वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 141–150

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 141–150

पृष्ठ 141

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 141 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २५-२६ ] वेदार्थपारिजातभाष्यसहिता १०५ दयानन्दस्तु - ' हे प्रजापुरुषाः! यूयं यश्चक्षुषो न्यायदर्शकस्य उपदेशकस्य पिता रक्षकः, मनसा योगा-भ्यासशान्तेनान्तःकरणेन धीरो घृतमजनयत् तस्मै अधिकारं दत्त्वा एने राजप्रजयोर्दले नम्नमाने नम्रव्यवहार-पूर्वं प्रथमतो वर्तमाने द्यावापृथिव्यो प्रकाशपृथिवीवत् सम्मिलिते अप्रयेतां प्रख्याती भवेताम्, तथैव यदा अन्ता अन्त्यावयवा इव अददृहन्त वृद्धि प्राप्तौ भवेताम्, तदा आत् पश्चात् हि एव, स्थिरराज्ये भवेताम् ' इति, तत्तु सर्वथा विशृङ्खलमेव, पदार्थासम्बन्धात् । चक्षुष इत्यस्य कथमुपदेशकोऽर्थः? कश्च तदीयः पिता? स कथं घृतमजनयत्? तस्मै केनाधिकारो दत्तः? तस्य किं जातम्? कथमुत्तरवाक्येन तत्सम्बन्धः? इत्यादिकं सर्व-व्यापारेषु व्यापारतुल्यमेव ॥ २५ ॥

विश्वकर्मा विना आद्विहाया धाता विधाता परमोत संदृक् ।

मिष्टान समिषा मंदन्ति यत्र सप्त ऋषीन् पर एकमाहुः ॥ २६ ॥

मन्त्रार्थ - जिस लोक में सात ऋषियों को विश्वकर्मा के साथ एक कहते हैं, जिनका जगन्निर्माता श्रेष्ठ मन सम्पूर्ण कर्म का ज्ञाता, आकाश में व्यापक, धारण - पोषण स्थिति करने वाला, सबका उत्पादक और सबसे उत्कृष्ट परमात्मा सम्यक देखने वाला है, वह उस लोक में उन पुरुषों को अभिलषित वस्तुओं को आहुति के रसभूत अन्न के साथ आनन्द से मोदयुक्त होकर पुष्ट करता है ॥ २६ ॥

विश्वकर्मा विश्वमस्ति विषयत्वेन येषां तानि विश्वानि, अजन्तः । विश्वानि सृष्टिस्थितिप्रलयरूपाणि कर्माणि यस्यासी तथोक्तः परमेश्वरः । विमनाः विश्वभूतमनाः, विशिष्टं वा मनो यस्य सः, सर्वकर्मज्ञ इत्यर्थः । आत् अपि च विहाया आकाश इव महान् व्यापक इत्यर्थः । यद्वा विशेषेण जहाति त्यजति सर्वं प्रविलापयतीति विहाया संहर्ता । धाता धारयिता । पोष्टा पालयिता । विधाता विदधाति कर्मफलेन योजयति जनानिति, उत्पादको वा । उत अपि । परमा परम: सर्वोत्कृष्टः, विभक्तेराकारः । सन्दृक् सम्यग् द्रष्टा । यद्वा समीचीनया अनुग्रहदृष्ट्या आनुकूल्येन भक्तान् पश्यतीति तथोक्तः । येषां भूतानामेतादृशो विश्वकर्मा परमेश्वरो द्रष्टा, तेषां भूतानां प्राणिनां मध्ये यानि इष्टानि दम - दान- दयादिभिर्युक्तानि तानि इषा अनेन आहुतिरसभूतेन सम्मदन्ति सम्मोदन्ते यद्वा तेषां भूतानां प्राणिनां मध्ये यानि इष्टानि अभिलषितवस्तूनि तानि इषा आहुतिरसभूतेन सह सम्मदन्ति मोदयुक्तानि पुष्टानि भवन्तीत्यर्थः । यत्र यस्मिन् प्रदेशे सप्त ऋषीन् सप्त च ते ऋषयः सप्त ऋषयः, तान् प्राणभूतान् मरीचिप्रभृतीन्, ' ऋत्यकः ' ( पा ० सू ० ६ | १ | १२८ ) इति ह्रस्वविधानसामर्थ्याद् गुणाभावः । परः परेण सर्वोत्कृष्टेन विश्वकर्मणा सह । एकमाहुर् एकीभूतान् विद्वांसो वदन्ति । स हि साध्यानां लोकः । तेऽपि विश्वकर्मत्वं प्रार्थयन्त इति शेषः । विभक्तेः सुः । यद्वा परस्मिन् एकम् एकीभूतानाहुः । य एते मरीच्यत्रिप्रमुखाः सप्त ऋषयो विविधा दृश्यन्ते, सर्वे ते सृष्टेः प्राक् परस्मिन्नेकीभूता इति वेदान्तविद आहुः । स च परमेश्वरस्तेषां सप्तर्षिप्रभृतीनामिष्टानि अपेक्षितानि स्थानादीनि इषा स्वेच्छामात्रेण सम्पादयति । तेन ते महर्षयो नन्दन्ति । यद्वा यत्र यस्मिल्लोके सप्तर्षीन् परेण विश्वकर्मणा सह एकीभूतान् परस्मिन् ब्रह्मणि विश्वकर्मरूपे एकीभूतान् आहुर्वेदविदो वदन्ति तत्र तेषां भूतानां पुंसामिष्टान्यभिलषितानि वस्तूनि इषा अनेन आहुतिरसभूतेन सह सम्मदन्ति । अन्यत् पूर्ववत् । अध्यात्मपक्षे- - उक्त एवार्थः । दयानन्दस्तु – ' हे मनुष्याः, विश्वकर्मा विमना विविधविज्ञानोपेतः, विहाया विविधपदार्थेषु व्याप्तः, धाता सर्वस्य धारकः, पोषकश्च । विधाता सन्दृक् परः सर्वोत्तमः । यमेकमद्वितीयमाहुः, आत् अपि च । यत्र सप्त १४

पृष्ठ 142

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 142 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०६ शुक्लयजुर्वेद संहिता [ अ ० १७ ऋषीन् पञ्च प्राणान् वा सूत्रात्मानं धनं जयं च प्राप्य इषा इच्छामात्रेण जीवं मदन्ति, उतापि तेषां जीवानां परमा उत्तमानि इष्टान्यभिलषितानि सुखसाधकानि कार्याणि साधयति तं यूयमुपाश्रयत ' इति, तदपि यत्किञ्चित् मन्त्रेयमिति पदाभावात् । ' सप्त ऋषीन् ' इत्यस्यापि पञ्च प्राणादय इति कल्पित एवार्थः । मरीचिप्रभृतीनां तु सप्तर्षित्वं प्रसिद्धमेव । सप्तर्षीन् प्राप्येति वाक्ये प्राप्येत्यस्य निर्मूलोऽध्याहारः । जीवं मदन्तीत्यपि निर्मूलमेव, मूले

मन्त्रे जीवपदाभावात् । अन्यदपि तथैवोह्यम् ॥ २६ ॥

यो नः पि॒ता ज॑नि॒ता यो वि॑िधा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।

यो दे॒वानां॒ नाम॒धा एक एव तद् सम्प्रश्नं भुव॑ना यन्त्य॒न्या ॥ २७ ॥

मन्त्रार्थ -- जो विश्वकर्मा परमेश्वर हमारा पालक और उत्पादक है, जो विशेष कर धारण करने वाला है, सम्पूर्ण स्थान और प्राणियों को जानता है, जो एक होकर भी देवताओं के अनेक नामों को धारण करता है, उस परमात्मा में भक्तजन प्रश्नोत्तर करते हुए प्रवेश करते हैं ॥ २७ ॥

