श्रीगणेशाय नमः।
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 481–490
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 481–490
पृष्ठ 481
पाठ पढ़ें पाठ छिपाएँ
म ०४ ९ -५० १ वेदार्थपारिजातभाष्यसहिता ४४५ आगतवन्तः सत्रं कर्तुमुद्यताः, अग्निमिन्धाना अग्निमादीपयन्तः, तथा स्वः स्वर्गलोकमाभरन्त आहरन्तः स्वीकुर्वाणा:, तेनैव तपसा ह सत्रमागत्य अग्नि सन्दीप्य स्वर्लोकं च स्वीकृत्य तस्मिन् तपसि सति नाके स्वर्ग -लोकनिमित्तमहमग्नि निदधे स्थाययामि । यमग्नि मनवो मननप्रधाना विद्वांसः स्तीर्णबर्हिषं स्तीर्णमाच्छादितं बहित्र सस्तीर्णबर्हिस्तं बहिरुपलक्षित सर्वं यज्ञसाधनोपेतम्, ' मनसश्चेन्द्रियाणां च निग्रहः परमं तपः ' इत्याप्तोक्तेः । यद्वा -- येन स्वर्गेण निमित्तभूतेन ऋषयो वसिष्ठाद्यास्तपसा सन्तापयुक्तेनाग्निना सत्रमायन् सत्रमनुष्ठितवन्तः । areer ऋषयः? अग्निमिन्धाना आहवनीयं प्रज्वालयन्तः । स्वराभरन्तः स्वर्गमाहर्तुमुद्यताः । अहमपि तस्मिन्नाके निमित्तभूते सत्यग्निदधे स्थापयामि, यमग्नि मनवः पूर्वमनुष्याः स्तीर्णबहिषं प्रसारितयज्ञसाधनमाहुः, तमग्न निदध इति सम्बन्धः । अत्र ब्राह्मणम् -'येन ऋषयस्तपसा सत्रमायन्निति । अमूने तदृषीनाहेन्धाना अग्नि, स्वराभरन्त इतीन्धाना अग्नि. स्वर्गलोकमाहरन्त इत्येतत्तस्मिन्नहं निदधे नाके अग्निमिति स्वर्गो वै लोको नाको यमाहुमनव-मिति विद्वासस्ते मनवस्तीर्ण बर्हिषमिति सर्वदा हैव स स्तीर्ण बहि: ' ( श ० ८ | ६ | ३ | १८ ) | प्रसन्ना कण्डिका । अध्यात्मपक्षे --तपसा चित्तैकाग्र्येण ऋषयो वसिष्ठाद्याः सत्रमायन् ज्ञानसत्रं कर्तुमुद्यताः । कीदृशाः? स्वः ब्रह्मात्मकं सुखमाभरन्तः । तस्मिन् तपसि सत्यहमपि नाके दुःखासंस्पृष्टमोक्षरूपनिमित्ते भगवन्तमग्नि निदधे हृदये धारयामि । यमग्नि भगवन्तं मनवः पूर्व मननशीलाः स्तीर्णबर्हिषं विस्तारितयज्ञमाहुः । दयानन्दस्तु - ' येन कर्मणा तपसा धर्मानुष्ठानेन इन्धानाः प्रकाशमानाः स्वः सुखमाभरन्तः समन्ताद् हरन्त ऋषयो वेदार्थवेत्तारः सत्रं सत्रा सत्यं विद्यते यस्मिन् विज्ञाने तत् । सत्रा इति सत्यनामसु ( निघ ० ३।१०।३ ) । aff द्युदादिकमान प्राप्नुयुः, तस्मिन्नाकेऽविद्यमानदुःखे सुखे प्राप्तव्ये सति मनवो विद्वांसो यं स्तीर्णबहिषं स्वर्णमाच्छादितं बहिरन्तरिक्षं येन तमग्नि अहं निदधे ' इति, तदप्यापातरमणीयम् सत्रपदस्य विज्ञानपरत्वेऽग्नि-सामानाधिकरण्यायोगात् । अन्वये सत्रमग्नि, भाषाभाष्ये च विज्ञानप्रयुक्तमग्निमित्युक्तम्, तच्च नोपपद्यते, अग्नेविज्ञानरूपत्वाभावात् । अद्यत्वे धर्मानुष्ठानमन्तरापि विद्युत्प्रादुर्भावदर्शनेन येन तपसेति सूचितधर्मानुष्ठानस्य कारणत्वमपि बाधितम्, अन्यथासिद्धत्वात् । न च तादृशमग्नि कश्चिद् मनुष्येषु धारयितुं शक्नोति, तस्य ताम्रतन्त्राद्याधारत्वप्रसिद्धेः । न चाविद्यमानदुःखं सुखं तेन प्राप्यते, तेनानेकनेत्ररोगाद्युत्पत्तिदर्शनात् ॥ ४ ९ ॥
तं पत्नी॑भि॒रना॑गच्छेम देवाः पुत्रैर्भ्रातृभिरु॒त वा हिर॑ण्यैः ।
नाकं॑ गृभ्णा॒नाः सु॑क॒तस्य॑ लो॒के तृ॒तीयो॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥ ॥ ५० ॥ ॥
मन्त्रार्थ - हे विद्वान् ऋत्विजों, भूमि से तीसरे द्युलोक के ऊपर शुभ कर्मों के फलरूप दीप्यमान आदित्यमण्डल में दुःखहीन स्थान को स्वीकार करते हुए हम स्त्री, पुत्र, भाई और सुवर्ण आदि द्रव्यों के साथ उस अग्नि देवता की सेवा करते हैं, जिससे कि हमें तीसरे स्वर्ग लोक की प्राप्ति हो ॥ ५० ॥
हे देवाः " दीप्यमाना ऋत्विजः, वयं सर्वे तमग्नि पत्नीभिः पाणिगृहीतीभिः स्त्रीभिः सह उतापि पुत्रः सह भ्रातृभिश्च हिरण्यैः काञ्चनादिसाधनद्रव्यंश्च सह तमग्निमनुगच्छेम अनुसरेम, सेवेमहीत्यर्थः । कीदृशा वयम्? तृतीये लोकमारभ्य त्रिसंख्यापूरके दिवः पृष्ठे रविमण्डले नाकं दुःखहीनं स्थानम् अधि गृभ्णाना अधिकं सुखस्थानं स्वीकुर्वन्तः । कीदृशे दिवः पृष्ठे? सुकृतस्य लोके सम्यगनुष्ठितस्य शुभकर्मणः फलभूते । पुनः कीदृशे? रोचने दीप्यमाने । एतच्च श्रुतिप्रामाण्यात् । तथा च ब्राह्मणम् -'तं पत्नीभिरनुगच्छेम देवाः । पुत्रैर्भ्रातृभिरुत वा
पृष्ठ 482
पाठ पढ़ें पाठ छिपाएँ
