वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री — पृष्ठ 71–80
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ५ - स्वामी करपात्री · पृष्ठ 71–80
पृष्ठ 71
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २७ ] वेदार्थपारिजातभाष्यसहिता ३५ शुद्धिहेतुः, अपगतपाप्मा वाऽसि, ' पुनः पाकेन ह्येष सन् स पुनः पिता भवति ' इति श्रुतेः । किंभूतस्त्वम्? शुचिः पञ्चम्यर्थे प्रथमा । आशुशुक्षणेर् आदिदीपयिषोः । मृण्मयम् ' ( म ० ५ १२२ ) इति स्मृतेः । यद्वा आशुशुक्षाणरिति आ उपसर्गपूर्वकस्य शोचतेः सन्नन्तस्य रूपम् । स्वर्गंनिवासिभिर्देवैर्निमित्तभूतैर्नृणां अध्यात्मपक्षे हे अग्ने! हे परमात्मन् नृपते रामचन्द्र, त्वं द्युभिः । ' किं वैष्णवं वा कपिरूपमेत्य मध्ये श्रीरामकृष्णादिरूपेण जायसे त्वं दैत्यदानवानां दहनायाशुशुक्षणिरग्निरूपोऽसि साम्प्रतमागतं वा ॥ ' ( वा ० रा ० सु ० ५४ । ३८ ) रक्षो विनाशाय परं सुतेजः । अचिन्त्यमव्यक्तमनन्तरूपं स्वमायया स्तम्भात् नृसिंहरूपेण मत्यकर्मरूपेण जायसे । त्वमश्मनः पाषाणमयात् इति रामायणोक्तेः । त्वमद्भूयो धन्वन्तरिरूपेण जायसे । त्वं शुचिः स्वभावतः जायसे । त्वं वनेभ्यो वराहरूपेण जायसे । त्वमोपधिभ्योऽर्थाय यस्य सर्वपापप्रणाशनम् ' ( भा ० पु ० १२।१३।२३ ) पवित्रः, त्वन्नामस्मरणेन सर्वपापक्षयस्मरणात्, ' नामसङ्कीर्तनं इति श्रीमद्भागवतोः । सूर्य इव त्वमाशु-दयानन्दस्तु – ' हे नृपते! अग्ने सभाध्यक्ष, यस्त्वं द्युभिदिनैरिव वायुभ्यो जलेभ्यो प्रकाशमानैन्ययादिगुणैः वा । त्वमश्मनो मेघात् पाषाणाद्वा शुक्षणिः शीघ्रं दुष्टान् क्षिणोति हिनस्ति वा यः सः त्वमद्भूयो नृणां मध्ये शुचिः पवित्रः परिजायसे सर्वतः वनेभ्यो जङ्गलेभ्यो रश्मिभ्यो वा । ओषधिभ्यः सोमलतादिभ्यस्त्वं तदपि तुच्छम्, यथाकथञ्चिद् गौणार्थमाश्रित्यार्थवर्णनात्, प्रादुर्भवसि तस्मात्त्वामाश्रित्य वयमप्येवंभूता भवेम ' इति, यास्कमुनिव्याख्यानप्रकारमुल्लिख्यापि राजा कथमद्भूयोऽश्मनो वनेभ्य औषधिभ्यो जायत इत्यस्यासमाहितत्वात् तदनुगुणव्याख्याननुरोधात् । , आशु इति च शु यास्कव्याख्यानं तुव्वटादिसम्मतमेव । तथाहि ' त्वमग्ने द्युभिर सनोतीति होभिस्त्वमाशुशुक्षणिः वा । शुक शोचतेः । पञ्चम्यर्थे वा इति च क्षिप्रनामनी भवतः, क्षणिरुत्तरः क्षणोतेराश् शुचा क्षणोतीति उत्तरः । आ शुशोचयिषुरिति, शुचिः प्रथमा । तथाहि वाक्यसंयोगः, आ इत्याकार उपसर्गः पुरस्ताच्चिकीर्षितज पापकमिति नैरुक्ताः ' ( नि ० ६ १ ) । तद्रीत्याय-शोचतेर्ज्वलतिकर्मणोऽयमपीतरः शुचिरेतस्मादेव निषिक्तमस्मात् मध्यमानो नृणां जायसे । त्वमाशुशुक्षणिः मर्थः - हे भगवन्नग्ने, त्वं बुभिरहोभिर्निमित्तभूतः पौर्णमास्यायरेषां प्रासङ्गिकमन्यत्रोपकारं करिष्यति । तद्यथा ' शुनो वायुः आशु इति च शु इति च एते क्षिप्रनामनो गु इत्येतदत्र पञ्चाक्षराणामाद्यमक्षरद्वयम् आशु इत्येतत् क्षिप्रनाम । शु इत्यन्तरिक्षे ' ( नि ० ९ ४ ) | आशुशुक्षणिरित्येतेषां निर्वक्ति - क्षणिरुत्तरक्षणः, तेष्वार्तो हि स्वार्थस्य अधुना शु इत्येतत्तृतीयमक्षरमतिक्रम्योत्तरं क्षणिरित्यक्षरद्र्यं सर्वैरप्येतैरक्षरैरयमर्थो विज्ञायते - आशु शुचा सनोतेर्वा संभजनार्थस्य वा मध्यमं शु इत्येतदक्षरं शुचेर्दीप्त्यर्थस्य आशु शुचा सनोति संभजते यः सोऽपि स एवाग्निः । दीप्त्या क्षणोति हिनस्ति यः स आशुशुक्षणिरग्निः । वा यद्वा आशुशुक्षणिरित्यत्र प्रथमाविभक्तिः । कुत एतदित्याह-क्षणिः क्षणोतेः सनोतेर्वा । शुक् शोचतेः । पञ्चम्यर्थे बहूनि पदानि पञ्चम्यन्तानि । तस्मादनेनापि स्वमद्भूयस्त्वमश्मनस्परित्वं वनेभ्यस्त्वमोषधीभ्य इत्येतान्युत्तराणि य एष पुरस्तादाकार एष तावदुपसर्गः । यः पञ्चम्यन्तेनैव भवितव्यमिति । आनुशुक्षणिरित्येतस्याक्षरपश्चकस्य चिकीर्षितादर्थाज्जातः सन्नन्तादित्यभिप्रायः । तथा पुनः शुशुक्षणिरिति चतुरक्षरः शब्दः, एष चिकीपितजः आदिदीपयिषुर्भवति स आशुशुक्षणिर्भवति । तस्मादाशु-च तस्य समस्तस्यायमर्थः- यः कश्चिद् आशु शोचयिषुर् त्वमद्भयो जायसे वैद्युतात्मना । त्वमेवाश्मनः परित इतरेतरा-शुक्षणिस्त्वं हे अग्ने जायसे । कथं केभ्य इत्याह -- शरादिभ्यः, त्वं नृणां मनुष्याणां हे नृपते मनुष्यपते भिघाताज्जायसे । त्वं वनेभ्यो दारुभ्यः स्वमोषधीभ्यः । अयमपोतरः शुचिलौकिकः । एतस्मादेव अभिव्यज्यसे । शुचिः दीप्त इत्यर्थः । शुचि शोचनेज्वलत्यर्थस्य शुचिरित्येवं मन्यन्ते, निष्कृष्य हि तस्मात् इित वैयाकरणा मन्यन्ते । नैरुक्तास्तु पुनः निःपूर्वात् सिञ्चतरितः
पृष्ठ 72
पाठ पढ़ें पाठ छिपाएँ
३६ शुक्लयजुर्वेदसंहिता [ अ ० ] ११ पापकमशुचित्वमन्यस्मिन् सिक्तं भवतीत्येवम् । अत्राग्निर्वान्यो वा । यः कश्चिदग्नि मथित्वा तेन किञ्चिदादि-दीपयिषुर्भवति, स वा आशुशुक्षणिरिति दुर्गाचार्यः ॥ २७ ॥
