वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 171–180

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 171–180

पृष्ठ 171

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 171 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

-म ० ६०-६१ ] वेदार्थपारिजातभाष्यसहिता १३५ विक्रमते नभः । यश्च विक्रममाणो रजसो रञ्जनस्य लोकत्रयस्य अन्तौ अन्तान् पर्यन्तभागान् वचनव्यत्ययः, पाति रक्षति । यो ह्यन्तान् पाति स मध्यं पात्येवेत्यर्थः । यद्वा अयमश्मा उक्षा सेक्ता । यागद्वारेणाभीष्ट-फलाभिषेचकः । समुद्रो बहुफलप्रदत्वात् समुद्रसदृशः । अरुणः पूर्वमन्त्रे सर्वप्रकाशकत्वेनोपवरितत्वाद् उदयकालिकारुणसूर्यसदृशः । सुपर्णः स्वर्गं प्रति गमनहेतुत्वाद् गरुडपक्षिसदृशः । तथाविधोऽश्मा पितुः कर्म पालकस्य पूर्वस्य पूर्वदिग्वर्तिनः, आहवनीयस्य योनि कारणभूत माग्नीधमाविवेश प्रविष्टवान् । ' यदाहवनीयमुद्वपेदाग्नीध्रा-दुद्धरेत् ' इत्याहवनीययोनित्वमाग्नीध्रस्याम्नातम् । अयं पृश्निः श्वेतवर्णोऽश्मा दिवो मध्ये आग्नीध्रस्थानीयस्य आकाशस्य मध्ये निहितः स्थापितः सन् रजसो रञ्जनीयस्य जगतोऽन्तौ उत्पत्तिप्रलयेतिकोटिद्वयं विचक्रमे गतवान् । तथा गतः सन् पाति परमेश्वररूपेण पालयति । अत्र ब्राह्मणम् -'उक्षा समुद्रो अरुणः सुपर्ण इति । उक्षा ह्येष समुद्रोऽरुणः सुपर्णः पूर्वस्य योनि पितुराविवेशेति पूर्वस्य ह्येष एतं योनि पितुराविशति मध्ये दिवो निहितः पृश्निरश्मेति मध्ये ह्येष दिवो निहितः पृश्निरश्मा विचक्रमे रजसस्पात्यन्ताविति विक्रममाणो वा एष एषां लोंकानामन्तान् पाति ' ( श ० ९ २८ | ३ | १८ ) । अत्र रजःशब्देनैते लोका विवक्षिताः । अन्यत् पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे - एष आदित्य मण्डलस्थः परमेश्वरः, उक्षा अभीष्टकामनावर्षुकः, समुद्रवद् दुर्विगाह्यः, अरुणो भक्तानुरागरञ्जितः " सुपर्णः शोभनपर्णः, जीवरूपस्य सुपर्णस्य सखा, पूर्वस्य अनादिसिद्धजीवस्य योनि स्थानं हृदय प्रदेशमाविवेश प्रविष्टवान् । तत्र दिवो हार्दाकाशस्य मध्ये निहितः पृश्निः स्वभावस्वच्छोऽपि पृश्निर्बुद्धयादिभिः किमरितश्चित्रवर्ण इव अश्मा व्यापकः, रजसो जगतोऽन्ती पर्यन्तान् विचक्रमे विक्रममाणः पाति रक्षति । दयानन्दस्तु - ' हे मनुष्याः, य ईश्वरेण दिवः प्रकाशस्य मध्ये निहितः स्थापितः, यश्च उक्षा वृष्ट्या सेचकः, समुद्रः सम्यग् द्रवन्त्यापो यस्मात् सः, अरुण आरक्तः, सुपर्णः शोभनानि पर्णानि पालनानि यस्मात् सः, पृश्नि: विचित्रवर्णः, सूर्यरूपः प्रकाशः, अश्मा मेघः, रजसो लोकान् अन्तौ बन्धने विचक्रमे विविधतया क्रमते पाति रक्षति । पूर्वस्य पूर्णस्य पितुरुत्पादिकाया विद्युतो योनि कारणमाविवेश प्रविशति, स सम्यगुपयोक्तव्यः ' इति, तदपि शब्दमर्यादामुपेक्ष्य स्वरित्वमेव व्यनक्ति । ' पूर्वस्य पूर्णस्य पितुरुत्पादिकाया विद्युतः ' इत्यादिव्याख्यानस्य तथाविधत्वात्, अत एव निर्मूलत्वाच्च । अन्तिशब्दस्य, अन्तुशब्दस्य वा बन्धनार्थतापि चिन्त्यैव || ६० ||

इन्द्र विश्व अवीवृधन् समुद्रव्यंचसं गिरः ।

र॒थीत॑ र॒थीनां॒ वाजा॑ना॒ सत्प॑ति॒ पतिम् ॥ ६१ ॥

मन्त्रार्थ - ऋक्, यजु और साम रूप सभी स्तुतियाँ समुद्र के समान व्यापक, सभी रथियों के मध्य में अत्यन्त बलवान्, धनधान्य के पति, निज धर्म में रहने वालों के पालक इन्द्र देव का वर्धापन करती हैं ॥ ६१ ॥

' निधायैनमतिक्रामन्तीन्द्रं विश्वा इति ' ( का ० श्र ० १८ | ३ | २७ ) । एनं पृश्न्यश्मानं क्वचिद् गुप्ते देशे स्थापयित्वा सर्वे चयनं प्रति गच्छन्ति ' इन्द्रं विश्वा ' इत्याद्यक्चतुष्टयेनेति सूत्रार्थः । व्याख्यातपूर्वेयमृक् ( १२/५६ ) इति स्थाने || ६१ ॥

पृष्ठ 172

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 172 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३६ शुक्लयजुर्वेदसंहिता [ अ ० १७

देवहूर्यज्ञ आ चं वक्षत् सुम्नहूय॒ज्ञ आ च वक्षत् ।

यक्ष॑द॒ग्निर्देवो दे॒वाँ २ ॥ आ चं वक्षत् ॥ ६२ ॥

धन - पुत्र आदि सकल सुखों मन्त्रार्थं -- देवताओं को बुलाने वाला यज्ञ के देवताओं को बुलाकर यजन करें यजन । करे ॥ ६२ ॥