४४६ शुक्लयजुर्वेदसंहिता [ ० १५ हिरण्यैरित्येतेनैन " सर्वेणानुगच्छे मेत्येतन्नाकं गृभ्णानाः सुकृतस्य लोक इति स्वर्गो वै लोको नाकः स्वर्गं लोकं गृभ्णानाः सुकृतस्य लोक इत्येतत् तृतीये पृष्ठेऽधिरोचने दिव इत्येतद्ध तृतीयं पृष्ठ. रोचनं दिवो यत्र एतत् तपति ' ( श ०८ | ६ | ३ | १ ९ ) । अध्यात्मपक्षे - हे देवाः, भगवता सह क्रीडमाना भक्ता वयं सर्वे तमग्नि भगवन्तं परमेश्वरं पत्नीभिः पुत्रैर्भ्रातृभिरुत हिरण्यर्धनादिभिरनुगच्छेम संराध्नुयाम । कीदृशा वयम्? तृतीये कार्यकारणापेक्षया तृतीये कार्यकारणातीते दिवो द्योतनात्मकस्य बोधात्मकस्य पृष्ठे उपरि नाकं दुःखलेशरहितं स्थानम् अधिगृभ्णानाः प्रापञ्चिकखादधिकं ब्रह्मात्मकं सुखं स्वीकुर्वाणाः । कीदृशे दिवः पृष्ठे? सुकृतस्य स्वनुष्ठितस्य ज्ञानाभ्यासस्य लोके फलभूते रोचने दीप्यमाने । दयानन्दस्तु - ' हे देवा विद्वांसः, यथा यूयं तं गृह्णाना दिवः सुकृतस्य अधिरोचने तृतीये विज्ञानजे पृष्ठे लोके वर्तमानाः पत्नीभिः पुत्रैर्भ्रातृभिरुत वा हिरण्यैः सह नाकं गच्छत, तथैतैः सहिता वयमनुगच्छेम ' इति, तदप्यसङ्गतम्, यथा यूयं तथा वयमित्यंशस्य निर्मूलत्वात् निरर्थकत्वाच्च । वैद्युताग्नेर्जडत्वात्तदनुगमनं नोपपद्यते, तस्य चेतनानुगामित्वात् । अनुगमनं नामानुसरणम्, तच्च सेवनापरपर्यायमुपासन एवं पर्यवस्यतीति तवैवापसिद्धान्तः । सुकृतस्य सुन्दरस्य वेदोक्तकर्मण इत्यप्यसाम्प्रतम् तस्य तत्रानुपयोगात् । न च तस्य प्रकाशयुक्तत्वम्, कर्मणो नीरूपत्वात् । तस्याधिरोचने तृतीये पृष्ठे लोके इत्यस्यासङ्गतिरेव । तृतीय इति पदस्य विज्ञानज इति व्याख्यानमप्यसङ्गतम्, निर्मूलत्वात् । न च पृष्ठशब्दस्य ज्ञीप्सितमर्थ, निर्मूलत्वात् । ' पृषु सेचने ' इति भौवादिकस्य ' तिथपृष्ठ ' ( उ ० ३ | ११ ) इत्यादिना निपातनात् तत्सिद्धेः । पृच्छतेनिष्ठायां तु पृष्टमित्येव भवति, न तु पृष्ठमिति ॥ ५० ॥
आ वा॒चो मध्य॑मरुहद् भुरण्युरयमग्निः सत्व॑तिश्चेकितानः ।
पृष्ठे पृ॑थि॒व्या निहि॑तो॒ ववि॑द्युतदधस्प॒दं कृ॑णुतां॒ ये प॑त॒न्यवः॑ ॥ ५१ ॥
८ मन्त्रार्थ - - यह जगत् का कर्ता, सत्पुरुषों का पालक, ज्ञानी, पृथ्वी के ऊपर स्थापित अत्यन्त प्रकाशमान अग्नि चयन के मध्य स्थान में स्थित होकर युद्ध की इच्छा वाले पापियों को अपने चरणों से रौंद दे ॥ ५१ ॥
अयमनिर्वाचो मध्यं चयनस्थानम् आरुहत् चयनस्थानस्योपर्यारूढः, ' एतद्ध वाचो मध्यं यत्रैष एतच्चीयते ' ( श ० ८ | ६ | ३ | २० ) इति श्रुतेः । कीदृशोऽयमग्निः? भुरण्युर्भर्ता, सर्वस्य जगत इति शेषः, ' भुरण्यु-रिति भर्तेत्येतत् ' ( ० ८ | ६ | ३ | २० ) इति श्रुतेः । पुनः कीदृशः? सत्पतिः सतां पालकः । पुनः कीदृश:? चेकितानः चेतयमानः, अभिज्ञानवानित्यर्थः । पुनः कीदृश:? पृथिव्या भूमेः पृष्ठे उपरि निहितः स्थापितः । पुनः कीदृश:? दविद्युतद् अत्यन्तं द्योतमानः, ' दाधतिदर्धति दर्धर्षि.... ( पा ० सू ० ७/४/६५ ) द्युतेर्यङ्लुगन्तस्य शतयभ्यासस्य सम्प्रसारणाभावः, अत्वं विजागमश्च निपात्यते । सोऽयमेतादृशोऽग्निः? ये पृतन्यवोऽस्माभिर्युद्धं विकीर्षवः, पृतनां सेनां युद्धं वा इच्छन्तीति पृतन्यन्ति, ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३ | १ | ८ ) इति क्यचि ' कव्यध्वरपृतनयच लोप: ' ( पा ० सू ० ७ | ४ | ३ ९ ) इति टिलोपः । पृतन्यन्तीति पृतन्यव: ' क्याच्छदसि ' ( पा ० सू ० ३।२ / १७० ) इत्युप्रत्यये रूपम् । अर्थात् पाप्मानस्तान् अधस्पदं पादयोरधः अधस्पदम् ' कष्कादिषु च ' ( पा ० सू ० ८ | ३ | ४८ ) इति सकारे रूपम्, कृणुतां करोतु, बाह्यान् आन्तरांश्चास्मच्छत्रून् चरणाधश्चरान् करोविति यावत् । यद्वा अयमग्निर्वाचः स्तोत्ररूपाया वाचो मध्यं प्रतिपाद्यमर्थमारूढः स्तोत्रगत सर्वगुणयुक्तः । अन्यत् पूर्ववत् ।
पृष्ठ 483
पाठ पढ़ें पाठ छिपाएँ
म ० ५१-५२ ] वेदार्थपारिजातभाष्यसहिता ४४७ अत्र ब्राह्मणम्- ' आ वाचो मध्यमरुहद् भुरण्युरिति । एतद्ध वाचो मध्यं यत्रैष एतच्चीयते भुरण्युरिति भर्तेत्येतदयमग्निः सत्पतिश्चेकितान इत्ययमग्निः सताम्पतिश्चेतयमान इत्येतत्पृष्ठे पृथिव्या निहितो दविद्युतदिति पृष्ठे पृथिव्या निहितो दीप्यमान इत्येतदधस्पदं कृणुतां ये पृतन्यव इत्यधस्पदं कुरुता, सर्वान् पाप्मन इत्येतत् ' ( श ० ८ ६ | ३ | २० ) । विशदा कण्डिका । अध्यात्मपक्षे - अयमग्निः परमेश्वरो वाचो वेदलक्षणाया मध्यं हृदयमाशयं तात्पर्यगोचरतामारुहत् । स्वभावत एव वेदमहातात्पर्यगोचरः । भुरण्युः जगद्धारकः, अधिष्ठानत्वात् । सत्पतिः सतां पालकः । चेकितानः सर्वज्ञः । पृथिव्या भूमेर्मायाया उपरिष्टाद् निहितो नितरां स्थितो दविद्युतद् अतिशयेन द्योतते । ये पृतन्यवो s -स्माभिः कलहं कर्तुमिच्छन्ति तान् सोऽयमग्निः परमेश्वरः, अधस्पदम् अस्माकं