दे॒वस्य॑ त्वा सवि॒तुः प्रस॒वेऽश्विनो॑र्बा॒हुभ्या॑ पू॒ष्णो हस्ता॑भ्याम् । पृथि॒व्याः स॒धस्था॑व॒ग्नि पु॑रोष्य॒मङ्गर॒स्वत् व॑नामि । ज्योति॑ष्मन्तं त्वाग्ने सु॒प्रती॑क॒मज॑स्त्रेण भा॒नुमा॒ दीद्य॑तम् । शि॒वं प्र॒जाभ्योऽहि॑सन्तं पृथि॒व्याः स॒धस्था॑द॒ग्न पु॑रो॒ष्य॒मङ्गर॒स्वत् खनामः ॥ २८ ॥
मन्त्रार्थ - हे अनि सबके प्रेरक सविता देव की आज्ञा में वर्तमान, अश्विनीकुमार की भुजाओं से, पूजा देवता के खनन करता हूँ । हे अग्ने, ज्वालायुक्त हाथों से पशु सम्बन्धी अग्नि को भूमि की ऊपरी परत से अंगिरा के समान सुन्दर सुख में निरन्तर वर्तमान रश्मियों से दीप्तिमान् प्रजा के उपकार के लिये शान्तरूप, कभी हिंसा न करने वाले पुरीष्य नामक अग्नि को भूमि के गर्भ से अंगिरा के समान खनन करता हूँ ॥ २८ ॥
' अया पिण्डं खनति देवस्य त्वेति ' ( का ० श्र ० १६ । २ । २४ ) | अभ्रया पिण्डं परितः खनति देवस्य स्वेति कण्डिका । देवस्य त्वेति पूर्ववद् व्याख्येयम् । पृथिव्या इत्याग्नेयं यजुः । अत्यष्टिश्छन्दः । हे अग्ने, अहं पृथिव्याः सधस्थात् सहस्थानात् पुरीष्यं पुरीषेषु हितं पशव्यमग्निम् अङ्गिरस्वत् अङ्गिरस इव भूप्रदेशादग्निवत् खनामि । कीदृशमग्निम्? ज्योतिष्मन्तमचिष्मन्तं सुप्रतीकं सुमुखम् अजस्रेण अनवच्छिन्नेन अनुपक्षीणेन निरन्तरं वर्तमानेन भानुना तेजसा दीद्यतं दीप्यमानं प्रकाशमानम् । व्यत्ययेन शता पकारस्य दकारश्च । प्रजाभ्यः प्रजानामुपकाराय शिवं शान्तं तत एवाहिंसन्तं प्राणिनोऽबाधमानं त्वां पृथिव्याः सहस्थानाद् अङ्गिरस इव वयं खनामः । पुनरुक्तिरादरार्था । अत्र ब्राह्मणम् — ' अथैनमस्यां खनति । एतद्वै देवा अबिभयुर्यद्वै न इममिह रक्षाछसि नाष्ट्रा भवति न हन्युरिति यद्वेव तस्मा इमामेवात्मानमकुर्वन् गुप्त्या आत्मात्मानं गोप्स्यतीति सा समम्बिला स्यात्तदस्येयमात्मा सबला योनिर्वाय रेत इदं यद्वै रेतसो योनिमतिरिच्यतेऽमुया तद्भवत्यथ यन्त्यूनं व्युद्धं तदेतद्वै रेतसः समृद्धं यत्समम्बिलं चतुः स्रक्तिरेष कृपो भवति चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति ' ( श ० ६ | ३ | ३ | २६ ) । पिण्डखननं विधत्ते - अथैनमस्यां खनतीति । अस्यां भूमौ एनं पिण्डं खनेदित्याधेयाधि- तस्मै करणभावेन भूमिमृत्पिण्डयोः प्रतीयमानं पार्थक्यमपाकरोति - एवद्वै देवा इति । पूर्वं देवा रक्षोभीत्या पिण्डाय इमां भूमिमेवात्मानं स्वरूपमकुर्वन् । स्वरूपं स्वरूपरक्षकं भविष्यतीति हेतोः रक्षणाय सा खन्यमाना भूमिः समम्बिला चतुर्दिशं समानविवरा कर्तव्या । अयं भावः - यावत्य उखाषाढादय इष्टकाः कर्तव्याः, तावत् परिमाणमेवेदं खनेत् । समम्बिलत्वं स्तौति यद्वेव समम्बिलेति । इयं भूमिर्योनिः अग्न्युत्पत्तिस्थानम् । इदम् उखाषाढाद्यर्थं खन्यमानं मृत्स्वरूपं रेतः । अतो रेतसः सम्बन्धी बिन्दुर्यावद् योनिमतिरिच्यते, तावद् उखादिपर्याप्तौ मृत् खनितुं युक्ता । चतुःस्रक्तिरेष कृप इति मृदथं खन्यमानः कूपश्चतुरस्रः कर्तव्यः । स्रक्तश्चतुर्दिगात्मना स्तोति - चतस्रो वै दिश इति । ' अथैनमतः खनत्येव । एतद्वा एनं देवा अनुविद्याऽख नंस्तथै वैनमयमेतदनुविद्य खनति देवस्य त्वा सवितुः... अङ्गिरस्वत् खनामीति सवितृप्रसूत एवैनमेतदेताभिर्देव-ताभिः पृथिव्या उपस्थादग्नि पशव्यमग्निवत् खनति ' ( श ० ६ | ४ | १ | १ ) | खननविधि स्तुवन् मन्त्रं विधत्ते -अथैनमतः खनतीति । अतश्चतुस्रक्तेः कृपादनुविद्य लब्ध्वा खनति । ' द्वाभ्यां खनति... ( श ० ६ | ४।१।३ ) । ' सवै खनामि ' ( श ० ६ ४ | १ | ४ ), ' स वा अभ्रया खनन् । वाचा खनामि... ( श ० ६ | ४ | १ | ५ ) | खननयन्त्र-
पृष्ठ 73
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २८-२९ ] वेदार्थ पारिजातभाष्यसहिता ३७ प्रशंसति द्वाभ्यां खनति द्विपादिति । देवस्य त्वेति मन्त्रे गतां द्वित्वसंख्यां यजमानरूपाग्न्यात्मना खनामीत्येकवचनम्, ज्योतिष्मन्तमिति मन्त्रे खनाम इति बहुवचनम् । तत्र प्रजापतिविवक्षया एकवचनम्, देवविवक्षया बहुवचनम् । अध्यात्मपक्षे – हे अग्ने परमात्मन् सवितुः प्रसवे प्रेरणे वर्तमानोऽहम् अश्विनोर्बाहुभ्यां त्वाम् पूष्णो? हस्ताभ्यां पुरीष्यं पृथिव्या भूमेः सहस्थानात् सर्वात्मत्वात् चयनीयाग्निरूपेण त्वा त्वां खनामि । कीदृशं पशव्यमिति । शेषं पूर्ववत् । त्वां दयानन्दस्तु -- ' हे अग्ने शिल्पविद्यावित् यथाहं सवितुर्देवस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बहूनि ज्योतींषि विद्यन्ते यस्मिन् तम्, अजस्त्रेण पुरस्कृत्य पृथिव्याः सधस्थात् सुखैः पूरकेषु भवं ज्योतिष्मन्तं खनामि तथा त्वामा-निरन्तरेण भानुना दीप्त्या दीद्यतं दीप्यमानं पुरीष्यं दीद्यतम् अग्निमङ्गिरस्वद् वायुवद्वर्तमानं अताडयन्तं प्रजाभ्यः श्रिता वयं पृथिव्या अन्तरिक्षात् सधस्थाद् अङ्गिरस्वत् सूत्रात्मवायुवद् वर्तमानम् अहिंसन्तम् इति, तदपि न किश्चित्, प्रसूताभ्यः शिवं मङ्गलमयमग्नि खनामो विलिखामः प्रकटयामः, तथा सर्वे आचरन्तु ' दृश्यते, न वा शतपथश्रुतिविरुद्धत्वात् । न चात्र पृथिव्यादिषु वर्तमानो विद्युदग्निरजस्रेण भानुना दीप्यमानो प्रादुर्भावयितुं समर्थाः, वायुः कर्तृत्वेन कर्मत्वेन वा दृष्टान्तत्वमर्हति न वा शिल्पविदमनुसृत्य सर्वे नागरिका विद्युतं विशिष्टोपकरणैरेव निर्वर्त्यत्वात् । न च शिवत्वमेव, विद्युतोऽनिष्टकारित्वस्यापि दर्शनात् ॥ २८ ॥