को देनेवाला यज्ञ देवताओं को बुलावे । अग्नि देवता देवताओं का आह्वान करें और | देवहूः देवान् तिस्रोऽनुष्टुभः, आद्ये द्वेद्वधके उष्णिहो वेत्युव्वाचार्यः । विधृतिदृष्टा सुम्नं यज्ञदेवत्या सुखमाह्वयतीति सुम्नहूः, आह्वयतीति देवहूर्यज्ञो देवान् आवक्षद् आवहतु चकारात् यजतु आवहतु । यश्च चकाराद् सुम्नहूः यजतु च । अग्निर्देवश्च देवान् धनपुत्रकलत्राद्युत्थसुखानामाह्वाता यज्ञो देवान् आवक्षद् लेटि ' ( पा ० सू ० ३ | ११३४ ) इति सिपि, अनुदात्तत्वादिड-आवक्षद् यक्षद् आवहतु यजतु च । वहतेर्यजेश्च ' सिब्बहुलं लोपः परस्मैपदेषु ' ( पा ० सू ० ३ | ४ ९ ७ ) इति तिप प्रवृत्तो, ' लेटोऽडाटो ' ( पा ० सू ० ३ / ४ / ९ ४ । ) इत्यडागमे, ' इतश्च } इकारलोपे वक्षद् यक्षद् इति रूपसिद्धिः । तस्योपहितस्याश्मनो रक्षां विधाय अत्र ब्राह्मणम् -'तं निधाय यथा न नश्येत् ' ( श ० ९ २ | ३ | १ ९ ) । इन्द्र विश्वा अवीवृधन्निति तस्योक्तो आवहनीय प्रदेशं प्रति गच्छेयुरिति विधत्ते - तं निधायेति । देवहूश्चैव ' अथोपायन्ति यज्ञः सुम्नहूश्च यक्षदग्निर्देवो देवाँ २ ॥ आ च बन्धुर्देवहूर्यज्ञ आ च वक्षत् सुम्नहूर्यज्ञ आ च वक्षदिति ( श ० ९ | २ | ३ | २० ) । तस्योक्तो बन्धुरिति ' इन्द्रं विश्वा वक्षदिति यक्षच्चैवाग्निर्देवो देवाना च वहत्वित्येतत् ' ब्राह्मणं ( श ० ८ | ७ | ३ | ७ ) अष्टमकाण्डेऽभिहितम् | अवीवृधनितीन्द्रं हि सर्वाणि भूतानि वर्धयन्ति ' इत्यादिना अस्य शेषं स्पष्टम् । इज्यत इति अध्यात्मपक्षे - यतो यज्ञो विष्णुर्देव हूर्देवे राहूयते स्वात्मरक्षार्थमिति स हि देवैरुदीर्णस्य देवहूः, देवेहूयते रावणस्य वधार्थिभिः । वा देवहूविष्णुः । रावणादिभ्यो भीता देवा विष्णुमेवाश्रयन्ति ) इति रामायणवचनात् । विष्णुर्यज्ञो भूत्वा अतिमानुषे लोके जज्ञे विष्णुः सनातनः ॥ ' ( वा ० रा ० अ सुम्नाय ० ११७ विविधसुखाय मोक्षसुखाय च यो सर्वे हूयते देवान् आवक्षद् आवहतु चकाराद् यजतु च । सुम्नहूः भूत्वा मर्त्यशिक्षणार्थं देवान् आवक्षद् आवहतु आकार्यत इज्यते च स सुम्नहूः, श्रीरामरूपेण यज्ञे देवानामाह्वाता आवहतु यजतु च । लोकसंग्रहार्थं मर्त्यशिक्षणार्थं यक्षद् यजतु च । अग्निरग्रणीर्देवानां सोऽग्निर्देवो देवान् सर्वमेतत् ॥ यः सुम्नहू-दयानन्दस्तु – ' हे मनुष्याः, यो देवहूर्यज्ञ ईश्वरोऽस्मान् सत्यमावक्षत् देवान् यक्षद् चादसत्यादुद्धरेत् आवक्षच्च तं भवन्तः सततं यज्ञोऽस्मभ्यं सुखान्यावक्षद् दुःखानि च नाशयेत्, योऽग्निर्देवोऽस्मान् पुरुषेच्छाधीनत्वात् तस्याश्च निरङ्कुश-सेवन्ताम् ' इति, तदपि यत्किञ्चित्, सत्यपदस्य मूलेऽभावातू, अध्याहारस्य गदितुं शक्यो यत् सनातनधर्मं मावक्षत् सामाजिक-त्वेन नियन्त्रयितुमशक्यत्वात् । तथा चास्य मन्त्रस्यैवमप्यर्थो विदुष आह्वयति? ईश्वरः सुखं कथ-स्वीकृतादुच्छृङ्खलान्मार्गादुद्धरेदिति । देवहूः परमेश्वरः कथं किमर्थं सम्भवति । ' देवान् ' इत्यस्य ' दिव्यान् गुणान् माह्वयति? स तु स्वयं पूर्णकामः सुखरूप इति ॥ कथं तस्य सुखापेक्षा दिव्यान् भोगान् ' इत्यप्यर्थो निर्मूल एव ॥ ६२ वाज॑स्य मा प्रसव

उद्ग्राभेणोदग्रभीत् ।

अर्धा सपत्नानिन्द्रो मे निग्राभेणाधरों २ ॥ अकः ॥ ६३ ॥

पृष्ठ 173

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 173 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६३-६४ ] वेदार्थपारिजातभाष्यसहिता १३७ मन्त्रार्थ - इन्द्र देवता अम्न को उत्पत्ति और दान के द्वारा मुझे अनुगृहीत करें और मेरे शत्रुओं को भिक्षा मांगने की तरफ ढकेल कर उन्हें नीचा दिखावें ॥ ६३ ॥

ऐन्द्री | वाजस्य अन्नस्य प्रसवः प्रसूतिः प्रसवभूमिः अभ्यनुज्ञाता वा इन्द्र उद्ग्राभेण उद्ग्राहेण उद् ऊर्ध्वं विगृह्य दीयतइत्युद्ग्राभ उद्ग्रहणम्, घञ् । ' हृग्रहोर्भश्छन्दसि हस्य ' ( पा ० सू ० ८ २३२, वा ० १ ) इति हस्य भः, दानमित्यर्थः । तेन मा माम् उदग्रभीद् उदग्रहीद् उद्गृह्णातु । अधा अथ ' निपातस्य च ' ( पा ० सू ० ६ | ३ | १३६ ) इति दीर्घः । समनन्तरमेव इन्द्रः परमेश्वरो निग्राभेण निग्रहणसामर्थ्येन नीचैर्ग्रहणेन नीचैर्हस्तं कृत्वा भिक्षादिः प्रार्थ्यते । याचिष्णुतया अन्नाद्यभावेन भिक्षाटनं वा क्रियतेऽनेनेति निग्रहणम् तेन मम सपत्नान् शत्रून् अधरान् अधमान् तिरस्कृतान् अकः करोतु । मां दानसामर्थ्यपेतं दातारं सपत्नांश्च निग्रहणसामर्थ्येन भिक्षून् करोत्वित्यर्थः । करोतेर्धात्वर्थ सम्बन्धे ' छन्दसि लुङ्लङ्लट: ' ( पा ० सू ० ३ | ४ | ६ ) इति लङि ' बहुलं छन्दसि ' ( पा ० सू ० २/४/७३ ) इति शपो लोपे गुणे तिपो लोपे विसर्गे च अक इति रूपम् । यद्वा उद्ग्रहणेनोन्नायकेनानुग्रहण-सामर्थ्येन मामनुगृहीतमुन्नतं करोतु मम सपत्नांश्च निग्राभेण निग्रहसामर्थ्येन निगृहीतान् करोत्वित्यर्थः । तथा च ब्राह्मणम् — ' वाजस्य मा प्रसवः । उद्ग्राभेणोदग्रभीत् । अधा सपत्नानिन्द्रो मे निग्राभेणाधराँ २ ॥ अकरिति ' ( श ० ९ । २ । ३ । २१ ) । मन्त्रः स्पष्टार्थ इत्याह- वाजस्येति । अध्यात्मपक्षे - वाजस्य अन्नस्य लोकिकस्य भोग्यस्य ज्ञानवैराग्यलक्षणस्य आध्यात्मिकभोज्यस्य वा प्रसवभूमिरिन्द्रः परमेश्वर उग्राभेण ब्रह्मात्मसाक्षात्काररूपेणानुग्रहेण मामुद्गृह्णातु । अधा अथ मम सपत्नान् बाह्यान् द्वेष्टृन् आन्तरांश्च अज्ञानाहङ्कारादीन् निग्राभेण निग्रहणसामर्थ्येन अधरान् अधमान् निगृहीतान् बाधितान् अः करोतु । दयानन्दस्तु – ' हे मनुष्याः, यथेन्द्रः पालको वाजस्य विशेषज्ञानस्य प्रसव उत्पादक ईश्वरो मां उद्ग्राहेण सम्यग्ग्रहणसाधनेन गृह्णाति तथैव अधा अनन्तरमेव पालकस्य विशेषज्ञानशिक्षयितुमंम सपत्नान् निग्राभेण परा-जयेन अधरान् अक: अध: पतितान् कुर्यात्, तं सेनापति कुरुत ' इति, तदपि यत्किञ्चित् दृष्टान्तस्य शास्त्रक-गम्यस्य लोकिके दान्तिकेऽसङ्गतेः दान्तस्य सेनापतिपदार्थस्य मन्त्रशब्देरनवगमाच्च ॥ ६३ ॥