यः पूर्वोक्तो विश्वकर्मा नः अस्माकं पिता पाता जनिता जनयिता उत्पादक: । ' जनिता मन्त्रे ' ( पा ० सू ० ६ | ४ | ५३ ) इति निपातितः । यो विधाता विशेषेण धारकः । यश्च विश्वा विश्वानि सर्वाणि धामानि स्थानानि भुवनानि चतुर्दश भुवनानि भूतजातानि वा वेद जानाति । यश्व एक एव अद्वितीय एव सन् देवानां बहूनां नामधा नामान्यग्निमित्रादीनि दधाति धारयति करोतीति वा स नामधाः । नाम च पितैव करोति । तस्मादन्या अन्यानि भुवनानि भूतजातानि सम्प्रश्नं सम्यक् प्रश्नो यस्यां क्रियायां सा सम्प्रश्ना | क्रियाविशेषणे क्लीबत्वेकत्वम् । सम्प्रश्नमिति । तं विश्वकर्माणं यन्ति गच्छन्ति प्रलयकाले एकत्वं प्राप्नुवन्ति । यद्वा सम्प्रश्नं सम्यक प्रश्नं कर्तुं स्वाधिकारविषयं प्रश्नं तं भुवनानि यं यन्ति, स विश्वकर्मैव सर्वान् प्रजापत्यादीन् स्वाधिकारेषु नियुक्त इति. भावः । यद्वा- ' इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्त्यग्नि यमं मातरिश्वानमाहुः || ' ( ऋ ० सं ० ११ १६४१४६ ) इति रीत्या यो बहूनां देवानां नामानि धारयन्नपि स्वयमेक एव भवति, तं विश्वकर्माणं परमेश्वरमन्या अन्यानि सृष्टानि सर्वाणि भुवनानि संप्रश्नो यथा भवति, तथा यन्ति प्रलय-काले एवं प्राप्नुवन्ति । एकीभावयुक्ते प्रलये एक ईश्वरः, कानि भुवनानि इत्येवं प्रश्नः समवधारणं प्रवर्तते, विभागाभावेन श्रुत्यनभिज्ञैर्ज्ञातुमशक्यत्वात् । अध्यात्मपक्षे -- उक्त एवार्थः । दयानन्दस्तु -- ' हे मनुष्याः, यो नः पिता जनिता पदार्थानामुत्पादकः, यो विधाता कर्मानुसारेण फलदाता, विश्वानि भुवनानि लोकान् धामानि जन्मस्थानानि वेद जानाति, यो देवानां विदुषां पृथिव्यादिपदार्थानां च स्वविद्यया नामानि धारयति, एकोऽसहाय एवास्ते, यमन्या भुवना लोकस्थाः पदार्था यन्ति प्राप्नुवन्ति, यन्निमित्तं सम्यक् प्रश्नाः प्रष्टव्याः, तं जानत ' इति, तदपि यत्किञ्चित् विदुषामेव नामधारयितृत्वे विशेषानुपपत्तेः । सिद्धान्ते तु देवा महाभाग्या देवविशेषाः । तेषामपि तस्य नामधारकत्वेन तेषामपि पितृत्वेन माहात्म्यातिशयो व्यज्यते । पृथिव्यादिपदार्थानां नामधारयितृत्वं तु मन्त्रबाह्यमेव । यं भुवना यन्ति यन्निमित्ताः सम्प्रश्नास्त जानतेत्यपि निर्मूलम्, तथार्थावबोधकपदाभावात् ॥ २७ ॥

पृष्ठ 143

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 143 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० २८ ] वेदार्थं पारिजात भाष्यसहिता त आय॑जन्त॒ द्रवि॑ण॒ सम॑स्मा॒ ऋष॑य॒ पूर्वे॑ जरि॒तार॒रो न भूना । अ॒सूर्ते सूर्यो॑ रज॑सि निष॒त्ते ये भूतानि॑ स॒मकृ॒ण्वन्नि॒मानि॑ ॥ २८ ॥

१०७ मन्त्रार्थ - स्तुति करने वाले विश्वकर्मा के रचे हुए वे पूर्वकालीन ऋषि इस भूतसमूह को जलरूप धन भली प्रकार से देते हुए सबकी कामनाओं को पूरा करते हुए सत्रह अवयव वाले लिंगशरीर से भली प्रकार प्रेरित अन्तरिक्ष लोक में स्थित हो इन प्राणियों की रक्षा करते हैं ॥ २८ ॥

पूर्वे ऋषयो विश्वकर्मसृष्टा मरीच्यत्र्यादयः अस्मै भूतग्रामाय द्रविणं जललक्षणं धनं भोगजातं वा समायजन्त सम्यग् आभिमुख्येन दत्तवन्तः । यजतिरत्र दानार्थः । कथं ददुः? न भूना न भूम्ना न बाहुल्येन, किन्तु युक्त्या यथाकामयथाकर्मवर्षित्वेनेत्यर्थः । मलोपश्छान्दसः । कथम्भूता ऋषयः? जरितारः स्तोतारः । ' जरिता इति स्तोतृनामसु ' ( निघ ० ३ | १६ | २ ) । कथम्भूताश्च ते? इत्यत्राह - ये ऋषयः, इमानि भूतानि समकृण्वन् । सौवादिकस्य करोतेर्लङि रूपम् । ये तानि सृजन्ति त एवोदकदानेन जीवयन्तीत्यर्थः । अनेकार्थत्वादत्र उत्पत्ती वृत्तिः । पुनः कीदृशाः? असूर्ते असूर्ता: । असुभिः सप्तदशावयवेलिङ्गशरीरैर् ईरिता असूर्ताः । असुपूर्वस्य ‘ ईर गतौ कम्पने च ' इत्यस्य निष्ठायां छान्दस इडभावः । ईकारस्य च पूर्वसवर्णदीर्घः । जस एकारः । तथा रजसि अन्तरिक्षलोके । ‘ लोका रजांस्युच्यन्ते ' ( निरु ० ४ ( १ ९ ) इति यास्क: । निषत्ते निषत्ता निषण्णाः । जस एकारः । कीदृशे रजसि? सूर्ते सुष्ठु ईरिते प्रेरिते विस्तीर्णे | सुपूर्वस्य ईरधातोर्निष्ठायां रूपम् । ' नसत्तनिषत्तानुत्तप्रतूर्तसूर्त-गूर्तानि छन्दसि ' ( पा ० सू ० ८/२/६१ ) इति निपातेन सदेर्निषत्ते इति रूपम् । उब्वटाचार्यरीत्या तु — असू असुसमीरिते । असुः प्राणः सप्तदशकलिङ्गदेहयुक्तात्मानः सूर्ते सुष्ठु समीरिते रजस्यन्तरिक्षलोके निषत्ते निर्गतसत्ताके निरालम्बने यत्र स्थिताः सन्तो ये भूतानि समकृण्वन् कृतवन्तः, इमानि भूतानि आयजन्त आभिमुख्येन दत्तवन्तः । किं दत्तवन्तः? उदकलक्षणं धनमेभ्यो भूतेभ्यो जीवनाय दत्तवन्त इति सम्बन्धः । समस्मै सङ्गत्य अस्मै भूतग्रामाय । शेषमुपर्युक्तवत् । प्राणरूपाः प्रजापतय एवात्र ऋषयः, स्रष्टृत्वात्, जीवननिमित्तभोग्यद्रविणदानेन पालकत्वाच्च । अध्यात्मपक्षे - असुः प्राणः परमेश्वर:, ' प्राणस्य प्राण: ' ( केनो ० १ १ २ ) इति श्रुतेः ' प्राणस्तथानुगमात् ' ( ब्र ० सू ० १ | १ | २८ ), ' अत एव प्राण: ' ( ब्र ० सू ० १।१।२३ ) इति सूत्रनिदर्शनाच्च । तेन परमात्मना ईरिताः प्रेरिताः, असूर्ते तादृशा ऋषयः पूर्वे प्राणरूपाः, अस्मै जरितारः स्तोतारः सूर्ते सुशोभनेन अन्तर्यामिणा ईरिते नियन्त्रिते रजसि अन्तरिक्षे लोके निषत्तै निरालम्बने इमानि इदङ्कारास्पदानि भूतानि समकृण्वन् कृतवन्तः, तत्प्रेरणमन्तरा निरालम्बनेऽन्तरिक्षे भूतनिर्माणासम्भवात् । न केवलं भूतान्येव निर्मितवन्तः किन्त्वस्मै स्वरचितभूतप्राणिसमुदायाय द्रविणं धनमुदकादिलक्षणं भोगजातं समायजन्त दत्तवन्तः । कथं दत्तवन्तः? न भूना न भूम्ना बाहुल्येन, किन्तु यथाकामयथाकर्मवर्षित्वेन । दयानन्दस्तु - ये पूर्वविधया सर्वपुष्टिकर्तारः स्तोतारश्च इव ऋषयो वेदार्थज्ञा भूना बहव:, असूर्ते परोक्षा अप्राप्ताः, सूर्ते प्रत्यक्षाः प्राप्ताः निषत्ते स्थापिताः, रजसि इमानि भूतानि प्राणिनः समाकृण्वन् शिक्षयन्ति, ते अस्मै अस्य परमेश्वरस्य आज्ञापालनाय द्रविणं धनं समायजन्त सङ्गमयन्ति ' इति, तदपि यत्किञ्चित् । समकृण्वन् - भूना - असूर्ते - सूर्ते --- इत्यादिपदानां तत्तदुक्तेष्वर्थेष्वशक्तेः । ' अस्मै ' इत्यस्य ' ईश्वराज्ञापालनाय ' इत्यपि काल्पनिक एवार्थः, निर्मूलत्वात् ॥ २८ ॥

