वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 161–170

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 161–170

पृष्ठ 161

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 161 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५०-५१ ] उदैनमुत्तरां वेदार्थपारिजातभाष्यसहिता घृतेनाहुत । १२५ रायस्पोषेण संसृज प्रजया च बहुं कृधि ॥ ५० ॥

मन्त्रार्थ - यजमान को होम करते समय अग्नि से प्रार्थना करनी चाहिये कि घृत से तृप्त अग्निवेव इस यज-मान को ऐश्वर्य की पराकाष्ठा तक पहुंचा वें, इसके मन को अत्यन्त निर्मल कर दें, इसे धन की पुष्टि से युक्त करें और पुत्र - पौत्र आदि सन्तान से इसके कुटुम्ब का विस्तार करें ॥ ५० ॥

' आर्द्रादुम्बरीर्धृतोषितास्तिस्र उदेनमित्यादधाति प्रत्यृचम् ' ( का ० श्री ० १८ | ३ | १ ९ ) । अशुष्का उदुम्बर-तरूत्थाः सकलां रात्रिं घृते कृतनिवासाः प्रादेशमात्रास्तिस्रः समिध ऋक्त्रयेण शालाद्वार्ये जुहोति । ततोऽग्नि-प्रणयनमिति सूत्रार्थः । तिस्रोऽनुष्टुभः । प्रथमाग्निदेवत्या, द्वितीया इन्द्रदेवत्या, तृतीया लिङ्गोक्तदेवत्या । हे घृतेनाहुत आज्येन सर्वतो हूयमान हे अग्ने, एनं यजमानम् उत्तराम् अतिशयेन उद् उत्तराम् । तरबन्ताद् उत्-शब्दात् ' किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे ' ( पा ० सू ० ५ | ४ | ११ ) इत्यामुप्रत्ययः । अत्युत्कृष्टमैश्वर्यं प्रति उन्नय उत्कर्षेण प्रापय । उत्कृष्टैश्वर्यमेवाह – रायस्पोषेण धनसमृद्धया संसृज संयोजय । किञ्च, प्रजया सन्तत्या पुत्रपौत्रा-दिकया च बहु कृधि भूयांसं कुरु । बहुकुटुम्बं कुवित्यर्थः । अध्यात्मपक्षे - हे अग्ने, घृतेन नवनीतेन आहुत नित्यमर्च्यमान परमेश्वर, एनं साधकम् उत्तराम् उत्कृष्टैश्वर्यत्वं प्रापय । ऐश्वर्यमेवोच्यते - रायस्पोषेण ज्ञानविज्ञानरूपधनपुष्ट्या संसृज । प्रजया च बहुं पुत्रपौत्रादि-संकुलं कुरु । दयानन्दस्तु – ' हे घृतेनाप्लुत तृप्तिमापन्न अग्ने सेनापते, एनं विजयिनम् उत्तरां येन उत्तमतया संग्रामं तरन्ति तां सेनाम् उन्नय उत्तमाधिकारं प्रापय । शेषं पूर्ववत् ' इति, तदपि यत्किञ्चित् धात्वर्थातिक्रमात्, संग्रामादिपदायोगेन उत्तरामित्यस्य सेनार्थत्वे मानाभावात् ॥ ५० ॥

इन्द्र॒मं प्रतरां नय सजातानामसदृशी ।

समे॑नं॒_ वचैसा सृज दे॒वानां॑ भाग॒दा अ॑सत् ॥ ५५ ॥

मन्त्रार्थ - हे इन्द्र! तुम इस यजमान को पूर्ण ऐश्वर्य प्रदान करो, जिससे कि ज्ञाति वाले सब इसके वश में हो जाँय । इसको तेज से संयुक्त करो, जिससे कि यह देवताओं को आहुति रूप उनका भाग देने में समर्थ हो ॥ ५१ ॥

इन्द्र महेन्द्र, इमं यजमानं प्रतरां नय प्रकृष्टैश्वर्यं प्रापय । प्रकर्षवाचकः प्रशब्दः, ततोऽप्यतिशये । तरप् तत्रापि प्रकर्षे आम् । सम्भूय प्रकृष्टैश्वर्यमित्यर्थः । प्रकृष्टत्वमेव प्रपञ्च्यते - सजातानां समानजातीयानां सहोत्पन्नानां ज्ञातीनां वशी वशयतीति तथोक्तो नियमनसमर्थ:, असद् भवतु । किञ्च, एनं यजमानं वर्चसा बलेन संसृज, तेजस्विनं कुर्विति यावत् । किञ्च, अयं यजमानो देवानां भागदा भागं ददातीति भागदा यज्ञेषु देवानां भागप्रदाता असद् भवतु । अध्यात्मपक्षे - हे इन्द्र परमेश्वर, इमं साधकं प्रतराम् अतिप्रकर्षं ब्रह्मात्मभावं वा नय प्रापय । सजा-तानां समानजन्मनां ज्ञातीनां मध्ये वशी कान्त ईश्वरः, नियमनसमर्थो वा अयं साधको भवतु । किञ्चैनं वर्चसा ब्रह्मज्ञानजनितेन तेजसा संसृज संसृष्टं कुरु । वर्चसा स्वेन कर्मणा भजनरूपेण वा संसृष्टं कुरु । वर्णानामुत्कर्षो वर्च

पृष्ठ 162

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 162 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२६ शुक्लयजुर्वेदसंहिता [ अ ० १७ इत्युव्वाचार्य: । अयं साधको देवानां भागदा असद् भागम् अभीष्टं भजनीयं ददातीति भागदा असद् भवतु । भागदाः प्रथमैकवचनम् । परमेश्वरानुग्रहादेव स्वधर्मनिष्ठा देवयजनं सर्वैश्वर्यं ब्रह्मात्मनावस्थानं च सम्पद्यते । दयानन्दस्तु - ' हे सुखानां धारक सेनापते, सजातानां समानावस्थानां देवानां विदुषां योद्धृणां मध्ये इमं विजयिनं वोरजनं प्रतरां यया शत्रुर्बलादपसार्यते तां नीति नय । यया वशी जितेन्द्रियोऽसद् भवेत् । एनं वचसा विद्याप्रकाशेन संसृज । अयं यथायोग्यं भागदा असत् ' इति, तदेतत्सर्वं विशृङ्खलमेव, स्वाच्छन्द्यात् । सजाताना feet समानावस्थानां योद्धृणामिति व्याख्यानं प्रमाण शून्यमेव, धात्वर्थवैपरीत्यात् । देवानामित्यस्य भागदा. इत्यनेन सन्निधानमूलकः सम्बन्धः श्लिष्टतरः ॥ ५१ ॥

यस्यं कुर्मो गृ॒हे हस्तिम॑ग्ने वर्धया॒ त्वम् ।

तस्मै देवा अधिब्रुवन्तयं च ब्रह्मणस्पतिः ॥ ५२ ॥

मन्त्रार्थ - हे अग्निदेव! जिसके घर में पुरोडाश की हवि दी जाती है, उस यजमान को करो, जिससे कि देवता उस यजमान को प्रशंसा करें, यह यजमान वैदिक कर्मों का स्वामी हो तुम ऐश्वयं से सम्पन्न ॥ ५२ ॥

