निर्मूलाध्याहार बाहुल्यात् श्रुतस्य कर्मणो मनसस्त्यागेऽश्रुतस्य कर्मणोऽध्याहारे च मानाभावात् ॥ ३ ९ ॥

येन समासवं स्व॒रा तंतुहि भूरिशताम् । व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥ ४० ॥

मन्त्रार्थ - - हे अग्निदेव, जिस पराक्रम से आप संग्रामों में शत्रुओं का तिरस्कार करते हैं, उसी पराक्रम से आप शत्रुओं के मजबूत धनुषों की प्रत्यंचा को काट दें । आपके दिये हुए ऐश्वर्य भोग से हम सब सदा सुखी रहें ॥ ४० ॥

कि, येन मनसा समत्सु संग्रामेषु त्वं सासहः शत्रूनभिभवसि तेनैव भूरि बहुप्रकारं शधंतां बलं कुर्वतां ' शर्ध इति बलनामसु ' ( निघ ० २२ ९ ( ७ ), शधं बलं कुर्वन्ति शर्धन्ति, शर्धन्तीति प्रार्धन्तस्तेषां सम्बन्धीनि स्थिरा स्थिराणि धनूंषि, अवतनुहि अवतारय ज्यारहितानि कारय । ततो शत्रुभिरप्रतिवध्यमानास्ते तवाभिष्टिभि रभीष्ट्या वयं वनेम सम्भजेम, भोग्यानि वस्तूति सेवेमहि । वनेमा, येना इत्युभयत्र संहितायां दीर्घः ।

पृष्ठ 474

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 474 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४३८ शुक्लयजुर्वेद संहिता [ अ ० १५ अध्यात्म रक्षे - हे परमेश्वर, येन मनसा सासहः शत्रूनभिभवसि तेनैव भूरि शर्धतां बहु प्रकारं बलमात्मनि कुर्वतां शत्रूणां सम्बन्धीनि स्थिराण्यायुधानि धनुरादीनि अवतनुहि अवतारय ज्यारहितानि निर्वीयाणि कुरु । ते तव अभिष्टिभिरभीष्टैर्यागैर्वयं वनेम अभीष्टभोग्यानि सेवेमहि । दयानन्दस्तु - ' हे सुभग, येन त्वं समत्सु सासहः स्यात् स त्वं भूरि शर्धतामस्माकं स्थिरा स्थिराणि सैन्यान्यवतनुहि विस्तृणु । ते अभिष्टिभिरिच्छाभिः सह वर्तमाना वयं तानि वनेम सम्भजेम ' इति, तदपि विसङ्गतमेव, अवपूर्वस्य तनो विस्तारार्थे मानाभावात् अवततधन्वा, अवतन्मसीत्यादाववतारणार्थत्वदर्शनात् । तदनुरोधेन धनूंषीत्येवाध्याहार्यं न सैन्यानि ॥ ४० ॥

अ॒ग्नि त॑म॑न्य॒ यो वसु॒रस्ते॒ यं यन्ति धे॒नवः॑ । अस्त॒मव॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वाजिन इष॑ स्तो॒तृभ्य॒ आभ॑र ॥। ४१ ॥ मन्त्रार्थ - जो अग्निदेव ताप, पाक और प्रकाश करके हमारा उपकार करते हैं. धन रूप हैं, उन्हें मैं जानता हूँ । धेनुएँ जिस अग्नि को प्रज्वलित जानकर अपने - अपने घरों को आ जाती हैं, शीघ्रगामी बलवान् घोड़े जिस अग्नि को प्रज्वलित देखकर अश्वशाला को आ जाते हैं, हे अग्ने, तुम स्तुति करने वाले यजमान के लिये सब ओर से अन्न लाकर दो ॥ ४१ ॥

' अनूकान्ते दक्षिणे पङ्क्तीरग्नि तमिति ( का ० श्र ० १७/१२/१४ ) । दक्षिणेऽनुकान्ते तिस्रः पक्तिसंज्ञा इष्टका उदग्लक्षणाः प्राङ्मुखः प्रत्यक्संस्था अग्नि तमिति तिसृभिर्ऋग्भिरुपदध्यादिति सूत्रार्थः । पङ्क्तिस्तृचः । यस्या द्वौ पादावष्टको सा पङ्क्तिः । वसुस्तापपाकप्रकाशैरुपकुर्वन् धनरूपो वसुरित्युच्यते, वसुर्वासयिता वा यस्तमग्निमन्ये जानामि । धेनवो गावो यमग्निमुद्धृतं ज्ञात्वा अस्तं गृहं यन्ति गच्छन्ति दोहकालोऽस्माकं होमाथं प्राप्त इत्याशयः । नित्यासो नित्याः शाश्वताः सर्वकालभाविनो वाजिनो बलवन्तोऽश्वा वेगवन्तो वा, सैन्धवाश्वाभिप्रायेण पुनर्वचनम्, यं दृष्ट्वा अस्तं यन्ति नित्यत्वं वाजिनां तत्प्रवाहाभिप्रायेण नित्यप्रहसितादिवत्, यमुपास्य गवाश्वादिकं लभ्यत इत्यर्थः " तादृश हे अग्ने! स्तोतृभ्यः स्तुतिकृद्भद्यो यजमानेभ्य इषमत्रमाभर आहर, देहीत्यर्थः । अधस्वनाश्चत्वारः पादाः परोक्षकृताः, अयं तु प्रत्यक्षकृतः । स्वामी हि पशूनामग्निः । ' ' यत्तज्जातः पशून विन्दत ' इत्युपक्रम्य ' तस्मात् सर्वान् ऋतून पशवोऽग्निमभिसंयन्ति ' इति श्रुतिः । अध्यात्मपक्षे तमग्नि भोक्तृभोग्यसमूहस्याग्रे नेतारं तेजस्विनं परमात्मानमहं मन्ये प्रत्यगभेदेन साक्षात्करोमि । योऽसी वसुर्धनं धनवदुपकारकः प्रियः, यमन्तर्यामिणमाश्रित्य धेनवो गाव इन्द्रियाणि यन्ति स्वमस्तं गृहमिव स्वस्वविषयं गच्छन्ति, अर्वन्तोऽश्वा आशवः शीघ्रगामिनो मनोबुद्धिचित्तानि नित्यासो नित्या वाजिनोऽस्तं यन्ति, विषया एव तेषां गृहम्, विश्रामहेतुत्वात् । हे अग्ने, स्तोतृभ्य इषमन्नं भौतिकं ज्ञानविज्ञान-रूपमाध्यात्मिकं च आभर । दयानन्दस्तु - ' हे विद्वन्, यो वसुरस्ति यमग्नि धेनवोऽस्तं यन्तीव नित्यासो वाजिन आशवोऽर्वन्तोऽस्त-मिवाहं तं मन्ये, स्तोतृभ्य इषमाभर ' इति, तदप्यनुपपन्नम्, अग्नेर्गहरूपत्वानुपपत्तेः । धेन्वर्वद्वाजिन एव न गृहं व्रजन्ति, किन्तु मनुष्या अपि गृहं व्रजन्ति, अतो विशेषानुपपत्तिः ॥ ४१ ॥