पादयोरधस्तादवस्थितान् कुरुताम् । दयानन्दस्तु - ' हे विद्वन्, चेकितानो विज्ञानयुक्तः सत्पतिर्भवान् वाचो मध्यं वाचो मध्ये भवं प्राप्य यथायं भुरण्यः पोषकोऽग्निविद्वान् पृथिव्याः पृष्ठे उपरि भागे निहितो नितरां धृतो दविद्युतत् प्रकाशयति, आरुहद् रोहति, तेन ये पृतन्यवस्तानस्पदं कृणुताम् ' इति, तदपि यत्किञ्चित् निर्मूलत्वात् । वाचो मध्यमित्यस्य वाचो मध्ये भवमुपदेशं प्राप्येत्यपि तथाविधमेव, उपदेशस्य शब्दात्मकत्वेन तदयोगात् । सर्वस्यैव भूमेः पृष्ठे वर्तमानत्वात् तथोक्तिरपि न वैशेष्यावहा । धर्ममारोहतीति भाषाव्याख्यानमपि निर्मूलम्, तथाध्याहारे मानाभावात् । सर्वोऽपि लोकः शत्रूनधस्पदं कर्तुं वाञ्छतीत्ययमुपदेशोऽपि निरर्थक एव ॥ ५१ ॥
अ॒यम॒ग्निर्वी॒रत॑मो वयो॒धाः संहत्रियों द्योतता॒मप्र॑युच्छन् ।
वि॒भ्राज॑मानः सरि॒रस्य॒ मध्य॒ उप॒ प्रया॑हि दि॒व्यानि॒ धाम॑ ॥ ५२ ॥
मन्त्रार्थ - महान् पराक्रमी, हवि ग्रहण करने वाले, सहस्र इष्टकाओं के तुल्य अग्निदेव कर्मों में प्रमाद न करते हुए प्रज्वलित हों, त्रिलोकी के मध्य में बोध्यमान दिव्य स्थानों को प्राप्त हों ॥ ५२ ॥
अयमग्निर्वीरतमः, अजति शत्रून् क्षिपतीति वीरः । ' स्फायितञ्चि ' ( उ ० २।१२ ) इत्यादिना रक्प्रत्ययः । ' अजेर्व्यघञपो: ' ( पा ० सू ० २२४ / ५६ ) इति प्रकृतेर्व्यादेशः । अथवा वेति व्याप्नोति शत्रून् बलेनेति वीरः । ' वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु ' इति वोधातो रप्रत्ययः । अतिशयेन वीरो दीरतमः । वयोधाः, वयो हविर्लक्षणमन्नं धीयते ऽस्मित्रिति वयोधाः, अथवा वयो दधातीति वयोधाः । सहस्रिय इष्टकानां सहस्रेण सम्मितः, ' सहस्रेण सम्मितौ घः ' ( पा ० सू ० ४ । ४ । १३५ ) इति घप्रत्ययः सहस्रार्हो वा । तादृशोऽयमग्निः, द्योततां दीप्यताम् । अप्रयुच्छन् कर्मसु अप्रमाद्यन् । सरिरस्य लोकत्रयस्थ, ' इमे वै लोकाः सरिरम् ' ( श ० ८ | ६ | ३ | २१ ) इति श्रुतेः । मध्ये विभ्राजमानो दीप्यमानो दिव्यानि धाम एषु लोकेषु लोकोत्तराणि नाम धामानि स्थानानि, स्वर्गं लोकमिति यावत् । उपप्रयाहि उपप्रयातु उपगच्छतु । अत्र पुरुषव्यत्ययः, मन्त्रस्य परोक्षकृतत्वात् । यद्वा- अयमग्निद्यततां कर्मण्यस्मिन् प्रकाशताम् । कीदृशोऽग्निः? वीरतमोऽतिशयेन शूरः । वयोधा आयुषो धाता स्थापयिता । सरिरस्य जलस्य मध्ये । अन्यत् पूर्ववत् । अत्र ब्राह्मणम् – ' अयमग्निर्वीरतमो वयोधा इति । अयमग्निर्वीर्यवत्तमो वयोधा इत्येतत् सहस्रियो द्योततामप्रयुच्छनिति सहस्रियो दीप्यतामप्रमत्त इत्येतद्विभ्राजमानः सरिरस्य मध्य इतीमे वै लोकाः सरिरं दीप्यमान एषु लोकेष्वत्येतदुप प्रयाहि दिव्यानि धामेत्युप प्रयाहि स्वगं लोकमित्येतत् ' ( श ० ८ | ६ | ३ | २१ ) इति ।
पृष्ठ 484
पाठ पढ़ें पाठ छिपाएँ
४४८ शुक्लयजुर्वेद संहिता [ अ ० ] १५ अध्यात्मपक्षे - अयं प्रत्यक्षेणोपलभ्यमानोऽग्निः परमेश्वरो रामचन्द्रः । वीरतमः शूरतमः । वयोधा भक्तानामायुषोऽन्नस्य भोग्यस्य वा धाता । सहस्रियः अनन्तमूल्यार्हः । अथवा अनन्तेन योद्ध सेनासमूहेन सम्मितः । सहस्रशब्दोऽनन्तवाची । द्योतताम् भक्त हृदयेष्विति शेषः । अप्रयुच्छन् भक्तनामर्थे सदा सावधानः । सरिरस्य समुद्रस्य मध्ये लङ्कायां रक्षसां वधाय विभ्राजमानः । दिव्यानि धाम अथर्ववेदप्रसिद्ध-मयोध्याख्यं स्वयं गच्छतु । दयानन्दस्त- ' योऽयं वीरतमो वयोधाः सहस्रियः सहस्रेण योद्धसमूहेन सम्मितः सरिरस्य अन्तरिक्षस्य मध्ये विभ्राजमानो विशेषेण विद्यान्यायाभ्यां देदीप्यमानोऽप्रयुच्छन् अप्रमाद्यन् अग्निरिव स भवान् सेनापतिर्योततां दोप्यताम् । दिव्यानि धाम धामानि त्वमुप प्रयाहि ' इति, तदपि यत्किञ्चित, मनुष्यमात्रे सेनापती प्रोक्तविशेषणानुपपत्तेः, वेदे मनुष्यस्तुतेनिरर्थकत्वात् ॥ ५२ ॥
सम्प्रच्य॑ वध्व॒मुप॑ स॒म्प्रया॒ताग्ने॑ प॒थो दे॑व॒याना॑न् कृणुध्वम् ।
पुनः कृण्वानाः पि॒तरा॒ युवा॑नावाला सीत त्वयि तन्त॑मे॒तम् ॥ ५३ ॥
मन्त्रार्थ - हे ऋषियों तम इस अग्नि के समीप आओ, समीप आकर शान्ति से देठो । हे अग्निदेव, तुम daura मार्ग को सिद्ध करो । वाणी और मन से तरुण ऋषियों ने इस यज्ञ का तुम्हारी सहायता से क्रमपूर्वक विस्तार किया है ॥ ५३ ॥