उद्याभं च निग्राभं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् ।

असपत्ननिन्द्राग्नी मे ' विषू चोनान् व्यस्यताम् ॥ ६४ ॥

मन्त्रार्थ -- देवता हमें यश को तरफ और हमारे शत्रुओं को निन्दा की तरफ बढ़ावें, हमारे यज्ञसाधक वेदों को समृद्ध बनावें । इन्द्र तथा अग्नि देवता हमारे शत्रुओं को इधर - उधर पटकाकर विनष्ट कर दें ॥ ६४ ॥

इन्द्राग्निदेवत्या । देवा उद्ग्राभं च अस्मद्विषयमुत्कर्षं निग्राभं च शत्रुविषयमपकर्षं च ब्रह्मत्रयीलक्षणं यज्ञविषयं च अवीवृधन् वर्धयन्तु । अधा अथ अनन्तरं मे सपत्नान् विष्वगञ्चनान् नानागतीन् कृत्वा विशेषतो द्वौ देवाविन्द्राग्नी व्यस्यतां विक्षिपताम् अपुनरागमनाय विनाशयतामिति यावत् । अत्र ब्राह्मणम् – ' उद्ग्राभं च निग्राभं च । ब्रह्म देवा अवीवृधन् अधा सपत्नानिद्राग्नो मे विषूचीनात् व्यस्यतामिति ' ( श ० ९ । २।३।२२ ) । प्रसन्ना कण्डिका । १८

पृष्ठ 174

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 174 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३८ शुक्लयजुर्वेद संहिता [ अ ० १७ अध्यात्मपक्ष - देवाः सर्वेऽपि अस्मद्विषयमुग्राभम् उत्कर्षं सपत्नादिविषयं निग्राभम् अपकर्षं च ब्रह्म त्रयीलक्षणं च वेदविषयो यज्ञो ब्रह्म च, तथा च यज्ञविषयं वेदविषयं च ज्ञानमिति यावत् । अवीवृधन् वर्धयन्तु । अत्र विषयेण विषय्युपलक्ष्यते, वेदलक्षणस्य यज्ञस्य ब्रह्मणो वा नित्यत्वेन वर्धनासम्भवात् । इन्द्राग्नी प्रसिद्ध परमेश्वरांशभूतो दिव्यो देवौ, इन्द्रः परमेश्वरः, अग्नी रुद्रक्षोभौ मम सपत्नान् शत्रून् कामादीन् विषूचीनान् नानागीन्, अर्थाद् विघटितान् कृत्वा व्यस्थतां विनाशयताम् । दयानन्दस्तु - देवा विद्वांसः उद्ग्राभम् अत्यन्तोत्साहेन ग्रहणम्, निग्राभं त्यागं च कृत्वा ब्रह्म धनं वर्धयेरन् । अथ अनन्तरं विद्युदग्नी तत्तुल्यो सेनापती मम सपत्नान् विषूचीनान् विरुद्धमाचरतो व्यस्यताम् उत्क्षि-पताम् ' इति, तदपि यत्किञ्चित्, धनवर्धने विदुषामविदुषां च उभयेषामपि रागानुगायाः प्रवृत्तेः सिद्धत्वे तत्रोप-देशानपेक्षणात् । सेनापतीत्यत्र द्विवचनं किमूलकम्? इन्द्राग्नीति विभिन्नवाच्यत्वे को हेतुः? कथं च सेनापति-वाचकोऽयं शब्दः || ६४ ॥ क्रम॑ध्वम॒ग्निना नाकमुख्य हस्ते ष वितः । arg स्वर्गत्वा मिश्रा दे॒वेभि॑राध्वम् ॥ ६५ ॥

मन्त्रार्थ - हे ऋत्विजों! उखा पात्र में स्थित संस्कारशुद्ध अग्नि को हाथों धारण करते हुए चिरय अग्नि के साथ स्वर्ग लोक में जाओ । स्वर्गलोक से भी ऊपर ब्रह्मलोक में जाकर देवताओं के साथ मिल कर आनन्द का उपभोग करो ॥ ६५ ॥

' Reafafa चित्यमारोहन्ति ' ( का ० श्रौ ० सू ० १८/४/१ ) । ऋत्विजः क्रमध्वमित्यादिभि: पञ्चभि ऋग्भिस्तीर्थेन चित्याग्निमारोहन्तीति सुत्रार्थ: । आग्नेयी अनुष्टुप् । हे ऋत्विग्यजमाना:, यूयमग्निना चित्येन कृत्वा नाकं स्वर्गलोकं क्रमध्वं लोककालाग्न्यादिवपुषा क्रमत । कीदृशा यूयम् I उख्यम् उखायां संस्कृतम् अग्नि हस्तेषु विभ्रतो धारयन्तः । यद्वा उख्यमग्नि हस्तेषु विभ्रतः सन्तो अग्निना अनेन चित्याग्निना सह क्रमध्वम् आपत, चित्युपरि पादान् कुरुत, आरोहध्वमित्यर्थः । ततो दिवोऽन्तरिक्षस्य पृष्ठ स्वः स्वर्गं गत्वा देवेभिर्देवैमिश्राः संयुताः सन्त आध्वम् आसनं कुरुत । उपवेशनार्थकस्य आदादिकस्य आसेर्लोटि मध्यमपुरुषबहुवचने शपो लोपे ' धि च ' ( पा ० सू ० ८/२/२५ ) इति सकारलोपे रूपम् । अध्यात्मपक्षे --- हे साधकाः, यूयमग्निना परमात्मना तदीयानुग्रहेणोखायां बुद्धौ समाविर्भूतं ब्रह्मात्म-साक्षात्कारं हस्तेषु विचाररूपेषु धारयन्तो दिवो द्युलोकस्य पृष्ठम् उपरि नाकं सर्वदुःखविवर्जितं स्वः स्वर्गं देवेभिमिश्रा विद्वद्भिरेकीभूता आध्वम् उपविशत, परब्रह्मात्मस्वरूपेणावस्थिता भवत । दयानन्दस्तु - ' हे वीराः, यूयमग्निना विद्युता नाकमविद्यमानदुःखम्, उख्यं पात्रे परिपक्वं सूपौदनादिकं हस्तेषु बिभ्रतो धारयन्तः क्रमध्वं पराक्रमध्वम् । देवेभिर्विद्वद्भिर्दिवो न्यायविनयादिप्रकाशजातस्य पृष्ठं ज्ञीप्सितं स्वः सुखं गत्वा प्राप्य आध्वमुपविशत ' इति, तदपि यत्किञ्चित् सम्बोधनस्यैव निर्मूलत्वात् । अद्यत्वे विद्युता सर्वेऽपि भोजनादिकं पाचयन्ति । दिवःपदस्यापि विनयादिप्रकाशाद्यर्थता चिन्त्येव ॥ ६५ ॥

