वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 251–260

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 251–260

पृष्ठ 251

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 251 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५८ ] वेदार्थ पारिजातभाष्यसहिता २१५ किं तत्कर्म? यत्प्रजापतेराक्ताद् अभिप्रायाद् हृदो बुद्धेर्मनसो वा सङ्कल्पकात्मकात्, चक्षुषः, चक्षुरुपलक्षणम्, चक्षुरादीन्द्रियेभ्यश्च समसुस्रोत् संस्रुतं प्रसृतम् ब्रह्मणा यत्सृष्टं कर्म तत्कृत्वा स्वर्लोकं गच्छतेत्यर्थः । कीदृशं तत्कर्म? संभृतं सम्भारैः पुष्टम्, पूर्ण सामग्रीकमिति यावत् । अध्यात्मपक्षे -- हे साधकाः, विरारूपात् परमात्मन आकूतादभिप्रायात् तदीयाद् हृदो बुद्धेस्तदी-यान्मनसस्तदीयाच्चक्षुषः, चक्षुरुपलक्षितेभ्यः सर्वेन्द्रियेभ्यः, यत्कर्म समसुस्रोत् समस्रवत् प्रादुर्भूतम्, तदनुप्रेत तदनुसरत । सुकृतां पुण्यकृतामेव लोकं यत्र प्रथमजाः पुराणा ऋषयो जग्मुस्तं प्रेत गच्छत । दयानन्दस्तु - ' हे सत्यासत्यजिज्ञासवः, यूयं यदाकूतादुत्साहाद हृद आत्मनो वा प्राणान्मनसः सङ्कल्प-विकल्पात्मकात् संभृतं सम्यग् धृतं चक्षुषः प्रत्यक्षादेः, इन्द्रियोत्पन्नाद् वा श्रोत्रादिभ्यः समसुस्रोत् सम्यक् प्राप्तु-यात् । अतः प्रथमजा अस्मदादी जाताः पुराणा अस्मदपेक्षया पुराणा ऋषयो वेदविद्यापुरःसराः परमयोगिनो जग्मुर्गतास्तं सुकृतामु लोकं दर्शनसुखसङ्घातं मोक्षपदं वा अनुप्रेत । यदा मनुष्याः सत्यासत्यनिर्णयं जिज्ञासेयुस्तदा यद्यदीश्वरगणकर्मस्वभावात् सृष्टिक्रमात् प्रत्यक्षादिप्रमाणेभ्य आप्ताचाराद् आत्ममनोभ्यामनुकूलं स्यात्तत् सत्यमितरदमत्यमिति निश्विनुयुः । य एवं धर्मं परीक्ष्याचरन्ति, तेऽतिसुखं प्राप्नुवन्तीति भावार्थ: ' इति, तदसङ्गतमेव, ईश्वरगुणकर्मस्वभात्रः कः? कथं केन स ज्ञायत इत्यनुक्तेः । सृष्टिक्रमोऽपि नार्वाचीनैर्ज्ञातुं शक्यते । आकूताद हृदो मनसश्चक्षुषोऽपि सर्वोऽपि जनः कर्म करोतीति कथं सत्यासत्यनिर्णयः? तस्मादपौरुषेयत्वेन अपास्तपुंदोषशङ्काकलङ्कपङ्कत्वेन मन्त्रब्राह्मणात्मकानां वेदानामेव प्रामाण्यस्वतस्त्वबलाद् धर्माधर्मनिर्णयः कर्तुं पार्यते, तत्रैव च ब्राह्मणेषु मन्त्रेषु च तत्र तत्र यथा पूरा देवेः कृतं तथैव इदानीन्तनेन यजमानेनापि कर्तव्य-मित्युच्यते । प्रजापतिश्च देवानां समष्टिविराडात्मा परमेश्वरः । तस्मात् तदाकूनाद हृदो मनसश्वक्षुषश्च निःसृतं यत्कर्म तद्वेदिकमेव । किञ्च वेदस्य नित्यत्वात् तस्य घटनापूर्वकत्वं लौकिकेतिहाससाधारण्यं च न सम्भवति, घटनास्तत्पूर्वका भवन्त्यो न वार्यन्ते, सृष्टेः शब्दपूर्वकत्वात् ' शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ' ( ब्र ० सू ० ११३१२८ ) इति न्यायात् । तस्मात् सुखावबोधार्था आख्यायिका वेदे वर्ण्यन्ते । आख्यायिकाप्रसङ्गेन प्रजापतिदेवतादिबाह्यान्तरव्यापारवर्णनव्याजेन तत्तद्वर्णाश्रमाचारानुगुणानि श्रोतानि कर्माणि वर्ण्यन्ते । आख्या-विकाश्च कचिद्विधेः स्तावकार्थवादरूपेण वर्ण्यन्ते, कचिच्चार्थवादबलेन विधयः परिकल्प्यन्ते । यथा ' एता वे प्रतिष्ठिता षड्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति ' ( ताण्ड्य महाब्राह्मणम्, २३/२२/७ ) इत्यर्थवादेन प्रतिष्ठाकामा एता रात्री रुपेयुरिति विधिः । तत्र ब्राह्मणम् —'यदाकूनात् । सममुस्रोद्धृदो वा मनसो वा सम्भृतं चक्षुषो वेत्येतस्माद्धयेतत्सर्वस्मादग्रे कर्म समभवत् तदनु प्रेत सुकृताम् लोकं यत्र ऋषयो जग्मुः प्रथमजाः पुराणा इत्यमूने तदृषीनाह ' ( श ० ९ | ५ | १ | ४५ ) । अथ तानष्टौ वैश्वकर्मणहोममन्त्रान् क्रमेण व्याख्यातुमनुवदति --- यदाकूतादिति । अग्रे पूर्वमेतस्मात् खल्वाकूतादे: सर्वस्मात् कर्म समभवत् । अत उक्तम् - यदाकृतादिति । सर्वत्र वाशब्दः समुच्चयार्थः । समसुस्रोदिति समभव-दित्यर्थः । आकूतमिति निश्चयावस्थं मन उच्यते । हृदिति मनोऽवस्थानप्रदेशः । मनो विमर्शात्मकम् । कृत्स्नमपि कर्म हृदयस्थेन विमर्शात्मना मनसा विचार्य निश्वयात्मना तेनैव निश्चित्य पश्चात् चक्षुषा तत्साधनं दृष्ट्वा क्रियते । अतश्च तस्मात् सम्भृतं ' समसुस्रोत् ' इत्युक्तम् । प्रथमजाः पुराणा ऋषय इति शब्दा पुरस्तात् षष्ठेऽभिहितान् ऋषीनभिदधते । तदाह -- अमूनेतदिति । हृदो हृदयप्रदेशेऽवस्थितादाकूतान्मनसश्च चक्षुषश्च यत्कर्म सम्भृतं सत् समभवत्, तदनुलक्ष्य तत्कर्म कृत्वा अनन्तरं हे यजमानाः! आदरार्थं बहुवचनम्, शोभनकर्मकारिणां लोकं प्रगच्छत । यत्र यस्मिन् लोके प्रथमजाः पुराणा ऋषयोऽभिहितप्रकारं कर्म कृत्वा जग्मुस्तं लोकं गच्छतेत्यर्थः । अत्र तस्मात् प्रजापतेराकूताद हृदो मनसो वा चक्षुषो वा यत्कर्म समस्रवत् तदनुसरणमेव विहितम्, न तु प्रातिविका-दाकूताद हृदयान्मनसो चक्षुषो वा यदेव कर्तव्यत्वेन निर्णयेत् तदेव कुर्यादिति, तथात्वेऽव्यवस्थापातात् ॥ ५८ ॥

