वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 231–240
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 231–240
पृष्ठ 231
पाठ पढ़ें पाठ छिपाएँ
म ० ३८ ] वेदार्थपारिजातभाष्यसहिता १ ९ ५ ' से पूर्वस्मै जुहोति । अथ स्त्रीभ्यः पुमांसं तद्वीर्येणात्यादधात्येकस्मा इव पु से जुहोति बीभ्य इव स्त्रीभ्यस्तस्मादप्येकस्य सो बह्वयो जाया भवन्त्युभाभ्यां वषट्कारेण च स्वाहाकारेण च पुंसे जुहोति स्वाहाकारेणेव स्त्रीभ्यः पुमांसमेव तद्वीर्येणात्यादधाति ' ( श ० ९ | ४ | १ | ६ ) | मन्त्रे तस्मै स्वाहा वाट् ताभ्यः स्वाहेत्याम्नानात् तेनैव क्रमेण होमं प्रशंसति - पुंसे पूर्वस्मा इति । तत्तेन प्रथमं होमेन स्त्रीभ्यः पुमांसं वीर्येण अतिशयितं करोति । तस्मै स्वाहा वाट् ताभ्यः स्वाहेत्युक्तां स्त्रीपुंसयोः संख्यां प्रशंसति - एकस्मा इवेति । वषट्कारस्वाहाकाराभ्यां पुंसे हूयते । स्वाहाकारेणैव स्त्रीभ्यो हूयते । एवं च प्रधानशब्दाधिक्यात् स्त्रीपुंसयोः पुमांसं वीर्याधिकं कृतवान् भवति । वाड् इति परोक्षो वषट्कार इत्युक्तम् । इत्येवं श्रुत्या कात्यायनसूत्रार्थः समर्थितः । तथा च ( १ ) ऋताषाट्, ( २ ) सहितः, ( ३ ) सुषुम्णः, ( ४ ) इषिर:, ( ५ ) भुज्यु:, ( ६ ) प्रजापतिः -इति पूर्वमन्त्राणामृताषाडित्यादिनामका गन्धर्वा देवताः, ( १ ) तस्योषधयः, ( २ ) तस्य मरीचयः, ( ३ ) तस्य नक्षत्राणि, ( ४ ) तस्थाप:, ( ५ ) तस्य दक्षिणाः, ( ६ ) तस्य ऋक्सामानीति षण्णामुत्तरमन्त्राणामोषध्यादिनामका अप्सरसो देवताः । अत्र ब्राह्मणम् —'ऋताषाड् ऋतधामेति । सत्यसाद्सत्यधामेत्येदग्निर्गन्धर्व स्तस्योषधयोऽप्सरस इत्यग्निर्ह गन्धर्व ओषधिभिरप्सरोभिमिथुनेन सहोच्चक्राम मुदो नामेत्योषधयो वै मुद ओषधिभिर्हीद, सर्वं मोदते सन इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् ताभ्यः स्वाहेति तस्योक्तो बन्धुः ' ( श ० ९ | ४ | १ | ७ ) । यतोऽग्निरेव गन्धर्व ओषधिभिरेवाप्सरोभिः सह मिथुन भावेनोच्चक्राम, अत उच्यते मन्त्र - ' अग्निर्ह गन्धर्वः ' इति । व्रीह्यादिभिरोष-धिभिरिदं सर्वं जगन्मोदत इत्योषधयो मुदः । ततो मन्त्रे यानि पुंल्लिङ्गानि पदानि तानि व्यवहितपठितान्यप्यप-कृष्य पठित्वा पूर्वो मन्त्रः सम्पादनीयः । एवमेव यानि च स्त्रीलिङ्गानि तस्योषधय इत्यादीनि तान्युत्कृष्य उत्तरो मन्त्रः सम्पादनीयः । तथाच -- -'ऋताषाड् ' ऋताधामाग्निर्गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्यै स्वाहा वाटू ' इति पूर्वो मन्त्रः । अत्र स्वाहा वाड् इति शब्दद्वयमपि सम्प्रदाने । ' तस्योषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहा ' इत्युत्तरो मन्त्रः । तस्योषधय इत्यत्र तस्येति सर्वनाम्नः पूर्वपरामर्शकत्वेन साकाङ्क्षत्वाद् ऋताषाड् ऋतधा-माग्निर्गन्धर्व इत्यनुवर्तते अथ मन्त्रार्थः -- ऋताषाड् ऋतं सत्यं ब्रह्मलक्षणं महत्तेजो वा सहत इति ऋताषाट्, ' छन्दसि सहः ' ( पा ० सू ० ३।२ / ६३ ) इति ण्विप्रत्यये तस्य सर्वापहारिलोपे, ' अत उपधायाः, ( पा ० सू ० ७/२/११६ ) इत्युपधावृद्धौ, ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६ | ३ | १३७ ) इति दीर्घे, ' सहे: साडः सः ' ( पा ० सू ० ८ | ३ | ५६ ) इति मूर्धन्यादेशे रूपम् । साहयतेः क्विप्यपि रूपमेतत् शक्यसमर्थनम् । तदा तु ' नहि वृतिवृषिव्यधिरुचिसहितनिषु क्वौ ' ( पा ० सू ० ६ | ३ | ११६ ) इत्यनेन पूर्वपदस्य दीर्घः । सत्यं सहते, असत्ये कुप्यतीति यावत् । ऋतधामा ऋतं सत्यं धाम यस्य सः । सोऽग्निर्गन्धर्वः, नोऽस्माकं ब्रह्म क्षत्रं च पातु रक्षतु । य ईदृशोऽग्निस्तस्मै अग्नये गन्धर्वाय स्वाहा वाट् वषट्कारेण सुहुतमस्तु । तस्याग्नेर्गन्धर्वस्य ओषधयो व्रीह्माद्या नाम नाम्ना अप्सरसः स्त्रीत्वेन भोग्याः । कीदृश्य ओषधयः? तत्राह - मुदो मोदन्ते जना याभिस्ताः । ताभ्यः स्वाहा । अध्यात्मपक्षे - अग्निः परमात्मैव ऋताषाट् । ऋतं सत्यं परं ब्रह्म, ' ऋत सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः || ' ( तै ० आ ० १०।१२।१ ) इति मन्त्रवर्णात् । स एव ऋतधामा दिव्यशक्तित्वात् । स एवाग्रणीस्वादग्निः । स न इदं ब्रह्म इदं क्षत्रं पातु तस्मै स्वाहा वाडिति । तस्य तादृशस्य गन्धर्वस्य मुदो नाम अप्सरसः सन्ति । ताभ्यः स्वाहेति । स्वाहाकारवषट्काराभ्यां पुंसे हूयते, स्वाहाकारेणैव स्त्रीभ्य इति । प्रधानशब्दाधिक्यात् स्त्रीपुंसेभ्यः पुमांसं वीर्याधिकं कृतवान् भवति ।
पृष्ठ 232
पाठ पढ़ें पाठ छिपाएँ