वयम् ऋत्विजो यस्य यजमानस्य गृहे हविः पुरोडाशप्रधानं कर्म कुर्मः, हे अग्ने, त्वं तं यजमानं प्रजया पशुभिश्व वर्धय । तस्मै देवा अधिब्रुवन् उपरिभावेन यत्प्रशस्तं कल्याणं तद् ब्रुवन्तु । अयं च स्पतिवैदिककर्मणः पालकोऽस्तु । यद्वा देवा अयं ब्रह्मणस्पतिरग्निश्च इमं यजमानम् अधिब्रुवन्तु यजमानो ब्रह्मण-अधिकं प्रशस्तं कल्याणं ब्रुवन्तु । अत्र चतुर्थ्यर्थे द्वितीया ॥ अस्मै यजमानाय अध्यात्मपक्षे - हे अग्ने परमेश्वर, यस्य अर्चकस्य गृहे साधनास्थाने हविनिवेदनीयचरुपुरोडाशादिकं कुर्मः, तं त्वं ज्ञानविज्ञानवैराग्यादिभिर्वर्धय । देवा ब्रह्मणस्पतिरयमग्निश्च तस्मै अस्मै साधकाय कल्याणतमं ब्रह्मतत्त्वं तद् ब्रुवन्तु । यत्प्रशस्तं दयानन्दस्तु - ' हे अग्ने विद्वन् पुरोहित, यस्य राज्ञो गृहे वयं ह॒विर्होमं कुर्मः, तं त्वं वर्धय देवा ऋत्विजस्तमधिब्रुवन्तु अधिकमुपदिशन्तु ब्रह्मणस्पतिर्वेदपालकोऽयं यजमानस्तं शिक्षयतु ' इति उत्साहयतु , । यत्किञ्चित्, ' अधिब्रुवन्तु अधिकमुपदेशं कुर्वन्तु ' इत्यस्य निर्मूलत्वात् । ' ब्रह्मणस्पतिर्यजमानः शिक्षयतु ' इत्यपि तदपि निर्मूलम्, तादृशपदस्य मूलेऽभावात् ॥ ५२ ॥

उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॒ भर॑न्तु॒ चितिभिः ।

स नो भव शिवस्तव सुप्रतीको विभावसुः ॥ ५३ ॥

मन्त्रार्थ - हे अग्निदेव! तुम सम्पूर्ण प्राणरूप देवता हो, उद्यम में प्रवीण बुद्धि की वृत्तियों धारणा वाले बनो । उच्च विचार, सुन्दर मुख वाले, दीप्तिरूप धन वाले तुम हमारे लिये कल्याणकारक के द्वारा " तुम ऊँची बनो ॥ ५३ ॥

' त्रिरुक्तायामुद्यम्यो वेति ' ( का ० श्री ० १८/३/२३ ) | होत्रा प्रथमायामृचि त्रिः प्रदीप्तमिमं शालाद्वार्यादूर्ध्वमुत्पादयेदिति सूत्रार्थः । इयं कण्डिका द्वादशे एकत्रिंशी । तत्रैव व्याख्याता पठितायामध्वर्युः ॥। ५३॥

पृष्ठ 163

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 163 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५४ ] वेदार्थ पारिजातभाष्यसहिता

पञ्च दिशो देवय॒ज्ञम॑वन्तु दे॒वीर॒पाम॑त दुर्म॒तं बाध॑मानाः ।

रायस्पोषे ' यज्ञपंतिमा भज॑न्ती रायस्पोषे॒ अधि॑ यज्ञो अ॑स्थात् ॥ ५४ ॥

१२७ मन्त्रार्थ - इन्द्र, यम, वरुण, सोम और ब्रह्मा से सम्बन्ध रखने वाली पूर्व, पश्चिम, उत्तर, दक्षिण और मध्य में स्थित पांच दिशाएँ हमारी बुद्धि की मन्दता का और पापबुद्धि का विनाश करें, धन की पुष्टि में यजमान को भागीदार बनावें और हमारे यज्ञ की रक्षा करें । हमारा यज्ञ धन की वृष्टि से अधिक सम्पन्न हो || ५४ ॥ ' चित्यं गच्छन्ति पञ्च दिश इति ' ( का ० श्री ० १८ | ३ | २४ ) । ततो ब्रह्मोत्रध्वर्यु प्रतिप्रस्थातृयजमानाः पञ्च दिश इत्याद्युपञ्चकेन ( अर्थाद् ऋक्पञ्चकं पठन्तः ) चित्यं प्रति गच्छन्तीति सूत्रार्थः । तत्र सर्वेषां मन्त्र-पाठ इति कर्कः । अध्वरेवेति हरिस्वामिनः । यज्ञाग्निसाधनवादिन्यः पञ्च ऋचः । आद्ये द्वे त्रिष्टुभो । तृतीया बृहती पङ्क्तिर्वा, अष्टात्रिंशदक्षरत्वात् । चतुर्थी बृहती । पञ्चमी त्रिष्टुप् । प्रथमा दिग्देवत्या । द्वितीयतृतीये आग्नेय्यौ । चतुर्थी हविर्यज्ञदेवत्या । पञ्चमी आग्नेयी । या इमाः पञ्च दिश: प्राची- दक्षिणा - प्रतीच्युदीची - मध्यमा-रूपास्ता! सर्वा इमं यज्ञमवन्तु । कीदृश्यस्ता दिशः? देवीर् देव्यः । स्वयं देवीरूपा इत्यर्थः । पुनः कीदृश्यः? दैवीर् दैव्य: । देवानाम् इन्द्र - यम- वरुण सोम- ब्रह्मणामिमाः सम्बन्धिन्यो दैव्यः पुनः कीदृश्यः? अमतिम् अस्म-दीयप्रज्ञामान्द्यम्, अमननमज्ञानं वा दुर्मतिं दुष्टां मति पापविषयां बुद्धिम्, अपबाधमाना विनाशयन्त्यः | रायस्पोषे धनपुष्टी यज्ञपति यजमानम् आभजन्तीर् आभजन्त्यः, भागिनं कुर्वन्त्य इत्यर्थः । किञ्चास्मदीयो यज्ञो रायो धनस्य पोषे पुष्टी अधि अस्थाद् अधिकं तिष्ठतु समृद्धोऽस्तु यद्वा ताभिर्दिग्भिरेव स्थापितोऽभिहुतो यज्ञः समृद्धोऽस्त्वित्यर्थः । अत्र ब्राह्मणम् – ' अथैनमुद्यच्छति । उदुत्वा विश्वे देवा अग्ने भरन्तु चित्तिभिरिति तस्योक्तो बन्धुः ' ( श ० ९ ।२।३।७ ) | ' उदुत्वा विश्वेदेवा अग्ने भरन्तु चित्तिभिः ' इत्यादिना मन्त्रेणाग्नेरुद्यमनं विधत्ते - अथैनमिति । एतस्य ज्ञापकं ब्राह्मणं ( श ० ६/८/१७ ) इत्यत्रोक्तम् । तदाह - तस्योक्तो बन्धुरिति । ' अथाभिप्रयन्ति । पञ्च दिशो देवीर्यज्ञमवन्तु देवीरिति देवाश्चासुराश्वोभये प्राजापत्या दिवस्पर्धन्त ते देवा असुराणां दिशोऽवृञ्जत तथैवैतद्यज-मानो द्विषतो भ्रातृव्यस्य दिशो वृङ्क्ते दैवीरिति तदेना देवीः कुरुते यज्ञमवन्तु देवीरिति यज्ञमिममवन्तु देवीरित्ये-तदपामति दुर्मति बाधमाना इत्यशनाया वा अमतिरशनायामपबाधमाना इत्येतद्रायस्पोषे यज्ञपतिमाभजन्तीरिति रय्यांच पोषे च यज्ञपतिमाभजन्तीरित्येतद्रायस्पोषे अधि यज्ञोऽस्थादिति रय्यां च पोषे चाधि यज्ञोऽस्थादित्येतत् ' ( श ० ९ ।२।३।८ ) उद्यमनानन्तरमध्वर्युप्रभृतीनां चित्यं प्रति गमनं विधत्ते - अथेति । अत्र पञ्च दिशो देवीरित्या -दिभिः पञ्चभिर्ऋग्भिराग्नीधपर्यन्तं मच्छन्ति । तथा चाह परमर्षिर्भगवान् कात्यायनः - " चित्यं गच्छन्ति पञ्च दिश इति ' ( का ० श्र ० १८ | ३ | २४ ) इति । प्रजापत्यपत्यभूता देवाश्वासुराश्च दिग्विषये स्पर्धां कृतवन्तः । पश्चाद् देवा असुराणां दिश उपगमय्य स्वाधीनीकृतवन्तः । तथैव यजमानोऽपि द्वेषं कुर्वतो भ्रातृव्यस्य दिशः स्वाधीनाः करोति । देवसम्बन्धिन्यः पञ्च दिशोऽमतिमशनेच्छां दुर्मतिमशास्त्रीयां मति च अपबाधमाना एनं प्रणीयमाना-निलक्षणं यज्ञमवन्तु । इति प्रसन्ना कण्डिका । अध्यात्मपक्षे - पञ्च दिशस्तत्तद्दिगधिष्ठात्र्यो देव्यो देवानामिन्द्रादीनां सम्बन्धिन्यो यज्ञं परमात्म-यजनरूपमाराधनम् अवन्तु । तत्तद्विघ्नापनोदनेन रक्षन्तु । अमतिम् अज्ञानं दुर्मति संशयविपर्ययाद्याक्रान्तां मतिम् अपबाधमाना रायस्पोषे ज्ञानविज्ञानधनपुष्टी यज्ञपतिम् उपासकम् आभजन्तीर्भागिनं कुर्वन्त्यस्तत्तद्विघ्ना-पनोदनेन रक्षन्तु । किञ्च यज्ञोऽस्मदीय उपासनालक्षणो रायो धनस्य पूर्वोक्तस्य पोषे पुष्टी अधि अस्थाद् अधिकं तिष्ठतु, ज्ञानविज्ञाननिमित्तत्वेन अतिप्रशस्तो भवत्वित्यर्थः ।

