वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 121–130
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 121–130
पृष्ठ 121
पाठ पढ़ें पाठ छिपाएँ
म ० ३-४ ] वेदार्थपारिजातभाष्यसहिता ८५ अध्यात्मपक्षे ता इष्टकाः प्रत्याह-- हे इष्टकाः, या यूयम् ऋतवः स्थ, संवत्सरात्मकस्याग्नेरवयवत्व-सामान्यात् तत्तदृतुसुखदत्वाद्वा । ऋतावृधः सत्यस्य वर्धयित्र्यश्व या यूयम् ऋतुष्ठा ऋतुषु वसन्तादिषु तिष्ठन्तीति तथोक्ता अहोरात्ररूपाः । आदरार्थं पुनर्वचनम् । ता यूयं घृतश्चुतश्च मधुश्चुतश्च । अग्निसम्बन्धान्मन्त्रप्रभावाञ्च घृतमधूपलक्षितामृतादिरसस्राविण्यो भवथ । विराजो विशेषेण राजमानाः कामदुधा यत्काम्यं तस्य पूरयित्र्यः अक्षोयमाणाः परिपूर्यमाणाश्च भवथ, भगवत्सम्बन्धान्मन्त्रप्रभावाच्च जडानामपि तथात्वात् । अधिष्ठातॄन् देवांस्तु व्रीहियवकुशसमिदादिष्वप्यभ्युपगच्छन्त्येव वेदिकाः । अध्यात्मरीत्या तु ' सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ' ( छा ० ३ | १४ | १ ) इति सर्वस्यैव ब्रह्मचैतन्यात्मकत्वाद् व्यक्ताग्निसम्बन्धेन काष्ठादिष्वग्नेरभिव्यक्तिवद् व्यक्तब्रह्मसम्बन्धेन तत्सम्बन्धिनीष्विष्टकास्वपि तादृशैश्वर्यं नानुपपन्नम् । दयानन्दस्तु -- ' हे स्त्रियः, या यूयम् ऋतव ऋतुतुल्याः स्थ ऋतावृध उदकेन नद्य इव सत्येन वर्धन-शीलाः, ऋतुष्ठा वसन्तादिषु ऋतुषु स्थिता वा सत्यवर्धयित्र्यो घृतश्चुतो घृतस्राविण्यो मधुश्चुतो मधुररसेनोपेता अक्षीयमाणा रक्षितुं योज्या विविधगुणैः प्रकाशमानाः कामपूरिका धेनव इवास्मान् सुखयन्तु ' इति, तदपि यत्किञ्चित् तादृशसम्बोधनस्य निर्मूलत्वात्, स्त्रीषु वसन्तादिकते रूपत्वासम्भवेन गौणार्थाश्रयणस्य निष्प्रमाण-त्वाच्च । ' धेनवः ' इति पदस्य मन्त्रेऽभावात्, इवकारसहितस्य तस्याध्याहारे प्रमाणाभावाच्च । अक्षीयमाणा इत्यस्य रक्षितुं योग्या इति व्याख्यानं चिन्त्यमेव ॥ ३ ॥
स॒मु॒द्रस्य॒ त्वाव॑क॒याग्ने॒ परि॑व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥ ४ ॥
मन्त्रार्थ - - हे अग्निदेव! समुद्ध, तालाब आदि के जल में फैलने वाले शैवाल द्वारा तुमको चारों तरफ से वेष्टित करता हूँ । हे अग्निदेव हमारे लिये आप शैवाल के समान शोधक और कल्याणकारी बनो, अर्थात् शैवाल जैसे जल को स्वच्छ रखता है, उसी प्रकार आप हमारे मन को पवित्र रखो ॥ ४ ॥
सप्तभिर्भाविकर्षति आग्नेयोभिः | ' मण्डूकावकावेतसशाखा वेणी बद्ध्वाऽवकर्षति मन्त्रकृष्टवत् समु. द्रस्य त्वेति प्रत्यृचम् ' ( का ० श्र ० १८ २ ११ ) । मण्डूक- शैवाल - वेतसशाखा वंशे बध्वा तं हस्तेनादाय तेन अग्निक्षेत्र प्रत्यूचं कृषेदिति सूत्रार्थः । आद्यया दक्षिणश्रोणेरारभ्य दक्षिणांसं यावत् कर्षति । द्वे गायत्र्यौ अग्निदेवत्ये । हे अग्ने, समुद्रस्य सम्यग् उन्दति क्लिन्नं करोतीति समुद्रो जलम् । तस्य अवकया शैवालेन त्वा त्वां परिव्ययामि परितो वेष्टयामः । ' इदन्तो मसि ' ( पा ० सू ० ७२ १/४६ ) इति निपातः । उपरिभागे सर्वत्र विकर्षाम इत्यर्थः । त्वं च अस्मभ्यं पावकः शोधकः शिवः शान्तश्च भव । अत्र ब्राह्मणम् - ‘ अथैनं विकर्षति । मण्डूकेनावकया वेतसशाखयैतद्वा एनं देवाः शतरुद्रियेण चाद्भिश्च शमयित्वा शुचमस्य पाप्मानमपहत्याथैनमेतद् भूय एवाशमयंस्तथैवैनमयमेतच्छ्तद्रियेण चाद्भिश्च शमयित्वा शुच-मस्य पाप्मानमपहत्याथैनमेतद् भूय एव शमयति सर्वतो विकर्षति सर्वत एवैनमेतच्छमयति ' ( श ० ९ | १।२।२० ) । प्रसन्ना कण्डिका । ' यद्वेवैनं विकर्षति । एतद्वै यत्रेतं प्राणा ऋषयोऽग्रेऽग्नि, समस्कुर्वंस्तमद्भिरवोक्षंस्ता आपः समस्कन्दंस्ते मण्डूका अभवन् ' ( श ० ९ | ११२ २१ ) । एनमग्नि मण्डुकादिभिर्विकर्षतीति यत् तत्र एतत् कारणं खल्विति कारणाभिधानं प्रतिज्ञाय यत्रेतमित्यादिना तत्प्रदर्श्यते - अग्रे पूर्वं यत्र यस्मिन् प्रस्तावे ऋषिशब्दाभिधेयाः प्राणा एतमग्नि समस्कुर्वन्, तदा ते प्राणास्तमग्निमद्भिरवोक्षितवन्तः । ता आपः समस्कन्दन् । ते मण्डुका अभवन् । ' ताः प्रजापतिमब्रुवन् । यद्वै नः कमभूदवाक्तदगादिति सोऽब्रवीदेष व एतस्य वनस्पतिर्वेत्त्विति वेत्तु स वेत्तु सो ह वै तं वेतस इत्याचक्षते परोक्षं परोक्षकामा हि देवा अथ यदब्रुवन्नवाङ् नः कमगादिति ता अवाक्का
पृष्ठ 122
पाठ पढ़ें पाठ छिपाएँ
