वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 61–70
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 61–70
पृष्ठ 61
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २० ] वेदार्थपारिजातभाष्यसहिता २५ द्यौस्ते ' पष्ठं पृथिवी सस्य॑मात्मान्तरिक्ष समुद्रो योनिः । विख्याय चक्षुषा त्वम॒भि ति॑ष्ठ पृतन्य॒तः ॥ २० ॥
मन्त्रार्थ - हे अश्व! स्वगं तुम्हारा पृष्ठ है, भूमि पात्र है, अन्तरिक्ष जोधात्मा है और समुद्र का जल तुम्हारी शत्रु, राक्षस उत्पत्ति का कारण है । तुम नेत्रों से उखा के योग्य मृत्तिका को देखकर संग्राम करने की इच्छा करने वाले आदि को मृत्तिका में छिपा हुआ जानकर चरणों से आक्रमण कर उनको नष्ट कर दो ॥ २० ॥
' द्यौस्त इति पृष्ठस्योपरि पाणि धारयन्ननुपस्पृशन ' ( का ० श्री ० १६।२।१८ ) । अश्वस्य स्पर्शमकुर्वन्न- । हे अश्व! ध्वर्य दक्षिणं हस्तमश्वपृष्ठस्योपरि धारयन् द्यौस्त इति मन्त्रं पठेत् । आर्षी बृहती ।, पादावित्यर्थः अश्वदेवत्या । अन्तरिक्ष-यस्य ते द्यौः द्युलोकः पृष्ठमपरिभागः । पृथिवीलोकस्तव सधस्थम् अग्निना सहावस्थानम् । लोकस्त आत्मा मध्यशरीरम् । मध्यशरोरवर्ती जीवात्मा वा । समुद्रः उदकं तव योनिः जन्मस्थानम् मृदं ' अप्सु योनिर्वा अश्व: ' इति श्रुतेः । स त्वमेवं स्तूयमानश्चक्षुषा विख्याय उखायोग्यां विलोक्य पृतन्यतः संग्रामं कर्तुमिच्छतः शत्रून राक्षसादीन् पाप्मनोऽस्यां मृदि गूढरूपेणावस्थितान् आतिष्ठ क्यचि पादेनाक्रम्य विनाशय । पृतनामिच्छन्ति पृतन्यन्ति ' सुप आत्मन: क्यच ' ( पा ० सू ० ३ | १ | ८ ) इति । ' कव्यध्वरपृतनस्यचि लोप: ' ( पा ० सू ० ७ ४ १३ ९ ) इति पृतनाशब्दस्यान्तलोपे शतरि द्वितीयाबहुवचने रूपसिद्धिः तथैव ब्राह्मणमाह - ' अथैनमुन्मशति । एतद्वा एनं देवाः प्रोचिवा ७ सं वीर्येण समार्धयंस्तथैवैनमयमेत-प्रोचवा संवीर्येण समर्धयति द्यौस्ते पृष्ठं पृथिवी सधस्थमात्मान्तरिक्ष १७ समुद्रो योनिरितीत्थमसीत्थमसीत्ये-वैतदाह विख्याय चक्षुषा त्वमभितिष्ठ पृतन्यत इति विख्याय चक्षुषा त्वमभितिष्ठ सर्वान् पाप्मन इत्येतनोपस्पृशति । वज्रो बा अश्वो नेन्मायं वज्रो हिनसदिति ' ( श ० ६ | ३ | ३ | १२ ) । अश्वाभिमन्त्रणं विधत्ते - अथैनमुन्मृशतीति इति । प्रोचिवांसम् अत्राग्निरस्तीति । उन्मर्शनं नाम अश्वपृष्ठस्योपरि पाणिधारणम् । मन्त्रं विधत्ते - द्यौस्त इत्थमसीत्थमसीति ' द्युलोकात्मासि ' ' पृथिव्यात्मासि ' इत्याद्यर्थो वीप्साकृतः । पृतन्यत्पदं व्याचष्टे - । सर्वान् तद् विधत्ते- पाप्मन इति । अश्वमस्पृशन्नेव ' उत्क्राम ' ( वा ० सं ० ११ १२१ ) इति मन्त्रेणाश्वोत्क्रामणं कारयेदित्यर्थः नोपस्पृशतीति । अध्यात्मपक्षे - साधकाय विराडुपासनमुपदिशन्नाह - हे सौम्य, द्यौस्ते पृष्ठम्, पृष्ठद्युलोकयोरभेदानुसन्धानं समुद्रो योनि-कुर्वित्यर्थः । तथैव पृथिवीपादयोरभेदश्चिन्त्यः । अन्तरिक्षमात्मा मध्यशरीरमिति विभावनीयम् । समुद्रः रिति तयोरभेदश्चिन्त्यः । अहमस्मि विरारूपो द्यौर्मे पृष्ठं पृथिवी मे पादौ अन्तरिक्षमात्मा पाप्मनः मध्यदेशः , अभितिष्ठ परमात्मा एव मम योनिः कारणम् । स त्वं चक्षुषा ज्ञानमयेन विख्याय विलोक्य पृतन्यतः विनाशय । दयानन्दस्तु - ' हे विद्वन् राजन्, यस्य ते तव द्यौः प्रकाश इव विनयः पृष्ठम् सागर । अर्वाग्व्यवहारः इव योनिः निमित्तं पृथिवी भूमिरिव सधस्थं सहस्थानम् । अन्तरिक्षमाकाश इवाक्षयोऽक्षोभ्य आत्मा स्वरूपं समुद्रः ' इति, तदपि स त्वं चक्षुषा विख्याय प्रसिद्धीकृत्य पृतन्यतः पृतनामिच्छतो जनस्य अभितिष्ठ आभिमुख्येन तिष्ठ इत्यर्थंकरणं यत्किश्चित्, मुख्यार्थत्यागस्यैव दोषत्वात् द्यौरित्यस्य प्रकाश इव विनयः, पृष्ठमित्यस्य अर्वाग्व्यवहार नित्यत्वेन कथं चं निर्मूलमेव । पृथिवी ते सहस्थानं किमित्यस्पष्टमेव । यद्याकाशमिवाक्षोभ्य आत्मा तदा तस्य ॥ निमित्तसापेक्षत्वम्? ऐश्वर्य प्रसिद्धि कृत्वा पृतन्यतोऽभिमुखे तिष्ठेत्यपि निरर्थकम् प्रसिद्धेस्तत्रानुपयोगात् ॥ २० ४
पृष्ठ 62
पाठ पढ़ें पाठ छिपाएँ
२६ शुक्ल यजुर्वेदसंहिता [ अ ० ११ उत्क्रम मह॒ते सौभ॑गाया॒स्माद॒स्थानद् द्रविणोदा वोजिन् । व॒य ँ स्या॑म सुमतौ पृ॑थि॒व्या अग्नि वन॑न्त उपस्थे ' अस्याः ॥ २१ ॥
मन्त्रार्थ - हे अश्व! तुम धन देने वाले हो, हमारे भाग्य की वृद्धि के लिये इस स्थान से चल पड़ो । हम इस पृथ्वी के ऊपरी हिस्से पर अग्नि के खनन का उद्योग करते हुए सानुग्रह श्रेष्ठ बुद्धि को प्राप्त करें ॥ २१ ॥
