वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 241–250
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 241–250
पृष्ठ 241
पाठ पढ़ें पाठ छिपाएँ
म ० ४ ९ ] वेदार्थपारिजातभाष्यसहिता २०५ स्यात्, द्वयोर्वर्णयोर्लोपोऽयं स्यात् चकारस्याकारस्य च । ततश्च ' अथापि द्विवर्णलोपः ' इत्यत्र उदाह्रियेत, न तु ' अथापि वर्णलोप: ' इत्यत्र । लौकिकाचात्र शब्दाः प्रत्तमवत्तमित्यादय उदाहर्तुं प्रक्रान्ताः । तत्रैकस्यैवैतस्य वैदिक-स्योदाहरणमबुद्धिपूर्वं स्यात् । तत एतदन्यथा व्याख्यायते । तत्वा इत्येतदत्रोदाहरणम्, न यामोति । न चैतत् ' तत्त्वा यामि ब्रह्मणा वन्दमानः ' इत्यस्या ऋचः प्रतीकग्रहणम्, किन्तर्हि? लौकिकमेतदुदाहरणम्, तत्वा यामीति लौकिकं वाक्यम्, तनित्वा गच्छामीत्यर्थः । पुनः ' तत्वा ' इत्यत्र वर्णलोप उच्यते । तत्वा इत्येतत् ' तनु विस्तारे ' इत्यस्य क्त्वाप्रत्ययेन रूपम् । तत्रैकः ' अनुदात्तोपदेशवन तितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ' ( पा ० सू ० ६ | ४ | ३७ ) इत्यनुनासिकलोपः । स तु ' अथाप्यन्तलोपो भवति ' इत्येतेन प्रदर्शितः । अपर: ' उदितो वा ' ( पा ० सू ० ७/२/५६ ) इतीटो वैकल्पिकत्वादिकाराभावः । सोऽत्र वर्णलोपः । तत्वा तनित्वेत्यर्थः ' इति । कामं बुद्धिवैशद्यार्थमेतद् भवेत्, किन्तु नास्माकं मनोरमम् । यतो हि व्याकरणशास्त्रेणासम्पाद्य-मानस्य कार्यस्य प्रदर्शनार्थमेव नैरुक्ती व्याख्या । भगवतो वेदपुरुषस्य मुखं व्याकरणम्, श्रोत्रं च निरुक्तम् । मुखेनोच्चारितस्य यदार्थावगतिर्न भवेत्, तदर्थप्रतिपत्त्यर्थं प्रायो निरुक्तं प्रवर्तते । व्याकरणशास्त्रेऽपि वर्णागम-वर्णविपर्ययाद्यर्थं भगवता पाणिनिना सूत्रितम् - ' पृषोदरादीनि यथोपदिष्टम् ' ( पा ० सू ० ६ ३ | १० ९ ) | किन्तु नहि तावतैव कार्यं निर्वहति । अत एवाव्युत्पन्नशब्दा अपि स्वीक्रियन्ते वैयाकरणैः । शाकटायनस्त्वस्यापवादः । यच्चात्रोक्तम् — प्रत्तमवत्तमिति लौकिकोदाहरणे प्रक्रान्ते तत्र तत्त्वा यामोति वैदिकोदाहरणप्रदर्शनमबुद्धिपूर्वं स्यादिति, तत्राप्येवं वक्तव्यम् - ' सर्वस्य हैवास्य तत्पशोरवत्तं भवति ' ( श ० ३ | ८ | ३ | १६ ), ' सर्वेषामेवाङ्गानामवत्तं भवति ' ( श ० ४ | ५ | २ | ६ ), ' अङ्गादङ्गादवत्तानाम् ' ( तै ० ब्रा ० ३।६।११।२ ) इत्यादिषु श्रुतिषु तथाविधानां शब्दानां बहुमुपलम्भादिति सुधीभिर्विभावनीयम् । कीदृशोऽहम्? ब्रह्मणा वन्दमानः, त्रयीलक्षणेन वेदेन त्वां स्तुवानः । किञ्च, हे उरुशंस! शंसनं शंसः स्तुतिः, उरुर्महान् शंसः स्तुतिर्यस्था सा उरुशंसस्तत्सम्बुद्धी, हे बहुस्तुते! इह अस्मिन् स्थानेऽहेडमानाऽक्रुध्यन् सन् बोधि बुद्धयस्व, त्वं मदभ्यर्थनां जानीहीत्यर्थः । किञ्च, नोऽस्माकमायुर्जीवनं मा प्रमोषीर्मा चोरय, पूर्णायुश्च देहोत्यर्थ: । ' मुष स्तेये ' इत्यस्माल्लुङि, ' न माङ्योगे ' ( पा ० सू ० ६ | ४ | ७४ ) इत्यडभावः । हे वरुण, यत्प्रयोजन मुद्दिश्य ब्रह्मणा वेदेन वन्दमानो नमस्कुर्वाणोऽहं त्वा त्वां यामि शरणं व्रजामि, यजमानश्वाभ्युद्यतैर्ह विभि-र्यदेव प्रयोजनमाशास्ते, इहास्मिन् कर्मणि यजमानकृतं देवापराधमहेडमानस्तदनादरं कुर्वाणस्तत्प्रयोजनं बोधि बुद्धयस्व । हे उरुशंस, न आयुर्मा प्रमोषीः । यजमानमनोरथं पूरयित्वा यज्ञसमाप्ति कृत्वा मां रक्षेत्यर्थः । अत्र ब्राह्मणम् — ' तत्त्वा यामि ब्रह्मणा वन्दमान इति । तत्त्वा याचे ब्रह्मणा वन्दमान इत्येतत्तदाशास्ते यजमानो हविर्भिरिति तदयमाशास्ते यजमानो हविर्भिरित्येतदहेडमानो वरुणेह बोधीत्यक्रुध्यन्नो वरुणेह बोधी-त्येतदुरुश स मा न आयुः प्रमोषीरित्यात्मनः परिदां वदते ' ( श ० ९ ४ | २ | १७ ) | यामीत्यस्य ' याचे ' इत्यर्थः । मा प्रमोषीरित्यनेन वरुणादात्मनो रक्षणमुक्तवान् भवतीत्याह- - आत्मनः परिदां वदत इति । आयुषोऽवखण्डन-वर्जनं परिदा । हे वरुण! यद् यज्ञसमाप्तिलक्षणं प्रयोजनमस्ति तत्प्रयोजनं ब्रह्मणा वेदेन वन्दमानः स्तुति कुर्वाण-स्तत्त्वा याचे । अयं यजमानो हविभिस्तदेव प्रयोजनमाशास्ते, तद्भवानस्मभ्यम हेडमानोऽक्रुध्यन् इहास्मद्विषये तत्प्रयोजनं प्रतिपादयितुं बोधि बुद्धयस्व, प्रदीयतामित्यर्थः । हे उरुशंस, बहु स्तुतिविशिष्ट! नोऽस्माकमायुर्मा प्रमोषीर्मापहार्षीः । अध्यात्मपक्षे – ' हे वरुण परमेश्वर, ' इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहुधा वदन्ति ' ( ऋ ० सं ० १ ९ ६४।४६ ) इति मन्त्रवर्णात् । ब्रह्मणा वन्दमानस्तत्प्रयोजनं त्वा यामि
पृष्ठ 242
पाठ पढ़ें पाठ छिपाएँ