१. उन् टाचार्येणोद्धृताऽपीयं श्रुतिर्न साम्प्रतमुपलभ्यते ।

पृष्ठ 475

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 475 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४२ ] वेदार्थपारिजात भाष्यसहिता ४३ ९ सो अ॒ग्निर्यो यस॑ग॒णे सं यमा॒यन्ति धे॒नवः॑ । समर्व॑न्तो रघुद्रुवः॑ सधैं स॑जा॒तासः॑ सू॒रय इष॑ स्तो॒तृभ्य॒ आभ॑र ॥ ४२ ॥

मन्त्रार्थ - हमारी यह सुखसम्पति अग्निदेव का ही प्रसाद है । मैं उसी की स्तुति करता है । इस अग्नि को धेनुएं प्राप्त करती हैं, शीघ्रगामी घोड़े प्राप्त करते हैं । अच्छे संस्कार वाले विद्वान इस अग्नि की उपासना करते हैं । हे अग्निदेव! तुम स्तुति करने वालों के लिये सब ओर से अन्न लाकर दो ॥ ४२ ॥

निर्वासयिता सोऽग्निः, तमग्नि विभक्तिव्यत्ययः, गृणे स्तौमि ' गु शब्दे ' क्रयादिः, लटि तङि उत्तमैकवचने ' प्वादीनां ह्रस्व: ' ( पा ० सू ० ७ ३८० ) इति रूपसिद्धिः । यद्वा योऽग्निर्गुणे स्तूयतेऽम्माभिः, व्यत्ययेन कर्मस्थाने कर्तृप्रत्ययः । यद्वा स एवाग्निर्यो वसुर्वासयितेति गीयते स्तोतृभिः यमग्नि दृष्ट्वा धेनवो गावः समायान्ति 1 यं रघुद्रवो लघुद्रवणाः, रलयोरैक्याद् लघुद्रवः, ' लघु क्षिप्रमरं द्रुतम् ' ( अ ० को ० १ १ ६४ ) इति कोषात् । लघु क्षिप्रं द्रवन्ति गच्छन्तीति लघुद्रवो लघुद्रवणाः, ' द्रु गती ' भौवादिकः, क्विपि रूपम् । अर्वन्तोऽश्वाः समायान्ति । कथंभूता अश्वाः? सुजातासः सु सुष्ठु शोभनं जातं जन्म येषां ते सुजाताः, ' आज्ज से रसुक् ' ( पा ० सू ० ७ १ ५० ) इत्यसुकि सुजातासः, कल्याणजन्मानः । सूरयः पण्डिताश्च समायान्ति लादृश हे अग्ने, त्वं स्तोतृभ्य इषमन्नमाभर देहि । अध्यात्मपक्षे - यो वसः सर्वनिवासाश्रयो भगवानग्निरग्निवत्तेजस्वी तमग्नि परमात्मानं कृष्णमहं गृणे स्तोम । यं दृष्ट्वैव धेनवो गावः समायान्ति सत्वरमायान्ति न केवलं गावोऽपि तु यं दृष्ट्वा क्षिप्रगामिनोऽ-तो sar अपि समायान्ति, सुजातासः कुलीनाः कल्याणाभिजनाः सूरयो विद्वांसोऽपि यं दृष्ट्वा श्रुत्वा च तदभिमुखाः समायान्ति तमहं गृणे । दयानन्दस्तु - ' हे विद्वन् यथाहं यो वसुरग्निस्तं गृणे, यं धेनवः समायान्ति रघुद्रवोऽर्वन्तः सुजातासः सूरयः स्तोतृभ्य इषं समाभरन्ति, स स्तोति च 1 तथा त्वमेतानि समाभर ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात्, मूले यथेतिशब्दाभावाच्च । किञ्च, कोऽयं निवासहेतुरग्निः? प्रसिद्धोऽग्निरीश्वरो वा? नाद्यः, तस्य स्तुतौ तवापसिद्धान्तात् । परमात्मा चेत्, कथं तं धेनवो वाण्योऽर्वन्तश्च समायान्ति? भावार्थे तु ' यथा अश्वाः शीघ्रं गत्वा अश्वारूढं ग्रामं प्रापयन्ति तथैवाध्यापकारछात्रान विद्यायाः पारं प्रापयन्ति ' इति, तदपि निःसारम् 1 दृष्टान्तदाष्टन्तानुपपत्तेः । स्तोतृभ्यो विद्यार्थिभ्य इषं ज्ञानं समाभरेत्यादिकं सर्वथा गौणार्थमेव । दयानन्दस्तु प्रायेण सर्वत्रैव गौणार्थमेवाभ्युपगम्य मन्त्रान् व्याख्याति, मुख्यार्थमुपेक्षते । मुख्यार्थोवेक्षणं च प्रमाणमन्तरा अशक्यमेव, मुख्यार्थबाध एव लक्षणाद्यङ्गीकारात् । अत्र सूरिभिर्बहुधा पराक्रान्तम् । गौणमुख्यार्थविचारः शब्दनये महत्त्वपूर्णः । यथोत्तरमीमांसायामानन्दमयाधिकरणे ' आनन्दमयोऽभ्यासात् ' ( ब्र ० सू ० ११ १२ ) इति सूत्रे केचिदानन्दमयपदेन ब्रह्मगृह्णन्ति । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ' ( तै ० उ ० २१५ ) इति विकारवाचि प्रायः पठितम् । तत्किं पुच्छपदसमभिव्याहारादन्नमयादिषु चावयवपरत्वेन प्रयोगादानन्दमयवाक्येऽप्यवयवपरत्वात् पुच्छपदस्य तत्समानाधिकरणं ब्रह्मपदमपि स्वार्थत्यागेन कथञ्चिद् अवयवपरत्वेन व्याख्यायताम्, आहोस्विदन्नमयादिविकार-वाचिप्रायः पठितमानन्दमयपदं प्रचुरानन्दवाचि ब्रह्मण्यप्रसिद्धं कयाचिद् वृत्त्या ब्रह्मणि व्याख्यायतामिति विचारे आनन्दपदाभ्यासेन ज्योतिः पदेनेव ज्योतिष्टोम आनन्दमयो लक्ष्यतामुतानन्दमयपदं विकारार्थकमस्तु, ब्रह्मपदं ब्रह्मण्येव स्वार्थेऽस्तु आनन्दपदाभ्यासश्व स्वार्थे; पुच्छपदमात्रमवयवप्रायलिखितमधिकरणपरतया