१ ९ ६ शुक्लयजुर्वेद संहिता [ अ ] ० १८ मुदो दयानन्दस्तु ~~ ' हे मनुष्य, य ' ऋताषाड् ऋतधामा गन्धर्वोऽग्निरिवास्ति, तस्योषधयोऽप्सरसो नाम सन्ति । स न इदं ब्रह्म क्षत्रं च पातु तस्मै स्वाहा वाट्, ताभ्यः स्वाहाऽस्तु । यो जनोऽग्निवच्छत्रुदाहक ओषधिवदानन्दकारी, स एव सर्व राज्यं रक्षितुं शक्नोतीति भावार्थ: ' इति, तदेतत् सर्वमुद्धृतश्रुतिविरोधादुपेक्ष्य- -मेव | किमर्थं तस्मै स्वाहा वाड् इति शब्दद्वयप्रयोगः? किमर्थं ताभ्यः स्वाहेति स्वाहाकारस्यैव प्रयोग इत्यभि प्रायानुक्तेश्व ॥ ३८ ॥
स॒ह॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरो॑चयोऽप्स॒रस॑ आ॒युवो॒ नाम॑ ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑ति॒ तस्मै॒ स्वाहा वाद ताभ्यः॒ स्वाहा॑ ॥ ३६ ॥
मन्त्रार्थ - जिसकी सारे साम मन्त्र स्तुति करते हैं, जो रात - दिन को मिलाने वाला सूर्यरूप गन्धर्व है, वह हमारी ब्राह्मण जाति और क्षत्रिय जाति की रक्षा करे । हम उसे आहुति देते हैं, यह भली प्रकार गुहांत हो । परस्पर देते मिलने के स्वभाव वाली आयुव नामक किरणें उसकी अप्सराएँ हैं, वे हमारी रक्षा करें । हम उनके निमित्त आहुति हैं ॥ ३६ । यः सूर्यः संहितः सन्दधाति अहोरात्रे इति तथाभूतः, ' एष ह्यहोरात्रे सन्दधाति ' ( श ० ९ | ४ | ११८ ) इति श्रुतेः । यश्च विश्वसामा विश्वानि सर्वाणि सामानि प्रतिपादकत्वेन यस्य सः । सामानि सान्त्वप्रयोगा वा, ' एष ह्येव सर्व ँ, साम ( श ० ९ | ४ | ११८ ) इति श्रुतेः । स सूर्यो गन्धर्वो नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । तस्याप्सरसो मरीचयस्त्रसरेणवः । कीदृश्यो मरीचयः? तत्राह - आयुव इति । आसमन्ताद् युवन्ति मिश्रीभवन्तीत्यायुवः, ' आयुवाना हि मरीचयः प्लवन्ते ' ( श ० ९ । ४ । ११८ ) इति श्रुतेः । अत्र ब्राह्मणम् -'सहित इति । असौ वा आदित्यः स हित एष ह्यहोरात्रे सन्दधाति विश्वसामेत्येष ह्येव सर्व ं, साम सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस इति सूर्यो हि गन्धर्वो मरीचिभिरप्सरोभिर्मिथुनेन सहोच्च-कामायुवो नामेत्यायुवाना इव हि मरीचयः प्लवन्ते स न इदं ब्रह्म क्षत्रं पात्विति तस्योक्तो बन्धुः ' ( श ० ९ ।४।१।८ ) । अहोरात्रयोः सम्बन्धाधायकत्वेन संहितशब्दोऽयमादित्यसमवेतार्थक इत्याह- असौ वा आदित्य इति य एष एतस्मिन् मण्डलेऽचिर्दीप्यते तन्महाव्रतं तानि सामानि ' ( ०१४ | ८ | ६ | ४ ) इत्यादिश्रुतेः । एष एवादित्यः सर्व साम खलु । तथा च ' संहितो विश्वसामा सूर्यो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाटू ' इति शेषं द्वितीयः पूर्ववद् पूर्वो मन्त्रः, ' तस्य मरीचयोऽप्सरस आयुवो नाम ताभ्यः स्वाहा ' इति द्वितीय उत्तरो मन्त्रः । व्याख्येयम् । अध्यात्मपक्षे -- सर्वान्तरात्मा परमेश्वर एव सूर्यो भूत्वाऽहोरात्रे सन्दधाति । स एव मरीचयोऽप्सरसः, तस्मै स्वाहा वाद, ताभ्यः स्वाहेति । दयानन्दस्तु - हे ' विद्वन् भवान् यः संहितः सूर्यो गन्धर्वाऽस्ति, तस्य मरीचयोऽप्सरस आयुवो नाम सन्ति, ताभ्यो विश्वसामभ्यः स्वाहा कथं कार्यसिद्धिं करोतु । यस्त्वं तस्मै स्वाहा प्रयुङ्क्षे स भवानिदं ब्रह्म क्षत्रं गां च पृथिवीं वाटू पातु ' इति, तदेतत् सर्वं श्रुतिविरुद्धत्वादव्यापारेषु व्यापार एव । नहि कश्चिद्विद्वान् सूर्यो भवति कश्चित् , न वा सम्भवति, धारयति । न च स सर्वैर्मिलितः, न च तत्सम्बन्धिन्यो मरीचयो भवन्ति । न च विश्वसामा साम्प्रतं तदनुपलब्धेः । न च स्वाहाशब्दस्य उत्तम क्रियार्थः । न वा तया ब्रह्मक्षत्रादीनां रक्षणम् || ३ ९ ॥
पृष्ठ 233
पाठ पढ़ें पाठ छिपाएँ
मं ० ४०-४१ ] वेदार्थ पारिजात भाष्यसहिता सुषुम्णः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य नक्षत्राण्यप्सरसो भेकुर॑यो॒ नाम॑ 1 2.2 स न॑ इ॒दं ब्रह्म॑ क्षत्रं पा॑तु॒ तस्मै॒ स्वाहा॑हा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥ ४० ॥
१ ९ ७ मन्त्रार्थ - यज्ञ के द्वारा सुख देने वाली सूर्य की किरणों से प्रकाशित होने वाला चन्द्रमा भी भूमि का धारक होने से गन्धर्व है । वह हमारी इस ब्राह्मण जाति और क्षत्रिय जाति को रक्षा करे, उनके निमित्त हम आहुति देते हैं । कान्तियुक्त भेकुरी नामक नक्षत्र उसकी अप्सरा है, वह हमारी रक्षा करे, उसकी प्रीति के निमित्त हम आहुति देते हैं ॥ ४० ॥