२०६ शुक्लयजुर्वेदसंहिता [ अ ० १८ याचे । अयं यजमानः साधको हविर्भिरभ्युद्यतैर्यदाशास्ते, अपराधे सत्यपि कृपया हेडमानोऽकुध्यन् भगवत्प्राप्तिलक्षणं बोधि दीयतामित्यर्थः । हे उरुशंस प्रभूतस्तुते, नोऽस्माकमायुर्मा प्रमोषी तत्प्रयोजनं सफलय ।: स्वसाक्षात्कारप्राप्त्या दयानन्दस्तु - ' हे उरुशंस वरुण श्रेष्ठविद्वन् ब्रह्मणा वन्दमानो यजमानोऽहेडमानः सत्कृतः हविभिर्होमयोग्यैः पदार्थैर्य आशास्ते, तमहं यामि प्राप्नोमि । यदुत्तममायुः शतवर्षमायुस्तत्त्वामाश्रित्य पुरुषो तत्त्वमपि प्राप्नुहि । इह संसारे तदायुर्बाधि बुद्धयस्व न आयुर्मा प्रमोषो: ' इति प्राप्स्यामि यजमानेन यत् कामितं यजमानो यत् प्राप्नोति वक्ता तत्कथं प्राप्स्यति, तदपि यत्किञ्चित् मनुष्यः कथमभ्यर्थनीयः? तस्य अल्पशक्तित्वेनाभीष्टदातृत्वानुपपत्तेः ।? आयुः तत्कामनया च उरुशंसोऽपि श्रेष्ठोऽपि मसङ्गतम्, तत्र तस्यासामर्थ्यात् । यदाश्रित्य वक्ता आयुः प्राप्नोति स सुतरामायुष्मानेव प्राप्त्याशंसनं मनुष्यात् सुतरा-प्राप्नुहोत्युक्तिनिरर्थिव । उरुशंसः कथमन्यस्यायुरपहर्ता स्यादिति सर्वमपि निरर्थकप्रलपनमेव || भवतीति ४ ९ ॥ त्वमपि स्वर्ण घ॒र्मः स्वाहा॒ स्वर्णार्क्ः स्वाहा स्वर्ण शुक्रः स्वाहा स्वर्ण ज्योतिः स्वाहा स्वर्ण सूर्यः स्वाहा ॥ ५० ॥
मन्त्रार्थ - दिन के समान आदित्य देवता की प्रीति के लिये सूर्य के समान अग्नि को आदित्य में स्थापित करते हैं, उनकी प्रीति हम आहुति देते हैं, यह भली प्रकार गृहीत हो । far के समान शुक्ल वर्ण आदित्य के लिये दी गई यह आहुति भली के प्रकार लिये दी गई यह आहुति भली प्रकार गृहीत 1 स्थापित करता हूँ, उसकी प्रोति के लिये दी गई यह आहुति भली गृहीत हो । मैं स्वर्गदाता अग्नि को अग्नि में सूर्य को उत्तम करता हूँ, अर्थात् भ्रान्ति से अनेकत्व की प्रतीति होती प्रकार गृहीत हो । सम्पूर्ण देवताओं के रूप के समान होता है ॥ ५० ॥ है, वास्तव में एक ही सूर्य नाना रूपों में भासित
पञ्च यजूंष्यग्निदेवत्यानि । ' अर्काश्वमेधयोः सन्ततीजुहोति ' अर्काश्वमेधसन्ततिसंज्ञाः पञ्चाहुतयो होतव्याः । अग्निः ( श ० ९ / ४ / २ / १८ ) इति श्रुतिरोत्या संयोजयन्तीति सन्ततयस्ताः, अग्न्यादित्यैक्यकारिका आहुता रित्यर्थः अश्वमेधः सूर्यः, तया: सन्ततयः सन्तन्वन्ति श्वमेधस्तौ सृष्टी नावास्तां ती देवा एताभिराहुतिभिः समतन्वन् । तथा च श्रुतिः - ' अग्निरकाऽसावादित्याऽ-मनुसृत्य व्याख्यायते । न इवार्थे । स्वो न स्वरिव । स्वः शब्दोऽहरर्थः समदधुः ' ( श ० ९ ४ | २ | १८ ) इति । सन्दर्भमिम-सूर्यस्य अहरुपमानम् । तमग्नौ स्वाहा, आदित्यमग्नौ स्थापयामाति । अहरिव यो धर्मः सूर्यः, दिनकरत्वात् व्याख्येयम् । स्वो न सूर्य इव योऽर्कोऽग्निः, तमादित्ये स्वाहा यावत् । ' तमग्नो ' इति शब्दद्वयमध्याहृत्य सूर्यार्थः । स्वो न स्वःशब्दो देवार्थकः, नशब्दो निश्चयार्थकः जुहोमि, प्रतिष्ठापयामीति यावत् । स्वः शब्दः तमादित्य एव जुहोमि स्थापयामि । स्वो न स्वःशब्दः स्वगार्थकः । निश्चयचं देवो यः शुक्र आदित्यः तं स्वाहा स्वर्गोपमानम् । तं स्वाहा तमिममग्निमग्नावेव जुहोमि स्थापयामि । स्वर्ग इव ज्योतिरग्निः, स्वर्गप्रदत्वादग्नेः वग्नि च सन्धाय किंबहुना, तयो: संयोगं कृत्वा सूर्यमुत्तमं । एवमग्नि सूर्य सूर्यमग्नौ सूर्ये च सूर्यमग्ना-सर्वदेवार्थकः । सर्वदेवरूप इव यः सूर्यः तं स्वाहा उत्तमं करोति - स्वर्ण सूर्यः स्वाहेति । स्वो न स्वः शब्दः उत्तमार्थः । सर्वे देवा भ्रान्त्या भिन्ना भासन्ते, वस्तुतः सूर्य एव करोमि नानारूपोऽस्तीतीवशब्दार्थः । अव्ययानामनेकार्थकत्वात् स्वाहाशब्द न्यश्वमेधयोरैक्यं विधाय सर्वदेवेष्वर्कस्योत्तमत्वं कृतमिति भावः ॥ एवं पञ्चाहुतिभि
पृष्ठ 243
पाठ पढ़ें पाठ छिपाएँ
म ०५० ] वेदार्थपारिजातभाष्यसहिता २०७ यद्वा स्व f रवासावादित्यो धर्मोऽतस्तमादित्यमग्नो स्वाहा जुहोमि प्रतिष्ठापयामि | स्वरिव यो sasfree मादित्ये स्वाहा जुहोमि स्थापयामि । स्वरिवासावादित्यः शुक्रस्तं पुनरत्राग्नौ दधामि । स्ववि योऽग्नि-ज्योतिः, तमग्निमादित्ये जुहोमि स्थापयामि । स्वरिवासावादित्यः तमग्नो जुहोमि । एवं पञ्चचितिकोऽयमग्निः स्तूयते । यद्वा स्वर्ण घर्मः स्वाहेत्येतानि अग्नेरेव पञ्च नामानि ' अस्यैवैतान्यग्नेर्नामानि ' ( २० ९ | ४ | २ | २५ ) इति श्रुतेः । अत्र ब्राह्मणम् -'अथाकश्विमेधयोः सन्ततोर्जुहोति । अयं वा अग्निरर्कोऽसावादित्योऽश्वमेधष्ट नानैवास्तां तो देवा एताभिराहुतिभिः समतन्वन् समदधुस्तथैवे नावयमेतदेताभिराहुतिभिः सन्तनोति सन्दधाति ' ( श ० ९ | ४ | २ | १८ ) । अर्काश्वमेधसन्ततिसंज्ञान् होमान् विधत्ते -- अथेति । ननु कावर्काश्वमेधौ? किमर्थं वा तयोः सन्धानसम्पादनमित्याह - अयं वा अग्निरिति । अयमिदानीं संचितोऽग्निरेवाकः । असाविति दूरदेशवर्ती सूर्यो निर्दिश्यते । तस्य चाश्वमेधत्वम् अश्वमेधसम्बन्धिनोऽश्वस्य तदात्मनाऽनुसन्धातव्यत्वात् । तावर्काश्वमेध पूर्वं सन्त पचाद्विभिन्नावभूताम् । अतो देवा एताभिराहुतिभिः पुनरपि तो संसृष्टावकुर्वन् । तथैव यजमानोऽ-प्येन संसृष्टी करोतीत्यर्थः । ' स्वर्ण घर्मः स्वाहेति । असो वा आदित्यो घर्मोऽमं तदादित्यमस्मिन्नग्नो प्रतिष्ठाप यति ' ( श ० ९ | ४ | २ | १ ९ ), ' स्वर्णार्क: स्वाहेति । अयमग्निरर्क इमं तदग्निममुष्मिन्नादित्ये प्रतिष्ठापयति ' ( श ० ९ ४२२० ), ' स्वर्ण शुक्रः स्वाहेति । असो वा आदित्यः शुक्रस्तं पुनरमुत्र दधाति ' ( श ० ९ ४ २ २१ ), ' स्वर्ण ज्योतिः स्वाहेति । अयमग्निर्ज्योतिस्तं पुनरिह दधाति ' ( श ० ९ १४ / २ / २२ ), ' स्वर्ण सूर्यः स्वाहेति । असौ वा आदित्यः सूर्योऽमुं तदादित्यमस्य सर्वस्योत्तमं दधाति तस्मादेषोऽस्य सर्वस्योत्तमः ' ( श ० ९ | ४ | २ | २३ ) | होममन्त्रान् व्याचष्टे - स्वर्ण घर्मः स्वाहेति । ततश्चैतन्मन्त्रसाध्येन होमेनामुमादित्यमस्मिन्नग्नो प्रतिष्ठापयति । स्वरित स्वर्लोक उच्यते । नशब्द इवार्थे । सुखहेतुत्वेन स्वर्लोक इव यो धर्म आदित्यस्तं स्वाहा अस्मिन्नग्नौ जुहोमि, प्रतिष्ठापयामीति मन्त्रस्यार्थः । एवमुत्तरेष्वपि मन्त्रेषु योजनीयम् । ' तं पुनरमुत्र दधाति तं पुनरिह दधाति ' इति मन्त्रद्वयेनान्योन्यस्मिन्नन्योन्यस्य प्रतिष्ठापनादादित्य एवाग्निर्जातः, अग्निरेवादित्यो जातः । तस्मादग्नि-रमुत्रेति दूरदेशवर्ती परामृश्यते । आदित्यस्त्विहेति सन्निहितः परामृश्यते । अमुं तदादित्यमिति - स्वर्ण सूर्यः स्वाहेत्यनेनोपर्यादित्यस्य प्रतिष्ठापनादादित्यमस्य सर्वजगत उत्तममुपरि वर्तमानं निहितवान् भवति । यत एवं तस्मादिदानीमेष आदित्योऽस्य सर्वस्योत्तमो वर्तते । ' पञ्चैता आहुतीर्जुहोति । पञ्चचितिकोऽग्निः पञ्चर्तवः संवत्सरः संवत्सरोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनावेतत्सन्तनोति सन्दधाति ' ( श ० ९ / ४ / २ / २४ ) | आहुतीनां पञ्चत्वसंख्यामश्वमेधयोः सन्धान साकल्य हेतुर्भवतीति प्रशंसति - पञ्चैता आहुतीरिति । अध्यात्मपक्षे - स्वः सुखं ब्रह्मात्मकं न निश्चप्रचं धर्म आदित्यः, ब्रह्मवादित्य इत्यर्थः । तस्मै स्वाहा सर्वस्वनिवेदनमस्तु । स्वः सुखात्मकं ब्रह्मैवार्कोऽग्निः, तस्मै स्वाहा । स्वः सुखात्मकं ब्रह्मैव शुक्रः सर्वोऽपि दीप्तिमान् पदार्थः । तस्मै स्वाहा । स्वः सुखात्मकं ब्रह्मैव ज्योतिः, आन्तरं चक्षुरादि बाह्यमादित्यादि च । तस्मै स्वाहा । दयानन्दस्तु - ' हे मनुष्याः, यथा स्वाहा सत्यया क्रियया सुखमिव धर्मस्तापः स्यात् यथा स्वाहा स्वरि अर्कोऽग्निः स्यात् स्वाहा यथा सत्यक्रियया सुखमिव शुक्रो वायुः स्यात् स्वाहा सत्यक्रियया सुखमिव ज्योतिः स्यात्, स्वाहा सत्यक्रियया सुखमिव सूर्यो भवेत्, तथैव यूयमप्याचरत ' इति तदपि यत्किञ्चित् कस्य सत्यक्रियया कया विधया च घर्मादिः सुखतुल्यो भवतीत्यनुक्तेः । मनुष्याणां सत्यक्रिययेति चेत्, तेष्वसत्क्रियाया अपि सत्त्वेन तथा दुःखतुल्यत्वस्याप्युपपत्तेः, तथात्वे च मनुष्यादिभ्यस्तेषु विशेषानुपपत्तेः । भावार्थस्तु सर्वथा मन्त्राक्षरासम्बद्ध एव ॥ ५० ॥
पृष्ठ 244
पाठ पढ़ें पाठ छिपाएँ
२०८ शुक्लयजुर्वेद संहिता अ॒ग्नयेनज्म शव॑सा घृ॒तेन॑ दिव्य संपर्णं वय॑सा बृहन्तम् । S तेन॑ वयं गंमेम ब्रध्नस्य॑ विष्टप॒ स्वोरुणा अधि॒ना कंमुत्तमम् ॥ ५१ ॥
[ अ ० ] १८ मन्त्रार्थ - स्वर्ग में वर्तमान सुन्दर गति वाले धुएँ से ढके हुए अग्निदेव को मैं बल और घृत से हूँ । इनकी सहायता से हम आदित्य लोक में जाकर उसके ऊपर स्वर्ग में जाते हुए उत्तम दुःखरहित लोक संयुक्त को करता करें ॥ ५१ ॥
प्राप्त ' अग्नियोजनं प्रातरनुवाकमुपाकरिष्यन् परिधीनालम्भ्य यथापूर्वमग्नि युनज्मीति प्रत्युचम् ' ( का ० श्रो ० १८/६/१७ ) । प्रातरनुवाकोपाकरणात् प्राग् यथापूर्वमित्युपधानक्रमेण ऋत्रयेण प्रत्येकं परिधीनग्नियोजनं करोतीति सूत्रार्थः । अत्र ब्राह्मणम् -- ' अथ प्रातः प्रातरनुवाकमुपाकरिष्यन् । अग्नि युनक्ति युक्तेन समश्नवा इति तेन युक्तेन सर्वान् कामान् समश्नुते तं वै पुरस्तात् सर्वस्य कर्मणो युनक्ति तद्यत् किश्चात ऊर्ध्वं क्रियते युक्ते तत्सर्व समाधीयते ' ( श ० ९ | ४ | ४ | १ ) । औपवसथ्य दिवसप्रयोगमभिधाय सुत्याहप्रयोगं विवक्षुः प्रथममग्नियोगं विधत्ते - अथ प्रातरिति । प्रातर्यावभ्यो देवेभ्योऽनुब्रूहीत्येवं सम्प्रेषः । प्रातरनुवाकस्योपाकरणम्, तत्करिष्यन् प्रातरनुवाकोपाकरणात् प्राग् युक्तेनाग्निना सर्वान् कामान् प्राप्नवानीत्यभिप्रायेणाग्नि युनक्ति । यथा लोके नियुक्ताश्वेन रथेन जिगमिषित-प्रदेशान् गच्छति, तद्वन्नियमितेनानेन सर्वान् कामानाप्नवानीति यजमानोऽध्वर्युमुखेनाग्नि नियच्छतीत्यर्थः येनाभिप्रायेणैनं युनक्ति सोऽभिप्रायस्तथैव फलतीत्याह - युक्तेन सर्वान् कामानिति । तन्नियोजनस्य सर्वस्मादपि । कर्मणः पूर्वत्वं प्रशंसति तं वै पुरस्तादिति । तत् तस्मिन्नहनि । अत ऊर्ध्वं यत् किञ्च कर्म क्रियते, तत्सर्वं युक्त एवाग्नौ सम्यग् आधीयते । लोके हि नियुक्ते रथादौ निहितेन जिगमिषितप्रदेशस्य गमनात्, तद्वदेव युक्तेऽग्नो समाहितं सर्वकामा समर्थं भवतीति युक्त एवाग्नौ समाहितं भवतीत्यर्थः । ' परिधिषु यत्परिधयोऽग्निभिरेव तदग्न युनक्ति ' ( श ० ९ / ४ / ४ / २ ) । विहितोऽयमग्नियोगः कुत्र कर्तव्य युनक्ति इति । अग्नय तत्राह एते परिधिष्विति । परिधीनामग्नित्वमग्निभ्रात्रात्मकत्वात् । तथा