' उत्क्रामेत्युत्क्रमयति ' ( का ० श्री ० १६।२।१ ९ ) । उत्क्रामेति मन्त्रेण पिण्डतोऽश्वमुत्क्रमयेत् पृथक् कुर्यादित्यर्थः । विराडश्व देवत्या । दशार्णचतुष्पादा विराट्पङ्क्तिः । द्वितीय एकादशार्णस्तेनैकाधिका । हे वाजिनश्व त्वं द्रविणोदा धनप्रदः, द्रविणो धनं ददातीति द्रविणोदाः, द्रविणस् इति सान्तः शब्दः । त्वं मे मम महते विशालाय सौभगाय सौभाग्याभिवृद्धयर्थम् अस्मात् स्थानात् खननप्रदेशादुत्क्राम उद्गच्छ, उद्गतो भव । भगशब्द ऐश्वर्य -वचनः । शोभनो भग ऐश्वयं यस्यासी सुभगस्तस्य भावः सौभगं तस्मै । वयं तु त्वयि उद्गते पृथिव्याः सुमतौ शोभनायां सानुग्रहायां बुद्धौ स्याम तिष्ठेम । कीदृशा वयम्? अस्याः पृथिव्या उपस्थे उपरिभागे क्रोडे, अग्निमग्निहेतुं मृदं खनन्तः खनितुमुद्योगं कुर्वाणाः स्यामेत्यनुषङ्गः । तत्र ब्राह्मणम् -'अथैनमुत्क्रमयति । एतद्वै देवा अब्रुवन् किमिममभ्युत्क्रमिष्याम इति महत्सौभगमिति तं महत्सौभगमभ्युदक्रमयंस्तथैवैनमयमेतन्महत्सौभगमभ्युत्क्रमयत्युत्क्राम महते सौभगायेत्युत्क्राम महते सौभग-मित्येतत्तस्मादु हैतदश्वः पशूनां भगितमोऽस्मादास्थानादिति यत्र तिष्ठसीत्येतद् द्रविणोदा इति द्रविण ह्येभ्यो ददाति वाजिन्निति वाजी ह्येष वय २७ स्याम सुमतौ पृथिव्या अग्नि खनन्त उपस्थे अस्या इति वयमस्य पृथिव्यं सुमतौ स्यामाग्निमस्या उपस्थे खनन्त इत्येतत् ' ( श ० ६ | ३ | ३ | १३ ) | उत्क्रमणस्य प्रयोजनं वक्तुं देवानां प्रश्नमाह किमिममिति । किं प्रयोजनमुद्दिश्य अभ्युत्क्रमिष्याम इत्यर्थः । प्रयोजनमाह - महत्सौभगमिति । मन्त्रं विधत्ते -- उत्क्रामेति । उक्तार्थो मन्त्रः । अश्वस्य सौभाग्यमाह -- तस्मादु हैतदश्वः पशूनामिति । ये व व्यापनशीलाः शीघ्रगामिनस्तेषां मध्येऽसावश्वो भगितमः अतिशयेन भगवान्, राजवाहनत्वात् । अस्मात् स्थाना-दिति व्याचष्टे - यत्रैतत्तिष्ठति तत उत्क्रामेत्यर्थः । अध्यात्मपक्षे हे वाजिन्नन्नवन् भोक्तः, त्वमस्माद् आस्थानाद् गृहाश्रमाद् उत्क्राम उद्गच्छ । उपरि वानप्रस्थाश्रमं संन्यासाश्रमं वा गच्छ स्वीकुरु । किमर्थम्? महते सौभगाय ब्रह्मात्मभाव प्राप्तये ब्रह्मलोकप्राप्तये वा । कीदृशस्त्वम्? द्रविणोदा: द्रविणांसि विद्याबलराज्यधनादीनि ददाति स्वस्वत्वनिवृत्तिपूर्वकं ब्राह्मणादि-स्वत्वमापादयतीति द्रविणोदाः, भगवच्चरणपङ्कज समर्पणबुद्धचा दानादिपरायणद्रविणोपलक्षित सर्वत्यागी । यूयमन्ये वयं च सर्वे पृथिव्या माधव्या धरित्र्यास्तज्जनिताया जनकनन्दिन्याः सुमतौ शोभनायां सानुग्रहायां बुद्धो स्याम । अनुग्रयुक्ताया बुद्धेर्गोचरा भवेम । कि कुर्वन्तः? अग्नि सर्वराक्षसचमूदाहकं श्रीरामं सर्वाधिष्ठानम् अस्या उपस्थे उत्सङ्गे खनन्तः अन्वेषयन्तः । दयानन्दस्तु -- ' हे वाजिन् विद्वन् प्राप्तैश्वर्य, यथा द्रविणोदा धनप्रदोऽस्याः पृथिव्या भूमेरस्माद् आस्थानाद् निवासस्थानस्य सकाशाद् उपस्थे सामीप्ये अस्या अग्नि खनन्तोऽग्निविद्यामन्वेषयन्तो वयं महते सौभगाय शोभन -श्वर्याय सुमतौ शोभनप्रज्ञायां प्रवृत्ताः स्याम, तथा त्वमुत्क्राम ' इति, तदपि तुच्छम् अन्यस्योन्नत्यान्यस्यैश्वर्य-प्राप्त्यसम्भवात् । किञ्चास्मादास्थानादित्यनेनैवाभीष्टसिद्धौ पृथिव्या अस्मादिति योजनायासवैयर्थ्यात् । आस्थानं निवासस्थानमिति त्वदुक्तोऽर्थः । नहि त्वद्रीत्या पृथिव्या अन्यत्र निवासस्थानं सम्भवति । अग्निमित्यस्य अग्नि-विद्यामिति कथमर्थः? विद्याग्न्योर्विषयविषयिभावेन भेदस्यावश्यं भावित्वात् । ' सुमतौ प्रवृत्ताः स्याम ' अत्रापि प्रवृत्ता इत्यध्याहारोऽप्रामाणिक एव ।
पृष्ठ 63
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २१ ] वेदार्थपारिजातभाष्यसहिता २७ यत्तु - ' सायणाचार्येण द्रविणोदा इति पदं क्विन्तं साधितम्, तदशुद्धमेवारित, निरुक्तकारस्य द्रविणोदसमिति व्याख्यानविरोधात् ' इति एतदेवा युद्धम्, द्रविणोद इत्यकारान्तः, द्रविणोदा इत्याकारान्तः, द्रविणोदसमिति सकारान्तः । एतेषां त्रयाणामपि समानार्थानां पाठानां ऋग्वेदसंहितायां दर्शनेनादोषात्, ' द्रविणोदा द्रविणसः ' ( ऋ ० सं ० १११५/७ ) इति मन्त्रव्याख्याने यास्कोक्तिमुद्धृत्य सायणाचार्येण विचारितत्वात् । यत्तु ' प्रकृतमन्त्रव्याख्याने यास्केन सकारान्तोऽयं शब्द इति व्याख्यातम्, तदपेक्ष्याशुद्धत्वोक्तिः ' इति, तदपि तुच्छम् यास्केन तथा व्याख्यानेऽपि क्विबन्तव्याख्यानस्या शुद्धत्वानुपपत्तेः, अन्यथा ब्राह्मणविरुद्धत्वेन त्वद्रीत्या सर्वस्यैव दयानन्दीयव्याख्यानस्याशुद्धत्वापत्तेः । यत्तु ' यास्केन ' दसु उपक्षये ' इत्येतस्येदं रूपं निरुक्ते सकारान्तस्वीकारात् ' इति, तदपि मन्दम् ' दसु उपक्षये ' इत्यस्य रूपत्वेऽर्थान्तरापत्तेः, ' बलधनयोर्दातृतमः ' ( नि ० ८1१ ) इति निरुक्तविरोधात् । ऋत्विजोऽत्र द्रविणोदस उच्यन्ते । हविषो दातारस्ते इति च तत्र दानार्थक प्रयोगेण ' दसु उपक्षये ' इत्यसङ्गतेः । सायणाचार्येण तु नैरुक्तः पक्षोऽपि प्रदर्शितः । तथाहि - तमेतं मन्त्रं यास्क एवं निर्वक्ति - ' द्रविणोदाः कस्मात्? धनं द्रविणमुच्यते यदेनमभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदास्तस्यैषा भवति । द्रविणोदा द्रविणसः ' ( नि ० ८1१ ) ' द्रुद्र क्षिभ्यामिनन् ' ( उ ० २२०८ ) नित्त्वादाद्युदात्तो द्रविणशब्दः, तद्ददातीति द्रविणोदाः । ' क्विप् च ' ( पा ० सू ० ३।२०७६ ) इति क्विप् । पूर्वपदस्य सकारोपजन-श्छान्दसः । रुत्वोत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । देवविशेषणत्वेन एकवाक्यतापक्षे द्वितीयायाः स्वादेशः । एवम्--' द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । यज्ञेषु देवमीळते ॥ ' ( ऋ ० सं ० १११५७ ) ' यज्ञेषु देवमीळते । याचन्ति स्तुवन्ति वर्धयन्ति पूजयन्तीति वा ' ( नि ० ८२ ) इति नैरुक्ता अप्यर्थं विविधतयोपपादयन्ति । अथवा ' द्रविणसस्तस्मात्पिवत्विति द्रविणोदा: ' ( नि ० ८२ ) इत्यतः प्रथमैकवचनादपरिणतादेव द्रविणस इत्यस्य पञ्चम्येकवचनेन सोऽभिधानत्वेन सामर्थ्यमुन्नीय पिवत्वित्याख्यातमध्याहृत्यात्रैव समापयाञ्चकार । यथा यं देवं द्रविणोदसमध्वरेषु यज्ञेषु ग्रावहस्तास ऋत्विज ईळने, स देवो द्रविणोदा द्रविणसः सोमाद् द्रविणसंभोक्तुरादाय स्वमं पिबत्वित्येतदाशास्महे । सर्वमेतत् ' द्रविणोदा यस्तं द्रविणस इति द्रविणसादिन इति वा द्रविणसानिन इति द्रविणस्तस्मात्पत्ति वा ' ( नि ० ८२ ) इत्यनेनोक्तम् । सायणाचार्यस्तु - ' अध्वरेऽग्निष्टोमे प्रकृतिरूपे यज्ञेषु विकृतिरूपेषु उक्य्यादिषु च देवमग्निमीळते ऋत्विजः स्तुवन्ति । कीदृशा ऋत्विजः? द्रविणसो ग्रावहस्तासोऽभिषव साधनपाषाणधारिणः । कीदृशं देवम्? द्रविणोदाः धनप्रदम् । क्विवन्तपाठे द्रविणोदा इति द्वितायान्तमेव पदम् । प्रथमान्तोऽपि द्रविणोदा इत्येव । तदप्याह सायणाचार्यः । यद्वा धनप्रदोऽग्निः सोमं पिबत्विति शेषः । एवं नैरुक्तप्रकरणं जानानोऽपि सायणः प्रकारान्तरेण व्याख्यातवान् । ' द्रसु उपक्षये ' इत्यस्मादपि द्रविणसशब्दो दानार्थकः कथमुपपद्यत इत्यपि सायण आह - ' अथवा द्रविणमात्मन इच्छन्ति द्रविणस्यन्ति, ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३ ( १८ ) सर्वप्रातिपदिकेभ्यो लालसायां सुग्वक्तव्यः ' ( पा ० सू ० म ० ७ १ ५१ २ ) इति क्यचि सुगागमः । द्रविणस्यते सम्पदादित्वाद् भावे क्विप्, अतो लोपः ' क्वौ लुप्तं न स्थानिवत् भवति ' ( पा ० सू ० म ० १११५८२ ) इति तस्य स्थानिवत्त्वप्रतिषेधाद् यलोपः । एवं द्रविणशब्दो धनेच्छावचनः । द्रविणेच्छां दस्यति यथेव धनप्रदानेन उपक्षयतीत्यर्थे ' दसु उपक्षये ' इत्यस्माद् अन्तर्भावितण्यर्थात् ' क्विप् च ' ( पा ० सू ० ३१२ | ७६ ) इति क्विपि द्रविणोदः शब्दः सकारान्तो भवति । तथा ' द्राविणोदसाः प्रवादा भवन्ति ' ( नि ० ८२ ) इति नैरुक्तो व्यवहार उपपद्यते । अतो द्रविणोदस्शब्दो भिन्नवाक्यत्वे स्वार्थे प्रथमान्तः, एकवाक्यत्वे तु व्यत्ययेन द्वितीयार्थोऽपि भवति । द्रविणस इत्यत्रापि वाक्यभेदपक्षे द्रविणसः सोमस्येत्यर्थे समारोप जनश्छान्दसः । आबुदात्तत्वं नियमेन स्थितम् । ऋत्विग्विशेषणत्वेन एकवाक्यत्वपक्षे तु
पृष्ठ 64
पाठ पढ़ें पाठ छिपाएँ
२८ शुक्लयजुर्वेदसंहिता [ अ ० ११ क्यजन्तात्क्विप् । अतो लोपादिपूर्ववत् । अत्र पक्षे क्यचः चित्त्वेनान्तोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । तथा च निरुक्तदृष्ट्रघाप्ययं मन्त्रार्थः सङ्गच्छते, सायणदृष्टघापि । यदि क्विन्तोऽपि भवत्येव तदा यास्केन सकारान्ताभ्युपगमेऽपि तथा व्याख्याने का बाधा? ॥ २१ ॥
उदक्रमीद् द्रविणोदा वाज्यर्वाकः सुलोकं सुकृतं पृथि॒व्याम् ।
ततः खनेम सप्रतीकमग्नि स्वोरुहांना अधि नाक॑मुत्त॒मम् ॥ २२ ॥
मन्त्रार्थ -- इस चंचल धनप्रद अश्व ने पृथ्वी की ऊपरी परत पर उतर आये सुन्दर लोक को पुण्यवान् किया है । उस देश से दुःखरहित श्रेष्ठ स्वर्गलोक पर आरोहण करने की इच्छा करने वाले हम सुन्दर सुख देनेवाले पुरीष्य अग्नि का मृत्पिण्ड से खनन करने का उद्योग करते हैं ॥ २२ ॥
' उदक्रमीदित्यभिमन्त्रयते ' ( का ० श्र ० १६।२।२० ) । मृत्पिण्डादुत्तरितपादमश्वम् उदक्रमीदिति मन्त्रेणाभिमन्त्रयते । आश्वी त्रिष्टुप् । द्रविणोदा यागकरणे धनप्रदो वाजी अन्नप्रदोऽर्वा अरणशीलो गमन कुशल-श्चञ्चलो वाऽयमश्वः यस्मात् स्थानाद् उदक्रमीद् उदगच्छद् ऊध्वं पादविक्षेपमकरोत् तं स उत्क्रान्तोऽश्वः सुकृतम् आक्रमणेन यागबाधकान् राक्षसानाहत्य सुष्ठु शोभनं कृतं पुण्यवन्तं सुलोकं सुष्ठु शोभनं लोकं स्थानं खननप्रदेशे अकः अकरोत् । ततस्तस्मात् प्रदेशाद् अग्नियोग्यां मृदं वयं खनेम । कीदृशमग्निम्? सुप्रतीकं सु शोभनं प्रतीकं मुखं यस्य तं सुमुखम् । खनितारो वयं कीदृशाः? स्वः स्वर्गम् अधिरुहाणा आरोहणं कुर्वाणा आरोहणकामाः । कीदृशं स्वः? नाकं कं सुखम्, न कं अकम् दुःखम्, न अकं नाकम्, यत्र गतानां दुःखं नास्ति सर्वदा सुखमयं तत् । अधीत्युपरिभावे ऐश्वर्ये वा । उत्तममुत्कृष्टम् । करोतेर्लङि ' बहुलं छन्दसि ' ( पा ० सू ० २।४।७३ ) इति तिलोपे अक इति रूपम् । शतपथे सायणाचार्यरीत्या स्वकार्यकारणयोरुभयोरपि साधुत्वं द्योतयितुमुभयत्र सुशब्दप्रयोगः । हे अश्व, त्वं पृथिव्यां सुकृतं सुष्ठु निष्पादितं सुलोकं शोभनं लोकम् अकः अकरः । ' मन्त्रे घसह्वरणशवृदहावृच्कृगमिजनिभ्यो ले: ' ( पा ० सू ० २।४।