प्राचोमनुं प्रदिशं प्रेहिं विद्वान॒ग्नेर॑ग्ने पु॒रो अ॒ग्निर्भवे॒ह ।

विश्वा आशा दीद्या॑नो॒ विभ्राह्यज नो धेहि द्विपदे चतुष्पदे ॥ ६६ ॥

पृष्ठ 175

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 175 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६६-६७ ] वेदार्थ पारिजातभाष्यसहिता १३ ९ मन्त्रार्थ - हे उखापात्र में स्थित अग्निदेव! अपने अधिकारों को जानते हुए आप श्रेष्ठ दिशा की ओर ध्यान देकर जाओ । यहाँ अग्नि के अग्रगामी बनो, सकल दिशाओं को प्रकाशित करते हुए विशेष रूप से प्रदीप्त होकर हमारे पुत्र आदि परिवार और गो आदि पशुओं को अन्न दो ॥ ६६ ॥

आग्नेयी त्रिष्टुप् । हे अग्ने, इदानोमानीत उरुयाग्ने, प्राचीं प्रदिशं प्रागाख्यां प्रकृष्टां दिशमनुलक्ष्य त्वं प्रेहि प्रकर्षेण गच्छ । यद्वा अनुक्रमेण प्रकर्षो यथा स्यात्तथा गच्छ । कीदृशस्त्वमिति जिज्ञासायामग्नि विशिनष्टि -विद्वानिति, स्वाधिकारं जानन्नित्यर्थः । गत्वा च हे अग्ने प्रणीयमानोख्याग्ने, इह अस्मिन् प्रदेशे, अग्नेरिष्टका -निष्पादितस्य चितिरूपस्याग्नेः पुरो अग्निर्भव, पुरोऽग्रे अङ्गति विविधरूपतया कुटिलं गच्छतीति पुरोऽग्निः पुरो गन्ता, मुख्य इति यावत् भव । ' प्रकृत्यान्तः पादमव्यपरे ' ( पा ० सू ० ६ । १ । ११५ ) इति सन्ध्यभावः, प्रकृतिभाव इति यावत् । ततो विश्वाः सर्वा आशा दिशो दीद्यानोऽवभासयन् विभाहि विविधं दोप्यस्व । ततो नोऽस्माकं द्विपदे पुत्रमित्रकलत्रादिकाय, चतुष्पदे गवाश्वादिकाय ऊर्जमन्नं धेहि सम्पादय । अध्यात्मपक्षे - हे अग्ने परमेश्वर तत्पदार्थभूतपरमात्मन् त्वं प्राचीं प्रकर्षेण पूज्यां प्राचीं दिशमिव पूर्ण-प्रज्ञानप्राकटयक्षमां विशुद्धां बुद्धिमनुलक्ष्य प्रेहि प्रगच्छ तत्र प्रत्यक्चैतन्याभिन्नपरमात्मस्वरूपेण आविर्भव । गत्वा बुद्ध पुरोऽग्निर्भव अपरोक्षापरब्रह्मरूपो भव । प्रत्यक चैतन्यात्मनाऽभेदाभावे तत्पदार्थस्य परोक्षतैव भवति । अन्यथा परमात्मनि वादिविप्रतिपत्त्यनापत्तिः । एतदेव स्पष्टयति- विश्वाः सर्वा आशा दिशो दीद्यानो विभाहोति । प्रत्यगात्मरूपे परमात्मरूपेण सर्वा दिशस्तत्रत्यानि वस्तूनि च प्रकाशयन् विभाहि, स्वयं च विशेषेण प्रत्यगभिन्न-ब्रह्मरूपेणाभिव्यक्तो भव, ' तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ' ( मु ० २ | २ | १० ) इति श्रुतेः । यः सर्वकर्ता सर्वेश्वरः सर्वान्नप्रदाता, स एव प्रत्यगभिन्नपरमात्मरूपेण मोक्षरूपश्च भवतीति तात्पर्यम् । दयानन्दस्तु -- हे ' अग्ने समेश, त्वं प्राचीं प्रदिशमनुप्रेहि । इह राज्यकर्मण्यग्नेराग्नेयास्त्रादिप्रयोगात् पुरोऽग्निरग्निवत् पुरोगामी भव । विद्वान् कार्यंविशेषज्ञः सन् सर्वा दिशो दीद्यानो नो द्विपदे चतुष्पदे ऊर्जमन्नादिकं हि ' इति, तदपि यत्किञ्चित्, सभेशस्य प्राचीदिग्गमनस्य प्रयोजनासङ्गतेः । सिद्धान्ते तु आहवनीयस्य प्राच्यामेव सत्त्वात् तत्र गमनं सुश्लिष्टमेव । अग्नेरित्यस्य आग्नेयास्त्रादिप्रयोगार्थता गौण्येव वृत्त्या सम्भवति, न तु शक्त्या । शक्तिभक्त्योर्मध्ये शक्तेरेव प्राधान्यम्, भाक्तस्य प्रयोगस्य त्वप्राधान्यमेव । न च सभापतेरेव सर्वाः प्रजा द्विपाद्भयश्चतुष्पाद्भयश्व अन्नादिकं कामयन्ते तथात्वे त्वदभिमतस्य प्रजातन्त्रस्यासङ्गतित्वापत्तेः ॥ ६६ ॥

पृ॑थि॒व्या अ॒हमुव॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्ष॒द् विव॒मारु॒हम् । दिवो नाकस्य पृष्ठात् स्व॒ज्र्ज्योतिरगाम॒हम् ॥ ६७ ॥

मन्त्रार्थ - मैं यजमान पृथ्वी से ऊपर उठता हुआ अन्तरिक्ष पर चढ़ गया हूँ, अन्तरिक्ष से ऊपर चढ़ कर स्वर्ग लोक में पहुँच गया हूँ । मैं स्वर्ग के दुःखरहित स्थान से ऊपर सूर्यमण्डल को प्राप्त हुआ हूँ ॥ ६७ ॥

आग्नेयी पिपीलिकमध्या बृहती । आद्यतृतीयौ त्रयोदशार्णो द्वितीयोऽष्टको यस्यां सा पिपीलिकमध्या बृहती, ' त्रयोदशिनोर्मध्येऽष्टकः पिपीलिकमध्या ' इति वचनात् । अत्राद्यस्त्रयोदशः, द्वितीयो नवकः, तृतीयश्चतुर्दशक इति षत्रिंशदक्षरत्वाद् बृहती, ' त्रिपादणिष्ठमध्या पिपीलिकमध्या ' इति वचनाच्चेति महीधराचार्यः । यजमान आह - अहं यजमानः पृथिव्या उद् उद्गतः सन् अन्तरिक्षमारुहम् आरूढोऽस्मि । तस्मादन्तरिक्षाद् उद्गती दिवमारुहम् आरूढोऽस्मि । दिवो द्युलोकस्य यो नाको दुःखरहितः प्रदेशः, तस्य पृष्ठादुपरिभागात् स्वर्ज्योतिः

पृष्ठ 176

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 176 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

