वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 131–140
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 131–140
पृष्ठ 131
पाठ पढ़ें पाठ छिपाएँ
म ० १३-१४ ] वेदार्थ पारिजातभाष्यसहिता ९ ५ जात एष एतद्यच्चीयते स एष सर्वस्मा अन्नाय जायते सर्वं वेतदन्नं यद्धि मधु घृत, सर्वेणैवैनमेतदशेन प्रीणाति सर्वतः समुति सर्वत एवैनमेतत्सर्वेणानेन प्रीणाति ' ( श ० ९ २ | १ | ११ ) । ' यद्वेवेन समुक्षति । अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन् देवा एतद्रूपमुत्तममदधुस्तथैवास्मिन्नयमेतद्रूपमुत्तमं दधात्यन्नं वै रूपमेतदु परममन्नं यद्दधि मधुघृतं तद्यदेव परमं रूपं तदस्मिन्नेतदुत्तमं दधाति सर्वतः समुक्षत्यपि बाह्येन परिश्रितः सर्वत एवास्मिन्नेतद्रूपमुत्तमं दधाति दस्ते हि शुद्धा मेध्या अग्रेरग्र हि देवानाम् ' ( श ० ९ २ | १ | १२ ) | आहुतीनां पञ्चत्वसंख्या अग्नेः कार्त्स्न्येन प्रीतिहेतुर्भवतीत्याह - पञ्चैता इति । पञ्चगृहीतमाज्यं दध्यादिकं चेत्युभयमपि सञ्चिताग्नेरुपर्या-नीतं तत्राज्यस्य विनियोगोऽभिहितः । अवशिष्टस्य विनियोगमा हैकादश्या कण्डिकया - अथैनमिति । दध्यादीनां बहुत्वात् सर्वान्नत्वं विहितम् । तत्समुक्षणं परिश्रियो बाहिरपि कर्तव्यमित्याह - सर्वत इति । ' उपरिष्टाद्दर्भमुष्टि निदधाति ' ( श ० ९ २ १११ ) इत्युक्तान् दर्भान् समुक्षणे विनियुज्य प्रशंसति - दर्भेरिति । दध्यादिभिः समुक्षणेन अस्मिन् संस्कृतेऽग्नो उत्तमरूपनिधानं भवतीत्याह - यद्वेवेति । अन्नं वे रूपमित्यादिना परमरूपत्वमुपपाद्यते । अन्नं तावद्रूपकारणत्वाद्रूपम् रसातिशयवत्त्वाद् दध्यादीनि परमं रूपमित्यर्थः । ' ये देवा देवानाम् । यज्ञिया ज्ञानामिति देवा ह्येते देवानां यज्ञिया उ यज्ञियाना संवत्सरीणमुप भागमासत इति संवत्सरीण, ह्येत एवं भागमुपासतेऽहुतादो हविषो यज्ञे अस्मिन्नित्यहुतादो हि प्राणाः स्वयं पिबन्तु मधुनो घृतस्येति स्वयमस्य पिबन्तु मधुनच घृतस्य चेत्येतत् ' ( श ० ९ २ १ ११४ ) | अथ समुक्षणे मन्त्रं प्रदर्शयन् व्याचष्टे – ये देवा देवानामिति । देवानामपि देवा यज्ञियानां यज्ञार्हाणामपि तत्पूर्वकत्वकथनेन सर्वेषां यज्ञार्ह त्वमित्यर्थः । यज्ञियास्ते प्राणा इति यावत् । संवत्सरीणमुप भागमासते संवत्सरसम्बन्धिनं भागमुपासत इति यावत् । अस्मिन् यज्ञे एतस्य समुक्षणस्य संवत्सरक्रियमाणत्वात् संवत्सरीणे भागे प्राणा दध्यादीनहुतानेवादन्ति, अतोऽहुतादो हविष इत्युक्तम् । चतुर्थपादे मधुघृतस्येति कर्मणि षष्ठी मधु घृतम् । उपलक्षणमेतत् दयपि पिबन्त्विति यावत् । अध्यात्मरक्षे - ये देवानां प्रसिद्धानामिन्द्रादीनामपि देवाः, यज्ञियानां यज्ञार्हाणामपि यज्ञिया यजनार्हा ईश्वरावतारभूताः श्रीरामादयः संवत्सरीणं संवत्सरेण प्राप्तव्यं भागमुपासते, तेऽहुतादो होममन्तरैव सर्वात्मत्वेन सर्वान्तरात्मानः सन्तोऽदन्ति । तेऽस्मिन् अस्माभिः क्रियमाणे यज्ञे मधुनो घृतस्य हविषो मधुदधिघृतानि स्वयं पिबन्तु तेषां देवानामपि देवत्वात् । पूजायां वा बहुवचनम् । तथा च देवानां यज्ञार्हाणामपि यज्ञार्हः परमेश्वरः संवत्सरीणं संवत्सरोपलक्षितं तत्तत्कालप्राप्यभागं भजनीयं भक्तसमर्पितं भागमुपासते सेवन्ते, ते घृतस्य मधुनो घृतमधुतुल्यं प्रेमपरिप्लुतं भक्तसमर्पितं वस्तु पिबन्तु, स्वयमेव स्वातन्त्र्येणेत्यर्थः । दयानन्दस्तु - ' ये देवानां विदुषामहुतादोऽकृत होमानां पदार्थानां भोक्तारो देवा विद्वांसः, यज्ञियानां यज्ञकुशलानां मध्ये यज्ञिया योगाभ्यासादियज्ञयोग्या विद्वांसः संवत्सरं यावत्पुष्टं भागं भजनीयं परमात्मानमुपासते, तेऽस्मिन् यज्ञे समागमे मधुनो घृतस्य मधुनो जलस्य हवनार्हं पदार्थानां भागं पिबन्तु ' इति, तदपि विसङ्गतम्, मनुष्यभिन्नानां विशिष्टयोनीनां देवानां भूमिकायां साधितत्वात् । न च विद्वांसो मनुष्या हुतादो भवन्ति येषां व्यावृत्त्यर्थमहुताद इति विशेष्येत । परमात्मा कथं संवत्सरं यावत् पुष्यति? तस्य नित्यपुष्टत्वात् ॥। १३ ॥ ये दे॒वा दे॒वेष्वधि॑ि देव॒श्व॑माय॒न् ये ब्रह्म॑णः पुर एतारों ' अस्य । येभ्यो न धाम किञ्चन न ते दिवो न पृ॑थि॒व्या अधि॒ स्नुषु ॥ १४ ॥
ते पव॑ते॒ मन्त्रार्थ- -प्राण आदि देवताओं ने इन्द्र आदि देवताओं के बीच अधिष्ठातृत्व प्राप्त किया है, अर्थात् देवगणों प्रधान देवत्व पाया है । जो प्राण इस जीव के आगे गमन करते हैं, जिन प्राणों के बिना कोई भी शरीर चेष्टा नहीं कर सकता, वे प्राण न तो द्युलोक में हैं और न पृथ्वी पर ही । वे तो प्रत्येक इन्द्रिय में वर्तमान हैं ॥ १४ ॥
पृष्ठ 132
पाठ पढ़ें पाठ छिपाएँ