यः सुषुम्णः, सु सुष्ठु शोभनं सुम्नं सुखं यस्मात् सः । सुयज्ञियः सुखस्य यज्ञसाध्यत्वाद् यज्ञार्हत्वात् ' यज्ञत्विग्भ्यां घखत्री ' ( पा ० सू ० ५ | १ | ७१ ) इति सूत्रेण यज्ञमर्हतीति घप्रत्ययाद् यज्ञिय इति रूपम्, शाभनश्चासौ यज्ञियश्च सुयज्ञियः, अथवा ' असमासे निष्कादिभ्यः ' ( पा ० सू ० ५।१।२० ) इति ज्ञापकात् तदन्तविधिरिति । यज्ञद्वारा सुखप्रद इत्यर्थः, याज्ञिकानां चन्द्रलोकाप्तेः श्रुतत्वात् । सूर्यरश्मिः सूर्यस्येव रश्मयां यस्य सः । स तादृशश्चन्द्रमा गन्धर्वः, नोऽस्माकमिदं ब्रह्म क्षत्रं च पातु । तस्मै चन्द्रमसे स्वाहा वाट् । तस्य चन्द्रमसो नक्षत्राणि अप्सरसः । तासां भेकुरय इति नाम । भां कान्ति कुर्वन्तीति भेकुरयः, पृथोदरादित्वात् साधुः । ताभ्यो नक्षत्राप्सरोभ्यः स्वाहा । तथा च- ' - ' सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाटू ' इति तृतीयः पूर्वो मन्त्रः, ' तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम ताभ्यः स्वाहा ' इति तृतीय उत्तरो मन्त्रः । अत्र ब्राह्मणम् -'सुषुम्ण इति । सुयज्ञिय इत्येतत्सूर्यरश्मिरिति सूर्यस्येव हि चन्द्रमसो रश्मयश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरस इति चन्द्रमा ह गन्धर्वो नक्षत्रैरप्सरोभिमिथुनेन सहाच्चक्राम भेकुरो नामेति भाकुरयो ह नामैते मां, हि नक्षत्राणि कुर्वन्ति स न इदं ब्रह्मक्षत्रं पात्विति तस्योक्तो बन्धुः ' ( श ० २ ९ | ४ | १ ( ९ ) । प्रसन्ना कण्डिका । अध्यात्मपक्षे - सर्वात्मा भगवान् चन्द्रमा नक्षत्राणि च भूत्वा प्रजापतेर्वित्रस्तात् शरीराच्चन्द्रमा नक्षत्राप्सरोभिः सहोच्चक्राम । तस्मै स्वाहा वाट् ताभ्यः स्वाहेति । दयानन्दस्तु - ' हे मनुष्याः, यः सूर्यरश्मिः सुषुम्णो गन्धर्वश्चन्द्रमा अस्ति, यास्तस्य नक्षत्राण्यप्सरसों भेकुरो नाम सन्ति, स यथा इदं ब्रह्मक्षत्रं पातु, तथाविधाय तस्मै वाट् स्वाहा ताभ्यः स्वाहा युष्माभिः सम्प्रयोज्या ' इति, तदपि यत्किञ्चित्, ' वाट् कार्यनिर्वाहपूर्वकम्, स्वाहा उत्तमक्रिया ' इति व्याख्यानस्य वैदिकमर्यादाविरुद्धत्वात्, देवतोद्देश्येन द्रव्यत्यागे तयोः प्रसिद्धत्वात् ॥ ४० ॥
इषिरो विश्वव्य॑च॒ वातों गन्धर्वस्तस्यापों अप्सरस ऊर्जो नाम ।
स न॑ इ॒दं ब्रह्म॑ क्षत्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥ ४१ ॥
मन्त्रार्थ - शीघ्रगामी, सर्वत्र व्याप्त, भूमि को धारण करने से वायु का नाम गन्धर्व है । वह हमारी इस ब्राह्मण जाति और क्षत्रिय जाति की रक्षा करे । उसके निमित्त यह आहुति दी जाती है । प्राणियों को जीवन देने वाला रस नामक जल उसकी अप्सराएं हैं । वे हमारी रक्षा करें । उनके निमित्त दी गई आहुति भली प्रकार गृहीत हो ॥। ४१ ॥
पृष्ठ 234
पाठ पढ़ें पाठ छिपाएँ
१ ९ ८ शुक्लयजुर्वेदसंहिता [ अ ० १८ इषिर:, इष्यति गच्छतीति इषिरः, ' इषिमदिमुदि ' ( उ ० ११५१ ) इति किरच्प्रत्ययः, क्षिप्रः शीघ्रगमनः । विश्वव्यचा विश्वस्मिन् व्यचो गमनं यस्यासो विश्वव्यचाः सर्वतो गमनशीलो वातो वायुर्गन्धवः धान्योत्पादने- । स न इदं ब्रह्म क्षत्रं पातु तस्मै स्वाहा वाट् । तस्य वातस्य आपोऽप्सरस ऊर्जा नाम, ऊर्जयन्ति जीवयन्ति ( पूर्वत्रासिद्धीये न नेत्यूर्जः, ऊर्जेः ' भ्राजभासधुविद्युतोजि पूजुग्रावस्तुवः किपू ' ( पा ० सू ० ३ | २ | १७७ ) इति किपि, स्थानिवत् ' इति परिभाषया णिलोपस्य स्थानिवत्त्वनिषेधात् पदान्तत्वेन ' चोः कुः ' ( पा ० सू ० ८ | २ | ३० ) इति कुत्वे एकवचने ' ऊर्क ' इति रूपम्, रात्सस्येति नियमान्त संयोगान्तलोपः । ताभ्यः स्वाहा । अत्र ब्राह्मणम् - ' इषिर इति । क्षिप्र इत्येतद्विश्वव्यचा इत्येष हीद, सर्वं व्यचः करोति वातो गन्धर्व -स्तस्यापोऽप्सरस इति वातो ह गन्धर्वोऽद्भिरप्सरोभिर्मिथुनेन सहोच्चक्रामोज़ नामेत्यापो वा ऊर्जाऽद्भयो करोति, जयते स न इदं ब्रह्मक्षत्रं पात्विति तस्योक्तो बन्धुः ' ( श ० ९ | ४ | १ | १० ) । यतश्चैष वायुः सर्वं ' इषिरो व्याप्तं विश्वव्यचा तस्मात् स विश्वव्यचाः । अद्भयः सकाशात् सर्वमन्नादिकं जायते, तस्मादाह - ऊर्जा नामेति । वातो गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट् ' इति चतुर्थः पूर्वो मन्त्रः, ' तस्यापो अप्सरस ऊर्जा नाम ताभ्यः स्वाहा ' इति चतुर्थ उत्तरो मन्त्रः । अध्यात्मपक्षे -- सार्वात्म्यविवक्षया परमेश्वरस्यैव वातादिकत्वमिति । दयानन्दस्तु -- ' येन इच्छन्ति स इषिर: ' इति, तत्तुच्छम्, श्रुतिविरोधात् ' इषिरः क्षिप्रः ' इति श्रुत्या व्याख्यातत्वात् । न च वायुनेच्छन्ति जनाः, निष्प्रमाणत्वात् ॥ ४१ ॥
भुज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य दक्षिणा अप्सर संस्तावा नामं ।
स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॑हा॒ वाट् ताभ्यः॒ स्वाहा॑ ॥ ४२ ॥
मन्त्रार्थ - प्राणियों का पालक, स्वर्ग में गमन करने वाला यज्ञ पृथ्वी को धारण करने से गन्धर्व कहलाता है । की जाती है । यज्ञ वह हमारी इस ब्राह्मण जाति तथा क्षत्रिय जाति की रक्षा करे । उसके निमित्त यह आहुति समर्पित आहुति दी और यजमान की स्तुति करने वाली स्तावा नामक दक्षिणाएं उस यज्ञ की अप्सराएँ हैं । उनके निमित्त यह जाती है ॥ ४२ ॥