पृष्ठ 164

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 164 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१२८ शुक्लयजुर्वेदसंहिता [ अ ० १७ दयानन्दस्तु - ' अमतिमज्ञानं दुर्मत दुष्टबुद्धिम् अपबाधमाना देवानां विदुषां सम्बन्धिन्यो दिव्यगुणो-पेता वा ब्रह्मचारिण्यः पञ्च दिशः पञ्चदिक्तुल्या विविधकर्मसु कौशलमधिगता धनपुष्टिनिमितं यज्ञपति गृह-कृत्यराज्यादिपालकं स्वस्वस्वामिनम् आभजन्ती सम्यक् सेवमाना, यज्ञं संगतिकरणयोग्यं गृहाश्रमम् अवन्तु कामयन्तु येन यज्ञो गृहाश्रमो रायस्पोषे अधि अस्थाद् आधिक्येन स्थिरोऽस्तु ' इति, तदपि यत्किञ्चित्, यज्ञशब्दस्य गृहाश्रमतार्थतायां नानाभावात् । पञ्चदिक्तुल्या ब्रह्मचारिण्य इत्यपि न श्लिष्टम्, सादृश्यनियामक धर्मानुक्तेः । देवा विद्वांस इत्यपि न युक्तम्, भूमिकायां देवताविचारप्रसङ्गे बहुधा निरस्तत्वात् । न च स्त्रीणां प्रार्थनामात्रेण अमतिदुर्मतिबाधनं सम्भवति, तस्याध्ययनादिसाधनायत्तत्वात् । उद्धृतब्राह्मणसूत्रादिविरोधस्त्वस्य क्षेत्रियो व्याधिः || ५४ ॥

समिद्धे अग्नावधि मामहान उक्थमंत्र ईड्यो ' गृभीतः ।

तप्तं घर्मं परिगृह्ययजन्तोर्जा यद्यज्ञमय॑जन्त दे॒वाः ॥ ५५ ॥

मन्त्रार्थ - ब्रह्मा आदि के स्थान में वरण किये गये अध्वर्यु आदि ऋत्विक गण प्रज्वलित प्रवयं को ग्रहण करके यज्ञपुरुष का पूजन करते हैं । वे जब हवि रूप अन्न से यजन करते हैं, तब स्तुतियोग्य उक्थ और शस्त्र से यज्ञ सम्पन्नता को प्राप्त होता है । देवताओं का परमपूजक यजमान अग्नि के प्रज्वलित होने पर अतितेजस्वी प्रतीत होने लगता है ॥ ५५ ॥

असम्बद्धानि वाक्यानि यच्छब्दयोगात् तच्छब्दयोगाच्च सम्बद्धानि भवन्ति । अतस्तदध्याहारपूर्वक व्याख्यायते । यः समिद्धे प्रदोऽग्नो प्रणीयमाने अधि मामहान उपरिभावेन देवानामत्यर्थं पूजको यजमानः, ' यजमानो वे मामहानः ' ( श ० ९ २ ३१ ९ ) इति श्रुतेः । आत्मानं वा कृतकृत्यं मन्यमानो यजमानः प्रणीयमानमग्नि-मनुगच्छति । यस्य च उक्थपत्रोऽग्निः, उक्थानि शस्त्राणि पत्रं वाहनं यस्य स उक्थपत्रः प्रणीयमानोऽग्निः, अग्नि-ष्टोमे उक्थानि शस्त्राणि पत्राणीवाङ्गानि भवन्ति, तस्मादग्निरुक्थपत्रः । ईड्यो यज्ञियः । गृभीतो धारितोऽध्वर्युणा, ' गृभीत इति धारित इत्येतत् ' ( श ० ९ १२१३ ९ ) इति श्रुतेः । यस्य च मामहानस्य यजमानस्य तप्तं रुचितं धर्म परिगृह्य परीशासाभ्याम् ऋत्विजोऽयजन्त यजन्ते यस्य च ऊर्जा अन्नेन हविर्लक्षणेन यज्ञं देवा ऋत्विजोऽयजन्त सङ्गतं वा कृतवन्तः सोऽयमग्निः कृतकृत्य इति शेषः । सायणरीत्या तु समिद्धे सम्यक् प्रज्वलितेऽग्नो प्रणीयमाने सत्यधि मामहानोऽधिकं पुनः पुनः पूज्यमान उक्थपत्र उक्थानि शस्त्राणि पत्रं वाहनं यस्य स उक्थपत्रः । ईड्यः स्तुत्यः । यज्ञ एव गृभीतोऽध्वर्युणा परिगृहीतो भवति । देवा दीव्यन्ति व्यवहरन्ति प्रचरन्ति ब्रह्मत्वहोत्राध्वर्यवादिकर्मभिरिति देवा ऋत्विजः यद् यदा तप्तं धर्मं ज्वलितं प्रवग्यं परिगृह्य परितः परिशासाभ्यामादाय अयजन्त यजन्ते यदा चोर्जा हविर्लक्षणेनान्नेन अयजन्त यजन्ते । यदोग्रहणात्तदोऽध्याहारः, नित्यसम्बन्धात्तयोः । तदा समिद्धेऽग्नौ प्रणीयमाने यज्ञोऽध्वर्युणा गृहीतो भवति । अत्र ब्राह्मणम् - ' समिद्धे अग्नावधि मामहान इति । यजमानो वै मामहान उक्थपत्र इत्युक्थानि ह्येतस्य पत्राणीड्य इति यज्ञिय इत्येतद् गृभीत इति धारित इत्येतत्तप्तं धर्मं परिगृह्यायजन्तेति तप्त ह्येतं घर्मं परिगृह्या-यजन्तोर्जा यद्यज्ञमयजन्त देवा इत्यूर्जा ह्येतं यज्ञमयजन्त देवा: ' ( श ० ९ २ ३२ ९ ) । मामहानशब्दो यजमानपर इत्याह - यजमानो वा इति । अग्नेरुक्थानि स्तोत्रशस्त्राणि पत्राण्यङ्गानि भवन्ति, तदाह - उक्थानि ह्येतस्येति । यद्वा उक्थान्येव पत्रं वाहनं यस्य सः । गृभीत इति पदेनाध्वर्युणा धारित इत्येतदुक्तं भवति, तदाह -- गृभीत इति ।