९ ६ शुक्लयजुर्वेदसंहितां [ अ ० १७ ये देवाः प्राणाः, देवेष्विन्द्रादिषु देवत्वमायन अधिष्ठातृत्वेन देवभावं प्राप्ताः " प्राणैरधिष्ठिता एव इन्द्रादि-विग्रहा व्यवहरन्तीत्यर्थः । किञ्चास्य भ्राम्यमाणस्य अग्नेर्ब्रह्मणः परिवृढस्य पुर एतारः पुरतो गन्तारः, निर्वाहका इति यावत् । न खलु प्राणैर्विना चीयमानोऽग्निर्निर्वोढुं शक्यते । यद्वा ब्रह्मणो जीवस्य वा पुर एतारः पुरोऽग्रे यन्तोति तथा । ' इण् गतौ ' इत्यस्मात् तृच्प्रत्ययः । ' प्राणा हि प्राणिनां पुरःसराः ' ( श ० २ | २ | १ | १५ ) इति श्रुतेः । येभ्य ऋते यान् प्राणान् विना किञ्चन धाम स्थानं शरीरं जन्म वा न पवते न चेष्टते, ' पूङ् गती ' भौवादिकस्य । अथवा ' पुत्र पवने ' विकरणव्यत्ययः, न पवते शुद्धं न भवतीत्यर्थः । इत्थंभूता ये प्राणा देवास्ते पुनः कासते? तत्राह - ते प्राणरूपा देवा न दिवो न दिवि स्वर्गे न सन्ति । सप्तम्यर्थे षष्ठी । न पृथिव्याः पृथिव्यामपि नैव सन्ति । यद्वा दिवः प्रदेशेषु पृथिव्याः प्रदेशेषु च न सन्ति । क तहि सन्तीति? तत्राह - स्नुषु अधि स्तुवन्ति क्षरन्ति यानि तानि स्तूनि स्रोतांसि चक्षुरादीनि प्राणायतनानि तेषु अधि अधिश्रित्य वर्तन्ते तेषूपलभ्यन्ते । स हि तेषां विशिष्ट: प्रदेशः । अत्र ब्राह्मणम् -'ये देवा देवेषु । अविदेवत्वमायन्निति देवा ह्येते देवेष्वधिदेवत्वमायन ये ब्रह्मणः पुर एतारो अस्येत्ययमग्निर्ब्रह्म तस्यैते पर एतारो येवो न ऋते पवते धाम किञ्चनेति नहि प्राणेभ्य ऋते पवते धाम किञ्चन न ते दिवो न पृथिव्या अधि स्तुष्विति नैव ते दिवि न पृथिव्यां यदेव प्राणभृत्तस्मिंस्त इत्येतत् ' ( श ० ९ | २ | १ | १५ ) | अथ द्वितीयमन्त्रं व्याचष्टे - ये देवा इति । ये देवा देवेष्वप्यधिदेवत्वं प्राप्नुयुः, एते देवाः प्राणाः । अधिका देवा अधिदेवास्तेषां भावस्तत्त्वम् आयन् आप्नुवन् तान् प्रति स्वेषामुपजीव्यत्वात् । अत उक्तम् - ये देवा देवेष्विति । द्वितीयपादे सर्वात्मकत्वं प्राणस्याह - ये ब्रह्मण इति । अत्र बृहत्त्वाद् ब्रह्मशब्देनाग्निरुक्तः । ये ब्रह्मणोने पर एतारोऽग्रे गन्तारः । येभ्यो विना किञ्चिदपि धाम शरीरं न प्रवर्तते, ते देवाः प्राणा दिव्यपि न सन्ति, पृथिव्यामपि न सन्ति किन्तु यदेव प्राणभृद्वस्तु तस्मिन् सन्ति । अध्यात्मपक्षे- ये देवाः प्राणा वागादयो मुख्यस्य प्राणस्य सूत्रात्महिरण्यगर्भरूपस्य अङ्गरूपा देवेष्व-ग्न्यादिष्वप्यधिदेवत्वमायन् । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु -- - ' ये देवाः पूर्णविद्वांसो देवेषु विद्वस्त्वाधिदेवत्वं सर्वोत्तमकक्षासु विराजमानं स्वगुणकर्म -स्वभावमान प्राप्नुवन्ति ये चास्य ब्रह्मणः परमेश्वरस्य पुर एतारः प्रथमप्रापकाः, यानन्तरा किञ्चन सुखस्थानं न पवते पवित्रं न भवति, ते दिवः सूर्यलोकस्य प्रदेशेष पृथिव्या अधिस्तुषु कस्मिश्चिद् भागे नाधिकं वसन्ति, किन्त्वीश्वरे स्थिरा भूत्वा अव्याहतत्या सर्वत्र विचरन्ति ' इति, तदपि सर्वं कल्पनामात्रम्, निर्मूलत्वात् । विद्वांसो विद्वस्त्यधिदेवत्वं सर्वोत्तमकक्षासु स्वगुणकर्मस्वभावमायन्नित्यस्य निर्मूलत्वात् तद्बोधकपदानां मन्त्रेऽभावात् । ' ब्रह्मणस्तानन्तरा न किञ्चन स्थानं पूयते ' इत्यप्यसाम्प्रतम्, मनुष्याणां परिच्छिन्नत्वेन सर्वधामपावकत्वानुपपत्तेः । न च विद्वांसो मनुष्या दिवि पृथिव्यां न तिष्ठन्ति मर्त्यलोक एव मनुष्याणां स्थितिदर्शनात् । परमात्मनि स्थिरात् ` कथमन्यत्र सर्वत्र अव्याहतत्या विचरन्ति, स्थिरस्य तदनुपपत्तेः ॥ १४ ॥
प्राणदा अ॑पादाव्या व॑व॒दाच॑रि॒वदाः । अ॒न्यस्ते ' अ॒स्मत्त॑पन्तु हे॒तयः पावको अ॒स्मभ्य॑ शि॒वो भ॑व ॥ १५ ॥
---मन्त्रार्थ - हे अग्निदेव, तुम प्राण को देने वाले, अपान को देने वाले, सारे शरीर में स्थित ध्यान वायु को देने वाले, बल और धन के दाता बनो । हमारे लिये चित्त के शोधक कल्याणकारी बनो, तुम्हारा ज्वालारूप आयुध हमसे दूर रह कर दूसरों को तापित करे ॥ १५ ॥
पृष्ठ 133
पाठ पढ़ें पाठ छिपाएँ
म०१५-१६ ] वेदार्थ पारिजातभाष्यसहिता ९ ७ ' प्राणदा इत्यवरोहति ' ( का ० श्री ० १८ | ३ | १३ ) । प्रोक्षणानन्तरमग्नेरवतरतीति सूत्रार्थः । अग्निदेवत्या द्वधिका बृहती द्वना पङ्क्तिर्वा । अष्टात्रिंशदक्षरत्वाद् विकल्पः । हे अग्ने, तव हेतयो ज्वाला अस्मदन्यान् तपन्तु । त्वमस्माकं पावक: शिवश्च भव । कीदृशस्त्वम्? प्राणदाः प्राणान् यजमानाय ददातीति प्राणदाः, प्राणं सुस्थिरं करोतीत्यर्थः । अपानदा अपानं ददातीति तथोक्तः । व्यानदा व्यानं सर्वशरीरसंचारिणं वायुं ददातीति तथोक्तः । वर्चोदा वर्चो बलं तेजोरूपं ददातीति तथोक्तः, ' तेजः पुरीषयोर्वर्चः ' ( अ ० को ० ३।३।