पृष्ठ 252

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 252 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१६ शुक्लयजुर्वेद संहिता [ अ ० १८

एत संघस्य॒ परि॑ ते ददामि॒ यमा॒वता॑च्छेव॒धि जातवेदाः ।

अ॒न्वाग॒न्ता य॒ज्ञप॑तिर्वो॒ अत्र॒ तस्मा॑ जानीत पर॒मे व्योमन् ॥ ५६

यज्ञ के फल को जिसे सौपा है, मन्त्रार्थ - हे देवताओं के स्थानभूत स्वर्ग! सर्वज्ञ अग्निदेव ने सुख के कोषरूप । होने पर यह यजमान तुम्हारे पास आवेगा उस यजमान को मैं तुम्हें समर्पित करता हूँ । हे देवनाओं! यज्ञ के समाप्त, अर्थात् स्वगं में पहुंचने पर उसका सत्कार उस उत्तम परम विस्तार वाले स्वर्ग में गये हुए इस यजमान को तुम जानों करो ॥ ५ ९ ॥ स प्रार्थ्यते । एतं यजमानं ते तव हे सधस्थ! सह तिष्ठन्ति देवा यत्रासौ सधस्थः स्वर्गः, कोशस्थानीयम् तत्सम्बुद्ध्या आवहाद् आनयेत् तं यजमानं परिददामि । जातवेदाः सर्वज्ञोऽग्नियं शेवधि देवानां निधि आवहति प्रापयति, तं यज्ञफलभूतं च सुखनिधि तुभ्यं ददामि । यद्वा शेवधि सुखनिधिमाहृतिपरिणामभूतमावहाद् । एवं यजमानं यज्ञं च स्वर्गे समप्यं तत्रस्थान् देवानभ्यर्थ-तव परिददामि उभयमपि तुभ्यं रक्षणार्थं ददामोत्यर्थः, वो युष्मान् अन्वागन्ता प्रारब्धकर्मसमाप्ती यते - अन्विति । हे देवाः, यज्ञपतिर्यजमानो यज्ञस्वामी यज्ञनिर्वर्तकः व्योम्नि स्वर्गारून आकाशे आगतं तं यज्ञपतिं यूयं भवतः प्रत्यागमिष्यति । अत्र अस्मिन् परम उत्कृष्टे व्योमन् इत्यर्थः । आवहादित्याङ्पूर्वकाद् वहतेर्लेटि जानीत । स्मेति पादपूरणार्थम् । स्वर्गागतो यज्ञपतिर्भवद्भिरादरणीय / ९ ७ ) इति तिप इकारलोपे ' लेटो s डाटो ' ( पा ० सू ० ३ | ४ | ९ ४ ) तिपि ' इतश्च लोपः परस्मैपदेषु ' ( पा ० ० ३/४ ६ | १७ ), शेवं धीयते ऽस्मिन्निति शेवधिः । यद्वा यज्ञपतिर्यज्ञ-इत्यडागमे रूपम् । ' शेव इति सुखनामसु ' ( निघ ० ३ | अन्वागन्ता । तं श्रीभगवन्तमन्वागन्तारं परमे उत्कृष्टे फलदाता विष्णुः प्रकृतं यजमानमत्र वो युष्मान् अत्रस्थांश्च हे देवां यूयं जानीत । व्योमन् व्योम्नि परिपूर्णस्वरूपे एव स्थितं सर्वान्तर्यामित्वाद स्वर्गो वै लोकः सधस्थस्तदेन स्वर्गीय लोकाय अत्र ब्राह्मणम् --- ' एत सधस्थ । परि ते ददामीति अत्र त स्म जानीत परमे व्योमन्निति ' ( श ० परिददाति यमावाच्छेवधिं जातवेदाः । अन्वागन्ता यज्ञपतिर्वो । शेषं सुगमम् । ९ । ५ । १ । ४६ ) । सधस्थशब्देन स्वर्ग उच्यत इत्याह-- एतं सधस्थेत्यादिना , ते तुभ्यं यदि ददामि, तर्हि जातवेदाः अध्यात्मपक्षे - एतं सधस्थं सह स्थितं साधकं यजमानं हे भगवन् शेवधि कल्याणाना-प्रापयेत् । यद्वा यस्मै यजमानाय सर्वज्ञो भवान् अस्मै शेवधि कल्याणानामाकरमावहाद् आवहेतु , तं सधस्थं साधकं वो युष्मांश्च यज्ञपतिः श्रीभगवान् माकरं भवान् आवहाद् आवहति प्रापयति, हे । देवाः तमन्वागन्तारं यूयं सर्वान्तर्यामिणं जानीतेति । विष्णुः कर्मफलदातृत्वेनान्वागन्ता आगमिष्यति च जातवेदा वेदार्थविद् यज्ञपति-दयानन्दस्तु - ' हे ईश्वर! जिज्ञासवो मनुष्याः, हे सवस्थ समानस्थान प्राप्नुयात्, अत्र परमे यज्ञस्य पालक इव वर्तमानो यं शेर्वाध शेवं सुखं धीयते परमात्मानमावहादासमन्तात् अन्वागन्ता धर्ममन्वागच्छति, अहं यं वो व्योमन् प्रकृष्टे आकाशे व्याप्तं परमात्मानमहं ते यथा परिददामि प्रमाणविधुराध्याहारबाहुल्यात्, गौणार्था-पुष्मभ्यमुपदिशामि स्म तं यूयं विजानीत ' इति, तदपि यत्किञ्चित् कर्तुं शक्यते ॥ ५ ९ ॥ श्रयणाच्च । अनया रीत्या कस्यापि मन्त्रस्य कीदृशोऽप्यर्थः