पृष्ठ 165

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 165 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भ ० ५५-५६ ] वेदार्थपारिजातभाष्यसहिता १२ ९ तथा च ब्राह्मणानुसारेणायमर्थः - सम्यग् दीप्तेऽग्नौ प्रणीयमाने मामहानोऽत्यर्थं पूजको यजमानोऽधिकारभावेन तमनुगच्छति । उक्थान्येवाङ्गानि यस्य स उक्थपत्रः, ईड्यः स्तुत्यो यज्ञियो वा सोऽग्निरध्वर्युणा धारितः । किञ्च, देवास्तप्तं धर्मात्मकं तर्माग्न परिगृह्यायजन्त । तप्तत्वादेव यज्ञरूपं तमाज्यादिहविलक्षणेन अन्नेन अशमयन्तेति द्वितीयस्यायजन्तेत्यस्यार्थः । अध्यात्मपक्षे - देवा ऋत्विजः समिद्धे सन्दीप्तेऽग्नौ तप्तं घर्मं यज्ञशिरोरूपमपवर्ग्यं महावीरं परिशासाभ्यां परिगृह्य अयजन्त यजन्ते । ऊर्जा अन्नादिलक्षणेन हविषा यद् यं यज्ञं यजनीयं परमेश्वरं यजन्ते, सोऽधिमामहानोऽ-धिकं पुनः पुनः पूज्यमानः, उक्थपत्रः स्तोत्रशस्त्रादिरूपः, छन्दोमयो गरुडः पत्रं वाहनं यस्य सः, ईड्यः स्तुत्यः, भीतः सर्वैरप्यास्तिकैराधुनिकैः प्राचीनैश्चषिमुन्यादिभिर्गृहीतः स्वात्मत्वेनोपास्यते । दयानन्दस्तु - ' हे मनुष्या देवा विद्वांसः, यथा समिद्धेनो यद्यज्ञमग्निहोत्रमयजन्त कुर्वन्ति तथैव यो मामहानोऽत्यन्तसत्कारयोग्यः यस्य वक्तुं योग्यं विद्यायुक्तं वेदस्तोत्रं यश्व स्तुत्यः यः सज्जनैर्गृहीतं तापयुक्तं धर्म-त्रिमूर्जा बलेन परिगृह्य यूयमयजन्त यजध्वम् ' इति, तदपि विसङ्गतमेव, उक्थादिपदानामर्थानवबोधात्, पत्रपदार्थानुक्तेश्च । धर्मपदस्याग्निहोत्रार्थता च निर्मूलैव, यतो हि धर्मपदं महावीरेऽपवर्गेऽर्थे प्रसिद्धम् || ५५ ||

देव्यांत्र धर्मे जोष्टे ' देवश्रीः श्रीमंनाः शतयाः ।

प॒रिगृह्य॑ दे॒वा य॒ज्ञमा॑यन् दे॒वा दे॒वेभ्यो ' अध्वर्यन्तो ' अस्थुः ॥ ५६ ॥

मन्त्रार्थ - हवि प्रदान कर देवताओं की सेवा करने वाला 1 यजमान में मन रखने वाला, भक्तों को धन देने का मन बनाने वाला, दूध आदि सैकड़ों प्रकार की सामग्री वाला यज्ञ, देवताओं के हितकारी वर्षण आदि के द्वारा अथवा यज्ञ के द्वारा जगत् का रक्षक हमारी दी हुई प्रीतियुक्त हवि को स्वीकार करने वाले अग्नि के निमित होता है, ऋत्विक-गण उस अग्नि को पाकर उस यज्ञ का अनुष्ठान करते हैं । वीप्तिमान् ऋत्विकगण देवताओं के निमित्त यज्ञ करने का मन बनाते हैं ॥ ५६ ॥

का बृहती वा ना पङ्क्तिर्वा, अष्टात्रिंशदक्षरत्वात् । आग्नेयी । दैव्याय देवानामयं हितो वा देव्यः, ' देवाद्यत्रत्रो ' ( पा ० सू ० ४।१।८५, वा ० २ ) इति रूपसिद्धिः तस्मै । धर्मे धरतीति धर्ता तस्मै, यागद्वारा जगतो धारयित्रे | जोष्ट्रे जुषते अस्मद्दत्तहविः सेवत इति जोष्टा, तस्मै । एवंविधाय अग्नये यज्ञो भवतीति शेषः । कथम्भूतो यज्ञः? देवश्रीः । देवान् श्रयति हविर्दानेनेति देवश्रीः । पुनः कथम्भूतो यज्ञः? श्रीमनाः श्रयते सेवत इन्द्रादीन् देवानिति श्रीर्यजमानः तस्मिन् मनोऽनुग्रहपरायणं यस्य सः । यद्वा श्रीर्मनसि यस्य स श्रीमनाः । अथवा भक्तेभ्यः श्रियं दातुं मनो यस्य स श्रीमनाः । शतपयाः शतं शतसंख्याकानि पयःप्रभृतीनि हवींषि यस्य सः । एतादृशयज्ञ-स्याग्निपरिगृह्य देव ऋत्विजो यज्ञं प्रति आयन् यज्ञं कर्तुमागच्छन्ति । किञ्च देवा दीप्यमाना ऋत्विजो देवेभ्योऽ-र्थाय अध्वर्यन्तः, आत्मनोऽध्वरं कर्तुमिच्छति अध्वर्यति, ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३ | १ | ८ ) इति क्यचि नामधातुः, ' कव्यध्वरपृतनस्यचि लोप: ' ( पा ० सू ० ७ | ४ | ३ ९ ) इत्यन्तलोपेऽध्वर्यतीति रूपम्, तस्माद् बहुत्वे शतर्यध्वर्यन्तोऽध्वरं कर्तुमिच्छन्तः, अस्थुः परिवार्य स्थिताः । अथवा पूर्वार्धर्चे पयो दानार्थं नीयत इति वाक्य-शेषः । तथा च एवंभूतायाग्नये देवा ऋत्विजो यज्ञमायन् यज्ञं कर्तुमागच्छन्ति । सोऽयमीदृशोऽग्निरस्मदभीष्टदो भवत्विति शेषः । कीदृशोऽग्निः? देवश्रीः श्रीमनाः शतपयाः । तादृशमग्नि परिगृह्य देवा ऋत्विग्यजमाना यज्ञ-मायन् अनुतिष्ठन्ति । किञ्च देवा ऋत्विगादयो देवेभ्यो हविः स्वीकर्तृभ्योऽध्वर्यन्तोऽध्वरं कर्तुमिच्छन्तः, अस्थुः तिष्ठन्ति । १७