२३१ ) इति कोषात् । अन्नस्य दाता वा । ' वर्च इति अन्ननामसु ' ( निघ ० २ | ७ | २६ ) । वरिवोदा वरिवो धनं ददातीति तथोक्तः । ' वरिवइति धननामसु ' ( निघ ० २ | १० | ५ ) । अत्र ब्राह्मणम् — ' अथ प्रत्यवरोहति । प्राणदा अपानदा इति सर्वे हैते प्राणा योऽयमग्निश्चितः स यदेता-मत्रात्मनः परिदां न वदेतात्र हैवास्यैष प्राणान् वृञ्जीताथ यदेतामत्रात्मनः परिदां वदते तथो हास्यैष प्राणान्न वृक्ते प्राणदा अपानदा व्यानदा वर्चोदा वरिवोदा इत्येतद्दा मेऽसीत्येवैतदाहान्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्य ं, शिवो भवेति ' ( श ० ९ २ | १ | १७ ) । योऽयमग्निश्चयनेन संस्कृतः, एष सर्वे प्राणाः प्रजापत्यात्मकत्वात् सर्वेषां प्राणा इत्यर्थः । अतः स अध्वर्युरत्रावसरे यदि प्राणदा इत्येतन्मन्त्ररूपामात्मनः परिदां प्राणरक्षां न वदेत्, तर्हि एषोऽग्निरस्याध्वर्योः प्राणान् वृञ्जीत वर्जयेदपगमयेदित्यर्थः । प्राणदा इत्यादिमन्त्ररूपपरिदाभिधाने तु तथा न कुर्यात् । इत्थं मन्त्रस्योपयोगमभिधाय मन्त्रं व्याचष्टे - प्राणदा इति । एतद्दा मेऽसीति । एतेन मदर्थमेषां प्राणादीनां दातासीत्येतदेवोक्तं भवति, न पुनरन्यार्थमित्यर्थः । अन्यत् पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे - हे अग्ने परमेश्वर, त्वं प्राणादीनां दातासि तेन तव हेतयोऽस्त्राणि रोगादिरूपाणि अस्मतोऽन्यान् तपन्तु । ' न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितो ॥ ' ( केनो ० २२ २ ) इति श्रुत्या कर्मफलदातृत्वाच्च परमेश्वरादेव भोगायतनभोगसाधनादिप्राप्तिसम्भवात् । ----दयानन्दस्तु - ' हे विद्वन् हे राजन्, ते त्वदीया उन्नतयोऽस्त्राणि च नोऽस्मभ्यं प्राणदा जीवनदाः, अपानदा दुःखापनोदिन्यः, व्यानदा व्याप्तिविज्ञानदाः, वर्चोदा अध्ययन हेतुदाः, वरिवोदाः सत्यधर्मदा " इत्यादि-कम् ' तदपि विसङ्गतम्, व्युत्क्रमान्वयानुपपतेः " नह्यन्नतीनामस्त्राणां प्राणादिदातृत्वं सम्भवति । पदार्था अपि प्रमाणशून्या एव ॥ १५ ॥
अ॒ग्निस्ति॒ग्मेन॑ शोचिषि॒ यास॒द्विश्वं॒ न्यत्रण॑म् । अ॒ग्निर्नो वनते र॒यिम् ॥ १६ ॥
मन्त्रार्थं -- यह अग्निदेवता अपने तीक्ष्ण तेज से यज्ञविघ्नकारी राक्षस आदि को दूर भगा दे । यह अग्नि हमारे लिये धन का दाता हो ॥ १६ ॥
' पञ्चगृहीतं जुहोत्यग्निस्तिग्मेनेत्यृचा ' ( का ० श्र ० १८ | ३ | १७ ) | प्रवत्सादनानन्तरं शालायामागत्य पञ्चगृहीतमाज्यं शालाद्वार्ये जुहुयादिति सूत्रार्थः । आग्नेयी गायत्री भरद्वाजदृष्टा । अयं चीयमानोऽग्निः तिग्मेन तोत्साहवता वा । ' तिग्मं तेजतेरुत्साहं कर्मणः ' ( निरु ० १०१६ ) | शोचिषा तेजसा विश्वं सर्वम् अत्रिणम् अत्तीति अत्री, ' अदेस्त्रिनिश्व ' ( उ ० ४ / ६ ९ ) इति त्रिन्प्रत्ययः तं भक्षकं राक्षसादिकम् । नियासद् नितरां क्षीणं करोतु । धातूनामनेकार्थत्वाद् दैवादिकस्य यसेरुपक्षयार्थे वृत्तिः, लेट् । ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३।४ / ९ ७ ) इतकारलोप:, धातोरामागमश्चार्ष: । अथवा नितरां प्रयतताम्, विनाशयितुमिति शेषः । किञ्च 1 अग्निर्नोऽस्मभ्यं धनं ते ददातु । अत्र वनतिर्दानार्थः । १३
पृष्ठ 134
पाठ पढ़ें पाठ छिपाएँ
९ ८ शुक्लयजुर्वेदसंहिता [ अ ० १७ अत्र ब्राह्मणम् --- ' स वै पञ्चगृहीतं गृह्णीते । पञ्चधाविहितो वा अय शीर्षन् प्राणो मनो वाक् प्राणश्चक्षुः श्रोत्रमेतमेवास्मिन्नेतत् पञ्चधाविहित ं शीर्षन् प्राणं दधात्यग्निस्तिग्मेन शोचिषेति तिग्भवत्या शिर एवास्येतया संयति तिग्मताये ' ( श ० ९ १२ रा ( ५ ) । प्रथमाहुत्यर्थं पञ्चवारग्रहणमग्नेः शीर्षण्यप्राणपञ्चको-पधानरूपेण प्रशंसति स वै पञ्चगृहीतमिति । वागिति मुखम्, प्राण इति घ्राणम्, चक्षुर्द्धय श्रोत्रद्वयं च द्वो प्राणो । मनः सहिता वागादयः शिरसि पञ्चधाविहितः प्राणः । अतश्च पञ्चवारग्रहणेन अस्मिन्नग्नौ शिरसि मनःप्रभृति प्राणपञ्चकं निदधाति । होममन्त्रस्य तिग्मपदसम्बन्धं प्रशंसति - अग्निस्तिग्मेनेति । तिग्मशब्दस्य तीक्ष्णवाचकत्वात् तद्वत्या ऋचा होमेन तेक्ष्ण्यसिद्धयेऽग्नेः शिरस्तीक्ष्णं करोति । संश्यति - ' शो तनुकरणे ' इत्यस्य लटि श्यनि ' भतः श्यनि ' ( पा ० सू ० ७ ३ ७१ ) इत्यकारलोपः । अध्यात्मपक्षे - अयं वेदादिप्रमाणसिद्धोऽग्निः परमेश्वरः तिग्मेनोत्साहवता उत्साहप्रदेन शोचिषा स्वरूप-भूतप्रकाशेन विश्वं सर्वं न्यत्रिणं नितरां ज्ञानविज्ञानादिभक्षकं बाधकमज्ञानविपर्ययादिकं यासत् उपक्षयतु | यद्वा महावाक्यजन्यब्रह्माकारवृत्त्यभिव्यक्तेन तिग्मेन तीक्ष्णेन सर्वदाहकेन शोचिषा स्वरूपभूतप्रकाशेन विश्वं न्यत्रिणं यासद् उपक्षीणं करोतु | अग्निः स एव नोऽस्मभ्यं रयिं ज्ञानविज्ञानलक्षणं धनं वनते ददाति व्यत्ययेन ददात्वित्यर्थः । दयानन्दस्तु -- ' हे विद्वन्, यथाग्निस्तिग्मेन शोचिषा अत्रिणं भोगयोग्यं विश्वं यासत् प्राप्नोति, यथाग्नि-विद्युद् नो s स्मभ्यं र f य धनं निरन्तरं विभजति, तथास्माकं भूयाः । यथाग्निः शुष्कमाद्रं विश्वं सर्वं तृणादि दहति तथास्माकं दोषान् दग्ध्वा गुणात् प्रापयतु । यथा विद्यत् सर्वपदार्थान् सेवते, तथास्मान् सर्वा विद्याः सेवयतु ' इति, तदेतत् सर्वमविचारितरमणीयम्, मन्त्रे तादृशपदानामभावात् मुख्यार्थं परित्यज्य गौणार्याश्रयणे माना-भावाच्च ॥ १६ ॥