पृष्ठ 144

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 144 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१०८ शुक्लयजुर्वेदसंहिता [ अ ० १७

प॒रो दि॒वा पर एना पृथि॒व्या प॒रो दे॒वेभि॑रसु॑र् दस्तिं ।

स्विद् गर्भ प्रथ॒मं त्र आयो यत्रं देवाः स॒मप॑श्यन्त॒ पूर्वे ॥ २ ९ ॥

मन्त्रार्थ - जो ईश्वर का तत्त्व हृदय कमल में विद्यमान है, वह द्युलोक से भी तर, अर्थात् दुर्ज्ञेय पृथ्वी से भी दूर है । जल ने पहले किसके गर्भ को धारण किया? यह तो देखो कि उसने पहले जल को उत्पन्न है । वह किया इस जिस समय जल को प्रथम गर्भ में धारण किया, वह गर्म कैसा आश्चर्य रूप है? जहाँ पूर्वकाल के देवता और । ने जगत को देखा ॥ २ ९ ॥ महर्षियों ब्रह्मविषयक प्रश्नप्रतिवचनरूपा मन्त्राः | अत्र मन्त्रे विभक्तिव्यत्ययबाहुल्यम् । यत् हृदीति शेषः । हृदयपुण्डरोके यद् ब्रह्मतत्वमस्ति तद् दिवा परो द्युलोकादपि दूरे तिष्ठति, दिवो परब्रह्मतत्त्वमस्ति, परसुशब्दः सान्तो दूरवाची । एना अस्याः पृथिव्या भूमेरपि परो दूरे । दूरत्वं नाम विलक्षणत्वम् दुर्ज्ञेयत्वात् , सर्वजग- । द्विलक्षणत्वात्, शास्त्राचार्योपदेश संस्कारशून्यैर्वर्ष कोटिभिर्लब्धुमशक्यत्वात् । देवेभि: देवेभ्यः दूरे, तैरपि लब्धुमशक्यत्वादेव । इन्द्रविरोचनाभ्यां द्वात्रिंशद्वर्ष ब्रह्मचर्य पालनेनापि, असुरेभिः असुरेभ्यश्च यासेनैव ज्ञातत्वात् । किञ्च, स्विदिति वितर्के । आपः प्रथमं के गर्भ दध्रे दधिरे विपरीतमेव अधारयन् प्रतिपन्नम्, महता-प्रथमपुरुषबहुवचनस्य लिटस्तझयोरेशिरेच् ' ( पा ० सू ० ३।४।८१ ) इतीरेचि कृते ' इरयोरे । धाञो लिटि तङि इति आदेशे तस्य स्थानिवत्त्वात् ' आतो लोप इटि च ' ( पा ० सू ० ६/४/६४ ' ( पा ० सू ० ६।४।७६ ) पूर्वे देवाः प्रथमोत्पन्नाः सर्वे देवा वशिष्ठादयः, यत्र गर्भे समपश्यन्त सम्यग् ) इत्याकारलोपे ' दधे ' इति रूपम् । देवमनुष्यादयः सर्वे प्राणिनः सन्तीति शास्त्रप्रसिद्धिः । सोऽपि गर्भः क इति दृष्टवन्तः, जगदिति शेषः । तस्मिन् गर्भे धारो न विज्ञायते, तदा अत्यन्तं सूक्ष्मं ब्रह्म आत्मतत्त्वं न विज्ञायत इति किमु न ज्ञायते । यदा स्थूलोऽप्ययं जगदा-सर्वदा सर्वदेशेषु सर्वकालेषु चास्ति, तद् ब्रह्मेति शेषः । यद्वा के गर्भं दध्रे वक्तव्यमिति तात्पर्यम् । यच्च पूर्वजाता देवाः प्रजापतिना सङ्गताः समपश्यन्त इदं जगत् सम्यग् दृष्टवन्तः । धारितवत्य आपः यत्र गर्भे पूर्वे अध्यात्मपक्षे- - उक्त एवार्थः । दयानन्दस्तु --- ' हे मनुष्याः, य एता सूर्यादिलोकेभ्यः परः अत्युत्तमः परः । देवेभिः विद्वद्भयो दिव्यप्रजाभ्यो वा । असुर: असुरेभ्यः । पृथिव्याः पृथिव्यादि लोकेभ्योऽपि आपः प्राणाः कंस्विद् कञ्चित् प्रथमं विस्तृतं गर्भं ग्रहणयोग्यं पदार्थम् अपण्डितेभ्यः कालरूपप्रजाभ्यश्व परोऽस्ति । यत्र अध्येतारो देवा विद्वांसः समपश्यन्त ज्ञानचक्षुषा पश्यन्ति तं जानत, दध्रे धारणमाणाः, यत् पूर्व पूर्णविद्याया परस्य तद्धेतूनां प्रकृतिमहदहङ्कारादीनामपि सम्भवात् । प्रथमगर्भशब्दयोर्व्याख्यानमपि ' इति, तदपि यत्किञ्चित्, सूर्यलोकादिभ्य निर्मूलमेव ॥ २ ९ ॥

तमिद् गर्भे प्रथ॒मं व॑त्र॒ आपो॒ यत्र॑ दे॒वा स॒मग॑च्छन्त॒ विश्वे ' ।

अ॒जस्य॒ नाभावध्येकमर्पितं यस्मा॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥ ३० ॥

मन्त्रार्थ- -जल ने पहले उसे ही गर्म में धारण किया, क्योंकि गर्भ में सम्पूर्ण उस गर्म का आधार क्या है? जन्मरहित परमेश्वर के नाभिस्थानीय मध्य देवता एकत्र होकर रहते हैं । वस्तु को बीज ( गर्भरूप ) में स्थापित किया, जिसमें सम्पूर्ण भूतसमूह विद्यमान भाग में एक अविभक्त अनन्यभूत किंचित् आश्रय है, उसका कोई आश्रय नहीं है । ३० ॥ थे, अर्थात् यह परमात्मा ही सबका