शुक्लयजुर्वेद संहिता स्वर्गलोकस्य ज्योतिरादित्यमण्डलमहमगां गतोऽस्मि, प्राप्स्यामीत्यर्थः । इणेर्लुङि ' इणो गा लुङि ' ( पा ० सू ० २/४/४५ ) इति गादेशः, ' गातिस्था ' ( पा ० सू ० २२४ / ७७ ) इति सिचो लुक् । यद्वा - अहं यजमानः पृथिव्याः सकाशाद् उदन्त-रिक्षमूर्ध्वक्रमेण अन्तरिक्षमारुहमारूढः, अन्तरिक्षाच्च दिवमारुहं द्युलोकमारूढः, दिवः सकाशान्नाकस्य पृष्ठमारूढः, नाकस्य पृष्ठाच्च स्वरादित्याख्यं ज्योतिरहमगां गतः प्राप्तः । अत्र ब्राह्मणम् - ' पृथिव्या अहम् | उदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहमिति गार्हपत्यादयाग्नीधीय-मागच्छन्त्याग्नीधीयादाहवनीयं दिवो नाकस्य पृष्ठात् स्वर्ज्योतिरगामहमिति दिवो नाकस्य पृष्ठात् स्वर्गं लोकमगा-महमित्येतत् ' ( ०२३२६ ) । गार्हपत्याग्नीधीयाहवनीयानां पृथिव्यादिलोकत्रयात्मकत्वात् क्रमेण तत्र गमनात् पृथिव्यादिलोकत्रयं क्रमेणा रूढवानस्मीत्यर्थः । नाकस्य सुखहेतुभूतस्य द्युलोकस्य पृष्ठाज्ज्योतिर्विशिष्टं प्रकाशमानं स्वर्गलोकमहमगामित्यर्थः । अध्यात्मपक्षे -- अहमुपासको भगवतः प्रसादात् पृथिव्याः सकाशात् ' अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ' ( भ ० गी ० ८/२४ ) इति क्रमेण पृथिव्याः सकाशादूर्ध्व मन्तरिक्षमारुहम् । अन्तरिक्षादूर्ध्वं दिवमारुहम् दिवः सकाशान्नाकस्य दुःखरहित प्रदेशस्य पृष्ठमारुहम् तस्मान्नाकस्य पृष्ठात् स्वज्र्ज्योतिरादित्यमध्यगाम्, ततश्व मानव द्वारा साक्षाद् भगवन्तमेवाहं प्राप्स्यामि । दयानन्दस्तु - ' हे मनुष्याः, यथा कृतयोगाङ्गानुष्ठानसं यमसिद्धोऽहं पृथिव्या अन्तरिक्षमारुहम्, अन्तरिक्षा-विमारुहम्, नाकस्य दिवः पृष्ठात् स्वर्ज्योतिश्चाहमगाम्, तथा यूयमप्याचरत ' इति, तदपि यत्किञ्चित् सशरीरस्य अन्तरिक्षा दिलोका रोहणासम्भवात्, अशरीरस्य तथा यूयमाचरतेति वक्तुमशक्यत्वाच्च । किञ्च सर्वत्रैव प्रत्यक्षादिप्रमाणान्तरसिद्धमेव वेदार्थं वर्णयतोऽस्य व्याख्यातुः कथमात्मनोऽन्तरिक्षा रोहणम्? कथं च द्युलोका-रोहणम्? किञ्च तत्र विद्यते? किमर्थं तत्रारोहणम्? किञ्च तत्र प्रमाणम्? यदि वेदादिशास्त्रस्या-ज्ञातज्ञापकत्वमुपेयते, तदा स्वर्गपितृलोकान्तरं कुतो नो पेयते? ॥ ६७ ॥

स्व॒र्यन्तो नापेक्षन्त॒ आ द्या रोहन्ति॒ि रोद॑सी ।

य॒ज्ञं ये वि॒श्वतो धार सुविद्वासो वितेनिरे ॥ ६८ ॥

मन्त्रार्थ --भक्ति - ज्ञान से सम्पन्न जो विद्वद्गण सारे जगत् को धारण करने वाले यज्ञ का अनुष्ठान करते हैं, वे जरा, मृत्यु, शोक आदि से वजित स्वर्ग में निवास करते हैं । वे स्वर्ग की तरफ आते समय कृतकृत्य होने से, सब से संतुष्ट होने से पुत्र - पौत्र आदि को अपेक्षा नहीं करते ॥ ६८ ॥ प्रकार

आग्नेयी अनुष्टुप् । अत्र यच्छन्दयोगाद् द्वितीयोऽर्धर्चः प्रथमं व्याख्यायते । ये यजमानाः सुविद्वांसः सुष्ठु कर्मानुष्ठानप्रकारं विदन्ति जानन्तीति तथोक्ताः कर्मोपासनासमुच्चयकारिणो विश्वतोधारं सर्वस्य जगतो धारण हेतुं यज्ञं वितेनिरे वितन्वन्ति, विस्तारेण अनुतिष्ठन्ति ते यजमानाः स्वः स्वर्गं लोकं यन्तो गच्छन्तो नापेक्षन्ते पुत्रपश्वाद्यपेक्षां न कुर्वते, कृतकृत्यत्वात् । द्यां स्वर्गं च आरोहन्ति । यद्वा रोदसी द्यावापृथिव्यो आरोहन्ति । ततः स्वर्गनिवासमादित्यमण्डलं प्राप्नुवन्तोऽन्यत् किमपि स्थानं नापेक्षन्ते । कथम्भूतां रोदसी रुणद्धि जरामृत्युशोक रोगादीन् या सा रोदसी ताम्, रोदसी विभक्तेर्लुक्, पूर्वसवर्णदीर्घो वा, रोदसीत्य- द्याम्? व्ययं वा । धकारस्य दकारश्छान्दसः । इदं पदं द्यामित्यस्य विशेषणम् । नात्र रोदसीपदेन द्यावापृथिव्योर्ग्रहणम् द्यामित्यस्य, पृथगुपादानात् । अथवा ये सुविद्वांसः कर्मोपासनसमुच्चयकारिणः, हिरण्यगर्भोपासनेन सार्धं

पृष्ठ 177

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 177 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६८-६९ ] वेदार्थपारिजातभाष्यसहिता I यज्ञं वितेनिरे ते स्वर्यन्तो न किञ्चित् पशुपुत्रादिकमपेक्षन्ते । कीदृशं यज्ञम्? विश्वतोधारं विश्वतो धारा यस्मिन्, आहुतिदक्षिणान्नानि यज्ञस्य धाराः, ताभिर्ह्येष वर्षति । अथवा वैश्वानर मारुत- पूर्णाहुति वसोर्धारा वाजप्रसवीयानि यज्ञस्य धाराः । यद्वा विश्वतोधारं विश्वस्य धारयितारं द्यां स्वर्ग चारोहन्ति । अत्र ब्राह्मणम् -- ' स्वर्यन्तो नापेक्षन्ते । आ द्या → रोहन्ति रोदसी इति न हैव तेऽपेक्षन्ते ये स्वर्ग लोकं यन्ति यज्ञं ये विश्वतोवार सुविद्वांसो वितेनिर इत्येष एव यज्ञो विश्वतोधार एत उ एव सुविद्वा Û, सो य एतं वितन्वते ' ( श ० ९ १२।३।२७ ) । ये स्वर्गं यन्ति ते फलान्तरं नापेक्षन्ते खलु । एष एव सर्वेण प्रकारेण जगद् धारयति । एष एव यज्ञो विश्वतोधारः । य एतं वितन्वते, एत एव सुविद्वांसः खलु विदुषामेव यज्ञनिष्पा-दकत्वात् । अध्यात्मपक्षे – ये सुष्ठु विदन्ति - - ' यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः || ' ( भ ० गी ० २२४६ ), ये निष्कामा भगवदाराधनबुद्धयैवोपासनसमुच्चितं कर्म अनुतिष्ठन्ति, ते स्वः परमसुखस्वरूपं परं ब्रह्म यन्तः प्राप्नुवाना नापेक्षन्ते किञ्चिदपि । ते विश्वतोधारं यज्ञं वितेनिरे विश्वपोषकं यज्ञं विस्तारयन्ति । ते द्यां स्वप्रकाशब्रह्मात्मिकां द्यामारोहन्ति । कीदृशीं द्याम्? रोदसी जरामरणाद्यविच्छेद-लक्षणायाः संसृते रोघ्रीम् । विभक्तिव्यत्ययः, पूर्वसवर्णादिर्वा, अव्ययपदं वा । दयानन्दस्तु — ' ये सुविद्वांसः स्वः सुखं यन्तो न इव स्वरात्यन्तिकं सुखमपेक्षन्ते, रोदसी द्यावापृथिव्यो आरोहन्ति, द्यां प्रकाशमयीं योगविद्यां विश्वतोधारं सर्वतः सुशिक्षायुक्तवाणीयुक्तं यज्ञं वितेनिरे, तेऽविनाशिसुखं प्राप्नुवन्ति ' इति, तदपि यत्किञ्चित् तेऽविनाशिसुखं प्राप्नुवन्तीत्यंशस्य वेदबाह्यत्वात् । द्यावापृथिव्योर्मध्ये सोपाधिकस्यैव सुखस्य प्राप्तिर्नात्यन्तिकस्य सुखस्य, ' आब्रह्मभुवनाल्लोकाः पुनरावर्तनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ' ( भ ० गी ० ८/१६ ) इति भगवदुक्तेः ॥ ६८ ॥