भुज्युः, भुनक्ति पालयति सर्वभूतानीति भुज्युः, ' भुजिमृङ्भ्यां युक्त्युको ' ( उ ० ३।२१ यज्ञो ) इति गन्धर्वः युक् ।, सुपर्णः सुष्ठु शोभनं पर्णं पतनं स्वर्गगमनं यस्य सः । यज्ञे स्वर्गे गते यजमानो गच्छति । तथाविधो अप्सरसः । इदं ब्रह्म क्षत्रं च पातु । तस्मै स्वाहा वाट् इदं हविः सुहुतमस्तु । तस्य यज्ञस्य इति दक्षिणा नाम तासां नाम संज्ञा, ताभ्यः की दृश्यस्ताः? स्तावा नाम । स्तूयते यज्ञो यजमानश्च याभिस्ताः स्तावाः, स्तावा पूर्बो मन्त्रः, स्वाहा । तथा च ' भुज्युः सुपर्णो यज्ञों गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट् ' इति पञ्चमः ' तस्य दक्षिणा अप्सरसस्तावा नाम ताभ्यः स्वाहा ' इति पञ्चम उत्तरो मन्त्रः । अत्र ब्राह्मणम् - ' भुज्युः सुपर्ण इति । यज्ञो वे भुज्युर्यज्ञो हि सर्वाणि भूतानि भुनक्ति नामेति यज्ञो दक्षिणा गन्धर्वस्तस्य वे स्तावा दक्षिणा अप्सरस इति यज्ञो ह गन्धर्वो दक्षिणाभिरप्सरोभिमिथुनेन सहाच्चक्राम स्तावा बन्धुः ' दक्षिणाभिहि यज्ञः स्तूयतेऽथो यो वै कश्च दक्षिणां ददाति स्तूयत एव स न इदं ब्रह्मक्षत्रं भुज्युशब्दो पात्विति तस्योक्तो यज्ञे समवेतार्थं ( श ० ९ | ४ | १ | ११ ) । यज्ञो हि वृष्ट्यादिसम्पादनेन सर्वाणि भूतानि भुनक्ति रक्षतीति
पृष्ठ 235
पाठ पढ़ें पाठ छिपाएँ
म ० ४२-४३ ] वेदार्थपारिजातभाष्यसहिता १ ९९ इत्याह - यज्ञो वा इति । यज्ञः खलु दक्षिणाभिः प्रशस्यते, साधु जातो यज्ञोऽयमिति स्वीकृतदक्षिणैर्ऋत्विग्भिः दक्षिणाः स्तूयमानत्वात् । किञ्च यो वै कश्चन दक्षिणां ददाति सोऽपि प्रग्रहीतृभिः स्तूयते । इत्थं स्तुतिहेतुत्वाद् स्तावा उच्यन्ते । अध्यात्मपक्षे - अत्रापि यज्ञदक्षिणादिरूपेणापि परमेश्वरस्य सार्वात्म्यं प्रशस्यते । -दयानन्दस्तु — ' भुज्यन्ते सुखानि यस्मात् स भुज्युः । शोभनानि पर्णानि पालनानि यस्मात् सः सुपर्णः । गन्धर्वो यो गां वाणीं धरति ' इति, तदपि यत्किञ्चित्, शास्त्रीयस्य यज्ञदक्षिणादेस्तेनानङ्गीकृतत्वात् ॥ ४२ ॥
प्रजापतिविश्वकर्मा मनो ' गन्धर्वस्तस्य ऋक्सामान्यंप्सरस एष्टयो नाम ।
सनं इदं ब्रह्म॑ क्षत्रं पति तस्मै स्वाहा वाट् ताभ्यः स्वाहा ॥ ४३ ॥
मन्त्रार्थ- करने वाला मन हो गन्धर्व है । वह हमारी ब्राह्मण जाति और क्षत्रिय जाति - प्रजापालक सब कुछ की रक्षा करे । उसको यह आहुति दी जाती है । अभीष्ट देने वाली एष्टी नाम वाली ऋचा और साम उसकी अप्सराएँ
हैं । वे हमारी रक्षा करें । उनको हम यह आहुति देते हैं ॥ ४३ ॥
यः प्रजापतिः प्रजानां पालकः, विश्वकर्मा विश्वं सर्वं करोतीति विश्वकर्मा, ' अन्येभ्योऽपि दृश्यन्ते ' ( पा ० सू ० ३।२।७५ ) इति करोतेर्मनिन् । मनोरूपो गन्धर्वः । स न इदं ब्रह्म क्षत्रं च पातु । तस्मै मनमे गन्धर्वाय स्वाहा वाट् हविर्दत्तमस्तु । तस्य मनसो गन्धर्वस्य ऋक्सामान्यप्सरसः । एष्टय इति तासां नाम प्रसिद्धम् । इष्यते काक्ष्यतेऽभीष्टं याभिस्ता एष्टयः ताभ्योऽप्सरोभ्यः स्वाहा सुहुतमस्तु । तथा च - ' प्रजापतिविश्वकर्मा मनो गन्धर्वः स न इदं ब्रह्म क्षत्रं पातु तस्मै वाट् स्वाहा ' इति षष्ठः पूर्वो मन्त्रः । ' तस्य ऋक्सामान्यप्सरस एथ्र्यो नाम ताभ्यः स्वाहा ' इति षष्ठ उत्तरो मन्त्रः । अत्र ब्राह्मणम् -'प्रजापतिर्विश्वकर्मेति । प्रजापतिर्वै विश्वकर्मा सहोद सर्व मकरोन्मनो गन्धर्वस्तस्य ऋक्सामान्यप्सरस इति मनोह गन्धर्व ऋक्सामैरप्सरोभिमिथुनेन सहोच्चक्रामेष्टयो नामेत्युक्सामानि वा एष्टय ऋक्सामैर्द्याशासत इति नोऽस्त्वित्थं नोऽस्त्विति स न इदं ब्रह्मक्षत्रं पात्विति तस्योक्तो बन्धुः ' ( श ० ९ ।४।१।१२ ) । प्रजापतेर्मनः प्रधानसमष्टिलिङ्गशरीराभिमानित्वादिष्य माणसाधनात्वादिष्टयः । आ इष्टय एष्टयः । ' ओमाङोश्व ' ( पा ० सू ० ६ ११ ९ ५ ) इति पररूपम् ।. अध्यात्मपक्षे - भू- बीजाङ्कर- वृक्षस्थानीया ब्रह्माव्याकृत हिरण्यगर्भविराजः भूस्थानीये ब्रह्मण्येव सर्वेषा -मन्तर्भावात् । निस्तरङ्गमहासमुद्रस्य सतरङ्ग महासमुद्रत्ववद् ब्रह्मण एव मनस्त्वम् । तदुक्तं वाशिष्ठ रामायणे-' स आत्मा सर्वगो राम नित्योदितवपुर्महान् । स मनाङ मननीं शक्ति धत्ते तन्मन उच्यते ॥ ' इति । दयानन्दस्तु - ' हे मनुष्याः, यूयं यो विश्वकर्मा प्रजापतिर्मनुष्योऽस्ति 1 तस्य मनो गन्धर्व ऋक्सामान्य-प्रस एष्टयो नाम सन्ति, तथा स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा, वाणी वाट् धर्मप्रापणं ताभ्यः स्वाहा सत्यया क्रिययोपकारं कुरुत ' इति, तदपि यत्किञ्चित् श्रुतिविरुद्धत्वात्, तत्र तु मनस एव प्रजापतित्वेन व्याख्यातत्वात्, तस्येत्यस्य मनसा सम्बन्धे तस्य ऋक्सामानीति प्रत्यक्ष दृष्टसम्बन्धस्य बाधाच्च, पूर्वत्र यथा तस्य तस्य गन्धर्वस्य तास्ता अप्सरस उक्तास्तथैव प्रकृतमन्त्रेऽपि युक्तत्वाच्च ॥ ४३ ॥
