वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 151–160
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 151–160
पृष्ठ 151
पाठ पढ़ें पाठ छिपाएँ
म ० ३५-३६ ] वेदार्थपारिजातभाष्यसहिता
ततः शरसहस्राणि निर्ययुश्चापमण्डलात् । सर्वा दश दिशो बाणेरापूर्यन्त समागतेः ॥
नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान् । विकर्षमाणं पश्यन्ति राक्षसास्ते शरादिताः ॥
शरान्धकारमाकाशमावृणोत् स दिवाकरम् । बभूवावस्थितो रामः प्रक्षिपन्निव तान् शरान् ॥
युगपत्पतमानैश्च युगपच्च हतैर्भृशम् । युगपत्पतितैश्चैव विकीर्णा वसुधाऽभवत् ॥
( वा ० रा ० अ ० २४ | ३८-४१ ) ११५ दयानन्दस्तु - ' स सेनापतिः, इषुहस्तैर् निषङ्गिभिः शिक्षितैर्भुशुण्डीशतघ्न्याग्न्येयादिशस्त्रास्त्रहस्तै-भृत्यैः सह वर्तमानः संस्रष्टा श्रेष्ठमनुष्यैः शस्त्रास्त्रैश्च संसर्गकर्ता वशी जितेन्द्रियान्तःकरणः प्राप्तशत्रुविजेता, सोमपा बलिष्ठौषधिरसपाता बाहुशर्धी बलोपेतबाहुस्तीक्ष्णधन्वा युद्धशीलः अस्ता शस्त्रास्त्रप्रक्षेप्ता इन्द्रः शत्रुविदारको गणेन शिक्षितवीरैः प्रत्यक्षतया स्वीकृत सेनाभिर्वर्तमानो जयति ' इति, तदपि यत्किञ्चित्, मन्त्रे भुशुण्डीशतघ्न्यादिबोधक पदाभावात् संस्रष्टा श्रेष्ठमनुष्यैः शस्त्रादिभिः संसर्गवानिति व्याख्यानस्य प्रकृतेऽ-सङ्गतेः । सोमपदस्यापि बलिष्ठौषध्यर्थकत्वे मानाभावः । गणेन प्रतिहिताभिरिति पदयोः सम्यक् शिक्षा, प्रत्यक्ष-तया स्वीकृता सेना चेति व्याख्यानं निर्मूलमेव || ३५ ||
बृह॑स्पते॒ परि॑दीय॒ रथेन रक्षोहामित्रों अप॒बाध॑मानः ।
प्र॒भ॒ञ्जन् सेना॑ः प्रम॒णो यु॒धा जय॑न्न॒स्माक॑मेध्या॑वि॒ता रथा॑नाम् ॥ ३६ ॥
प्रधा मन्त्रार्थ - वाणी का पति, अर्थात् व्याकरण का बनाने वाला होने से इन्द्र बृहस्पति कहलाता है, अथवा बृहस्पति उसके पुरोहित का संबोधन है । है बृहस्पते! तुम राक्षसों का नाश करने वाले हो, रथ के द्वारा सब ओर विचरण करते हुए शत्रुओं को और उनकी सेनाओं को अतिशय हानि पहुंचाते हो । तुम युद्ध में हिंसाकारियों को जीत कर हमारी रक्षा करो ॥ ३६ ॥
बृहस्पते इन्द्र, वाग्वे बृहती तस्था एष पतिः, व्याकरणकर्तृत्वादिन्द्रस्य बृहस्पतित्वं युक्तमेव । तथा च तैत्तिरीया आमनन्ति - ' ते देवा इन्द्रमब्रुवन्निमां नो वाचं व्याकुर्विति ' ( तै ० सं ० ६ | ४ | ७ | ३ ) इति । यद्वा पूर्वोक्तार्थवादेन इन्द्रस्य बृहस्पतिब्राह्मणद्वितीयत्वेनैव शत्रुहन्तृत्वात् तत्सहकारी पुरोहितश्च बृहस्पतिरेव सम्बोध्यते । हे बृहस्पते, त्वं रथेन परिदीया सर्वतो गच्छ । ' दीयतिर्गतिकर्मा ' ( निघ ० २ | १४ | ६ ९ ) । गत्वा च अस्माकं रथानामविता रक्षक एधि भवं । कीदृशस्त्वम्? रक्षोहा रक्षसां हन्ता । अमित्रान् शत्रून् अपबाधमानः पीडयन् । सेनाः परकीयाः प्रभञ्जन् प्रकर्षेण मर्दयन् युधा युद्धेन प्रमृणो हिंसकान् शत्रून् जयन् पराभवन् । ' मृणातिहिंसाकर्मा ', तस्य क्विपि द्वितीयाबहुवचनम् । अध्यात्मपक्षे - हे बृहस्पते, बृहत्या वेदलक्षणाया वाचः पतिर्महातात्पर्यगोचरः परमेश्वरो बृहस्पतिस्त-त्सम्बुद्धौ । हे श्रीराम, त्वं रथेन परिदीया सर्वतो याहि विचर | श्रीरामाय दिव्यं रथं समर्पयन् इन्द्रः प्रार्थयते । गत्वा च शत्रून् हत्वा अस्माकं देवानां सम्बन्धिनां रथानाम् अविता रक्षक एधि भव । कीदृशस्त्वम्? रक्षोहा रक्षसां रावणादीनां हन्ता । अमित्रान् देवशत्रून् अपबाधमानो नाशयन् शत्रुसेनाः प्रकर्षण मर्दयन् प्रमृणो हिंसकान् युधा संग्रामेण जयन् । ' तद्वृहतोः करपत्योश्चोर देवतयोः मुटु तलोपश्च ' ( पा ० सू ० ६ | १ | १५७, वा ० १ ) इति बृहस्पतिशब्दसिद्धिः ।
पृष्ठ 152
पाठ पढ़ें पाठ छिपाएँ
११६ शुक्लयजुर्वेदसंहिता [ अ ० १७ दयानन्दस्तु - ' हे बृहस्पते! बृहतां धार्मिकाणां वृद्धानां सेनानां वा रक्षक ' इत्याह तन्न, ' तद्वृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च ' ( पा ० सू ० ६ । १ । १५७, वा ० १ ) इति देवतार्थं एव सुट्तलोपाभ्यां बृहस्पतिपद -सिद्धेः । रथेनेत्यस्य रथसमूहेनेत्यप्यसङ्गतम्, बहुवचनव्यत्यये हेत्वभावात् । ' युधा युद्धे ' इत्यप्यसङ्गतम्, व्यत्यये हेत्वभावादेव || ३६ ||
ब॒लविज्ञायः स्थवि॑र॒ः प्रवो॑र॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्त्वा सह॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् ॥ ३७ ॥
मन्त्रार्थ - हे इन्द्र! तुम दूसरों के बल को जानने वाले, स्वयं अति बलवान्, अत्यन्त पुरातन, सबका अनुशासन करने वाले, अतिशय शूर, महाबलिष्ठ, अन्नवान्, युद्ध में क्रूर, चारों तरफ से वीर योद्धाओं से घिरे हुए और परिचारकों से युक्त हो । तुम स्तुति करने वालों को जानते हो, शत्रुओं के तिरस्कारक हो । तुम अपने जयशील रथ में आरोहण करो ॥ ३७ ॥