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्रदुषिता न्यसी॑दत्पता नः ।
स आ॒शिषा द्रविणमिच्छमानः प्रथमच्छदेवराँ २ ॥ आविवेश ॥ १७ ॥
मन्त्रार्थ -- जो अतीन्द्रिय द्रष्टा सर्वज्ञ, संहार रूप, होम का कर्ता, हम सारे प्राणियों का पालन करने वाला है, जो इन सम्पूर्ण लोकों का संहार कर स्वयं अपने में स्थित है, वह परमेश्वर ' प्रथम एक अद्वितीय रूप को छान कर मैं अनेक रूपों में प्रकट होऊ ' इस अभिलाषा से जगत् रूप धन की इच्छा करता हुआ प्रकट होता है, उपाधि वाले माया के विकार रूप जीवों में प्रवेश करता है ॥ १७ ॥
' षोडशगृहीतार्धमनुवाकशेषेण ' ( का ० श्र ० १८/३/१७ ) । षोडशगृहीतमाज्यं जुह्वां गृहीत्वा तस्यार्धमनु-वाकशेषेण, अर्थाद्य इत्यष्टभिर्मन्त्रः शालाद्वार्येऽग्नौ जुहुयात् । य इमा विश्वेत्यारभ्य विहव्यो यथासदित्यन्तोऽष्टचं इति । भुवनपुत्र विश्वकर्मदृष्टा विश्वकर्मदेवत्याः षोडश त्रिष्टुभः । जन्मान्तरीयविशिष्टकर्मोपासनादिप्रभावेणा-भिव्यज्यमानविशिष्टदर्शनो मन्त्रद्रष्टा प्रजाः संहरन्तं सृजन्तं विश्वकर्माणं पश्यन् कथयति - य इमेति । यो विश्व-कर्मा परमेश्वरः, इमा इमानि विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि जुह्वन् संहरन् सन् प्रलयकाले पृथिव्या-दीन् सर्वान् लोकान् भूतजातानि च स्वात्मन्याहुतिप्रक्षेपवत् संहरन् सन् न्यसीदत् निषण्णः स्वयं स्थितवान् । कीदृशः स ऋषिः? अतीन्द्रियद्रष्टा सर्वज्ञः । होता संहाररूपस्य होमस्य कर्ता । नोऽस्माकं प्राणिनां पिता जनकः । प्रलयकाले सर्वलोकान् संहृत्य यः परमेश्वरः स्वयमेक एव आसीत्, ' आत्मा वा इदमेक एवाग्र आसीन्नान्यत् किञ्चन मिषत् ' ( ऐ ० उ ० १ | १ | १ ), ' सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ' ( छा ० उ ० ६ २ १ ) इत्यादिश्रुतेः ।
पृष्ठ 135
पाठ पढ़ें पाठ छिपाएँ
म०१७-१८ ] वेदार्थपारिजातभाष्यसहिता ९९ इदं सर्वं नामरूपक्रियात्मकं जगद् अग्रे सृष्टेः प्राग् आत्मा वै आत्मैव सच्चिदानन्नरूपः परमेश्वर एवासीत् सदपि, नान्यत् किञ्चन मिषद् व्यापारवत् स्वतन्त्रसत्ताकमित्यर्थः । प्रकृतिपुरुषादिकं तु तस्मिन्नेव कल्पितत्वात् , समान-तत्लमानसत्ताकं पारमार्थिकं नासीदित्यर्थः । नहि कल्पितेन द्वितीयेन परमार्थसतः सद्वितीयत्वं सम्भवति तच्च सजातीय-सत्ताकयोरेव भावाभावयोविरोधात् । इदं सर्वमग्रे सदेवासीत्, तदतिरिक्तं किमपि नासीदित्यर्थः । विजातीयस्वगत भेदशून्यमासीत् । कल्पितैमिथ्याभूतैः सजातीयादिभिस्तस्य परमार्थसतस्तादृशभेदासम्भवाद् इत्यादिकं तदर्थः । स तादृशः परमेश्वरः, आशिषा ' बहु स्यां प्रजायेय ' ( छा ० उ ० ६ | २ | ३ ) इत्येवंरूपया कामनया प्रपञ्चसिसृक्षया द्रविणं द्रविणोपलक्षितं जगद्भोगमिच्छमानोऽपेक्षमाणः, अवरान् अभिव्यक्तोपाधीन् स्थूल सूक्ष्म-देहरूपान् आविवेश जोवरूपेण प्राविशत्, ' सोऽकामयत । बहु स्यां प्रजायेयेति । स तपस्तप्त्वा । इद, सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा तदेवानु प्राविशत् ' ( तै ० उ ० २ ( ६ ) इत्यादिश्रुतिभ्यः । कीदृशः स परमेश्वरो यस्तत्सृष्ट्वा तदेवानुप्राविशदिति? तत्राह - प्रथमच्छत् प्रथमं स्वकीयमेकमेवाद्वितीयमुत्कृष्टं रूपं छादयति आवृणोतीति तथोक्तः, छादयतेः किपि ह्रस्वः । उव्वटाचार्य रीत्या तु ज्ञानकर्मसमुच्चयानुष्ठायी कल्पान्तरणो यजमानो हिरण्यगर्भमात्मत्वेन ध्यायन् तदु-पास्तिक्षपितकल्मषस्तद्भावमुपगतः सुप्तप्रतिबुद्धन्यायेन कल्पादावभिव्यक्तं धर्मज्ञानवैराग्यैश्वर्ययुक्तं प्रजाः सृजमानं हिरण्यगर्भात्मानं पश्यन्नाचष्टे - य इमानि भूतजातान्यात्मनि जुह्वद् आत्मत्वेन पश्यन् ऋषिः साक्षात्कृतधर्मा होता आह्वाता देवानां कल्पादौ न्यसीदत् निषण्णः । पिता पाता नोऽस्मत्प्रभृतीनामेव ऋषिर्मनुष्यादिभाव-मुपगतः सन् यज्ञसम्बन्धिन्या आशिषा द्रविणं यज्ञफलमिच्छमानः प्रथमच्छत् प्रथमच्छादको मुर्तशरीरग्राही अवरात् द्विपदचतुष्पदस्थावरादीन् आविवेश आविष्टस्तत्तद्रूपैराविर्वभूवेत्यर्थः । अध्यात्मपक्षेऽप्युक्त एवार्थः । दयानन्दस्तु - ' हे मनुष्याः! य ऋषिर्ज्ञानस्वरूपो होता सर्वपदार्थानां दाता ग्रहीता च नोऽस्माकं पिता पालयिता परमेश्वरो विश्वानि भुवनानि व्याप्य न्यसीदद् निरन्तरं स्थितः, यश्च सर्वलोकानां जुहृद् धारयिता स आशिषा आशीर्वादेन नोऽस्मभ्यं द्रविणमिच्छमानः प्रथमच्छत् विस्तृतपदार्थान् छादयति अवरान् पूर्णादीन् आवि-वेश सम्यग् व्याप्तवानिति जानत ' इति, तदपि यत्किञ्चित्, सम्बोधनस्य निर्मूलत्वात् । व्याप्येति पदाध्याहारोऽपि निर्मूलः । जुह्वदित्यस्य धारयितेत्यप्यनर्थः धात्वर्थविपरीतत्वात् । प्रथमशब्दस्य विस्तृतार्थत्वमपि निर्मूलम् || १७ || । न च परमेश्वरो विस्तृतान् परिच्छिन्नान् वा छादयति, सर्वप्रकाशकत्वात् । अवरपदस्य पूर्णार्थतापि चिन्त्यैव