चाह तित्तिरिः -- अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् - ' इत्युपक्रम्य ' अथो खल्वाहुरेते वावेनं ते भ्रातरः परिशेरे यत्पौतुद्रवाः परिधय इति ' ( तै ० सं ० ६२/८/६ ) इति । ' स मध्यमं परिधिमुपस्पृश्य । एतद्यजुर्जपत्यग्नि युनज्मि शवसा घृतेनेति ' ( श ० ९ ४१४१३ ) | परिधिषु नियोजन-मपि कथं कुर्यादिति तत्राह - स मध्यपमिति । सोऽध्वर्युर्मध्यमं परिधिमुपस्पृश्यानि युनज्मि शवसा घृतेनेति पेत् । -अथ मन्त्रव्याख्यानम् - अग्निदेवत्यास्तिस्र ऋचः । द्वे त्रिष्टुभौ तृतीया पक्तिः । दिव्यं दिवि भवो दिव्यस्तम् | ' धुप्रागपागुदक्प्रतीचो यत् ' ( पा ० सू ० ४/२/१०१ ) इति यत् । सुपर्णं सुष्ठु शोभनं पर्णं पतनं गमनं यस्य स सुपर्णस्तम् । वयसा धूमेन बृहन्तं महान्तम् । तमग्न शवसा बलेन घृतेन युनज्मि युक्तं करोमि । वह्निर्धूमेन महान् भवति, ' अग्नेर्चे धूमो जायते धूमादभ्रमभ्राद् वृष्टि: ' ( ०५/३/५/१७ ) इति श्रुतेः । किञ्च तेन युक्तेनाग्निना वयं ब्रध्नस्य आदित्यस्य विष्टपं विगततापं लोकं गमेम गच्छेम । ' लिङया शिष्यङ् ' ( पा ० सू ० ३ | ११८६ ) इति गमेराशीलिङि अङ्प्रत्यये उत्तमपुरुषबहुवचने रूपम् । सर्वद्वन्द्वापहं सर्वतापरहितं सौरं लोकं वयं गच्छेत्यर्थः । ततोऽप्यधि अधिकम् उपरि ब्रध्नविष्टपोपरिष्टात् स्वो रुहाणाः स्वर्गं लोकमारोहन्तः सन्त उत्तमं नाकं यत्र गताः कथमपि अकमसुखं दुःखं न लभन्ते तादृशं गमेम गच्छेम । अत्र ब्राह्मणम् -'अग्नि युनज्मि शवसा घृतेनेति बलं वे शवोऽग्नि युनज्मि बलेन च घृतेन चेत्येतद्दिव्य सुपर्णं वयसा बृहन्तमिति दिव्यो वा एष सुपर्णो वयसा बृहन्धूमेन तेन वयं गमेम ब्रध्नस्य विष्टप स्वो शहाणा अधिनाकमुत्तममिति स्वर्गो वै लोको नाकस्तेन वयं गमेम ब्रध्नस्य विष्टपं स्वर्ग लोक रोहन्तोऽधि-
पृष्ठ 245
पाठ पढ़ें पाठ छिपाएँ
म ० ५१-५२ ] वेदार्थपारिजातभाष्यसहिता २० ९ नाकमुत्तमम् ' ( श ० ९ | ४ | ४१३ ) एतं मन्त्रं व्याचष्टे - बलं वे शव इति । वयसेत्यस्य व्याख्यानं धूमेनेति । तथा च दिवि भवं शोभनपतनं वयसा धूमेन बृहन्तमग्नि बलेन च घृतेन च युनज्मि । तेन युक्तेनाग्निना वयं नाकं सुखहेतुभूतमत एवोत्तमं स्वः स्वर्गं लोकमधिरुहाणाः सन्तस्तदर्थं ब्रध्नस्य सूर्यस्य विष्टपं गमेम गच्छेमेति । अत्र ब्राह्मणम् -'अथ दक्षिणे । इमी ते पक्षावजरौ पतत्त्रिणी याभ्यां रक्षांस्यपह Û स्यग्ने । ताभ्यां पते सुकृतामु लोकं यत्र ऋषयो जग्मुः प्रथमजाः पुराणा इत्यमूनेतदृषीनाह ' ( २० ९ १४१४१४ ) । परिधानक्रमेण प्रथमपरिधौ प्रथमं युक्त्वा, अथ दक्षिणपरिधौ इमौ ते पक्षा इत्यादिमन्त्रं जपति । मन्त्रे ऋषय इति ऋषिशब्देन षष्ठ काण्डस्य आदावभिहितान् ऋषीनाहेति व्याचष्टे - अमूनेतदिति । अध्यात्मपक्षे- दिव्यं दिवि स्वप्रकाशस्वरूपे भवं सुपर्णं शोभनपतत्रोपेतसुपर्णोपलक्षितं परमात्मानम्, गरुत्मानपि परमेश्वर एवेति, ' एकं सद्विप्रा बहुधा वदन्ति ' ( ऋ ० सं ० १११६४ | ४६ ) इति मन्त्रवर्णात् । वयसाऽ-वस्थया बृहन्तं पुराणम्, अनादिमिति भावः । तथाविधमग्निमग्रे नेतारं युनज्मि मनसा चिन्तयामि । तेन चिन्तितेन वयं नाकं स्वर्गं गमेम । ततोऽधिरुहाणा ब्रध्नस्य सूर्यस्य विष्टपं सर्वदुःखातीतं मोक्षं गमेमेति । दयानन्दस्तु — ' अहं वयसा बृहन्तं दिव्यं सुपर्णमग्नि शवसा घृतेन युनज्मि । तेन स्वोरुहाणा वयं नस्य विष्टपमुत्तमं नाकमधिगमेम ' इति, तदपि यत्किञ्चित् कोऽयं नियोक्तेत्यनिरुक्तेः । न स परमेश्वरो भवितुमर्हति तस्योत्तमलोकप्रेप्सानुपपत्तेः । नापि जीवः, तस्याग्नेनियोक्तृत्वानुपपत्तेः । न च घृतादिहोम एव तन्नियोजकः, त्वद्रीत्या तेन स्वर्गादिलोकप्राप्त्यसम्भवात्, वायुशुद्धेरेव त्वया तत्फलत्वाभ्युपगमात् ॥ ५१ ॥
इम ते पक्षावरौं ' पतत्रिणौ याभ्या रक्षस्या॑प॒ह॒स्य॑ग्ने ।
ताभ्यां पते सुकृता॑ लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पुराणाः ॥ ५२ ॥
मन्त्रार्थ - हे अग्निदेव! तुम्हारे ये दोनों दाहिने बायें पंख जरारहित उड़ने वाले हैं । इनकी सहायता से ही तुम राक्षसों को नष्ट करते हो । हम उनकी सहायता से पुण्यात्माओं के लोकों में जाने में समर्थ हों, जहाँ कि प्रथम उत्पन्न पुरातन ऋषि गये हैं ॥ ५२ ॥