हे इन्द्र, त्वं जैत्रं जयनशीलं रथम् आतिष्ठ आरोह । जयति तच्छील इति जैत्रः, ' तृन् ' ( पा ० सू ० ३।२।१३५ ) इति तृनुप्रत्यये ' प्रज्ञादिभ्यश्च ' ( पा ० सू ० ५/४ | ३८ ) इत्यणि रूपसिद्धिः । कीदृशस्त्वम्? बलविज्ञायः, बलं परकोयं सामथ्यं विशेषेण जानातीति बलविज्ञायः, कर्मण्यणि ' आतो युक् चिण्कृतो: ( पा ० सू ० ७ | ३ | ३३ ) इति युगागमे रूपम् । यद्वा बलेन कृत्वा विज्ञायत इति बलविज्ञायः, करणे घञ् । स्थविरः पुरातनः सर्वेषामनुशास्ता सर्वमान्यो वा, ' खर्परे शरि वा विसर्ग लोपो वक्तव्यः ' ( पा ० सू ० ८ | ३ | ३६, वा ० १ ) इति विसर्ग लोप: । प्रवीरः शूरेष्वतिशूरः । सहस्वान् सहो बलमस्यास्तीति सहस्वान् प्रभूतप्रशस्तबलयुक्तः । वाजी वाजोऽन्नमस्यास्तीति प्रशस्तप्रभूतान्नवान् । सहमानः परेषामभिभविता । उग्रो युद्धेषु क्रूरः । अभिवोरः, अभितो वीराः शूरा यस्य स तथोक्तः । अभिसत्त्वा अभितः सत्त्वानः परिचारका यस्य सः । सहोजाः सहसो बलादिव जातः । नह्यन्य-स्माज्जात ईदृग्बलः स्यात् । गोविद् गाम् अस्माभिः कृतां स्तुतिरूपां गां वेत्तीति गोवित्, यद्वा गां भूमि विन्दतीति गोवित् । यद्वा बलविज्ञायो बलमाविष्कुर्वन् विज्ञायसेऽयममिन्द्र इति बलविज्ञायः, वीरं वीरमभीति अभिवीरः, सत्त्वानि सत्त्वान्यभीति अभिसत्त्वा सर्वान् वीरान् सर्वांश्च प्राणिनोऽभिवर्तमानः, व्यापकत्वाद् लाघवाच्चेति शेषः । अध्यात्मपक्षे -- हे इन्द्र, हे श्रीराम, त्वं जैत्रं रथमातिष्ठ आरोह । कीदृशस्त्वम्? बलविज्ञायो बलमावि-कुर्वन् विज्ञायसे । स्थविरो युवापि पुरातनः, ईश्वरत्वात् । प्रवीरः प्रकृष्टो वीरः । सहस्वान् प्रभूतबलोपेतः । वाजी प्रभूतभोग्यपदार्थोपेतः, ईश्वरत्वादेव । सहमानो रावणादीनामभिभविता । उग्रो युद्धेषु क्रूरः । अभिवीरो यमभितो बहवो हनुमदादयो वीरा भवन्ति । अभिसत्त्वा परिचारकारच बहवोऽभितो भवन्ति । सहोजा सहसो बलादिव जाता, अन्यजातस्य ईदृक्प्रभावासम्भवात् । गोविद् गां स्तुतिलक्षणां वाचं वेत्तीति गोवित् । दयानन्दस्तु A - ' हे इन्द्र, युद्धोत्तमसामग्रीयुक्त सेनापते यः स्वीयां सेनां बलवतीं कर्तुं जानाति स बलविज्ञायः । वाजी प्रशस्तशास्त्रबोधः । अभिवीरो यस्याभीष्टसाधका वीरा अभितो भवन्ति । अभिसत्त्वा युद्धविद्याकुशला यस्य सर्वतो भवन्ति । गोः वेदवाण्याः पृथिव्याश्व प्राप्त्या त्वं रथमुदन्वदाकाशमहीधरेष्वव अव्याहतगति रथमारोह ' इति, तदपि यत्किञ्चित्, गौणार्थाश्रयणात्, बलविज्ञायशब्दस्य तादृशार्थत्वे माना-भावात् । इन्द्रपदस्यापि गौण एवार्थोऽत्र स्वीकृतः, न च तद् युक्तम्, मुख्यार्थत्यागे मानाभावात् || ३७ ||
पृष्ठ 153
पाठ पढ़ें पाठ छिपाएँ
मं ० ३८-३९ ] वेदार्थपारिजात भाष्यसहिता गोत्र॒भिद॑ गोविदं वज्र॑बाहुं जय॑न्तमम II प्रमृ॒णन्त॒मोज॑सा । इ ँ स॑जाता॒ अनु॑ वोरयध्व॒मिन्द्र॑ध॒ सखायो॒ अनु॒ सभध्वम् ॥ ३८ ॥
मन्त्रार्थ - हे समान जन्म वाले देवताओं! असुर कुल के नाशक, वेदवाणी के ज्ञाता, महान् विद्वान्, हाथ में वज्र धारण करने वाले, संग्राम को जीतने वाले, बल से शत्रुओं को मार डालने वाले इस इन्द्र को पराक्रम दिखाने लिये उत्साह दिलाओ और इसको उत्साहित करके आप लोग स्वयं भी उत्साह से भर जाओ ॥ ३८ ॥
हे सजाताः समानं जातं जन्म येषां ते सजाताः समानजन्मानोऽस्मदीया ज्ञातयः सखायो देवा ' | ' समानस्य छन्दस्य मूर्धप्रभृत्युदर्केषु ' ( पा ० सू ० ६ | ३ | ८४ ) इति सादेशः, समानार्थकेन शब्देन वा समासः । यूयमिन्द्रमनु अनुगम्य वीरयध्वं वीरकर्म कुर्वाणं प्रोत्साहयत । ' वीर विक्रान्तौ ' अदन्तश्चुरादिः, लोट् । अनु संरभध्वं संरम्भं वेगं कुर्वाणमनु संरम्भं कुरुत । कीदृशमिन्द्रम्? गोत्रभिदं गोत्रमसुरकुलं भिनत्तीति गोत्रभित्, तम् । यद्वा ' गोत्र इति मेघनाम ' ( निघ ० १ | १० | ३ ), गा अपस्त्रायते धारयतीति गोत्रो मेघः, तस्य भेत्तारं वृष्ट्यर्थम् । गोविदं गां वाचं वेत्तीति गोविद् यजमानादिकृतस्तुतिवेत्ता, तं पण्डितम् । वज्रं बाहौ यस्य तम् । अज्म संग्रामं जयन्तम् । ' अज्मेति संग्रामनामसु ' ( निघ ० २।१७।४३ ) । ओजसा बलेन प्रमृणन्तं शत्रुन् हिंसन्तम् । ' मृण हिंसायाम् ' इति तो दादिकस्य रूपम् । अध्यात्मपक्षे - तत्रभवान् हनूमान् देवरूपवानरर्क्षभटान् प्रोत्साहयति - हे सजाता अस्मत्सजातीयाः सखायः अङ्गदादयः, यूयमिन्द्रं परमात्मानं रामचन्द्रमनुवीरयध्वम् अनुसंरभध्वम् इत्यादि पूर्ववत् । कीदृशम्? राक्षसकुलभेत्तारं गोविदं भूपति वज्रवेगमिषु हस्ते धारयन्तं संग्रामं जयन्तम् ओजसा शत्रून् हिंसन्तम् । दयानन्दस्तु -- ' हे सजाता एकदेशोत्पन्नाः सखायो मित्राणि, यूयमोजसा शरीरबुद्धिबलेः सैनिकैश्व शत्रुसमुदायं कर्तयन्तं शत्रुभुमिप्राप्तारं वज्रबाहुम् अज्म संग्रामं जयन्तम् इन्द्र सेनापति प्रोत्साहयत सम्यग् युद्धमारभध्वम् ' इति, तदपि न चारु, सम्बोधनस्य निर्मूलत्वात् । इन्द्रपदस्य सेनापतिरर्थोऽपि निर्मूलः ॥ ३८ ॥