पृष्ठ 236
पाठ पढ़ें पाठ छिपाएँ
२०० शुक्ल यजुर्वेद संहिता स नो भुवनस्य पते प्रजापते॒ यस्य॑ त उपरि॑ गृहायस्य॑ वे॒ह । [ अ ०१८ अ॒स्मै॒ ब्रह्म॑ण॒स्मै॑ क्ष॒त्राय महि शम यच्छ स्वाहा ॥ ४४ ॥
अथवा इस लोक में घर मन्त्रार्थ - हे संसार का पालन करने वाले प्रजापति! जिनका स्वर्गलोक में घर है दी हुई इस आहुति है, ऐसे आप हमारी इस ब्राह्मण जाति और क्षत्रिय जाति के निमित्त महान् सुखदाता बनिये । हमारी को स्वीकार कीजिये ॥ ४४ ॥
' पञ्चगृहीतं च रथशिरस्यध्याहवनीयं ध्रियमाणे पञ्चकृत्वः स नो भुवनस्येति ' ( का ० श्री ० १८।५।१७ ) । राष्ट्रभृद्धमानन्तरं पर्व संस्कृता देवाज्यात् पञ्चगृहीतमाज्यं गृहीत्वा प्रतिप्रस्थात्रादिना रथशिरस्याहवनीयोपरि । ईषाग्रयोरुपरि समीपे एव ध्रियमाणे तदाज्यं पञ्चधा विभज्य स नो भवनस्येति मन्त्रावृत्त्या पञ्चकृत्वो जुहुयात् । यत्र यत्र यस्य बन्धनं क्रियते, तत्स्थानं रथस्य शिर इति सूत्रार्थः । प्रजापतिदेवत्या प्रस्तारपङ्क्तिः नवकः, नवाक्षर आद्य पादो द्वादशको, अन्त्यो चाटको सा प्रस्तारपङ्क्तिः । सा चैकाधिका । अतस्तृतीयः वा पादो अथवा यस्य त इह इति यावत् । हे भुवनस्य पते पालक, हे प्रजापते, यस्य ते तवोपरि स्वर्गे गृहाः सन्ति च महि महत् शर्म सुखं यच्छ भलोके गाः सन्ति, स त्वं नोऽस्माकमस्मै ब्रह्मणे ब्राह्मणाय अस्मै क्षत्राय क्षत्रियाय देहि । तुभ्यं स्वाहा सुहुतमस्तु । अत्र ब्राह्मणम — ' अथ रथशीर्षे जुहोति । एष वै स सव एतद्वै तत्सूयते यमस्मै तमेता देवताः सवमनु-मन्यन्ते याभिरनुमतः सूयते यस्मै वै राजानो राज्यमनुमन्यन्ते स राजा भवति न स यस्मै नाज्येन रथशिरसि पञ्चगृहीतेन होम ता उ पञ्चैवाहतो हता भवन्ति तस्योक्तो बन्धुः ' ( ० ९ | ४ | १ | १३ ) । राष्ट्रभृद्धोमानन्तरं । अस्मै यजमानाय यं सवं विधत्ते - अथेति । प्रकृतहोमं यजमानाय सवात्मना प्रशंसति - एष वे सव इति रथ एतद्वै तद्रूपं सम्पादयति, स सव एष खल । शेषं सुगमम् । ' यद्वेव रथशीर्षे जुहोति । असो वा आदित्य एष धत्त आत्मन् कुरुत कृत्वा प्रजापतिरेतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत तथैवैनान्ययमेतत्परिगत्यात्मन् मन्त्रेण समानो हि स य उपरि धार्यमाण उपरि हि स य एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत समानेन य एतानि मिथुनानि परिगत्या-एतानि मिथुनानि परिगत्यात्मन्नधत्तात्मन्नकुरुत सर्वतः परिहार, सर्वतो हि स - यद्वेवेति । एष आहव-त्मन्नधत्तात्मन्नकुरुत ' ( श ० ९ | ४ | १ | १५ ) | पुनस्तमेव होमं प्रकारान्तरेण प्रशंसति । आदित्यवन्मण्डलाकार-नोयस्योपरि धार्यमाणो रथः, असावाकाशमध्ये वितायमानो य आदित्यस्तदात्मकः कृत्वा एतानि रथाङ्गवत्त्वात् शीघ्रगामित्वाद्वा रथस्यादित्यात्मकत्वम् । अतः प्रजापतिरादित्यात्मकं रथशिरसि रथरूपं होमं तद्वदेव कुरुते । पूर्वोक्तानि मिथुनानि परिगत्य आत्मनि धृत्वा स्वाधीनीकृतवान् । तस्माद्यजमानोऽपि पतिः प्रजापतिर्यस्य त उपरि गृहा यस्य स्पष्टमन्यत् । ' स नो भुवनस्य पते प्रजापत इति । भुवनस्य ह्येष च क्षत्रं च महि शर्म यच्छ स्वाहेति वेत्युपरि च ह्येतस्य गृहा इह चास्मै ब्रह्मणेऽस्मै क्षत्रायेत्ययं वा अग्निर्ब्रह्म इहलोके च गृहा विद्यन्त महच्छर्म यच्छ स्वाहेत्येतत् ( श ० ९ | ४ | १ | १६ ) । एतस्य प्रजापतेः सर्वाधिपत्येन । अयमेव स्वर्लोके चीयमानोऽग्निः सर्वात्म-इति यस्येत्यादिना स एवार्थोऽभिधीयते । तदेवाह -- उपरि च ह्येतस्येति गतार्थमेव । कत्वेन ब्रह्मक्षत्रशब्दाभ्यामुच्यत इत्याह - अयं वा अग्निरिति । अन्यन्मन्त्रव्याख्यानेन अध्यात्मपक्षे - हे भुवनस्य सर्वस्य पते, हे प्रजापालक, यस्य ते तव उपरि अमुष्मिँल्लोके गृहाः, स साकेते त्वं नोऽस्माकं गोलोके वैकुण्ठलोके कैलासे वा गृहाः, इह अस्मिँल्लोकेऽयोध्यायां वृन्दावने वाराणस्यादी । वा ब्रह्मक्षत्रादिभ्यो महि महत् शमं शरणं यच्छ, तस्मै तुभ्यं स्वाहा सर्वं समर्पितमस्तु
पृष्ठ 237
पाठ पढ़ें पाठ छिपाएँ
म ० ४४-४५ ] वेदार्थ पारिजातभाष्यसहिता " २०१ दयानन्दस्तु - ' हे भुवनस्य पते गृहस्य पते, यस्य ते तव उपरि उत्कृष्टे व्यवहारे गृहा महि गृह्णन्ति शर्म यच्छ ये ते गृहस्थादयः यस्य वा इह अस्मिन् संसारे सर्वाः शुभाः क्रियाः सन्ति, स त्वं नोडस्मे ब्रह्मणे क्षत्राय स्वाहा ' इति, तदपि यत्किञ्चित् विप्रतिषिद्धत्वात् । संस्कृते ' उपरि व्यवहारे ' इत्युक्तम्, भाषायां तु ' अत्युच्च संसारे त्वप्रदे उत्तमव्यवहारे ' इत्युक्तम् । तदेतद् द्वयमप्यसङ्गतम्, तस्य तदर्थत्वे मानाभावात् यथा इह अस्मिन् इत्यर्थस्तथैवोपरि अमुष्मिँल्लोक इत्यर्थस्यैव सङ्गतत्वम् अर्थान्तरस्य क्लिष्टकल्पनामूलकत्वात् ॥ ४४ ॥