हे अग्ने, यौ ते तव इमौ उत्तरदक्षिणी पक्षी अजरौ, नास्ति जरा ययोस्तो, अजीर्णौ । सदा नवाविति यावत् । पतत्रिणी पतति गच्छति येन तत् पतत्त्रम्, ' अमिनक्षिय जिवधिपतिभ्योऽत्रन् ' ( उ ० ३।१०५ ) इत्यत्रन् -प्रत्ययेन साधुः । पतत्त्रमस्ति ययोस्ती उत्पतनशीलौ । याभ्यां पक्षाभ्यां त्वं रक्षांसि श्रेयः परिपन्थितो राक्षसान् पाप्मनश्च हंसि विनाशयसि । उ एवार्थे । ताभ्यामेव पक्षाभ्यां वयं सुकृतां पुण्यकृतामेव लोकं पतेम उत्पतेम । यत्र प्रथमजाः प्रथमोत्पन्नाः पुराणा ऋषयो मन्त्रद्रष्टारो जग्मुः । चित्याग्निरेवात्र सम्बोध्यते, सुपर्णचितिरूपेण चयनात् तस्य पक्षपुच्छात्मादीनां चितत्वात् । अध्यात्मपक्षे – हे अग्ने गरुत्मन् भगवन्, इमौ ते पक्षी अभीष्टगमनसाधनी, अजरो जरारहितो । शेषं पूर्ववद् व्याख्येयम् । दयानन्दस्तु - ' हे अग्ने अग्निवत्प्रतापशालिन्, ते तव इमौ पतत्रिणी अजरौ कार्यकारणरूपौ याभ्यां रक्षांसि दुष्टान् दोषान् वा हंसि ताभ्यामु तं सुकृतां लोकं वयं पतेम, यत्र प्रथमजा ऋषयो जग्मुः ' इति, तदपि यत्किञ्चित् एतस्यार्थस्य खपुष्पायितत्वात् । मनुष्यस्य को पक्षी? काभ्यां स रक्षांसि हन्तीत्यादेरप्रसिद्धत्वात् । नहि कार्यकारणे पक्षी भवतः, न च ते उत्पतनसाधने । सिद्धान्ते तु पक्षिरूपेण चयनयागेऽग्नेश्चितत्वात् प्रत्यक्षावेव तस्य पक्षौ, ताभ्यामेव दुष्टानां हननं सुकृतां स्वर्गगमनं च प्रसिद्धमेव ॥ ५२ ॥
२७
पृष्ठ 246
पाठ पढ़ें पाठ छिपाएँ
२१० शुक्लयजुर्वेदसंहिता [ अ ०१८
इन्दुर्दक्षं श्ये॒न ऋतावा॒ हिर॑ण्यपक्षः शकुनो भ॑र॒ण्युः ।
महान् स॒धस्थे ' ध्रुव आ निष॑तो॒ नम॑स्ते अस्तु मा म हि ü सोः ॥ ५३ ॥
, आकाश में बाज पक्षी के मन्त्रार्थ - हे अग्निदेव | आप चन्द्रमा के समान आनन्द के दाता, उत्साहयुक्त के रूप में सबके , पक्षी के समान फैले पंखों वाले, जठराग्नि समान वेग से उड़ने वाले, सत्यसम्पन्न, सुवर्णमय पंख वाले हैं । आपको हम बारंबार प्रणाम करते हैं । आप हमें बिना पोषक, बड़े प्रभाव वाले, सर्वदा स्थिर ब्रह्म के स्थान में स्थित किसी प्रकार की पीड़ा पहुँचाए हमारी रक्षा कीजिये ॥ ५३ ॥
इदि परमैश्वर्ये ', दक्ष हे अग्ने, यस्त्वमिन्दुः इन्दति ईष्टे इति इन्दुरीश्वरः, चन्द्रवदाह्लादको इत्यस्मात् ' श्यास्त्याहुञविभ्य वा ' इनच् ' ( उ ० उत्साहवान् । श्येनः, श्यायत इति श्येनः प्रशस्तगतिः, ' श्यैङ् गतौ ' ऋतावान् ऋतं सत्यं यज्ञ उदकं वा २।४७ ) इति रूपसिद्धिः । श्येनपक्षिवदाकाशचारित्वाद्वा श्येनः । ऋतावा ' शरादीनां च ' ( पा ० सू ० ६ | ३ | १२० ) अस्यास्तीति ऋतवान्, ' संहितायाम् ' ( पा ० सू ० ६ | ३ | ११४ ) इत्यधिकारे निहितैर्हिरण्यशकलैहिरण्यरूपो इति दीर्घः, छान्दसत्वात् शरादीनामाकृतिगणत्वम्, ऋतावा । हिरण्यपक्षस्तत्र भुरण्यु: । ' कन्युच् क्षिपेश्व ' ( उ ० ३।५१ ) पक्षो यस्य सः । अथवा अमृतपक्षः । शकुनः पक्ष्याकारः । भुरण्युः बिभर्तीति सधस्थे सह तिष्ठन्ति यत्रेति सधस्थम् । ' सध इति कन्युच्प्रत्ययः, पोषक इत्यर्थः । महान् प्रभावतः श्रेष्ठः, ब्रह्मणा सहाविभक्ते स्थाने ध्रुवः स्थिरः । मादस्थयोश्छन्दसि ' ( पा ० सू ० ६ / ३ / ९ ६ ) इति सहशब्दस्य सधादेशः छन्दसि । ' ( पा ० सू ० ८ २६१ ) इति निपातितः । आनिषत्त आसमन्ताद् निषण्ण: । ' नसत्तनिषत्तानुत्तप्रतूर्त सूर्तगूर्तानि एवंविधो योऽग्निस्तस्मै ते तुभ्यं नमोऽस्तु । मा माम्, मा हिंसीः । अत्र ब्राह्मणम् –'अथोत्तरे । इन्दुर्दक्षः श्येन ऋतावा हिरण्यपक्षः शकुनो, सीरित्यात्मनः भुरण्युरित्यमृतं परिदां वै हिरण्य- वदते ' ममृतपक्षः शकुनो भर्तेत्येतन्महान् सवस्थे ध्रुव आनिषत्तो नमस्ते अस्तु मा मा हिथं अथेति । शेषं स्पष्टम् । परिदा ( श ० ९ | ४ | ४ | ५ ) । अथोत्तरपरिधी ' इन्दुर्दक्षः श्येनः ' इत्यनेन मन्त्रेण युञ्ज्यादित्याह -उपयाचना, ' मनौती ' इति भाषायाम् । अध्यात्मपक्षे - हे अग्ने परमेश्वर, यस्त्वमिन्दुः परमैश्वर्यसम्पन्न ईश्वरो गरुत्मानेवात्रापि स्तूयसे | पूर्ववदेव व्याख्यानम् । दयानन्दस्तु - ' हे विद्वन् सभेश, यस्त्वमिन्दुश्चन्द्रवच्छीतलो दक्षश्वतुरः श्येनवत्पराक्रम सधस्थे ऋतावान् निषत्तो सत्यसम्बन्धो हिरण्यपक्षो हिरण्यलाभ: शकुनः शक्तिमान् भुरण्युः सर्वभरणशीलः सर्वबृहत् । लक्षणादि-ध्रुवो मा हिसौः, तुभ्यं नमः ' इति तदपि यत्किञ्चित् सम्बोधनस्य निष्प्रमाणकत्वात्, गौणार्थाश्रयणात् बीजाभावाच्च ॥ ५३ ॥
दिवो मूर्धासि पृथिव्या नाभि॒रू॒रू॒पामोष॑धीनाम् ।
विश्वायुः श स॒प्रथा॒ नम॑स्प॒थे ॥ ५४ ॥
मन्त्रार्थ - हे अग्निदेव! आप स्वर्ग के मस्तक रूप और पृथ्वी के नाभिरूप हैं, अर्थात् आपके कारण ही सारे जीव जीवित रहते हैं । आप जल तथा औषधियों के सार हैं, विश्व भर के जीवन हैं, सबके शरणदाता तथा सब मार्गों में वर्तमान हैं! आप प्राणियों को स्वर्ग का मार्ग दिखाते हैं । हम आपको प्रणाम करते हैं ॥ ५४ ॥
पृष्ठ 247
पाठ पढ़ें पाठ छिपाएँ