अभि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽव॒यो वो॒रः श॒तम॑न्य॒रिन्द्र॑ः ।
दु॒श्च्य॒ञ्च॒नः प॑तना॒षाड॑यु॒ध्योऽस्माक॒सेना॑ अवतु प्र य॒त्सु ॥ ३ ९ ॥
" " मन्त्रार्थ - शत्रुओं पर कभी दया न दिखाने वाले, पराक्रम सम्पन्न, क्रोध से भरे हुए, संग्राम से कभी पलायित न होकर शत्रुसेना का संहार करने वाले इन्द्र के साथ युद्ध करने में कोई भी समर्थ नहीं है, अतः इन्द्र संग्राम में असुर-कुलों को एक साथ ही नाश करते हुए हमारी सेना की रक्षा करें ॥ ३६ ॥
इन्द्रः स एवाग्निर्देवराजो वा प्रयुत्सु प्रकृष्टेषु युद्धेषु सेना अस्मदीया अवतु, यद्वा प्रावतु प्रकर्षेण रक्षतु । ' छन्दसि परेऽपि ' ( पा ० सू ० १/४/८१ ) इति प्रोपसर्गस्य क्रियापदात् परप्रयोगः । कथंभूत इन्द्रः? गोत्राण्यसुर-कुलानि मेघवृन्दानि वाऽभिगाहमानो विलोडयन्, अभि सर्वतोऽवस्थितानि युद्धक्षेत्राणि सहसा गाहमानः प्रविशन् वा । पुनः कथम्भूतः? अदयो दयारहितः परमनिष्ठुरः । वीरः शूरः शतमन्युर्वहुधा क्रोधयुक्तः शतयज्ञो वा ॥ दुश्च्यवनः अप्रच्याव्यः । पृतनाषाट् पृतनां परकीयसेनां सहतेऽभिभवतीति तथोक्तः । अयुध्यो योद्धुमशक्यः अथवा युध्यत इति युध्यः, अविद्यमानो युध्यः प्रतियोद्धाऽस्येति तथोक्तः ।
पृष्ठ 154
पाठ पढ़ें पाठ छिपाएँ
११८ शुक्लयजुर्वेदसंहिता [ अ ० १७ अध्यात्मपक्षे – स इन्द्रः श्रीरामः प्रयुत्सु प्रकृष्टयुद्धेषु गोत्राणि शत्रुकुलानि शतमन्युः सहसा गाहमानो । इत्यादिकं विलोडयन् पूर्ववद् अस्माकं सेनाम् अवतु । अदयः, अन्यदा परमसदयोऽपि संग्रामे परमनिर्दयः । वीरः व्याख्यानम् । दयानन्दस्तु - हे विद्वांसः, युत्सु यत्र पदार्थानां मिश्रणान्यमिश्रणानि च भवन्ति तेषु युद्धेषु निर्मूलत्वात् सहसा शत्रु- । कुलानि गाहमान इन्द्रोऽस्माकं सेनापतिरिति यूयमाज्ञापयत ' इति, तदपि यत्किञ्चित् ॥ ३ ९ ॥ सम्बोधनस्य ' युत्सु ' इत्यस्य व्याख्यानमसाम्प्रतम्, ' युध सम्प्रहारे ' इति धातोरर्थाननुगमात् इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षिणा य॒ज्ञः पु॒र ए॑तु॒ सोम॑ः । 2 देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वन॑म् ॥ ४० ॥
मन्त्रार्थ -- बृहस्पति इन्द्र सभी प्रकार की शत्रु सेनाओं का मर्दन करने वाली विजयशील देवसेनाओं के शिक्षक ॥ ४० ॥
हैं । यज्ञपुरुष विष्णु, सोम और दक्षिणा इसके आगे - आगे चलें । सभी गणदेवता सेना के आगे आगे चलें इन्द्र आसां देवसेनानां व्यूहरचनान्नेता नायको भवतु बृहस्पतिश्च मन्त्रीति शेषः, तेनैव प्रधानकार्याणां सम्पादनात् । यज्ञो यज्ञपुरुषो विष्णुर्दक्षिणा दक्षिणत एतु गच्छतु । ' दक्षिणादाच् ' ( पा ० सू ० ५१३।३६ ) इत्याच् सेना- -प्रत्ययः । पुरः पुरस्तात् सोम एतु आगच्छतु । मरुतो देवगणा अग्र सेनाग्र भागं यन्तु गच्छन्तु । कीदृशीनां नाम्? अभिभञ्जतीनां शत्रून् मर्दयन्तीनाम् । ' भजो आमर्दने ' । तथा जयन्तीनां विजयमानानाम् । यद्वा या देवसेना अस्मदनुग्रहार्थं शत्रुषु गच्छन्ति, आसां सेनानामिन्द्रो नेता भवतु । यो बृहस्पतिर्या च दक्षिणा देवी यश्च यज्ञो यश्च सोमः, एतेषामेकैकः पुरः पुरत एतु गच्छतु । शत्रुबलं भञ्जयन्तीनां मर्दयन्तीनां जयन्तीनां जयमानानामासां सेनानां मरुत एकोनपञ्चाशत्संख्याका वायवः, अग्रं पुरतो यन्तु गच्छन्तु । अध्यात्मपक्षे – अहङ्काररूपस्य रावणस्य सबलस्य विध्वंसनाय गच्छन्तीनां देवसेनानां वानरभल्लूक-सेनानामिन्द्रः परमैश्वर्ययुक्तः श्रीरामो नेता प्रणेतास्तु । बृहस्पतिः बृहस्पतितुल्यो लक्ष्मणः मन्त्रीति शेषः । यज्ञो विष्ण्ववतारः सुग्रीवो दक्षिणत एतु । सोम उमया सहितो रुद्रो हनूमान् पुरः पुरत एतु गच्छतु । अभिभञ्जतीनां शत्रुबलं मर्दयन्तीनां जयन्तीनां विजयं कुर्वन्तीनामासां सेनानां मरुतो मरुत्तुल्यवेगा अङ्गद - नल - नील- द्विविद-मन्दादयः, अग्रं यन्तु गच्छन्तु । दयानन्दस्तु — ' देवसेनानां विदुषां सेनानामिन्द्रः परमैश्वर्य: शिक्षकः सेनापतिः पश्चाद् यज्ञः सर्वसङ्गति-कारकः प्रथमो बृहस्पतिः सर्वाधिकारिणामधिपतिर्दक्षिणतः सोम उत्साहदाता वामन एतु मरुत्तुल्यवेगवन्तः शूरा अग्रं यन्तु ' इति, तदपि यत्किञ्चित् वेदबाह्यत्वात् पश्चाद्वामादिपदानां मूलेऽभावात् इन्द्रबृहस्पत्यादिपदानां सम्भवति मुख्यार्थत्वे गौणार्थाश्रयणायोगात् ॥ ४० ॥