ऋषीना मन्त्र - हे ऋषयः, यूयमेतमग्नि सम्प्रच्यवध्वम् अग्नि प्रत्यागच्छत । आगत्य च उप-सम्प्रयात सम्यक श्रद्धाभक्त्यादिभिस्तं प्राप्नुत वक्ष्यमाणश्रतेः । अथाग्निमाह-- हे अग्ने, देवयानान् पथः कृणुध्वं कुरु । वचनव्यत्ययः । देवा यायन्ते प्राप्यन्ते यंस्ते देवयानास्तान देवलोकप्राप्तिहेतुभृतान् मार्गान कुरु । हे अग्ने, यत ऋषय एतं तन्तं यज्ञं त्वय्यन्वातांसीद अतानिषः, अनुक्रमेण विस्तारितवन्तः । वचनव्यत्ययः । कोदृशा ऋषयः? पनयः पितरा वाङ्मनसे यवानी तरुणी अयातयामो अन्योन्यसङ्गतौ वा कृण्वानाः कुर्वाणाः । स्वादेः कृञः शानच । विभक्तेराकारः । स हि वाक न मनश्च यज्ञं साधयतः, संयताभ्यां सङ्गताभ्यामेव च यज्ञसाधनतोपपत्तेः । यद्वा सम्प्रच्यवध्वं स्वकीयात स्थानात् सम्यङ निर्गच्छ । ततोऽस्मदीयं देवयजनमेत्य सम्प्रयात सम्यक प्राप्नुहि । ततो देवयानान् देवलोकप्राप्तिमार्गान् कृणुध्वं कुरु । पूजनार्थं बहवचनम् । किं कुर्वन्? त्वयि पितरा मातापितरौ युवाना तरुणी पनर्भूयोभूयः कृण्वानाः कुर्वन् सोऽग्निस्तं तन्तुं यज्ञप्रवाहमन्वातासीत् । वाङ्मनसे संयते कृत्वा जितेन्द्रियः सन् यजमन्यातांसोद् अवतनोतु सम्पादयतु । अत्र ब्राह्मणम् -'सम्प्रच्यवध्वमुपसम्प्रयातेति । अमृतदृषीनाह समेनं प्रच्यवध्वमुप चैन ११ सम्प्रयातेत्यग्ने पथ देवयानान् कृणुध्वमिति यथैव यजुस्तथा बन्धुः पुनः कृण्वाना पितरा युवानेति वाक् च वै मनश्च पितरा युवाना वा च मनश्चैतावग्नी अन्वाता सीत् त्वयि तन्तुमेतमिति योऽसावृषिभिस्तन्तुस्ततस्तमेतदाह ' ( श ० ८ | ६ | ३ | २२ ) । वाक् च मनश्च पितरा स्वोपकारेण जगतः पालयितारो युवाना नित्यतरुणी अन्वातां-सीत् ऋषिभिर्योऽसो तन्तुस्ततस्तमेव तनुतामिति प्रार्थ्येते । वाङ्मनश्च एतावग्नी गार्हपत्याहवनीयो, पूर्ववत् । अध्यात्मपक्षे - हे ब्रह्मविदः सम्प्रच्यवध्वं ब्रह्मात्मभावात् सम्यक् प्रच्यवध्वं प्रच्युता भवन्तु । कल्पितरु बुद्धिमुपेत्य भगवन्तं श्रीरामचन्द्र श्रीकृष्णचन्द्रं वा सम्यग् उपसम्प्रयात श्रवणकीर्तनध्यानादिभि-
पृष्ठ 485
पाठ पढ़ें पाठ छिपाएँ
म ० ५३-५४ ] वेदार्थ पारिजातभाष्यसहिता ४४ ९ स्तत्सामीप्यं प्राप्नुध्वम, ' द्वैतं मोहाय बोधात् प्राग जाते बोधे मनीषया । भक्त्यर्थं भावितं द्वैतमद्वैतादतिसुन्दरम् ॥ ' इत्याचार्यं न रहर्युक्तेः । एष सिद्धान्तः श्रीमधुसूदनसरस्वतीपादेर्भक्तिरसायने वर्णितः, तदभूमिकायां चास्माभिः सुभृशं सुस्थापितः । तत्रैव मनोहत्य आलोचनीयः । हे अग्ने भगवन् श्रीराम, देवयानान् पथो मार्गान् कृणुध्वं कुरुत । एते भक्ताः पितरौ वाक् च मनश्च युवानो अन्योन्यसङ्गतो कृण्वानाः कुर्वाणा एतं स्वयि ततं तन्तुं ध्यानात्मकं यज्ञमन्वातांसीद् अन्वातंशिषुः । वचनव्यत्ययः । अनुक्रमेण विस्तारितवन्तः । दयानन्दस्तु - ' हे मनुष्याः, यूयं विद्या उपसम्प्रयात । देवयानान् पथः सम्प्रच्यवचं सम्यग् गच्छत । धर्मं कृणुध्वम् । हैं अग्ने, त्वयि पितामहे विद्यमाने सति पितरा कृष्वाना युवाना भूत्वा स्वयंवरं विवाहं कुरवा पुनरेतं तन्तुमन्यातांसीत् ' इति, तदपि यत्किचित् प्रकरणप्राप्तमग्नि विहाय विद्यानां कर्मत्वापादाने प्रकृत हाना प्रकृत प्रक्रियाप्रसङ्गात् धर्मशब्दमनध्याहृत्यापि देवयानानिति पदस्य कर्मत्वेनान्वयसम्भवात् । अग्नेः पितुः पितृत्वानिर्णयेन पितामहत्वानिर्णयोऽपि तदवस्थः । न च पित्रोर्विवाहमन्तरा पुत्रोत्पत्तिरिति कथमनुत्पन्नः पुत्रः पित्रोविवाहं पितामहाय वर्णयेत् ॥ ५३ ॥
उदबध्यस्वाग्ने॒ प्रतिजागृहि त्वमिष्टापूर्ते अ॒स्मिन् स॒धस्थ॒ अध्युत्त॑र॒स्मिन् विश्वे॑दे॑वा॒
ससृजेथामयं च ।
यज॑मानव सीदत ॥ ५४ ॥
मन्त्रार्थ हे अग्निदेव, तुम सावधान रहो । श्रौत और स्मार्त कर्म में यजमान से सम्पर्क करो । तुम्हारे प्रसाद से ser पूर्व कर्म से निष्पाप हुआ यह यजमान भी देवताओं के साथ रहने योग्य बन कर सबसे उत्कृ g स्वर्ग लोक में चिरकाल तक निवास करे ॥ ५४ ॥
हे अग्ने स्वस्व प्रतिबुद्धो भव, अस्मद्विषये सावधानो भवेत्यर्थः । प्रतिजागृहि यजमानहिते urrent भवेत्यर्थः । यद्वा एनं यजमानं प्रतिजागृहि प्रतिदिनं जागरूकं सावधानं कुरु । तत इष्टापूर्ते इष्टं च तं च इष्टापूर्ते, ' पृषोदरादीनि यथोपदिष्टम् ' ( पा ० सू ० ६ | ३ | १० ९ ) इति साधु । इष्टं च आपूर्त चेति रामायणतिलके ( ११२११८ ) नागेश: । संसृजेथां त्वत्प्रसादाद् यजमानेन श्रौतस्मार्ते कर्मणी संसृष्टे भवेताम् अर्थादयं यजमान इष्टापूर्ताभ्यां संसृष्टो भवतु । ततः संसृष्टेष्टापूर्तो विगतकल्मषः सन् अस्मिन् सधस्थे देवः सहस्थाने, अध्युत्तरस्मिन् सर्वोत्कृष्टे आदित्यलोके विश्वेदेवा यजमानश्च सीदत । अनेन यजमानस्य विश्वेदेवैः सालोक्यं प्रायते । यदा अयं च त्वं च मिलित्वा इष्टापूर्ते श्रौतस्मार्तकर्मणी