एतं जनोथ पर॒मे व्यो॑ म॒न् देवः सधस्था वि॒िदं रूपम॑स्य ।

यद॒ागच्छत् प॒थिभदे॑व॒याने॑रिष्टापू ते॑ कृणवाया॒विर॑स्मै ॥ ६० ॥

पृष्ठ 253

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 253 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६०-६१ ] वेदार्थ पारिजात भाष्यसहिता २१७ मन्त्रार्थ हे उत्तम स्थान स्वर्ग में रहने बाले देवताओं! इस यजमान को जानों, इसके रूप को पहचानों । जब यह देवयान मार्ग से स्वर्ग में पहुंचे, तब श्रौतस्मार्तं कर्म के फल इस यजमान के निमित्त प्रकाशित करो ॥ ६० ॥

परमे व्योमन् उत्कृष्टे स्वर्गभूते व्योम्नि सधस्था: सह स्थिता देवा एवं यजमानं जानाथ जानीत । लेटि मध्यम बहुवचने आडागमे रूपम् । किञ्च, अस्य यजमानस्य यज्ञपते रूपं यज्ञकर्तृत्वादिविशिष्टं रूपं विद वित्त, प्रत्यभिज्ञानायेति शेषः । वेत्तेर्विकरणव्यत्यये शः, वचनव्यत्ययश्च । युष्माभिर्विदितरूपोऽयं यद् यदा देवयानैः, देवा यान्ति येष ते देवयानाः, ' करणाधिकरणयोश्च ' ( पा ० सू ० ३ | ३ | ११७ ) इति ल्युट् उपभोगस्थानभेदाद् बहुत्वम्, पूजार्थं वा, तैः । पथिभिः स्वर्गमार्गः, आगच्छाद् आगच्छति, गमेर्लोटि इकारलोपाडागमो, तदा तं प्रत्यभिज्ञाय इष्टापूर्ते श्रौतस्मार्त कर्मफले अस्मै यजमानाय आविः कृणवाथ प्रकटीकुरुत, प्रदत्तेत्यर्थः । इष्टापूर्ते इति पदमजहल्लक्षणया इष्टापूर्वकर्मफलपरम् । ' अग्निहोत्रं तपः सत्यं वेदानां चैव साधनम् | आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते । वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमर्थिभ्यः पूर्नमित्यभिधीयते ॥ ( मा. पु. १६ । १२३-१२४ ) । इष्टं च तं चेतीष्टापूर्ते । ' पृषोदरादीनि यथोपदिष्टम् ' ( पा ० सू ० ६ | ३ | १० ९ ) इति साधु । इष्टं च आपूतं चेति नागेशो रामायणतिलके ( १।२११८ ) इत्यत्र प्राह । कृणवाथ ' डुकृञ् करणे ' इत्यस्य व्यत्ययेन इनुः, आडागमश्च । अत्र ब्राह्मणम् - ' एतं जानाथ । परमे व्योमन् देवाः सधस्था विद रूपमस्य । यदा गच्छात् पथिभिर्देव-यारिष्टापूर्ते कृणवाथाविरस्मा इति ' ( ० ९ | ५ | १ | ४७ ) । प्रसन्ना कण्डिका । अध्यात्मपक्षे - कर्मसमुच्चितोपासनानुष्ठायिनमेतं हे परमे व्योमन् सधस्था देवा यूयं जानाथ जानीत । अत्र पूजायां बहुवचनम् । हे देव परमेश्वर, ' एको देवः सर्वभूतेषु गूढः ' ( श्वे ० उ ० ६ | ११ ) इति श्रुतेः । एतमनुग्रह-पूर्णदृष्ट्या पश्येत्यर्थः । अस्य कर्मसमुच्चितोपासनानुष्ठायिनो रूपं विशिष्टं रूपं विद जानीहि परान् प्रत्याययितु-मिति शेषः, तव तू निरतिशयसर्वज्ञत्वात् । अयं साधको यद् यदा देवयानैर्मार्गे रागच्छाद् आगच्छेद् भवदीयं ब्रह्मलोकं तदोपासनायुक्ते इष्टापूर्ते श्रीतस्मार्तकर्मणी, लक्षणया तत्फलमाविः कृणवाथ प्रकटीकुरु । परमेश्वर-स्यैव कर्मफलदातृत्वात् स एवात्र प्रार्थनीय: । पूजायां बहुवचनम् । दयानन्दस्तु - हे ' सधस्था देवाः, यूयं परमे व्योमन् व्याप्तमेतं परमात्मानं जानाथाऽस्य रूपं विद । यदेवयानेः पथिभिरागच्छादस्मै परमात्मने इष्टापूर्ते आविः कृणवाथ ' इति, तदपि यत्किञ्चित् परमात्मस्वरूप-ज्ञाने देवयानमार्गानपेक्षणात् व्याप्तमित्यध्याहारस्य च निर्मूलत्वात् नित्यप्राप्तस्य तस्य प्राप्तेरपि निर्मुक्तिक-स्वात् ॥ ६० ॥

उद्बुध्यस्वाग्ने॒ प्रति॑जागृहि॒ि त्वष्टापूर्ते ससृजेथाम॒यं च॑ ।

अ॒स्मिन् स॒धस्य॒ अध्युत्त॑रस्मि॒न् विश्वे देवा॒ यज॑मानश्च सोदत ॥ ६१ ॥

मन्त्रार्थ - हे अग्निदेव! तुम सावधान हो जाओ, श्रौतस्मार्त कर्म में यजमान को भागी बनाओ । तुम्हारे प्रसाव से यह यजमान इष्टापूर्त कर्म द्वारा निष्पाप होकर देवताओं के साथ स्थितियोग्य होकर सबसे उत्कृष्ट स्वर्गलोक में चिरकाल तक निवास करे ॥ ६१ ॥

२८ त्रिष्टुप् । इयं पञ्चदशेऽध्याये चतुःपञ्चाशीस्थले व्याख्याता ॥ ६१ ॥

पृष्ठ 254

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 254 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२१८ शुक्लयजुर्वेद संहिता

येन॒ वह॑सि स॒हस्रं येनाग्ने सर्ववेदसम् ।

तेन॒मं य॒ज्ञं नो ' नय स्वर्दे द्वेष गन्त॑वे ॥ ६२ ॥

[ अ ० १८ मन्त्रार्थ - हे अग्निदेव! जिस सामर्थ्य से आप सहर्ष दक्षिणा वाले यज्ञ को प्राप्त कराते हैं, सर्वस्व दक्षिणा वाले यज्ञ को प्राप्त कराते हैं, उस सामर्थ्य से हमारे इस छोटे से यज्ञ को भी देवताओं के पास स्वर्ग तक पहुँचा दें । इस यज्ञ के स्वर्ग में जाने से हम लोग भी वहाँ पहुँच सकेंगे ॥ ६२ ॥