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्यानाम् ।

इय॑क्षमाणा॒ भृग॑भिः स॒जोषा॒ः स्वर्यन्तु॒ यज॑मानाः स्व॒स्ति ॥ ६ ९ ॥

" मन्त्रार्थ - हे अग्निदेव! आप देवताओं को चाहने वाले यजमानों में मुख्य हो तथा देवता और मनुष्यों के चक्षुरूप हो । इसलिये आप यहाँ आओ, आपकी कृपा से यज्ञ करने की इच्छा वाले और महात्मा ब्राह्मणों के साथ प्रीति करने वाले यजमान कल्याणपूर्वक स्वर्गलोक में जाँय ॥ ६ ९ ॥ आग्नेयी त्रिष्टुप् । हे अग्ने, त्वं देवयतां देवान् आत्मन इच्छन्तीति देवयन्ति, देवयन्तीति देवयन्तस्तेषां यजमानानामुपकाराय त्वं प्रथमं हि पुरतो गच्छ । ' सुप आत्मनः क्यच् ' ( पा ० सू ० ३ | १ | ८ ) इति क्यचि, ' क्यचि च ' ( पा ० सू ० ७।४।३३ ) इतीत्वे प्राप्ते, ' न छन्दस्य पुत्रस्य ' ( पा ० सू ० ७ | ४ | ३५ ) इतीत्वनिषेधे शतरि च रूपम् । कथं मयाऽग्रतो गन्तव्यम्? तत्राह – यतस्त्वं देवानामुतापि मर्त्यानां च चक्षुः चक्षुःस्थानीयः । लोकेऽपि हि गच्छतः पुरुषस्य दृष्टिः पुरतो याति । किञ्च, इयक्षमाणा यष्टुमिच्छन्ति यियक्षन्ते, यियक्षन्त इति इयक्षमाणाः, छान्दसोऽ-भ्यासयकारलोपः, यजमानाः । भृगुभिः सजोषा भृगुगोत्रनाथ कैरनुष्ठानपरायणैर्मुनिभिः समानो जोषः प्रीति-रभिप्रायो वा येषां ते तथोक्ताः । स्वस्ति क्षेमो यथा स्यात्तथा स्वः स्वर्गं यन्तु प्राप्नुवन्तु । अत्र मन्त्रे भृगुग्रहण-मार्षेयानूचानब्राह्मणोपलक्षणार्थम् ।

पृष्ठ 178

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 178 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४२ शुक्लयजुर्वेदसंहिता [ अ ० १७ देवयतामिति अत्र ब्राह्मणम् - ' अग्ने प्रेहि प्रथमो देवयतामिति । इममेतदग्निमाह त्वमेषां प्रेहि इति प्रथमो यजमानो भृगुभिः चक्षुर्देवानामुत मर्त्यानामित्युभयेषा, हैतद्देवमनुष्याणां चक्षुरियक्षमाणा भृगुभिः स्वस्तीत्येतत् सजोषा ' ( श ० ९ ।२।३।२८ ) । सजोषा इत्येतत् स्वर्यन्तु यजमानाः स्वस्तीति स्वर्गं लोकं यन्तु यजमानाः अग्नेश्चक्षुष्ट् च बहूपकारकत्वात् । स्पष्टमन्यत् । अध्यात्मपक्षे - हे अग्ने परमेश्वर, देवयतां दीव्यति जगदुत्पत्तिस्थितिलय क्रीडयेति भव देवः । यतस्त्वमेव परमात्मा, तमिच्छतां ब्रह्मात्मभावमधिजिगमिषूणां प्रथमः पुरतः प्रेहि प्रगच्छ, तेषां साक्षात्कारगोचरो, चक्षुरादीनामपि देवानां हविर्भुजामन्येषां च कर्मदेवानां मर्त्यानां मनुष्याणां च त्वमेव चक्षुरिव चक्षुर्मार्गदर्शकः सजोषाः समान-त्वदधीनप्रकाशत्वात् । इयक्षमाणा मनसा वाचा कर्मणा भवन्तमर्चन्तो भृगुभिर्भृगुवंशीयैर्ब्राह्मणैः प्रीतिमन्तो यजमानाः स्वस्ति निर्विघ्नं स्वरनन्तसुखात्मस्वरूपं त्वां यन्तु प्राप्नुवन्तु । प्रेहि प्राप्नुहि । यतो दयानन्दस्तु - ' हे अग्ने विद्वन्, देवयतां कामयमानानां मध्ये प्रथम आदिमः यज्ञं पूर्वं चिकीर्षमाणा भृगुभिः देवानां विदुषामुत मर्त्यानामविदुषां त्वं च चक्षुरसि दर्शकमसि । यथा इयक्षमाणा सुखदातारः स्वस्ति कल्याणं स्वः सुखं परिपक्वविज्ञानैर्विपश्चिद्भिः सह सजोषाः समानप्रीतिसेवना यजमानाः सर्वेभ्य प्रसिद्धार्थ मपहायाप्रसिद्धार्थ कल्पनाया यन्तु, तथा त्वमपि भव ' इति, तदपि यत्किञ्चित् भृगुयजमानादिपदानां ॥ ६ ९ ॥ निर्मूलत्वात्, गौरवावहत्वाच्च, रूढिर्योगमपहरतीति न्यायाच्च नक्तो॒षासा॒ सम॑नस॒ विरू॑पे धा॒पय॑त॒ शिश॒मेक॑

समु॒ची ।

द्यावा॒क्षमा॑ रु॒क्मो अ॒न्तवभा॑ति दे॒वा अ॒ग्न धा॑रयन् द्रविणोदाः ॥ ७० ॥

से विलक्षण रूप वाले, परस्पर मिले मन्त्रार्थ - हे उखापात्र! समान मन वाले, कृष्ण शुक्ल आदि के भेद तृप्त करते हैं । ऊपर द्युलोक और नीचे हुए रात और दिन इस बालक अग्नि को सायंप्रातः अग्निहोत्र आदि कर्म से हूँ । यज्ञों के अनुष्ठान द्वारा घनरूप मूलोक के मध्य में जो प्रकाशमान अग्नि विशेषरूप से शोभित है, उसे मैं उठाता फल को देने वाले देवगणों ने अग्नि को धारण किया है ॥ ७० ॥