म ० ५४ ] वेदार्थ पारिजातभाष्यसहिता २११ ' आग्निमारुतस्तोत्रपुरस्ताद्विमोचनं परिधिषन्ध्योदिवो मूर्धेति प्रत्यृचम् ' ( का ० श्र ० ९ ८ | ६ | १८ ) | अग्निमारुतस्तोत्रस्य यज्ञायज्ञियस्य प्राग् दिवो मूर्धेति ऋग्द्वयेन दक्षिणोत्तरयोः परिधिसन्ध्योरुपस्पर्श कृत्वा अग्निविमोचनं कुर्यादिति सूत्रार्थः । अत्र ब्राह्मणम् -'अथैनं विमुञ्चति । आप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते यज्ञायज्ञिय स्तोत्र-मुपाकरिष्यन् स्वर्गो वे लोको यज्ञायज्ञियमेतस्य वै गत्या एनं युङ्क्ते तदाप्त्वा तं कामं यस्मै कामायैनं युङ्क्ते ' ( श ० ९ | ४ | ४ | १० ) । अग्नेविमोचनं विधत्ते - अथैनमिति । यस्यै कामाय एनं युङ्क्ते तं काममाप्त्वा एवं विमुञ्चेत् । एतस्य विमोचनस्य कालविशेषप्रदर्शनद्वारा तमेव क्रमं दर्शयति-- यज्ञायज्ञियमिति । यज्ञायज्ञियं स्तोत्रमुपाकरिष्यन्नेनमग्नि विमुञ्चेत् । कुतः? यज्ञायज्ञियं स्तोत्रं स्वर्गो लोकः खलु । स्वर्गलोकस्य गत्यै एवैनमग्नि युङ्क्ते । अतश्च यज्ञायज्ञियलक्षणस्य स्वर्गस्य प्राप्तेर्यस्मै स्वर्गलोकप्राप्तिलक्षणाय कामाय एनं युङ्क्ते, तस्य कामस्याप्तत्वादस्मिन्नवसरे विमुञ्चेदित्यर्थः । ' तं वै पुरस्तात् स्तोत्रस्य विमुञ्चति । स यदुपरिष्टात् स्तोत्रस्य विमुञ्चेत् पराङ् हैत, स्वर्ग लोकमतिप्रणश्येदथ यत्पुरस्तात् स्तोत्रस्य विमुञ्चति तत्सम्प्रति स्वर्गं लोकमाप्त्वा विमुञ्चति ' ( श ० ९ २४ | ४ | ११ ) | यदि स्तोत्रादुपरि विमुञ्चेत् तदा एनं यज्ञायज्ञियलक्षणं स्वर्गं लोक-मतिक्रम्य पराङेव भूत्वा प्रणश्येत् । अथ यदि स्तोत्रात् पूर्वं विमुञ्चेत्, तदा साम्प्रतमनतिक्रमणेन युक्तमेव स्वर्गं लोकमाप्त्वा विमुक्तवान् भवति । ' परिधिषु विमुञ्चति । परिधिषु ह्येनं युनक्ति यत्र वाव योग्यं युञ्जन्ति तदेव तद्विमुञ्चति ' ( श ० ९ | ४ | ४ | १२ ) । लोके यत्राश्वं युञ्जन्ति तत्रैव तं विमुञ्चन्ति अतोऽत्राप्यग्नेः परिधिषु योज-नात् तत्रैवैनं विमुञ्चेदित्याह -- परिधिष्विति । ' स सन्ध्योरुपस्पृश्य । एते यजुषी जपति तथा द्वे यजुषी त्रीन् परिधीननु विभवतो दिवो मूर्धासि पृथिव्या नाभिरिति दक्षिणे विश्वस्य मूर्धन्नधितिष्ठसि श्रत इत्युत्तरे मूर्धवतीभ्यां मूर्धा ह्यस्यैषोऽप्सुमतीभ्यामग्ने रेतद्वैश्वा-नरस्य स्तोत्रं यद्यज्ञियायज्ञिय, शान्तिर्वा आपस्तस्यादप्सुमतीभ्याम् ( श ० ९ | ४ | ४ | १३ ) । तद्विमोचनप्रकारमाह— स सन्ध्योरिति । सोऽध्वर्युः परिधिसन्ध्योरुपस्पृश्य एते दिवो मूर्धासीत्यादिके यजुषी जपेत् । नतु विमोचनमपि योजनवत्परिधिमध्यमुपस्पृश्यैव कस्मान्न क्रियते? तत्राह - तथा द्वे यजुषी इति । पूर्वं त्रिभिर्मन्त्रस्त्रिष्वपि परिधि-ष्वग्नेर्युक्तत्वात् तथैव विमोचनमपि कर्तव्यम्, तत्त्वत्र न सम्भवति, मन्त्रयोद्वित्वेनापर्याप्तत्वात् । ततश्च परिधिसन्ध्योः संस्पर्शे त्रयाणामपि परिधीनां संस्पर्शाद् द्वे एव यजुषी त्रीन् परिधीन् प्रति पर्याप्ते भवतः । कस्मिन् सन्धौ कं मन्त्रं जपेदित्याकाङ्क्षायामाह - दिवो मूर्धासीति । मन्त्रयोर्मूर्धशब्द सम्बन्धं प्रशंसति - मूर्धवतीभ्यामिति । अस्या-ग्नेरेष विमोचनलक्षणः प्रयोगो मूर्धा, अर्थाद् सूर्धवत् सर्वस्याप्युपरितनः । अतश्च मूर्धशब्दयुक्ताभ्यामृग्भ्यामस्य विमोचनमुपपन्नम् । तथैवाप्सुशब्द सम्बन्धमपि प्रशंसति -- अप्सुमतीभ्यामिति । अत्रोत्तरमन्त्रेऽप्सुशब्दप्रयोगादुपचारेण प्रथममन्त्रस्य अप्सुमत्त्वमित्यप्सुमतीभ्यामित्युक्तम् । एतद्यज्ञायज्ञियं स्तोत्रं वैश्वानरस्याग्नेः सम्बन्धि तद्देवत्यत्वात् । अनेनास्य शान्तत्वमुक्तम् । आपस्तु दहनादीनां शान्तिहेतुत्वात् शान्तिः खलु । तस्माद्यज्ञायज्ञिये स्तोत्रे कर्तव्यं विमोचनमप्सुमतीभ्यामृग्भ्यां क्रियते । अथ मन्त्रव्याख्यानम् — आग्नेयी परोष्णिक् । आद्यावष्टको तृतीयो द्वादशो यस्यां सा त्रिपादा परोष्णिक् । अत्राद्यो दशकः, द्वितीयः सप्तकः, तृतीयो द्वादशक:, तेन एकाधिका । हे अग्ने, त्वं दिवो द्युलोकस्य मूर्धा उत्तमाङ्ग स्थानीयः । पृथिव्या नाभिः पृथिवीलोकस्य नाभिर्नहनम् । नह्यति बध्नाति जोवनेनेति नाभिः, ' नहो भव ' ( उ ० ४।१२७ ) इति इञ्प्रत्ययः, भान्तश्चादेशः, उपधावृद्धिः । पृथ्वीलोकगतजीवानामग्निनिब-न्धनत्वादिति भावः । अपां जलानामोषधीनां व्रीह्यादीनां च ऊर्ग, रसः, अर्थात् साररूपोऽसि । विश्वायुः, विश्वं सर्वमायुर्यस्य सः, बहुजीवन इत्यर्थः । यद्वा विश्वेषां सर्वषां प्राणिनामायुर्जीवनम्, तदधीनजीवनत्वात् तेषा-
पृष्ठ 248
पाठ पढ़ें पाठ छिपाएँ
२१२ शुक्लयजुर्वेदसंहिता | अ ० १८ मिति भावः । शर्म शरणभूतः सर्वेषाम् । सप्रथाः प्रथनं प्रथः प्रथसा नवच्छिन्नप्रभावः । यस्त्वमीदृशोऽसि, तस्मै ते तुभ्यं पथे स्वर्गमार्गरूपाय सह वर्तमानः सप्रथाः, तिर्यगूर्ध्वमधश्वा-देवयानमार्गस्य । नमो नमस्कारोऽस्तु | अग्निप्रमुखत्वाद्धि अध्यात्मपक्षे - परमेश्वरस्य अग्निरूपेण स्तुतिः सर्वात्मकत्वात् ।व्याख्यानं तु पूर्वचदेव! दयानन्दस्तु - ' हे विद्वन् यस्त्वं दिवो मूर्धा पृथिव्या नाभिरपामोषधीनामूर्गिति स त्वं पथे नमः शर्म च प्राप्नुहि । प्रकाशस्य शिर इव वर्तमानः पृथिव्या विश्वायुः सप्रथा असि गौणार्थाश्रयणस्यैव दूषणत्वात् । न च कश्चन मनुष्यस्तादृशः सम्भवति, चेतनाया बन्धनमिव ' इति, तदपि यत्किञ्चित् नभ्युपगमादित्यव्यवस्था || ५४ || विग्रहवत्या देवतायाश्च त्वयाऽ-विश्वस्य मूर्धन्नधितिष्ठसि श्रुतः स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वायु॑र॒पो व॑त्तोद॒ध दि॒वस्प॒र्जन्या॑द॒न्तरि॑क्षात् पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑व ॥ ५५ ॥ भिन्त ।