अनुष्टुप् । इयं पञ्चदशेऽध्याये पञ्चपञ्चाशीस्थले व्याख्याता ॥ ६२ ॥

प्र॒स्त॒रेण॑ पर॒धिना॑ स्रुचा वैद्य च बहिषो । ऋचेमं य॒ज्ञं न ' नय॒ स्व॒र्वे वेषु गन्त॑वे ॥ ६३ ॥ु

मन्त्रार्थ - हे अग्निदेव! हमारे स्रुक् का आधार व का प्रस्तर, बाहुमात्र के तीन काष्ठ, जुहू आदि, बेदी, कुशा, ऋचा आदि से सम्पन इस यज्ञ को देवताओं के पास स्वर्ग में ले जाओ ॥ ६३ ॥

rasar: । है भगवन्नग्ने, प्रस्तरेण स्रुगाधारभूतेन दर्भमुष्टिना परिधिना परिधिभिस्त्रिभिर्बाहु-मात्रैः काष्ठैः स्रुचा जुह्वादिकया वेद्या मितया वेदेर्भूम्या वा बहिषा च दर्भपूलकेन च ऋचा ऋगादिभिर्मन्त्र-स्तदभिमानिभिर्देवतारूपैश्व उपलक्षितं सह वा नोऽस्माकमिमं यज्ञं स्वः स्वर्गं नय । किमर्थम्? देवेषु गन्तवे देवान् प्रति गन्तुं गमनाय । यज्ञे हि गते यजमानो गत एव स हि तस्य शरीरमित्यर्थः । ' तुमर्थे सेसेन-सेऽसेन् " ( पा ० सू ० ३ / ४ / ९ ) इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तः । अत्र ब्राह्मणम् - ' प्रस्तरेण परिधिना । स्रुचा वेद्या च बर्हिषा ऋचेमं यज्ञं नो नय स्वर्देवेषु गन्तव इत्येतेन यज्ञस्य रूपैः स्वर्ग लोकं गमयेत्येतत् ' ( श ० ९ । ५ । १ । ४८ ) । अध्यात्मपक्षे - हे अग्ने भगवन् परमात्मन् प्रस्तरादिभिरुपलक्षितमिमं नो यज्ञं स्वः स्वरति नाम-रूपाभ्यां सर्वं यस्मिन्नसो स्वः स्वरूपभूतः परमात्मा, तं नय देवेषु देवं भवन्तं गन्तवे गन्तुं गमनाय । दयानन्दस्तु -- ' हे विद्वंस्त्वं वेद्या खुचा प्रस्तरेण परिधिनच चेमं यज्ञं देवेषु गन्तवे स्वर्नय ' इति, तदपि यत्किञ्चित् अर्थानवबोधात् । प्रस्तरेणासनेनेत्यशुद्धं व्याख्यानम्, प्रस्तरशब्दस्य कुशमुष्ट रूढत्वात्, आसनार्थतायां कोशादिप्रमाणवेधुर्यात् । परितो धोते तेनेत्यप्यशुद्धं व्याख्यानम् अत्र परिधिपदेन बाहुपरिमितानां teri agrar f भधानात् । बर्हिषोत्तमेन कर्मणा इत्यप्यशुद्धं व्याख्यानम्, शब्देनैतेन कुशपूलस्य विवक्षित-स्वात् ॥ ६३ ॥

यद् दत्तं यत्प॑रा॒दानं यत्पूतं याश्च दक्षिणाः ।

तदग्निर्वश्वकर्मणः स्वदं वेषु ' नो दधत् ॥ ६४ ॥

मन्त्रार्थ - विश्वकर्मा नामक अग्नि हमारे उस दान को स्वर्ग लोक में देवताओं के पास ले जाँय, जो कि जामाता आदि को दिया गया है, परोपकार के लिये दुःखियों को दिया गया है, स्मृतियों के अनुसार कुपोत्सर्जन आदि में और यज्ञ की दक्षिणा के रूप में दिया गया है ॥ ६४ ॥

पृष्ठ 255

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 255 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६४-६५ ] वेदार्थपारिजातभाष्यसहिता २१ ९ यद्दत्तं भार्या - जामातृ - पुत्र - भगिनी - तत्पत्यादिभ्यो दत्तम्, यत् परादानं परोपकाराय दयादिनाऽ-न्धकृपणादिभ्यो यद्दत्तम् । यत्पूतं स्मृतिविहितं विप्रभोजनकूपारामादि, याश्च दक्षिणा यज्ञसम्बन्धिन्यः तत् सर्वं वैश्वकर्मणो विश्वकर्मा प्रजापतिस्तस्यायं वैश्वकर्मणः, विश्वकर्मा एव वा वैश्वकर्मणः, स्वार्थे तद्धितः, अग्निः । स्वर्देवेषु स्वर्गलोकस्य देवानां मध्ये नोऽस्माकं भोगार्थं दधद् दधातु स्थापयतु । अत्र ब्राह्मणम् —'यद्दत्तं यत्परादानं यत्पूतं याश्च दक्षिणाः । तदग्निर्वैश्वकर्मणः स्वर्देवेषु नो दधदिति यच्चैव सम्प्रति दध्मो यच्चासम्प्रति तन्नोऽयमग्निर्वैश्वकर्मण स्वर्गे लोके दधात्वित्येतत् ' ( ० ९ | ५ | १ | ४ ९ ) । यत्कर्मं सम्प्रति युक्तमन्यूनानतिरिक्तं दध्मो धारयामः, कुर्म इति यावत् । यच्च कर्म असम्प्रति न्यूनातिरिक्तं तत्सर्वं कर्ममयं वैश्वकर्म अयं वैश्वकर्मणोऽग्निः स्वर्गे लोके दधात्विति । यद्दत्तं यदुचितं दानं कृतम्, यच्चानुचितं न्यूनमतिरिक्तं वा दानं कृतम्, यत्पूर्तमारामादिकं कृतम्, याश्च यज्ञे दक्षिणा: सम्पादिताः, नोऽस्माकं सम्बन्धि तत्सर्वमग्निः स्वर्गे विद्यमानेषु देवेषु दधात्वित्यर्थः । अध्यात्मपक्षे -- नोऽस्माकमस्माभिर्यद्दत्तं यत्परादानं तदग्निर्भगवान् वैश्वकर्मणः स्वः स्वर्गे लोके देवेषु देवे परमेश्वरे दधद् दधातु । दयानन्दस्तु – ' हे गृहस्थ, त्वया यद् दत्तं यत्परादानं यत्पूतं याश्च दक्षिणा दीयन्ते तत् स्वश्च इन्द्रियसुखं वैश्वकर्मणोऽग्निरिव गृहस्थो भवान् देवेषु नो दधद् धार्मिकव्यवहारे स्थापयतु ' इति, तदप्यकिञ्चि-त्करम्, शाब्दन्यायोपप्लवात् । तथाहि - ' देवेषु ' इत्यनेन धार्मिकव्यवहारग्रहणे मानाभावः । न च दानादिक-मैन्द्रियकं सुखम् । पूर्तमित्यस्य पूर्णां सामग्रीमित्यप्यसङ्गतोऽर्थः, अर्थविशेषे रूढत्वात् । धार्मिकेषु व्यवहारेषु यः स्थापनं कामयते, स स्वयं धार्मिको धामिको वा? नाद्यः, तस्य तथा प्रार्थनानुपपत्तेः । न द्वितीयः, अधार्मिकस्यापि तादृशप्रार्थनाया असामञ्जस्यात् ॥ ६४ ॥