८६ शुक्लयजुर्वेदसंहिता [ अ ० १७ वेतस-अभवन्नवाक्का ह वै ता अवका इत्याचक्षते परोक्षं परोक्षकामा हि देवास्ता हैतास्त्रय्य आपो यन्मण्डूकोऽवका कं रसोऽवाग् शाखैताभिरेवैनमेतत्त्रयीभिरद्भिः शमयति ' ( श ० ९ | १ | २ | २८ ) । ततः प्रजापति प्रति एष वनस्पतिर्वेत्तु नोऽस्माकं इत्यब्रवीत् । अगात् किञ्चिदनुक्त्व मूकं सद् गतमित्यद्भिरुक्ते स प्रजापतिः वः एतस्य रसस्य एवमुक्तं तेन वेत्तुसोऽभूत् । तं देवाः एष इति प्रत्यक्षेण निर्दिष्टः तं वनस्पतिर्वेतु स इति परोक्षेणाप्याह । यत रसोऽवाक्का अभवन् । परोक्षकामत्वाद् वेतस इत्याचक्षते । अथ आपो यदब्रुवन् अवाक् तदगादिति तस्मात् स विधेयप्राधान्येन बहुत्वम् । ताश्व देवाः परोक्षकामत्वादवका इत्याचक्षते । ' यद्वेवैनं विकर्षति । जायत एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते प्रीणाति सर्व ' ( श वेतदन्नं ० ९ | १ | यन्मण्डू- २ | २३ ) । कोऽवका वेतसशाखा पशवश्च ह्येता आपश्च वनस्पतयश्च सर्वेणैवैनमेतदन्नेन सर्वेऽप्येते मण्डूकादयः उक्तप्रकारेण मण्डूकाः साक्षादेवापः, वेतसोऽपि तद्रसवेदनात्, अवकास्तु रसात्मकत्वादिति भवति । पूर्वं प्रजासृष्टि-अबात्मकाः । त्रिविधा अपि आपः खलु । तस्मात्तैराकर्षणे एताभिरेनमग्नि शमितवान् पुनरुत्पद्यते । जायमानस्य निबन्धनेन परासुः प्रजापतिः, इदानीं चयनलक्षणान्नसंस्कारेण प्राणादीनां निधानात् च सर्वान्भोगार्थमेवोत्पत्तिः । तदुक्तं सर्वस्मा अन्नाय जायत इति । मण्डूकादयश्च कृत्स्नमन्नं वेतसानामप्प्ररूढ- तदाह-पशवश्च ह्येता इति । यद्यप्येते मण्डूकादयः सर्वेऽप्यबात्मकाः तथाप्यवकानां जलैकायतनत्वाद् एनमग्नि सर्वेणैवान्नेन प्रीणाति । वनस्पतिरूपत्वाच्च ता आप इत्युक्तम् । एवं सति मण्डकादिभिविकर्षणेन वेतसो वनस्पतीनामनुपजीवनीयतमः ' ' मण्डूकः पशूनामनुपजीवनीयतमो अवका अपामनुपजीवनीयतमा श्रुतिः । पशूनां मध्ये ( श ० ९ ।१२।२४ ) । विकर्षणेन वान्तरसा मण्डूकादयोऽनुपजोवनीया । आसन्नित्याह गतसारत्वादेव अवका अपि भक्ष्याः मण्डूकेन विकर्षणाद् गतसारत्वात् स पश्वन्तरवदुपकारको न भवति भवति । ' तानि वंशे प्रबध्य । पेया वा न भवन्ति । वेतसोऽपि वनस्पत्यन्तरवत् पुष्पफलादिनोपकारको न । पावको अस्मभ्य, दक्षिणार्धनाग्नेरन्तरेण परिश्रितः प्रागग्रे विकर्षति समुद्रस्य त्वावकयाग्ने परिव्ययामसि समुद्रसम्बन्धिन्या शिवो भवेति समुदियाभिस्त्वाद्भिः शमयाम इत्येतत् ' ( श ० ९ | १ | २ | २५ ) । हे अग्ने, शोधयतीति त्वां पावकः सन् अवकया परिव्ययामसि परितः संवृणुमः । तेन संवरणेन शान्तस्त्वमस्मदर्थं पावयति शिव आनुकूल्यवान् भवेति मन्त्रार्थः । पालयतीति अध्यात्मपक्षे - हे अग्ने, समुद्रस्य समुद्रतुल्यस्य संसारस्य सम्बन्धिन्या प्रीतिमपनीय अवकया अवति रागानुगया त्वां अवका प्रीतिः, तथा पशुपुत्रादिसम्बन्धिन्या प्रीत्या त्वां परिवेष्टयामः । अस्मभ्यं संसारात् शिवः सुखकरो भव । भजाम इत्यर्थः । संसारसम्बन्धादशुद्धान् अस्मान् पावकः पावयिता सन् रक्षणक्रियया वर्तमानाः दयानन्दस्तु - ' हे अग्ने सभापते, यथा वयं समुद्रस्य आकाशस्य मध्ये अवकया ' इति, तदपि यत्किञ्चित्, परिव्ययामसि प्राप्तुमः, तथैव पावकः पवित्रकारकस्त्वमस्मभ्यं शिवो मङ्गलकरो भव के वा कथं प्राप्नुवन्तीत्या-सम्बोधनस्यैव निर्मूलत्वात् । कथं च स आकाशमध्ये स्यात्? कथं च रक्षणक्रियया धनुक्तेः ॥ ४ ॥
हिमस्य॑ त्वा ज॒राय॒णाग्ने॒ परि॑व्ययामसि । पा॒व॒को अ॒स्मभ्य॑छ॒ शि॒वो भ॑व ॥ ५ ॥
से सब ओर से वेष्टित मन्त्रार्थ - हे अग्निदेव, मैं आपको हिम के जरायु के समान उत्पत्तिस्थान शैवाल ॥ ५ ॥
लिये पूर्व मन्त्र उपदिष्ट विधि से हमारे मन के शोधक और कल्याणकारी बनो करता हूँ | आप हमारे दक्षिणश्रोण्याद्युत्तरश्रोण्यन्तं कर्षति अनया ऋचा । हे अग्ने, हिमस्य शैत्यस्य जरायुणा भव जरायुवदुत्पत्ति- । यद्वा हे अग्ने, स्थानीयेन शैवालेन त्वां परिव्ययामसि तव संवरणं कुर्मः । त्वमस्मभ्यं पावकः शोधकः सन् शिवो
पृष्ठ 123
पाठ पढ़ें पाठ छिपाएँ
म ० ५-६ ] वेदार्थपारिजातभाष्यसहिता ८७ हिमस्य शीतस्य जरायुणा प्रशीतेन प्रकृष्टेन शीतेन त्वां परिवेष्टयामः । शेषमुक्तप्रायम् । अयमभिप्रायः - यत्खलु शीतस्यापि प्रशीतं तद्धिमस्य जरायुः । जरायुशब्दो गर्भवेष्टनवचनः । जरायुर्यथा गर्भमाच्छादयति तद्वदधिकं शीतमप्यल्पशीतं वेष्टयति । तद्विमस्य जरायुणेति शीतादप्यधिकं प्रशीतमुच्यते । अबात्मका मण्डूकादय एव हिमस्य राणेत्येतेन विवक्ष्यन्ते । तेन शब्देन तेषामभिधानं प्रकृष्टशमनसमर्थत्वसूचनार्थमिति । तदेव ब्राह्मणं वक्ति-' यद्वै शीतस्य प्रशीतं तद्धिमस्य जरायु शीतस्य त्वा प्रशीतेन शमयाम इत्येतत् ' ( श ० ९ | १ | २ | २६ ) । अध्यात्मपक्षे -- हे अग्ने, हिमस्य हिमतुल्यस्य प्रशस्यस्य जरायुणा जरायुवत्तस्यापि रक्षकेण भक्तियोगेन त्वां परिवेष्टयामः । स त्वं तेन पावकः सन् अस्मभ्यं शिवः परमकल्याणरूपो भव । दयानन्दस्तु -- ' हे अग्ने, वयं हिमस्य जरायुणा जरयित्रा वस्त्रेण अग्निना वा त्वामाच्छादयाम: ' इति, तदपि विसङ्गतमेव, सभापतेर्वस्त्राद्य भावकल्पनानुपपत्तेः, रूढैर्योगापहारकत्वेनापि तथानुपपत्तेश्च ॥ ५ ॥
उप॒ ज्मन्नुप॑ वेत॒सेऽव॑तर नंदीध्वा । अग्ने॑ पि॒त्तम॒पाम॑सि॒ मण्ड॑ति॒ ताभि॒राद॑हि॒ सेमं नो॑ य॒ज्ञं पा॒व॒कव॑र्ण शि॒वं कृधि ॥ ६ ॥
मन्त्रार्थ - हे अग्निदेव, आप पृथ्वी के ऊपर आओ और वेतस शाखा का सहारा लो, नदियों में स्थित शैवाल का सहारा लो । हे अग्निदेव, आप जल को निर्मल करने वाले हो । हे मण्डकि, तुम भी जल की पित्तस्वरूप हो, अर्थात् उसको निर्मल करती हो, अतः जल के साथ तुम भी अग्नि की शान्ति के निमित्त यहाँ आओ । तुम हमारे इस चयन यज्ञ को अग्नि के समान तेजस्वी बनाओ ॥ ६ ॥