पृष्ठ 476

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 476 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४० शुक्लयजुर्वेदसंहिता [ अ ० १५ च्या क्रियतामिति कृतबद्धयो विदाः कुर्वन्तु । तत्र पुच्छपदमपि लागले मुख्यं सदानन्दमयावयवे गौणमेव । तेन मुख्य शब्दार्थ लङ्घनमवयवपरतायामधिकरणपरतायां च तुल्यमेव । अवयवप्रायलेखबाधक्ष विकारप्रालेखबा तत्य एव । ब्रह्मपत्मानन्दमय परमानन्दपदमिति त्रितयस्य स्वार्थलनं त्वधिकम् । तस्मान्मख्य त्रितयलङ्गमाद-साधीयान पूर्व: पक्ष: । मुख्यत्रयानुगुण्येन तुत्तरपक्षो युक्तः । किन्नानन्दमयपदस्य ब्रह्मार्थत्वे ब्रह्मपच्छमिति न समञ्जसम, एकत्रावयवावयविभावानुपपत्तेः । आधारपरत्वे च पच्छशब्दस्य प्रति प्रेत्येतदप्यपपन्नमरं भवति । आनन्दमयस्य चान्तरत्वमन्त्रमयादिकोषापेक्षया ब्रह्मणस्त्वान्तरत्वमानन्दमयतीत्यर्थावगम्यत इति श्रत्या नोक्तम । तथा सत्यानन्दमयस्य प्रियाद्यवयवयोगोऽपि सङ्गच्छते । वाहनमागोचरे त परब्रहाण्यपाधिमन्तर्भाव्य प्रियादियोगः, प्रान्तयं च क्लेशेन व्याख्यातव्यम् । ' सोऽकामयत ' ( तै ० उ ० २६ ) उत्यायाः श्रतयोऽपि ब्रह्मपरा नानन्दमयपराः । वेदसत्रयोविरोधेत ' गुणे त्वन्याय्यकल्पना ' ( जै ० स ० ९ | ३ | १७ ) इति रीत्या सूत्राण्येव श्रुत्यनुसारेण व्याख्येयानि । दयानन्दस्तु सर्वत्र प्रायेण गौणार्थतामेवाङ्गीकृत्य मन्त्रान व्याख्यातीति सधीभिर्विभावनीयम ॥ ४२ ॥

उभे च सर्पिषो दव श्रोणीष आएनि । उतो न उत्प स्तोतभ्य आभ॑र ॥ ४३ ॥

मन्त्रार्थ - चन्द्रमा के समान आहार देने वाले हे अग्निदेव! हम अपने मुख में घृतपान करने के निमित्त दर्षो के आकार वाले दोनों हाथों से उसे ग्रहण करते हो, हे बल के अधिपति, यज्ञ में स्तुति करने वाले हमको धन से परिपूर्ण करों, अन्य स्तुति करने वालों को भी अन्न दो ॥ ४३ ॥