अ॒पा॑ पृष्ठम॑सि॒ योनि॑र॒ग्नेः समुद्रमभितः पिन्व॑मानम् ।
वर्ध॑मानो म॒हाँ २ ऽआ च पुष्करे दि॒वो मात्र॑या वरि॒म्णा प्र॑थस्व ॥ २ ९ ॥
मन्त्रार्थ - हे पत्र ( पुष्करपर्ण ), तुम जल के ऊपर रहते हो, अतः पृष्ठ रूप हो, अग्नि के निमित्त पिण्ड के कारण बनो । तुम पृथ्वी को सोंचते हुए समुद्र की सब ओर से वृद्धि करते हो, समुद्र के जल में समा जाते हो । हे पत्र, तुम द्युलोक के परिमाण की विशालता के समान विस्तार को प्राप्त करो ॥ २ ९ ॥ ' कृष्णाजिनमास्तीर्योत्तरतः । तस्मिन् पुष्करपर्णमपां पृष्ठमिति । का ० श्री ० २६।२।२५-२६ ) । मृत्पिण्ड-स्योत्तरभागे प्राग्ग्रीवमुत्तरलोम कृष्णाजिनमास्तीर्य तत्रापां पृष्ठमिति पादत्रयात्मकमन्त्रेण पद्मपत्रमास्तृणाति! पुष्करपत्रदेवत्या स्वराट्पङ्क्तिः । आद्यौ दशकावन्त्या वेकादशकाविति द्वयक्षराधिका पङ्क्तिः स्वराट्पङ्क्तिः, ' द्वाभ्यां विराट्स्वराजौ ' ( ३।६० ) इति पिङ्गलोक्तः । हे पुष्करपर्णं, त्वमपामुदकानां पृष्ठमसि, पृष्ठवदुपरि भागे वर्तमानमसि । तथाग्नेर्योनिरस, अग्निहेतोर्मृदः कारणमसि । समुद्रमभितः पिन्वमानं प्रीतिकरम्, ' पिवि सेचने ' इत्यस्य व्यत्ययेन शानचि रूपम्, धातूनामनेकार्थत्वेन प्रीतिकरमित्यर्थः । यद्वा पिन्वमानमिति समुद्रविशेषणम् । पिन्वमानं सिञ्चन्तं समुद्रमुदकमभितो वर्धमानं सद् महत् प्रभूतं भवेति शेषः । यद्वा • समुद्रसमानस्य तटाकजलस्य अभितः प्रीतिकरमसि । यद्वा समुद्रं समुन्दनशील मुदकमभितो वर्धमानं भवसि । पुष्करे वर्धमानो जात एव आसर्वतो महान । आस्तरणाद् महत्त्वम् । अत एव ' आ ' ' महान् ' इति पदद्वयस्य महीयस्वेति व्याख्यानम् । किञ्च ' वर्धमानो ' ' महान ' इति व्यत्ययेन पुल्लिङ्गत्वम्, वर्धमानं महद् इति । पुष्करे उदके आसमन्तात् सीद । यद्वा पुष्करे आसमन्ताद् महत् सद् वर्धमानं वृद्धियुक्तं त्वमसि । विमान दिव इति ' ( का ० श्र ० १६ | २ | २७ ) । एतत् पुष्करपणं विमार्जनेन विमलं कुर्यात् । हे पुष्करपर्ण, त्वं दिवो लोकस्य मात्रया परिमाणेन वरिम्णा उरुत्वेन प्रथस्व विस्तृतं भव । उरोर्भावो वरिमा तेन, ' प्रियस्थिर-
पृष्ठ 74
पाठ पढ़ें पाठ छिपाएँ
३८ शुक्लयजुर्वेदसंहिता [ अ ० ११ स्फिरोरु बहुलगुरुवृद्धतृ प्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बहिगर्वषत्रन्द्राघिवृन्दाः ' ( पा ० सू ० ६ । ४ । १५७ ) इति इमनिचि उरोर्वरादेशः । अत्र ब्राह्मणम् – ' अथैनं कृष्णाजिने सम्भरति । यज्ञो वै कृष्णाजिनं यज्ञ एवैनमेतत्सम्भरति लोमश्छन्दासि वै लोमानि छन्दः स्वेवैनमेतत्सम्भरति तत्तूष्णीमुपस्तृणाति यज्ञो वै कृष्णाजिनं प्रजापतिर्वै यज्ञोऽनिरुक्तो वै प्रजापतिरुत्तरतस्वस्योपरि बन्धु: प्राचीनग्रीवे तद्धि देवना ' ( श ० ६ | ४ | १ | ६ ) | उत्तरतो देशे कृष्णाजिनं प्राग्ग्रीवमुत्तरलोम तूष्णीमास्तीर्यं तस्मिन कृष्णाजिने ' अपां पृष्ठम् ' इति मन्त्रेण पुष्करपर्णमास्तृणाति । एतत् पुष्करपणं दिवोमात्रयेति चतुर्थपादेन विमष्टि । ततः कृष्णाजिनपुष्करपणे ' अपां पृष्ठम् ' ( वा ० सं ० ११२ ९ ) इति, ' शर्म च स्थो वर्म च स्थ: ' ( वा ० सं ० ११।३० ) इति च द्वाभ्यां मन्त्राभ्यां नालभेत । तदाह-कात्यायनः कृष्णाजिनमास्तीर्योत्तरतस्तस्मिन् पुष्करपर्णमपां पृष्ठमिति । विमाष्टर्येतद्दिव इति । आलभत उभे शर्म च स्थ ' इति ' ( का ० श्री ० १६ । २ । २५-२८ ) । तदिदं ब्राह्मणशेषेण विधीयते - अथैनं कृष्णाजिनमिति । यद्यपि कृष्णाजिनस्योपरि पुष्करपर्णे मृत्पिण्डसम्भरणम्, तथापि कृष्णाजिनसम्बन्धोऽप्यस्यास्तीति मत्वा तस्मिन् सम्भरणोक्तिः । लोमतः लोमवत्प्रदेशे! कृष्णाजिनास्तरणममन्त्रकमित्याह - तत् तूष्णीमिति । तदुप-पादयति यज्ञ इति । यज्ञस्य कृष्णाजिनत्वम् ' कृष्णो रूपं कृत्वोदक्रामत् ' ( ० १ | १ | ४ | १ ) इत्याम्नातम् । यज्ञस्य प्रजापतित्वं प्रजापतिदेवत्यत्वात् । प्रजापतिहि सकलस्थूलसूक्ष्मप्रपञ्चात्मत्वेनायमीदृगिति निर्वक्तुमर्हत्वाद् अनिरुक्तः । तद्रूपस्य कृष्णाजिनस्याप्यास्तरणमनिरुक्तममन्त्रकमित्यर्थः । ग्रीवाप्रदेशो यथा प्राचीनः स्यात्तथास्तरणीयमित्यर्थः । ' अर्थनं पुष्करपर्णे सम्भरति । योनि पुष्करपणं योनी तद्रेतः सिञ्चति यद्वै योनौ रेतः सिच्यते तत् प्रजविष्णु भवति तन्मन्त्रेणोपस्तृणाति वाग्वै मन्त्रो वाक् पुष्करपर्णम् ' ( श ० ६ । ४ । १ । ७ ) । कृष्णाजिनस्योपरि विधातो पुष्करपर्णे सिण्डसम्भरणं दर्शयति-अर्थनमिति । यतोऽग्निः पुष्करपर्णाज्जातः, तस्मात् तद् योनिरूपम्, अग्निश्च रेतोरूप इदानीमुत्पद्यमानत्वात् प्रजनिष्णु प्रजननशीलम् । वाक् पुष्करम् । अग्निवाचोरन्यत्र तादात्म्यश्रवणात् ' अग्निर्वाग्भूत्वा मुखं प्राविशत् ' ( तै ० आ ० २ ) इति श्रुतेः । पुष्करपर्णादग्नेर्जननात् कार्यकारणयोरभेदोपचारेण वागेव पुष्करवर्णमित्युक्तम् । ' अपां