उत्तरश्रोणेरुत्तरांसपर्यन्तं कर्षति । परिनिष्ठितकण्डिका तु त्रिष्टुबेव चतुश्चत्वारिंशदक्षरत्वात् । ' नदीषु + आ, सा + इमम् ' इति व्यूहद्वयेन द्वधिका त्रिष्टुप् द्वयूना जगती वा । हे अग्ने, त्वम् ज्मन् ज्मा पृथिवी । सप्तम्या लुक् । मनि पृथिव्याम उपावतर आगच्छ । ' उमा ' ( निघ ० १ १ ३ ) इति पृथ्वीनामसु । तथा वेतसे वेतसशाखायाम् उपावतर । नदीषु आ । आ उपसर्गोऽध्यर्थे । नदीषु आ अवकासु उपावतर । नदीशब्देन तत्प्रभवा अवका लक्षणया बोध्यन्ते । यद्वा अधिशब्देन लक्षणया नद्या अधिवर्तमाना अवका बोध्यन्ते । मण्डूकावकावेत सशाखाः कर्षणार्थं वेणी बद्धाः सन्ति । तमेवार्थं मन्त्रो वदति । हे अग्ने, त्वम् अपां पित्तं तेजोऽसि । यो यस्यावयवः, स तं न हिनस्ति तद्धर्मा च भवति । तस्मात्त्वां वच्मि ज्मनि नदीष्ववतरेति । एवमग्नि सम्बोध्य मण्डूकीमाह - हे मण्डूकि! मण्डूक-पत्नि, ताभिः पूर्वोक्ताभिरद्भिः सह आगहि आगच्छ । छान्दसे शपि लुप्ते ' अनुदात्तोपदेशवनतितनात्यादीनामनुना-सिकलोपो झलि क्ङिति ' ( पा ० सू ० ६ ४ ३७ ) इति मकारलोपः । हे मण्डूकि, मण्डूकस्य स्त्री मण्डूकी, तत्सम्बुद्धौ, यासामग्निः पित्तम्, यत्र त्वमुत्पन्ना वा, या त्वमग्नेः शान्त्ये इतस्ततो नीयसे सा त्वमस्माभिः क्रियमाणमिमं चयन-लक्षणं यज्ञं पावकवर्णमग्निसमानतेजसम्, शिवं फलप्रदत्वेन शान्तं च कुरु कृधि सम्पादय । तत्र ब्राह्मणम् -- ' अथोत्तरार्धेन प्राक् । उप ज्मन्नुप वेतसेऽवतर नदीष्वा अग्ने पित्तमपामसि मण्डुड्कि ताभिरागहि सेयं नो यज्ञं पावकवर्णं शिवं कृधीति यथैव यजुस्तथा बन्धुः ' ( श ० ९ | १ | २ | २७ ) । पश्चाद्भागे विकर्षणानन्तरमुत्तरभागं प्रागपवर्गं विकर्षेदित्याह - अथोत्तरार्धेनेति । विकर्षणे मन्त्रमाह - उप ज्मन्निति । अध्यात्मपक्षे -- हे अग्ने परमेश्वर, त्वं ज्मनि पृथिव्यामुपावतर रामकृष्णादिरूपेण आविर्भव । तथा वेत तसाद्युपलक्षितेऽरण्ये वराहनृसिंहादिरूपेण आविर्भव, तत्तत्कार्यसिद्ध्यर्थमिति शेषः । हे अग्ने, त्वमपां
पृष्ठ 124
पाठ पढ़ें पाठ छिपाएँ
८८ शुक्लयजुर्वेद संहिता [ अ ० ] १७ जलानां पित्तं तेजोऽसि, वाडवाग्निरूपेण । यद्वा अपां कर्माङ्गसमवेतानां सोमाज्यपयआदीनाम्, पित्तं कर्मरूपं तेजोऽसि । अपां लोकानां पित्तं दीपकं तेजोऽसि । हे मण्डूकि! दिव्यैश्वर्यमाधुर्यादिमण्डनैर्मण्डितेऽलङ्कृते महाशक्ते, ताभि: सीता - राधा - रुक्मिणीरूपाभिः सहागत्य नोऽस्माकमिममाराधनलक्षणं यज्ञं पावकवर्ण तेजस्विनं शिवं सुखप्रदं कृधि कुरु । दयानन्दस्तु - ' हे अग्नितुल्ये तेजस्विनि विदुषि मण्डूकि अलङ्कृते, त्वं पृथिव्यां नदीषु तथा वेतसे पदार्थविस्तारेऽवतर पारगा भव । यथा अग्निरपां पित्तं तेजोरूपमस्ति, तथैव त्वं ताभिर्जलेः प्राणैश्च न उप आगहि । सा त्वमिमं गृहाश्रमलक्षणं यज्ञं पावकवर्णं शिवं कृषि ' इति, तदपि यत्किञ्चित्, अग्निपदस्य तादृशार्थत्वे मानाभावात् । मण्डूकीपदस्य अलङ्कृतार्थतापि चिन्त्यैव । उपावतरेत्यस्य पारगमनार्थत्वे सप्तम्याः कथं सङ्गतिः? अग्नेः सम्बन्धनं च न तत्रानुकूलमस्तीति क्रियापि विसङ्गतैव स्यात् । यज्ञपदस्य गृहार्थतापि गोण्या वृत्यैव वक्तव्या । न च अग्निवर्णतापि तत्र समञ्जसा ॥ ६ ॥
अ॒पामि॒ स्वय॑ न्यय॑नधि॑समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒भ्यस्तै ' अ॒स्मत्त॑पन्तु हे॒तय॑ः पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥ ७ ॥
मन्त्रार्थ- - इस चिति में स्थित अग्नि का यह स्थान, जल की प्राप्ति का साधन, अग्नि के गृहरूप समुद्र में स्थित है । हे अग्निदेव, आपको ज्वाला हमारे विरोधियों को तपावे, उनको क्लेश दे । इसके विपरीत आपको वही ज्वाला हमारे लिये शोधक, अर्थात कल्याणकारी हो ॥ ७ ॥
उत्तरांसादक्षिणां कृषति । आग्नेयी बृहती । इदं चित्याग्निस्थानं मण्डूक्यवकावेतसलक्षणं वा अपां न्ययनम् नितरामीयते प्राप्यते येन तन्न्ययनम् नियमत उदकप्राप्तिसाधनम्, यज्ञद्वारा अपां प्राप्तिसम्भवात्, तन्मध्ये लीनत्वेन तदयनत्वं सम्भवतीति तत्राह - समुद्रस्य जलस्य निवेशनम् । निविशतेऽस्मिन्निति निवेशनं गृह-स्थानीयम्, अपां बाहुल्यात् । नह्यमहीयसीनामपामयनमेतत्, अपि तु समुद्रस्य जलनिधेरिव निवेशनम् । तथाविधेन मण्डूकादिना विक्रुष्यसे, अतो ब्रवीमि - हे तादृशाग्ने, ते तव हेतयोऽस्त्राणि अर्चीषि अस्मद् अस्मत्तोऽन्यान् विरोधिनः तपन्तु दहन्तु । अस्मभ्यम् अस्मदर्थं त्वं पावकः शोधकः सन् शिवो भव । तथैवात्र ब्राह्मणम् -- ' अथ पूर्वार्धन दक्षिणा । अपामिदं न्ययन, शिवो भवेति यथैव यजुस्तथा बन्धुः " " ( श ० ९ । १ । २ । २८ ) । निगदव्याख्यातमेतत् । अध्यात्मपक्षे - हे अग्ने, इदं जगद् अपां अबुपलक्षितकर्मणां नितरामयनं कर्म कार्यत्वात् कर्मक्षेत्र-त्वाच्च । अयां कर्मणां निवेशनं गृहस्थानीयम् । हे अग्ने परमेश्वर, ते तव अस्त्राणि चक्रपिनाकधनुरादीनि, अस्मत्तोऽ-न्यान् तपन्तु, बाह्यान् आन्तरांश्च शत्रून् क्लेशयन्त्वित्यर्थः । त्वमस्मभ्यं पावकः शोधकः सन् शिवो भव । दयानन्दस्तु - हे ' विद्वन् पुरुष, इदमाकाशमपां प्राणानां वा न्ययनं निश्चितं स्थानम् । तस्य Harita निवेशनं स्थितितुल्यं गृहाश्रमं प्राप्य पावकः पवित्रं कर्म कुर्वन् निरर्गलम् इदंपदेन आकाशग्रहणे मानाभावात्. निवेशनपदेन त्वमस्मभ्यं निश्चितस्थितितुल्यगृहाश्रमग्रहणस्य शिवो भव ' इति, तदपि निर्मूलत्वात् ॥ ७ ॥