चन्द्रसष्ठ चन्द्र आह्लादक इति सान्द्रः, ' हस्वाच्चन्द्रोत्तरपदे मन्त्रे ' ( पा ० स ० ६।१।१५१ ) इन हस्वात् परस्य चन्द्रशब्दस्य सुडागम, तत्सम्बद्धौ । हे सृष्ठ आह्लादकारिन्नग्ने! अथवा चन्द्रमिति हिरण्यनाम ( निघ ० १ २ २ ) | शोभनं चन्द्रं हिरण्यं यस्मात् स श्रन्द्रस्तत्सम्बद्ध । यदा शोभतश्चन्द्र इव चन्द्रो धनदाता | शोभने चन्द्रे धनप्राप्तिर्भवतीति ज्योतिःशास्त्रे उत्तम - ' आश्रन्तः श्रियं कुर्याद द्वितीये धनधान्यः ' इत्यादि । यद्वा शोभनं चन्दत्याह्लादयतीति श्रन्द्रस्तत्सम्बुद्धौ । हे अग्ने आमनि त्वदीय आस्ये सर्पिष आज्यस्य सम्बन्धिन्यो उभे दव दवसदृशहनू, यद्रा सर्पिषः पानार्थं दवसदृशौ हस्तो, अथवा सर्पिषः सर्पिःसम्बन्धिन्यो जुहूपभृती, श्रीणीषे सेवसे । हनुप्रेरणपर्यन्तं सर्पिस्त्वया पीतमित्यर्थः । ' श्रोत्र पाके ' क्रयादिः, अर्थः । उतो अपि च हे शवसस्पते बलस्याधिपते, उक्थेषु शस्त्रवत्स यज्ञेषु नोऽस्मान् उत्पपूर्या उत्कर्षेण पूरय, धनानि प्रापयेत्यर्थः । स्तोतृभ्यो यजमानेभ्य इषमन्नमाभर सम्पादय । अध्यात्मपक्षे - शोभनश्चन्द्र इव हे रामचन्द्र कृष्णचन्द्र वा आसनि आस्ये सर्पिषो घृतस्य नवनीतस्य सम्बन्धिन्यो दवदव्यौ दर्व्याकारी हस्ती श्रीणीषे सेवसे । उतो अपि च, हे शवसस्पते बलस्याधिपते. उक्थेषु शस्त्रस्तोत्राद्युपेतेषु यज्ञेषु त्वदचलक्षणेषु नोऽस्मान् उत्पपूर्या ज्ञानवैराग्यादिभिः पूरय स्तोतृभ्यश्च इषभामर । दयानन्दस्तु --- ' हे सुश्चन्द्र अध्यापक, त्वं सर्पिषो दर्वी श्रीणीषे पचसि । आसन आस्ये उभे द्वे पठन-पाठनक्रिये आभार । हे शवसस्पते, त्वमुक्थेषु वक्तुं श्रोतुमर्हेषु वेदविभागेषु नोऽस्मभ्यम्, उतो अपि च स्तोतृभ्य इषं चोत्पुपूर्याः ' इति, तदप्यसङ्गतम्, ' उभे ' इत्यस्य श्रुतदवविशेषणोपपत्तावश्रुतपठनपाठन क्रियाक्षेपस्य निर्मूलत्वात्, तावत्येव विवक्षिते ' सर्पिषः श्रीणीषे ' इत्यादिपदानां नैरर्थवयापत्तेश्च । अध्यापके शवसस्पतित्वमपि

पृष्ठ 477

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 477 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४३-४५ ] वेदार्थ पारिजातभाष्यसहिता ४४१ चिन्त्यमेव । तथैव शस्त्रेषु प्रसिद्धस्य उक्थशब्दस्य वेदविभागार्थंकल्पनं श्रुतिषु बलात्कार एव । न चाध्यापकः सर्वेभ्योऽन्नं दातुं प्रभवतीति तदपि तात्पर्यशून्यमेव ॥ ४३ ॥

अग्ने॒ तम॒द्याश्वं न स्तोमैः क्रतं न भ॒द्र ं हृदि॒स्पृश॑म् । ऋ॒द्धामा॑त॒ ओहः ॥ ४४ ॥

मन्त्रार्थ - हे अग्निदेव, आज हम इस यज्ञ को तुम्हारे नाम, रूप और कर्म के प्रतिपादन करने वाले पल - प्रापक साम मन्त्रों से उसी प्रकार समृद्ध करते हैं, जैसे कि अनेक स्तुतियों से अश्वमेध के यज्ञों को ब्राह्मण समृद्ध करते हैं, जिस प्रकार अतिप्रिय चिरकाल से मन में स्थित कल्याणरूपी यज्ञ के संकल्प को यजमान समृद्ध करते हैं ॥ ४४ ॥