पृष्ठमसि योनिरग्नेरिति । अपाछ ह्येतत्पृष्ठं योनिर्ह्येतदग्नेः समुद्रमभितः पिन्वमानमिति समुद्रो ह्येतदभितः पिन्वते वर्धमानो महाँ २ || आ च पुष्कर इति वर्धमानो महीयस्त्र पुष्कर इत्येतद्दिवो मात्रया वरिम्णा प्रथस्वेत्यनुविभासौ वा आदित्य एषोऽग्निर्नो हैतमन्यो दिवो वरिमा यन्तुमर्हति द्यौर्भूत्वनं यच्छेत्येवैतदाह ' ( श ० ६ | ४ | ११८ ) । तदास्तरणे मन्त्रं विधत्ते अपां पृष्ठमिति । ' आ ' ' महान् ' इति पदयोर्व्याख्यानं महीयस्वेति । यत एषोऽग्निरादित्यः, अतो लोकत्रयमस्य वरिमा उरुत्वम् । स तमादित्यात्मकमग्नि यन्तुं परिच्छेत्तुं नार्हति । अतो द्यौः द्युलोकात्मकं भूत्वा एवं मृत्पिण्डं यच्छ परिच्छिन्नं कुर्वीति पुष्करपर्णप्रार्थना । ' तदुत्तरं कृष्णाजिनादुपस्तृणाति । यज्ञो वैकृष्णाजिनमयं वै यज्ञोऽस्याहि यज्ञस्तायते द्यौः पुष्करपर्णमापो वै द्यौरापः पुष्करपर्णमुत्तरो वा असावस्यै ' ( श ० ६ | ४ | १ | ९ ) । तत् पुष्करपणं भूद्युलोकात्मना प्रशंसति यज्ञो वा इति । कृष्णाजिनपुष्करपर्णयोर्भूलोकात्मकत्वेन यथा उत्तराधरभावः, एवं लोकयोरुत्तराधरभावो दृश्यत इत्याह- उत्तरो वा असावस्या इति । असो द्यौः अस्यै भूम्या इति । अध्यात्मपक्षे - हे ब्रह्मन् परमात्मन् त्वमपां पृष्ठमसि, ततोऽप्युपरि अवस्थानात् । अग्नेर्योनिः कारणमसि । पिन्वमानं सिञ्चन्तं समुद्रं समुद्रतुल्यरश्मिव्याप्तम् अन्तरिक्षमाकाशमभितः सर्वतो वर्धमानो महान् व्यापकोऽसि, अपामग्नेराकाशस्य चाधिष्ठानत्वेन सर्वतोऽप्यधिकत्वात् । पुष्करे ब्रह्मपुरे दहराकाशगते पुण्डरीके आसोद आसीदसि तिष्ठसीति लकारव्यत्ययः । बुद्धिसाक्षितया दिवो द्युलोकस्य मात्रया परिमाणेन वरिम्णा उरुत्वे
पृष्ठ 75
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः २ ९ -३१ ] वेदार्थ पारिजातभाष्यसहिता ३ ९ प्रत्यक चैतन्याभिन्नब्रह्मात्मना प्रथस्व विवेक सहकारतया ब्रह्माकारया वृत्त्या अशेषोपाधिबाधराणक्षितया अभिव्यक्तो भवेत्यर्थः । महान् पूज्यो वर्धमानो यो विद्यया दयानन्दस्तु -- ' सर्वतो व्याप्तस्य विद्युद्रपस्य योनिः संयोगविभागविद् पिन्वमानं सिवन्तम् अपां जलानां पृष्ठमाधारः क्रियाकौशलेन नित्यं वर्धते स त्वमसि । तस्मादभितः सर्वतः दीप्तेमत्रिया विभागेन वर्धमानं समुद्रं सम्यगध्वं पुष्करे अन्तरिक्षे वर्तमानायाः पुष्करमित्यन्तरिक्षनामसु दिवो वरिम्णा प्रथस्व विस्तृतसुखो भव ' इति, तदपि द्रवन्त्यापो यस्मात् सागरात् तं तत्स्थानात् पदार्थांश्च विदित्वा इति कथमर्थः? यत्त ' संयोगविभागयोः कर्ता, कर्तरि यत्किञ्चित् असङ्गतेः । योनिशब्दस्य संयोगविभागविद् समुद्रतत्स्थपदार्थज्ञानप्रसङ्गे विद्युतः संयोगविभागज्ञस्य निःप्रत्ययः ' इति, तदपि तुच्छम् प्रमाणानुपन्यासात् । किञ्च अपामूर्ध्वद्रवणमित्यर्थेनान्तरिक्षे जलवर्षणं सिद्धमिति कः प्रसङ्गः? पृष्ठशब्दस्य आधार इत्यर्थः, समुद्रशब्दस्यैव दयानन्दीयभाष्यरीत्या वेदो न धर्मग्रन्थः, किन्तु अर्थशास्त्रम्, कृतमन्तरिक्षेऽभितः पिन्वमानत्वेनेति । वस्तुतस्तु विद्यमानत्वात् । कलाकौशलवर्णनमपि नाममात्रमेव, तदाधारेण तद्रीत्या कलाकौशलस्य विविधव्यवहाराणामेव तत्र दयानन्दो विज्ञानवर्णनं मनुते । किञ्चिदपि कर्तुमशक्यत्वात् । वाट्यानजलयानविद्यगर्भसामुद्रविज्ञाननामभिरेव द्विधानस्य वर्णनं तु शून्यप्रायम् ॥ २ ९ ॥ शर्म॑ च स्थो वर्म॑ च॒ स्थोऽच्छिद्रे बहुले उभे । व्यस्वती संर्वसाथां भूतसग्न पुरीष्यम् ॥ ३० ॥
और अवकाश वाले तुम दोनों अग्नि के मन्त्रार्थ - हे कृष्णाजिन, हे पुष्करपर्ण छिद्रशून्य बहुत विस्तार कर लो और उसे । पुरोष्य अग्नि को आच्छावित लिये सुखकारी बनो, कवच के समान अग्नि की रक्षा करो धारण करो ॥ ३० ॥
संर्वसाथा स्व॒विदा समीची उर॑सात्मनो ।
अग्निमन्तर्भरिष्यन्ती ज्योति॑ष्मन्त॒मज॑त्र॒मित् ॥ ३१ ॥
मन्त्रार्थ -- हे कृष्णाजिन, हे पुष्करपणं हमें स्वर्ग लाभ का साधन एकत्रित मिले । निरन्तर तेजस्वान् शरीर से अग्नि को चिरकाल धारण कर आच्छादित अग्नि को भीतर उदर में धारण करते हुए हृदय रूप अपने रखो ॥ ३१ ॥
-सध्रीच्या कण्डिके इति कृत्वा अपरापि कण्डिका सहैव व्याख्यायते' शर्म च स्थः ' ( वा ० सं ० ११।३० ) ' आलभत उभे शर्म च स्थ इति ' ( का ० श्री ० १६ २२८ ॥ सहैव स्पृशेद् इति सूत्रार्थः । ' संवसाथाम् ' ( वा ० सं ० १ ९ । ३१ ) इति मन्त्रद्वयेन कृष्णाजिनपुष्करपर्णे , उभे युवां शं च स्थः, अग्नेः सुखकारिणी कृष्णाजिन पुष्करपर्णदेवत्ये द्वे अनुष्टुभौ । हे कृष्णाजिनपुष्करपर्णे । चौ समुच्चयार्थी । कीदृशे ते? अच्छिद्रे छिद्ररहिते अपि भवथः, तथा वर्म च स्थः कवचवद्रक्षके अपि भवथः आच्छादन प्रकारवती पुटिकादिसदृशे तथाविधे साकल्योपेते विघ्नशून्ये वा । बहुले विस्तीर्णे । व्यचस्वती भृतं धारयतम् । किञ्च युवां त्मना आत्मना युवां संवसाथां सम्यक् छिद्रमाच्छादयतम् । ततः पुरीष्यमग्नि संवसाथाम् । कीदृशे युवाम्, स्वर्विदा स्वर्गविदो स्वमेव परनिरपेक्षे सति उरस्त उरः सदृशेन भवदीयस्वरूपेण