पृष्ठ 125
पाठ पढ़ें पाठ छिपाएँ
म ०८ ] वेदार्थपारिजात भाष्यसहिता ८ ९
अग्ने ' पावक रोचिषा मन्द्रया॑ दे॒वजि॒ह्वया॑ । आ दे॒वान् व॑क्षि॒ यक्षं च ॥ ८ ॥
मन्त्रार्थ - हे शोधक अग्निदेव, तुम्हारी ये ज्वालाएं आहवनीयरूप और आनत्वरूप होकर होता की वाणी में विराजमान हों, सब देवताओं का आह्वान करें, उनको आहुति दें ॥ ८ ॥
' पुच्छानि चाभ्यात्ममग्ने पावक रोचिषेति ' ( का ० श्र ० १८/२/११ ) | पक्षपुच्छानि प्रान्तादारभ्य अभ्प्रात्मम् आत्मसम्मुखं सन्धिपर्यन्तं कर्षति प्रत्यृचमग्ने इति दक्षिणं पक्षं स न इति पुच्छं पावकयेत्युत्तरं पक्षमिति सूत्रार्थ: । आग्नेयी गायत्री वसूयुदृष्टा । हे अग्ने पावक! शोधक देव द्योतनात्मक, रोचिषा दीप्तिमत्या मन्द्रया गम्भीरया जिह्वया वाचा देवान् वक्षि आह्वय, धातूनामनेकार्थत्वात् । यक्षि च यज च । यद्वा हे अग्ने पावक पावयितः, रोचिषा रोचनेन ज्वालासमूहेन आहवनीयात्मना स्थित इति शेषः । मन्द्रया मदनीयया च देवजिह्वया होतृवाग्रूपेण स्थित इति शेषः । आवक्षि आवह, यक्षि च यज च । द्वौ ह्यग्नेरधिकारी - होत्रं चाहवनीयरूपेण हविर्ग्रहणं च । अत एवाग्निरुभयथा स्तूयते । वहतेयंजेश्च लोटि मध्यमैकवचने शपि लुप्ते ' हो ढः ' ( पा ० सू ० ८/२/३१ ) इति ढत्वे, ' षढोः कः सि ' ( पा ० सू ० ८२२२४१ ) इति कत्वे ' आदेशप्रत्यययोः ' ( पा ० सू ० ८ | ३ | ५ ९ ) इति मूर्धन्यादेशे वक्षीति, श्वभ्रस्ज " ( पा ० सू ० ८ | २/३६ ) इति षत्वे, ' षढोः कः सि ' ( पा ० सू ० ८ | २ | ४१ ) इति कत्वे मूर्धन्यादेशे च यक्षीति रूपम् । अत्र ब्राह्मणम् — ' आत्मानमग्रे विकर्षति । आत्मा ह्येवाग्रे सम्भवतः सम्भवत्यथ दक्षिणं पक्षमथ पुच्छमथोत्तरं तद्दक्षिणावृत् तद्धि देवत्रा ' ( श ० ९ | १ | २ | २ ९ ) । आत्मभाग विकर्षणस्य प्राथमिकत्वमुपपादयति- -आत्मानमिति । दक्षिणार्धेनेत्यादिना विहितं विकर्षणमग्नेरात्मभाग एव क्रियते । अतश्चाग्रे आत्मानं विकर्षती त्येतदुपपन्नम् । यतः सम्भवतो जायमानस्य करचरणाद्यवयवजातस्य मध्ये पूर्वमात्मभाग एव सम्भवति । तत्सकाशात् पक्ष -करचरणादीनामुत्पत्तिरिति । अथ दक्षिणपक्षादीनां विकर्षणं विधाय पूर्ववत् प्रशंसति - अथेति । ' धत्तेऽग्ने अभ्यात्मं पावक पुच्छानि विकर्षति । अभ्यात्ममेव तच्छान्ति धत्ते परस्तादर्वाक् परस्तादेव तदवचो शान्ति यद्वै रोचिषेति दक्षिणं पक्षं स नः पावक दीदिव इति पुच्छं पावकया यश्वितयन्त्या कृपेत्युत्तरं पावकं पावकमिति शिव शान्तं तत्पावक शमयत्येवैनमेतत् ' ( श ० ९ | १ | २ | ३० ) । पक्षादीनां विकर्षणमात्मभागमभिलक्ष्य कुर्यादित्याह – अभ्यात्ममिति । अग्निरूपमात्मानं प्रतीत्यभ्यात्मम् । विकर्षणानुसारेण शान्ति निहितवान् । मन्त्रेषु भवतीत्याह - अभ्यात्ममेवेति । दक्षिणपक्षादीनां विकर्षणेषु मन्त्रान् विधत्ते - अग्ने पावक रोचिषेत्यादिना तत्पावकं पावकशब्दप्रयोगस्याभिप्रायमाह - पावकं पावकमिति । यद्वै वस्तु शिवं तस्यैवार्थं प्रदर्शनम् - शान्तमिव । भवतीति । शान्तं शान्तेः शुद्धिसम्पादकत्वात् । अतश्वाग्नेः शान्ततासिद्धये तेन शब्देन सम्बोधनमिति अध्यात्मपक्षे - हे अग्ने श्रीराम परमेश्वर हे पावक शोधयितः 1 रावणादित्रिलोकी कण्टकशोधकत्वात्, परमेश्वरस्यैव सर्वशुद्धिहेतुत्वात् । हे देव द्योतनात्मक स्वप्रकाश, रोचिषा दीप्तिमत्या ज्ञानोत्पत्तिहेतुभूतया मर्त्यशिक्षणं मन्द्रया सुखदायिन्या गम्भीरया जिह्वया वेदलक्षणया वाचा देवानाह्वय देवान् यज च । ' मर्त्यावतारस्त्विह रक्षोवधायैव न केवलं विभोः ' ( भा ० पु ० ५८१ ९ / ५ ) इति श्रीमद्भागवतमहापुराणवचनात् । दयानन्दस्तु – ' हे पावक, जनानां हृदयशोधक देव सुन्दर अग्ने विद्याप्रकाशक, मन्द्रया आनन्दसाघ- समागम वित्र्या जिह्वया सत्यप्रियवाण्या रोचिषा प्रकाशेन देवान् विदुषो दिव्यगुणान् वा आवक्षि उपदिशसि यक्षि करोषि ' इति, तदपि यत्किञ्चित् गौणतरार्थाश्रयणान्निरर्थकत्वाच्च । नहि व्यवहारानुवादाय आम्नायः प्रवर्तते, अप्राप्त कार्यार्थत्वेनैव तत्सार्थक्यात्, ' आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् ' ( मी ० सू ० १ २ १ ) इति न्यायात् ॥ ८ ॥
95
पृष्ठ 126
पाठ पढ़ें पाठ छिपाएँ
९ ० शुक्लयजुर्वेदसंहिता [ अ ० १७
स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाँ २॥ इ॒हाव॑ह । उप॑ य॒ज्ञ ह॒विश्च॑ नः ॥ ९ ॥