समुद्रोऽसि नभ॑स्वाना॒द्वेदा॑तुः श॒म्भूयोभूर् भिमा॑ वाहि॒ि स्वाहा॑ । मारुतोऽसि मरुतां गृ॒णः शम्भूयोभूमि वाहि स्वाहा॑ । अ॒वस्यूर॑सि॒ दुव॑स्वान्भूयोभूरभि मो वाहि स्वाहो ॥ ४५ ॥
पृथ्वी को गीला कर मन्त्रार्थ - हे वायुदेवता! आप अगाध जल से आकाश को गीला करने वाली वर्षा से । हे वायुदेव, आप इस लोक को सुख देने वाले तथा परलोक का कल्याण करने वाले बनिये, सदा मेरे अनुकूल रहिये बनकर मुझे सही मार्ग अन्तरिक्षचारी और शुक्रज्योति आदि महद्गण से अभिन्न हैं, इस लोक और पर लोक में के सुखदायक रक्षक हैं, अन्न के उत्पादक हैं, खिलाइये, मेरी दी हुई इस आहुति को स्वीकार कीजिये । हे वायुदेव! आप ॥ ४५ जगत् ॥ मेरे सामने अपना वहनरूप प्रकाशित कर इस आहुति को स्वीकार कीजिये दक्षिणतो दक्षिणा-' वात होमान् जुहोत्यञ्जलिनाहृत्य पुरस्ताद्वहिर्वेदेरधो दक्षिणस्यां घुर्युत्तरत होमानन्तरमध्वर्युस्तमेव उत्तरस्यां रथमग्नेर-प्रष्टे समुद्रोऽसीति प्रतिमन्त्रम् ' ( का ० श्र ० १८/६/१ ) । रथशिरसि पञ्चगृहीत त्रीन् वायुहोमान् जुहुयात् प्रतिमन्त्रं बतार्य उत्तरतो वेदिमध्ये प्राङ्मुखं युगयोक्त्रादिसहितमवस्थाप्य तस्य स्थानत्रये, युगमध्याधस्तृतीयम् । किं समुद्रोऽसीत्यादिमन्त्रत्रयेण । रथयुगदक्षिणधुरोऽधः प्रथमम् उत्तरधुरोऽधो द्वितीयम् कृत्वा? बहिर्वेदेरञ्जलिना वा तमानीयेति सूत्रार्थः । अत्र ब्राह्मणम् -'अथ वातहोमान् जुहोति । इमे वे लोका एषोऽग्निर्वायुर्वातहोमा कात्मकत्वाद् एषु तल्लोकेषु वातहोमानां वायुं दधाति तस्मादयमेषु लोकेषु वायुः ' ( ० ९ १४ | २ | १ ) | एतस्य चित्याग्नेः इमे वे पृथिव्यादिलो लोका इति । ' बाह्येनाग्निमाहरति । वायुत्वात् तैर्होमैः पृथिव्यादिषु लोकेषु वायुं निहितवान् भवतीत्याह - ' ( श ० ९ ४ २ २ ) । होयमाणो आप्तो वा अस्य स वायुर्य एषु लोकेष्वथ य इमाँल्लोकान् परेण वायुस्तस्मिन्नेतद्द्धाति लोकत्रयावस्थितस्य वायुरग्नेर्बाह्यप्रदेशादाहरणीय इत्याह- बाह्येनाग्निमिति । एवं चाग्नेर्लोकत्रयात्मकत्वेन सम्पाद्यत इत्याह-- आप्तो वा अस्येति । वायोः प्रागेवाप्तत्वात् ततो बहिरवस्थितस्य वायोनिधानमस्मिन्नग्नौ ' ( श ० ९ | ४ | २ | ३ ) | ' बहिर्वेदेरियं वै वेदिः । आप्तो वा अस्य स वायुर्योऽस्यामथ व इमां परेण वायुस्तस्मिन्नेतद्दधाति - बहिर्वेदेरिति । ' अञ्जलिना वेद्यः पृथिव्यात्मकत्वात् तत्रत्यस्यापि वायोः पूर्वमेवाप्तत्वाद् वेदेर्बहिराहरेदित्याह एष रथोऽर्वाचीनं तदादित्याद्वायुं नह्येतस्येतीवाभिपत्तिरस्ति स्वाहाकारेण जुहोति ह्यधोऽधो घुरमसौ वा आदित्य कर्तव्यमित्याह -अञ्जलिनेति । दधाति तस्यादेषोऽवचनमेवातः पवते ' ( श ० ९ / ४ / २४ ) । तच्चाहरणमञ्जलिना । ' इतीव ' इत्यभिनयेन दर्शयति । ननु वायोर्होमद्रव्यत्वाद् जुह्वादिना कस्मान्नाहरेदित्यत आह- नह्येतस्येति । होमेषु सर्वत्र स्वाहाकारप्रयोगादस्यापि एतस्य वायोराज्यादिवत् स्कन्दनाद्यभिपत्तिर्नास्ति, तस्मादञ्जलिनाहरेत् - अधोऽधो धुरमिति । उपरि होमः स्वाहाकारेण कर्तव्य इत्याह- स्वाहाकारेण जुहोतीति । होमप्रदेशमाह दक्षिणस्यां धार्यमाणस्य रथस्य धुरोऽधोऽधोभागे जुहुयात् । तच्च कात्यायनानुसारं पुरस्ताद्वहिर्वेदेर्वातमञ्जलिनाहृत्य २६
पृष्ठ 238
पाठ पढ़ें पाठ छिपाएँ
२०२ शुक्लयजुर्वेदसंहिता [ अ ० १८ धुरि अधो जुहुयात् । अथोत्तरतो बहिर्वेदेरञ्जलिना वातमाहृत्य उत्तरस्यां धुरि वातहोमेन अधो जुहुयात् वायुमादित्यादर्वाचीनं । अथ दक्षिणत आहृत्य दक्षिणाष्टेरधो जुहुयात् । रथस्य आदित्यात्मकत्वात् तस्याधोभागे निहितवान् भवतीत्यर्थः । समुद्रोऽसीति वायव्यानि त्रीणि यजूंषि । त्रिलोकीस्थानो वायुर्लोकद्वारेण स्तूयते । हे वायो, यस्त्वं समुद्रोऽसि सम्यग् उनत्ति जलै: क्लिन्नो भवतीति समुद्रः । अथवा समुद्रवन्ति १० | ६ | भूतानि ४ | १ ) । यस्मात् इयं च स व्युत्पत्तिः समुद्रः परमात्मा । तथा च श्रुतिः - ' समुद्र एवास्य बन्धुः समुद्रो योनि ः ' ( श ० ' भीमादयोऽपादाने ' ( पा ० सू ० समुद्रशब्दस्य भीमादिगणे पाठादुन्नेया । तथा चाह तत्रभगवान् परमर्षिः पाणिनिः मुदं रातीति मुद्रा मर्यादा, ३।४।७४ ) इति । अथवा सं समीचीना उद्रा जलचरविशेषा यत्रासौ समुद्रः । अथवा ' स्फायि तञ्चि वञ्चि ' ( उ ० तया सह वर्तत इति समुद्रः । समुद्रोऽसि स्वर्लोकोऽसि । ' उन्दी क्लेदने ' इत्यस्मात् नभांसीति २।१३ ) इत्यादिना रक् । ' अनिदितां हल उपधाया: ' ( पा ० सू ० ६ | ४ | २४ ) इति नलोपः । नभस्वान् नक्षत्राण्युच्यन्ते तानि हि नितरां भान्ति, तानि विद्यन्ते यत्रासो नभस्वान् वायुः । आर्द्रदानुः, । आर्द्र शम्भूः वृष्टयवश्या- शमैहिकं यादिकं ददातीत्यादानुः, ' दाभाभ्यां तु: ' ( उ ० ३।