यत्र॒ धारा॒ अन॑पेता॒ मधो र्घतस्य च याः ।

तद॒ग्निर्वैश्वकर्म॑णः स्व॑र्दे॒वेषु ' नो दधत् ॥ ६५ ॥

मन्त्रार्थ --- विश्वकर्मा सम्बन्धी अग्नि स्वर्ग में देवताओं के पास हमें वहाँ ले जाय, जहाँ कि मधु ( शहद ), घृत, दुग्ध आदि की धाराएं कभी क्षीण नहीं होतीं ॥ ६५ ॥

यत्र यस्मिन् देशे मधोमधुनी घृतस्य च धाराः प्रवाहाः, याश्चान्याः सोमादीनां पयोदध्यादीनां च धाराः प्रवाहा अनपेता अनिशं भुज्यमाना अपि अनुपक्षीणा वर्तन्ते तत् तत्र वैश्वकर्मणोऽग्निविश्वकर्माग्निः स्वः स्वर्गे देवेषु मध्ये नोऽस्मान् दधद् दधातु । अध्यात्मपक्षे - विश्वकर्मा विश्वं कर्म यस्य स विश्वकर्मा । विश्वकर्मा एव वैश्वकर्मणः परमेश्वरः, यत्र मध्वादिधारा अनपेता अनिशं भुज्यमाना अप्यनुपक्षीणा वर्तन्ते, तत्र स्वर् गोलोकादिषु देवेषु नोऽस्मान् दधद् दधातु । दयानन्दस्तु — ' यत्र मधोर्धृतस्य च या धारा अनपेता विद्वद्भिः क्रियन्ते तद्वैश्वकर्मणोऽग्निर्नो देवेषु स्वर्दधत् ' इति, तदपि यत्किञ्चित् त्वद्रीत्या अग्नेर्जडत्वेन सुधाधायकत्वानुपपत्तेः । न च यज्ञेषु मध्वादिधाराः क्रियन्ते, तथा विध्यदर्शनात् ॥ ६५ ॥

पृष्ठ 256

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 256 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२० शुक्लयजुर्वेदसंहिता [ अ ० १८

अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे॑दा घृतं मे चक्षुर॒मृते॑ म आसन् ।

अ॒र्कस्त्रधातू रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मै॒ नाम॑ ॥ ६६ ॥

मन्त्रार्थ- सब सृष्टि का स्वामी अर्चनीय यज्ञ, त्रिदेव स्वरूप, जल का निर्माता, अविनाशी मैं ही हूँ । मेरी आँखे घृत हैं । मैं घृत होमने वाले को देखता हूँ, मेरे मुख में हविरूप अमृत है । अग्नि उत्पत्ति से पुरोडाश आदि भी मैं ही हूँ ॥ ६६ ॥ धर्मरूप और नाम से

अग्न्यद्वैतवादिनी त्रिष्टुब् देवश्रवोदेववातदृष्टा । यज्ञेऽविनियोगादग्निप्रकरणाच्च मग्नित्वेन ध्यायन् ब्रवीति - जन्मना उत्पत्त्यैव अहमग्निरस्मि अग्निरूपोऽस्मि जातवेदा यजमान आत्मान-इति जातवेदाः, उत्पन्नस्य सर्वस्य स्वामीत्यर्थः, ' अथ ह वै रेतः सिकं । जातं विन्दत विन्दते तस्माज्जातवेदाः ' ( श ० ९ / ५ / १ / ६८ ) इति श्रुतेः प्राणोऽन्ववरोहति तद्विन्दते तद्यज्जातं जातं घृत होमिनमहं पश्यामोति भावः । अमृतं हविः मम आसन । आस्ये यतश्वाहमग्निरस्मि मुखे, अतो घृतं मे चक्षुत्रम्, इत्या स्यशब्दस्य आसन्नादेशः । ततः सप्तम्याश्च लुक् । यो हि मम मुखे हविर्जुहोति । ' पद्दन्नोमासू ' ( पा ० सू ० ६ | १ | ६३ ) किञ्च, अर्क: अर्चनीयः, यज्ञः अहमेवास्मि । नाम नाम्ना, विभक्तिलोपः, त्रिधातुः तमहममृतं करोमोत्यभिप्रायः । यो धातव ऋग्यजुःसामलक्षणाः स्वरूपनिर्वाहका यस्यासौ दधति स्वं रूपमिति धातवः, विमानो विभत इति विमानो निर्माता । ' नन्दिग्रहिपचादिभ्यो त्रिधातुः ल्युणिन्यचः । रजसो विमानः, रज उदकम्, तस्य ल्युः । किञ्च, अजस्र:, न जस्यतीत्यजस्र: । ' नमिकम्पि ' ( पा ० सू ' ( पा ० सू ० ३ | १ | १३४ ) इति कर्तरि क्रियासातत्ये वृत्तिः, अनुपक्षीण इत्यर्थः । धर्मः, जिर्घाति अनेनेति ० ३ | २ | १६७ ) इति रः । नञ्पूर्वकस्य जसे ‘ घर्मग्रीष्मौ ' ( उ ० १।१४ ९ ) इति मप्रत्यय औणादिकः । दीप्त आदित्यरूपः धर्मः । घृ क्षरणदीप्त्याः ' इत्यस्मात् किन्तु हविश्चहपुरोडाशादिकमप्यहमेवास्मि । नामशब्दस्य अस्मिशब्दस्य, क्षरणो च मेघरूपो वा । नह्येतावदेव, भावनयाऽद्वैतं भावनीयमिति मन्त्रार्थः । सर्वत्रान्वयः । एवमात्मन्यभेद-अध्यात्मपक्षे - प्रत्यक चैतन्याभिन्नं परब्रह्मैव अग्निजातवेदोऽर्कादिरूपेण तदभिन्नत्वनियमात् प्रत्यगात्मनोऽप्यग्निरूपत्वमुपपद्यते । जायत इति तदभिन्नाभिन्नस्य दयानन्दस्तु – ' अहं जन्मना जातवेदा अग्निरिवाहमस्मि पावके संस्कृतं हविर्हुतं सदमृतं जायते, तथा म आसन् मुखेऽस्तु । यथाग्नेर्वृतं चक्षुरस्ति, तथा मेऽस्तु । यथा रजसा लोकसमूहस्य विमाना यानमिव धर्ता । यथा त्रिधातुः त्रयो धातवो यस्मिन् सः, । अजस्रं गमनं यस्य सः, अर्शआदिभ्योऽच् सः । प्रकाश इव यज्ञः, हविहांतव्यं द्रव्यमस्मि नाम ख्यातिः । धर्मः, जिर्धात येन मनुष्येषु तादृशप्रयोगासम्भवात् । नहि मनुष्यो जन्मना जातवेदा ' इति, तदप्यव्यापारेषु व्यापारवन्निरर्थकमेव, तथा मनुष्योऽपि सर्वत्र सम्भवति, तस्य परिच्छिन्नत्वात् भवति । नह्यग्निर्यथा जातेषु पदार्थेषु भवति, त्वया तस्य अणुप्रमाणत्वाङ्गीकारात् । न वाग्नेर्वृत प्रकाशकं । भवति जीवरूपेणापि न तस्य सर्वव्याप्तिः सम्भवति, योगात् । अग्नौ हुतं द्रव्यं नश्यत्येव, कुतस्तस्यामृतत्वसम्भावनापि, घृतस्य स्वयं प्रकाशशून्यत्वेन प्रकाशकत्वा-असामानाधिकरण्यात्, भिन्नविभक्तिकत्वादिति यावत् । तेन? नहि त्रिधातुपदं रजसो विशेषणं सम्भवति, पदमपि न यानपरम्, तदपेक्षया लाघवेन यानशब्दस्यैव प्रयोगौचित्यात् त्रिगुणस्य लोकसमूहस्येत्यर्थो न सम्भवत्येव । विमान-लक्षणा निमूलैव । न चात्र लक्षणा युक्ता, अन्वयानुपपत्तितात्पर्यानुपपत्तिप्रभृतिबीजाभावात् । तत्रापि विमानपदस्य धारणकर्तृत्वे दूषणान्तराण्यप्यूहनीयानि ॥ ६६ ॥ । एवं रीत्या