' उत्तरे पदपङ्क्तीरग्ने तमद्येति ' ( का ० श्री ० १७/१२/१५ ) । उत्तरानुकान्ते तिस्रः पदपङ्क्तीष्टका उदग्लक्षणाः प्रत्यक्संस्थाः प्राङ्मुखोऽग्ने तमिति तिसृभिर्ऋग्भिरुपदध्यादिति सूत्रार्थः । तिस्रः पदपङ्क्तयः । यस्याः पञ्चाक्षराश्चत्वारः पादाः एकः षडर्णः, सा पदपङ्क्तिः । यद्वा त्रयः पचार्णाश्चतुर्थश्चतुरर्णः पञ्चमः षडर्ण इति पञ्चकाश्चत्वारः षट्कश्चैकश्चतुर्थंश्चतुष्को वा पदपङ्क्तिरित्युक्तेः । तत्राद्यायां चतुर्थश्चतुष्कः । हे अग्ने, ते तव तं प्रसिद्धं क्रतुं यज्ञमद्यास्मिन् दिने ऋद्धयामा वयं समर्धयामः, समृद्धं करवामेत्यर्थः । आशिषि लोट् । संहितायां दीर्घः । कथमिव? अश्वं न स्वोमैः, न इवार्थः, यथा स्तोमैः स्तुतिभिरश्वमाश्वमेधिकमश्वं विप्राः समर्धयन्ति तद्वत् । यथा वा क्रतुं न भद्रं हृदिस्पृशम् । हृदि स्पृशतीति हृदिस्पृक् तं चिरं मनसि स्थितं भद्रं कल्याणं क्रतुं सङ्कल्पं समर्धयन्ति तद्वत् । यथा चिराभिलषितं सङ्कल्पं सन्तः सम्पादयन्ति तथा अद्य ते पावकं क्रतुं समर्धयाम इत्यर्थः । क्रतुर्यंज्ञः सङ्कल्पश्चेत्येकस्यैव क्रतुशब्दस्थ दृष्टान्तदान्तिकयोः सम्बन्धः । कीदृशैः स्तोमैः? ओहै:, ' वह प्रापणे ' वहन्ति फलं प्रापयन्तीत्योहाः तैः । अथवा वहन्ति प्रतिपादयन्ति त्वन्नामबन्धुकर्मरूपाणीति वोहास्तैस्त्वन्नामगुणरूपादिप्रतिपादकैः फलप्रापकैः स्तुतिसमूहै-दक्षिणाभिश्च यज्ञं समर्धये महीति समस्तार्थः । यद्वा – हे अग्ने, हृदिस्पृशमत्यन्तप्रियं ते त्वामद्य अस्मिन् कर्मणि ओहै: फलप्रापकैः स्तोमैर्ऋद्धयामा समृद्धं करवाम । तत्रैको दृष्टान्तः -- अश्वं न यथा लोके अश्वं घासादिप्रदानेन समर्धयन्ति तद्वत् । यथा वा क्रतुं ज्योतिष्टोमादि भद्रं कल्याणकरं सङ्गीतानुष्ठानेन समर्धयन्ति तद्वत् । भद्रं कल्याणमित्यग्निविशेषणं वा । अध्यात्मपक्षे - हे अग्ने परमेश्वर, ते तव प्रसिद्धं तं पावनं ज्ञानोपासनादिलक्षणं क्रतुमद्य ओहै: स्वरूप-प्रतिपादकः स्तोमः स्तुतिसमूहैर्ऋद्धयामा ऋद्धघामः । तत्रैव दृष्टान्तद्वयम् - यथा अश्वमाश्वमेधिकं विप्राः समर्धयन्ति " यथा वा हृदिस्पृशमतिप्रियं मनसि स्थितं भद्रं कल्याणकरं क्रतुं सङ्कल्पं समर्धयेयुस्तद्वत् । दयामन्दस्तु - ' हे अग्ने अध्यापक, वयं ते तव सकाशादोहैः विद्यासुखप्रापकैः स्तोमै विद्यास्तुतिविशेषैर्वेद-भारद्यास्मिन् वर्तमाने समयेऽश्वं न सुशिक्षितं तुरङ्गमिव भद्रं क्रतुं न प्रज्ञानमिव तं हृदिस्पृशं हृद्यात्मनि स्पृशति तं विद्याबोधं प्राप्य सततमृद्धयामी वर्धेमहि ' इति, तदपि यत्किञ्चित् विद्याबोधस्याश्वेनोपमानायोगात् । प्रज्ञानबोधयोश्चक्येनोपमानोपमेयभावो न युज्यते, तस्य भेदमूलकत्वात् । अग्निपदस्याध्यापकोऽर्थ इत्यपि चिन्त्यम् ॥ ४४ ॥

अधा॒ ह्य॑ग्ने॒ क्रतो॑भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥ ४५ ॥

मन्त्रार्थ - हे अग्निदेव, अब आप सब प्रकार से समृद्ध, सम्यक् प्रकार से अनुष्ठित, कल्याण रूप, अमोघ फल वाले हमारे इस विशाल यज्ञ का उसी प्रकार निर्वाह कीजिये, इसे कि सारथी रथ का निर्वाह करता है ॥ ४५ ॥

५६

पृष्ठ 478

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 478 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

४४२ शुक्लयजुर्वेदसंहिता [ अ ० १५ ( पा ० सू ० ६ | ३ | १३६ ) इति अधा अथ समनन्तरमेव, अधेत्यव्ययस्याऽथार्थत्वात् । ' निपातस्य क्रतोरस्मद्यज्ञस्य च ' भद्रस्य कल्याणरूपस्य संहितायां दीर्घः । हिः पादपूरणः । अस्मदीयस्तोत्रानन्तरमेवानुष्ठीयमानस्य इति साधुः, तस्यास्माभिः साधुतया निष्पादितस्य दक्षस्य समृद्धस्य फलदानसमर्थस्य साधोः, साध्यते निष्पाद्यत रथोऽस्यास्तीति रथीः सारथिरिव बभूथ भव । सारथिर्यथा ऋतस्य अमोघफलस्य बृहतो महतः प्रौढस्य रथीः, ' बभूथात तन्थजगृम्भ ' ( पा ० सू ० ७ २ ६४ ) इत्यादिना रथनिर्वाहं करोति तथा यज्ञनिर्वाहको भवेत्यर्थः । ० सू ० ५ | २ | १० ९ वा ० २ ) इति वार्तिकेन ईप्रत्ययः । निपातनात् साधुः । रथोरित्यत्र ' छन्दसीवनिपो च ' ( पा क्रतोः सङ्कल्पात्मकस्यो-अध्यात्मपक्षे – हे अग्ने परमेश्वर अस्मदादिस्तोत्रानन्तरमेवास्मन्निष्पादितस्य रथस्येष त्वां विना अस्मत्सङ्कल्पस्य फलपर्यंवसायित्वा-पासनस्य प्रज्ञानस्य वा रथी: सारथिर्भव, सारथि विना सर्वसाधनेषु श्रेष्ठस्य दक्षस्य भवसागरतारणक्षमस्य,.. साधोः भावात् । कीदृशस्य क्रतोः? भद्रस्य कल्याणरूपस्य ऋतस्य मोक्षफलस्य बृहतः प्रौढस्य । -बृहतः क्रतोः सकाशाद्रथीर्बभूथ, तथाऽधा हि दयानन्दस्तु – ' हे अग्ने, यथा त्वं भद्रस्य दक्षस्य साधोर्ऋतस्य शङ्खभेर्यादिवत् श्रुत्या मङ्गलार्थस्याप्यथशब्दस्य वयमपि भवेम । अथ मङ्गले ' इति, तदपि यत्किचित् भवेत्यपि न सङ्गतम्, तादृशार्थस्य रागप्राप्तत्वेनोपदेशा-artisar तदयुक्तैः । रथी रमणसाधनैर्यानैर्युक्तो तथाभूतेऽर्थेऽसङ्गतेः । बृहतो महाविषयस्येत्यप्यसङ्गतम्, नर्हत्वात् । ऋतस्य सत्यप्राप्तस्येत्यप्यसङ्गतम्, ऋतशब्दस्य तादृशेऽर्थे शक्तिग्रहाभावात् ॥ ४५ ॥