संसृजेथाम् । यद्वा है विश्वेदेवाः, यूयं कृतेष्टापूर्ती निष्पापो यजमानश्च सधस्थे देवैः सह स्थितियोग्येऽस्मिन्नुत्तरस्मिन् सर्वोत्कृष्टे सूर्यलोके, अधि अधिकं चिरं सोदत तिष्ठतेत्यर्थः । अत्र ब्राह्मणम् -'उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिति । इममेतदग्निमाहोच्चैनं बुध्यस्व प्रति चैनं ७ जागृहीतीष्टापूर्त स 9 सृजेथामयं चेति यथैव यजुस्तथा बन्धुरस्मिन् सधस्थेऽध्युत्तरस्मिन्निति द्यौर्वा उत्तर सधस्थं विश्वे देवा यजमानश्च सोदलेति तद्विश्वैर्देवैः सह यजमान सादयति ' ( श ० ८/६/३/२३ ) । अध्यात्मपक्षै— हे अग्ने प्रभो श्रीराम, त्वमस्मद्रक्षायामुदबुद्धो भव, साधकं प्रति च जागृहि जागरूकं कुरु । अयं साधकस्त्वं चेष्टापूर्ते इष्टं हुतप्रहृतादिकं पूतं वापीकूपतडागादिनिर्माणकार्य सम्पादयतम् । साधकः फलप्राप्त्यर्थम्, ईश्वरस्तु लोकसंग्रहार्थमिष्टापूर्ते सम्पादयतः । तेनास्मिन्नुत्तरस्मिन् सधस्थे देवानां सहस्थाने साकेते विश्वे देवाः सर्वे देवाः युवां च सर्वे यूयं सीदत । मर्यादापुरुषोत्तमो भगवान् स्वयं कर्माणि करोति मत्यशिक्षणार्थम्, ' मयवितारस्त्विह मर्त्यशिक्षणं रोवधायैव न केवलं विभोः ' ( भा ० पु ० ५।१ ९ ।५ ) ५७
पृष्ठ 486
पाठ पढ़ें पाठ छिपाएँ
४५० शुक्लयजुर्वेदसंहिता [ अ ० ] १५ इति श्रीमद्भागवतमहापुराणवचनात । अधिकारिसाधकांश्च भगवान् कर्माणि कारयति । तेन साधकैर्देवैश्च सहितः साकेते सर्वेभ्यः सालोक्यं ददाति ॥ ५४ ॥
येन॒ वह॑सि स॒हस्रं येनाग्ने सर्ववेदसम् । तेने॒मं य॒ज्ञं नो॑ नय॒ स्वर्देवैष गन्त॑वे ॥ ५५ ॥
मन्त्रार्थ - हे अग्निदेव, तम अपनी जिस सामर्थ्य से दक्षिण वाले यज्ञ को प्राप्त कराते हो, जिस सामयं से सर्वस्व दक्षिणा वाले यक्ष को प्राप्त कराते हो. उसी सामर्थ्य से हमारे इस छोटे से यज्ञ को भी देवताओं के पास स्वर्ग में ले जाओ । यज्ञ के स्वर्ग में जाने से हमारा भी वहाँ जाने का रास्ता खुलजायगा ॥ ५५ ॥
हे अग्ने, येन तना व्यापारेण सामोन वा मणि त्वं वहनि प्रापयसि येन च सर्ववेदसं सर्व वेदो धनं दतं क्षिणा तेन सामशर्तेन नोऽस्माकमिमं यज्ञं देवेष त्ययः । राजे स्वर्गं गतेऽस्माकमपि तत्र गमनं गन्तवे देवान् प्रति गन्तं स्वः स्वर्गं न प्राय | Thane स्यात्, ' सोऽस्यैष यज्ञो टेवलोकमेवाभिति ११ ९ ( ३१ ) इति श्रुतेः । ---च दक्ष यांत सैति दक्षिणा मन्वारभ्य यजमानः ' ( श ० अत्र ब्राह्मणम्- ' येन वहसि सहसम् । रोनाने सर्ववेदरमित्येतद्वास्य प्रतिज्ञाततमं धाम येन सहस्रं वहति येन सर्ववेदसं तेनेयं यतो न as a इति तेन न मं यज्ञं नय स्वर्ग लोकं देवेषु गन्तव इत्येतदयं ते योनिर्ऋत्विय इति तस्योतो बरविका उपदधाति तस्यो एवोक्तः ( श ० ८ ६ ३३२४ ) । अध्यात्मपक्षे - हे अग्ने परमेश्वर, येन प्रभावेण । जेषं पूर्ववत् । अग्नेरप्यन्तर्यामिप्रेरितस्यैव तत्तत्कार्य-करणत्वमिति तत्कार्यमपि पारमेश्वरमेव कर्मेति मन्तव्यम| दयानन्दस्त- ' हे अग्ने, त्वं देवेश स्वर्गन्तवे येन सहस्रं वहसि येन सर्ववेदसं वहसि, तेतेमं यज्ञं नोऽस्मांश्च नय ' इति, तदपि यत्किञ्जित, सर्ववेदसं सर्ववेदस्वतं कर्मेति व्याख्यानस्य निर्मलत्वात, सर्ववेदसाभिधाने यज्ञ-विशेषेऽस्य शब्दस्य प्रसिद्धेश्व | स्वः सुखमित्यपि न सङ्गतम, ब्राहाणे स्वरिति पदस्य स्वर्ग लोकमिति व्याख्यानात् ॥ ५५ ॥
अयं ते योनिर्ऋत्वियो यतौ जातो अंरोचथाः ।
तं जानन्न॑ग्न आरोहाथो नो वर्धया रयिम् ॥ ५६ ॥
मन्त्रार्थ - - हे अग्निदेव, यह तुम्हारा सायंकाल और प्रात: काल सम्धी उत्पत्ति का स्थान है । यहाँ से प्रकट होकर तुम कर्मकाल में प्रज्वलित होते हो, गार्हपत्य अग्नि को जानते, अर्थात् उसे अपना अंश मानते हुए तुम उसमें प्रविष्ट हो जाओ और हमारे निमित्त यज्ञ के साधनभूत धन को चारों तरफ से बढ़ाओ ॥ ५६॥
उभयत्र ( ३ | १४, १२।५२ ) पठितेयं कण्डिका । अत्र पुनः पठिता । तृतीये व्याख्यात पूर्वेषा ॥ ५६ ॥
Hy तपश्च तपस्युश्च शैशिराच॒तू अ॒ग्नेर॑न्तः श्लेषोऽसि कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धयः कल्पन्तामग्नयः प्रथमम ज्येष्ठांय सव्रताः । ये अ॒ग्नय॒ सम॑नसोऽन्तरा द्यावा॑पृथि॒वी इ॒मे । शैश॒रात् अभि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒स॑र्वि॒शन्तु॒ तय दे॒वत॑यारिस्वद् ध्रुवे सौदतम् ॥ ५७ ॥
पृष्ठ 487
पाठ पढ़ें पाठ छिपाएँ