८० ) इति च्लेलुंकि गुणे सिलोपे रूपम् । यद्यपि प्रथमपुरुषैकवचने तिलोपे च समानं रूपम्, तथापि अकरः सुलोकमिति ब्राह्मणव्याख्यानुसारेण मध्यम-पुरुषानुसारि व्याख्यानम् । सुप्रतीकं शोभनावयवम् । तत्र ब्राह्मणम् -- ' अथैनमुत्क्रान्तमभिमन्त्रयते । एतद्वा एनं देवा: प्रोचिवा ७ सं यथा ददिवा ७ सं वन्देतैवमुपास्तुवन्नुपामह्यंस्तथैवैनमयमेतदुपस्तीत्युपमहयत्युदक्रमीदित्युद्धचक्रमीद् द्रविणोदा इति द्रविण, ह्येभ्यो ददाति वाज्यर्वेति वाजी च ह्येषोऽर्वा चाकः सुलोक ७ सुकृतं पृथिव्यामित्यकरः सुलोक, सुकृतं पृथिव्या-मित्येतत्ततः खनेम सुप्रतीकमग्निमिति तत एनं खनेमेत्येतत्सुप्रतीकमिति सर्वतो वा अग्निः सुप्रतीकः स्वोरुहाणा अधि नाकमुत्तममिति स्वर्गो में लोको नाकः स्वर्गं लोक रोहन्तोऽधि नाकमुत्तममित्येतत्तं दक्षिणतो-पसंक्रमयति यत्रेत पशू भवतस्ते दक्षिणतः प्राञ्चस्तिष्ठन्ति स य एवात्र दक्षिणतः स्थानस्य बन्धुः सोऽत्र ' ( श ० ६ | ३ | ३ | १४ ) । अकः सुलोकमित्येतद् व्याचष्टे - अकरः सुलोकमिति । अन्तिमं पादं व्याचष्टे - स्वर्गो वैलोको नाक इति । अभिमन्त्रितस्याश्वस्य रासभाजाभ्यां सहावस्थापनं विधत्ते - तं दक्षिणोपसंक्रमयतीति । दक्षिणशब्दादाचिप्रत्यये कृते रूपं दक्षिणेति । ' स य एवामुत्र दक्षिणतः स्थानस्य ' इत्यनेन पूर्वमश्वरास भाज-पशुविधानं प्रस्तुत्य त्रिवृन्मुञ्जेन बद्धा: ' ते प्राञ्चस्तिष्ठन्ति ' इत्युपक्रम्य ' ते दक्षिणतस्तिष्ठन्त्येतद्वै देवा अबिभयुः ' ( श ० ६ | ३ | १ | २८-२९ ) इति यद् ब्राह्मणमुक्तम्, सोऽत्र बन्धुर्ब्राह्मणमिति ब्राह्मणातिदेश इति सायणाचार्यः ।
पृष्ठ 65
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २२-२३ ] वेदार्थं पारिजातभाष्यसहिता सन् उदक्रमोद अध्यात्मपक्षै - वाजी अन्नवान् भोक्ता साधको द्रविणोदाः सन् दानयागादिभिस्त्यागशीलः पुरुषार्थपरायणः: कीदृशं लोकम्? ऊर्ध्वं ब्रह्म ब्रह्मलोकं वा अक्रमीद् गतवान् । कोदृशो वाजी? अर्वा अरणशीलः सुलोकं ब्रह्म । शोभनं वा लोकं ब्रह्मणः सुलोकं सुष्ठुतया लोक्यते अपरोक्षतया दृश्यते वृत्तिव्याप्त्या इति पुण्यकर्मोपासनादिलक्षणम् अकः कृतवान्, सगुणस्य लोकं विशिष्टं धाम यतः पृथिव्यां मर्त्यलोके सुकृतं शोभनं मोक्षाख्यं सुखं नाकं दुःखासम्भिन्नमधिरुहाणा ततस्तस्मात् कारणाद् वयं सर्वेऽपि, उत्तमम् उत्कृष्टं स्वः स्वर्गं सगुणं साकारं शोभनानि प्रतीकानि यस्य तं अधिरोहन्तः सुप्रतीकं शोभनावयवं शोभनमुखमग्नि परमेश्वरं वेदवेदान्तादिशास्त्रलक्षणं पावनं विविधप्रतीकोपलक्षितं निर्गुणं निराकारं वा ब्रह्म खने सुमतिकुद्दालकेन पर्वतं खनित्वा ज्ञानविरागाभ्यामक्षिभ्यामन्विष्य प्राप्नुमः । पृथिव्यामध्य-दयानन्दस्तु - ' हे भूगर्भविद्याविद् विद्वन् द्रविणोदा धनदाता भवान् यथा उत्तममतिश्रेष्ठं अर्वा अश्व:, नाकम् तथा अविद्यमान-दक्रमी उत्तमतया क्रमणं कुर्यात् । सुलोकं द्रष्टव्यं सुकृतं धर्माचारेण प्राप्यम् सुप्रतीकं शोभना प्रतीतिर्यस्य तम् दु: खम्, अकः सिद्धं कुर्यात् । ततः स्वः सुखं रुहाणाः प्रादुर्भवन्तो वयमप्यस्यां सम्बोद्धयन्ते, मानाभावात्, न अग्नि व्यापकं विद्युदाख्यं खनेम ' इति, तदपि यत्किञ्चित् नात्र भूगर्भविद्याविदः, न चाश्वोत्क्रमणं स धनदाता भवति, अश्वस्तु अष्टविधया धनदाता भवत्येव । न चादृष्टप्रकारस्त्वयाऽभ्युपेयते न च मूले दाष्टर्शन्तोक्तिः । स्वर्गलोकं मनुष्योन्नतो दृष्टान्तः सम्भवति । न चासति हेतौ लकारव्यत्ययोऽपि । प्रतीतिर्यस्येत्यप्यपव्याख्यानम्, रोहन्त इति पूर्वोक्त ब्राह्मणविरुद्धं चैतद् व्याख्यानम् । सुप्रतीकमित्यस्य शोभना प्रतीतिप्रतीकयो भिन्नत्वात् ॥ २२ ॥
आ व जिर्घासि॒ मन॑सा घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा॑ ।
पृथुं ति॑र॒श्चा वय॑सा ब॒हन्तं॒ व्यवि॑ष्ठ॒म रम॒न्ने॑ दृशनम् ॥ २३ ॥
मन्त्रार्थ - हे अग्ने! तुम सम्पूर्ण भुवनों में निवास करते हुए तिर्यक प्रमाण ज्योति से विस्तीर्ण धूम से महान् अवकाशवान्, विविध अन्नों से परिपूर्ण, उत्साहसम्पन्न और प्रत्यक्षगोचर हो । मैं श्रद्धायुक्त चित्त से घृत द्वारा तुम्हें प्रदीप्त करता हूँ ॥ २३ ॥
' उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामृग्भ्यामाहुती स्रुवेणाश्वपदे ' ( का ० श्र ० १६।२।२२ ) । अध्वर्युः पिण्डसमोपे उपविश्य मृत्पिण्डस्योपरि जायमाने अश्वपदे अश्वपदमुद्रायाम् आ त्वा जिघर्मीति द्वाभ्यामृग्भ्यां व्यतिषक्ताभ्यां परस्परं संश्लिष्टाभ्यां स्रुवेण द्वे आहुती जुहुयात् । तत्र आ त्वा जिघर्मीत ( वा ० सं ० ११/२३ ) पूर्वस्या: पूर्वाधं ' मर्यश्रीः ' ( वा ० सं ० १ ९९ ४ ) इत्युत्तरस्या उत्तरार्धं पठित्वा एकाहुतिः, ' आ विश्वत ' ( वा ० सं ० ११ । २४ ) इत्युत्तरस्याः पूर्वार्धं ' पृथुं तिरश्चा ' ( वा ० सं ० ११।२३ ) इति पूर्वस्या उत्तराधं पठित्वा द्वितीयाहुतिरित्येवं व्यतिषङ्गः कार्यः । गृत्समददृष्टे आग्नेय्यौ द्वे त्रिष्टुभो । हे अग्ने मनसा ' । श्रद्धात्मना चेतसा घृतेन आज्येन च त्वा त्वां जिर्घाम आजुहोमि दीपयामि, आसिश्वामि च । ' घृ क्षरणदीप्त्योः कीदृशं त्वाम्? विश्वा सर्वाणि भुवनानि प्रतिक्षियन्तं प्रत्येकं सर्वत्र भूतेषु निवसन्तम् ' क्षि निवासगत्योः ' । तिरश्चा पृथुं तिरोऽञ्चतीति तिर्यक् तेन तिर्यगञ्जनेन ज्योतिषा पृथं विस्तीर्णम्, वयसा धूमेन बृहन्तं महान्तम्, ' इतो वा अयमूर्ध्व रेतः सिञ्चति धूम, सामुत्र वृष्टिर्भवति ' इति श्रुतेः । अत एव व्याचिष्ठं व्यापनवन्तम् अवकाशवन्तम् । व्यचोऽवकाशः सोऽस्यास्तीति व्यचवान्, अतिशयेन व्यचवान् व्यचिष्ठस्तम् । यद्वा तिरश्चा तिर्यक्प्रमाणेन पृथु विस्तृतमिति बहुदेशव्याप्तिः । वयसा वयउपलक्षितेन कालेन बृहन्तम् । अनेन बहुकालव्याप्ति