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञे आदित्यानां मरुताएं शर्ध उग्रम् ।
महाम॑नसां भुवनच्यवानां घोष ' दे॒वानां जय॑तामुद॑स्थात् ॥ ४१ ॥
देवताओं की, आदित्य, मन्त्रार्थ - महानुभाव, सारे लोकों को नाश करने की सामर्थ्य वाले, विजय पाने वाले रहा है ॥ ४१ ॥
मरुत्, कामना की वर्षा करने वाले इन्द्र और राजा वरुण की सभा से जयजयकार का शब्द उठ
पृष्ठ 155
पाठ पढ़ें पाठ छिपाएँ
म ० ४१-४२ ] वेदार्थ पारिजातभाष्यसहिता ११ ९ वृष्णः, वर्षति कामानिति वृषा, ' कनिन् यवृषितक्षिराजिधन्विद्युप्रतिदिव: ' ( उ ० ११५५ ) इति कनिन्-प्रत्यये रूपसिद्धि: । तस्य इन्द्रस्य राज्ञो राज्यं कुर्वतो वरुणस्य तन्नामकस्य देवविशेषस्य, आदित्यानामदितिपुत्राणाम्, मरुतां च उग्रम् उत्कृष्टम् उद्गूर्णायुधं वा शर्धो बलं गजतुरगरथपत्त्यात्मकं सैन्यं युद्धेषु अभितः प्रभवत्विति शेषः । महामनसाम्, महन्मनो येषां ते महामनसो युद्धेषु स्थिरचित्तास्तेषाम् । तथा भुवनच्यवानां भुवनं लोकं च्यावयन्ति ये ते भुवनच्यवास्तेषां भुवनेभ्यः शत्रुरच्यावयितुं समर्थानाम् । जयतां विजयमानानां देवानामिन्द्रादीनां घोषो निनादो जयजयेति ध्वनिर्वा उदस्थात् सर्वत उत्थितोऽभूत् । अध्यात्मपक्षे - वृष्णः अभीष्टवर्षंणशीलस्य इन्द्रस्य पूर्वोक्तस्य श्रीरामस्य । कीदृशस्य? वरुणस्य, व्रियते सर्वैरिति वरुणस्तस्य वरणीयस्य शरण्यस्य, ' कृवृदारिभ्य उनन् ' ( उ ० ४ | ५३ ) इत्युनन्प्रत्यये रूपसिद्धिः । राज्ञो राजमानस्य ईदृशस्य श्रीरामस्य आदित्यानां सुग्रीवसम्बन्धिनां वानराणां मरुतां हनुमत्प्रमुखानामुग्रं तीक्ष्ण-मुदायुधं शर्धो बलमुदस्थाद् उत्थितमभूत् युद्धेषु प्रभविष्णु जातमिति शेषः । तदैव महामनसाम् अत्युत्साहवतां भुवनच्यवानां भुवनं लोकं च्यावयितुं समर्थानां जयतां जयमानानां घोषस्तुमुलो निनाद उदस्थात् । दयानन्दस्तु - ' वृष्णो वीर्यवत इन्द्रस्य सेनापतेर्वरुणस्य सर्वोत्तमस्य राज्ञो न्यायविनयादिगुणे राजमानस्य सर्वाधिपतेः भुवनच्यवानामुत्तमगृहं प्राप्तवतां महामनसामादित्यानाम् अनुष्ठिताष्टाचत्वारिंशद्वर्ष ब्रह्मचर्याणां मरुतां पूर्णविद्याबलयुक्तानां देवानामुग्रमसह्यं शर्धो बलं घोष उत्साहवर्धकस्वरालापो युद्धारम्भे उदस्थात् ' इति, तदपि न किञ्चित् तत्तत्पदानां तेषु तेष्वर्थेषु शक्तत्वात् भाक्तप्रयोगस्यागतिकगतित्वात्, गत्यर्थस्यापि च्यवतेः पतनरूपायामेव गतौ प्रयोग बाहुल्यात् । अत एवोभयलोकच्युता अर्धनास्तिका एत इत्येतदुक्तेर्नानुकूल्यमनु-भवन्ति ॥ ४१ ॥
उद्वेय मघवन्नायुधान्युत्सत्त्वनां मामकानां मनसि ।
उद्वृत्रहन् वाजिन । वार्जिनान्युद्रर्थानां जयतां यन्तु॒ घोषः ॥ ४२ ॥
यस्तु मन्त्रार्थं - - हे इन्द्र! आप अपने शस्त्रों को भली प्रकार सुसज्जित कीजिये, मेरे वीर सैनिकों के मन को हर्षित कीजिये | हे वृत्रनाशक इन्द्र! अपने घोड़ों की गति को तेज कीजिये । विजयशील रथों से जयघोष का उच्चारण हो ॥ ४२ ॥
हे मघवन् मघं धनमस्त्यस्येति मघवान्, ' मघमिति धननामसु ' ( २1१०1१ ), तत्सम्बुद्धी हे इन्द्र, आयुधानि शस्त्रास्त्राणि उद्धर्षय उद्गतहर्षाणि कुरु । मामकानामस्मदीयानां सत्त्वनां प्राणिनां मनुष्यादीनां मनांसि उद्धर्षय प्रहृष्टानि कुरु । हे वृत्रहन् वृत्रं हतवानिति वृत्रहा, तत्सम्बुद्धी हे वृत्रासुरघातक, वाजिनामश्वानां वाजिनानि वेगवद्गमनानि उद्धर्षय उत्कृष्टानि कुरु । किञ्च जयतां विजयमासादयतां रथानां घोषाः शब्दा उदयन्तु उच्चैः प्रसरन्तु । यद्वा हे मघवन, आयुधान्यस्मदीयानि, उद्धर्षय परकीयेभ्य उत्कृष्टानि कृत्वा अस्मान् हर्ष । मामकानां सत्त्वनां प्राणिनां मनांस्युत्कृष्टानि कृत्वा हर्षय । अन्यत् पूर्ववत् । अध्यात्मपक्षे - हे मघवन्, आध्यात्मिकाधिदैविकाधिभौतिक विविधधनवन्, आयुधानि बाह्याभ्यन्तर-शत्रुविनाशसाधनानि उच्चैर्हर्षय, दिव्यशक्तिप्रदानेनेति शेषः । मामकानां प्राणिनां मनांसि उद्धर्षय महोत्साह-प्रदानेनेति यावत् । वाजिनामिन्द्रियाश्वानां वाजिनानि वेगवद्गमनानि उद्धर्षय ऊर्ध्वस्रोतः प्रवर्तनेन प्रहृष्टान् कुरु । रथानां लौकिकानां शरीरात्मकानां वा घोषा निनादा यशांसि वा, उद्यन्तु दिग्दिगन्तव्यापिनो भवन्तु ।
पृष्ठ 156
पाठ पढ़ें पाठ छिपाएँ
१२० शुक्लयजुर्वेदसंहिता [ अ ० १७ पदार्थान् योजयति – ' हे मघवन्, दयानन्दस्तु — सेनापुरुषाः स्वामिनमेवं वदेयुरित्युक्त्वा गतिवर्धनस्य पूर्ववदेव राजानधीनत्वात् । उपर्युक्तवाक्य-वाजिनां वाजिनानि शीघ्रगमनान्युत्कर्षय ' इति, तच्चासङ्गतम्, कल्पनापि निर्मूलैव ॥ ४२ ॥