1 मन्त्रार्थ - हे शोधक दीप्तिमान् अग्निदेव, तुम हमारे इस यज्ञ में देवताओं को बुलाओ, हमारी यज्ञ में बी हुई आहुति के समीप देवताओं को लाओ ॥ ९ ॥
गायत्री आग्नेयी मेधातिथिदृष्टा । हे पावक पावयितः, हे दीदिवः, दिदेवेति दीदिवान्, तत्सम्बुद्धी धातो हे. दीप्तिमन् । ' दिवु क्रीडादिषु ' छन्दसि भूतसामान्ये लिट्, ' कसुश्च ' ( पा ० सू ० ३ | २ | १०७ ) इति कसुः, ' लिटि, रनभ्यासस्य ' ( पा ० सू ० ६ ११८ ) इति द्वित्वम्, ' तुजादीनां दीर्घोऽभ्यासस्य ' ( पा ० सू ० ६ ११७ ) इत्याभ्यासदीर्घः यज्ञं ' लोपो व्योर्वलि ' ( पा ० सू ० ६ | १ | ६६ ) इति वलोपः । हे अग्ने, इह नोऽस्माकं यज्ञे देवान् आवह आनय । उप यज्ञस्य समीपं नोऽस्माकं हविश्व देवान् आवह प्रापय । अध्यात्मपक्षे --- हे अग्ने परमेश्वर, पावक पावयितः, हे दीदिवः, देवान् आवह देवान् यज । दयानन्दस्तु - ' हे पावक दीदिवः, तेजस्विन् शत्रुदाहक! इह संसारे यज्ञं गृहाश्रमं देवान् विदुषो दिव्यगुणान् वा नो s स्मभ्यमुपावह ' इति, तदपि यत्किञ्चित्, गौणार्थाश्रयणस्य निर्मूलत्वात् ॥ ९ ॥
पा॒व॒क्रया॒ यश्च॒तय॑स्या कृपा शाम॑न्न॒रुव उ॒षसो न भानुना॑ । तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घुणेन त॑तृषा॒णो अ॒जर॑ः ॥ १० ॥
मन्त्रार्थ - ये अग्निदेव, पवित्र करने वाले, दृढ़ चयन करने वाले सामर्थ्य से पृथ्वी पर उसी प्रकार शोभा को प्राप्त करते हैं, जैसे उषाकाल अपने प्रकाश से शोभायमान होता है । ये अग्निदेव पूर्णाहुति के पान की इच्छा करने वाले, जरारहित, युद्ध सहायता गगन में कुशल घोड़ों से में लेने वाले, शत्रुओं का नाश करते हुए प्रकाशमान होते हैं । इस अग्निदेव को हम बुलाते हैं ॥ १० ॥
जगती आग्नेयी भरद्वाजदृष्टा । पावकया पावयित्र्या चितयन्त्या चितं करोति चितयति 2 चितयतीति चितयन्ती तथा परिदृढचयकारिण्या कृपासमर्थया दीप्त्या वा । ' कृपू सामर्थ्य ' किपि तृतीया । क्षामत् पृथिव्याम् । क्षामेति पृथिवीनाम । योऽग्निः, रुरुचे दीप्यते । उषसो न भानुना उषसो ज्योतिषा इवेति शोभने रोचने दृष्टान्तः । यथा प्रातः कालाः शोभनेन भानुना रोचन्ते, तद्वत् । किञ्च यश्चाग्निः घृणिः । घृणिरिति दीप्तिनाम । जिघर्तीति घृणि: । ' घृ क्षरणदीप्त्योः ' ' घृणिपृश्नि " ( उ ० ४ | ५३ ) इत्यादिना निपातितः । विभक्तेः ' सुपां सुलुक् । ( पा ० सू ० ७ | १ | ३ ९ ) इति से आदेशः । घृणिना दीप्त्या आसमन्ताद् नु निश्चितं रुरुचे इत्यनुषङ्गः । नकारश्चार्थः । एतस्य एतीत्येतशो गमनकुशलोऽश्वः, तस्य यामन् यामनि नियामके रणे युद्धे तूर्वन् परबलानि हिंसन् । न इवार्थे शत्रून हिंसन्निव रोचते । यद्वा यामन्शब्दः कर्मवाचकः । नु अनर्थकं पादपूरणार्थम् । यामनि कर्मणि तुर्वन्न त्वरमाण इव एतस्य अश्वस्य रणे रमणीये पदे आहितोऽध्वर्युणा । तथा ततृषाण: ' त्रितृषा पिपासायाम् ' | ' बहुलं छन्दसि ' ( पा ० सू ० २ | ४ | ७६ ) बाहुलकात् शानचि श्लो द्वित्वे रूपम् । पूर्णाहुति पिपासुरित्यर्थः । अजरो जरारहितः । य ईदृशोऽग्निस्तं कृषाम इत्यर्थः । यद्वा यश्व यामन् आधानकर्मणि तुर्वन्न त्वरमाण इव एतशस्य आज्यस्य रणे रमणीये पदे आधीयतेऽध्वर्युणा; आहितश्च यो घृणेन घृणे दीप्तः । विभक्तेः शे । नेत्यनर्थकः । ततृषाणः, तृष्यन् पिपासुः पूर्णाहुतिम् । पूर्णाहुत्या तं तत्र शमयन्ति । पीत्वा च अजरः सम्पाद्यते तमवकादिभिः शमयाम इति शेषः ।
पृष्ठ 127
पाठ पढ़ें पाठ छिपाएँ
म ० १०-११ ] वेदार्थ पारिजातभाष्यसहिता ९ १ योऽग्निः पावकया पावयित्र्या चितयन्त्या चेतयित्र्या चितं दृढं चयनं कुर्वाणया वा कृपाकल्पनया सामर्थ्येन युक्तः सन् क्षामन् क्षाम्णि पृथिव्यां रुरुचे दीप्तवान्, शोभते वा । तत्र दृष्टान्तः - उषसो न यथा उषसः प्रातःकाला भानुना प्रकाशेन दीप्यन्ते, तद्वत् । किञ्च योऽग्निः, एतशस्य गमन कुशलस्य अश्वस्य यामन् यामनि नियामके रणे युद्धे तून परबलानि हिसन्निव आघृणे सर्वतो दीप्यते खलु । यथा लोके शीघ्रगमनस्वभावमश्वं वामहस्तगतेन खलीनेन दृढं नियम्य रणे प्रवर्तमानः पुरुषः परबलं हिंसन्नत्यन्तं त्वरते, एवमयमग्निः प्रज्वलति । न कदाचिज्जीर्यति नाप्यसौ तृष्णायुक्तो भवति, किन्तु तृप्त इति काण्वभाष्ये सायणाचार्यः । अध्यात्मपक्षे - योऽग्निः श्रीरामः परमेश्वरः पावकया पावयित्र्या चितयन्त्या चेतयित्र्या कृपा कृपया कल्पनया सामर्थ्येन दीप्त्या वा युक्तः सन् क्षामन् पृथिव्यां रुरुचे रोचते । क इव? भानुना सूर्येण उषसः प्रातःकाला sa | वाग्निः श्रीरामो घृणे न घृणे घृणिना दीप्त्या आसमन्तात् नु निश्चितं रुरुचे । नकारश्चार्थः । किं कुर्वन्? एतशस्य युद्धकुशलस्य रावणादेर्यामनि नियामके रणे तूर्वन् तद्वलानि हिंसन् । नेत्यनर्थकः । यद्वा हिंसन्निव वस्तुतो हतेभ्यस्तेभ्यः स्वर्गात प्रयच्छन् । ततृषाणो न तृष्यन्निव परकीय सैन्यार्णवं पिबतीति शेषः । अजरो जरादि-रहितः । तं भगवन्तं वयमाश्रयाम इत्यर्थः । दयानन्दस्तु – ' यः पावकया चेतनताकारिण्या कृपाशक्त्या वर्तमानः सेनापतिर्भानुना दीप्त्या प्रभात इव क्षामन् राज्यभूमी रुरुचे रोचते, यश्च यामन् मार्गे प्रहरे वा एतशस्य अश्वस्य बलानि तु शीघ्रं तुर्वन् मारयति, न तथैव घृणे प्रदीप्ते रणे युद्धे ततृषाणो न तृष्यन्निव अजरोऽजेयो युवा आसमन्ताद् भवति स राज्यार्हो भवति ' इति, तदपि यत्किञ्चित् सेनापतेः पावयित्र्या शक्तेः साधनीयत्वासम्भवात् । बलानीति पदं तु मन्त्रे नास्त्येव । स राज्य