' स्वयमातृष्णामध्यग्नि धारयन् शुक्लवत्सापयसाऽभिजुहोति कृष्णाया दोहनेन स्वयमातृष्णामवसिञ्च- तमग्नि धारयन् कृष्ण-नक्तोषासेति ' ( का ० श्रौ ० १८/४/२ ) । अध्वर्युः स्वयमातृष्णाया उपरि समीपे प्रतिप्रस्थात्रा इध्मस्थेऽग्नौ वर्णायाः शुक्लवत्साया गोः पयसा दोहनेन मृण्मयदोहनपात्रेण जुहूस्थानीयेन स्वयमातृष्णामवसिञ्चन् प्रवृत्तिः । दोहनपात्रे दोहन-' नक्तोषासा ' इत्यादि ऋग्द्वयेन जुहुयात् । अस्य जुहोतित्वान्मन्त्रवजं सान्नाय्यधर्माणां धर्माः कार्याः, जुहूकार्यापन्नत्वादिति सूत्रार्थः । अत्र ब्राह्मणम् -'अथैनमभिजुहोति । एतद्वा एनं देवा ईथिवा समुपरिष्टादन्नेनाप्रीणन्नेतयाऽऽहुत्या रात्रि कृष्णा शुक्लवत्सा तथैवैनमयमेतदीयिवांसमुपरिष्टादन्नेन प्रीणात्येतयाऽऽहुत्या कृष्णायै शुक्लवत्सायै पयसा उपरि हि स यमेतत्प्रीणाति तस्या असावादित्यो वत्सः स्वेनैवैनमेतद्भागेन स्वेन रसेन प्रीणात्युपरि धार्यमाण होमं विधत्ते - अथेति । दोहनेन हि पयः प्रदीयते ' ( श ० ९ | २ | ३ | ३० ) । चित्याग्निसमारोहणानन्तरमस्मिन्नुख्याग्नौ इति । विहिते होमे द्रव्यं विधत्ते - कृष्णायै विहिताहुतिश्चित्यं प्राप्तस्याग्नेरुपरिष्टादन्नं सम्पाद्यत इत्याह - एतद्वा इति । रात्रिः खलु कृष्णा शुक्लवत्सा । शुक्लवत्साये पयसेति । एतादृश्या गोः पयस उपादाने कारणमाह - रात्रिर्वा रात्रिसमीपे वर्तमानत्वात् । अयमेवार्थ -अस्या रात्रेरसावादित्यो वत्सः, यथा वत्सो गोसमोपे वर्तते तद्वदस्य

पृष्ठ 179

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 179 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७०-७१ ] वेदार्थ पारिजातभाष्यसहिता १४३ स्तैत्तिरीयकेऽपि श्रूयते— ' अग्निश्चादित्यश्च रात्रेर्वत्स: ' ( तै ० आ ० १ | १० | ५ ) इति । एवं चास्याग्नेरादित्यात्मकत्वात् तथाविधाया गोः पयसा होमे स्वकीयभागेन स्वेन रसेनैतत्प्रीणाति । तदेव स्पष्टयति - स्वेन रसेनेति । प्रीणयितव्यस्य आदित्यात्मकस्याग्नेरुपर्येव वर्तमानत्वेन उपरि धार्यमाण एव उख्याग्नी जुहुयादित्याह -- उपरीति । प्रकृतहो होमसाधारणं जौहवं प्राप्नोतीति तदपवादेन दोहनं विधत्ते - दोहनेनेति । दोहनेन हि पयः प्रदीयत इति दोहना-नन्तरं पात्रान्तरे दोहनेन खलु पयः प्रदीयत इत्यर्थः । ' शिर एतद्यज्ञस्य यदग्निः प्राणः पयः शीर्षस्तत्प्राणं दधाति यथा स्वयमातृष्णामभिप्रक्षरेदेवमभिजुहुयात् प्राणः स्वयमातृष्णा रस एष शिरश्च तत्प्राणं च रसेन सन्तनोति सन्दधाति नक्ोषासा समनसा विरूपे इति ' ( श ० ९ २ | ३ | ३१ ) | स्वयमातृष्णायाः प्राणत्वादग्नेस्तु शिरस्त्वात् प्राणं च शिरश्चेत्युभे अपि पयोलक्षणेन रसेन सन्तनोति । एतदेव विवृणोति -- सन्दधातीति । परस्परसम्बद्धं

करोतीत्यर्थः ।

द्वादशे द्वितीय afusar स्थले व्याख्यातपूर्वेयम् ॥ ७० ॥

अग्ने ' सहस्राक्ष शतमूर्धञ्छतं ते॑ प्रा॒णाः स॒हस्र॑ व्या॒नाः ।

सहस्रस्य॑ राय ईशिषे तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑ ॥ ७१ ॥

मन्त्रार्थ - हे सहस्र नेत्रों वाले और सहस्र मूर्धा वाले अग्निदेव! आपके सैकड़ों प्राण हैं, सहस्रों ध्यान हैं, आप अनन्त धन के स्वामी हैं, ऐसे यज्ञस्वरूप आपको हम यह हवि देते हैं । यह भली प्रकार गृहीत हो ॥ ७१ ॥

आग्नेयी विराट् पङ्क्तिर्वा दशाक्षरचतुः पादा | हे अग्ने, सहस्राक्ष सहस्रमक्षीणि यस्यासौ सहस्राक्षः, तत्सम्बुद्धौ । शतसहस्रशब्दो अपरिमिताभिप्रायौ । विश्वतश्चक्षुरित्यादिमन्त्रोक्तमूर्तिरूपत्वेनायमग्निः स्तूयते । अथवा हिरण्यशकलान्येवात्र नेत्राणि । तथा च श्रुतिः - हिरण्यशकलैर्वा एष सहस्राक्षः ( श ० ९ ।२।३।३२ ) । हे शतमूर्धन्, शतं मूर्धानो यस्यासौ शतमूर्धा, तत्सम्बुद्धौ । यस्य ते शतं प्राणाः सहस्रं व्यानाः, तथा त्वं साहस्रस्य सहस्रपरिमितस्य बहुसहस्रसमूहपरिमितस्य रायो धनस्य ईशिषे प्रभुरसि । तस्मै ते तादृशाय तुभ्यं वाजाय अनसिद्धयर्थं हविषा विधेम परिचरेम । यतो हि ते शतमनन्ताः प्राणाः । सहस्रमनन्ता व्यानाः । सर्वप्राणिनामक्षि-मूर्धप्राणव्यानादय एव विराडग्नेरक्ष्यादयः । तेन सहस्राक्षत्वादिकं नानुपपन्नमिति । परिचरणं चात्र दानमेव । विधृतिरत्र दानकर्मा । तथा च वाजाय वाजं हविः, विभक्तिव्यत्ययः स्वाहा अस्मद्दत्तं हविः सुहुतमस्त्वित्यर्थः । अत्र ब्राह्मणम् —'अग्ने सहस्राक्षेति । हिरण्यशकलैर्वा एष सहस्राक्षः शतमूर्धन्निति यददः शतशीर्षा रुद्रोऽसृज्यत शतं ते प्राणाः सहस्रं व्याना इति शत हैव तस्य प्राणाः सहस्रं व्याना यः शतशीर्षा त्वं साहस्रस्य राय ईशिष इति त्वं सर्वस्यै रय्या ईशिष इत्येतत्तस्मै ते विधेम वाजाय स्वाहेत्येष वै वाजस्तमेतत्प्रीणाति ' ( ० ९ ।२।३।३२ ) । एषोऽग्निः प्रोक्षणे विनियुक्तः सहस्रसंख्या कैर्हिरण्यशकलैः सहस्राक्षः खलु । प्रकाशकत्व -साधारण्येन हिरण्यशकलानामक्षित्वोपचारः । यददः शतशीर्षेति । प्रजापतिरोदनेन उदितेषु अश्रुषु अन्तर्वर्तमाने मन्यो प्रतिष्ठितेषु स एव शतशीर्षा रुद्रः समभूत् । तथा चाह श्रुतिः -- ' प्रजापतेवित्रस्ताद्देवता उदक्रामंस्तमेक एव देवो नाजहान्मन्युरेव सोऽस्मिन्नन्तर्विततोऽतिष्ठत् सोऽरोदीत्तस्य यान्यश्रूणि प्रास्कन्दंस्तान्यस्मिन् मन्यौ प्रत्यतिष्ठन् स एव शतशीर्षा रुद्रः ' ( श ० ९ | १ | १ | ६ ) इति । अतोऽत्र अदः शब्देन स कालः परामृश्यते । हे सहस्राक्ष शतमूर्धन्नग्ने, ते शतसंख्याकाः प्राणाः सहस्रसंख्याका व्यानाश्च भवन्ति । त्वं सर्वस्य धनस्य ईशिषे ईश्वरो भवति । तस्मै वाजाय अन्नहेतुकत्वेन तदात्मकाय ते वयं विधेम परिचरेम । इदं हविस्ते स्वाहा सुहुतमस्त्विति मन्त्रार्थः ।