। अ॒स्माक॒मिन्द्रः समृ॑तेषु ध्वजेष्वस्माकं या इर्षवस्ता जयन्तु अ॒स्माकं वीरा उत्तरे भवन्त्वस्माँ २ ॥ उं देवा अवता हर्वेषु ॥ ४३ ॥
इन्द्र हमारी रक्षा करें, हमारे बाण शत्रुओं मन्त्रार्थ - शत्रु की पताकाओं से हमारी पताकाओं के मिलने पर में शत्रुओं के सैनिकों से श्रेष्ठता प्राप्त करें, सभी देवता संग्राम को नष्ट कर उन पर विजय प्राप्त करें, हमारे वीर सैनिक हमारी रक्षा करें ॥ ४३ ॥
रक्षितेति शेषः । तदानीमस्माकं इन्द्रो ध्वजेषु समृतेषु परसैन्यं सम्यक्प्राप्तेषु, ' ऋ गतो ' सत्सु भवन्तु अस्माकं परकीयेभ्यो भटेभ्य उत्कृष्टा भवन्तु । या इषवोऽस्मदीयैर्मुक्तास्ता जयन्तु । अस्माकं ये वीरास्ते उत्तरे रक्षत, ' अन्येषामपि दृश्यते ( ६ । ३ । १३७ ) इति दीर्घः । उ अपि च हे देवा:, आहवेषु युद्धेषु, अस्मान् उ एव यूयमवता लोलीभूतेषु अध्यात्मपक्षे - हे इन्द्र परमेश्वर, अस्माकं तावत् विजयिन्यो समृतेषु सङ्गतेषु भवन्तु । अस्माकं ध्वजेषु वीरा शत्रुबलध्वज उत्तरे संग्रामपीर-रक्षिता भवतु । इन्द्रप्रसादादेवास्माकं या इषवस्ता जयन्तु आह्वानेषु, अस्मानेव अवत रक्षत । विनिग्रहार्थीय उकारः, गामिनो भवन्तु, विजयन्तामिति यावत् । हे देवाः, हवेषु स च परेण संयुज्यते । ध्वजेषु स्वीयान् दयानन्दस्तु - हे ' देवा विजिगीषवः, अस्माकं सेनापतिमस्माकं समृतेषु सत्यन्यायप्रकाशकचिह्नयुक्तेषु या इषवः प्राप्ताः सेनाश्च हवेषु संग्रामेषु निश्चेतुं रथादिषु स्थापितेषु तेषामधस्ताद् वर्तमानमिन्द्रं जीवनयुक्ता भवन्तु । अस्मानवत ' इति, तदपि यत्किञ्चित्, जयन्तु । अस्माकं वीरा उत्तरे विजयानन्तरं । उत्तरे युद्धोत्तरजीविन इत्यप्यनर्थः, उत्पूर्वस्य तरते-ध्वजानामधस्ताद् वर्तमान इन्द्र इत्यसङ्गतेः, अपदार्थत्वात् रुत्तरणार्थत्वात् ॥ ४३ ॥
। अमीषां चित्तं प्रतिलोभय॑न्ती गृहाणान्यप्वे॒ परे॑हि ॥ ४४ ॥
अ॒भि प्रेहि निर्बंह हृत्सु शोकैर॒न्धेनामित्रास्तम॑सा सचन्ताम् इन वेरियों के चित्त को मोहित करती हुई, शरीरों मन्त्रार्थ - शत्रुओं के प्राणों को कष्ट देने वाली व्याधि हृदय को शोक से भर दे, हमारे वैरी को पकड़ कर चली जाय, उनके का नाश करती हुई चली जाय, सब ओर से शत्रुओं गाढ़ अन्धकार में डूब जाँय ॥ ४४ ॥
वेत्यष्वा, सा च व्याधिर्वा भयं वा । यस्मादेतया हे अप्वे देवते, अपवाति अपगमयति सुखं वाऽपक्षीयते प्राणान् तस्मादप्वा । अन्तर्भूतणिजर्थाद् वातेरपपूर्वकाद् देवतया विद्धो व्याप्तोऽपचीयते, अनया भक्ष्यमाणो: । ' ऐन्द्रयोऽभिरूपा द्वादश भवन्ति ' ( श ० ९ २ | ३ | ६ ) इति डप्रत्यये उपसर्गस्य अन्त्याकारलोपे टापि च रूपसिद्धि रिपूणां चित्तं मनांसि प्रतिलोभयन्ती सम्बन्धिनी । तथा च हे अप्वे, अमीषां श्रुतिरीत्या इयमपि इन्द्रसेना गृहाण, गृहीत्वा च शत्रूणामङ्गानि तता परेहि परागच्छ । मोहयन्ती ' लुभ विमोहने ' अङ्गानि तेषां गात्राणि
पृष्ठ 157
पाठ पढ़ें पाठ छिपाएँ
म ० ४४-४५ ] वेदार्थपारिजातभाष्यसहिता १२१ पुनरन्यान् रिपून् ग्रहीतुम् अभि शत्रु संघ प्रेहि गच्छ । तेषां हृत्सु हृदयानि विभक्तिव्यत्ययः, शोकैर्धनपुत्रनाशादि-निमित्तैर्निर्दह । किञ्च, अमित्रा रिपवः, अन्धेन तमसा गाढान्धकारेण सचन्तां सङ्गच्छन्ताम् । ' षच् समवाये ' | अध्यात्मपक्षे - हे अत्रे! विमुखानां नास्तिकानाममोषां सुखस्य प्राणानां चापगमयित्रि भगवति सीते, यद्वा आप्नोति व्याप्नोति सर्वं तच्छीलेति अप्वा, ' शेवयह्वजिह्वाग्रीवाण्वामीवा: ' ( उ ० १ १५४ ) इति निपातनाद् धातोर्हस्वत्वम् | उज्ज्वलदत्तादय आचार्या ' आप्वा ' इत्येव निपातनमाहुः । अन्ये चाचार्याः ' अप्वा निपातनमिच्छन्ति । संहितायास्तुभयथापि तुल्यत्वम् । अमीषां शत्रूणां चित्तं चित्तानि प्रतिलोभयन्ती विमोहय-माना त्वं शत्रूणां हृत्सु हृदयानि शोकैर्निर्दह, तेषामङ्गानि हृदयादीनि गृहाण, गृहीत्वा च परेहि दूरं गच्छ । यथा भगवान् हनूमान् सिंहिकाया हृदयं गृहीत्वा दूरमाकाशं गतस्तद्वत् । तथाहि रामायणे - ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् । तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ ' ( वा ० सु ० ५८ | ४३ ) इति । पुनश्चान्येषां शत्रूणां हृदयादिग्रहणाय स्वशक्त्या अभिप्रेहि । यद्यपि च सर्वान्तरात्मभूतायाः पराम्बायास्तस्था सर्वहिताभिलाष एव स्वाभाविकः, तथा च सप्तशत्याम् - ' चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ' इति, तथापि भक्तानुग्रहाय शिष्टपरिपालनाय तत्परिपन्थिभुतदुर्वृत्तप्रशमनाय तन्निग्रहादिकमुपपद्यत एव निग्रहानन्तर-भाविनोऽनुग्रहस्य सर्वतो बलवत्वात् । तथा चाहुः शिष्टाः - ' अनुग्रहात् केवलतो बलीयाननुग्रहो निग्रहपूर्वको यः ' इति । ये अमित्राः शून्ये मारणाद्युद्देश्येन गच्छन्ति मिथ्या वा दोषारोपणार्थं सदस्यन्यत्र वा शब्दायन्ते, रचयन्ति वा पराभवार्थं कपटतया जालम्, आमयन्ति वा अभिचारादिनेत्यमित्राः, ' अमेद्विषति चित् ' ( उ ० ४।