पृष्ठ 76
पाठ पढ़ें पाठ छिपाएँ
४० शुक्लयजुर्वेद संहिता [ अ ० ११ स्वर्ग लाभ साधने ज्ञानवती समीची मृद्बन्धनायानुकूले सम्यगञ्चने सङ्गते एकचित्ते इत्यर्थः । अजस्रमित् निरन्तरमेव ज्योतिष्मन्तमग्निम् अन्तः स्वोदरे भरिष्यन्ती धारयिष्यन्ती । यद्वा युवयोरुपरि निधीयमानस्य मृत्पिण्डस्य युवां शर्मं शरणं गृहमाश्रयरूपं रक्षितृरूपं वा स्थः भवथः । ' शरणं गृहरक्षित्रोः ' ( अ ० को ० ३ । ३ । ५३ ) । वर्म संहननं कवचं भवथः । अच्छिद्रे सकले बहुले महाप्राणे च भवथः । अतो व्यचस्वती rastra न्त्यो भूत्वा पुरीप्यं पशव्यमग्नि संवसाथाम् आच्छादयतम् आच्छाद्य च भृतं विभृतम् । हे कृष्णाजिन पुष्करपर्णे एनमग्नि पिण्डरूपं आच्छादयतम् । स्वर्विदा यज्ञसूर्यं देवाचनः स्वः शब्दः । स्वर्वेत्तीति स्ववित् तेन स्वविदा रूपेण वाच्छादयतम् । यद्वा द्विवचनस्य स्थाने आकारः स्वविदो । यद्वा स्वर्गविदो भूत्वा समोची समाने सङ्गते एकचित्ते भूत्वा । यद्वा किमर्थं स्वर्विदा स्वर्ग लाभाद्धेतोः, उरसा हृदयेन आत्मना स्वरूपेणावयवसंस्थानेन अग्निपिण्डमन्तर्मध्यतो भरिष्यन्ती धारयमाणे भवतम् । ज्योतिष्मन्तं तेजस्विनम् अजस्रमनुपक्षीणं कुरुतमिति शेषः । इदिति पादपूरणः । अत्र ब्राह्मणम् -'अथैने अभिमृशति । संज्ञामेवाभ्यामेतत्करोति शर्मं च स्थो वर्म च स्थ इति शर्म च ह्यस्यैते वर्म चाच्छिद्रे बहुले उभे उभे इत्यच्छिद्रे ह्येते बहुले उभे व्यचस्वती संवसायामित्यवकाशवतो संवसाथा-मित्येतद्भृतमग्नि पुरीष्यमिति विभृतमग्नि पुरीष्यमिति विभृतमग्नि पशव्यमित्येतत् ' ( श ० ६ | ४ | १।१० ) । ' संवसाथा स्वर्विदा । समीची उरसात्मनेति संवसाथामेन स्वविदा समीची उरसा चात्मना चेत्येतदग्नि-मन्तर्भरिष्यन्ती ज्योतिष्मन्तमजस्रभिदित्यसौ वा आदित्य एषोऽग्निः स एष ज्योतिष्मानजस्रस्तमेते अन्तरा विभृतस्तस्मादाह ज्योतिष्मन्तमजस्रमिदिति ' ( श ० ६ ४ । १ । १ ) | कृष्णाजिनपुष्करपर्णयोर्युगपदभिमर्शनं विधत्ते -अथैने अभिमृशतीति । एतद् एतेन अभिमर्शनेन संज्ञामेव कृतवान् भवति । मन्त्रद्वयं विधत्ते - शर्म च स्थ इति । द्वितीयमन्त्रस्योत्तराधं व्याचष्टे - असो वा आदित्य इति । एते द्यावापृथिव्यौ । ' द्वाभ्यामभिमृशति । द्विपाद्यजमानो यजमानोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवाभ्यामेतत्संज्ञां करोत्यथो द्वय ह्येवैतद्रूपं कृष्णाजिनं च पुष्करपर्णं च ' ( ६ | ४ | १ | १२ ) । मन्त्रगतां द्वित्वसंख्यां यजमानाग्निरूपेण प्रशंसति - द्वाभ्यामिति । अध्यात्मपक्षे त्रिशमन्त्रव्याख्यानम् -- हे सीतारामी, युवां भक्तानां शर्मं शरणं वर्म कवचं च स्थः भवथः । उभे उभौ अच्छिद्रे अच्छिद्रौ दोषरहितो बहुले बहुला सर्वार्थप्रापको व्यचस्वती अवकाशवन्तो महान्तो संवसाथाम् आच्छादयतं पुरीष्यं जीव हितकरमग्निम् अग्नेः परमेश्वरस्यांशं पालयतमित्यर्थं लिङ्गव्यत्ययः । आच्छाद्य च भृतं विभृतं धारयतम् । बिभर्तेर्बहुलं छन्दसि शपो लुक् । तथैकत्रिंशमन्त्रव्याख्यानम् - हे सीतारामी, युवां तादृशमग्नि स्वांश भूतजीवसमूहं संवसाथां कृपादृष्टिवृष्टयाच्छादयतम् । कीदृशौ युवाम्? स्वविदा स्वविदो पारमार्थिक सुख-प्रापयितारौ । अन्तर्भावितणिज द्रष्टव्यः । समीची सम्यग्ज्ञातारी सर्वज्ञौ तं ज्योतिष्मन्तं ज्ञानशक्तिमन्त्रमग्निमजस्रं उरसा अन्तःकरेण त्मना आत्मना च निरन्तरमन्तः स्वान्तरेव भरिष्यन्ती धारयमाणौ भवेतम् । लिङ्गव्यत्ययः । अजस्रमनुपक्षीणं च कुरुतमिति शेषः, युवाभ्यामुपेक्षितस्योपक्षयदर्शनात् । दयानन्दस्तु त्रिंशे मन्त्रे -- ' हे स्त्रीपुरुषी, युवां शर्म गृहं च तत्सामग्री च प्राप्ती स्थः भवथः । वर्म सर्वतो रक्षणं च तत्सहापानम् उभे द्वे धर्मार्थकार्ये बहुले बहूनर्थान् लान्ति याभ्यां ते । व्यचस्वती सुखव्याप्तियुक्ते अच्छिद्रे -अदोषे विद्युदन्तरिक्षे व स्थ: । तत्र गृहे भृतं धृतं पुरीष्यं पालनेषु साधुमग्नि गृहीत्वा संवसाथां सम्यग् आच्छादयतम् ' इति, तदपि तुच्छम् तयोः सम्बोधने मानाभावात् । सिद्धान्ते तुं श्रुतिसूत्रानुसारि सम्बोधनम् । अध्यात्मपक्षेऽपि ‘ सर्वे वेदा यत्पदमामनन्ति ' ( कठोप ० १२ १५ ) इति श्रुतिरेव परमात्मनः सम्बोधने मानम्, सर्वत्र वेदे तस्यैव प्रतिपिपादयिषितत्वात् । प्राप्त्यं विद्युदन्तरिक्षे इवेति निर्मूलमेव । गृहनिर्माणादिकं च प्राप्तमेवेति कृतं तद्विधानेनेति । एकत्रिंशकण्डिकायां तद्वघाख्यानं यथा- ' हे स्त्रीपुरुषौ युवां यदि समीची
पृष्ठ 77
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३१-३२ ] वेदार्थपारिजातभाष्यसंहिता ४१ ज्योतिष्मन्तं सम्यगतो विजानतस्तौ भरिष्यन्ती सर्वान् पालयन्तौ स्वविंदा यो सुखं आत्मना विन्दतस्तो इत् एव सन्तो अजस्रं निरन्तरं प्रशस्तज्योतिर्यक्तम् अन्तः सर्वेषां मध्ये वर्तमानम् उरसा अन्तःकरणेन त्मना । न च संवसाथाम् आच्छादयतम् तर्हि श्रियमश्नुत्राथाम् ' इति, तदपि यत्किञ्चित् न च निर्मूलाध्याहारबाहुल्यात् तस्य जडमात्रस्याग्नेरन्त करणे-पदार्थेष्वन्तोऽग्निज्र्ज्योतिष्मान् भवति, तथात्वेऽन्धकारेऽपि प्रकाशापत्तेः ॥ दरिद्रा अपि मार्गेषु विद्यमानां नात्मना वा ग्रहणं युक्तम्, न वा तद्विदां श्रियः प्राप्तिः सम्भवति, प्रत्यक्षविरोधात् विद्युतं पश्यन्ति न च श्रियमुपलभन्ते ॥ ३१ ॥