पृष्ठ 145

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 145 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३०-३१ ] वेदार्थपारिजातभाष्यसहिता तमिदिति प्रत्युत्तररूपो मन्त्रः । आपः प्रथमं तमित् तमेव आश्चयंभूतं गर्भं दधे दधिरे । इच्छब्दो निपात आश्चर्यवचनः । यत्र गर्भे विश्वे सर्वे देवा: समगच्छन्त सङ्गताः । नन्वद्भिः सहितस्य तस्य नाभावधि गर्भस्य अण्डरूपस्य के आधार इति चेत्, तत्रोच्यते -- अजस्य न जायत इत्यजः, तस्य जन्मरहितस्य परमात्मनो । ' अप एव नाभिस्थानीयस्य स्वरूपस्य मध्ये एकमविभक्तमनन्यभूतमर्पितं समर्पितं किंचिद्वीजं गर्भरूपं स्थापितम् ससर्जादौ तासु बोजमवासृजत् । तदण्डमभवद्धेमं सूर्यकोटिसमप्रभम् ॥ ' ( म ० ११८ - ९ ) इति मनुनाऽप्ययमर्थः भगवः समर्थ्यते । स एव सर्वाग्रयो न तस्यान्य आश्रयः सर्वमूलस्यापि मूलान्तरकल्पनेऽनवस्थाप्रसङ्गात्, ' स स्मन् प्रतिष्ठित इति स्वे महिम्नि ' ( छा ० उ ० ७ । २४ । १ ) इति श्रुतेः । काण्वभाष्यरीत्या तु — इदानीं गुरुशास्त्रानुशासनोपेतेषु विद्यमानस्तत्त्वनिर्णयोऽभिधीयते - यत्र यस्मिन् ब्रह्माण्डगर्भे विश्वे सर्वेऽपि देवाः समगच्छन्त सङ्गताः सम्भूय वर्तन्ते, तमिममेव गर्भमापः प्रथमं दधिरे । तत्प्रकार एव स्पष्टीक्रियते - अजस्य जन्मरहितस्य परमेश्वरस्य नाभौ नाभिस्थानीय स्वरूपमध्ये एकं किञ्चिद्वीज-मध्यर्पितम् अधिकत्वेन स्थापितम् । अस्मिन् बीजे विश्वानि सर्वाण्यपि भुवनानि भूतजातानि तस्थुः, तद्वीज-मर्पितमित्यर्थः । अध्यात्मपक्षे - अयमेवार्थः । दयानन्दस्तु — ' हे मनुष्याः, यत्र ब्रह्मणि, आपः कारणं प्राणा जीवो वा प्रथमं विस्तारयुक्तं गर्भं सर्व-लोकोत्पत्तिस्थानं प्रकृति दधे धारयन् भवति, यत्र विश्वे देवा दिव्यात्मानो योगिजनाः समगच्छन्त प्राप्नुवन्ति विराज-, अजस्य अनुत्पन्नस्य अनादिजीवस्य अव्यक्तकारणसमूहस्य वा नाभौ मध्ये अधि अधिष्ठातृत्वेन सर्वस्योपरि यूयं तमेव जानत ' मानम् एकं स्वतः सिद्धम् अर्पितं स्थितम्, यस्मिन् विश्वानि भुवनानि लोकोत्पन्नद्रव्याणि तस्थुः, इति, तदपि विसङ्गतमेव, ब्रह्मणि निर्विकारे गर्भाधानस्य निष्प्रमाणकत्वात् । ब्रह्मण्यापो गर्भ धारयन्तीति सर्वथा प्रमाणशून्यमेव । आप इत्यस्य जोवार्थकत्वं कारणसमूहार्थत्वं च निर्मूलमेव । ' प्रथमं विस्तारयुक्तं गर्भं प्रकृति दध्रे ' इत्यपि विचित्रम् । प्रकृति: शक्तिर्वा कारणत्वेनोक्ता न तु गर्भत्वेन, ' मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम् ' ( श्वे ० उ ० ४ | १० ) इति श्रुतेः । ' प्रकृति पुरुषं चैव विद्धयनादी उभावपि ' ( भ ० गी ० १३ | १ ९ ) इति भगवद्वचनाच्च ॥ ३० ॥

न तं वि॑दाय॒ य इ॒मा ज॒जान॒भ्यद्यु॒ध्माक॒मन्त॑रं बभूव ।

नीहारेण प्रावृता जल्यो चासुतृप॑ उक्य॒शास॑श्चरन्ति ॥ ३१ ॥

मन्त्रार्थ - जिस परमात्मा ने इस सारे जगत् को उत्पन्न किया है और जो अहंकार आदि से युक्त जीवों के अन्तर में भी विद्यमान है, उसको तुम नहीं जान सकते, क्योंकि अन्धकारसदृश अज्ञान से मैं देवता हूँ, मैं मनुष्य हूँ, यह मेरा गृहक्षेत्र है, इत्यादि असत् बातों से आच्छादित हुआ जिस किसी प्रकार से प्राण के पोषण की चिन्ता में लगा ईश्वर के वास्तविक तत्व को न विचार कर परलोक के भोगों को पाने के लिये सकाम यज्ञों में स्तुति करता हुआ वह प्राणी विचरता है । वास्तव में ईश्वर तत्त्व का ज्ञान सब प्रकार के अहंकार को छोड़ने पर ही होता है ॥ ३१ ॥

वेदपुरुष उपदिशति - न तमिति । यो विश्वकर्मा इमा इमानि भूतजातानि जजान उत्पादितवान् पालयति संहरति च, जनेरुपलक्षणत्वात् तं विश्वकर्माणं न विदाथ हे जीवाः! यूयं न जानीथ । ' लेटोऽडाटी ' ( पा ०