१७५ ) इति रूपसिद्धिः । ' अम गत्यादिषु ' इति भौवादिकस्य, ' अम रोगे ' इति चौरादिकस्य वा । गत्यादिष्वित्यत्रादि-शब्देन गतेरनन्तरं पठितयोः शब्दसम्भक्तयोर्ग्रहः । सम्भक्ती रचनाविशेष इति गुरुचरणाः । ते अन्धेन तमसा सचन्तां समवयन्तु, अर्थात् तेषां चेतसि तव चरणतामसानुरागनिविडता समुदेतु, यथा तेऽपि परमानन्द-स्वरूपात्मलाभात् स्वस्वरूपेऽवस्थिता भवेयुः । श्रीमद्वल्लभाचार्य महाराजानां सिद्धान्तेनैषोक्तिः । दयानन्दस्तु - ' हे अप्वे! शत्रुत्राणापनेत्रि क्षत्रिये, अमीषां परकीयसैनिकानां चित्तं प्रत्यक्षं प्रतिलोभ-यन्ती या स्वीया सेना, तस्या अङ्गानि त्वं गृहाण । अधर्मात् परेहि स्वसेना अभिप्रेहि स्वाभिप्रायं प्रकटय शत्रुन्निर्दह, येन ते अमित्रा हृत्सु शोकैरन्धेनावृता रात्रितमसा सचन्तां संयुक्ता भवन्तु ' इति, तदपि यत्किञ्चित्, वेदविरुद्धत्वात् । वेदस्तु निर्ऋति प्राणापनेत्रीमाह न क्षत्रियाम् । तथा हि- ' सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु ' ( वा ० सं ० १२ | ६२ ) इति । सा दुष्टशिक्षा ते तव इत्या गतिश्चर्या । हे निर्ऋते देवि, तुभ्यं नमोऽस्तु । एवमेव विशृङ्खला खल्वस्य महात्मनो व्याख्या, या स्वोक्ति तन्मूलं च विरुणद्धीति ॥ ४४ ॥
अव॑सृष्टा परोपत शर॑व्य॒ ब्रह्म॑शते ।
गच्छामित्रान् प्रप॑द्यस्व॒ मामीषां कञ्चनोच्छिषः ॥ ४५ ॥
मन्त्रार्थं वेव मन्त्रों से तीक्ष्ण किये हुए हे बाणरूप ब्रह्मास्त्र! हमारे छोड़े हुए तुम शत्रु की सेना पर गिरो, शत्रु के पास पहुंचो और उनके शरीर में प्रवेश करो । इनमें से किसी को भी जीवित न छोड़ो ॥ ४५ ॥
इत ऋतुष्टस्य विनियोगः कात्यायनेनोक्तः । इयमिषुदेवत्याऽनुष्टुप् । हे शरव्ये, शृणाति हिनस्ति येनासौ शरुः, ' शूस्वस्निहि ' ( उ ० १ १० ) इत्यादिना उप्रत्यये साधुः, तस्मै हिता शरव्या, ' उगवादिभ्यो यत् ' ( पा ० सू ० ५।१।२ ) इति यति साधुः, तत्सम्बुद्धौ । यद्वा शरान् व्ययतीति शरव्या, शरोपपदात् ' व्येञ् संवरणे ' १६
पृष्ठ 158
पाठ पढ़ें पाठ छिपाएँ
१२२ शुक्लयजुर्वेदसंहिता [ अ ० १७ इति धातो: ' आदेच उपदेशेऽशिति ' ( पा ० सू ० ६ ११४५ ) इत्यात्वे, ' कविधो सर्वत्र सम्प्रसारणिभ्यो ङः ' ( पा ० सु ० ३ २३, वा ० १ ) इति उप्रत्यये, ' वचिस्वपियजादीनां किति ' ( पा ० सू ० ६ | १ | १५ ) इति सम्प्रसारणे, ' सम्प्रसारणाच्च ' ( पा ० सू ० ६ | १ | १०८ ) इति पूर्वरूपे यणि स्त्रीत्वविवक्षायां टापि रूपसिद्धिः । हिंसिका शरमयी हेतिः शरव्या, तत्सम्बुद्धौ । हे ब्रह्मशंसिते ब्रह्मणा मन्त्रेण अभिमन्त्रिता सती या संशिता अत्यन्तं तीक्ष्णीकृता सा ब्रह्मसंशिता, तत्सम्बुद्धौ । त्वमवसृष्टा अस्माभिर्मुक्ता प्रयुक्ता सती परापत परसैन्ये सहसा पतिता भव । पतित्वा च अमित्रान् शत्रून् गच्छ प्राप्नुहि । प्राप्य च शत्रुशरीरेषु प्रविश, प्रविश्य च अमीषां शत्रूणां मध्ये कञ्चनापि पुरुषं मा उच्छिषः अवशिष्टं मा कुरु, सर्वान् जहीत्यर्थ: । ' शिष्ट विशेषणे ' माङ्योगे लुङ, लुदित्वाच्च्लेरङि रूपम् । अध्यात्मपक्षे -- हे शरव्ये, शरमयीषीकेव शत्रुघातिके चण्डि 1 ब्रह्मशंसिते ब्रह्मणा मन्त्रेण तीक्ष्णीकृतेवोग्रे, त्वं शत्रुवधाय अवसृष्टा प्रार्थनादिपूर्वकमस्माभिः प्रेषिता सती परापत शत्रुसैन्ये सहसा पतिता भव । अमित्रान् बाह्यानान्तरांश्च शत्रून् प्रति गच्छ, गत्वा च प्रपद्यस्व, अमीषां शरीरेषु प्रविश, प्रविश्य च मा कञ्चन उच्छिषः । दयानन्दस्तु - हे शरव्ये, बाणविद्याकुशले ब्रह्मणा ब्रह्मविदा शंसिते प्रशंसिते सेनापतिपत्नि, त्वमवसृष्टा प्रेरिता परापत दूरं गच्छ अमित्रान् गच्छ तन्मारणेन विजयं प्रपद्यस्व | अमीषामदूरनिवासिनां शत्रूणां मध्ये विधातमन्तरा कञ्चत मोच्छिष: ' इति, तदपि न युक्तम्, तादृशसम्बोधनस्य निर्मूलत्वात् पुरुषेषु वीरेषु जीवत्सु संग्रामे स्त्रियाः प्रेषणानर्हत्वात्, सम्पूर्वकशितेः तीक्ष्णार्थकत्वस्यैव प्रसिद्धत्वात्, अमित्रान् प्रति दूरं च स्त्रियाः प्रेषणस्य आर्यमर्यादाविरुद्धत्वाच्च ॥ ४५ ॥
प्रेता जयंता नर्इन्द्रो उग्रावः सन्तु वः शर्म यच्छतु 1 बाह ar sarasar यथासंथ ॥ ४६ ॥