म ० ५७-५९ ] वेदार्थ पारिजातभाष्यसहिता ४५१ मन्त्रार्थ- - माघ और फाल्गुन मास शिशिर ऋतु के अवयव हैं, हे ऋतुरूप दोनों इष्टकाओं, तुम चीयमान अग्नि के अन्तर में स्थिरता और दृढ़ता के लिये लगाई गई हो, मुझ यजमान के उष्कर्ष के निमित्त यह चुलोक और भूलोक नाम मेरे योग्य उपकार की कल्पना करें, जल और औषधि हमारा वर्चस्व स्थापित करें । समान व्रत और अनेक मन वाली अग्नि स्वयमातृष्णा आदि इष्टकाओं में उत्कर्ष का आधान करें । यह द्यावापृथिवी के मध्य में वर्तमान एक उसको वाली अग्नियां शिशिर ऋतु सम्बन्धी कार्य का उसी प्रकार सम्पादन करें, जैसे देवता इन्द्र को परिचर्या कर प्रसन्न करते हैं । हे इष्टके, उस प्रसिद्ध अंगिरा ऋषि के समान स्थिर होकर तुम यहाँ रहो ॥ ५७ ॥
एवं पुनश्चित्युपस्थान मुक्त्वा पञ्चमचितिशेषभूतेष्टकोपधाने मन्त्रा उच्यन्ते - तपश्चेति । ' ऋतव्ये तपश्च तपस्यश्चेति ' ( का ० श्री ० १७/१२/२३ ) । प्राग्लक्षणे अनूकमभित उदङ्मुख ऋतव्ये द्वे पद्येष्टके उपदध्यादिति सूत्रार्थः । ऋतुदेवत्यं यजुः । उत्कृतिश्छन्दः । तपो माघः, तपस्यः फाल्गुनः । शैशिरो ऋतू शिशिरर्तोरवयवो ।
शिष्टं त्रयोदशेऽध्याये ( १३।२५ ) व्याख्यातम् ॥ ५७ ॥
परमेष्ठी त्वां सादयतु दि॒वस्पृ॒ष्ठे ज्योति॑ष्मतीम् 1 । विश्व॑स्मै॑ प्रा॒णाय॑मा॒नाय॑ व्या॒नाय॒ विश्वं ज्योतिर्यच्छ । सूर्यस्तेऽधि॑पति॒स्तया॑ दे॒वत॑याऽङ्गर॒स्वद् भ्र्वा सव ॥ ५८ । मन्त्रार्थ - हे इष्टके, वायुरूप विश्वकर्मा ज्योतिष्मती स्वरूप तुमको द्युलोक के ऊपर स्थापित करें । सूर्य तुम्हारा स्वामी है ॥ ५८ ॥
' विश्वज्योतिषं परमेष्ठी वेति ' ( का ० श्री ० १७/१२/२४ ) | यजमानकृतां प्राग्लक्षणां पद्यां विश्वज्योतिषं तृतीयोपहिताया विश्वज्योतिष उपरि उपदध्यादिति सूत्रार्थः । सूर्यदेवत्यं यजुः । शक्वरीच्छन्दः । हे इष्टके, परमेष्ठी त्वां दिवः पृष्ठे उपरि सादयतु । सूर्यस्ते तवाधिपतिः पालकः । अन्यत् चतुर्दशेऽध्याये ( १४ | १४ ) व्याख्यातम् । अत्र ब्राह्मणम् -- ' परमेष्ठी त्वा सादयत्विति । परमेष्ठी ह्येतां पञ्चमीं चितिमपश्यद्दिवस्पृष्ठे ज्योतिष्मतीमिति दिवो सौ पृष्ठे ज्योतिष्मानादित्य: ' ( श ० ८७ २।२१ ) ॥ ५८ ॥
लोकम्पृ॑ण छिद्रं पू॒णार्थो सीद वा त्वम् । इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसोषदन् ॥ ५ ९ ॥ मन्त्रार्थ - हे इष्टके, तुम गार्हपत्य चयन स्थान में पूर्व इष्टकाओं से अनाक्रान्त होकर इस स्थान को पूर्ण करो और दृढ़तापूर्वक यहाँ स्थित हो जाओ । इन्द्र, अग्नि और बृहस्पति देवता ने इस स्थान पर तुमको स्थापित किया है ॥ ५ ९ ॥ ' दक्षिणा सात् प्रत्यग रत्निमात्रादधि लोकम्पृणाः पूर्ववत् ' ( का ० श्री ० १७।१२।२५ ) | आत्मनो दक्षिणादाग्नेय कोणादपरस्यां दिश्यरत्निमात्रादधिपद्या लोकद्वयं परित्यज्य तृतीयलोकादारभ्य प्रथम-चितिवल्लोकम्पृणा पदध्यादिति सूत्रार्थः । इमां कण्डिकामारभ्य तिस्रोऽपि कण्डिका द्वादशेऽध्याये ( १२।५४-५६ ) व्याख्याताः ॥ ५ ९ ॥
पृष्ठ 488
पाठ पढ़ें पाठ छिपाएँ
४५२ [ अ ० ] १५ ता अ॑स्य॒ सूत॑दोहस॒ः सोम॑भिः॒ श्रीणन्ति॒ पृश्न॑यः । जन्म॑न् देवानां विशस्त्रिष्वारचने
इन्द्रं॒ विश्वा॑ अवीवृधन् समु॒द्रव्य॑चसं॒ गिर॑ः ।1
दिवः ॥ ६० ॥
रथीत॑ र॒थीनां वाजा॑न॒ सत्प॑ति॒ पति॑म् ॥ ६१ ॥
प्रोथदश्वो न यव॑सेऽवि॒ष्यन् यदा म॒हः संवर॑णा॒द् आव॑स्य॒ वातो॒ अन॑वाति शोचिरधं स्म ते॒ व्रज॑न
व्यस्था॑त् ।
क॒ष्णम॑स्ति ॥ ६२ ॥
मन्त्रार्थ -- लोक सम्बन्धी अनेक प्रकार के जल और अन्न से संयुक्त वे प्रसिद्ध जलदेवता संवत्सर के तीन सनों के मध्य में इस यज्ञ सम्बन्धी सोम को सम्यक् प्रकार से परिपक्व करते ॥ ६० ॥
मन्त्रार्थ -- सम्पूर्ण ऋक्, यजुः और सामवेद रूपी स्तुतियाँ समुद्र के समान व्यापक, सब रथियों के मध्य में अत्यन्त पराक्रमी, अन के पति, निज धर्म में रहने वालों के पालक इन्द्र के बल को बढ़ाती हैं ॥ ६१ ॥
मन्त्रार्थ --- जिस समय बड़े अरणि काष्ठ से अग्नि प्रकाशित होती है, तब उसी प्रकार शब्द करती है, जैसे कि घोड़ा भोजन की इच्छा रहने पर घास के लिये हिनहिनाता है । अग्नि के प्रज्वलित होने के उपरान्त उसको बढ़ाने वाला वायु अग्नि की ज्वाला को देख कर वहन करता है । इसके उपरान्त हे अग्ने, उस समय तुम्हारा यह गमन कृष्ण वर्ण का होता है ॥ ६२ ॥