पृष्ठ 166

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 166 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३० शुक्लयजुर्वेद संहिता [ अ ० १७ अध्यात्मपक्षे - देवेभ्यो हिताय हितकारिणे तेषामेवार्थे श्रीरामकृष्णादिरूपेण सेवित्रे अवतारधारिणे भगवते श्रीरामाय धर्त्रेऽसुर-राक्षसादिवधद्वारा जगतो धारयित्रे, जोष्ट्रे भक्तसमर्पितपत्र पुष्पफलादिवस्तूनां यज्ञादिना प्रीत्या देवान् इन्द्राग्न्यादीन् श्रयते नमः । स भगवान् कीदृश:? तत्रोच्यते - देवश्रीः मर्यादापुरुषोत्तमत्वाद् यद्वा श्रयते भगवन्तमिति श्रीभक्तः, तस्मिन् सेवते स देवश्रीः । श्रीमनाः श्रियि सीतायामनुरक्तं मनो यस्य सः । यस्य सः । शतपयाः शतान्यनन्तानि सानुग्रहं मनो यस्य सः । अथवा श्रियमैश्वर्यं मोक्षलक्ष्मी वा दातुं मनो ऋत्विग्यजमाना इन्द्रादयो वा यज्ञमायन् दधिदुग्धायादिहवींषि यस्य सः शतपयाः । यं फलदानप्रतिभुवं परिगृह्य गी ० १८/४६ ), ' ऋतौ सुप्ते जाग्रत्त्वमसि फल-यज्ञमनुतिष्ठन्ति ' स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः ' ( भ ० फलदानप्रतिभुवं श्रुतौ श्रद्धां बध्वा योगे क्रतुमतां व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां सम्प्रेक्ष्य क्रतुषु हविर्भोक्तृभ्योऽध्वर्यन्तोऽध्वरं यज्ञ कृतपरिकरः कर्मसु जनः ॥ ' ( म ० स्त ० २० ) इत्यादिप्रमाणेभ्यः । देवेभ्यो धर्मशिक्षकत्वात्. ' मर्त्यावतार-कर्तुमिच्छन्तो देवास्तमेवादर्श मत्वा परिवार्य अस्थुस्तिष्ठन्ति, तस्यैव यज्ञाद्याचरणेन स्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः ' ( भा ० पु ० ५। १ ९ । ५ ) इति स्मृतेः । देवश्रीः श्रीमनाः शतपया इति अत्र ब्राह्मणम् - ' देव्याय धत्रै जोष्ट्र इति । देवो ह्येष धर्ता जोषयितृतमों ह्येतं देवा यज्ञमायन् देवा देवेभ्यो अध्वर्यन्तो देवश्रीह्येष श्रीमनाः शतपयाः परिगृह्य देवा यज्ञमायन्निति परिगृह्य | १० ) । अत्राग्निरेव धारयितृत्वाज्जोष-अस्थुरित्यध्वरो वै यज्ञो देवा देवेभ्यो यज्ञियन्तोऽस्थुरित्येतत् ' ( श ० ९ | २ | ३ - देवसम्बन्धिने धारयित्रे जोषयितृ-यितृतमत्वाच्च दैव्यादिशब्देनोच्यत इत्याह- दैव्यायेति । एतद्रीत्या मन्त्रार्थस्तु , यो देवश्रीः श्रयन्ते सेवन्त इति श्रियः, देवाः तमाय अग्नये हविर्दानार्थं तत्प्रणयनं क्रियत इति वाक्यशेषः । किञ्च । शतपयाश्च तमग्नि परिगृह्य देवा श्रियः सेवका यस्येति देवश्रीः । श्रीमनाः श्रियं दातुं मनो यस्य स श्रीमनाः यज्ञमिच्छन्तः, यज्ञं देवयजनप्रदेशमायन् गतवन्तः । गत्वा च देवा ऋत्विगादयो देवेभ्यो हविर्भोक्तृभ्योऽध्वर्यन्तो अस्थुः स्थितवन्तः । विद्वांसो देवेभ्यो विदुषां दयानन्दस्तु – ' हे मनुष्याः, यथा अध्वन्तो यज्ञमिच्छन्तो विद्यादातारो प्रसिद्धाय वा धत्रे जोष्टे होत्रे देवश्रीर्या प्रसन्नतार्थं गृहाश्रममग्निहोत्रादियज्ञं वा अस्थुः यथा दैव्याय शुभगुणेषु दुग्धादिवस्तुशतयुक्तः तं तादृशं सेव्यते सा विद्या लक्ष्मीः । श्रीमना यस्य लक्ष्म्यां मनः सः । शतपया यो वा आयन् प्राप्ता भवथ ' इति यजमानं देवा विद्यादातारो यूयं परिगृह्य यज्ञं प्रति योऽयं गृहाश्रममग्निहोत्रादियज्ञं दूरस्थपदस्य सम्बन्धयोजनस्य तदपि यत्किञ्चित् सन्निधानादिनोपस्थितं योग्यपदं परित्यज्यानुपस्थितस्य तेषां प्रसादस्यान्यथापि सम्भवात् । असाम्प्रतिकत्वात् । नहि विदुषां मनुष्याणामेव प्रसन्नतार्थं यज्ञानुष्ठानं भवति यस्य कस्यचिद् धारणं विवक्षितम्, न वा जगद्धारकत्वादिकं मनुष्येषु सम्भवति, तेषामल्पशक्तिमत्त्वात् । न चात्र यस्य कस्य धारकत्वस्य सर्वत्रैव सौलभ्यात् ॥ ५६ ॥

वीत हविः शमित, शंमिता यजध्ये तुरीयों यज्ञो यत्रं हव्यमेति ।

ततो ' वाका आशिषों नो जुषन्ताम् ॥ ५७ ॥

शान्त स्वभाव मन्त्रार्थ - चौथा यज्ञ वह कहलाता है, जिसमें हवि पाने योग्य देवताओं के प्रिय और परम में अभीष्ट अर्थ को कहने वाले वाले अध्वर्यु के द्वारा हवन करने के निमित्त संस्कृत हवि प्राप्त होती है । इस यज्ञ तीनों वेदों के उच्चरित मन्त्र हमारे लिये फलीभूत हों ॥ ५७ ॥

पृष्ठ 167

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 167 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५७-५८ ] वैदार्थ पारिजात भाष्यसहिता १३१ हविर्यज्ञदेवत्या बृहती । यत्र यस्मिन् काले यज्ञो हव्यं होतुं योग्यं हविरेति प्राप्नोति, ततो यज्ञादुत्थिता वाका वाक्यानि वचेत्रि रूपम्, ऋग्यजुः सामलक्षणानि, आशिषोऽभीष्टार्थशंसनानि च नोऽस्मान् जुषन्तां सेवन्ताम् । यज्ञफलान्यस्मानालिङ्गन्त्वित्यर्थः । कीदृशं हविः? वीतं देवानामिष्टम्, ' इष्ट स्विष्टमित्येतत् ' ( श ० ९ २ | ३ | ११ ) इति श्रुतेः । पुनः कीदृशम्? शमिता शमित्रा, तृतीयेकवचनस्य ' सुपां सुलुक्... ( पा ० सू ० ७ | १ | ३ ९ ) इति सु आदेश: । यजध्यै यष्टुम् ' तुमर्थे सेसेनसे ' ( पा ० सू ० ३ | ४ | ९ ) इत्यादिना शध्यैप्रत्ययः । शमितं मन्त्रैः संस्कृतम् । कथंभूतो यज्ञस्तुरीयश्चतुर्थः । कथं चतुर्थस्तत्राह - ' अध्वर्युः पुरस्ताद्यजूंषि जपति होता पश्चादृचोऽन्वाह ब्रह्मा दक्षिणतोऽप्रतिरथं जपत्येष एव तुरीयो यज्ञः ' ( श ० ९ २ | ३ | ११ ) इति श्रुतेः । यद्वा आदौ अध्वर्युणा ' ओ श्रावय ' इत्याश्रावणम् । तत आग्नीध्रेण ' अस्तु श्रीषट् ' इति प्रत्याश्रावणम् । ततोऽध्वर्योर्यजेति प्रेषः । ततो होतुर्वषट्कार इति यज्ञश्चतुर्धा कल्प्यते । अत्र ब्राह्मणं व्याख्यान एवोद्धृतम् । अतः सम्पूर्णा कण्डिका नोद्भियते । एतदनुसारी मन्त्रार्थस्तु -शमित्रा अग्न्यर्थयागीयं हविर्वीतम् इष्टं यत्र यस्मिन् प्रणयनदेशे हव्यं हवनार्हमग्नि तुरीयो यज्ञो गच्छति, तथा-विधादस्मादग्नेरध्वर्य्यादीनाम् अप्रतिरथादयो मन्त्रा वाका ऋग्यजुःसामलक्षणानि वाक्यानि आशिषश्च नः अस्माकं जुषन्तामिति । अध्यात्मपक्षे - हे परमेश्वर, यत्र यन्निमित्तं यज्ञे यजने यजध्यै, तं भवन्तं यष्टुं हव्यं हवनयोग्यं वीतं कामितमभीष्टं शमिता शमित्रा शमनिष्ठेन साधकेन शमितं मन्त्रसंस्कृतं हविः, एति आगच्छति । तत्र पूर्व -मध्वर्युर्जपति । पश्चाद्धोता ऋचः पठति । ब्रह्मा अप्रतिरथं जपति । तदपेक्षया तुरीयो यागो भवदीययजनं सम्पद्यते । ततस्तस्माद् यज्ञाद् वाकाः स्तुतिलक्षणानि ऋग्यजुः सामरूपाणि वचनान्याशिषोऽभीष्टशंसनानि, नोऽस्मान् जुषन्तां सेवन्ताम् । भवत्प्रसादात् तादृशा वाका आशिषश्च अस्मान् प्राप्नुवन्त्वित्यर्थः । G दयानन्दस्तु – ' हे मनुष्याः, य: शमिता शान्तो गृहाश्रमी यजध्यै यागं कर्तुं वीतं गमनशीलं शमितं दुर्गुणप्रशमनं होतुं योग्यं हविग्नो प्रक्षिपति, यस्तुरीयां यज्ञः प्राप्तुं योग्योऽस्ति तथा ७ यत्र हृष्यं होतुं योग्यं वस्तु एति ततस्तेभ्यः सर्वेभ्यो वाका या उच्यन्ते, ता वाय आशिष इच्छासिद्धयश्च नो जुषन्तामितीच्छत ' इति, तदपि न, सम्बोधनादेनिर्मूलत्वात् । शमिता शान्तो गृहाश्रमीत्यपि निर्मूलमेव, अग्नौ प्रक्षिपतीति पदं तु मन्त्रबाह्यमेव । यज्ञस्य तुरीयत्वं कथमित्यनुक्तिश्च बलादारूढा शिरसि ॥ ५७ ॥