मन्त्रार्थ - हे सूर्यरूप अग्निदेव! आप सुषुम्ना में के समान जगाव है, आप जल के जीवनदाता हैं । द्युलोक व्याप्त होकर सबके सिर में स्थित हैं, आपका हृदय समुद्र लाकर वर्षा के द्वारा हमारी रक्षा करें, मेघ को विदीर्ण कर से मेघ से, अन्तरिक्ष से, भूमि से, जहाँ भी जल हो, वहाँ से हमें जल प्रदान करें ॥ ५५ ॥
आग्नेयी महापङ्क्तिर्जगतो । आद्यः पञ्चाक्षरः, द्वितीयः नवकः, षष्ठो नवक: - एवमष्टाचत्वारिशदर्णा महापक्तिः । हे अग्ने सप्तकः, तृतीयो दशकः, चतुर्थोऽष्टकः, पञ्चमो मूर्ध्नि शिरसि, अधितिष्ठसि सर्वषामुपरि, यस्त्वं विश्वस्य सर्वस्य प्राणिजातस्य मूर्धन् सूर्यरूपेण दीप्यस इत्यर्थः । यस्त्वं श्रत आश्रितो नाडी वा । यस्य ते हृदयं मध्यभागः समुद्रे सम्यग् उनत्ति बुद्धि सुषुम्नां तस्मिन् त्रिलोकव्यापिनीत्यर्थः । यस्य तेऽप्सु जलेषु जल: क्लिन्नो भवतीति समुद्रोऽन्तरिक्षम्, वृक्षा जायन्ते, ततोऽग्निरित्यग्नेर्जलाधीनजीवनत्वम् । आयुर्जविनं जलाधीनं तव जीवनमिति यावत् । जलाद् उदधि भिन्त उदकानि धोयन्तऽस्मिन्नित्युदधिः, तं उदकानि त्वा याचे । अपो दत्त देहि । व्यत्ययाद् बहुवचनम् । ( पा ० सू ० ६ | ३ | ५८ ) इत्युदकशब्दस्य उदादेशः, मेघः, तं भिन्त दवाति वेत्युदधिः, ' पेपवासवाहनधिषु च ' बहुलम् ' ( पा ० सू ० ३ | १ | ८५ ) इति वचनव्यत्ययः | ३ अग्ने, ततो मेघविदारणनिमित्ताद् भिन्धि विदारय । अत्रापि व्यत्ययो पर्जन्याद् वृष्ट्यभिमानिता देवात् तताऽन्तरिक्षाद् मेघस्थानविशेषात् दिवः सम्बन्धिनः नोऽस्मानव पालय । यद्वा दिवो द्युलोकात् पर्जन्याद् मेघाद् पृथिव्याः पृथिव्यं वृष्टि देहि । तथा वृष्ट्या वा यत्र जलं ततः प्रदेशात्तज्जलमादाय वृष्टि कृत्वा नोऽस्मान् अन्तरिक्षाद् आकाशात् पृथिव्या वा सकाशाद् अन्यत्र अव पालय । • अध्यात्मपक्षे -- हे अग्ने परमेश्वर, त्वं सर्वात्मत्वाद् विश्वस्य वत् सर्वोपरि वर्तसे । त्वं च श्रितः सर्वस्य बुद्धिमाश्रित्य साक्षिरूपेण सर्वस्य मूर्धन् मूनि अधितिष्ठसि उत्तमाङ्ग-न्तरिक्षे हृदयम्, अप्सु आयुर्जीवनम् स त्वमिन्द्ररूपेण उदकं मेघ भिन्धि स्थितः । यस्य ते तव विरारूपस्य समुद्र-पृथिव्यं नोऽस्मभ्यमपो जलानि देहि । तया वृष्ट्या नोव पालय । 3 । दिवः पर्जन्यादन्तरिक्षात् पृथिव्याः दयानन्दस्तु -- ' हे विद्वन्, यस्त्वं विश्वस्य मूर्धन् सूर्य इव व्याप्ते परमेश्वरं हृदयं मनः प्राणेषु आयुर्जीवनम् स त्वमपः अधितिष्ठसि यस्य ते समुद्रेऽन्तरिक्षवद् सागरं भिन्त । यतः सूयों दिवोऽन्तरिक्षात् पृथिव्या वृष्ट्या सर्वानवति प्राणान् दत्त ददासि । उदधिम् उदकधारकं मनुष्येषु तादृशसामर्थ्यादर्शनात् । उदधिभेदनेन अन्तरिक्षात् को वृष्टि सम्पादयति ततो नोऽव ' इति, तदपि विशृङ्खलमेव, दुष्करम् । यो जलनदीमपि न प्रवर्तयितुं शक्नोति स घृतदुग्वनदोः प्रवर्तयिष्यतीति? कः सूर्यवत्सुखवर्षणं प्रतीयात् तु ततोऽपि ॥ ५५ ॥
पृष्ठ 249
पाठ पढ़ें पाठ छिपाएँ
म ० ५६-५७ ] वेदार्थं पारिजातभाष्यसहिता २१३ इ॒ष्टो य॒ज्ञो भृग॑भिराशीर्दा वसु॑भिः । तस्य॑ न इ॒ष्टस्य॑ प्रा॒तस्य॒ द्रविणे॒ हाग॑मेः ॥ ५६ ॥
मन्त्रार्थ - धन के देवता! तुम हमारे मित्र और प्रेमी इस यजमान के यहां आओ । इच्छित वस्तु को देने वाला यह यज्ञ ब्राह्मण और देवताओं के द्वारा पूरा किया गया है ॥ ५६ ॥
' अध्वरसमिष्टयजुरन्त इष्टो यज्ञ इति प्रत्युचमपरे ' ( का ० श्री ० १८/६/२० ) | ' समिन्द्र णो मनसा ' ( वा ० सं ० ८/१५ ) इति प्रारभ्य ' माहिर्भूर्मा पृदाकुः । उरु हि राज ' ( वा ० सं ० ८ ( २३ ) इति यावन्नव अध्वरसमिष्ट-यजूंषि । समिष्टयजुः संज्ञक होमानन्तरमिष्टो यज्ञः इष्टो अग्निरिति द्वाभ्यामपरे द्वे आग्निके समिष्टयजुषी जुहुयादिति सूत्रार्थः । यज्ञदेवत्या गालवदृष्टा उष्णिक्, अष्टाविंशत्यक्षरत्वात् । अध्वर्युर्यजमानविषयामाशिषं कुर्वन्नाह द्रव्यं प्रति - हे द्रविण द्रव्य, तस्य यजमानस्य इह गृहे त्वमागमे रागच्छेः । आङ्पूर्वाद् गमेर्लिङि मध्यमैकवचने छत्वाभावे रूपम् । कीदृशस्य यजमानस्य नोऽस्माकमिष्टस्य प्रियस्य । पुनः कीदृशस्य? प्रीतस्य अस्मासु स्निग्धस्य । तस्य कस्य? तत्राह -- यस्य यजमानस्य यज्ञो भृगुभिर्भृगुगोत्रैर्ब्राह्मणैः वसुभिर्वस्वादिदेवैश्व इष्टः सम्पादितः । कीदृशो यज्ञः? आशीर्दाः, आशिषोऽभिलषितपदार्थान् ददातीत्याशीर्दाः । विप्रैर्देवैर्यस्य यज्ञः कृतः, तस्य गृहे त्वमागत्य सर्वदा तिष्ठेत्यर्थः । यद्वा यस्यास्य यजमानस्य भृगुभिर्भृगुप्रमुखैर्वसुभिर्वस्वादिदेवैश्च यज्ञः क्रतुरिष्टः सम्पादितः कीदृशो यज्ञः? आशिषामभिलषितपदार्थानां दाता पूरक:, तस्यास्य यजमानस्य नोऽस्माकमिष्टस्य अभिप्रेतस्य प्रियस्य प्रीतस्य अस्मासु स्निग्धस्य । याज्ययाजकयोः परस्परमनेन स्नेहः ख्याप्यते । इदानीं द्रविणमाह - हे द्रविण, इह यजमाने आगमेरागमनं कृथाः । स्थानमिदं धनानामित्यभिप्रायः । यद्वा भृगुभिरार्षेयैर्ब्राह्मणैरिष्टो यज्ञः सम्पादितः । वसुभिराशोर्दाः, विभक्तिव्यत्ययेन वसवो देवा आशिषां