पुष्कर दध्यथ॑र्वा घुरीष्योऽसि विश्वभ॑रा॒ अथर्वा त्वा प्रथमो निर॑मन्थग्ने । त्वम॑ग्ने॒ निरंमन्यत । मू॒र्ध्वो विश्व॑स्य॒ वाघः ॥ ३२ ॥
पहले प्राण मन्त्रार्थ - हे अग्ने, तुम पशुओं के हितकारी और समस्त चराचर के पालन करने वाले हो । सबसे संसार के ऋत्विजों ने ने तुमको प्रकाशित किया था । हे अग्ने, प्राग ने जल में से मथन कर तुमको निकाला, सम्पूर्ण आदर से तुमको मथित किया ॥ ३२ ॥
' पिण्डं पुरीष्योऽसीति ' ( का ० श्र ० १६ | २ | २ ९ ) । पुरीष्योऽसीति मन्त्रेण मृत्पिण्डं स्पृशेत् सप्ताक्षरः प्रतिष्ठा, गायत्री, ' विपरीता प्रतिष्ठा ' ( ३।१५ ) इति पिङ्गलोक्तेः । अस्यार्थः -- यत्र प्रथमः पादोऽष्टाक्षरः द्वितीयः पुरीषस्य तृतीयश्च षडक्षरः सा प्रतिष्ठा गायत्रीति । अग्निदेवत्या । अथ मन्त्रार्थ: - हे मृत्पिण्ड, त्वं पुरीष्योऽसि पुरीषबहुलस्य पांसोर्योग्योऽसि । पशव्यो बासि । अत एव विश्वभरा विश्वं कृत्स्नमुखारूपं बिभर्तीति, विश्वं, जगद्वा बिर्भात धारयति पुष्णातीति विश्वभराः सर्वधातुभ्योऽसुन् ' ( उ ० ४।१२५ ) इत्योणादिकोऽसुन्प्रत्ययः सर्वधारकस्याचीयमानस्यानेविरारूपत्वात् । हे अग्ने, अथर्वाख्य ऋषिः प्राणो वा प्रथम इतरेभ्यः । अयमभिप्राय- पूर्वभावी सन् त्वां निरमन्यद् निःशेषेण मथितवान् । अत्राथर्वणः प्रथम निर्मथनं नाम प्रथमदर्शनम् य स्तित्तिरिणोक्तः । तथाहि - ' ग्निर्देवेभ्यो निलायत तमथर्वा न्वपश्यदथर्वा वा प्रथमो निरमन्यदग्न दक्षिणोत्तराभ्यां इत्याह एवैनमन्वपश्यत् तेनैवैन सम्भरति ' ( तै ० सं ० ५ | १ | ४ | १० ) इति । ' पाणिभ्यां परिगृह्णात्येनं १६।२।२ ९ ) । दक्षिणः साभ्रिस्त्वामग्न इति षड्भिः सर्व १ ९ सकृद्धत्वा पुष्करपर्णे निदधाति ' ( का ० दक्षिणहस्तेन श्र ० पिण्डस्य दक्षिणोत्तराभ्यां हस्ताभ्यामेनं मृत्पिण्डं गृह्णीयादध्वर्युः । तत्र दक्षिणभागे अभ्रिसहितेन ग्रहणम्. उत्तरभागे च केवलेन सव्यहस्तेन पिण्डं गृह्णीयात् । एवं मृत्पिण्डं सर्वमपि सकृदेव प्रयत्नेन गायत्र्यो धृत्वा भरद्वाज- त्वामग्न इति षभिर्मन्त्रः कृष्णाजिनोपर्यास्तृते पद्मपत्रे निःध्यात् - इति सूत्रार्थः । अग्निदेवत्यास्तिस्रो मथितवान् | यहा हाः । हे अग्ने, अथर्वाख्य ऋषिः पुष्करादधि पद्मपत्रस्योपरि त्वां निरमत्थद् ६१४: २२ निःशेषेण ) इति श्रुतेः, ' पुष्करपर्णे पुष्करादुदकात् सकाशात्वां निरमन्थत, ' आपो वै पुष्करं प्राणोऽथर्वा ' । श ० ? मूर्ध्नः उत्तमाङ्गवत् प्रशस्तात्, नमुपाश्रितमविन्दन् ' इति तित्तिरिश्रुतेश्व कीदृशात् पुष्करात् । यद्वा • विश्वस्य सर्वस्य जगतो वाघतः वाहकात् । पुष्करपर्णेऽग्निमथनेन यज्ञनिष्पादनद्वारेण परियम सर्वं जगन्निर्वहति विश्वस्य सर्वस्य अथर्वा अरणवान् प्राणः प्रथम पूर्वस्त्वां निरमन्थन । वाघत इति ऋत्विनामम् । यद्वा विश्वस्येति जगतः सम्बन्धिनो वाघत ऋत्विजस्त्वां मुनोऽर्थादरणे: शिरसो निरमन्थतेति व्यत्ययः । एट्ठा अथर्वा षष्ठयेकवचनं प्रथमाबहुवचनार्थे । विश्वे सर्वे वाघत ऋत्विजो मूर्ध्नाऽरणेः शिरसो कर्मणि निरमत्थतेति षष्ठी । विश्वस्य गुर्धानं अरणवान् प्राणः पुष्कराद् उदकात् । अधिशब्दः पञ्चम्यर्थानुवादी । मूर्ध्नः सुर्धानं त्वां वाघत ऋत्विजो निरमन्थतेत्यर्थः ।
पृष्ठ 78
पाठ पढ़ें पाठ छिपाएँ
४२ शुक्लयजुर्वेदसंहिता [ अ ० ११ तत्र ब्राह्मणम् -- ' अथैनं परिगृह्णाति । अभ्रया च दक्षिणतो हस्तेन च हस्तेनैवोत्तरतस्त्वामग्ने पुष्करा-दध्यथर्वा निरमन्थतेत्यापो वै पुष्करं प्राणोऽथर्वा प्राणो वा एतमग्रेऽद्धयो निरमन्थन्मूर्ध्ना विश्वस्य वाघत इत्यस्य सर्वस्य मूर्ध्न इत्येतत् ' ( श ० ६ ४ २ २ ) । सूत्रसहकृत मन्त्रव्याख्याने नोक्तार्थं ब्राह्मणम् । ' प्राणो वा अथर्वा ' इत्यर्थवादादस्य सिद्धवदर्थकथनम् । तद्योऽसावग्निः पूर्वः सृष्ट, तमेतं पुरीष्योऽसीत्यनेनोक्तवान् भवति | पुष्कराथर्वपदयोरर्थमाह - आपो वै पुष्करं प्राणोऽथर्वेति । अध्यात्मपक्षे - हे अग्ने पशुपते सदाशिव, त्वं पुरीष्यः पुरीषेभ्यः पशुभ्यो जीवेभ्यो हितो हितभूतः पुरीष्यः पशव्योऽसि । विश्वभराः सर्वस्य धारकः पोषकः, अथर्वा ऋषिः प्राणतुल्यो वा सर्वप्राणिपरप्रेमास्पदभूतो ज्ञानी प्रथमो मुख्य इतरेभ्यो वा पूर्वभावी त्वा त्वां निरमन्थत् निःशेषेण मथितवान् ध्यान निर्मन्थनाभ्यासाद-धिगतवान् त्वां प्राप्तवान् । हे अग्ने, त्वां पुष्कराद हृत्पुण्डरीकाद् अथर्वा अहिंसको निर्वैरो यतिर्निरमन्थत । निर्मन्थनाभ्यासात् त्वामुपलब्धवान् । कीदृशः अथर्वा? वाघतो मेधावी विश्वस्य मूर्ध्नः मूर्धेव यः सः । यद्वा कीदृशात् पुष्करात्? विश्वस्य मूर्ध्नः, तद्वत् प्रशस्तात्, वाघतः वाहकात् परमेश्वरस्य वाहकाद् धारकात् । तत्रैव तस्योपलभ्यमानत्वेन तद्वाहकत्वं युक्तमेव ॥ ३२ ॥