ए॒भिने॑ अ॒र्कैर्भवा॑ नो अर्वाङ् स्व॒र्णज्योति॑िः ।

अग्ने॒ विश्वे॑भिः सुमना अनी॑कैः ॥ ४६ ॥

अपने सम्पूर्ण मुखों के साथ हमें मन्त्रार्थ - हे अग्निषेव हमारे इन पढ़े हुए मन्त्रों से प्रसन्न होकर आप ॥ अपना साक्षात्कार कराता है ॥ ४६ asia दीजिये, जैसे कि सूर्य आकाश में उदित होकर सम्पूर्ण जगत् को एभिरिदानी क्रियमाणै-हे अग्ने, विश्वेभिविश्वैः सर्वैरनीकैस्त्वदीय सैन्यैः सहितः सुमनाः सौमनस्यं प्राप्त भव । अवरं समोपदेशमन्चति र्नोऽस्मत्सम्बन्धिभिरर्कैरर्चनीयः स्तोत्रैर्नोऽस्मान् प्रति अर्वाङ् समीपस्थोऽस्मत्संमुखो - स्वर्णज्योतिः स्वः न ज्योतिः । न इवार्थे । यथा स्व: सूर्यरूपं गच्छतीत्यर्वाङ् । तत्र दृष्टान्तः भवति तथा त्वं समीपस्थो भव, अनुगृहाणेत्यर्थः । ज्योतिरकैरर्चनीयैर्मन्त्रैः स्तुत उदयादारभ्य सर्वसमीपवर्ती इति शेषः । सुमनाः शोभनमनस्कः सन्नस्मान् यद्वा हे अग्ने, एभिरर्केरर्चनीयं मंन्त्रनोऽस्माकं सम्बन्धिभिः स्तूयमान , यथा स्वराख्यं सूर्यात्मकं ज्योतिरुदयादारभ्यार्वागनं प्रत्यर्वाङ् अभिमुखं च नो भव । कथमिव? स्वर्णज्योतिः सुमनाः सौमनस्यं प्राप्तोऽनुगृहाणेत्यर्थः । सत् सर्वप्राणिनोऽनुगृह्णाति, एवं भवानर्वाचनो विश्वेभिः सर्वैरनीकैर्मुखः भवेति विशेषः । अध्यात्मपक्षे - अयमेवार्थः । अर्वाग्भव अभिमुखो भव, वृत्तो अभिव्यक्तो ज्योतिर्वाङ् दयानन्दस्तु — हे अग्ने, त्वं नोऽस्मभ्यं विश्वेभिरनीकं राजेव सुमना । यदि भव । च एभिरर्केर्नोऽस्मभ्यं संन्यानां राज्ञा सम्बन्ध इष्येत, स्वर्न भव ' इति, तदपि चिन्त्यम्, राजभिन्नानां विदुषां सैन्यायोगात् कर्तुमचतीति व्याख्यानमप-तदप्यसङ्गतम्, मूले तादृशशब्दादर्शनात्, अर्वाक्पदस्याप्यनुत्कृष्टानुत्कृष्टान् न विद्वान् स्वर्भवति, । न चार्कशब्दस्य विद्वानर्थः तादृशकोषाद्यभावात् । व्याख्यानमेव निर्मूलत्वात् भूयोऽवयवगुणवत्त्वेनैव । न च सादृश्यमपि सम्भवति, सुखे गुणावयवायोगात् गुणद्रव्ययोरैक्यायोगात् सादृश्यसम्भवात् ॥ ४६ ॥

पृष्ठ 479

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 479 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४७ ] वेदार्थपारिजातभाष्यसहिता ४४३ अ॒ग्निर्ध॒ होता॑रं मन्य॒ दास्व॑न्तं॒ वसु॑ सू॒नु सह॑सो जा॒तवे॑दसं॒ विप्रं न जा॒तवे॑दसम् । य ऊ॒र्ध्वया॑ स्वध्व॒रो दे॒वो दे॒वाच्या॑ कृ॒पा । घृ॒तस्य॒ विभ्रष्टि॒मनु॑व॒ष्टि श॒विषा॒जुह्वा॑नस्य सर्पिषः ॥ ४७ ॥

मन्त्रार्थ - दान आदि शुभ गुण वाला यह यज्ञीय अग्नि अपनी ऊँची ज्वालाओं से सब ओर से दी गई आहुति को लेकर देवताओं के समीप जाता है । अंग - अंग में फैलने वाले घुत के पान की निरन्तर इच्छा करता है । उस अग्नि को देवताओं को बुलाने वाले दानशील सबको सहारा देने वाले ब्रह्मज्योति के पुत्र सब प्रकार के ज्ञान से सम्पन्न सभी शास्त्रों के ज्ञाता ब्राह्मण के समान मैं जानता हूँ ॥ ४७ ॥