कतुं योग्य इत्यपि मन्त्रे नास्ति । ततृषाणः पदस्यापि विसङ्गतिरेव ॥ १० ॥
नम॑स्ते॒ हर॑से शोचिषे॒ नम॑स्ते अस्त्व॒षे । अ॒न्या॑स्ते अ॒स्मत्त॑पन्तु हे॒तय॑ः पाव॒को अ॒स्मभ्य॑ शि॒वो भ॑व ॥ ११ ॥
मन्त्रार्थ - हे अग्निदेव, तुम्हारी सब रसों का आकर्षण करने वाली तेजस्विनी ज्वाला को हम प्रणाम करते हैं । तुम्हारे पदार्थप्रकाशक तेज को हमारा प्रणाम । आपकी यह ज्वाला हमको छोड़कर दूसरों के लिये तापदायक हो, हमारे लिये तो चित्त की शोधक और कल्याणकारक हो ॥ ११ ॥
' दधि मधुघृतं पाया समासिच्य स्थाल्यां वा महामुख्यां कुशमुष्टि चोपर्युभयमादाय चिस्यारोहणं नमस्त इति ' ( का ० श्रौ ० १८।३।१० ) । वारण्यां पायां महामुख्यां स्थाल्यां वा दध्यादीन् कृत्वा तदुपरि दर्भमुष्टि निदध्यात् । हिरण्यशकलसहितं स्रुक्स्थमाज्यं दधिमधुघृतकुशमुष्टियुता पात्री चैतद्द्वयमादाय नमस्त इति मन्त्रेण अध्वर्युश्चित्या-ग्निमारोहति । ब्रह्मयजमानौ तु अग्नेर्दक्षिणत उपविशत इति सूत्रार्थः । ' आग्नेयी बृहती लोपामुद्रादृष्टा । हे अग्ने, ते तव शोचिषे शोचनहेतवे शोषणहेतवे वा तेजसे नमोऽस्तु । कीदृशाय शोचिषे? तत्राह - हरस इति । हरति सर्व रसानिति हरस्तस्मै, ' सर्वधातुभ्योऽसुन् ' ( उ ० ४। १ ९ ० ) इति हरतेरसुन् । ते तव अर्चिषे पदार्थप्रकाशकाय तेजसे नमोऽस्तु । ते तव तयोऽस्त्राणि अस्मत्तोऽन्यान् विरोधिनस्त पन्तु । त्वं चास्मभ्यं पावकः सन् शिवो भव । अत्र ब्राह्मणम् — ‘ उपवसथीयेऽहन् प्रातरुदित आदित्ये । वाचं विसृजते वाचं विसृज्य पञ्चगृहीतमाज्यं गृह्णीते तत्र पञ्च हिरण्यशकलान् प्रास्यत्यथैतत्त्रयं समासिक्तं भवति दधि मधुघृतं पात्र्यां वा स्थाल्यां वोरुबिल्यां
पृष्ठ 128
पाठ पढ़ें पाठ छिपाएँ
९ २ शुक्लयजुर्वेदसंहिता [ [ अ ] ० १७ उप-तदुपरिष्टाद्दर्भमुष्टि निदधाति ' ( श ० ९ | २ | १ | १ ) । औपवसथ्य दिवसात् प्राचीने दिवसे कर्तव्यं प्रयोगमभिधाय इति शेषः । वसथीयेऽहनि कर्तव्यमभिधत्ते - उपवसथीय इत्यादिना । प्रातरुदित आदित्ये वाचं विसृजते यजमान वाग्विसर्जना-वाचं विसृज्य इत्यत्र पूर्वकालमात्रे क्त्वा । नहि तत्र पूर्वोत्तरक्रिययोः समानकर्तृत्वम् । यजमानस्य अन्यत् स्पष्टम् । ' अथाग्नि-दध्वर्यो राज्यग्रहणादिति । पात्री शरावाकारा, स्थाली पिठराकारा, उरुबिली महामुखी । अलं यद्धि -मारोहति । नमस्ते हरसे शोचिषे नमस्ते अस्त्वचिष इत्यत्रेष सर्वोऽग्निः संस्कृतः वा स एषोऽत्र हिनस्ति तस्या तथो हैनमेष एतैर्न याद्यं जिहिंसिषेद्य वा एष हिनस्ति हरसा वैन, शोचिषा वाचिषा ९ २ १ २ ) । दर्भमुष्टिनिधानानन्तरं हिनस्त्यन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्य शिवो भव इति ' ( श ० मन्त्रस्य पूर्वार्धस्य पाठे तदाज्यं दध्यादि चादाय नमस्त इति मन्त्रेण अग्निमारोहेत् । आरोहणे ' नमस्ते ' इत्यस्य कृतसंस्कारः, यद्वस्तु प्रयोजनमाह — अत्रैष सर्वोऽग्निरिति । अत्र अस्मिन्नवसरे एषोऽग्निः सर्वः संस्कृतः साकल्येन । स च यं हिनस्ति, हिंस्यात् यं वा जिहिंसिषेत्, तस्मै अलं समर्थः । हननेच्छाया हननस्य चेत्युभयस्यापि समर्थः हिनस्ति । एनं हरसा शोचिषा अर्चिषा वा हिनस्ति । अतश्चास्य मन्त्रभागस्य पाठेन एनमध्वर्युमेतैर्हरःप्रभृतिभिर्न हर इति हरणसमर्थं तेजः, शोचिरिति शोचनसमर्थम् अचिरिति तदहतं प्रशस्तं तेजः । स्पष्टमन्यत् । अध्यात्मपक्षे - हे अग्ने श्रीराम, ते तव हरसे सर्व संहर्त्रे शोचिषे पापसिन्धुशोषणकर्त्रे अहताय तेजसे नमोस्तु | तव तयोस्त्राणि, अस्मत्तोऽन्यान् अस्मच्छत्रून् तपन्तु । अस्मभ्यं तु शिवो भव । सत्कार-दयानन्दस्तु - हे सभापते दुःखहर्त्रे, ते तुभ्यं नमः सत्कारोऽस्तु । शोचिषे पवित्राय पावकः शोधकस्त्वमस्मभ्यं अर्चिषे योग्याय ते तुभ्यं नमोऽस्तु । ते हेतयः शस्त्रोपेतायै सेनाये अस्मत्तोऽन्यान् शत्रून् तपन्तु । -- इत्यादि-शिवो न्यायकारी भव ' इति, तदपि यत्किञ्चित् सम्बोधनस्य निर्मूलत्वात् । नमः हेतयः शिवः शब्दानां व्याख्यानस्य निर्मूलत्वाच्च ॥ ११ ॥
नृ॒षदे॒ वेड॑प्सु॒षदे॒ वेड् ब्र॑हि॑षते॒ वेड् व॑नस वेट् स्व॒वद॒ वेट् ॥ १२ ॥
मन्त्रार्थ - यह अग्नि मनुष्यों में जठराग्नि के रूप में स्थित प्राणरूप है, उसकी प्रीति के के रूप निमित्त में स्थित यह आहुति है, जो दी जाती है, यह सम्यक् रूप से गृहीत हो । जो अग्नि समुद्र आदि के जल के के रूप बीच में वाडवाग्नि स्थित है और जो अग्नि स्वर्गलोक अग्नि यज्ञीय कुशा आदि के ऊपर निवास करती है, वृक्षसमूह में दावाग्नि प्रकार गृहीत हो ॥ १२ ॥