पृष्ठ 257

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 257 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६७ ] वेदार्थपारिजातभाष्यसहिता २२१ ऋच॒ नामा॑स्य॒ यज॑षि॒ नामा॑स्मि॒ सामा॑सि॒ नामा॑स्मि । ये अ॒ग्नय॒ः पाञ्च॑जन्या अ॒स्या॑ पृथि॒व्यामधि । तेषा॑मसि॒ त्वमु॑त्त॒मः प्र नो॑ जी॒वात॑वे सु॒व ॥ ६७ ॥

मन्त्रार्थ - मैं ऋग्वेद नाम बाला और यजुर्वेद नाम वाला अग्नि हूँ । सामवेद भी मेरा ही नाम है । इस पृथ्वी पर मनुष्यों की हितकारिणी जो अग्नियाँ हैं, हे यज्ञाग्ने! तुम उनमें श्रेष्ठ हो । हमारे चिरजीवन के निमित्त आज्ञा वो ॥ ६७ ॥

अत्र कण्डिकायां मन्त्रद्वयम् । तत्र प्रथमो मन्त्र आत्मदेवत्यः सप्तदशाक्षरो यजुः । अस्यापि न यज्ञे विनियोगः । अनेन यजमानः स्वात्मनि वेदत्रयात्मकत्वं सम्पादयति । अत्रापि नामशब्दाद्विभक्तिलापो द्रष्टव्यः । नाम्नाहमुचोऽस्मि ऋग्वेदरूपोऽस्मि । यद्यपि मन्त्रपर एवं ऋक्शब्दस्तथापि लक्षणया ऋग्वेदपरो द्रष्टव्यः । ऋचां प्राधान्यं यस्मिन् वेदे स ऋग्वेद इति व्युत्पत्त्या ऋङ्मन्त्रप्रधानो मन्त्रब्राह्मणात्मको वेदो ग्राह्यः । तथैव यषि सामानीत्यत्रापि द्रष्टव्यम् । यजुर्वेदरूपाऽस्मि । सामानि नामास्मि सामवेदी नाम्नास्मि । ' चित्राऽसीति चित्यनाम कृत्वोपतिष्ठते येनय इति ' ( का ० श्र ० १८/६/२४ ) । चित्यस्याग्नेश्चित्रोऽसोति नाम विधाय तमुप-तिष्ठते । कर्मशेषं समाप्य इदमुपस्थानं कार्यम्, उपस्थानानन्तरं समारोपविधानादिति सूत्रार्थः । द्वितीयो मन्त्र ऋक् । सा च अग्निदेवत्याऽनुष्टुप् । अस्यां पृथिव्यामधि अस्याः पृथिव्या उपरि येऽग्नयः सन्ति, हे चित्याग्ने, तेषां पृथिवीस्थानाममीषां त्वमुत्तमोऽसि उद्गततमोऽसि । अतस्त्वं प्राथ्यसेऽस्माभिः । स त्वं नाऽस्माकं जीवातवे जीव्यतेऽनेनेति जोवातु:, ' जावेरातुः ' ( उ ० १४७८ ) इत्यातुःप्रत्ययः करणं भावे वा, चिरं जीवनमित्यर्थः, तस्मै । प्रसुव प्रेरय । कीदृशा अग्नयः? पाञ्चजन्याः पञ्चजना मनुष्यास्तेभ्या हिताः पाञ्चजन्याः । यद्वा पञ्च जनाः समूहाश्चितिरूपा येषां ते पञ्चजनाः, त एव पाञ्चजन्याः, स्वार्थे तद्धितः । अत्र ब्राह्मणम् —'वैश्वकर्मणानि हुत्वा नाम कराति ' ( श ० ९ / ५ / १ / ५२ ), ' नाम कृत्वाथैनमुपतिष्ठते ' ( श ० ९ ।५।१।५३ ), ' ये अग्नयः पाञ्चजन्या अस्यां पृथिव्यामधि । तेषामसि त्वमुत्तमः प्र न जावात सुवति ये के चाग्नयः पञ्चचितिका अस्यां पृथिव्यामधि तेषामास व सत्तमः प्रो अस्माजीवनाय सुवति ' ( श ० ९ ।५।१।५३ ) । स्पष्टार्थमेतत् । अध्यात्मपक्षे --- परमात्मनो निःश्वासन्यायेन प्रादुर्भूतत्वात् प्रतोचोऽपि तदभिन्नाभिन्नस्य तदभिन्नत्व-नियमेन ऋगादिरूपता । यूप आदित्यदृष्टिरिव वा प्रतोचि ऋगादिदृष्टिः कार्या । हे चित्याग्ने ज्ञानाग्ने, अस्यां पृथिव्यामधि ये पाञ्चजन्या मनुष्यहितावहा अग्नयः सन्ति तेषां त्वमुतमोऽसि, अविद्यातत्कार्यात्मकप्रपञ्च-दाहकत्वेन मोक्षप्रदत्वात् । स त्वं नाऽस्मान् जोवातवे चिरजीवनाय अमृतत्वाय प्रसुव प्रेरय । ब्रह्मात्मभावाव-स्थानद्वारा मोक्षं प्रापयेत्यर्थः । दयानन्दस्तु - ' हे विद्वन्, मोऽहमुचो नामास्मि यजूंषि नामास्मि सामानि नामापि तस्मान्मत्तो विद्यां गृहाण । येऽग्नय आहवनीयादयः पाञ्चजन्या अस्यां पृथिव्यामधि तेषां मध्ये त्वमुत्तमोऽसि । स त्वं नो जीवात शुभकर्म प्रसुव ' इति, तदपि यत्किञ्चित् ऋचां प्रख्यापकत्वेन ऋग्वेदरूपत्वे मानाभावात् । ऋग्वेदनामापि न तावता सम्भवति, पुस्तकप्रकाशकानामपि तन्नामत्वापत्तेः । यो विद्वान् स कथं विद्याग्रहणाय प्रोत्साह्यते? निरर्थकत्वात् । यो विद्याग्रहणाय प्रोत्साहित: पूर्वार्धन, स एवोत्तरार्धे सर्वेषामग्नीनामुत्तमः । स एवाध्यापकस्य जीवातवे सत्कर्मसु प्रेरक इति कि केन श्लिष्यते? ॥ ६७ ॥