तम॑ त्वा द॒ध्यङ्घषि॑ः पु॒त्र ई॑धे॒ अथ॑र्वणः । वृत्र॒हणं पुरन्द॒रम् ॥ ३३ ॥
७ मन्त्रार्थ - अथर्व के पुत्र दध्यङ् नामक ऋषि ने उस पापनाशक रुद्र रूप से पुर सम्बन्धी तीन आवरणों को भेद कर तुमको प्रज्ज्वलित किया था ॥ ३३ ॥
तमु तमेव त्वा त्वां दध्यङ्नामा ऋषिमन्त्राणां द्रष्टा अथर्वणः पूर्वोक्तस्य पुत्र ईधे आदीपयति । ' ञिइन्धी दीप्तो ' । कथंभूतं त्वाम्? वृत्रहणं वृत्रस्यावरकस्य पाप्मनो हन्तारं पुरन्दरम् असुरपुरां दारयितारम् । अथर्वणः पुत्रो दध्यङिति मन्त्रोक्ति ' दध्यङ्ङाथर्वण: ' ( श ० ६ | ४ | २ | ३ ) इति श्रुतिरपि समर्थयते । रुद्ररूपेण वा तिसृणां पुरां दारयितारम् । तत्र ब्राह्मणम् – ' तमुत्वा दध्यङ्गषिः । पुत्र ईधे अथर्वण इति वाग्वै दध्यङ्ङा-थर्वणः स एनं तत ऐन्ध वृत्रहणं पुरन्दरमिति पाप्मा वै वृत्रः पाप्महनं पुरन्दरमित्येतत् ' ( श ० ६ ४ २/३ ) । प्राणोऽथर्वा । तत्पुत्रस्थानीयो वागात्मकः प्राणः, तस्य तदधीनत्वात् । शेषं स्पष्टम् । -अध्यात्मपक्षे -- तमेव पशुपति परमेश्वरं त्वाम् अथर्वणः प्रसिद्धस्य ब्रह्मपुत्रस्य पुत्रो दध्यङ्ङाथर्वणः प्रख्यात प्रभावः, बृहदारण्यके योऽश्विभ्यां ब्रह्मविद्यामुपदिष्टवान् कस्यचिदहिंसकस्य चतुर्थाश्रमिणः पुत्रः शिष्यो दध्यङ्नामा ऋषिर्वा प्रथमो मुख्यो निरमन्थत् । वेदवेदान्तान् मथित्वा ततः सारभूतं त्वामधिगतवान् समष्टि-व्यष्टिपञ्चकोशात्मकं जगदेव वा मथित्वा ततः पञ्चकोशातीतं मुञ्जादिषीकामिव त्वामधिगतवान् । कीदृशं त्वाम्? वृत्रहणं पापनाशकम्, असुरसम्बन्धिनां पुरत्रयाणां वा दारकम् । दयानन्दस्तु - ' हे राजन् यथा अथर्वणोऽहिंसकस्य विदुषो दध्यङ्गुषिर्यो दधीन् सुखधारकानग्न्यादि-पदार्थान् अञ्चति स ऋषिर्वेदार्थवित् पुत्रः पवित्रः शिष्यः सकलविद्याविद् वृत्रहणं यथा सूर्य्यो वृत्रं हन्ति तथा शत्रुहन्तारं पुरन्दरं यः शत्रूणां पुराणि दृणाति तमीधे प्रदीपयेत् तथा तं त्वा त्वां सर्वे विद्वांसो विद्याविनयाभ्यां वर्धयन्तु ' इति, तदपि तुच्छमेव धर्मब्रह्मपरस्य वेदस्य राजप्रतिपादनायोगात् । ' अहिंसकस्य विदुषो वेदार्थवित् पवित्रः शिष्यो यथा त्वां दीपयेत् तथा सर्वे विद्वांसो वर्धयन्तु ' इति केन किं श्लिष्यते? दृष्टान्ते प्रकाशनमुक्त्वा दान्ते वर्धनकथनस्य को वाभिप्रायः? वेदार्थविद् ऋषिः प्रकाशयतीत्येतावतैव तन्महत्त्वसिद्ध्या पितृपुत्रादि-वर्णनस्य किं स्वारस्यमित्यनुक्तेः ॥ ३३ ॥
पृष्ठ 79
पाठ पढ़ें पाठ छिपाएँ
मन्त्रः ३४-३५ ] पारिजात भाष्यसंहिता
तमु॑ त्वा पा॒थ्यो वृषा॒ सम॑धे दस्यु॒हन्त॑मम् । ध॒न॒ज्ज॒य॑ र॒णैरणे ॥ ३४
४३ मन्त्रार्थ - सन्मार्ग में वर्तमान मन को तृप्त करने वाले हे अग्ने, शत्रुओं का नाश करने वाले उन उन संग्रामों में धन को जीतने वाले तुमको मैं प्रज्ज्वलित करता हूँ ॥ ३४ ॥
तमु तमेव त्वा त्वां पाथ्यः पथि सन्मार्गे वर्तमानो वृषा शास्त्राचार्योपदेशसंस्कृतं मन ईधे दीपयति प्रकाशयति मनो वै पाथ्यो वृषा ' ( श ० ६ | ४ | २ | ४ ) इति श्रुतेः, ' मनसैवानुद्रष्टव्यम् ' ( बृ ० उ ० ४ | ४ | १ ९ ) इति श्रुतेश्च । ननु ' यन्मनसा न मनुते येनाहुर्मनो मतम् ' ( केनोप ० ११५, ' यद्वाचानभ्युदितं येन वागभ्युद्यते ' ( केनोप ० १४ ), ' यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ' ( तै ० उ ० २।४।१ ) इत्यादिश्रुतिभिर्ब्रह्मणो मनोवाचामगोचरत्वमेवोक्तमिति चेन्न, फलव्याप्त्यविषयत्वेऽपि वृत्तिव्याप्यत्वे स्वप्रकाशत्वाव्याघातेनादोषात् । यद्वा पाथसि अन्तरिक्षे हृदयाकाशे भवः पाथ्यः । ' पाथोनदीभ्यां ड्यण् ' ( पा ० सू ० ४ | ४ | १११ ) इति पाथशब्दाद् डणि पाय इति रूपसिद्धिः । यद्वा पाथ्यनामा कश्चिदृषिः । वृषा सेक्ता मनः, त्वां समीधे प्रकाशयति । मनसंवाभिलष्य स्त्रिया ७ रेतः सिञ्चति । कीदृशं त्वाम्? दस्युहन्तमम्, दस्यून् हन्ति दस्युहा, सोऽतिशयिता दस्युहन्तमः तम् ' न लोपः प्रातिपदिकान्तस्य ' ( पा ० सू ० ८ २२७ ) इति नलोपेन दस्युहतम इति प्राप्ते ' नाद्धस्य ' ( पा ० सू ० ८२०१७ ) इति तमपो नुडागमः । अतिशयेन शत्रूणां हन्तारं रणे रणे प्रविसङ्ग्रामं धनस्य जेतारम् । अत्र ब्राह्मणम् -'तमुत्वा पाथ्यो वृषा । समोधे दस्युहन्तममिति मनो वै पाथ्यो वृषा स एनं तत ऐन्ध धनञ्जय १ रणे रण इति यथैव यजुस्तथा बन्धुः ' ( श ० ६ । ४ । २ । ४ ) । ---अध्यात्मपक्षे - तमु तमेव त्वां शिवं पशुपति पाथ्यो वृषा मनोदेवः समीधे सम्यक् प्रकाशयति अज्ञानावरणापाकरणेन स्वप्रकाशत्वेन बोधयति । कीदृशं त्वाम्? दस्युहन्तमम् अतिशयेन दस्यूनां बाह्यानां राक्षसादीना पान्तराणां कामादीनां हन्तारं रणे रणे प्रतियुद्धं प्रतिसङ्घर्षं धनस्य बाह्यस्य रत्नादेरान्तरस्य ज्ञानवैराग्यादेश्च जेतारं प्रापयितारम्, धातूनामनेकार्थत्वात् । दयानन्दस्तु - ' हे वीर, यस्त्वं पाथ्यः पाथस्सु जलान्नादिपदार्थेषु साधुः, वृषा वीर्यवान्. रणे रणे युद्धे युद्धे विद्वान् शौर्यादिगुणयुक्तोऽसि तं धनञ्जयं यः शत्रुभ्यो धनं जयति तं दस्युहन्तम् अतिशयेन दस्यूनां हन्तारं तं त्वा वीरसेनया समीधे राजधर्मशिक्षया प्रदीप्यताम् ' इति, तदपि न किञ्चित्, वीरस्य वीरसेनया समिन्धनस्य युक्तिशून्यत्वात्, मूले तादृशपदाभावाच्च ॥ ३४ ॥