पृष्ठ 146

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 146 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११० शुक्लयजुर्वेद संहिता [ अ ० १७ सू ० ३ / ४ / ९ ४ ) इत्याडागमः । ननु चैत्रोऽहम्, मैत्रोऽहम् विष्णुमित्रोऽहमिति रूपेण सर्वोऽप्यात्मानं जानात्येव, आत्मैव च परमेश्वर: ' तत्त्वमसि ' ( छा ० ६ ८७ ) इत्यादिश्रुतिभ्यः इति चेत् तदसत् परमेश्वरस्य अहंप्रत्ययगम्येभ्यो जैव-रूपेभ्योऽन्यत्वात् । तदेवाह -- युष्माकमिति । युष्माकमहं प्रत्ययगस्यानां जीवानामन्तरमाभ्यन्तरं वास्तवं रूप-मन्यद् अहं प्रत्ययगम्यादतिरिक्तं सर्ववेदान्तमहातात्पर्यगोचरं पारमेश्वरं तत्त्वं बभूव भवति विद्यते । ननु जीव-रूपवत् तदपि कुतो न विद्म इति चेत्, नीहारेण प्रावृता नीहारसदृशेन अज्ञानेन आवृतत्वान्न जानीथेति । नीहारो यथा दृष्टेरावरकत्वान्नात्यन्तमसन्, पाषाणादिवदवरोधकत्वाभावाच्च नात्यन्तं सन् एवमज्ञानमपि नात्यन्तमसत्, ब्रह्मात्मतत्त्वावरकत्वात् नापि सतु, बोधमात्रनिवर्त्यत्वात् । तादृशेन अज्ञानेन सर्वे जीवाः प्रावृताः । जल्प्या च जल्पनं जल्पिस्तया देवोऽहं मनुष्योऽहं ममेदं गृहक्षेत्रादिकम् इत्यनृतजल्पनेन व्याप्ताश्च । किञ्च, असुतृपा असुषु प्राणेषु प्राणोपलक्षितेष्वनात्मसु तृप्यन्तीत्यतृपो ब्रह्मात्मतत्त्वविचारपराङ्मुखाः, न केवलं लौकिकभोगपरायणाः, किन्तु उक्थशासः परलोकभोगान् सम्पादयितुं यज्ञेषु उक्थानि शंसन्तीति उक्थशास उवथादिशस्त्रस्तोतारः । शसेः विपि रूपम् । ऐहिकामुष्मिकभोगप्रवृत्तानामज्ञानमिथ्याज्ञानपराधीनानां तत्वज्ञानं नास्तीत्यर्थः । यद्वा य इमा जजान । कुतो न विद्म इति चेत्तत्राह - युष्माकमिति । युष्माकं तस्य च अन्यद् महद् न तं विदाय स परमश्वरो जनको यूयं जन्याः, स भ्रामको यूयं भ्राम्याः । यदि तु ज्ञात्वा आत्मत्वेनोपाध्वं तदा अन्तरं संसृतेरुन्मूलनं भेदो बभूव भवति । एवं प्रत्यक्षज्ञानुक्त्वा परोक्षज्ञानां भियं दर्शयन्नाह - नीहारेणेति । ये चैते नीहारेण अविद्यया प्रावृता अवगुण्ठिताः, ये च जल्प्याः पक्षहेतुदृष्टान्तैरात्मज्ञानं जल्पन्तीति जल्प्याः, कुतार्किकाभिप्रायमेतत् । ये चासुतृपः असून प्राणान् तर्पयन्तीत्यसुतृपः अलङ्करिष्णवः, तैरपि सह तस्य पुरुषस्य महदेवान्तरं बभूव । ये उक्थशास उक्थानां शसितारः । उक्थानि च यज्ञेषु शस्यन्ते, अत उक्थशासः पदेन यज्वानो गृह्यन्ते । ये प्रतिविचरन्ति ये तु पुरुषविदस्ते तु पुरुषा एव भवन्ति, नीहारप्रावृतास्तु नरकयायिनो यज्ञशीलास्ते भवन्तीत्युब्बटा- पुरुषं चार्याभिप्रायः । अध्यात्मपक्षे - अयमेवार्थः । दयानन्दस्तु - ' हे मनुष्याः, यथा ब्रह्मानभिज्ञा नीहारेण धूमसदृशेन मिहिकया तुलितेन अज्ञानेन अन्ध-कारण प्रावृता जल्प्या सत्यासत्यवादानुवादनिरता असुतृपः प्राणपोषका उक्थशासो योगाभ्यासमपहाय मण्डनादी रममाणाश्चरन्ति तं परमात्मानं न जानन्ति जानीथ य इमा इमानि यद् ब्रह्म युष्माकमधर्मिणामज्ञानिनां खण्डन-च सकाशाद् अन्यत् सर्वेषु स्थितोऽपि दूरस्थो बभूव, तमतिसूक्ष्मं परमात्मानं न विदाय ' इति, तदपि यत्किञ्चित्, अज्ञानिनोऽज्ञानेनावृता इत्युक्तेनिरर्थकत्वादशब्दार्थत्वाच्च, अज्ञानिन इत्यनेनैवाज्ञानावृतत्वसिद्धेः । नीहारपदस्य धूमो नार्थः, मिहिकार्थत्वात् । जल्प्या इत्यस्यापि व्याख्यानं चिन्त्यम्, ' जल्प व्यक्तायां वाचि ' इति धात्वर्थ-विरोधात् । उक्थशास इत्यस्य खण्डनमण्डनाद्यर्थता निर्मूलेव, उक्थादिशस्त्रानभिज्ञानात् । दूरस्थपदमपि मूले नास्त्येव ॥ ३१ ॥

वि॒िश्वक॑र्मा ह्यज॑निष्ट दे॒व आदिद् गन्ध॒र्वो अ॑भवद् द्वितीयः ।

ततोर्यः पि॒ता ज॑नि॒तोष॑धीनामपां गर्भं व्यदधात् पुरुत्रा ॥ ३२ ॥

मन्त्रार्थ -- इस ब्रह्माण्ड के बीच सर्वप्रथम देव, तिर्यक् आदि जगत् का भेद करने वाले सत्यलोकवासी चतुर्मुख देव प्रादुर्भूत हुए, अर्थात् आदित्य के अन्तर में पुरुष रूप से प्रकट हुए । अनन्तर दूसरी सृष्टि में गन्धवं पृथ्वी को धारण करने वाले अग्नि अथवा गानविद्या में चतुर देवयोनिविशेष प्रकट हुए । तीसरी सृष्टि औषधियों के उत्पादक और पालक पर्जन्य ( वृष्टि ) की हुई । वह पजन्य उत्पन्न होते ही आहुति के परिणामभूत जल को अनेक प्रकार से गर्भ में धारण करता रहा ॥ ३२ ॥

पृष्ठ 147

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 147 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३२-३३ ] वेदार्थ पारिजातभाष्यसहिता १११ ब्रह्माण्डगतानामुत्पत्तिरुच्यते । हि यस्माद् विश्वकर्मा ब्रह्माण्डमध्ये प्रथमं देवतिर्यगादिजगद्भेदकर्ता ब्रह्मलोकश्चतुर्मुखो देवो दीव्यमानः प्रथमम् अजनिष्ट उत्पन्नः । आत् इद् अनन्तरमेव तदपेक्षया द्वितीयो गन्धर्वः । गोर्वाचो धारयिता, गोः पृथिव्या वा धारयिताग्निः, ' अग्निर्ह गन्धर्वः ' ( श ० ९ १४ | ११७ ) इति श्रुतेः । गानाद्वा गन्धर्वः, अभवत् । पिता पालयिता ओषधीनां जनिता उत्पादकः पर्जन्य उत्पन्नः स पूर्वोक्तद्वयापेक्षया तृतीयोऽभवत् । स उत्पन्नः सन् अपामाहुतिपरिणामभूतानाम् अपां गर्भं व्यदधात् करोति धारयति वा । कथंभूतं गर्भम्? पुरुत्रा पुरून् बहून् त्रायते रक्षतीति पुरुत्रा, बहूनां रक्षकं बहुप्रकारं वा, विभक्तेराकारः । यद्वा विश्वकर्मा आदित्यमण्डलान्तर्गतः पुरुषः । हि यस्मात्, अजनिष्ट जातः । स च देवो दानादिगुणकः, तस्मात् प्रथममजनिष्ट । आदिद् अनन्तरमेव गन्धर्वो गोः पृथिव्या धारयिताग्निः, गानाट्टा गन्धर्वोऽग्निः, द्वितीयः सहायाय अजनिष्ट, ' अथ आहुरग्निरेवास्यै पृष्ठे सर्वः कृत्स्नो मन्यमानोऽगायद् यदगायत् तस्मादग्निः ' ( श ० ६ | १ | १ | १५ ) इति श्रुतेः । ओषधीनां पिता पालयिता जनयिता पूर्वद्वयापेक्षया तृतीयः पर्जन्योऽभवत् । स चोत्पन्नः सन्नपामाहुतिपरिणाम -भूतानां गर्भं व्यदधात् । कीदृशः पर्जन्यः? पुरुत्रा बहूनां त्राता । यद्वा - अपां गर्भं व्यदधात् पुरुत्रा बहुप्रकारं पृथिव्यां धारयति । अध्यात्मपक्षे - अयमेवार्थः । दयानन्दस्तु - ' हे मनुष्याः, जगत्यस्मिन् विश्वकर्मा समस्तशुभकर्मयुक्तो देवो दिव्यस्वरूपो वायुः प्रथमम् इद् एव आद् अनन्तरं गन्धर्वः यः पृथिव्या धारक: सूर्य: सूत्रात्मा वायुर्वा अजनिष्ट । ओषधीनामपां जलानां प्राणानां वा पिता पालको हि द्वितीयो धनञ्जयः, अपां प्राणानां गर्भं धारकं व्यदधात् । पुरुत्रा बहूनां रक्षको जनिता जलानां धारको मेघस्तृतीय उत्पन्नस्तज्जानीथ ' इति, तदपि यत्किञ्चित्, वायोरेवाशुभस्यापि कर्मण: कर्तृत्वेन तद-योगात्, अन्यस्य आदित्यस्य वायोरनिरूपणात् । न च तस्य प्रथमोत्पत्तिः, आकाशस्य तत्पूर्वभावित्वात् । न च सूर्यः पृथिव्या धारकः, एतादृशमतस्य आधुनिकत्वात् । कोऽयं धनञ्जयो यः प्राणानां पिता? उपप्राणश्चेत्, कथं तस्य मुख्यप्राणपालकत्वम्? अन्यदप्येतादृगेव व्याख्यानम् ॥ ३२ ॥