पृष्ठ 258

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 258 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२२ शुक्लयजुर्वेद संहिता [ अ ० ] १८

वात्र॑ह॒त्याय॒ शव॑से पृतना॒षाह्य च । इन्द्र॒ त्वाव॑र्तयामति ॥ ६८ ॥

मन्त्रार्थ - हे इन्द्रदेव! आप वृत्रासुर को मारने वाले हैं, शत्रु सेना का तिरस्कार करने में समर्थ हैं । आपके बल को देखने के लिये मैं आपका बार - बार आह्वान करता ॥ ६८ ॥

' चिति पुरीषवतोमुपतिष्ठते वार्त्रहत्यायेति सप्तभिः, अष्टाभिरेके, दशभिर्वा ' ( का ० श्री ० १७ / ७ / १-३ ) । मृत्पूरणानन्तरमेतां चितिमुपतिष्ठते सप्तभिः, एकेषां मतेऽष्टाभिर्दशभिर्वा ऋग्भिरिति सूत्रार्थः । इदमुपस्थानं पुरीषनिवपनानन्तरं सर्वासु चितिषु कर्तव्यम् । आग्नेय्यः सप्तर्च इन्द्रदृष्टाः । आद्ये द्वे वृत्रहेन्द्रदेवत्ये गायत्रीत्रिष्टुभो विश्वामित्रेणापि दृष्टे । हे इन्द्र, वयं त्वा त्वाम् आवर्तयामसि आवर्तयामः उपतिष्ठामहे । ' इदन्तो मसि ' ( पा ० सू ० ७ | १ | ४६ ) इति इगागमे रूपम् । किमर्थम्? शवसे बलाय, त्वद्वलवृद्धये इत्यर्थः । ' शव इति बलनामसु ( निघ ० २२ ९ ।३ ) । कीदृशाय शवसे? वार्त्रहत्याय हननं हत्या वृत्रस्य हत्या वृत्रहत्या, तत्र कुशलं वार्त्रहत्यम्, तस्मै वृत्रघातसमर्थाय । येन शवसा वृत्रो हन्यते तद् वार्त्रहत्यम्, तस्मै । पुनः कीदृशाय? पृतनाषाह्याय पृतनाः सेनाः, शत्रूषामिति यावत्, सह्यन्तेऽभिभूयन्तेऽनेनेति पृतनाषाह्यम्, ' ऋहलोर्ण्यत् ' ( ३ | १ | १२४ ) इति ण्यति रूपम्, तस्मै शत्रुसेनापराभवसमर्थाय । अध्यात्मपक्षे - हे इन्द्र परमैश्वर्यवत् परमेश्वर, त्वां वयमावर्तयामसि उपतिष्ठामहे । किमर्थम्? शवसे निरतिशयबलस्यापि तव बलवर्धनाय । कीदृशाय शवसे? वृत्रमावर कमज्ञानम्, तस्य हनने कुशलाय । पुनः कीदृशाय? पृतनाषाह्याय मोहम्वभिभवसमर्थायेति । दयानन्दस्तु— ' हे इन्द्र सेनेश, यथा वयं वार्त्रहत्याय वार्त्रस्य वर्तमानस्य शत्रोर्हत्या हननं तत्र साधु, तस्मै शवसे बलाय पृतनाषाह्याय ये मनुष्याः पृतनाः सहन्ते ते पृतनासाहस्तेषु साधवे, तेन अन्यान्ययोग्यसाधनेन त्वामावर्तयामसि प्रवर्तयामः, तथा त्वं वर्तस्व ' इति, तदपि यत्किञ्चित्, लोकसिद्धस्य अर्थस्य लोकादेव सिद्धेः, अज्ञातज्ञापकस्य वेदस्य तद्बोधने तात्पर्याभावात् । न च वृत्रपदेन वर्तमानः शत्रुर्गृह्यते, तत्र तच्छब्दशक्तेर्माना-भावात्, वृत्रपदेन आवरकस्य मेघस्य अन्धकारस्य वा विवक्षितत्वात्, ' वृञ् वरणे ' इति सौवादिकधातोर्निष्पन्नत्वात् ।

' गुधवीपचि ' ( उ ० ४।१६८ ) इति बाहुलकात् त्रः ॥ ६८ ॥

स॒ह॒नुं पुरुहूत प्रि॒यन्त॑मह॒स्तमि॑न्द्र॒ सम्पणक्कुर्णारुम् ।

अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया॑रुम॒पाद॑मिन्द्र त॒वसा॑ जघन्थ ॥ ६६ ॥