३२ ) इति नुः तादृशं त्वां प्रार्थय इति सुखं शेषः भावयतोति मयोभूः । सुखं भावयति प्रापयति सुखार्थिभ्यो भक्तेभ्य इति । मयोभूः, मयः पारलौकिकं । मारुतोऽसि मरुतां एवंभूतस्त्वं मा मामभि वाहि मदभिमुखमागच्छ । तस्मै स्वाहा इदं हविः सुहुतमस्तु गणः, तन्निवासत्वात् । वातानां पुरोवातप्रभृतीनामयं मारुतोऽन्तरिक्षलोकोऽसि । मरुतां शुक्रज्योतिःप्रभृतीनां मा वाहि तुभ्यं स्वाहा | आधाराधेययोरभेदः । अत एवान्तरिक्षलोकोऽसि तं त्वां ब्रवीमीति शेषः । शम्भूयोभूरभि इत्यस्मात् किपि ' च्छ्वोः अवस्यूरसि । अवनमवो रक्षणम्, अवं सीव्यतीत्यवस्यू: ' षिवु तन्तुसन्ताने:, ' भूलोकरूपोऽसि, ' अयं वे शूडनुनासिके च ( पा ० सू ० ६ | ४ | १ ९ ) इति वकारस्य ऊठि यणि च रूपसिद्धि विद्यते यस्य स दुवस्वान् असि । लोकोऽवस्यूः ' ( श ० ९ | ४ | २ | ७ ) इति श्रुतेः । दुवस्वान् दुवोऽन्नं हविर्लक्षणं तं त्वां याचे, शम्भूयोभूर्भूत्वा मामभि वाहीत्यर्थः । ह्याद्रं ददाति अत्र ब्राह्मणम् -'समुद्रोऽसि नभस्वानिति । असौ वे लोकः समुद्रो नभस्वानाद्वंदानुरित्येष स्योनोऽभि मा वाहीत्येतत् ' मुल्लो वायुस्तमस्मिन्नेतद्दधाति शम्भूयोभूरभि मा वाहि स्वाहेति शिवः वृष्टिप्रदानेन समुन्दनशीलत्वात् ( श ० ९ ।४।२।५ ) । अथ प्रथमं मन्त्रं व्याचष्टे - समुद्रोऽसीति । असौ स्वर्लोकः एष सर्वदा ह्यार्द्रमिति । एष स्वर्लोक आर्द्र समुद्रः । नभ इति नक्षत्रनाम । नभस्वान् नक्षत्रविशिष्टश्च स एव भवति । प्रदेशादाहृतोऽस्ति, वृष्टि ददाति यतस्तस्मादार्द्रदानुः । तेन समुद्रोऽसीति मन्त्रप्रयोगेण अमुष्मिँल्लोके यो वायुर्बहिः वर्तमानत्वात्तदात्मकोऽसीति तमेवास्मिन्नग्नौ निदधाति । हे वायो, त्वं समुद्रो नभस्वानार्द्रदानुर्यः स्वर्लोकस्तत्र शम्भूर्मयो भूरित्यनयोरेकार्थता-मन्त्रेण प्रतिपादनाद् बाह्य प्रदेशादाहृतं वायुमेवास्मिन्नग्नौ निहितवान् भवति । समुद्रो नभस्वान् शङ्कां निवारयितुमाह - शिवः स्योन इति । शिवः शोभनः स्योनः सुखकरः । मरुतां हे वायो गण, यस्त्वं इति । अन्तरिक्षलोको आर्द्रदानुरसि स त्वं शोभनः सुखकरो भूत्वा मामभिगच्छेत्यर्थः । ' मारुतोऽसि स्वाहेति शिवः वै मारुतो मरुतां गणस्तद्योऽन्तरिक्ष लोके वायुस्तस्मिन्नेतदधाति शम्भूयोभूरभि मा वाहि मरुद्भिर्वि-स्योनोऽभि मा वाहीत्येतत् ' ( श ० ९ १४ | २१६ ) । द्वितीयं मन्त्रं व्याचष्टे - मारतोऽसीति ॥ ' अन्तरिक्षलोको अवस्यूरसि दुवस्वानिति । शिष्टत्वाद् मारुतः, अत एव मरुतां गणः । आधाराधेययोरभेदविवक्षया एषोक्तिः शिवः अयं वे लोकोऽवस्यूर्दुवस्वांस्तद्योस्मिँल्लोके वायुस्तमस्मिन्नेतद्दधाति शम्भूयोभूरभि मा वाहि स्वाहेति । स्योनोऽभि मा वाहीत्येतत् ' ( श ० ९ ४ २७ ) । तृतीयं मन्त्रं व्याचष्टे - अवस्यूरसीति । अयं लोको भ्र्लोकोऽवस्यूः त्रिवृदग्नि-अवस्यूरित्यन्नमुच्यते । तद्विशिष्टः, अत्रैव सर्वेषामन्नानामुत्पत्तेः । ' त्रिभिर्जुहोति । त्रय इमे लोका अथो वाग्निवत्यस्य मात्रा तावतैव तदेषु लोकेयु वायुं दधाति ' ( श ० ९ ४।२।८ ) ।
पृष्ठ 239
पाठ पढ़ें पाठ छिपाएँ
म ० ४५-४८ ] वेदार्थ पारिजातभाष्यसहिता २०३ अध्यात्मपक्षे --- परमेश्वर एव हिरण्यगर्भ सूत्रात्मना प्रपञ्चं शास्तीति स एव वायुरूपेणात्र प्रशस्यते । व्याख्यानं पूर्ववदेव । दयानन्दस्तु -- हे ' विद्वन् यस्त्वं नभस्वानार्द्रदानुः समुद्र इवासि स स्वाहा शम्भूयोभूः सन् मामभि वाहि । यस्त्वं मारुतो मरुतां गण इवासि स स्वाहा शम्भूयोभूः सन् मामभि वाहि । यस्त्वं दुवस्वानवस्यूरिवासि गौणार्थ-स तस्मात् स्वाहा शम्भूयोभूः सन् मामभि वाहि ' इति, तत्सर्वं श्रुतिविरुद्धत्वादुपेक्ष्यमेव । यथाकथञ्चिद् कता कल्पनेऽपि निरर्थकमेव, मन्त्राक्षरासम्बद्धं च विभावनीयम् ॥ ४५ ॥
यास्ते अग्ने॒ सूर्ये रुचो दिव॑मात॒न्वन्ति र॒श्मिभिः ।
ताभिर्नो अद्य सर्वाभी रुचे जनाय नस्कृधि ॥ ४६ ॥
मन्त्रार्थ - हे अग्निदेव! आपकी जो दीप्ति सूर्यमण्डल में विद्यमान किरणों के द्वारा द्युलोक को प्रकाशित करती है, इस समय उन सम्पूर्ण कान्तियों से आप हमारी शोभा बढ़ाइये, हमारे पुत्र - पौत्र आदि को जगत् में प्रसिद्ध कोजिये || ४६ ॥ ' नव जुहोति या स्त इति प्रतिमन्त्रम् ' ( का ० श्र ० १८/६/६ ) । पूर्वसंस्कृतादाज्यात् सकृत्सकृदादाय नवाहुतीर्जुहोति यास्ते अग्ने ( १ ), या वो देवाः ( २ ), रुचं नः ( ३ ), तत्त्वा यामि ( ४ ) एताश्चतस्रः, ' स्वर्ण धर्मः ' ( वा ० सं ० १८/५० ) इति कण्डिकायां पञ्च यजूंषि, सम्भूय नव यजूंषि -- इति सूत्रार्थः । तत्रेयं त्रयोदशे द्वाविश्यां
व्याख्याता ॥। ४६ ॥
या वो देवाः सूर्ये रुची गोष्वश्वेषु या रुचः ।
इन्द्राग्नी ताभिः सर्वाभीरुचं नो धत्त बृहस्पते ॥ ४७ ॥