' प्रच्छाद्य पुरीषेण विकर्णी स्वयमातृष्णे शर्करे स १७ स्पृष्टे छिद्रे प्रोथदश्व इत्युत्तरां विकर्णीम् ' ( का ० श्री ० १७।१२।२६ ) । पञ्चमीं चितिं पुरीषेण पूर्ववत् प्रच्छाद्य शर्करामय्यौ परस्परसंल्लग्ने सच्छिद्रे विकर्णी स्वय माणसंज्ञके द्वे के दक्षिणोत्तरे उदङ्मुख उपदध्यात् तयोर्मध्ये उत्तरदिश्यनूकरेखामध्ये प्रोथदश्व इति विकर्णी मिष्टकामुपदध्यादिति सूत्रार्थः । वशिष्ठदृष्टा आग्नेयी त्रिष्टुप् । अत्र मध्यमानोऽग्निरुच्यते । यदा यस्मिन् काले महो महतः, विभक्तिव्यत्ययः संवरणात् संव्रियतेऽग्निरस्मिन्निति संवरणमरणिकाष्ठम्, तस्मात् । व्यस्थाद् वितिष्ठते प्रकाशते तदा प्रोथत् प्रोथति शब्दायत इत्युव्वाचार्यः । ' प्रोथति सूदति अश्व इवायमग्निः ' इति भदृभास्करः । अयमेव – ' अप प्रोथ दुन्दुभे दुश्छुनान् ' ( वा ० सं २ ९ ५६ ) दुरववलिप्तान् उपसर्गान्तरविकारः ' प्रोथ पर्याप्तिगतौ ' इत्याह । क्षरणे तु अपप्रोथनं हुङ्करणमिति । एवं प्रोथतेः शब्दसूदन हुङ्काराद्यर्थाः पुराणैः शिष्टैः प्रतिपादिताः । प्रोथतीत्यत्र ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३।४ / ९ ७ ) इति तिप इकारलोपः । तत्रैव दृष्टान्तः --- अश्वो न अश्व इव । यवसे घासे विषयभूते अविष्यन् यवसं भक्षयिष्यन् अश्वो यथा प्रोथति तद्वत् । अस्य वह्निज्वलनशब्दस्य आद् अनन्तरं वातो वायुरस्याग्नेरनुवात्यग्निमनुलक्ष्य प्रसरति , अग्नेः, सन्दीपनः वाय्वग्न्योः । परस्परं सख्यादिति भावः । कीदृशो वायुः? शोचिः शोचयति ज्वलयतीति शोचिः शोचिरिति निघण्टौ ( १११७/६ ) ज्वलन्नामसु पठितम् । यद्वा अस्याग्नेः शोचिज्वलामनुलक्ष्य वातो वाति । अधेति निपातोऽथार्थः । अथ वातेनाग्नी प्रज्वलिते सत्येतस्याग्नेर्व्रजनं व्रजत्यत्रेति गमनस्थानम्, कृष्णमस्ति श्यामं भवति । अविष्यन्निति ' अत्तिकर्मसु ' ( निघ ० २८६ ) पठितम् ।
पृष्ठ 489
पाठ पढ़ें पाठ छिपाएँ
म ० ६०-६३ ] वेदार्थपारिजातभाष्यसहिता ४५३ अत्र ब्राह्मणम् -'अथ विकर्णी च स्वयमातृष्णां चोपदधाति । वायुर्वै विकर्णी द्यौरुत्तमा स्वयमातृष्णा वायुं च तद्दिवं चोपदधात्युत्तमे उपदधात्युत्तमे हि वायुश्च द्यौश्च स स्पृष्ठे स स्पृष्टे हि वायुश्च द्यौश्च पूर्वी बिकर्णी -मुपदधात्यर्वाचीनं तद्दिवो वायुं दधाति तस्मादेषोऽर्वाचीनमेव वातः पवते ' ( श ० ८७१३२ ९ ) । विष्णोः स्थानाका राशिछद्राः शर्कराः, स्वयमातृष्णाः स्वयं छिद्राः शर्कराः, तयोः पुरीषस्योपधानं त्रयोदशभिः कण्डिकाभिः प्रपञ्च्यते । ' यद्वेव विकर्णी च स्वयमातृष्णां चोपदधाति । आयुर्वे विकर्णी प्राणः स्वयमातृष्णाऽऽयुश्च तत्प्राणं चोपदधात्युत्तमे उपदधात्युत्तमे ह्यायुश्च प्राणश्च स स्पृष्टे स ७ स्पृष्टे ह्यायुश्च प्राणश्च पूर्वामुत्तरां विकर्णी -मुपदधात्यायुषा तत्प्राणमुभयतः परिगृह्णाति ' ( श ० ८ | ७ | ३ | ११ ) । ' प्रोथदश्वो न यवसे । अविष्यन् यदा महः संवरणाद् व्यस्थाद् आदस्य वातो अनुवाति शोचिरध स्म ते व्रजनं कृष्णमस्तीति यदा वा एतस्य वातोऽनुवाति शोचिरथतस्य व्रजनं कृष्णं भवति ' ( श ० ८ | ७ | ३ | १२ ) । प्रसन्ने कण्डिके । अध्यात्मपक्षे --अयमग्निः परमेश्वरः प्रोथत् प्रोथति निःश्वासेन वेदं प्रकटयन् शब्दायते । कथमिव? यथा अश्वो यवसे निमित्तेऽविष्यन् प्रसिष्यन् शब्दायते तद्वत् । यदा महतः संवरणान्महतो मायामयादावरणाद् व्यस्थाद् व्युत्तिष्ठत्ते, आवरणमपसार्याभिव्यज्यते श्रीराम श्रीकृष्णादिरूपेण, आद् अथ अनन्तरमेव वातो वायुजो हनुमान्, ' गोभिः श्रीणीत मत्सरम् ' ( ऋ ० सं ० ९ ४६ | ४ ) इतिवदत्र कार्य कारणशब्दप्रयोगः, तमनुलक्ष्य वाति तमनुगच्छति । कीदृशो वातः? शोचिः सन्दीपनः, तन्महिम्नः प्रख्यापकः । अथ ते तस्याग्नेर्व्रजनं प्राप्तिः कृष्णं सदानन्दमभिभवति । ' कृषि वाचकः शब्दो गश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥ ' इति हि ब्रह्मवैवर्तपुराणवचनम् । दयानन्दस्तु - ' हे राजन्, भवान् यवसेऽश्वो न प्रजाः प्रोथत् पर्याप्नुयात्, यदा महतः संवरणादाच्छा-दनादविष्यन् व्यवस्थाद् वितिष्ठेत्, आद् अस्य ते तव व्रजनं कृष्णं शोचिरस्ति, अथ स्मास्य तव वातोऽनुवाति ' इति, तदपि न, सम्बोधनस्य निर्मूलत्वात् । प्रजापदाध्याहारोऽपि निर्मूल एव । वातपदं भृत्यपरमित्यपि चिन्तनीयम् । व्रजनं कृष्णं शोचिरप्यप्रसिद्धमेव । तस्मात् सिद्धान्तविरुद्धमेतदुपेक्षणीयमेव ॥ ६०-६२ ॥
आयष्ट्वा॒ सद॑ने सावया॒म्यवत॑श्छा॒यया॑ समु॒द्रस्य॒ हृद॑ये ।
रश्वतो॑ भास्व॑ति॒मा या द्यां भास्या पृ॑थि॒वोमोर्व॒न्तरि॑क्षम् ॥ ६३ ॥
मन्त्रार्थ --- हे स्वयमातृष्णे, जगत् का पालन करने वाले, वर्षा से जगत् को आर्द्र करने वाले, आयु नाम से प्रसिद्ध आदित्य देवता के आश्रय रूप प्रधान हृदय स्थान में बहुत किरणों से प्रकाशमान तुमको स्थापित करता हूँ । तुम चुलोक को प्रकाशित करती हो, भूलोक को प्रकाशित करती हो और विस्तीर्ण अन्तरिक्ष लोक को भी प्रकाशित करती हो ॥ ६३ ॥