सूयैरश्मिर्हरिकेशः पुरस्तात् सवि॒ता ज्योति॒रुदयाँ २ ॥ अज॑नम् ।

तस्य॑ पू॒षप्र॑स॒वे यति वि॒द्वान् स॒म्पश्य॒न् विश्वा॒ भुव॑नानि गोपाः ॥ ५८ ॥

मन्त्रार्थ --- सूर्य जिसकी किरणें हैं, वह कनकवर्ण ज्वालारूप केशवाला, प्राणियों को अपने अपने व्यापार में लगाने वाला, ज्योतीरूप सविता देव पूर्व दिशा से प्रकट होता है । धर्मरक्षक विद्वान् उस ब्रह्मज्योति को आज्ञा में रह कर सकल भुवनों को देखता हुआ निरन्तर चलता रहता है ॥ ५८ ॥

आग्नेयी त्रिष्टुप् । हरिकेशः, हरति दारिद्र्यमिति हरिः, हिरण्यम्, ' अच इ: ' ( उ ० ४ | १४० ) इति रूपसिद्धिः, हरयो हिरण्यवर्णाः केशाः केशस्थानीया ज्वाला यस्य स अग्निः । सूर्यरश्मिः सूर्यस्येव रश्मयो यस्य सः । अथवा सूर्यश्चासौ रश्मिश्चेति सूर्यरश्मिः, सूर्यरूपस्तद्रश्मिरूपश्च । सविता सौति तत्तद्वयापारेषु प्राणिनः प्रेरयतीति सविता । ज्योतिः ज्योतीरूपोऽग्निः, अजस्रं निरन्तरं प्रत्यहमिति यावत्, पुरस्तात् पूर्वस्यां दिश्याहव-

पृष्ठ 168

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 168 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३२ शुक्लयजुर्वेदसंहिता [ अ ० १७ नीयरूपेण होमार्थम् उदयाद् उद्गच्छति । उत्पूर्वस्य यातेर्लङि प्रथमपुरुषबहुवचने शाकटायनभिन्नवैयाकरणमतेन रूपम् । एकवचनस्यापि कर्तुः क्रियायां बहुवचने वचनव्यत्ययः । तस्य अग्नेः प्रसवे प्रेरणे सति पूषा पोषकः सूर्यो याति उदयास्तमयद्वारेणाटति । कथम्भूतः पूषा? विद्वान् स्वाधिकारम् अहोरात्रवर्तनात्मकं जानानः । कथम्भूतः? विश्वा भूतानि सर्वलोकं सम्पश्यन् सम्यग् अवलोकयन् । पुनः कथम्भूतः? गोपाः गोपायतोति गोपा पुनः रक्षकः, धर्मस्येति शेषः । तथा चाह ब्राह्मणम् -'सूर्यरश्मिर्हरिकेशः पुरस्तात् । सविता ज्योतिरुदयाँ २ ॥ अजस्रमित्यसौ वा आदित्य एषोऽग्निः स एष सूर्य रश्मिर्हरिकेशः पुरस्तात् सवितैतज्ज्योतिरुद्यच्छत्यजत्रं तस्य पूषा प्रसवे याति विद्वानिति पशवो वै पूषा त एतस्य प्रसवे प्रेरते सम्पश्यन् विश्वा भुवनानि गोपा इत्येष वा इद सर्व सम्पश्यत्येष एवास्य सर्वस्य भुवनस्य गोप्ता ' ( श ० ९ १२ / ३ / १२ ) । एतस्य प्रणीयमानस्याग्नेरादित्यात्मकत्वात् स उ मानाग्निलक्षणः सूर्यस्य च रश्मिभिर्युक्तो हरितवर्ण केशस्तेजोरूपः सविता अनवच्छिन्नं एष प्रणीय-उद्यच्छति, अतो मन्त्र इममेवार्थमाचष्ट इत्याह- सूर्यरश्मिरिति । पूष्णः पशुजनकत्वात् पुरस्तादुदयाद् यद् त एतस्याग्नेरनुज्ञायां प्रवर्तन्त इत्ययमर्थी मन्त्रभागेन विवक्षित पूषा इति पशव उच्यन्ते! इत्याह- पशवो वा इति । तथा चायं मन्त्रार्थ: - सूर्यस्य रश्मिभिर्युक्तो हरितकेशस्तेजोरूपः प्रणीयमानाग्निः पुरस्तादुद्यच्छति । तस्य प्रसवे पूषा याति । अग्नेः प्रजापत्यात्मकत्वेन विश्वा भुवनानि सम्पश्यन् सर्वस्यापि विद्वान् गोपाः रक्षितृत्वाद् भुवनस्य गोप्ता गोपायितेति । स तादृशः सविता यस्य प्रसवे भुवनस्य जगत् प्रकाशयन् द्रष्टृत्वाद द्रष्टा । व्यवस्थापयन्नति, सोऽग्निर्महान् प्रशस्त इत्यर्थः । अहोरात्रं अध्यात्मपक्षे - सूर्य रश्मिः सूर्य एव रश्मिर्यस्य सोऽयं सूर्य रश्मिः कोटिसूर्यसमप्रभ इत्यर्थः श्रीरामचन्द्रः । हरिकेशो हिरण्यकेशो ज्योतिर्मयः सर्वस्य पुरस्तादग्रे दानवदर्पदलनाय उदयान् । स उद्गच्छति च भगवान् तस्य भगवतः प्रसवे प्रेरणे पूषा सर्वस्य पोषको विद्वान् तस्य माहात्म्यातिशयं जानन् विश्वा विश्वानि भुवनानि । सम्पश्यन् गोपा विश्वस्य भुवनानां धर्मस्य गोब्राह्मणादीनां च गोप्ता रक्षकोऽजस्रं प्रत्यहं दिवारात्रं व्यवस्थापयन् पर्यटति, स धर्मरक्षकः श्रीराम उदयान् उद्यच्छतु मत्समक्षमाविर्भवत्वित्यर्थः । दयानन्दस्तु - ' हे मनुष्याः, पुरस्तात् पूर्व सविता सूर्यलाको ज्योतिः प्रकाशं ददाति । हरिकेशो हरित-रश्मिर्यस्मिन् हरितवर्णाः सुर्यरश्मयो विद्यन्ते यश्च प्रसवे उत्पन्ने जगत्यजस्रं निरन्तरं पूषा पोषकः, यं विद्वान् विद्यायुक्तः पुरुषः सम्पश्यन् तस्य विद्यां याति प्राप्नोति तस्य सकाशाद् गोपाः संसाररक्षकाः पृथिव्यादिलोका-स्तारागणाश्च समस्तभुवनानि उदयान् प्रकाशयन्ति, तं सूर्यलोकं यूयं जानत ' इति, तदपि यत्किञ्चित्, ज्योतिर्ददा-तोति व्याख्याने ददातिपदस्य मूलेऽभावादसङ्गतेः केशशब्दार्थानिरूपणाञ्च । विद्वान् विद्यां यातीत्यप्यसङ्गतम्, विद्यापदस्य मूलेऽभावात् । गोपा रक्षकाः पृथिव्यादयस्तारागणाश्चेत्यपि निर्मूलम्, स्वाभ्यूहमात्रशरीरत्वात् ॥ ५८ ॥