पृष्ठ 66
पाठ पढ़ें पाठ छिपाएँ
३० शुक्लयजुर्वेदसंहिता [ अ ० ] ११ रुक्ता, देशकालानवच्छिन्नमित्यर्थः । अन्नर्हतैर्धृतादिभिर्भृशमुत्साहवन्तं दृशानं दर्शनीयं दृश्यमानं वा । अदृश्या अन्या देवता अयं तु दृश्य इत्यर्थः । तादृशमग्नि त्वां जिघर्मीति सम्बन्धः । यद्वा हे अग्ने, त्वामहं मनसा श्रद्धावता चेतसा ध्यायन् घृतेन आज्येन आजिर्घाम आक्षारयामि दीपयामि वा । व्यचिष्ठम् अतिशयेन विविध-मञ्चनं गमनं यस्य तादृशम् । शेषं पूर्ववत् । तत्र ब्राह्मणम् – ' अथोपविश्य मृदमभिजुहोति । एतद्वै देवा अब्रुवंश्चेतयध्वमिति चितिमिच्छतेति वाव तदब्रुवंस्ते चेतयमाना एवामाहुतिमपश्यंस्तामजुहवुस्ता हुत्वे माँल्लोकानुखामपश्यन् ' ( श ० ६ | ३ | ३।१५ ) इति । एतदेव ' उपविश्य मृदमभिजुहोत्या त्वा जिघर्मीति व्यतिषक्ताभ्यामाहुती स्रुवेणाश्वपदे ' ( का ० श्र ० १६।२।२२ ) इति पूर्वोद्धृतसूत्रेण कात्यायनः सूत्रितवान् । व्यतिषङ्गश्चैकस्याः पूर्वार्धम् इतरस्या उत्तरार्धमित्येका ऋक् । एवमितरावप्यर्धचौं संयोजनीयौ । एवं व्यतिषक्ताभ्यामृग्भ्यामश्वस्य पदे द्वे आहुती जुहुयात् । तदिदं सार्थवाद विधत्ते - अथोपविश्येति । उपविश्येति मृत्संस्कारत्वादुपवेशः । प्रथमाहुति हुत्वा लोकत्रयात्मिकामुखामपश्यन् । ' तेऽब्रुवन् चेतयध्वमेवेति चितिमिच्छतेति वाव तदब्रुवन् ते चेतयमाना एतां द्वितीयामाहुतिमपश्यंस्तामजुहवुस्तां हुत्वा विश्वज्योतिषोऽपश्यन्नेता देवता अग्नि वायुमादित्यमेता ह्येव देवता विश्वं ज्योतिस्तथं वैतद्यजमान एते आहुती हुत्वेमांश्च लोकानुखां पश्यत्येताश्च देवता विश्वज्योतिषो व्यतिषक्ताभ्यां जुहोतोमांश्च तल्लोकानेताश्च देवता व्यतिषजति ' ( श ० ६ | ३ | ३ | १६ ) । द्वितीयाहुति हुत्वा विश्वज्योतिर्नामेष्टकां ब्रुवन्तः । विश्वज्योति -संज्ञकानां तिसृणा मिटकानां देवतासम्बन्धमाह - अग्नि वायुमादित्यमिति । व्यतिषक्ताभ्यामृग्भ्यां हवनेन त्रीन् इमाल्लोकान् एता अग्नि वाय्वादित्यस्वरूपा देवताश्च व्यतिषक्तवान् भवति । पृथिवीलोकस्याग्निम् अन्तरिक्ष-लोकस्य वायुं द्युलोकस्यादित्यमिति । ' यद्वेवैते आहुती । जुहोति । मृदं च तदपश्च प्रीणाति ते इष्ट्वा प्रीत्वाऽर्थ सम्भरति व्यतिषक्ताभ्यां जुहोति मृदं च तदपश्च व्यतिषजति ' ( श ० ६ | ३ | ३ | १७ ) | प्रकारान्तरेणाहुतिद्वयं प्रशंसति यद्वेवैते इति । आहुतिद्वयेन मृदमपश्च प्रोणितवान् भवति । यतो व्यतिषक्ताभ्यां होम:, अतो मृदमपश्चोखार्थं संयोजयति । ' आज्येन जुहोति । वज्रो वा आज्यं वज्रमेवास्मा एतदभिगोप्तारं करोत्यथो रेतो वा आज्य रेत एवैतत् सिञ्चति स्रुवेण दुषा वै स्रुवो वृषा वै रेतः सिञ्चति स्वाहाकारेण वृषा व स्वाहाकारो वृषा वै रेतः सिञ्चति ' ( श ० ६ | ३ | ३ | १८ ) इति । ' आ त्वा जिर्घाम मनसा घृतेनेति । आ त्वा जुहोमि मनसा च घृतेन चेत्येतत् प्रतिक्षियन्तं भुवनानि विश्वेति प्रत्यङ् ह्येष सर्वाणि भूतानि क्षियति पृथुं तिरश्चा वयसा बृहन्तमिति पृथुर्वा एष तिर्यङ् वयसो बृहन् धूमेन व्यचिष्ठमन्ने रभसं दृशानमित्यवकाशवन्तमन्नेरन्नादं दीप्यमानमित्येतत् ' ( श ० ६ | ३ | ३ | १ ९ ) । मन्त्रं प्रतिपादमनूद्य व्याचष्टे - आ त्वेति । व्यचिष्ठरभसपदयो व्यख्यानम् अवकाशवन्तमन्नादमिति । दृशानमित्यस्य व्याख्यानं दीप्यमानमिति । अध्यात्मपक्षे - हे देव, त्वा त्वामहं श्रद्धावता मनसा घृतैर्धृतगन्धिना स्नेहेन विश्वा विश्वानि सर्वाणि भुवनानि भूतानि प्रतिक्षियन्तं प्रत्येकं निवसन्तं सर्वान्तर्यामिणम् आसमन्ताद् जिर्घाम आसिञ्चामि दीपयामि च स्नेहयामि चिन्तयामि । कीदृशं त्वाम्? तिरवा तिर्यक प्रमाणोपलक्षितेन देशेन पृथं विस्तीर्णं बहुदेशं देशपरिच्छेद-शून्यं वयसा वयउपलक्षितेन कालेन बृहन्तं बहुकालव्याप्तं कालापरिच्छिन्नं तथा व्यचिष्ठं व्यचोऽवकाशस्तद्वान् व्यचवान् सोऽतिशयितो व्यचिष्ठः तम् अनन्तकोटिब्रह्माण्डावस्थानोपयोग्यमवकाशवन्तम् । अनैर्भक्तसमर्पितः पत्रपुष्पफलजलान्नादिभिः, रभसं सोत्साहं सुप्रसन्नं तथा दृशानं दर्शनीयं वृत्तिव्याप्त्या द्रष्टुं शक्यं लीलाविग्रहादि-धारणेन परमरमणीयम् । दयानन्दस्तु - ' हे जिज्ञासो, यथाहं मनसा घृतेनाज्येन सह विश्वा सर्वाणि भुवनानि भवन्ति येषु तानि वस्तूनि प्रतिक्षियन्तं प्रत्यक्षं निवसन्तं विरश्वा येन तिरोऽञ्चति तेन वयसा जीवनेन पृथुं विस्तीर्ण बृहन्तं महान्तं
पृष्ठ 67
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २३-२४ ] वेदार्थपारिजातभाष्यसहिता ३१ त्वामप्येनं च सह रभसं वेगवन्तं व्यचिष्ठम् अतिशयेन विचितारं प्रक्षेप्तारं दृशानं सम्प्रेक्षणीयं वायुमाजिर्घार्मि, प्रत्यक्ष तथा निवसन्तं धारयामि ' इति, तदेतत् सर्वथा निरर्थकम् अस्पष्टत्वात् । मनसा घृतेन च च सह आजिर्घामि सर्वाणि वस्तूनि त्वामप्येनं धारयामि ' तिरा तिर्यग्गमनेन वयसा जीवनेन विस्तीर्ण महान्तं सम्प्रेक्षणीयं वायुं तयोरप्यन्त-इत्यस्य कोऽभिप्रायः? मनसा घृतेन सहेत्यग्य तत्र कथमुपयोगः? कथं वा सार्थक्यम्? सर्ववस्तुषु र्भावात् । भावार्थस्तु मुलाद् दूरोत्सारितः ॥ २३ ॥