' आयोष्ट्वेति स्वयमातृष्णाम् ' ( का ० श्री ० १७ १२ / २६ । आयोरिति कण्डिकाद्वयेन विकर्णीदक्षिणां स्वय मातृष्णामुपदध्यादिति सूत्रार्थः । आयोः परमेष्ठीति द्वे यजुषी स्वयमातृष्णादेवत्ये । आद्यं ब्राह्मी उष्णिक्, द्वितीयम् आकृतिः । हे स्वयमातृष्णे, या त्वं द्यां द्युलोकं पृथिवीं भूलोकम्, उरु विस्तीर्णमन्तरिक्षमन्तरिक्षलोकम्, आभासि आभासयसि प्रकाशयसि तां त्वाम् आयोर् एति निरन्तरं गच्छतीत्यायुरादित्यः तस्य । अथनस्य वा । कीदृशस्य आयो:? अवतः अवनस्य जगत्पालयितुः दीप्यमानस्य वा । सदने अवस्थाने सादयामि । पुनः कीदृशस्य? समुद्रस्य । सम्यग् उनत्ति आर्द्राकरोतीति समुद्रस्तस्य । आदित्यो हि वृष्टया जगदाद्रकुर्वन् समुद्र
पृष्ठ 490
पाठ पढ़ें पाठ छिपाएँ
४५४ शुक्ल यजुर्वेदसंहिता [ अ ० १५ उच्यते । ' उन्दी क्लेदने ' । कथंभूते सदने? छायायां आश्रये हृदये प्रधानदेशे । कीदृशीं स्वाम्? रश्मीवतीं किरणवतीम् । रश्मिपदस्य संहितायां दौर्घः । पुनः कीदृशीम्? भास्वती बहु शोभमानाम् । अत्र ब्राह्मणम् - ‘ अथ स्वयमातॄण्णामुपदधाति । आयोष्टवा सदने सादयामीत्येष वा आयुस्तस्यै-तत्सदनमवत इत्येष हीद सर्वमवति छायायामित्येतस्य हीद सर्वं छायाया " समुद्रस्य हृदय इति समुद्रस्य, ह्येतद् हृदय, रश्मीवतों भास्वतीमिति रश्मीवती हि द्यौर्भास्वत्या या द्यां भास्या पृथिवीमोर्वन्तरिक्षमित्येव ह्येष इल्लोकानाभाति ' ( श ० ८ | ७ | ३ | १३ ) । अनेन ब्राह्मणेन आदित्य एवायुरिति स्पष्टमुक्तम् । अध्यात्मपक्षे --- हे प्रज्ञे, आयोर् एति निरन्तरं गच्छतीत्यायुर् आदित्यः, तस्य । आदित्यवत् त्वां स्वप्रकाशस्य सादयामि परमात्मनोऽवतः सर्वपालकस्य समुद्रस्य समुद्रवदगाधस्य गम्भीरस्य हृदये प्रधानभूते छायायामाश्रये दीप्तिमतीम् । त्वं कीदृशी? स्थापयामि । कीदृशीं त्वाम्? रश्मीवतीं विविधवृत्तिरश्मियुक्ताम् भास्वतीं , तादृशीं त्वां सादयामीति । तत्राह -- या त्वं द्यां पृथिवीम् उरु विस्तीर्णम् अन्तरिक्षम् आभासि प्रकाशयसि , दयानन्दस्तु -- ' हे स्त्रि, या त्वं पृथिवीमन्तरिक्षम् उरु आभासि, तां रश्मीवतीं प्रशस्तविद्याप्रकाशयुक्ताम् स्त्रियः साधारण्या भास्वतीं त्वामायोः सदनेऽवत्तश्छायायां समुद्रस्य हृदयेऽहमासादयामि ' इति, तदपि यत्किचित् , गत्यर्थस्य धातोरननु-द्युपृथिव्यादिप्रकाशकत्वानुपपत्तेः । आयोरित्यस्य न्यायानुसारिण इत्यर्थोऽपि निर्मूलः सारित्वात् ॥ ६३ ॥
- मा परमेष्ठी व सादयतु ] दि॒वस्पृ॒ष्ठे व्यच॑स्वती॒ प्रय॑स्वती॒ दिवं॑ यच्छ॒ दिवे॑ बृह॒ दिवं हिं ü सोः । विश्व॑स्मै॑ प्रा॒णाया॑पा॒नाय॑ व्या॒नाय॑दा॒नाय॑ प्रति॒ष्ठाये॑ च॒रित्रा॑य । सूर्य॑स्त्वा॒भिपा॑तु॒ ॥ म॒ह्या स्व॒स्त्या छ॒दिषा॒ शन्त॑मे॒न॒ तया॑ दे॒वत॑याऽङ्गर॒स्वद् ध्रुवे सी॑दतम् ॥ ६४ स्थापित करें । तुम मन्त्रार्थ हे स्वयमातृष्णे परमेष्ठी नामक प्रजापति तुम्हें अतिविस्तार वहाँ से युक्त ध्युत द्युलोक न हो में । सम्पूर्ण प्राणियों के यजमान को स्वर्ग में ले जाओ और स्थिर रूप से वहाँ बैठा दो, जिससे कि वह की प्रतिष्ठा वायुबल की दृढ़ता के लिये, स्वगृह प्राण, अपान, ध्यान, उदान की वृत्तियों के लाभ के लिये, अर्थात् सूर्य देवता योगक्षेम की सम्पत्ति से, शुभकारी विशेष और शास्त्रानुसार आचरण करने के निमित्त द्युलोक को दृढ़ करो । से अनुगृहीत हुई तुम अंगिरा ऋषि के समान तेज से तुम्हारी रक्षा करें । तुम्हारे जो अधिष्ठाता देवता हैं, उन देवताओं निश्चल दृढ़ बनो ॥ ६४ ॥
ब्राह्मणम्-इयं कण्डिका चतुर्दशेऽध्याये ( १४।१२ ) व्याख्याता । अंशतोऽत्रापि ( ८ | १५।५८ ७ | ३ | १४ ) ) स्थले । ' यद्वेव । अत्र परमेष्ठिनोप-' परमेष्ठीत्वा सादयत्विति । परमेष्ठी ह्येतां पञ्चमीं चितिमपश्यत् ' ( श ० ' ( श ० ८ | ७ | ३।१५ ) । दधाति । प्रजापति विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य परमेष्ठी शिर किं आदायोत्क्रम्यातिष्ठत् मे ततो भविष्यतीति त्वद्देवत्यमेव म ' तमब्रवीत् । उप मेहि प्रति म एतद्धेहि येन मे त्वमुदक्रमीरिति ' ( श ० ८ | ७ | ३ | १६ ) । ' तद्यैषोत्तमा स्वय-एतदात्मनो भविष्यतीति तथेति तदस्मिन्नेतत् परमेष्ठी प्रत्यदधात् प्रतिदधाति तस्मादेतामत्रो -। एतदस्य तदात्मनस्तद्यदेतामत्रोपदधाति यदेवास्यैषात्मनस्तदस्मिन्नेतत् मातृष्णा पदधाति ' ( श ० ८ | ७ | ३ | १७ ) ॥ ६४ ॥