किस्विदासोदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वत् क॒थासी॑त् ।
यतो भूमिं जनयन् विश्वकर्मा विद्यामोन्महिना विश्वच॑क्षाः । १८ ॥
मन्त्रार्थ- - प्रश्न उठता है कि द्यावाभूमी का निर्माण करते समय इस परमात्मा का आधार क्या था? घट को बनाने में मृत्तिका के समान जगत् के निर्माण में इसको सामग्री कहाँ से प्राप्त हुई थी? इसको जगत् के निर्माण की विधि किसने बताई थी? जिसके आधार पर अतीत, अनागत, वर्तमान काल को एक साथ देखने वाले विश्वकर्ता परमात्मा ने इस विस्तृत भूलोक और द्युलोक की सृष्टि करके अपनी महती सामर्थ्य से इसको ढक दिया, वह सर्वदर्शी विश्वकर्ता सर्वत्र विराजमान है ॥ १८ ॥
अथेश्वरो यथा जगत्सृजति तत्प्रश्नोत्तराभ्यामाह - किंस्विदिति । लोके हि घटादिचिकीर्षुः कुलालादि-गृहादिकं स्थानमधिष्ठाय मृदादिरूपेण आरम्भकद्रव्येण च चक्राद्युपकरणैर्घटादि निष्पादयति । ईश्वरस्य
पृष्ठ 136
पाठ पढ़ें पाठ छिपाएँ
शुक्लयजुर्वेदसंहिता [ अ ० १७ सृष्टिरचनायां सर्वनिरपेक्षत्वात् तत्सर्वमाक्षिप्यते । स्विदिति वितर्के । द्यावापृथिव्योरुत्पादनवेलायामीश्वरस्य अधिष्ठानमधितिष्ठत्यस्मिन्नित्यधिष्ठानं निवाससंस्थानं किंस्विदासीत्? न किञ्चिदासीदित्यर्थः, airat poor-तिरिक्तस्य अधिष्ठानत्वासम्भवात् । तथा आरम्भणम् आरभ्यतेऽनेनेत्यारम्भणम् कतमत् स्विदासीत्? मृदिव घटानाम् । नहि द्यावापृथिव्यो जनयितुं किञ्चिदुपादानं उपादानं कारणं प्रपञ्चस्य किम्प्रकारकं निमित्तकारणमप्यासीद्दण्डादिवद् घटादीनामिति शेषः । ' था हेतौ सम्भवति । कथा इति किंशब्दात् थाप्रत्ययः । यद्वा कथा क्रिया किम्प्रकारा क्रियासीत् । विश्ववक्षा च विश्वं छन्दसि ' ( पा ० सू ० ५/३/२६ ) सर्वद्रष्टा अतीतानागतवर्तमानकालानां युगपद् द्रष्टा, अनन्यशक्तिरित्यर्थः । विश्वकर्मा चष्ट इति विश्ववक्षाः यस्मिन् काले भूमि द्यां स्वर्गं च जनयन् सन् वर्तते तस्मिन् काले महिना महिम्ना विश्वं कर्म यस्य सः । यतो साधनान्तरं विनैव वि विशेषेण और्णोत् सृष्टे द्यावापृथिव्यौ आच्छादितवान् स्वमहाभाग्येन स्वसामर्थ्येन माच्छादनमावरकम् । ' ऊर्णुञ् आच्छादने ' इत्यस्य लङि रूपम्, ' व्यवहिताश्च ' ( पा व्याप्तवानिति ० यावत् । नहीद-व्यवधानेन प्रयोगः । सू ० ११४/८२ ) इत्युपसर्गस्य अध्यात्मपक्षेऽप्युक्त एवार्थः । दयानन्दस्तु - ' हे विद्वन् पुरुष, अस्य जगतोऽधिष्ठानमाधारः किस्वित् आश्चर्य रूपमासीत् । तथारम्भणं कारणं कतमत् । वह्नयोदनेषु कतमत् । कथा केन प्रकारेण यतो विश्वकर्मा विश्ववक्षा भूमि द्यां सूर्यलोक जनयन् महिना स्वमहिम्ना व्यौर्णोद् विविधमाच्छादितवान् ' इति, तदपि यत्किञ्चित्, च कर्मेत्यस्य सर्वसत्कर्मेति व्याख्यानमपव्याख्यानम्, परमेश्वरस्य विधिनिषेधातीतत्वात्, सत्कर्मदुष्कर्मादिव्यवस्था-
अपव्याख्यानात् । विश्व-योगात् ॥ १८ ॥
विश्वत॑श्चक्षुरु॒त वि॒श्वतोमुखो विश्वतो बाहुस्त विश्वत॑स्पात् ।
सं बहुभ्यां धर्मति॒ि सं पत॑त्र॒ र्द्यावा॒भूमी॑ ज॒नय॑न् दे॒व एकः ॥ १६ ॥
मन्त्रार्थ- - सब ओर नेत्र वाले, सब ओर मुख वाले, सब ओर भुजा वाले और सब ओर अद्वितीय परमात्मा द्युलोक और भूलोक को बिना किसी आधार के प्रकट करते हुए अपनी भुजाओं चरण से युक्त एक हैं ॥ १ ९ ॥ में उन्हें समेट लेते पूर्वोक्ताक्षेपाणां समाधानमुच्यते मन्त्रेणानेन । द्यावापृथिव्योरुत्पत्तेरूर्ध्वं विश्वरूपः परमेश्वर कथमिति चेत्तत्रोच्यते - विश्वतश्चक्षुः विश्वतः सर्वतः चक्षुरस्येति तथोक्तः । एव भासते । तदुपाधिकस्य परमेश्वरस्यैव तानि तानि चक्षूंषि सम्पद्यन्ते । एवं विश्वतोमुखः यस्य विश्वतो यस्य प्राणिनो ये चक्षुषी विश्वतोबाहुः विश्वतो बाहवो भुजा यस्य सः । उतापि विश्वतस्पाद विश्वतः पादा यस्य सः, मुखानि तथोक्तः यस्य सः । लोपोऽहस्त्यादिभ्यः ' ( पा ० सू ० ५/४/१३८ ) इत्यन्त्यलोपेन साधुः । परमेश्वरस्य सर्वात्मकत्वात् सर्वषां । पादस्य चक्षुरादयस्तस्यैव चक्षुरादयः सम्पद्यन्ते । तेन तत्तदुपाधिकस्य परमेश्वरस्य विश्वतश्चक्षुष्ट्वादिकमुपपद्यते प्राणिनां तादृश एको देवः सहायशून्यो द्यावाभूमी जनयन् बाहुभ्यां बाहुस्थानीयाभ्यां निमित्तकारणाभ्यां धर्माधर्माभ्यां । सन्धमति जगत्सर्वं सम्यग्ज्ञातं प्राप्तं स्वाधीनं करोति । तथा पतत्रैः पतनशीलैरनित्यैः कारणैर्जगत् स्वाधीनं करोति । यद्वा ' धर्मातर्गत्यर्थः ' ( नि ० २ | १४ | ५० ) | धर्माधर्माभ्यां सन्धमति पञ्चभूतैरुपादान-प्राप्नोतीति यावत् । पतत्रैः पतनशीलैरनित्यैः पञ्चभूतैश्व धर्माधर्मरूपैनिमित्तैरुपादानेश्च सङ्गच्छते, संयोगं साधनान्तरं विनैव सृजतीत्यर्थः । यद्वा धर्माधर्माभ्यां भूतैश्च सन्धमति सङ्गमयति जोवान् । अन्तर्भावितण्यर्थः सङ्गच्छते ॥