मन्त्रार्थ - हे इन्द्राग्नी, हे बृहस्पते, हे वेवसमूह! आप सबकी जो दीप्ति सूर्यमण्डल में वर्तमान है, जो वोति धेनुओं में और अश्वों में स्थित है, उन सम्पूर्ण दीप्तियों से देदीप्यमान आप सब हमारे लिये कान्ति और नीरोगता प्रदान कीजिये ॥ ४७ ॥
इयमपि त्रयोदशे त्रयोविश्यां व्याख्याता ॥। ४७ ॥ रुच नो धेहि ब्राह्मणेषु रु
राज॑सु नस्कृधि ।
रुचं विश्येषु शूद्रेषु मत्रि धेहि रुचा रुचम् ॥ ४८ ॥
मन्त्रार्थ - हे अग्निदेव! आप हम ब्राह्मणों में और क्षत्रियों में कान्ति स्थापित कीजिये । वैश्यों और शुद्रों में भी कान्ति स्थापित कीजिये, साथ ही मुझमें भी कान्ति के साथ अविच्छिन्न कान्ति को स्थापित कीजिये ॥ ४८ ॥
अग्निदेवत्यानुष्टुप् । प्रथमः पादो नवाक्षरः । हे अग्ने, नोऽस्माकं ब्राह्मणेषु, अस्मत्सम्बन्धिनो ये ब्राह्मणास्तेषु, रुचं दीप्ति ब्राह्मं तेजो धेहि । नोऽस्माकं राजसु राजन्येषु क्षत्रियेषु रुचं क्षात्रं तेजः कृधि कुरु,
पृष्ठ 240
पाठ पढ़ें पाठ छिपाएँ
२०४ शुक्ल यजुर्वेद संहिता [ अ ] ० १८ ( पा ० सू ० २ | ४ | ७३ ) इति शपो ' श्रुशृणुपकृवृभ्यश्छन्दसि ' ( पा ० सू ० ६ | ४ | १०२ ) इति हेधित्वे, ' बहुलं छन्दसि रुचं दीप्तिं कुरु यथा ते वसिष्ठ -मान्धातृ-लुकि च रूपम् । विश्येषु वैश्येषु शूद्रेषु चास्माकीनेषु रुचं तदुपयोगिनीं भवेयुः । किञ्च मयि रुचा दीप्त्या सह रुचि दीप्ति नहुष तुलाधार- विदुरादिवद् धर्मनिष्ठाः शक्तिशालिनः सिद्धा अनुत्सन्नधर्माणो भवेम तथा कुवित्यभिप्रायः । धेहि, अविच्छिन्नां रुचं धेहीत्यर्थः । यथा वयं दीप्त्या ब्रह्मवर्चसेन, मय्येव रुचा ज्ञानेन सङ्गतां रुचं दीप्ति हि । यद्वा -- ब्रह्मराजन्यप्रभृतिषु या रुक् तामस्माकं धेहि । किं बहुना स एषोऽत्र रुचमैच्छत्तस्मिन् देवा एताभी तत्र ब्राह्मणम् —'अथ रुङ्मतीर्जुहोति । अत्रैष सर्वोऽग्निः ) संस्कृतः । वातहोमानन्तरं रुङ्मतीनां होमं विधत्ते -रुङ्मतीभी रुचमदधुस्तथैवास्मिन्नयमेतद्दधाति ' ( श ० रुङ्मत्यः ९ ४/२/१२ । एवं च रुङ्मतीर्जुहोतीत्यस्य तत्साध्यान् होमान् अथेति । रुक्शब्दसम्बन्धाद् होमसाधनभूता ऋचो रुचमदधुरिति, तथैव यजमानोऽपि करोतीत्याह-कुर्यादित्यर्थः । पूर्वं देवाः संस्कृतेऽस्मिन्नग्नौ एताभी रुङ्मतीभी सूर्ये रुचो रुचं नो धेहि ब्राह्मणेष्विति रुच, रुचमित्य-अत्रैष इति । यास्ते अग्ने सूर्ये रुचः । या वो देवाः त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्ने-मृतत्वं वै रुगमृतत्वमेवास्मिन्नेतद्दधाति तिस्र आहुतीर्जुहोति दर्शयति - यास्ते अग्न इति । मन्त्रेषु पौनःपुन्येन रुक्छब्द-तद्रुचं दधाति ' ( ० ९ | ४ | २ | १४ ) । ताश्च रुङ्मतोर्ऋचो । आहुतीनां त्रित्वेन कृत्स्न एवाग्नौ रुचं प्रयोगादस्मिन्नग्नौ रुचं निदधातीत्याह - रुचं रुचमित्यमृतत्वमिति निवातीत्याह - तिस्र आहुतीरिति । , नो अध्यात्मपक्षे — हे भगवन्नग्ने परमात्मन्, नोऽस्माकं सम्बन्धिषु कृधि ब्राह्मणेषु । मयि रुचं रुचा वेदादिज्ञानरूपाम् ब्रह्मात्मज्ञानेन युक्तां राजसु राजन्येषु रुचं क्षात्रं तेजः कृधि । विश्येषु शूद्रेषु च रुचं धर्मबुद्धि रुचं ब्रह्मवर्चसं धेहि । प्रीत्या प्रीति मयि धेहि ' इति, तदपि दयानन्दस्तु — ' हे जगदीश्वर, ब्राह्मणादिषु रुचं धेहि रुचा ॥। ४८ रुचं ॥ यत्किञ्चित् ब्राह्मणादिषु रुचं मयि रुचा रुचमिति विशेषानुपपत्तेः
तव यामि ब्रह्म॑णा वन्द॑मान॒स्तदाशा॑स्ते॒ यज॑मानो हविभिः ।
४ ९ ॥
अहे ' मानो वरुणे॒ह बोध्यु॒रु॑श॑स॒ मा न आयुः 6 प्रमोषीः ॥
जो कुछ याचना करता है, मन्त्रार्थ - हे वरुणदेवता! हम आपकी स्तुति करते हैं । यजमान हवि प्रदान कर परम आराध्य-भी आपसे याचना करता हूं कि हे वह वेद के द्वारा स्तुति करता हुआ आपकी ही शरण में जाता है । मैं का नाश न होने दें ॥ ४ ९ ॥ देव! आप क्रोध न करते हुए हमारी प्रार्थना को सुनें, हमारी आयु परिणामो यच्छन्दत्वेन वरुणदेवत्या त्रिष्टुप् शुनःशेपदृष्टा । मन्त्रे वर्तमानयोर्द्वयोस्तच्छब्दयोरेकस्य , अर्थाद् यदिच्छया तुभ्यं हविर्ददाति, कार्यः । हे वरुण, यजमानो हविभिर्दत्तेयद्वनपुत्रादिकमाशास्ते यजमानाय कामयते दीयतामित्यर्थः । ' यामीति याच्ञाकर्मसु तद् यजमानेष्टं त्वा त्वामहं यामि याचामि, तत् त्वया तत्त्वा यामीति ' इति यास्कोक्तिमनुरुध्य याचेः पठितः ' ( निघ ० ३ | १ ९ | २ ) । केचित्तु -- ' अथापि वर्णलोपो भवति । याच्ञाकर्मसु यामीति पठ्यते-प्रयोगमेवात्राहुः, किन्तु नैतत् स्कन्दस्वामिसम्मतम् । स प्राह - ' एतदपव्याख्यानम् प्रदर्शनार्थम् । किन्तर्हि? ' या प्रापणे ' इत्यस्या-महे, यामि मन्मह इति । तस्मान्न याचामीति चकारलोपस्य रूपम्, किन्तर्हि यातेः । यदि च नेकार्थत्वाद् धातूनां याच्ञाकर्म प्रदर्शनार्थम् । ततश्च यामीत्येतन्न याचतेर्वर्णलोपेन