विमानं एष दिवो मध्य आस्त आपप्रि॒वान् रोद॑सी अ॒न्तरि॑क्षम् ।

स विश्वाचरभिचष्टे घताचीरन्तर पूर्व मपरं च केतुम् ॥ ५६ ॥

मन्त्रार्थ -- जगत् को रचना करने को शक्तिवाला यह सूर्यदेव स्वर्ग के मध्य में स्थित है । यह पृथ्वी, स्वर्ग, अन्तरिक्ष को सब ओर से तेज से परिपूर्ण करता हुआ बेद्दि और खुवा को देखता है । यह सूर्यदेव इस लोक और अन्य लोकों में स्थित मनुष्यों के चित्त को भी जानता है ॥ ६० ॥

पृष्ठ 169

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 169 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५ ९ ] वेदार्थपारिजातभाष्यसहिता १३३ ' आग्नीध्रदेशाद्दक्षिणं पृष्ठ्या सहितं पृश्न्यश्मानमुपदधाति विमान इति ' ( का ० श्री विमान ० १८ | ३ | इत्यादि २५ ) । अध्वर्युराग्नीघ्रगृहाद् दक्षिणदिशि पृष्ठ्या संलग्नं पृश्नि तनुं वृत्तं चित्रवर्णं वा अश्मानं पाषाणं द्वधेर्चेन उपदध्यादिति सूत्रार्थः । विश्वावसुदृष्टा आदित्यदेवत्या त्रिष्टुप् । आदित्याध्यासेनाश्मा स्तूयते । एषोऽश्मा ' आदित्यरूपेण दिवोऽन्तरिक्षस्य मध्ये आस्ते तिष्ठति, ' असो वा आदित्योऽश्मा पृश्निरमुमेवैतदादित्यमुपदधाति । ( श ० ९ २ । ३ । १४ ) इति श्रुतेः । आहवनीयो द्युलोकः, गार्हपत्यो भूलोकः, मिमीत तयोर्मध्ये इति आग्नीध्रमन्तरिक्षस्थानीयम् विमानः, जगन्निर्माणसमर्थः । तत्र स्थित्वाद् दिवो मध्य आस्ते । कीदृश एषोऽश्मा? विमानः, विविधं प्रपुरणे ' इत्यस्मा-पुनः कीदृश:? रोदसी द्यावापृथिव्यौ अन्तरिक्षं च आपप्रिवान् तेजसा सर्वतः पूरितवान् इटि च । ' ' प्रा ( पा ० सू ० ६।४।६४ ) ल्लिटि सो ' वस्वेकाचाद् घसाम् ' ( पा ० सू ० ७/२/६७ ) इतीडागमे, ' आतो लोप न वा यज्ञमापूर्य तिष्ठति, इत्याकारलोपे रूपम् । यद्यप्ययमिमे रोदसी जगच्च न किञ्चिदपि निर्मिमीते, नापि लोकं विश्वाचीः विश्वव्यापिनीः तथापि परमेश्वरगुणैरस्य स्तूयमानत्वान्न विरोधः । स तथा स्तूयमान आदित्यरूपोऽश्मा ब्रह्माण्डमध्ये दिशः, अभिचष्टे सर्वतः प्रकाशयति । यथा घृताचीः घृतप्राप्तिहेतुभूता धेनूश्वाभिचष्टे तथा अन्तरा पूर्वमपरं च केतुमुदयास्तमयाभ्यां पूर्वापरदिशोऽनवच्छिन्नभूतं सूर्यमभिचष्टे । एष आदित्यो विमानो तिष्ठति भूतग्रामस्य । यद्वा निर्माता दिवो मध्य आस्ते । ब्रह्माण्डमध्ये पूर्वमपरं च केतुमुदयास्तमयमध्य आदित्यरूपोऽश्मा विश्वाचीः यज्ञकर्तननुग्रहीतुं विश्वं हविरञ्चितं स्थापितं यस्यां सा विश्वाची वेदिः । घृतमञ्चितं चित्तं च यस्यामिति बोधं च घृताची स्रुक् । तथा पुर्वमिमं लोकमपरममुं लोकं च अन्तरा मध्ये स्थितानां जनानां केतुं अभिचष्टे, सर्वजनानामभिप्रायज्ञ इत्यर्थः । अत्र ब्राह्मणम् - ' अथाश्मानं पृश्निमुपदधाति । असौ वा आदित्योऽश्मा पृश्निर मुमेवेतदादित्यमुपदधाति पृश्निर्भवति रश्मिभिर्हि मण्डलं पृश्नि तमन्तरेणाहवनीयं च गार्हपत्यं चोपदधात्ययं वे लोको गार्हपत्यो ) । उक्तैर्मन्त्रेराग्नीध्र- द्यौराहवनीय एतं तदिमो लोकावन्तरेण दधाति तस्मादेष इमौ लोकावन्तरेण तपति ' ( श ० ९ । २ । ३ । १४ पर्यन्तं गत्वा तत्रैकस्य पृश्निवर्णस्याश्मन उपधानं विधत्ते - अथेति । पृश्निशब्देन वैत्यमुच्यते । पृश्ने रश्मन उप-धानेन आदित्यस्यैवोपधानं भवतीत्याह - असौ वा आदित्य इति । आदित्य मण्डलसादृश्यप्रदर्शनेनोक्तमश्मनः पृश्नित्वमुपपादयति - पृश्निर्भवतीति । रश्मिभिर्हि मण्डलं पृश्नि भवति । तस्य चाश्मन उपधानं गार्हपत्याहवनी- च ययोर्मध्ये कर्तव्यमित्याह - तमन्तरेणेति । गार्हपत्याहवनीययोरधस्तनोपरितन लोकद्वयात्मकत्वाल्लोकद्वयस्य । मध्ये सूर्यस्य तपनात् सुर्यात्मकस्याश्मनस्तत्रोपधानमुपपन्नमित्याह - अयं वै लोक इति । ' आग्नीध्रवेलायाम् ( श ० ९ | २ | अन्तरिक्षं वा आग्नीध्रमेतं तदन्तरिक्षे दधाति तस्मादेषोऽन्तरिक्षायतनो व्यध्वे व्यध्वे ह्येष इतः ' ३।१५ ) । वेलाशब्दोऽवकाशमाचष्टे । गार्हपत्याहवनीययोरधस्तनोपरितन लोकात्मकयोर्मध्यवर्तित्वेन आग्नीध्रस्य व्यध्वे अन्तरिक्षत्वम् । व्यध्वशब्देन अर्धमार्ग उच्यते । तत्रैतस्याश्मन उपधानं क्रियते । तस्मादितः प्रदेशाद् अर्धमार्गे एष सुर्यस्तपतीत्यर्थः । ' स एष प्राणः । प्राणमेवैतदात्मन् धत्ते तदेतदायुरायुरेवैतदात्मन् धत्ते तदेतदन्न-मायुर्ह्येतदन्नमु वा आयुरश्मा भवति स्थिरो वा अश्मा स्थिरं तदायुः कुरुते पृश्निर्भवति पुरनीव ह्यन्नम् ' ( श ० ९ | २ | ३ | १६ ) । तस्याश्मन आदित्यात्मकत्वादादित्यस्य च प्राणाद्यात्मकत्वात् तदुपधानेनात्मनि प्राणादिधारणं सम्पाद्यत इत्याह-- स एष इति । स आदित्यात्मकः, एषोऽश्मा प्राणः प्राणात्नकादित्यरूपत्वात् । आदित्यस्य च प्राणत्वं तदुदये प्राणिनश्चेष्टन्ते, तदस्तमये तु न चेष्टन्त इति । अत एव श्रूयते - ' योऽसौ तपन्नुदेति स सर्वेषां भूतानां प्राणानादायोदेति, असौ योऽस्तमेति स सर्वेषां भूतानां प्राणानादायास्तमेति ' ( तै ० आ ० १ | १४ | १ ) इति । प्राणत्वादेवायुरूपत्वम्, प्राणिनामेव जीवनकालसम्बन्धात् । आयुह्येतदिति । एष अश्मा यतः कारणाद् आयुरेव, एतदिति नपुंसकलिङ्गप्रयोग आयुरित्येतदपेक्षः । तद् आयुरन्नम् तद्वतामेव भोक्तृत्वात् । यत एतदन्नम्, तस्मात्तदुपधानेन स्वकीय आत्मनि प्राणादीन् धारितवान् भवति । अश्मा यस्मात् स्थिरो भवति, तस्मादेव