पृष्ठ 137
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ -२० ] वेदार्थ पारिजातभाष्यसहिता १०१ ऐश्वर्ययेोगात् साधनमन्तराप्येको देवो विश्वतश्चक्षुविश्वतोमुखो विश्वतो बाहुर्विश्वतः पाच्च भूत्वा बाहुभ्यां बाहुस्थानीयाभ्यां धर्माधर्माभ्यामुपादानस्थानीयैः पतत्रैश्च पञ्चभूतैः सन्धमति सर्वं सृजति । तस्य लोकोत्तरै-श्वर्यमेव तादृग् न वे महिम्नि स्थितो दिव्यया मायाख्यशक्त्या सृज्यमानप्राणिधर्माधर्मानुरोधेन पञ्चभूतानि विरच्य तैः सर्वं सृजति । ' किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ' इत्याक्षिप्य ' अतयैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः । कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥ ' इति समाहितुं बद्धपरिकरस्य सतः - ' अजन्मानो लोकाः किमवयववन्तोऽपि जगतामधिष्ठातारं किं भवविधिरना-दृत्य भवति । अनीशो वा कुर्याद् भुवनजनने कः परिकरो यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ' पुष्पदन्त-स्योक्तेः । अध्यात्मपक्षेऽप्येष एवार्थः । दयानन्दस्तु - ' हे मनुष्याः, यूयं सर्वतश्चक्षुः सर्वसंसारदर्शनः सर्वोपदेशकः सर्वप्रकारेण अनन्तबलपराक्रम उत विश्वतस्पात् सर्वव्याप्तियुत एकोऽसहायो देवः स्वयंप्रकाशः पतत्रैः क्रियाशीलैः परमाणुभिर्द्यावाभूमी जनयन् बाहुभ्यां बलपराक्रमाभ्यां सर्वं जगत् सम्यक् प्राप्नोति । तादृशं परमेश्वरं जानत ' इति, तदपि यत्किञ्चित्, परमाणुभिराकाशोत्पत्त्यसम्भवात् सृष्टिप्रकरणे ' तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः ' ( तै ० उ ० २ ( १ ) इति श्रुतौ तदुत्पत्तिश्रवणाच्च । न च चक्षुः शब्दो दर्शनार्थः, न वा मुखशब्द उपदेशार्थकः । बाहुशब्दस्य बलपराक्रमार्थ-तापि चिन्त्यैव । पादशब्दोऽपि न व्याप्त्यर्थकः, प्रमाणशून्यत्वात् । लक्षणापि न युक्ता, अन्वयाद्यनुपपत्तेः । शक्यार्थ-सम्बन्धाभावादपि न लक्षणा । यथाकथञ्चित् सम्बन्धेन लक्षणाभ्युपगमे तु पृथिवीशब्दे घ्राणेन रूपमपि लक्ष्येत, समानशेषत्वसम्बन्धस्य सौलभ्यात् ॥ १ ९ ॥
कि स्विद्वनं क उ स वृक्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।
मनीषिणो मनसा पच्छतेद् तद्यदध्यतिष्ठद् भुव॑नानि धा॒रय॑न् ॥ २० ॥
८ मन्त्रार्थ- - प्रश्न उठता है कि वह कारणरूप वन किस प्रकार का था । वह कार्यरूप वृक्ष कौन सा था? जिसके सहारे कि विश्वकर्मा ने स्वर्ग और पृथ्वी को अलंकृत किया । हे मन का निग्रह करने वाले मनीषियों! सब भुवनों को धारण करते हुए विश्वकर्मा ने जिस स्थान को अधिष्ठित किया, उसको अपने मन से समझ कर उसके बारे में प्रश्न करो ॥ २० ॥
लोके हि प्रौढप्रासादनिर्माणकुशलः कस्मिश्चित् प्रौढे वने कञ्चन महान्तं वृक्षं छित्वा तक्षणादिना स्तम्भादिकं सम्पाद्य प्रासादं रचयति । इह तु परमेश्वरप्रेरिता जगत्स्रष्टारः, यतो यस्माद् वनाद् वृक्षमादाय द्यावापृथिवी निष्टतक्षुस्तक्षणेन द्यावापृथिव्यौ निष्पादितवन्तः, तद्वनं किंस्वित् किन्नाम स्यात् । स्विदिति वितर्के । न किञ्चित् तादृशं सम्भवतीत्यर्थः । तथी कः स वृक्षस्तादृश: प्रौढो वृक्षः क आस? न कश्चित् तादृशो वृक्षः सम्भवति । हे मनीषिणः, मनसा स्वकीयेन विचार्य तद् इद् उ तदपि पृच्छत इदं सर्वं पृच्छत । किञ्च, ईश्वरो भुवनानि धारयन् यदध्यतिष्ठत् यत्स्थानमधिष्ठितवान् तदपि स्थानं सर्वतः पृच्छत । एतस्य सर्वस्यापि प्रश्नस्योत्तरं श्रुत्यन्तेषु ' ब्रह्म वनं ब्रह्म स वृक्ष आसीत् ' इत्यत्राम्नातम् । स्वरूपव्यतिरिक्तवनादिनिरपेक्ष एव परमेश्वरः सर्वं स्वयोगमायया रचयतीत्येव तदुत्तराभिप्रायः । अतोऽत्रापि किस्विद्वनमित्याक्षेपपरत्वेन याजिनं पृच्छतेत्यस्यापि महद्भिः पृष्टा अभिज्ञास्तस्य स्रष्टुर्वनादिसर्वनिरपेक्षत्वमेव वदिष्यन्ति । ऊर्णनाभवदयमात्मारम्भण इति भावः ।
पृष्ठ 138
पाठ पढ़ें पाठ छिपाएँ