आशुः शिशा॑नो वृषभो न भोमो ध॑नाघ॒नः क्षोभणश्चर्षणीनाम् । संक्रन्दनोऽनिमिष एकवीरः शत सेना अजयत् साकमिन्द्रः ॥ ३३ ॥

मन्त्रार्थ - शीघ्रगामी, वज्र के समान तीक्ष्ण, वर्षा के स्वभाव की उपमा वाला, भयकारी शत्रुओं का अतिशय घातक, मनुष्यों के क्षोभ का हेतु, बार - बार गर्जन करने वाला देवता होने से पलक न झपकाने वाला, अत्यन्त सावधान अद्वितीय वीर इन्द्र एक साथ ही शत्रुओं की सैकड़ों सेनाओं को जीत लेता है ॥ ३३ ॥

' आहवनीये प्रणीयमानेऽप्रतिरथस्य द्वादश ब्रुवन्नग्नौ सर्वत्रैके ' ( का ० श्रौ ० ११ । १ । ९ -१० ) । अग्निचयने चित्यग्नि प्रति आहवनीये प्रणीयमाने अध्वर्युणा सम्प्रेषितो ब्रह्मा दक्षिणतोऽनुव्रजन् आशुः शिशान इत्येतस्य अप्रतिरथसूक्तस्य द्वादशर्चो जपेत् । एके शाखिनः सर्वत्र अनग्निके साग्निके च क्रतौ अग्निप्रणयनेऽप्रतिरथस्य द्वादश ऋचो ब्रुवन् ब्रह्मानुगच्छेदित्याहुरिति सूत्रद्वयार्थः । अप्रतिरथदृष्टा इन्द्रदेवत्या द्वादश त्रिष्टुभः । इन्द्रः शतं सेनाः शतसंख्याकाः परकीयसेनाः साकं सहैव एकप्रयत्नेनैव अजयद् जयति । कीदृशः इन्द्रः? आशुः अश्नुते व्याप्नोतीत्याशुः शीघ्रगामी । शिशानः ' शो तनूकरणे ' इत्यस्य बहुलं छन्दसि ' ( पा ० सू ० २ | ४ | ७६ ) इति जुहो-त्यादित्वात् शानचिद्वित्वे रूपम् । श्यति वज्रं तीक्ष्णीकरोतीति शिशानः । वृषभो न वृषभ इव भीमो भयङ्करः,

पृष्ठ 148

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 148 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११२ शुक्लयजुर्वेदसंहिता [ अ ० १७ अत्युग्र इत्यर्थः । घनाघनः शत्रूणामतिशयेन घातकः, हनहनेति वक्ता वा, वृष्टिकर्तृमेधरूपो वा । ' शक्रो घातुकमत्तेभो । वर्षाकाब्दो घनाघनः ' ( अ ० को ० ३ | ३ | १० ) इति कोषात् । चर्षणीनां परसेनागतानां मनुष्याणां क्षोभणः क्षोभहेतुः न संक्रन्दनः समीचीनं क्रन्दनं परभयहेतुध्वनिविशेषो यस्यासी संग्रामकारिणां समाह्वाता वा एकः । अनिमिष प्रधानश्चासौ निमिषतीत्यनिमिषः, अत्यन्तं सावधानः । अथवा देवोऽनिमिषस्तस्य निमेषाभावात् । एकवीर इति वीरः, स तथोक्तः । परनैरपेक्ष्येण स्वयमेव अनन्तशत्रु सेना जेतुं शक्तः । तादृश इन्द्रः शतं सेना अजयद् सम्बन्धः अत्र ब्राह्मणम् — ‘ अथातः सम्प्रेष्यति । उद्यच्छेध्ममुपयच्छोपयमनीरग्नये प्रह्रियमाणायानुब्रू तत्प्रणयनौपयिकीः ह्यग्नीदेक-स्फ्याऽनुदेहि ब्रह्मन्नप्रतिरथं जयेति ' ( श ० ९ २ | ३ | १ ) । इत्थमग्निप्रणयनार्थं यथोक्तं होमं विधाय प्रक्षिप्तं काष्ठमिमं क्रियाः कत तदुचितं सम्प्रेषमाह - अथातः सम्प्रेष्यतीति । प्रणेष्यमाणाग्निसिद्धयर्थं गार्हपत्ये । ताः कुरु । तदेतदुभयं तद् उद्यच्छ । अग्निधारणार्थमधस्तात्क्रियमाणाः सिकता उपयमन्यः, ताश्च उपयच्छ यावत् । प्रतिप्रस्थातारं प्रत्युच्यते । हे होतः प्रह्रियमाणायाग्नये अनुब्रूहि, अग्निप्रणयनीया ऋचोऽनुब्रूहीति सूक्तं जप । एवं तंत्र हे अग्नीत्, त्वमेकया स्क्यरेखयाऽनुगच्छ । हे ब्रह्मन्, ' आशुः शिशानः ' इत्याद्यप्रतिरथाख्यं दक्षिणतोऽसुरा तत्र व्यापारे तं तं विनियुज्यादित्यर्थः । एतद्वै देवानुपप्रेष्यतः । एतं यज्ञं तस्यमानान् ३ २ ) । अप्रतिरथजपोपयोगं रक्षांसि नाष्ट्रा अजिघासन यक्ष्यध्वे न यज्ञं तस्यध्व इति ' ( श ० ९ २ गच्छतो देवान् दक्षिणभागेन पुराकल्पेनाह - एतद्वा इति । चयनाख्यं यज्ञं करिष्यमाणान् कर्तुमग्निविहारसमीपे लट् । न यज्ञं तस्यध्वे विस्तारयध्वमित्य-एत्य असुरा रक्षांसि च न यक्ष्यध्वे न यजध्वम् । व्यत्ययेन लोडर्थे जिघांसन् देवानां यज्ञं विहन्तुमैच्छन् ॥ ' ते देवा इन्द्रमब्रुवन् । त्वं वै नः श्रेष्ठो बलिष्ठो वीर्यवत्तमोऽसि त्वमिमानि रक्षांसि प्रतियतस्वेति चंव तस्य वै ब्रह्मद्वितीयमस्त्विति तथेति तस्मै वै बृहस्पति द्वितीयमकुर्वन् ब्रह्म वै ' बृहस्पतिस्त ( श ० ९ | २ | ३ इन्द्रेण | ३ ) | देवा बृहस्पतिना च दक्षिणतोऽसुरान् रक्षा ँसि नाष्ट्रा अपहत्या भयेनाष्ट्र एवं यज्ञमतन्वत कुरुष्व । इन्द्रेण इन्द्रमब्रुवन् नोऽस्माकं मध्ये त्वमेव श्रेष्ठो बलिष्ठश्च । त्वमिमानि रक्षांसि प्रतियतस्व प्रतियत्नं तथा कृत्वा ते देवा ब्राह्मणो द्वितीयोऽस्त्वयुक्तम् । तथैव कुर्म इत्युक्त्वा देवा बृहस्पति द्वितीयमकुर्वन् । यज्ञमकुर्वत । इन्द्रेण बृहस्पतिना च दक्षिणभागे नाशकान् असुरान् रक्षांसि चापहत्य अनाष्ट्रे अभये प्रदेशे प्रकृतं अकुर्वंस्तत्कर-' तद्वा एतत्क्रियते । यद्देवा अकुर्वन्निदं नु तानि रक्षांसि देवैरेवापहतानि यत्त्वेतत् करोति यद्देवा यज्ञं तनुते ' वाणीत्यथो इन्द्रेण चैवैतद् बृहस्पतिना च दक्षिणतोऽसुरान् रक्षांसि नाष्ट्रा अपहत्याऽभयेऽनाष्ट्र एतं ( श ० ९ ।२।३।४ ) । देवाः पूर्वं यत्कर्म अकुर्वन्, इदानीन्तनेऽपि यज्ञे याज्ञिकास्तथैव कुर्वन्ति । यद्यप्यस्य रक्षसामपहनन- करणीय-कर्मणः पूर्वं देवेरेव सम्पादितत्वात् चरितार्थत्वादेतत्कर्म न करणीयम्, तथापि देवः कृतमतोऽस्माभिरपि मिति धियैव एतत्कर्मानुष्ठानम् । शेषं सुगमम् । स यः स इन्द्रः । एष सोऽप्रतिरथोऽथ यः स बृहस्पतिरेष स ब्रह्मा तद्यद् ब्रह्माप्रतिरथं जपतीन्द्रेण चैवैतद् बृहस्पतिना च दक्षिणतोऽसुरान् रक्षांसि नाष्ट्रा अपहत्याभयेऽनाष्ट्र एतं यज्ञं तनुते तस्माद् ब्रह्माऽप्रतिरथं जपति ' ( श ० ९ | २ | ३ | ५ ) | ननु देवाः पूर्वमिन्द्र बृहस्पतिभ्यां रक्षांस्यपाघ्नन्नित्ये- - स तदस्तु, प्रकृते क इन्द्रः? को वा बृहस्पतिः? कथं वा ताभ्यां रक्षसामपहननं कर्तुं युक्तमुपपद्यते? इत्याह यः स इति । प्रथमतच्छब्देन पूर्वं दक्षिणभागे रक्षसामपहन्ता इन्द्रः परामृश्यते । स य इन्द्रोऽस्ति, एष सोऽप्रतिरथ इत्यादि स्पष्टम् । 9 अध्यात्मपक्षे -- इन्द्रो निरङ्कुशपरमैश्वर्यो भगवान् श्रीरामः शतं सेना रावणादीनामेकप्रयत्नेनैव गच्छति । अजयत् गजेन्द्र- । कीदृश इन्द्रः? आशुः शीघ्रगामी गरुडादिभ्यो मरुद्भूयो मनसोऽपि वेगवत्तमो भूत्वा भक्तरक्षार्थं