आ वि॒श्वत॑ः प्रत्यञ्च॑ जिघर्म्यंरक्षसा मन॑सा तज्ज॑षेत । १ मश्रीः स्पृहयद्व॑र्णो अ॒ग्निर्नाभिमृशै तन्वा जर्भुराणः ॥ २४ ॥
मन्त्रार्थ - हे अग्ने, मैं सब ओर प्रत्यगात्मा रूप से व्याप्त होकर घृत द्वारा निष्कपट मन से तुम्हें सिंचित करता कान्तिमान् स्वरूप वाले हैं, क्रोधरहित चित्त से इस घृत का सेवन करो । मनुष्यों द्वारा सेवन करने योग्य दर्शनीय शरीर से इधर उधर गमन करने वाली अग्नि अभिमर्शन के योग्य नहीं है ॥ २४ ॥
अहम् अग्नि विश्वतः सर्वतः प्रत्यञ्चं प्रत्यगात्मतया प्रतीयमानं सर्वतः प्रतिगतम् आ समन्ताद् जिर्घाम घृतेन हविषा आक्षारयामि दीपयामि च । सोऽप्यग्निः, अरक्षसा क्रौर्यरहितेन प्रसन्नेन महाभाग्येन वा चित्तेन तद् घृतं जुषेत सेवताम् । अग्निरिति साभिप्रायम्- ' अग्निर्वै देवानां मृदुहृदयतमः ' इत्यादि प्रसिद्ध गुणख्याप-नार्थम् । कथंभूतोऽयमग्निः? मर्यश्रीः मयैर्मनुष्यैराश्रयणीया श्रीर्यस्य सः । पुनः कथम्भूतः? स्पृहयद्वर्णः, स्पृहयन् स्पृहणीय वर्णो रूपं यस्य सः, यजमानः स्पहणीयरूप इत्यर्थः । नाभिमृशे, अभिमृश्यत इत्यभिमृट् न अभिमृद् नाभिमृट् तस्मै । तृतीयार्थे चतुर्थी । तनोविशेषणमिदम् । अभिमर्शनं कर्तुमयोग्यया तत्वा गात्रविनामे ( दाहकत्वात् ' । यहा ) शरीरेण ज्वालालक्षणेन जर्भुराणः, जृम्भत इति जर्भुराणः, इतस्ततश्च गच्छन् ' जभी जभी जृम्भेरीणादिक उरण-अग्निर्नाभिमृशे भवति तन्वा ज्वालालक्षणेन शरीरेण । ईदृशमग्निं जिघर्मीति सम्बन्धः रक्षोदोषरहितेन । सौम्येन प्रत्ययः । यद्वा विश्वतः सर्वतः प्रत्यञ्चं प्रत्यगात्मतया प्रतीयमानमग्निम् तत्र भवानग्निः अरक्षसा । कीदृशः सः? मर्यश्रीः भक्तियुक्तेन मनसा युक्तोऽहमाजिधर्म आसियामि तद्वृतं जुषेत सेवेत । ) सः । तन्वा मनुष्यैराश्रयणीयः । स्पृहयद्वर्णः स्पृहयन् परेषां रुचिमुत्पादयन् वर्णो यस्य ( भास्कर शुक्लत्वात् भवति । शरीरेण ज्वालालक्षणेन जर्भुराणो दीप्यमानोऽग्निर्नाभिमृशे, तुमर्थे क्सेप्रत्ययः, अभिमर्शनीयो न तज्जुषेतेत्य-तत्र ब्राह्मणम् -'आ विश्वतः प्रत्यञ्चं जिघर्मीति । आ सर्वतः प्रत्यञ्चं जुहोमीत्येतदरक्षसा मनसा हीडमानेन मनसा तज्जोषा येतेत्येतन्मर्य श्री श्रीप स्पृहयद्वर्णोऽग्निर्नाभिमृशे इति तन्वा । अरक्षसेत्यस्य जर्भुराण इति व्याख्यानम नह्येषोऽभिमृशे हीड-तन्वा दीप्यमानो भवति ' ( श ० ६ ३ | ३ | २० || मन्त्रं व्याचष्टे आ विश्वत । द्विपाद्यजमानो यजमानोऽग्नि-मानेनेति, ' हेड़ होड़ अनादरे ' अक्रुध्यमानेनेत्यर्थः । शेषं स्पष्टम् । ' द्वाभ्यामभिजुहोति देवाः सर्वदेवत्योऽग्निर्यावानग्नि-वानग्निर्यात्यस्य मात्रा तावतैवैनमेतद्रेतोभूत १४... सिञ्चतीन्द्राग्नी वै सर्वे प्रशंसति - द्वाभ्यामभि-र्यावत्यस्य मात्रा तावतैवैनमेतद्रेतोभूत १७ सिञ्चति ' ( श ० ६ ३ ३ २१ ) | मन्त्रगतां संख्यां तद्रूपत्वम् । मन्त्रदेवतां जुहोतीति । यजमानोऽग्निरिति विराडरूपस्याग्नेयजमान भाविशरीरात्मकतया च । अग्निदेवत्ये-प्रशंसति — आग्नेयोभ्यामिति । मन्त्रयोरग्निसम्बन्धं त्रिष्टुप्छन्दश्च प्रशंसति - यावानग्निरिति त्रिष्टुप्छन्दः ' नाग्निरुच्यते । मन्त्रगत त्रिष्टुप् छन्दसा इन्द्रः, त्रिष्टुबिन्द्रयोः सहोत्पत्तेः, ' तमिन्द्रो देवतान्वसृज्यत देवानां परमः, ( तै ० सं ० ७ | १ | १ | ४ ) इति श्रुतेः । अग्निरप्येन्द्राग्नः । ' इन्द्राग्नी इति । इन्द्रः इतीन्द्राग्नी सर्वेषां सर्वदेवतात्मको । अग्निर्देवानामवमः । उभयोर्मध्यवर्तिन्यः सर्वा देवता: ' ( ऐ ० ब्रा ० । १ )
पृष्ठ 68
पाठ पढ़ें पाठ छिपाएँ
३२ शुक्लयजुर्वेद संहिता [ अ ० ११ अग्निरपि सर्वदेवत्यः सस्मिन्नेवाग्नो सर्वदेवतोद्देश्येन हविः प्रक्षेपात् ' अग्नि सर्वा देवता: ' ( श ० ११६ २२८ ) इति श्रुतेः । अग्निर्यत्परिमाणस्तावता परिमाणेन इन्द्राग्निरूपेण प्रकारान्तरेण एवं तत्संख्याकाभ्यामिन्द्राग्निरूपाभ्यां प्रीणितवान भवति । ' अश्वस्य पदे जुहोति । अग्निरेष यदश्वस्तथो हास्यैते अग्निमत्येवाहुती हुते भवतः ' ( ० ६ | ३ | ३ | २२ ) । आहुतिद्वयस्याधिकरणं विधत्ते - अश्वस्य पदे जुहोतीति । यद्यश्वस्य पदे हवनं तर्हि कथमग्निदेवत्यमन्त्रप्रयोगस्तत्राह - ' अग्निरेष यदश्व: ' ( श ० ६ | ३ | ३ | २२ ) इति । अश्वस्याग्निरूपत्वं प्रागुक्तम् । ' स एतान् पञ्च पशून् प्राविशत् ' ( श ० ६ । २ । १ । ३ ) इति । अध्यात्मपक्षे - अहमग्नि परमात्मानमासमन्ताद जिर्घाम सिवामि दोपयामि च । घृतगन्धिना प्रेमामृतेना-भिषिवामि, श्रद्धावता मनसा ध्यानेन दीपयामि । यहा सगुणं साकारं परमेश्वरं मनसा श्रद्धावता ध्यायन् घतेन क्षारयामि । कीदृशमग्निम्? प्रत्यञ्चं देहेन्द्रियादिभ्यो प्रतीपतयाऽच्यतेऽवगम्यते यस्तं देहादयो नानात्वेन संहतत्वेन पर प्रकाश्यत्वेनावगम्यन्ते, अयं त्वेकत्वेनासंहतत्वेन स्वप्रकाशत्वेनावगम्यते । तमहमरक्षसा अक्रूरेण सौम्येन भक्तिमता मनसा जिर्घामि । यद्वा स देवोऽरक्षसा अक्रोधनेनानुग्रहवता मनसा तदस्मत्समर्पितं वस्तु जुषेत प्रीत्या सेवेत । कोदशोऽग्निजुषेत? मर्यश्रीः मयैः श्रीयते तैराश्रयणीय इति मर्यश्रीः, अथवा मर्याणां श्रीः शोभा सम्पत्तिश्च यस्मात् सः । स्पृहयद्वर्णः स्पृहयन् स्पृहणीयो वर्णो रूपं यस्य सः प्रत्यगात्मरूपेण सर्वप्रेमास्पदत्वात् । सगुण साकार रूपेण कोटिकन्दर्प लावण्यत्वाद् रामकृष्णादिरूपेण सर्वस्पृहणीयं तद्रूपं प्रसिद्धमेव । सर्वसाधारणैर्नाभिमृशा तन्वा स्पष्टुमशक्यया तन्वा शरीरेण जर्भुराणः । उपलक्षणमेतदर्शनादीनामपि । जर्भुराणोऽनेकरूपैर्जम्भमाणोऽपि न सर्वेष्टुं स्प्रष्टुं ग्रहीतुं च शक्यते, कृपामात्रैकलभ्यत्वात् । दयानन्दस्तु - मनुष्यो न यथा विश्वतः सर्वतः अग्निः विद्यद् वायुश्च अभिमृशे आभिमुख्येन मृशन्ति तस्मै सहनशीलाय हितकारी अस्ति, यथा तन्वा शरीरेण जर्भुराणो भृशं गात्राणि विनामयत् स्पृहयद्वर्णः स्पृहयद्भियंते स्वीक्रियते यः स इव । मर्यश्रीः मर्याणां मनुष्याणां श्रीरिव श्रीर्यस्य सः, अहं यं प्रत्यञ्च॑ प्रत्यगतीति शरीरस्थं वायुम् । अरक्षसा रक्षोवदुष्टतारहितेन मनसा चित्तेन आजिर्घाम तथा जुषेत सेवेत ' इति, तदपि यत्किञ्चित् प्रत्यचमिति द्वितीयान्तस्य अग्निरिति प्रथमान्तस्य कथमस्तिक्रियया योगः, न च वायुबोधकं पदान्तरमस्ति । प्रत्यञ्चमिति पदस्य वायुपरत्वमपि चिन्त्यमेव । अभिमृशन्ति येनेति व्युत्पत्स्यापि कथं सहनशीलोऽर्थः? हितकारीति कस्य पदस्यार्थः? मर्य श्रीत्वमपि तथाविधमेव सर्वथाप्यनुपपन्नार्थं -मिदं व्याख्यानम् ॥ २४ ॥
परि॒ वाज॑पतिः कविर॒ग्निर्हव्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दाशुषे॑ ॥ २५ ॥
। मन्त्रार्थ- - अन्न का पति क्रान्तदर्शी अग्नि हवि देने वाले यजमान के निमित्त मनोहर विविध रत्न प्रदान करता हुआ यजमान द्वारा दी गई हवि को स्वीकार करता है ॥ २५ ॥
' अनघा पिण्डं त्रिः परिलिखति परिवाजपतिरिति बहिर्बहिरुत्तरयोत्तरयेति ' ( का ० श्री ० १६।२।२३ ) । परिवाजपतिरित्यादिमन्त्रत्रयेण वारत्रयं मृत्पिण्डं परिलिखेत् । तत्रापि पूर्वया ऋचा एकवारं परिलिख्य. उत्तरया उत्तरया पूर्वलिखिताद्वाह्यदेशे परिलिखेत् । परिवाजपतिरित्यनया प्रथमा रेखा, ततो बहिरुत्तरया परि त्वाग्नइत्यनया द्वितीया रेखा, ततोऽप्युत्तरया त्वमग्न इत्यनयच तृतीया रेखेति । आग्नेयो गायत्री सोमक-दृष्टा । अयमग्निर्हव्यानि विविधदेवत्यानि हवींषि परितः अक्रमीत् स्वीकृतवान् । कीदृशोऽग्निः? वाजपतिः वाजस्यानस्य पालयिता कविः क्रान्तदर्शी, सर्वज्ञ इत्यर्थः । किं कुर्वन्? दाशुषे हवींषि दत्तवते यजमानायः
पृष्ठ 69
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २५-२६ ] वेदार्थ पारिजात भाष्यसहिता ३३ रत्नानि रमणीयानि धनानि दधत् प्रयच्छन् । ' दाश दाने ' इत्यस्य ' दाश्वान् साह्वान् ' ( विधारणे पा ० सू ० पुष्टौ ६।१।१२ दाने ) ' इति क्वसुप्रत्ययान्तो निपातः । दाशतीति दाश्वान् तस्मै दधातीति दधत् ' हुधाञ् इनि कल्पद्रुमोक्तेः । ३।२३ ) । तत्र ब्राह्मणम् -'अथैनं परिलिखति । मात्रामेवास्मा एतत्करोति यथैतावान सोत्येवम् । ' तदेव ( श ० ६ विवृणोति— | ३ | परिलेखनेन अस्मै मद्रूपायाग्नये मात्रां परिच्छेदम् इयत्तां करोति कृतवान् भवति नाष्ट्रा न हन्युरिति अथैतावानसीति । ' यद्वेवैनं परिलिखति । एतद्वै देवा अबिभयुर्यट्टे न इममिह रक्षासि एतदभिगोप्तारं तस्मा एतां पुरं पश्रवस्तथैवास्मा अयमेतां पुरं परिश्रयत्यभ्रया वत्रो वा अभिर्वमेवास्मा परिलिखति त्रिवृतमेवास्मा एतं करोति सर्वतः परिलिखति सर्वत एवास्मा एतं वज्रमभिगोप्तारं करोति त्रिष्कृत्वः – एतद्वै देवा एतां पुरं वज्रमभिगोप्तारं करोति ' ( श ० ६ | ३ | ३ | २४ ) । परिलेखनं प्रशंसितुं देववृत्तान्तमाह, चतुर्दिशं वृत्तमित्यर्थः । रेखारूपां परिश्रितवन्त इति । परिलेखने साधनं विधत्ते - अभ्रयेति । सर्वतः परिलिखतीति अस्मै मृत्पिण्डाय अभिगोप्तारं परिलेखनस्य त्रित्वं विधत्ते - निष्कृत्व इति । त्रिवारं लेखनेन त्रिवृतं वज्रम् एतदुपस्तुत्य कृतवान् भवतीत्यर्थः । ' परिवाजपतिः कविः । परि त्वाग्ने पुरं वयं त्वमग्ने द्युभिरित्यग्निमेवास्मा सा हैषाऽग्निपुरा दीप्यमाना वर्मं करोति परिवतीभिः पुरोव हि पुर आग्नेयीभिरग्निपुरामेवास्मा एतत्करोति स वै वर्षीयसा छन्दसा परां तिष्ठति तिसृभिस्त्रिपुर मेवास्मा एतत्करोति तस्याद् हैतत्पुरां परम १७ रूपं यत् त्रिपुरं पुरः ' ( श ० ६ | ३ | ३ | २५ ) | परां लेखां वरीयसीं करोति तस्मात् पुरां परा परा वरीयसी लेखा भवन्ति लेखा हि । त्वमग्ने भिरिति मन्त्रं विधत्ते - परिवाजपतिरिति । आद्या गायत्री परि त्वाग्ने पुरं वयम् इति द्वितीया अनुष्टुप् वर्म कवचं मृत्पिण्डाय तृतीया त्रिष्टुप् । तिस्रोऽप्याग्नेय्योऽग्निदेवत्याः । अत एभिः परिलेखनेन अग्निमेव रेखाः पुरात्मिकाः, अतस्तासां कृतवान् भवति । मन्त्रत्रयगतं परिशब्दं स्तौति - परिवतीभिरिति । यतो प्रशंसति - तिसृभिस्त्रिपुर-परिशब्दयुक्ताभिः ऋग्भिः करणेन प्राकारपरिवृतपुरात्मकत्वमुक्तम् । मन्त्रगतं त्रित्वं -- सोऽध्वर्युर्वर्षीयसा वृद्धेन मेवेति । प्राकारत्रयपरिवृतत्वं पुरामुत्कृष्टतमत्वम् । स वै वर्षीयसेति । अयमभिप्रायः महत्तरां ततोऽपि वर्षीयसा वृद्धतरेण छन्दसा । उत्तरोत्तराधिकच्छन्दस्काभिर्ऋग्भिः रेखामप्युत्तरोत्तरवरीयसीं । करोति । तस्मादुत्तरोत्तराधिक रेखात्रय करणेन तादृग्भूतप्राकारेण पुरेण मृत्पिण्डं रक्षितवान् भवति अध्यात्मपक्षे - सोऽग्निः परमेश्वरो वाजपतिर्वाजस्यान्नस्य पतिः स्वामी, कविः क्रान्तोपलक्षितातीताना- भक्तिज्ञान-गतवर्तमान सर्ववस्तुदर्शनः सर्वज्ञो दाशुषे पत्रपुष्पफलादिदत्तवते भक्ताय रत्नानि आध्यात्मिकानि पत्रपुष्पादीनि वैराग्यादीनि बाह्यानि सुवर्णादीनि दधत् प्रयच्छन् हव्यानि हवींषि पर्यंक्रमीद् भक्तदत्तानि स्वीकरोति । दयानन्दस्तु - ' हे विद्वन्, यो वाजपतिरन्नादिरक्षको गृहस्थ इव कविः क्रान्तदर्शनो दाता दाशुषे वस्तून्य दातुं -योग्याय विदुषे रत्नानि सुवर्णादीनि दधद् धरन्निवाग्निः प्रकाशमानो हव्यानि होतुं ग्रहीतुं प्रापकः योग्यानि , किमर्थं च स क्रमीत्क्रामति तं त्वं जानीहि ' इति, तदपि तुच्छम् असामञ्जस्यात् । तथाहि — कोऽयं न च सामान्य गृहस्थः · ज्ञातव्य इत्यस्पष्टत्वात् । नासौ परमेश्वरः सम्भवति, तस्याप्तकामत्वेन प्राप्तव्याभावात् । क्रान्तदर्शनः सम्भवति, दर्शनद्रष्टव्यसत्त्व सापेक्षत्वात् ॥ २५ ॥
५
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्र॑ सहस्य धीमहि ।
धृषद्व॑णं दि॒वेदि॑वे॒ हन्तारं भङ्गुरावंताम् ॥ २६ ॥
पृष्ठ 70
पाठ पढ़ें पाठ छिपाएँ
३४ शुक्लयजुर्वेदसंहिता [ अ ० ११ मन्त्रार्थ - बलपूर्वक मथन करने से उत्पन्न होने वाले हे अग्निदेव, तुम सबके शरीर में पुरी रूप से स्थित हो, पालन करने वाले हो, बुद्धिसम्पन्न हो । तुम प्रतिदिन असह्य रूप बाले राक्षसदल का संहार करने वाले हो, हम सब ओर से आपका ध्यान करते हैं ॥ २६ ॥
आग्नेयी अनुष्टुप् । वाया । हे सहस्याग्ने, सहसि बले भवः सहस्यः, बलेन अरणिमन्थनेन जायमान-स्वात् । वयं त्वा त्वां परिधीमहि सर्वतो व्यायामः स्वीकुर्मो वा । सम्प्रसारणं छान्दसम् । कीदृशं त्वाम्? पुरं पिपर्तीति पूरतम् अपेक्षित पलानां परयितारं यद्वा परीरूपेण स्थितम् आग्नेय्यादिपुराणां रक्षकत्वात् । विप्रं विप्रजात्यभिमानिनं मेधाविनं वा । धपट्टणं धाणोतीति धषन प्रगल्भः ' त्रिषा प्रागल्भ्ये ' धषन् वर्णो यस्य तम् । प्रसहनरूपम् असह्यरूपम् । दिवे दिवे प्रतिदिनं भङ्गरावतां भङ्गरं भञ्जनीयं पापं तदस्ति येषां ते भङ्गरावन्तो विघातकारिणो राक्षसादयः, छन्दसि संहितायां दीर्घ, तेषां हन्तारं नाशयितारम् । अध्यात्मपक्षे - सहसा ज्ञानध्यानादिपराक्रमेण लभ्यः सहस्यः तत्सम्बुद्धौ । हे अग्ने, वयं त्वां परिधीमहि सर्वतो ध्यायामः । कीदृशं त्वाम्? पुरं सर्वेषामावासाश्रयं पुरमिव पुरम् । पिपर्ति पालयति भक्तानिति पूस्तम् । तथा विप्रं मेधाविनं धषद्वर्णमह्यरूपम् । धषन् प्रगल्भो वर्णो रूपं यस्य तम् । भङ्गरावतां रावणादिराक्षसानां भेत्तारं विनाशयितारं त्वां ध्यायाम इत्यनुषङ्गः । दयानन्दस्त- ' हे सहस्याग्ने, य आत्मनः सहो बलमिच्छति तत्सम्बुद्धी हे अग्ने विद्यया प्रकाश्यमान, यथा वयं दिवेदिवे प्रतिदिनं भङ्गरावतां कृत्सिता भङ्गराः प्रहताः प्रकृतयो विद्यन्ते येषां तेषां रं येन सर्वान् पिपत तत्, अग्निमिव हन्तारं धषद्वणं धषत्प्रगल्भो दृढो वा वर्णो यस्य तं विप्रं विद्वांसं त्वां परिधीमहि धरेम ' इति, तदपि यत्किञ्चित. गौणार्थाश्रयणस्यायत्तत्वात् । अग्निवद् विद्यया प्रकाशमान इति सिंहो माणवक इतिवद् गौणार्थाश्रयणादेव । भरतस्य दम्वभावोऽयं इत्यप्यसाम्प्रतम् । न वा तद्वतां निश्चितनगरनिर्मितिः, अतद्वता-मपि नगरे तेषां सत्त्वात् ॥ २६ ॥
त्वग्नेभिस्त्वक्षणिस्त्वमद्रुह्यस्त्वमश्म॑न॒स्परि॑ ।
त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृणां नृपते जायसे शुचिः ॥। २७ ॥
मन्त्रार्थ - हे मनुष्यों के पालक अग्निदेव, तुम परम पवित्र आर्द्र भूमि को अपनी कान्ति से सुखाकर अन्धकार को दूर करने वाले हो, तुम प्रतिदिन मथन से उत्पन्न होते हो । तुम जल से बिजली के रूप में उत्पन्न होते हो, तुम एक पाषाण के दूसरे पाषाण से टकराने पर उत्पन्न होते हो, तुम बनों में अरण्य काष्ठ से और औषधियों में बाँत आदि से उत्पन्न होते हो । तुम अग्निहोत्र करने वाले मनुष्यों के घर निवास करते हो ॥ २७ ॥
आग्नेयी त्रिष्टुप् गृत्समददृष्टा । ' प्रथमान्त्या वेकादशाणों, द्वितीयतृतीयो दशाणों पादौ यदा तदा पङ्क्तिरेव । तृतीयचतुर्थी दशाण यदा तदा विराट्स्थाना त्रिष्टुप् । द्वौ वा वैराजौ नवकस्त्रष्टुभश्च विराट्स्यानेत्युक्तेः ' इति महीधराचार्यः । हे भगवन्नग्ने, हे नृपते, नृणां पालक, त्वं युभिरहोभिर्निमित्तभूतैरभिमध्य मानो जायसे । यद्वा द्युभिः स्वर्गनिमित्तभूतैर्याज्ञिकानां यज्ञशालासु जायसे । त्वमाशुशुक्षणिः आशु शीघ्रं शुचा दीप्त्या क्षिणोति हिनस्ति शैत्यं तमो वेति, सनोतीति वा, संभजते वेत्याशुशुक्षणिः | आर्द्रा भूमिमाशु पोपयित्वा जायसे, स्वमयो जलेभ्यो विद्युद्रूपेण जायसे त्वमश्मनः पाषाणाच्च परिजायसे । यद्वा अश्मनः परि पाषाणस्योपरि पाषाणान्तरसङ्घट्टनेन जायसे । त्वं वनेभ्योऽरणिकाष्ठेभ्यो जायसे वनेभ्यो वंशादिभ्यो दावाग्निरूपेण वा जायसे । त्वमोषधीभ्य ओषधिकार्येभ्यो जाठरानलरूपेण वा जायसे । त्वं नृणामग्निहोत्रणां गृहेषु जायसे पुत्रत्वेन पुत्रो