प्रदातारः । सोऽस्माकमिष्टः प्रीतश्च सन् द्रविणमिहावर्तस्व । परोऽर्धर्चो विभक्तिव्यत्ययप्रायः । अध्यात्मपक्षे -- गुरुराह हे द्रविणस्वरूपभगवन्, ' त्वमेव विद्या द्रविणं त्वमेव ' इति शिष्टोक्तेः । तस्य यजमानस्य इह अस्मिन् गृहे आगमेरागमनं कृथाः । यस्य यज्ञो भृगुभिरिष्टो वसुभिश्चेष्टः । कीदृशो यज्ञः? आशीर्दा अभीष्टफलप्रदः । तस्य न इष्टस्य प्रियस्य प्रीतस्य स्निग्धस्य भक्तस्य इह गृहे । यद्वा हे यज्ञ विष्णो, त्वं भृगुभिर्वसुभिश्च इष्टः पूजितः, आशीर्दाः फलप्रदः, स त्वमिष्टः प्रीत इहास्मासु द्रविणम् आगमे -रागमयतु । दयानन्दस्तु --- ' हे विद्वन्, यो वसुभिः प्रथमकक्षास्थैर्विद्वद्भि:, भृगुभिः परिपूर्णविज्ञानैविद्वद्भिः, आशीर्दा यज्ञ इष्टः कृतः, तस्येष्टस्य कृतस्य प्रीतस्य मनोहरस्य यज्ञस्य सकाशाद् इह संसारे त्वं नोऽस्माकं द्रविणं समन्ताद् गच्छू ' इति, तदपि यत्किञ्चित् एवं गौणार्थाश्रयणेऽपि विदुषां यज्ञमिष्ट्वा ततो धनाहरणासम्भवात् । धनं तु after एव ददति विद्वय इति ॥ ५६ ॥
इष्टो अग्निराहुतः पिपर्तु न इष्ट ह॒वः । स्व॒गेदं दे॒वेभ्यो॒ नमः॑ ॥ ५७ ॥
मन्त्रार्थ - यज्ञ के द्वारा पूजित अग्निदेव हवि के द्वारा तृप्त होकर हमारे मनोरथों को पूरा करें । यह हवि
सब देवताओं के निमित्त दिया गया है । वह स्वयं उनके पास पहुँचने बाला है ॥ ५७ ॥
पृष्ठ 250
पाठ पढ़ें पाठ छिपाएँ
२१४ शुक्लयजुर्वेद संहिता [ अ ०१८ अग्निदेवत्या गायत्री गालवदृष्टा एकोना, अग्निर्नोऽस्माकमिष्टमभिलषितं पिपर्तु पूरयतु, ददात्वित्यर्थः । नोऽस्मान् पालयतु वा । ' पृ पालनपूरणयोः ' अस्य जुहोत्यादित्वात् शपः श्ली द्वित्वे ' अतिपिपत्यश्व ' ( पा ० सू ० ७ | ४ | ७७ ) इत्यभ्यासस्येत्वे रूपम् । कीदृशोऽग्निः? इष्टः कृतयागः । हविर्हविषा विभक्तिव्यत्ययः, आहुतः समन्तात् तर्पितः । किञ्च इदं नमो हविः समिष्ट यजुर्लक्षणं देवेभ्योऽर्थायाऽस्तु । कीदृशं हविः? स्वगा स्वयं गमनशीलम्, विभक्तेराकारः । अध्यात्मपक्षे - अग्निरग्रणीर्मुक्तोपसृप्यो भगवान् अस्माकमभिलषितं भोगं मोक्षमुभयमपि ददातु । भोगमोक्षप्रदानेन पालयतु वा । कीदृशो भगवान्? इष्टः श्रद्धया पूजितः । षोडशोपचारराजोपचारपूजादिषु च तत्तद्वस्तुसमर्पणेन समन्तात् तर्पितः । इदं च हविः समिष्टयजुर्लक्षणं तदङ्गभूतेभ्यो देवेभ्योऽर्थायास्तु | दयानन्दस्तु - ' हविर्हविषा संस्कृतेन द्रव्येण इष्टोऽग्निः सभाध्यक्षो विद्वान् पालको वा न इष्टं पिपर्तु नः पिपर्तु वा । इदं हविः स्वगा यः स्वान् गच्छति तत् । नमोऽन्नं तत्तदेवेभ्यो विद्वद्भूयोऽस्तु ' इति, तदपि यत्किञ्चित् गौणार्थाश्रयणस्यैव दूषणत्वात् । नहि यदन्नं स्वान् गच्छति तद् देवेभ्यो भवति । यदि देवेभ्यो भवेत्, तर्हि तस्य स्वगात्वानुपपत्तिः ॥ ५७ ॥
यदाकृ॑तात् स॒मस॑त्रोद्ध॒दो वा॒ मन॑सो वा संभृतं चक्षुषो वा ।
तदनुप्रेत॑ सु॒कृता॑मु॒ लो॒कं यत्र॒ ऋष॑यो ज॒ग्मुः प्र॑थम॒जाः पु॑रा॒णाः ॥ ५८ ॥
मन्त्रार्थ - हे ऋत्विजों! आप सब उस प्रजापति के किये हुए कर्म का सम्पादन कर पुण्यात्माओं के लोक को अवश्य प्राप्त करें । जो कर्म पूर्ण सामग्री से युक्त है तथा जो प्रजापति के अभिप्राय, हृदय या मन से अथवा चक्षु आदि इन्द्रियों से ब्रह्मा ने रचा है, उस कर्म को भली - भाँति सम्पादित कर उन पवित्र लोकों को प्राप्त करें, जिनमें प्रथम उत्पन्न पुरातन ऋषि गये हैं ॥ ५८ ॥
' हृदयशूलान्ते स्रुवाहुतीर्जुहोति यदाकृतादिति प्रत्यृचमष्टो ' ( का ० श्र ० १८/६/२३ ) | हृदयशूलान्ते यदाकूतादिति प्रत्यचमष्टौ सुवाहुतो जुहोतीति सूत्रार्थः । अष्टौ ऋचोऽग्निदेवत्या विश्वकर्मदृष्टाः । तत्र आद्या जगती । त्रयः पादा एकादशार्णाः, चतुर्थश्चतुर्दशार्णः । हे ऋत्विजः यत्कर्म प्रजापतेराकूतात्, आकूतो नाम प्राङ्मनःप्रवृत्तेरात्मनो धर्मो मनःप्रवृत्तिहेतुः तस्मात् अभिप्रायादिति यावत् । सम्भूतं सम्भारैः पुष्टम्, पूर्ण सामग्रीकमित्यर्थः । सुकृतं सूक्ष्मरूपं सञ्चितं कर्म समसुत्रोत् समस्रवत् । स्रवतेर्लङि ' बहुलं छन्दसि ' ( पा ० सू ० २ | ४ | ७६ ) इति जुहोत्यादित्वात् श्लौ द्वित्वे रूपम् । प्रजापतेर्हृदो बुद्धेश्च प्रजापतेर्मनसश्च सङ्कल्पा-त्मकाद् हृदयावच्छिनान्मनसः सकाशाच्चक्षुषः सौराद्युपासनाबलाद्वा चक्षुरुपलक्षितस्थानाद्वा यत्समृतं समसुत्रात् निःसृतं भवति, अर्थात् फलप्रारम्भार्थं यत्सूक्ष्मरूपं कर्म निःसृतम् तत्प्रजापतिना कृतं कर्म अनुगच्छत । सुकृतां सत्कर्मचारिणां लोकमु लोकमेव स्थानं यत्र ऋषयो जग्मुः यत्रान्येऽपि प्रथमजाः पुराणा जग्मुस्तं लोकं गच्छतेत्यर्थः । महीधराचार्यरीत्या तु हे ऋत्विजः यूयं तदनुप्रेत प्रजापतिकृतं कर्मानुगच्छत अनुसरत । प्रजापति-शरीरादुत्पन्नं यत्कर्म वैदिकं तत्कुरुतेत्यर्थः । तत्र कर्मणि कृते सति सुकृतां शुभकर्मकारिणां लोके, उ एवार्थे, स्वर्गमेव प्रेत गच्छत । प्रथमजाः पूर्वोत्पन्नाः पुरापि नवा अजरामरा ऋषयो यत्र लोके जग्मुस्तत्र गच्छतेति ।