पृष्ठ 149

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 149 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३३-३४ ] वेदार्थ पारिजातभाष्यसहिता ११३ रक्षार्थं गरुडमपि त्यक्त्वाऽधावत् । ' छन्दोमयेन गरुडेन समूह्यमानश्चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ' ( भा ० पु ० ८ | ३ | ३१ ) । तत्र भगवान् वेद एव गरुडः संवृत्तः । चक्रेण नक्रवदनं विनिपाट्य तस्माद् हस्ते प्रगृह्य गजेन्द्रमुद्धृत्य सुखासीनं भगवन्तं पश्चादेव महता वेगेन धावन्नपि गरुडस्तत्रोपगतः, ' मनसो जवीय: ' ( वा ० सं ० ४०१४ ), ' तद्धावतो -न्यानत्येति ' ( वा ० सं ० ४० ४ ) इति मन्त्रवर्णात् । शिशानो वज्रवत्तीक्ष्ण उग्रश्च महद्भयं वज्रमुद्यतम् ' ( कठो ० २६ २ ) इति श्रुतेः । वृषभो न भीमो वृषभ इव भयङ्करः । यद्वा वर्षति कामान् भरति च यः स वृषभो धर्मराजः । धर्मराज एव दण्डधरो यमराज उच्यते । तद्वद् भीमः । घनाघनः शत्रूणामतिशयेन घातकः, वृष्टिकर्तृमेधरूपो वा । चर्षणीनां शत्रुसेनागतानां मनुष्याणां क्षोभणः क्षोभहेतुः । अन्यत् सर्वं पूर्ववदेव । दयानन्दस्तु - है विद्वांसः! यूयं तमेव वीरं सेनापति कुरुत, यश्चर्षणीनां मनुष्याणां सेनासु वा शीघ्रकारी शिशानः पदार्थानां सूक्ष्मत्वापादकः, वृषभ इव भीमः शत्रूणामतिशयेन घातकः, रिपूणां प्रकम्पनहेतुः, संक्रन्दनः शत्रूणां रोदनकारकः, अनिमिषः अहर्निशं प्रयतमानः एकवीरो मुख्यो वीरः इन्द्रः शत्रुविदारकः सेनाधिपतिरस्माभिः साकं शतं सेना अजयद् जयेत् ' इति, तदपि महोधराद्यनुकरणमात्रम् । सम्बोधनं तु निर्मूलमेव । प्रकृते शिशानः सूक्ष्मत्वापादक इत्यपि विसङ्गतम्, तनूकरणस्य तीक्ष्णीकरणार्थत्वात् । अनिमिष इत्यस्य अहर्निशं नार्थः, प्रमाणशून्यत्वात् ॥ ३३ ॥

संक्रन्द॑नेनाऽनिमि॒षेण॑ जि॒ष्णुना॑ तदिन्द्रेण जयत तत्संहध्वं

युत्कारेण॑ दु॒श्च्यव॒नेन॑ धृष्णुना ।

यु॒धो ' नर॒ इषु॑हस्तेन॒ वृष्णः॑ ॥ ३४ ॥

मन्त्रार्थ - हे युद्ध करने वाले मनुष्यों! प्रगल्भ भयरहित शब्द करने वाले, अनेक युद्धों को जीतने वाले, युद्ध करने वाले एक चित्त होकर हाथ में बाण धारण करने वाले, जयशील स्वयं अजेय, कामनाओं की बर्षा करने वाले इन्द्र के प्रभाव से उस शत्रुसेना को जीतो और शत्रुसेना को अपने वश में करके उसे विनष्ट कर दो ॥ ३४ ॥