१०२ शुक्ल यजुर्वेद संहिता [ अ ० १७ अध्यात्मपक्षे --तो वनाद् वृक्षाद्वा द्यावापृथिवी निष्टत्तक्षुः करोति, ' तक्षतिः करोतिकर्मा ' । बहुवचनं पूजार्थम् । विश्वकर्मा तद्वनं स उ वृक्षश्च के आस । यदि तादृशं वनं वृक्षो वा सम्भवेत्, तदा किं द्यावापृथिव्यो भुवनानि धारयद् यत्स्थानमध्यतिष्ठद् उपरिष्टादास्ते, तदपि किम् ' हे मनोषिणः, मनसा पर्यालोच्य पृच्छत । अभिन्ननिमित्तोपादानकत्वमेव परमात्मनोऽत्र प्रश्नमुत्थाप्य बुबोधयिषितम्, ' तदात्मानं स्वयमकुरुत २ ( १ ) इत्यादिश्रुतिभ्यः । ' ( तै ० उ ० दयानन्दस्तु -- ' हे मनोषिणः, यूयं मनसा विज्ञानेन किंस्विद् वनं सेवनयोग्यं कारणरूपं वनम्, तथा कः स वृक्षविद्यमानोऽनित्यकार्यरूपः संसारोऽस्तीति पृच्छत । यतो द्यावापृथिव्यादिलोकान को निर्मितवान्? तत्रोत्तरम् - यद् यो भुवनानि धारयन् अध्यतिष्ठद् अधिष्ठाता तद् उ तदेव प्रसिद्धं ब्रह्म सर्वस्यास्य कारणं जानीत ' इति, तदपि विसङ्गतमेव, वनवृक्षशब्दयोः प्रसिद्धार्थत्यागे मानाभावात् । न च वननीय कारणमेव भवति, कार्य-स्यापि तथात्वात् । कारणकार्ययो: प्रतिपित्सितत्वे तदनुरूपेणोत्तरेणापि भाव्यम् । इदं कार्यमिदं कारणमिति । तदनुरूपमुत्तरमिदम् । यतो द्यावापृथिवी निष्टतक्षुरित्यस्य द्युलोकादीन् को निर्मितवानिति प्रश्नरूपोऽर्थोऽपि नोप-पद्यते । तथात्वे यत इत्यस्य स्थाने क इति स्यात् । उत्तरमपि निर्मूलम् ब्रह्मैव तदिति मन्त्रेऽनुक्तेः ॥ २० ॥
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या मध्यमा विश्वकर्मन्नुतेमा ।
शिक्षा सविभ्यो हविषि स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधानः ॥ २१ ॥
मन्त्रार्थ -- स्वधावान् ढेर सारे अन्न से युक्त सारे जगत् के कर्ता ईश्वर के उत्कृष्ट, निकृष्ट और मध्यम श्रेणी के जो स्थान हैं, इन ऊपर, नीचे और मध्य में स्थित लोकों को भक्त यजमानों को आप वीजिये तथा यजमान की दी हुई हवि के उपस्थित होने पर अपने शरीर को समृद्ध करते हुए आप हो यजन कीजिये । हम यजन करते हैं, यह हम कैसे कह सकते हैं? आपके यजन में कौन मनुष्य समर्थ है? इसीलिये हमारा कहना है कि यजन करने वाले स्वयं आप भगवान् ही हैं ॥ २१ ॥
हे विश्वकर्मन् ते तव या यानि परमाणि उत्कृष्टानि धामानि स्थानानि या यानि च अवमानि कनोयांसि उत अपि च या यानि इमानि मध्यमा मध्यमानि, इमा इमानि त्रिविधानि धामानि, सखिभ्यः समानख्यानेभ्यो यजमानेभ्यः शिक्षा शिक्ष उपदिश, देहि वा । ' द्वयचोऽतस्तिङः ' ( पा ० सू ० ६ | ३ | इति संहितायां दीर्घः । हे स्वधावः स्वधा अन्नम् अस्यास्तीति स्वधावान्, तत्सम्बुद्धौ हे स्वधावः! ' मतुवसो १३५ ) सम्बुद्धौ छन्दसि ' ( पा ० सू ० ८ ३ ( १ ) इति सः । हे हविर्लक्षणान्नवन्! त्वं तन्वं यजमानशरीरं वृधानो रु वर्धयन् सन्, वर्धतेः शानचि व्यत्ययेन शपो लुक् । तन्वमित्यत्र ' वा छन्दसि ' ( पा ० सू ० ६/१/१०६ ) इति पूर्वरूपा -भावे यणादेशः । स्वयं यजस्व, त्वदनुग्रमन्तरेण अन्यस्य कस्यचिद् यष्टुमसामर्थ्यात् । यद्वा हविषि यजमानसम्ब-न्धिन्युपस्थिते सति तन्वं स्वशरीरं वृधानो वर्धयन् सन् स्वयं यजस्व । स्वस्यासामर्थ्यन वयं यजामह इति कथं वक्तुं शक्यम्? अथवा हे विश्वकर्मन् यानि धामानि परमाणि, यानि च अवमानि यानि च मध्यमानि अपि च इमानि यानि प्रत्यक्षत उपलभ्यन्ते, तेभ्यो द्रव्यमादाय सखिभ्यः समानख्यानेभ्यो यजमानेभ्यो हविषि हविर्निमित्तं शिक्ष देहीति । अन्यत् पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे - हे विश्वकर्मन् विश्वस्रष्टः, हे स्वधावः सर्वाभीष्टान्नादिमन् परमेश्वर, ते त्वदीयानि यानि स्थानानि उत्तम - मध्यम - कनिष्ठानि, उत इमानि प्रत्यक्षत उपलब्धानि तानि सखिभ्यो जीवेभ्यो यथायोग्यं शिक्ष ' द्वा सुपर्णा सयुजा सखाया ' ( ऋ ० सं ० १११६४/२० ) इति जीवेशयोः सख्यश्रवणात् । तवोपकारं कर्तुं यद्यपि
पृष्ठ 139
पाठ पढ़ें पाठ छिपाएँ
म ० २१-२२ ] dari पारिजातभाष्यसहिता १०३ नास्ति सामर्थ्यम्, तव सर्वज्ञसर्वशक्तित्वात् तेषामल्पज्ञाल्पशक्तित्वात्, तथापि तेषां तन्वं तनूः स्वरूपभूता वृधानः वर्धयन्, अर्थात् तत्सामर्थ्यं जनयन् स्वयं यजस्व स्वयं सामर्थ्यप्रदानेन तैरात्मानं याजयस्व । त्वदनुग्रहेणैव जना-स्त्वां भजन्ति यजन्ति च, ' सोऽहं तवाङ्यपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रहमोश मन्ये । पुंसो भवेद्यह संसरणापवर्गस्त्वय्यब्जनाभ सदुपासनया मतिः स्यात् ॥ ' ( भा ० पु ० १०/४०/२८ ) इति श्रीमद्भागवतोक्तेः । दयानन्दस्तु - ' हे बह्वन्नयुक्त विश्वकर्मन, ते तव सृष्टी यानि परमाणि उत्तमानि यानि अवमानि निकृष्टानि यानि मध्यमानि धामानि सर्वपदार्थानामाधारभूतानि स्थानानि जन्मस्थानानि नामानि च इमानि सर्वाणि हविषि दातुमादातुं योग्ये व्यवहारे स्वयं यजस्व संगतं कुरु । उत अस्माकं तन्वं शरीरमुन्नतं कुर्वन् आज्ञापालकेभ्यः सखिभ्यः शुभगुणान् शिक्ष उपदिश ' इति, तदपि यत्किञ्चित्, मुख्यार्थत्यागात्, गौणार्था-श्रयणाच्च पदार्थानामित्यध्याहारस्य निर्मूलत्वात् । तथात्वेऽपि वस्तूनां नामानि जन्मानि स्थानानि च व्यवहारे ॥ सङ्गतान्येवेति । नोऽस्माकं तन्वमित्यपि निर्मूलम्. मन्त्रे तद्बोधकपदाभावात् यजस्वेत्यस्याव्याख्यानाच्च ॥ २१
विश्वकर्मन् हविष वावृधानः स्वयं य॑जस्व पृथिवीमु॒त द्याम् ।
मुह्य॑न्त्व॒न्ये अभितः सपत्नो इहास्माकं मघव सूरिर॑स्तु ॥ २२ ॥