मन्त्रार्थ - हे हमारे वीरपुरुषों! शत्रु को सेना पर शीघ्र आक्रमण करो और उस पर विजय पाओ । इन्द्र तुम्हारा कल्याण करें, तुम्हारे भुजदण्ड शस्त्र उठाने में समर्थ हों, किसी भी प्रकार तुमको पराजय का तिरस्कार न झेलना पड़े ॥ ४६ । योद्धृदेवत्याऽनुष्टुप् । योद्धृन् स्तोति - हे नरः, अस्मदीया योद्वारो मनुष्याः प्रेता प्रकर्षेण शत्रून् प्रति गच्छत । ' द्वचोऽतस्तिङः ' ( पा ० सू ० ६ | ३ | १३५ ) इति दीर्घः । गत्वा च जयता शत्रून् जयत, विजयं प्राप्नुतेत्यर्थः । ' अन्येभ्योऽपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति दीर्घः । इन्द्रो देवराजोऽग्निर्वा, वो युष्मभ्यं शर्म जयोत्थं सुख-हितहार्दसन्तोषं यच्छतु ददातु । दाणे: ' पाघ्राध्मा ' ( पा ० सू ० ७२३।७८ ) ' इत्यादिना यच्छादेशः । किञ्च, यथा यूयमनाधृष्याः केनाप्यतिरस्कार्या असथ भवथ, असेर्लेटोऽडाटावित्यडागमः, तथा वो युष्माकं बाहवो भुजदण्डा उग्रा उद्गर्णायुधाः सन्तु । अध्यात्मपक्षे - हे नरः नेतारो ' नृ नये ' इत्यस्मात् ' नयतेडिच्च ' ( उ ० २ १०२ ) इति ऋनुप्रत्यये साधुः । यूयं शत्रुसैन्यं नास्तिकगणान् कामादिगणांश्च प्रकर्षेण गच्छत । ततस्तान् जयत । अयमिन्द्रः परमेश्वरो वो युष्मभ्यं शर्म जयप्रयुक्तं सुखं शान्ति वा यच्छतु । यथा यूयं भागवतत्वादनाधृष्या अप्रधुष्याः, केनाप्यतिरस्कार्या भवथ, तथा वो युष्माकं बाहवो भुजदण्डाः क्रियाशक्तयो वा उग्राः शक्तिशालिनो भवन्तु । दयानन्दस्तु - ' हे व्यवहारिणो नराः, यथा यूयं शत्रुजनान् प्रेत जयत तथा इन्द्रः सेनापतिर्वो युष्मभ्यं शर्म गृहं प्रयच्छतु । वो बाहुव उम्रा दृढाः सन्तु । अनावृष्णः शत्रुभिरप्रधृष्या यथा स्यात् तथा असथ प्रयत्न कुरुत '
पृष्ठ 159
पाठ पढ़ें पाठ छिपाएँ
४६-४८ ] वेदार्थ पारिजातभाष्यसहिता १२३ इति, तदपि यत्किञ्चित् समभिव्याहृतपदान्वयमुपेक्ष्य दूरस्थपदान्वयस्य शाब्दिकमर्यादाविरुद्धत्वात्, युद्धप्रसङ्गे गृहदानस्य असङ्गतेश्च ॥। ४६ ॥ M असौ या सेना मरुतः परेषामभ्येति न ओजंसा स्पर्धेमाना । न
।
तां गृ॑हत॒ तमसाऽप॑व्रतेन॒ यथा॒मो अन्यो अन्यं न जानन् ॥ ४७ ॥
शत्रुओं की यह सेना अपने बल पर इठलाती हुई हमारे सामने आ रही है, जिससे कि उस शत्रुसेना के सैनिक एक दूसरे को न पहचान पावें और मन्त्रार्थ - हे महत् देवताओं! उसको अकर्मण्यता के अन्धकार में डुबो दो, परस्पर शस्त्र चलाकर नष्ट हो जाँय ॥। ४७ ॥ मरुद्देवत्या त्रिष्टुप् । हे मरुतः, यूयं परेषां शत्रूणां या प्रसिद्धा असौ सेना नः अस्मान् अभ्येति अस्मानभिलक्ष्य आगच्छति । कीदृशी सेना? ओजसा बलेन स्पर्धमाना प्रस्पर्धां कुर्वाणा । तां सेनाम् अपव्रतेन अपगतं व्रतं कर्म यस्मात् तदपव्रतम्, येन व्याप्तानां कर्माणि नश्यन्ति तादृशम्, तेन तमसां सूचीभेद्येनान्धकारेण गूहतं संवृतामाच्छादितां कुरुत । तथा गृहत यथा अमी सैनिका अन्योन्यं परस्परं न जानीयुः कः किं करोतीति । अध्यात्मपक्षे - हे मरुतो मरुद्विकाराः प्राणाः, असौ या प्रसिद्धा शत्रूणां सेना कामक्रोधादिभटसमूहरूपेण ओजसा बलेन सहिता अत एव स्पर्धमाना, नः अस्मान् अभिलक्ष्य, एति आगच्छति, तां सेनां गूहत व्याप्तुत | केन? अपव्रतेन व्रतलोपन अज्ञानेन तथा गूहत यथा अमी अन्योन्यं न जानीयुः । श्रीरामसेनागता वानरा वा मरुत्पुत्रं हनूमन्तं प्रार्थयन्ते । पूजायां बहुवचनम् । शेषं पूर्ववत् । दयानन्दस्तु - ' हे मरुतः! ऋतुमृतुं प्रति यजनशीला विद्वांसः, असौ या परेषां सेना स्पर्धमाना ओजसा अस्मानभ्येति सम्मुखे सर्वतो वा एति, ताम् अपव्रतेन छेदनरूपेण कठोरकर्मणा तमसा शतघ्न्यादिसमुत्थि तेन धूमेन गूहत । अन्यत् पूर्ववत् ' इति, तदप्यमनीषितम्, अपव्रतशब्देन कठोरछेदनकर्मग्रहणस्य निर्मूलत्वात्, तमः-शब्देन धूमग्रहणस्यापि निर्मूलत्वाच्च ॥ ४७ ॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा
ईव ।
तन्न॒ इन्द्रो बृह॒स्पति॒रदि॑ति॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ ४८ ॥
-मन्त्रार्थ --- जिस युद्ध में वैरी के चलाये हुए बाण फैली हुई शिखा वाले बालकों की तरह गिरते हैं, उस युद्ध में अदिति, बृहस्पति और इन्द्र हमें विजय दिलावें । ये सब देवता सारे शत्रुओं का नाश कर हमारा कल्याण करें || ४८ || इन्द्रबृहस्पत्यदितिदेवत्या पङ्क्तिरष्टाक्षरपञ्चपादा । यत्र युद्धे बाणा नरैर्मुक्ता इषवः सम्पतन्ति इतश्चेतश्चानिर्मर्यादं निपतन्ति । तत्र दृष्टान्तः - कुमारा विशिखा इवेति । कुमाराः शिशवो विशिखा विखण्डिताः शिखा येषां ते तथोक्ताः फलमबुध्वैव यस्मिन् कस्मिन् कर्मणि प्रवर्तमाना मुण्डितमुण्डा अकृतचूडा इति यावत् । यथा चापलेनाविचार्यैव किञ्चिद् इतस्ततो गच्छन्ति, तद्वत् । तत् तत्र युद्धे इन्द्रः नः अस्मभ्यं शर्म विजयोत्थं सुखं हार्दी तुष्टि च यच्छतु । कथम्भूत इन्द्रः? बृहस्पतिः, बृहतां मन्त्राणां पतिः पालकः । पुनः कथम्भूतः?