पृष्ठ 170

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 170 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१६४ शुक्लयजुर्वेद संहिता [ अ ० १७ तदुपधानेन यजमानस्यायुरपि स्थिरं भवतीति । ' स उपदधाति । विमान एष दिवो मध्य आस्त इति विश्वाचीरभिचष्टे विमानो ह्येष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षमित्युद्यन् वा एष इमाँल्लोकानापूरयति स चीयते घृताचीरिति स्रुचश्चैतद्वेदीश्वाहान्तरा पूर्वमपरं च केतुमित्यन्तरेमं च लोकममुं चेत्येतदथो यच्चेदमेत हि । हि यच्चाद पूर्वमचीयतेति ' ( श ० ९ | २ | ३ | १७ ) । तस्योपधाने मन्त्रद्वयं प्रदर्शयन् व्याचष्टे - स उपदधातीति सूर्यः यस्मात् कारणात्, एष सूर्यो भूतग्रामस्य निर्माता द्युलोकस्य मध्य आस्ते, अत उक्तं विमान इति । उदयमानः वर्तमानार्थक-पृथिव्यादीन् स्वप्रकाशेनापूरयतीति तमर्थमाहेति व्याचष्टे - आपप्रिवानिति । ' प्रा प्रपूरणे ' इत्यस्माद् लिटः कः । विश्वाचीघृताचीपदाभ्यां विश्वेषां विषां घृतानां च स्थापनाद् वेदयः स्रुचश्च विवक्ष्यन्त इत्याह-स विश्वाचोरिति । पूर्वमपरमिति शब्दाभ्यां पृथिवोद्युलोको विवक्षितौ । पूर्वमिति पूर्वचितो गार्हपत्यः, अपरमिति तदानीं चीयमान आहवनीय उच्यते । भूतग्रामस्य निर्माता द्यावापृथिव्यो अन्तरिक्षं चा समन्तात् पूरयन् एष सूर्यो लोकस्य मध्ये तिष्ठति । किञ्च यः सूर्यः पूर्वमपरं च केतुं लोकमन्तरा द्यावापृथिव्योमध्ये गार्हपत्याहवनीययोर्वा मध्ये सन् विश्वाचीर्वेदीर्घृताचीः स्रुचश्च अभिचष्टे पश्यति । अध्यात्मपक्षे - एषोऽपरोक्षचैतन्याभिन आदित्य आदित्यमण्डलान्तर्गतः पुरुषः, विमानः सर्वस्यैव प्रपञ्चस्य निर्माता दिवो द्युलोकस्य मध्ये सूर्यरूपेणास्ते । रोदसी द्यावापृथिव्यो अन्तरिक्षं च आपप्रिवान् आपूरित-वान्। स च विश्वाचीः सर्वा दिशः, घृताचीः सर्वतः प्रकाशयति । अनुग्रहदृष्ट्या कामधेनूश्चाभिपश्यति । पूर्वमिमं परममुं च अन्तरा मध्ये स्थितानां केतुं चित्तमभिचष्टे । , दयानन्दस्तु - ' विद्वान् य एष सूर्य, दिवः प्रकाशस्य मध्ये विमानो विमानमिव स्थित आस्ते तिष्ठति रोदसी प्रकाशभूमो अन्तरिक्षमवकाशमापप्रिवान् स्वतेजसा व्याप्तवान् सन् आस्ते स विश्वाचीर्या विश्व-मञ्चन्ति प्राप्नुवन्ति स्वोदयेन प्रकाशयन्ति, घृताचीर्जलं प्रापयन्ति ता द्यूतीविस्तारयति । पूर्वमग्रे, अपरं पश्चात्, अन्तरा तयोर्मध्ये, केतुमभिचष्टे प्रकाशकं तेजोऽभिपश्यति ' इति, तदपि यत्किञ्चित्, अभिचष्टेशब्दस्य विस्तारयतीति व्याख्यानस्य धात्वर्थविरुद्धत्वात् । विमानमिव स्थित इत्यप्यशुद्धम्, सवितुर्गमनस्य साधितत्वात्, ' देवो याति भुवनानि पश्यन् ' इति मन्त्रवर्णाच्च ॥ ५ ९ ॥ उक्षा समुद्रो अ॑रुणः सु॑प॒र्णः पूर्व॑स्य॒ योनि॑ पि॒तु॒रावि॑वेश । : मध्ये दि॒वो निहि॑तः पृश्निरश्मा विच॑क्रमे रज॑सस्मा॒त्यन्तौ ॥ ६० ॥

मन्त्रार्थ - वर्षा से पृथ्वी को सींचने वाले, ओस के कणों से उसको गीली करने वाले, आकाश में व्याप्त श्रेष्ठ गति वाले, लोक में स्थित विचित्र वर्ण, अनेक प्रकार की किरणों से व्याप्त, उदय के समय अरुण वर्ण सूर्य ने पूर्व दिशा स्वर्गस्थान में प्रवेश किया है । वहाँ से विचरण करते हुए सूर्य देव ब्रह्माण्ड को सब ओर से रक्षा करते हैं ॥ ६१ ॥

अप्रतिरथदृष्टा आदित्यदेवत्या त्रिष्टुप् । य आदित्यः पूर्वस्य पूर्वदिशि स्थितस्य पितुर्द्युलोकस्य योनि स्थानमाविवेश आविशति, ' खात्पितोच्चतरस्तथा ' ( म ० भा ० ३ | ३१३।६० ) इत्युक्तेः पितुःशब्देन द्युलोक उच्यते । उदयसमये सूर्यो द्युलोकाज्जायमान उपलभ्यते । तस्माद् द्युलोकपूर्वभागः सूर्यस्य पितृभूत उच्यते । कीदृशः सः? उक्षा वृष्टिद्वारा सेक्ता । पुनः कीदृश:? समुद्रः समुनत्ति क्लेदयति उदयकालेऽवश्यायपतनेनेति समुद्रः । अरुण उदयकालेऽरुणवर्णः । सुपर्णः सु सुष्ठु पर्णं पतनं गमनं यस्य सः । यश्च दिवो मध्ये निहितोऽवस्थितः । यश्च पृश्निविचित्रवर्णो नानारश्मिसङ्कुलः । यश्च अश्मा अश्नुते व्याप्नोति नभ इत्यश्मा । एवंविधः सन् विचक्रमे