में प्रधान सूर्य के नाम से प्रसिद्ध है, इन सबके निमित्त हम यह आहुति देते हैं । यह भली का ० श्री ० ' स्वयमातृष्णायां पञ्चगृहीतं जुहोति नाभिवद्धिरण्यादर्शनं च नृषदे वेडिति प्रतिमन्त्रम् पञ्चगृहीतमाज्यं ' ( नृषदे १८ | ३ | ११ ) | अध्वर्युश्वित्याग्निमारुह्य स्वयमातृष्णाया इष्टकाया उपरि नाभिव्याघारणवत् । आदी नाभेर्दक्षिण से तत इत्यादिभिः पञ्चभिर्मन्त्रैः प्रतिमन्त्रं हिरण्यदर्शनं वर्जयित्वा जुहुयादिति सूत्रार्थः श्रोण्यंसेषु " ( का ० उत्तरश्रोण्यां ततो दक्षिणश्रोण्यां तत उत्तरेंऽसे ततो मध्ये जुहुयात् । अयं क्रमः हिरण्यादर्शनशब्देन ' नाभ्याः निषेधति । पञ्चा-श्रौ ० ५ | ४ | १२ ) इत्यत्र निर्दिष्टः । तत्र हिरण्यं पश्यन्नित्यप्युक्तम् । तदेवात्र देवीबृहती । नृषदे नृषु मनुष्येषु ग्नेयानि यजूंषि । आद्या देवीबृहती । ततस्तिस्रो देव्यः पङ्क्तयः । अन्त्या परोक्षं वषट्कारः । इत्येकं यजुः । जठराग्निरूपेण तिष्ठतीति नृषत् प्राणः, तस्मै । वेट् हविर्दत्तमस्तु । वेडिति । इति द्वितीयम् । बर्हिषदे बहिष असुदे अ उदकेषु और्वरूपेण सीदतीति अप्सुषत् तस्मै वेट् हविर्दत्तमस्तु बर्हिषत्, तस्मै वेद हविर्दत्तमस्तु । इति यज्ञे आहवनीयादिरूपेण सीदतीति बर्हिषत्, यद्वा बहिषु ओषधोषु सीदतीति
पृष्ठ 129
पाठ पढ़ें पाठ छिपाएँ
म ० १२ ] वेदार्थपारिजातभाष्यसहिता ९ ३ तृतीयम् । वनसदे वने वृक्षसमूहे दावाग्निरूपेण सीदतीति वनसत्तस्मे वेट् हविर्दत्तमस्तु । इति चतुर्थम् । स्वविंदे स्वः स्वर्गे आदित्यरूपेण विद्यते सीदतीति स्ववित्, यद्वा स्वरादित्यं विन्दते योऽग्निः स स्ववित् । स्वशब्दोऽव्ययमत्रा-दित्यवचनः । यद्वा स्व आदित्ये विद्यते स स्ववित् तस्मै वेट् हविर्दत्तमस्तु । इति पञ्चमम् । तानोमान पञ्च यजूंषि । अत्र ब्राह्मणम् —'आरुह्याग्नि, स्वयमातृष्णां व्याघारयति । आज्येन पञ्चगृहीतेन तस्योक्तो बन्धुः ' ( श ० ९ ।२ | १ | ३ ) | प्रथममध्यमोत्तमासु चितिषु तिस्रः स्वप्रमातृष्णा उपचीयन्ते । तत्र तृतीयायां स्वयमातृष्णायां व्याघारणक्रियाया ईप्सिततमत्वात् तत्र द्वितीया । व्याधारणं नाम एकस्मात् कोणात् कोणान्तरं प्रति आज्यधारा-क्षारणम् । तच्च व्याधारणं पञ्चगृहीतेनाज्येन क्रियत इति तस्य उभयस्य ब्राह्मणं प्रागुक्तमित्याह - आज्येनेति । ' स्वयमातृण्णां व्याधारयति । प्राणः स्वयमातृष्णा प्राणे तदन्नं दधाति ' ( श ० ९ | २ | १ | ४ ) | व्याघारणस्य स्वय-मातृष्णाधारकत्वं प्रशंसति - स्वयमातृष्णामिति । स्वयमातृष्णा प्राणः । तत्र आघारणेन आज्यरूपमन्नमग्निसम्ब-न्धिनि प्राणे निहितवान् भवति । स्वयमातृष्णायाः प्राणत्वम् ' प्राणो वे स्वयमातृष्णा प्राणो ह्येवैतत् स्वयमात्मान-मातृन्ते ' ( श ० ७ | ४ | २ ( २ ) इति श्रुतौ व्याख्यातम् । ' यद्वेव स्वयमातृष्णां व्याघारयति । उत्तरवेदिषाग्नेरथ याममूं पूर्वं व्याघारयत्यध्वरस्य साथ हैषाग्नेस्तामेतद् व्याघारयति ' ( श ० ९ २ | १ | ५ ) प्रकारान्तरेणापि स्वय-मातृष्णायां व्याधारणमुपपादयति - यद्वेवेति । एषा स्वयमातृष्णा अग्नेरुत्तरवेदिः खलु । ' याममूं ' बुद्धौ परामर्शः । पूर्वामुत्तरवेदि व्याघारयति । सा पुनः सोमयागस्य । अतोऽस्यां स्वयमातृष्णायां व्याघारणेन अग्नेस्तामुत्तरवेदि व्याघारयति । ' पश्यंस्तत्र हिरण्यं व्याघारयति । प्रत्यक्षं वै तद्यत् पश्यति प्रत्यक्ष, सोत्तरवेदिः प्रास्ता एवेह भवन्ति परोक्षं वै तद्यत् प्रास्ताः परोक्षमियमुत्तरवेदिः ' ( श ० २ ९ २ १ ( ६ ) । नतु यद्येषा स्वयमातृष्णा अग्नेरुत्तरवेदि-स्तर्हि तद्वयाघारणं पूर्वोत्तरवेदिवद् हिरण्यदर्शनादिपूर्वकं भवितव्यमित्यत आह- पश्यंस्तत्रेति । प्रत्यक्षं सा उत्तरवेदिः । उत्तरवेदिसंयुक्तमन्त्रादिनिर्मितत्वाभावेन औपचारिकोत्तरवेदित्वाद् व्याघारणमित्यर्थः । ' स्वाहाकारेण तां व्याघारयति । प्रत्यक्षं वै तद्यत् स्वाहाकारः प्रत्यक्ष सोत्तरवेदिर्वेकारेणेमां परोक्षं वे तद्यद्वेट्कारः परोक्षमियमुत्तरवेदिराज्येनाज्येन ह्यत्तरवेदिमाघारयन्ति पञ्चगृहीतेन पञ्चगृहोतेन ह्यत्तरवेदि व्याघारयन्ति व्यतिहारं व्यतिहार, ह्युत्तरवेदि व्यावारयन्ति ' ( श ० ९ २ १/७ ) | स्वाहाकारस्य सर्वत्र हविः-प्रदानार्थसाधनत्वेन प्रत्यक्षत्वम्, वेट्कारस्य तु तथात्वाभावेन परोक्षत्वम् । आज्येन पञ्चगृहीतेन व्यतिहार-मुत्तरवेदेर्व्याघारणात् तथैवास्याप्युत्तरवेदित्वेन व्याघारणमुपपन्नमित्याह - आज्येनेत्यादिना व्यतिहारमित्य-न्तेन । पूर्व दक्षिणांसे व्याधारणम्, तत् उत्तरश्रोणी, पश्चाद्दक्षिणश्रोणी, तत उत्तरांसे, ततो मध्ये - इत्ययं क्रमो विवक्षित | ' नृषदे वेडिति । प्राणो वै नृषन्मनुष्या नरस्तद्योऽयं प्राणोऽग्निस्तमेतत्प्रीणात्य सुषदे वेडिति योऽप्स्वग्नि-तमेतत्प्रीणाति बर्हिषदे वेडिति य ओषधिष्वग्निस्तमेतत्प्रीणाति वनसदे वेडिति यो वनस्पतिष्वग्निस्तमेतत् प्रीणाति स्वर्विदे वेडित्ययमग्निः स्वविदिममेवैतदग्नि प्रीणाति ' ( श ० ९ २ १२८ ) । व्याघारणमन्त्रान् प्रदर्शयन् व्याचष्टे - नृषदे वेडिति । वेडिति सम्प्रदानार्थीयो निपातः । तथा च मनुष्येषु वर्तमानाय प्राणरूपायाग्नये वेट्, इदमाज्यरूपं हविर्दत्तमित्यर्थः । अयमग्निः स्ववित् स्वः स्वर्ग विन्दते लम्भयतीत्यन्तर्भावितग्यर्थः, स्ववित् । स्पष्टार्थ -मन्यत् । ' यद्वेवाह नृषदे वेदप्सु दे वेडित्यस्यैवैतान्यग्नेर्नामानि तान्येतत्प्रीणाति तानि हविषा देवतां करोति वे देवता हविर्गृह्यते सा देवता न सा यस्यै न गृह्यतेऽथो एतानेवैतदग्नीनस्मिन्नग्नौ दधाति ' ( श ० ९।