युधः, युध्यन्ते ते युधः, नरो योद्धारो मनुष्याः! इन्द्रेण कृत्वा यूयं तत्परबलं जयत वशीकुरुत । इन्द्रेण सह वा इन्द्रेणानुगृहीता वा । वशीकृत्य च तत्सहध्वम् अभिभवत, विनाशयतेति यावत् । विना कारणं द्वेष्टृणि रक्षांसि प्रतीयमुक्तिः । अतः परमिन्द्रशब्दविशेषणानि व्याख्यायन्ते । कथम्भूतेन इन्द्रेण? संक्रन्दनेन सम्यक् क्रन्दयति शत्रूनिति संक्रन्दनः तेन शत्रुभयावहशब्दकारिणा । पुनः कीदृशेन? अनिमिषेण एकचित्तेन, अप्रमादिनेति यावत् । पुनः कीदृशेन? जिष्णुना जयनशीलेन । पुनः कीदृशेन? युत्कारेण युध्यत इति युत्, भावे प्रत्ययः, तत्करोतीति युत्कारः कर्मण्यण् तेन युद्धकारिणा । दुश्च्यवनेन दुःखेन च्यावयितुं शक्यो दुश्च्यवनः, अजय्य इयि तावत् तेन अप्रच्युतस्वभावेन । धृष्णुना धृष्णोतीति धृष्णुः प्रगल्भः, ' सिगृधिधृषिक्षिपेः क्नुः ' ( पा ० सू ० ३ २ १४० ) इति रूपसिद्धि:, तेन निर्भीकेणेति यावत् । पुनः कीदृशेन? इषुहस्तेन, इषवो हस्ते यस्य स इषु-हस्तस्तेन वज्राद्यायुधहस्तेन । वृष्णा वर्षात कामानिति वृषा, ' कनिन् युवृषि ' ( उ ० १।१५६ ) इति रूपसिद्धिः, तेन कामानां वर्षुकेण । अध्यात्मपक्षे - हे युधो योद्धारो वानरभल्लूकादिभटाः, हे नरो मनुष्यादिभटाश्च यूयमिन्द्रेण पूर्वोक्तेन श्रीरामेण सार्धं परबलं जयत वशीकुरुत । वशीकृत्य च सहध्वमभिभवतेति देवा भक्ताश्च प्रार्थयन्ते । कीदृशेन श्रीरामेण? इषुहस्तेन इषवो बाणा हस्ते यस्यासी इषुहस्तस्तेन । वृष्णा अभीष्टवर्षिणा । संक्रन्दनेन शत्रुभयावह -शब्दकारिणा, इत्यादि पूर्ववत् । १५

पृष्ठ 150

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 150 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११४ शुक्लयजुर्वेदसंहिता [ अ ० १७ कष्टकारकेण दयानन्दस्तु - ' हे योद्धारो नराः, यूयमनिमिषेण निरन्तरप्रयत्नवता दुश्च्यवनेन इन्द्रेण शत्रूणां सेनापतिना शत्रून् धृष्णुना दृढोत्साहवता युत्कारेण विविधरचनाभिर्योद्दृणां मिश्रणामिश्रणकारिणा मानाभावात् । दुश्च्यवनेनेत्यस्य कष्ट-जयत सहध्वं च ' इति, तदपि यत्किञ्चित् इन्द्रशब्दस्य सेनापत्यर्थतायां कारित्वं कथमर्थः? अनिमिषेणेत्यस्य निरन्तर प्रयत्नकारित्वार्थोऽपि चिन्त्य एव || ३४ ||

स इषु॑हस्त॒ स निष॒ङ्गभिर्वृशी सन॑ष्टा॒ स यु॒ध॒ इन्द्रो ' ग॒णेन॑ ।

स॒ ँ स॒ष्ट॒जित् सोम॑म॒या वा॑ह॒श॒र्युग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥ ३५ ।

मन्त्रार्थ - वह जितेन्द्रिय हाथ में बाण लिये हुए धनुषधारियों को युद्ध के लिये ललकारने वाला धनुष वाला इन्द्र शत्रु- वह समूहों को एक साथ युद्ध में जीत सकता है । यजमानों के यज्ञ में सोमपान करने वाला बाहुबली उत्कृष्ट ॥ इन्द्र अपने धनुष से छोड़े हुए बाणों से शत्रुओं का नाश कर देता है । वह इन्द्र हमारी रक्षा करे ॥ ३५ इन्द्र एवं विशेष्यते - स इन्द्रः, अस्मानवत्विति शेषः । स च इन्द्रः, इषहस्तैर् इषवो बाणा हस्तेषु येषां ते इषहस्ता बाणधारणकर्तारः तैः । निषङ्गिभिर् निषङ्गाः खड्गाः सन्ति येषां ते निषङ्गिणः, तैस्तादृशैः वशी आत्मतन्त्रो सैनिकैः सह, स्वप्रभावात् सदा वर्तमानः । वशी वशयति रिपूनिति वशी, यद्वा वशयति इन्द्रियाणीति ' वश कान्तो ' निगृहीतकामक्रोध लोभमोहमदमात्सर्यारिषड्वर्ग ईश्वरो वा । यद्वा उश्यते काम्यते जनैरिति वशी जनप्रियः । यद्वा स्वकीयैर्धानुष्कैः खड्गहस्तेश्च परकीयं बलं स्ववशं नयतीति वशी, यद्वा परसैन्यगतेर्धानुष्कैः खड्ग-हस्तैश्व सहितान् परकीयान् सर्वान् वशीकरोतीति वशी स इन्द्रः । गणेन रिसमूहेनापि सह युधः गणेन परकीयभट युध्यतइति -यध:, ' इगुपधज्ञाप्रीकिरः कः ' ( पा ० स ० ३ | १ | १३५ ) इति कप्रत्ययः, एकाकी युद्धकर्ता । अथवा संसृष्टान् समूहेन संस्रष्टा समीचीनतया मिश्रितो भवति । यद्वा संस्रष्टा युद्धाय परैः संसर्गं करोति । संसृष्टजित् स्वेन शर्धी । सर्वान जयतीति तथोक्तः । सोमपा यज्ञेषु सोमं पिबतीति सोमपाः । बाहुशर्धी शर्धं बलमस्त्यस्येति ' शर्धमिति बलनामसु ' ( निघ ० २।९ ।७ ) । बाह्वोः शर्धी बाहुशर्धी बाहुबलोपेतः । उग्रधन्वा उग्रमुत्कृष्टं धनुषा धनुर्यस्यासो प्रेषिताभिः, उग्रधन्वा, उद्यतधनुष्कः ' धनुश्च ' ( पा ० सु ० ५ | ४ | १३१ ) इत्यनङ्ङादेशः । प्रतिहिताभिस्तेन । इषुभिर् अस्ता क्षेप्ता, शत्रूणां विनाशयितेति यावत् । सशब्दावृत्तिः पादपूरणार्था उव्वाचार्यरीत्या तु स इन्द्र इषुहस्तैर्योद्धृभिः संसृजति इषुहस्तानेव योद्धृन् संसृजति करोति । तथैव , न स इन्द्रो निषङ्गिभिरेव खङ्गिभिरेव संसृजति । निषङ्गण एवं योद्धृन् संसृजति युद्धाय संसर्गं शस्त्रास्त्रहीनैः पलायनपरायणैर्वा युद्धयत इत्यर्थः । स एवेन्द्रो युधः स्वान् योद्धृन् शत्रुगणेन प्रतिनिहिताभि- संस्रष्टा युद्धाय संयोजयति । संसृष्टजित् संसृष्टान् युद्धाय सङ्गतान् जयतीति संसृष्टजित्, प्रतिहिताभिः शत्रुशरीरेषु चेत्यभिप्रायः । ' नाददानं रिषुभिरेव इन्द्र अस्तेत्यनुमीयते । न स शरान् क्षिपन् दृश्यते । लघुसन्दधानो लक्षपाती । हन्यमानं तु तत्सैन्यं पश्यामि शरान् घोरान् विमुञ्चन्तं महाबलम् ॥ न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे शरवृष्टिभिः ॥ ' ( वा ० रा ० अ ० ३४।७-८ ) शेषं पूर्ववत् । अध्यात्मपक्षे – श्रीरामपक्षेऽपि सुसङ्गतानि पूर्वोक्तानि व्याख्यानानि देवराजेन्द्रापेक्षयापि वाल्मीकीये रामायणे तस्य युद्धकौशलप्रसिद्धेः । तत एवेन्द्रादिदेवतविजेतृन् रावणमेघनादादीन् निहतवान् श्रीराम इति प्रसिद्धिः । तथाहि-