' पुरीषवत्याः पूर्वामतिच्छन्दसं प्राच्यौ पुरीषसहिते भद्रारातिर्वृत्रतूर्येऽवस्थिराग्नि . होतारमिति ' ( का ० श्री ० १७।१२।१६ ) । अग्नेः पुरीषमसीति पुरीषशब्दवता मन्त्रेणोपहिता पश्चमी असपत्ना पुरीषवतीष्टका । तस्याः पुरस्तादतिच्छन्दस संज्ञकामिष्टकां पद्यां प्राग्लक्षणां प्राङ्मुख उपदध्यात् । भद्रारातिर्वृत्रतूर्ये अवस्थिरेति ककुभां चतुश्चतुरक्षरसहितया अग्नि होतारमित्यृचा पुरीषवदतिच्छन्द इष्टके प्राग्लक्षणे पुरीषयुक्ते च भवतः । अनयोरन्तः पुरीषावापः कार्य इति सूत्रार्थः । अतिच्छन्दा अवसानत्रिकोपेताः । छन्दांसि गायत्र्यादीनि सप्ताति-क्रान्ता अतिच्छन्दाः । चतुःषष्टयक्ष रत्वादष्टिः, अत्यष्टिर्वा, ककुभामक्षरः सहातिधृतिः । तं प्रसिद्धमग्न होतारं देवानामाह्वातामहं मन्ये जानामि । कीदृशमग्निम्? दास्वन्तं दातारम् ' दासृ दाने ', वसुं वासयितारम्, सहसो बलस्य सूनुं पुत्रम्, बलपूर्वकमथनाज्जातत्वात् जातवेदसं जातप्रज्ञानं जातो वेदो यस्माद्वा, ' त्रयो वेदा अजायन्ताग्नेर्ऋग्वेदो वायोर्यजुर्वेदः सूर्यात् सामवेद: ' ( श ० ११ ५/८/३ ) इति श्रुतेः । विप्रं न जातवेदसं विप्रमिव जात सर्वशास्त्रज्ञानं तादृशं तमग्निमहं मन्ये । यो देवो दानादिगुणयुक्तः स्वध्वरः सुष्ठु शोभनोऽभीष्ट-फलदोऽध्वरो यज्ञो यजनं यस्य सः । ऊर्ध्वया ऊर्ध्वोन्मुखया उन्नतया देवाच्या देवान् प्रत्यवति गच्छतीति देवानी, तया देवान् प्रति गमनशीलया, कृपा कृप्यते इति कृप् तया क्लृप्त्या समर्थया, शोचिषा ज्वालया घृतस्य आज्यस्य विभ्राष्टि विभ्रंशपातमनुवष्टि कामयते । कीदृशस्य घृतस्य? आजुह्वानस्य आसमन्ताद् हूयमानस्य सर्पिषः सर्पतीति सर्पिः, तस्याग्नेरङ्गे प्रसर्पणशीलस्य । य एतादृशोऽग्निस्तमग्निमहं जानामि उपास्ति करोमि । यद्वा --- इममग्न होतारं देवानामाह्वातार महं मन्ये । कीदृशम्? वसुं धनं दास्वन्तं प्रयच्छन्तं सहसो बलस्य सूनुं पुत्रं जातवेदसं जगदभिज्ञं विप्रं ब्राह्मणं ब्रह्मविद्वरिष्ठमिव जातवेदसं परावरविदम् । योऽग्निर्देव ऊर्ध्वया अत्युन्नतया देवाच्या देवान् प्रति गच्छन्त्या कृपा क्लृप्त्या समर्थया ज्वालया स्वधरः सुष्ठु यागनिष्पादको भवति, यश्च घृतस्य विभ्राष्टि विशेषदोमिं शोचिषा स्वकीयेन तेजसा अनुवष्टि अनुकामयते । कीदृशस्य? आजुह्वानस्य सर्वतो हूयमानस्य सर्पिषः सर्पणशीलस्य । अध्यात्मपक्षे - यो देवो दीव्यति क्रीडते सृष्टिस्थितिलयादिभिरिति । स्वध्वरः सुष्ठु शोभनो मुक्तिदाता अध्वरो यजनं यस्य सः, देवाच्या देवं निर्गुणं परमात्मनस्, ' एको देवः सर्वभूतेषु गूढः ' ( श्वे ० उ ० ६ । ११ ) इति श्रुतेः । अनति गच्छति प्राप्नोतीति देवाची, तया । कृपा समर्थया शोचिषः प्रकाशेन समर्थेन ब्रह्मप्रापकेन ज्ञानेन सहितस्य घृतस्य घृतगन्धिस्नेहस्य विभ्राष्टि विशेषदीप्तिमनुवष्टि कामयते, वर्माग्न प्रसिद्धमग्नि परमात्मानं होतारं भक्तानामाह्वातारं वसुं भक्तानाममी धनरूपं दास्वन्तं मोक्षादिदातारं सूनुं कौशल्याया इति शेषः, देवक्या वा, सहसः सहो बलरूपम्, विभक्तिव्यत्ययः, सहसो बलस्य सूनुं वा, बहुजन्मनामन्ते महता प्रयत्नेन आविर्भावात् ।

पृष्ठ 480

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री, पृष्ठ 480 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