चि॑के॒त्वान् स॒दया॑ य॒ज्ञ ं स॑क॒तस्य॒ योनौ॑ । सीदं होतः स्वजं लोके दे॒वाव॑र्दे॒वान् ह॒विषा॑ य॒ज॒स्यग्ने॑ 1 बृह॒द्यज॑माने॒ ar धाः ॥ ३५ ॥
मन्त्रार्थ - आह्नान कार्य में नियुक्त हे अग्ने, तुम चेतना से सम्पन्न हो, अपने अधिकार को जानते हो । तुम अपने स्थान कृष्णाजिन पर स्थापित हुए पुष्करपर्ण पर स्थिर हो जाओ । श्रेष्ठ कर्म के स्थान वाले यज्ञ को स्थापित कर हे अग्ने II देवताओं को प्रसन्न करने वाले तुम हवि द्वारा देवताओं का पूजन कर उन्हें तृप्त करते हो, इसलिये यजमान को बड़ी आयु दो, उसे यश से सम्पन्न करो ॥ ३५ ॥
आग्नेयी त्रिष्टुप, देवश्रवादेववाताभ्यां दृष्टा । हे होतः! होमनिष्पादक देवानामाह्वात मृदूपाग्ने, चिकित्वान् कर्मणामभिज्ञस्त्वं स्व उ । उ एवार्थे । स्वकीय एव लोके स्थाने कृष्णाजिनाख्ये उत्तरवेदिरूपे वा
पृष्ठ 80
पाठ पढ़ें पाठ छिपाएँ
४४ शुक्लयजुर्वेद संहिता [ अ ० ११ त्वं सीद उपविश । यज्ञं च मे सुकृतस्य योनौ साधुकृतस्य पुण्यकर्मणः स्थाने कृष्णाजिने सादया सादय स्थापय । ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६।३।१३७ ) इति संहितायां क्रियापदस्य दीर्घत्वम् । यज्ञे हि तन्यमाने अवघातः पेषणं सोमनिधानं च कृष्णाजिन एव भवतीत्यभिप्रायेणेदमुच्यते, ' कृष्णाजिनं वै सुकृतस्य योनिः ' ( श ० ६ ४ २ ६ ) इति श्रुतेः । हे अग्ने, यतस्त्वं देवावी: देवानवनि प्रीणाति रक्षतीति वा देवावी, देवप्रियो देवरक्षको वाऽसि तादृशश्च त्वं देवान् हविषा यजासि पूजयसि । अथवा देवान् सपर्यन् हविषा भावेन यजासि । यजेः पञ्चमे लकारे रूपम् । अतस्त्वं यजमाने वृहद् महद् वयो दीर्घमायुरन्नं वा धाः स्थापय । अत्र ब्राह्मणम् ' गायत्रीभिः । प्राणो गायत्री प्राणमेवास्मिन्नेतद्दधाति तिसृभिस्त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति तासां नव पदानि नव वै प्राणाः सप्त शीर्षन्नवाञ्चौ द्वौ तानेवास्मिन्ने-तद्दधाति ' ( श ० ६६४।२।५ ) । उक्तानां तिसृणामृचां गायत्री छन्दस्त्वमनूय प्रशंसति -- गायत्रीभिरिति । गायत्र्याः प्राणरूपत्वमुक्तम् । मन्त्रगत त्रित्वसंख्यां प्राणोदानव्यानात्मना प्रशंसति -- तिसृभिस्त्रयो वै प्राणा इति । एकैकस्या गायत्र्या ऋचस्त्रयस्त्रयः पादाः । तासां नव पादान् सम्भूय नव प्राणात्मना प्रशंसति ---वासां नव पदानीति । एतेन मन्त्रत्रयेण नृत्पिण्डस्य परिग्रहे तस्यां मृदि प्राणानेव संहितवान् भवतीत्यर्थः । ' अथैते त्रिष्टुमा उत्तरे भवतः । आत्मा वै त्रिष्टुबात्मानमेवास्य ताभ्यां संस्करोति सीद होतः स्व उ लोके चिकित्वानित्यग्निर्वे होता तस्यैष स्वो लोको यत्कुष्णाजिनं चिकित्वानिति विद्वानित्येतत् सादया यज्ञ सुकृतस्य योनाविति कृष्णाजिनं वै सुकृतस्य योनिर्दवावीर्देवान् हविषा यजासीति देवः सन् देवानवद् हविषा जासीत्येतदग्ने बृहद्यजमाने वयोधा इति यजमानायाशिषमाशास्ते ' ( श ० ६ ४ २ ६ ) | धारणमन्त्रेषु त्रिष्टुभावित्युक्तम्, तो विधातुं तद्गतं छन्दः प्रशंसति - अथैतत्त्रिष्टुभा उत्तरे भवत इति । त्रिष्टुभ आत्मरूपत्वं ताभ्यां मन्त्राभ्यां धारणेन मृत्पिण्डस्य स्वरूपमेव संस्कृतवान् भवति । मन्त्रव्याख्यानेन प्रागुक्तम् । ब्राह्मणमुक्तार्थम् । अध्यात्मपक्षे - हे होतः, यज्ञनिष्पादक भगवन्नग्ने, स्वकीय एव लोके लोकनीये कैलासे ब्रह्मलोके भक्तानां हृदय एव सीद उपविश । चिकित्वान् सर्वेषां कर्माणि जानन् यज्ञं प्रसिद्धं श्रौतं स्मार्तमग्निहोत्रं दर्शपूर्णमास-चातुर्मास्यज्योतिष्टोमाप्तोर्यामवाजपेयराजसूयाश्वमेधसत्रादिकम् उपासनादिलक्षणं च सुकृतस्य शुभकर्मणो योनी फलदातरि प्रवर्तकेऽन्तर्यामिण सादय स्थापय । देवावीः देवानां रक्षको रामकृष्णादिरूपेण देवानग्नीन्द्रादीन् हविषा यजासि पूजयसि । यजमाने देवान् देवाधिदेव भगवन्तं यः सदा यजति तस्मिन् यजनशीले बृहद् महद् यो धनमायुश्च धाः हीत्यर्थः । दयानन्दस्तु - ' हे अग्ने होतर्दातर्ग्रहीतः त्वं स्वे स्वकीये सुखे लोके लोकनीये चिकित्वान् विज्ञानयुक्तः अवस्थितो भव | सुकृतस्य सुष्ठु कृतस्य धार्मिकस्य योनौ गृहे यज्ञं धम्यं राजप्रजाव्यवहारं सादय गमय । देवावी: देवै रक्षितः शिक्षितश्च देवान् विदुषो दिव्यगुणान् वा हविषा दानग्रहणयोग्येन न्यायेन यजासि याजयेः । यजमाने राजादौ जने बृहद् महद वयो दीर्घं जीवनं घेहि ' इति तदपि निरर्थकमेव अर्थासङ्गतेः । यज्ञं राजप्रजाव्यवहारं हविषा दानग्रहणयोग्येन न्यायेन देवान् विदुषो दिवागुणान् वेत्यादयोऽर्था असङ्गता एव । नहि कथञ्चिद् धात्वर्थयोगेन घटशब्दश्चेष्टार्थको भवतीति तद्वत् । न वा राजप्रजाव्यवहारे यज्ञशब्दप्रयोगः शिष्टानाम्, नीतिधर्मादिशास्त्रेषु तथाप्रयोगादर्शनात् । नहि कश्चिन्मनुष्यो राजादी दीर्घं जीवनं धारयितुं प्रार्थ्यते ॥ ३५ ॥