२।१।९ ) } प्रकारान्तरेण मन्त्राणामभिधानं प्रशंसति -- यद्वेवाहेति । एतानि नृषदित्यादोन्यस्यैव सञ्चिताग्नेर्नामा नि, अस्य सर्वात्मकत्वेन मनुष्यादिस्थिताग्न्यात्मकत्वात् । अत एतेन तान्येव नामानि प्रीणितवान् भवति । न केवलं तेषां
पृष्ठ 130
पाठ पढ़ें पाठ छिपाएँ
९ ४ शुक्ल यजुर्वेद संहिता [ अ ० १७ कृतवान् भवति । प्रीणनमपि तु देवतात्वसम्पत्तिरपीत्याह - तानीति । तदर्थहविर्ग्रहणात् निदधाति तानि नामानि । देवताः किञ्चतेन नृषदादिशब्दाभिधेयानग्नीन् नामग्राहमस्मिन् सञ्चितेऽनौ हविः अध्यात्मपक्षे - नृषदे मनुष्येषु प्राणरूपेण आत्मरूपेण च स्थिताय परमात्मने , बर्हिषदे, यज्ञेषु वेट् आहवनीयादिरूपेण अस्मत्समर्पित पत्रपुष्पफलादिकं वा दत्तमस्तु | अप्सुषदे वरुणरूपेण अन्तर्यामिरूपेण च स्थिताय वा स्थिताय भगवते वेडस्तु | स्थिताय वेडस्तु । वनसदे वनाधिष्ठातृदेवतारूपेण तदन्तर्यामिरूपेण श्रीरामरूपेण सर्वत्र तस्यैव स्थितत्वात् तस्य स्वविदे मोक्षादिप्रापकाय परमात्मने वेडस्तु । उपलक्षणमात्रमेतत् । सर्वरूपेण सार्वात्म्यमुच्यते मन्त्रेणानेनेति । भव, जलस्थनौकादिस्थितये दयानन्दस्तु - हे ' सभापते, त्वं नायकस्यपुरुषभवनाय, वेट्, न्यायासनस्थो वनस्थेभ्य वेट् न्यायाविष्टो भव, स्वर्विदे न्यायासनस्यो भव, प्रजावृद्धिहेतुव्यवहारस्थितये वेट् अधिष्ठाता भव निर्मूलत्वात्, वेट्पदानां विविधार्थताया-सुखाभिज्ञाय उत्साह विसिष्टो भव ' इति, तदपि यत्किञ्चित् सम्बोधनस्य चिन्त्यत्वाच्च ॥ १२ ॥
ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाथ् संवत्स॒रोण॒मुप॑ भा॒गमास॑ते । अह्रुतादो ' ह॒विषो ' य॒ज्ञे अस्मिन् स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑ ॥ १३ ॥
चयनरूप यज्ञ मन्त्रार्थ - जो देवता बिना स्वाहाकार किये अन्न का भक्षण करते हैं, वे प्राणरूप देवता इस करें । जो देवता यजन में मधु और घृत का अर्थात् मधु घृत दधिरूप हवि का भाग स्वयं हो स्वाहाकार के का बिना सेवन पान करें ॥ १३ ॥
करने योग्य देवताओं के मध्य में दीप्तिमान् हैं, वे संवत्सर में होने वाले यज्ञ के भाग ) । पात्र्यां ' समासक्तान् कुशैः प्रोक्षति सपरिश्रित्कं बाह्येन च ये देवा इति ' ( का ० प्रोक्षति श्री ० ऋद्वयेनेति १८ | ३ | १२ सूत्रार्थः । सिक्तान् दधिमधुघृतान् कुशैः गृहीत्वा परिश्रित्सहितं सपक्षपुच्छाग्नि । द्वे मध्ये ऋचो बहिश्च जगत्यो प्राणदेवत्ये । ये देवाः प्राणा एतच्च ब्राह्मणे स्पष्टम् । ब्राह्मणं च मन्त्रव्याख्यानानन्तरमुद्धरिष्यते यज्ञिया अतिशयेन यज्ञार्हाः । संवत्सरीणं देवानाम्, उत्कृष्टा इति शेषः । यज्ञियानां यज्ञार्हाणां देवानां मध्ये खः । संवत्सरं हि भृत्वाग्नि-संवत्सरेण प्राप्यत इति संवत्सरीणः, ' संपरिपूर्वात् ख च ' ( पा ० सू ० ५ ११ ९ २ ) इति । श्चीयते । तं संवत्सरनिर्वृतं भागमुपासते । कथंभूताः प्राणाः? अहुतादः, अन्ये हि देवा यज्ञे अग्निप्राप्तामाहुतिमदन्ति स्वयं पिबन्तु, स्वाहा-प्राणास्तु साक्षादन्नमदन्ति । ते प्राणा हविषो मधुनो घृतस्य दघ्नश्च स्वमंशमस्मिन् प्राणादयश्च । दीव्यन्तीति कारं विनैवेति शेषः । द्विविधाः खलु देवा: - हविर्भुज इन्द्रवरुणादयः, शरीरनिर्वाहकाः । उभयेऽप्येते यज्ञियाः । तत्र इन्द्रादयो यज्ञपूज्यत्वाद् यज्ञियाः । प्राणादयस्तु व्युत्पत्त्या उभयत्र देवशब्दप्रवृत्तिः मध्येऽतिशयेन यज्ञिया यज्ञयोग्या देवा दीव्यमानाः यज्ञेन तेषां पूजकत्वाद् यज्ञियाः । यज्ञियानां यज्ञार्हाणां देवानां इन्द्रादयः तद्भिन्ना ये साक्षाददन्ति प्राणाः । अहुतादो हुतं स्वाहाकारेण समर्पितं हविरदन्ति ये ते हुताद भागमुपासते, तेऽस्मिन् चयनाख्ये तेऽहुतादः प्राणादेवाः । ये संवत्सरेण साध्यं संवत्सरेण निर्वृत्तं वा संवत्सरीणं स्वाहाकारार्पणेन विनैव स्वयमेव यज्ञे हविषो वीरूपस्य मधुनो घृतस्य दध्नस्तं भागं स्वयं पिबन्तु । मदीयेन दधिमधुघृताश स्वीकुर्वन्त्वित्यर्थः । अत्र ब्राह्मणम् – ' पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्चवः संवत्सरः संवत्सरोऽग्निर्या-वानग्निर्यावत्यस्य मात्रा तावतैवैनमेतदन्नेन प्रीणाति ' ( श ० ९ २ | १ | १० ) । ' अथैन, समुक्षति । दध्ना मधुना घृतेन