III शुक्लयजुर्वेदसंहिता [ अ ० ] १५ जातवेदसं वेदोत्पत्तिहेतुं विप्रं न ब्राह्मणमिव जातवेदसं परावरब्रह्मविदमहं मध्ये जानामि, साक्षात्करोमि उपाश्रये वा । दयानन्दस्तु - ' हे मनुष्याः य ऊर्ध्वया उपरि गत्या स्वध्वरः शोभनकारित्वादहिंसनीयः, देवाच्या देवानति तथा कृपा समर्थया क्रियया देवो दिव्यगुणः शोचिषा दीप्त्या आजुह्वानस्य समन्ताद्भूयमानस्य सर्पिष आज्यस्य घृतस्योदकस्य विभ्राष्टि विविधा भ्राष्टयः प्रकाशनानि यस्मिन् तमनुवष्टि अनुप्रकाशते, तं होतारं सुखदातारं जातवेदसं सर्वेषु जातेषु पदार्थेषु विद्यमानं सहसो बलिष्ठस्य सूनुं पुत्रमिव वसुं दास्वन्तमन्नप्रद जातवेदसमग्नि विप्रं न आप्तमिव अहं मन्ये, तथा यूयमपि मन्यध्वम् ' इति, तदपि न सङ्गतम्, गौणार्थाश्रयणात् देवपदस्य योनिविशेषार्थकस्य भूमिकायां साधितत्वाच्च । ' ऊर्ध्वया ' इत्यस्य ऊर्ध्वगत्यर्थता च चिन्त्या । स्वध्वरः शोभनकर्मकारित्वादचिन्तनीय इत्यपि निर्मूलम्, तादृकप्रत्ययाभावात् ॥ ४७ ॥

अग्ने॒ त्वं नो॒ अन्त॑म उ॒त ऋ॒ता शि॒वो भ॑वा वरूथ्य॒ः । वसु॑र॒ग्निर्व॑सु॒वा अच्छा नक्षि द्यु॒मत्त॑मधु॑ र॒यिं दा॑ः । तं त्वा॑ शोचिष्ठ दीदिवः सुम्नायं नूनमीमहे सखिभ्यः ॥ ४८ ॥

मन्त्रार्थ - - हे निर्मल स्वभाव वाले अग्निदेव, ब्रह्मरश्मि रूप आहवनीय रूप से गमन करने वाले, धन देने से कीर्तिमान् तुम हमारे अति समीप रहने वाले हो, हमारी रक्षा करने वाले हो, हमारे पुत्र आदि का कल्याण करो । हे निर्मल स्वभाव वाले, हमारे होमस्थान में आइये और अति दीप्तियुक्त धन को दीजिये । हम अत्यन्त कान्तियुक्त, Hast प्रकाशित करने वाले पूर्वोक्त गुणों से युक्त तुम्हारे मित्रों के कल्याण के निमित्त, सुख के निमित्त तुम्हारी प्रार्थना करते हैं ॥ ४८ ॥

' अग्ने स्वमित्यनुकान्तेऽपरे द्विपदा: ' ( का ० श्र ० १७/१२/१७ ) ततः पश्चादनुकान्ते तिस्रो द्विपदाः प्राग्लक्षणा उदकसंस्था दक्षिणामुखः ( १ ) अग्ने स्वम्, ( २ ) वसुरग्निः, ( ३ ) तं त्वा इति मन्त्रैरुपदध्यादिति सूत्रार्थः । आसां मध्यमा पद्या अनूके, तामभितो द्वे अर्धपद्ये । तिस्रो द्विपदा विराज आग्नेय्यः । तृतीयेऽध्याये २५-२६ स्थले कृतव्याख्याना अपि पुनः किञ्चिद् व्याख्यायन्ते । हे अग्ने, त्वं नोऽस्माकमन्तमोऽन्तिकतमः समीपस्थो भव । उतापि च त्राता रक्षको भव । शिवो मङ्गलरूपो भव । वरूथ्यो वरूथे गृहे नित्यं सन्निहितो भव । वसुर्वसुमानयमग्निर्वसुश्रवा वसुभिरिन्द्रादिदेव तैरादरेण श्रूयत इति । हे तादृश अग्ने, अच्छा अस्मदभिमुखं नक्षि प्राप्नुहि । द्युमत्तममतिशयेन दीप्तियुक्तं रयिं धनं दाः प्रयच्छ । हे शोचिष्ठ शुद्धतम दीदिव दीप्यमान, सखिभ्यः सखीनामस्माकं सुम्नाय सुखाय तं पूर्वोक्तगुणं त्वाम् ईमहे प्राप्नुमः ॥ ४८ ॥

येन॒ ऋष॑य॒स्तप॑सा स॒त्रमाय॒न्नन्धा॑ना अ॒ग्निथ् स्व॑रा॒भर॑न्तः ।

तस्मिन्नहं निद॑धे॒ नाके अग्नि यमाहर्मनवस्तीर्ण वहिषम् ॥ ४ ९ ॥

॥॥।

मन्त्रार्थ - अग्नि को प्रदीप्त करके स्वर्ग की इच्छा करने वाले ऋषिगण चित्त को एकाग्र करके यज्ञरूपी तप करने को उद्यत हुए हैं । उस तप के पूरा होने पर स्वर्ग को प्राप्त कराने वाले अग्नि को मैं स्थापित करता हूँ । मननशील विद्वान् इस अग्नि को ही यज्ञ का प्रधान साधन मानते हैं ॥ ४ ९ ॥ ' पुनश्चिति चोपरि तद्वद् येन ऋषय इति प्रत्युचम् ' ( का ० श्र ० १७ / १२ / १ ९ ) । मध्योपहितस्यास्येष्टकस्य गार्हपत्यस्योपरि गार्हपत्यवदेव पुनश्वितिमुपदध्याद् येनेत्यष्टर्चेन प्रत्यचमिति सूत्रार्थः । आग्नेय्योऽष्टौ षट् त्रिष्टुभो द्वे अनुष्टुभो । ऋषयो वसिष्ठप्रभृतयो येन तपसा चित्तैकाग्र्येण सत्रमनेकयजमानकर्तृकं यागमायन्