मन्त्रार्थ - हे परमात्मन्! मेरे दिए हुए हविरूप अन्न से प्रसन्न हुए आप मेरे यज्ञ में पृथ्वी और द्युलोक के आश्रित जीवों को मेरे ऊपर अनुग्रह कर स्वयं ही यजन करें । आपके प्रसाद से सब ओर से हमारे शत्रु काम, मोह आदि को प्राप्त हों । इस यज्ञ में इन्द्र और यज्ञद्रष्टा ब्रह्मा हमको आत्मज्ञान का उपदेश करें ॥ २२ ॥
विश्वकर्मन् हविषा मया समर्पितेन चरुपुरोडाशादिना वावृधानो वर्धमानो भृशमुपसञ्जातहर्षः सन् मदीये यज्ञे स्वयं यजस्व मदनुग्रहाय स्वयमात्मानमस्माभिर्याजयस्व । किञ्च पृथिवीं पृथिव्याश्रितानि भूतानि, उतापिच द्यां द्युलोकाश्रितानि भूतानि याजयस्व ।अन्ये अभितः स्थिताः सपत्ना अस्माकं शत्रवः, मुन्तु मोहिताः सन्तोऽस्मद्वशगा भवन्तु । किञ्च मघवान् धनवानिन्द्रः इह अस्माकं सूरिः पण्डित आत्मज्ञानो-देश | अध्यात्मपक्षे - हे विश्वकर्मन् मदीयेन हविषा पत्रपुष्पादिना वावृधानो हर्षोल्लसितो मदनुग्रहाय स्वयं यजस्व मां याजय । पृथिवीं द्याम् इमम् अमुं च लोकं यजस्व अस्मभ्यं देहि । ये चाभितः सपत्नास्तेऽस्माकं प्रभावे रूपे च मुह्यन्तु मोहमाप्नुवन्तु । त्वं चास्माकमिह इहैव जन्मनि सूरिः पण्डितो गुरुर्भूत्वाऽज्ञानोपनोदनज्ञानदाना-भ्यामपवर्गं च प्रयच्छ । दयानन्दस्तु - हे विश्वकर्मन् सभापते, हविषा उत्तमगुणानां ग्रहणेन वावृधान उन्नति प्राप्नुवन् यथेश्वरः पृथिवीमुत सूर्यलोकं यजस्व संगतं करोति, तथैव त्वं स्वयं यजस्व सर्वैः समागमं कुरु । इह जगति मघवा प्रशस्तो धनवान् सूरिविद्वानस्तु । येनास्माकमन्ये सपत्ना अभितो मुह्यन्तु मोहं प्राप्नुवन्तु ' इति, तदपि यत्किञ्चित्, स्वाभ्यूहमूलकव्याख्यानात् । तथाहि - हविषेत्यस्य ग्रहणार्थता, यथातथापदयोर्मन्त्रेऽभावाद् अध्याहार:, यथेश्वरः पृथिवीं द्यां च सङ्गमयति, तथा त्वं सर्वैः समागमं कुवित्यादि सर्वमपि व्याख्यानं तथाविधमेव || २२ ||
पृष्ठ 140
पाठ पढ़ें पाठ छिपाएँ
१०४ शुक्लयजुर्वेदसंहिता [ अ ० १७
वाचस्पतिं विश्वकर्माणम् तये ' मनोजुवं वाजे ' अ॒द्या हवेम ।
स नो विश्वा॑ति॒ हव॑नानि जोषद्विश्वशंम्भू रव॑से साधुकर्मा ॥ २३ ॥
मन्त्रार्थ--- आज हम महाव्रतीय अन्न के लिये वाणियों के पालक, मन के समान वेग वाले सृष्टिकर्ता ईश्वर को रक्षा के लिये पुकारते हैं । वह संसार का कल्याण करने वाला, सुन्दर कर्म करने वाला हमारी समस्त आहुतियों की रक्षा करे ॥ २३ ॥
इयं व्याख्याताऽष्टमे पञ्चचत्वारिश्यां कण्डिकायाम् ॥ २३ ॥
विश्वकर्मन हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम् ।
तस्मै॒ विशः सम॑नमन्त पूर्वोरियमो विव्यो यथासंत् ॥ २४ ॥
मन्त्रार्थ - हे विश्वकर्मन् परमात्मन्! वर्धमान हविषप्रदान द्वारा को आपने जगत् का रक्षक बनाया है । इसको कोई मार नहीं सकता । इस महर्षिगण आदि प्रणाम करते हैं, जिससे कि शत्रुओं के नाश के लिये यह इन्द्र कार्यों में आह्वान के योग्य है, अतः हम इसको प्रणाम करते हैं ॥ २४ ॥
इयं व्याख्याताऽष्टमे षट्चत्वारिंश्यां कण्डिकायाम् ॥ २४ ॥
वर्धन के वाक्यों से प्रीति करने वाले इन्द्र प्रकार के इन्द्र के लिये पूर्व काल की प्रजा, अपना वज्र उठावे | यह इन्द्र अनेक शुभ
चक्षु॑षः पि॒ता मन॑सा॒ हि धोरो ' घृतमे ' ने अजनन्नम्न॑माने ।
यदेदन्ता अदृहन्त पूर्व आदि द्यावा॑पृथि॒वी अ॑प्रयेताम् ॥ २५ ॥
मन्त्रार्थ - जिस समय पूर्व महर्षियों ने पृथ्वी और आकाश की अन्तदिशाओं को दृढ़ किया, उसके बाद ही इनका विस्तार हुआ । तब सम्पूर्ण ज्योति को पालन करने वाले, मन से धीर परमात्मा ने नममान द्यावापृथिवी में घृत और जल को उत्पन्न किया ॥ २५ । ' चक्षुषः पितेत्यपरमनुवाकेन ' ( का ० श्री ० १८ | ३ | १८ ) । षोडशगृहीतस्य अपरमर्धमष्टर्चेन एकामाहुति जुहुयादिति सूत्रार्थः । चक्षुषश् चक्षुरादेः प्राणसमुदायस्य पितोत्पादको धीरो धैर्यवान् विश्वकर्मा परमेश्वरो मनसा स्वेच्छया घृतं घृतवत्त्वात् प्राणिनामुपभोगसाधनभूते एने द्यावापृथिव्यों नम्नमाने परस्परानुकूल्येन नम अजनद् अजनयद् उत्पादितवान् । यदा इद् यदेव पूर्वे प्रथमोत्पन्ना वशिष्ठादयः, अन्ता अन्तान्, विभक्तिव्यत्ययः, द्यावापृथिव्योरन्तप्रदेशान् अददृहन्त । आत् इत् । आदनन्तरवाची, इदेवार्थे । अनन्तरमेव युक्तचेष्टावन्तश्चक्षुरादयः प्राणा दृढा अभवन्निति । अथवा द्यावापृथिव्योर्द्रढिमानन्तरमेव द्यावापृथिव्यौ अप्रथतां विस्तृते अभूताम् । मही-धराचार्यस्तु सायणरीत्या चक्षुरादीन्द्रियाणां पालक इति व्याख्यातवान् । उव्वाचार्यरीत्या तु चक्षुर्नाम ऋषिः, तस्य पिता प्राणः प्रजया स्तूयते । मनसा हि धीरो हि निश्चितं यथा स्यात्तथा मनसा धीमान्, एने द्यावापृथिव्यो प्रति घृतम् उदकम् अजनत् जगदनुग्रहाय अजनयत् । रोदस्योदर्ये वृष्टि कुरुत इत्यर्थः । किं कुर्वन्? नमनमाने नममाने रोदसी स्तम्भयन् घृतमुदकमजनवदित्यनुषङ्गः । अध्यात्मपक्षे - अयमेवार्थः ।