पृष्ठ 180

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 180 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१४४ शुक्लयजुर्वेद संहिता [ अ ० १७ अध्यात्मपक्षे – हे अग्ने परमात्मन् सहस्राक्ष अनन्तनेत्र शतमूर्धन्! अन्यदपि पूर्ववद् व्याख्येयम् । -अक्षिविज्ञानं दयानन्दस्तु - ' हे अग्ने पावक इव प्रकाशमय सहस्राक्ष, सहस्रेष्वसंख्यातेषु प्राणा व्यवहारेषु जीवनसाधनाः शतं यस्य तत्सम्बुद्धौ । शतेष्वसंख्यातेषु मूर्धा मस्तकं यस्य तत्सम्बुद्धौ । शतमसंख्यातास्ते जगद् यस्य तस्य व्यानाश्चेष्टानिमित्ताः सर्वशरीरस्था वायवः । साहस्रस्य सहस्रम् असंख्यातानामिदमधिकरणं विधेम परिचरेम ' इति, रायो धनस्य त्वमीशिषे ईशोऽसि । ते तुभ्यं वाजाय विज्ञानवते स्वाहा सत्यया वाचा व्यवहारार्थता तदपि यत्किञ्चित्, मुख्यमथं परित्यज्य गौणार्थग्रहणे मानाभावात् । सहस्रपदस्य असंख्यातार्थत्वेऽपि तात्पर्यानुप-कुतस्त्या? अक्षिपदस्य चक्षुरर्थत्वेऽपि विज्ञानमिति लक्षणामन्तरा कुतोऽर्थः । अन्वयानुपपत्तिमन्तरा शतमनन्तसंख्यातेषु मूर्धा मस्तकं पत्तिमन्तरा वा लक्षणा कुत:? न चात्र काचिदनुपपत्तिः प्रदर्शितेति । तथैव प्राणव्यानादयोऽपि नान्यसम्बन्धि -यस्येत्यप्यनुपपन्नम् | अन्यप्राणिनां मूर्धानो अन्यस्य कथं सम्भवन्ति । तथैव । नोऽन्यस्य सम्भवन्ति । शतपदार्थाधारस्य जगतो जाड्यं चैतन्यं वा? नाद्यः, तस्य धनाकाङ्क्षाऽसम्भवात् , भोगायतनानां नान्त्यः, तस्य असङ्गत्वेन पदार्थाधारत्वानुपपत्तेः । न च योगिराजस्यापि सहस्राक्षत्वादिसम्भवः लोकोत्तर-कर्मजन्यत्वेन क्षीणकर्मणो योगिराजस्य तदनुपपत्तेः । अक्षीणकर्मणस्तु वलेशकर्म विपाकाशयपरामृष्टत्वेन सामर्थ्यायोगात् ॥ ७१ ॥

सुपर्णोऽसि म॒रुत्मा॑न् पृ॒ष्ठे पृ॑थि॒व्याः सीद । भा॒सान्तरि॑क्ष॒माप॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑-भान॒ तेज॑सा॒ दश॒ उदृ ' ह ॥ ७२ ॥

पर विराजमान होइये, अपनी कान्ति मन्त्रार्थ — हे अग्निदेव! आप श्रेष्ठ पंखों वाले पक्षी रूप हैं, आप पृथ्वी कर अपने तेज से सभी दिशाओं को आलोकित से अन्तरिक्ष को भर दीजिये, अपनी ज्योति से द्युलोक को ऊँचा उठाइये, दीजिये ॥ ७२ ॥

' तस्यामग्नि निदधाति सुपर्णोऽसीति वषट्कारेण ' ( का ० श्री ० १८ | ४ | ४ ) । स्वयमातृष्णायां सुपर्णपक्ष्याकारो सुपर्णोऽसीति ऋग्द्वयेन वषट्कारान्तेनाग्नि स्थापयेदिति सूत्रार्थः । आग्नेयो पङ्क्तिः । हे अग्ने, त्वं अशनायावानसीत्यर्थः सुपर्णोऽसि । अतः गरुडसमानोऽसि । गरुत्मान्, गरुद् गरणं निगरणं भक्षणमस्यास्तीति गरुत्मान्, पूरय । ज्योतिषा स्वकीयेन पृथिव्याः पृष्ठे उपरि सोद उपविश । भासा स्वप्रकाशेन अन्तरिक्षमापूण सर्वतः मध्यमैकवचने ' हलः श्नः शानज्झो ' सामर्थ्येन दिवं द्युलोकमुत्तभान ऊर्ध्वं स्तम्भितं कुरु । उत्पूर्वस्य स्तम्भेर्लोटि सू ० ८ | ४ | ६१ ) इति पूर्वसवर्णे ( पा ० सू ० ३ | १ | ८३ ) इति श्नाप्रत्ययस्य शानजादेशे, ' उद: स्थास्तम्भोः पूर्वस्व ' ( पा ० दृढीकुरु दीपय वा । उत्तभान इति रूपम् । तथा तेजसा स्वकीयेन सामर्थ्येन दिशः प्राच्यादिकाः, उह उत्कर्षेण अत्र ब्राह्मणम् - ‘ अथैनं निदधाति । सुपर्णोऽसि गरुत्मानित्येतद्वा एनमदो विकृत्या सुपर्णं दिवमुत्त गरुत्मन्तं विकरोति तं सुपर्णं गरुत्मन्तं कृत्वान्ततो निदधाति पृष्ठे पृथिव्याः सीद भासान्तरिक्षमापण ज्योतिषा भान तेजसादिश उदृंं हेत्येव ह्येष एतत्सर्वं करोति ' ( श ० ९ २ | ३ | ३४ ) | अभिहोमानन्तरमुख्याग्नेश्वितीना- । लोके मुनिधानं विधत्ते -- अथैनमिति । निधानमन्त्रे सुपर्णोऽसि गरुत्मानित्यस्योपयोगमाह - एतद्वा इत्यादिना हि योनौ सिक्तं प्रजननसमर्थं रेतो विक्रियतेऽयवयवविभागवत्क्रियते, अतोऽत्रापि योनिरूपाया मुखायामाहितस्याग्ने- मन्त्रेण रितरस्य अन्नस्यापि विकृत्या भवितव्यमिति पूर्वं विकृत्या विकृतिसाधनभूतेन सुपर्णोऽसि गरुत्मानित्यादिकेन सुपर्णं गरुत्मन्तं कृत्वा चितवान् । तथा चयनकालेऽपि सुपर्णं गरुत्मन्तमेव कृत्वा चितवान् । साम्प्रतं सुपर्णोऽसि