पृष्ठ 160
पाठ पढ़ें पाठ छिपाएँ
१२४ शुक्लयजुर्वेदसंहिता [ अ ० १७ अदितिः, अविद्यमाना दितिः खण्डनं यस्वासौ तथोक्तः, अखण्डनीयशक्तिरिति यावत् । पुनः विश्वाहा विश्वान् सर्वान् शत्रून् आसमन्ताद् हन्तीति विश्वाहा । नः शर्म यच्छतु । पुनरुक्तिरादरार्था कथम्भूत । यद्वा इन्द्रः इन्द्रः? परमैश्वर्यवान् देवराजः, बृहस्पतिर् इन्द्रगुरुर्विजयोचितमन्त्रज्ञः, अदितिर् इन्द्रमाता च विश्वाहा विश्वानि च तानि अहानि विश्वाहा, विभक्तेराकारः सर्वदेत्यर्थः । शर्म यच्छतु । ' कालाध्वनोरत्यन्तसंयोगे ' ( पा ० सू ० २२३ ( ५ ) इत्यत्यन्तसंयोगे द्वितीया । अध्यात्मपक्षे- - यत्र संसारसंग्रामे विशिखा मुण्डितमुण्डा इव बाणा बाणवद् घातका लौकिकालौकिका आघाताः सम्पतन्ति सम्भूय पतन्ति, तत्र इन्द्रः परमैश्वर्यवान् परमात्मा, बृहस्पतिर्ब्रहत्या वेदलक्षणाया वाचः पति: पालकः, अदितिर् अच्छेद्यः, विश्वाहा सर्वधर्म प्रतीपघातकः, नोऽस्मभ्यं शर्म शरणमाश्रयं विजयोल्लाससुखं वा यच्छतु । दयानन्दस्तु --- ' इन्द्रः सेनापतिबृहत्याः सभायाः पतिः, अदितिः नित्यं सभासद्भिः शोभिता सभा ' इति, तदपि निर्मूलम्, प्रसिद्धार्थत्यागे मानाभावात् ॥ ४८ ॥
मर्माणि ते वर्मेणाच्छादयामि॒ सोम॑स्त्वा राजा॒ऽमृते॒नानु॒वस्ताम् ।
उरोवरीयो वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा मंदन्तु ॥ ४६ ॥
मन्त्रार्थ --हे यजमान! मैं तुम्हारे मर्मस्थानों को कवच से ढकता हूँ, ब्राह्मणों के राजा सोम तुमको मृत्यु के मुख से बचाने वाले कवच से आच्छादित करें, वरुण तुम्हारे कवच को विस्तृत और मजबूत बनावें, अन्य सभी देवता विजय की ओर अग्रसर हुए तुम्हारा उत्साहवर्धन करें ॥ ४ ९ ॥ ' मर्माणित इति कवचं प्रयच्छति ' ( का ० श्र ० १३ | ३ | ११ ) | महाव्रतयागेऽध्वर्युः क्षत्रियाय धानार्थं कवचं प्रयच्छेदिति सूत्रार्थः । सोमवरुणदेवत्या त्रिष्टुप् । हे यजमान, ते तव मर्माणि जीवस्थानानि परि वर्मणा कवचेन अहं छादयामि आवृणोमि । राजा ब्राह्मणादीनां राजा सोमः, ' सोमोऽस्माकं ब्राह्मणानां ( वा ० सं ० ९ ४० ) इति मन्त्रवर्णान्तरात् । एतन्नामा देवः | अमृतेन मरणनिवारकेण केनापि कवच विशेषेण राजा त्वा ' त्वाम् अनुवस्ताम् अन्वाच्छादयतु । ' वस आच्छादने ' इत्यादादिकस्य लोटि रूपम् । तथा वरुणस्तन्नामको देवः, ते तुभ्यम् उरोवरीयः, ऊर्णोतीति उरु महत्, ' ऊर्णातेर्गुलोपश्च महति ह्रस्वश्च ' ( उ ० १३०-३१ ) इति महत्यर्थे साधुः । महत् तस्मादपि वरीयो बृहत्तमम् अतिशयेन उरु इति वरीयः । उरुशब्दादीयसुनि ' प्रिय स्थिरस्फिरोरु ' ( पा ० सु ० ६/४ ) १५७ ) इति वरादेशः । उरुतरं परमश्रेष्ठम् | अन्यदीयादधिकादप्युरुतरं परमश्रेष्ठं वर्म कृणोतु करोतु | धातूनामनेकार्थत्वात् करोत्यर्थेऽत्र वृत्तिः । किञ्च, जयन्तं विजयं प्राप्नुवन्तं त्वा त्वां देवा अनु मदन्तु अनुकूला भूत्वा हृष्यन्तु उत्साहयन्तु वा । अध्यात्मपक्षे -- हे साधक, अहमाचार्यस्ते तव मर्माणि मर्मस्थानानि वर्मणा न्यासजालरूपेण कवचेन आच्छादयामि । सोम उमया सहितो रुद्रो देवः सर्वभूतानां राजा सर्वभूतेषु राजमानः परमेश्वरः, अमृतेन अमरणसाधकेन ज्ञानकवचेन त्वामाच्छादयतु । वरुणः सर्वजनवरणीयो भगवान् शिवः, ते तव उर्वरीयः पृथोरपि पृथुतरं भक्तिरूपं वर्म कृणोतु सम्पादयतु । एवं सर्वतः संसारं जयन्तं त्वां देवा इन्द्रियाण्यन्ये साधका वा अनुमदन्तु अनुकूलाः सन्तः प्रहृष्यन्तु । दयानन्दस्तु - ' हे योद्ध:, तं मर्माणि वर्मणा च्छादयामि । सोमः शान्त्यादिगुणो विद्या - नय - विनयैः प्रकाशमानो राजा अमृतेन रोगनिवारकेण अमृतरसौषधेन त्वामनु वस्ताम् । वरुणः सर्वोत्तमगुणो राजा उरोर्बहोरपि गुणेश्वर्याद्यत्यन्तैश्वर्यैः कृणोतु ' इति, तदपि यत्किञ्चित्, मुख्यार्थं विहाय गौणार्थाश्रयणस्य निर्मूलत्वात् ॥ ४ ९ ॥