मन्तार्थ -- अनेकों बार भक्तों द्वारा आहूत हे इन्द्रदेव! हमारे आस - पास बसने वाले, दुर्वचन कहने वाले शत्रु के हाथों को तोड़ कर चूर्ण कर दोजिये । हे इन्द्रदेव, प्रतिदिन वृद्धि को प्राप्त हो रहे, देवताओं को पीड़ा पहुंचाने वाले वृत्रासुर अथवा सभी प्रकार के पापियों को गतिहीन कर नष्ट कर दीजिये ॥ ६६ ॥

हे पुरुहूत, पुरुभिर्बहुभिः पुरुनामभिर्वा हूत आहूतः पुरुहूतः । पुरुपदमावर्तनीयम् । हे इन्द्र! सहदानुं सहसो बलस्य दानुं दातारम् । पृषोदरादित्वात् साधु ' सह इति बलनामसु ' ( निघ ० २ ९ | १७ ) । अयं च वराकस्तुच्छ-बलः, त्वं सम्पूर्णबलः, अतोऽनेन सार्धं त्वं युध्यस्वेति प्रेर्य यः शत्रुमुपस्तोभयते स सहदानुः शत्रुः, ' दाभाभ्यां नुः ' ( उ ० ३।३२ ) इति दातेर्नु:, तम् । यद्वा शत्रुणा सह एकीभूय यो योद्धुं दुर्मन्त्रं ददाति स सहदानुः शत्रुः तम् ।

पृष्ठ 259

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 259 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६ ९ -७१ ] वेदार्थ पारिजातभाष्यसहिता २२३ क्षियन्तं निकटे निवसन्तमिहैव अहस्तं हस्तरहितं कृत्वा युद्धे निर्जित्य सम्पिणक् सम्पिण्डि सञ्चूर्णय । ' पिब्ल सञ्चूर्णने ' इति धातोः सम्पूर्वकाल्लोडर्थे ' छन्दसि लुललिट: ' ( पा ० सू ० ३/४/६ ) इति लङि मध्यमेकवचने रुधादित्वात् इमिरूपम्, षस्य कुत्वमार्षम्, अडभाव आर्ष: । कुणारु ववणति दुर्वचो वदतीति कुणारुः तम् । ' पीयुक्वणिभ्यां कालन् ह्रस्वः सम्प्रसारणं च ' ( उ ० ३।७६ ) इति बाहुलकाद् आरुः, धातोः सम्प्रसारणं च । हे इन्द्र, वर्धमानं सर्वमभिभूय जगद् व्याप्नुवन्तम् । पियारु पीयतीति पियारुः, पीयुः सौत्रो धातुहिंसाकर्मा, देवानां हिंसकः तम् । अथवा तौदादिकः पियतिर्गत्यर्थकोऽप्यत्र हिसाकर्मा । वृत्रं प्रावरकं दैत्यम् । अपादं पादहीनं कृत्वा । तवसा बलेन त्वमभिजघन्थ जहि गमनासमर्थं कृत्वा सम्यङ् मारयेत्यर्थ: । ' तव इति बलनामसु ' ( निघ ० २१ ९ १४ ) । अध्यात्मपक्षे - हे पुरुहूत बहुभिर्भक्तैराहूत हे इन्द्र परमेश्वर, सहदानुं कामक्रोधादिशत्रूणां बलदातारं महाशत्रुक्षयन्तं सदैव निकटे निवसन्तं कुणारु दुर्वचनप्रयोग हेतुमज्ञानमहस्तमकर्मण्यं कृत्वा सम्पिणक् सम्पिण्डि सञ्चूर्णय | अथ योऽयमपरो वृत्रो मोहरूपः तं सर्वमभिभूय वर्धमानम्, पियारु शान्तिदान्ति-सन्तोषादीनां हिंसितारमपादं गमनासमर्थं कृत्वा तवसा विवेकबलेन, अस्माकं विवेकबलं सम्पाद्येत्यर्थः, जघन्थ सम्यङ् मारय । दयानन्दस्तु - ' हे पुरुहूत, यथा सूर्यः सहदानुं यः सहैव ददाति तम्, क्षियन्तमाकाशे गच्छन्तं कुणारु शब्दयन्तमहस्तं पियारु पानकारकमपाद पादेन्द्रियरहितमभिवर्धमानं वृत्रं मेघमिव सम्पिणक् पिनष्टि, तथा हे इन्द्र, शत्रूंस्तवमा जघन्थ जहि ' इति, तदपि लौकिकसेनापति प्रोत्साहनमात्रम्, धर्म ब्रह्मसम्बन्धशून्यत्वेन निरर्थकं च । यथा सूर्य इत्यादिकमपि निर्मूलमेव ॥ ६ ९ ॥

विन॑ इन्द्र मृधो ' जहि नो॒चा य॑च्छ पृतन्य॒तः ।

यो अस्म २ ॥ अभिदास॒त्यध॑रं गमया॒ तमः ॥ ७० ॥

मन्चार्थ - हे इन्द्रदेव! संग्राम में हमारे शत्रुओं पर विजय प्राप्त कीजिये, संग्राम की इच्छा से सेना का संग्रह करने वाले शत्रुओं को नीचा दिखाइये । जो हमें क्लेश देता है, उसको निकृष्ट अन्धकार रूप नरक में ढकेल दीजिये ॥ ७० ॥

इयम् ८ । ४४ इत्यत्र व्याख्याता ॥ ७० ॥

मगो न भीमः कुच॒रो गा॑रि॒ष्ठाः प॑रा॒वत॒ आज॑गन्या॒ पर॑स्थाः ।

-स॒कधि॑ स॒द्ध्शाय॑ प॒विमि॑न्द्र ति॒ग्मं वि शत्रून् तादि॒ वि मृधो ' नुदस्व ॥ ७१ ॥

मन्त्रार्थ - हे इन्द्रदेव! भयानक दिखाई पड़ने वाले, डरावनी चाल वालें, पर्वत की गुफा में सोये सिंह के समान आप हमारी रक्षा के लिये बहुत दूर के स्थान से भी शीघ्र चले आइये । शत्रु के शरीर में प्रवेश करने वाले तीक्ष्ण वज्र को और भी धारदार बनाकर शत्रुओं को विशेष रूप से ताडित कीजिये और संग्राम भूमि से उनको भगा दीजिये ॥ ७१ ॥

पृष्ठ 260

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 260 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२२४ शुक्लयजुर्वेदसंहिता [ अ ० ] १८ जयदृष्टा त्रिष्टुप् । हे इन्द्र, परस्याः पृथिव्या दूरदिशोऽपि वा । परावतो दूरतराद्देशात् परावच्छन्दो दूरतरवचन: आहूयमान इव आजगन्थ आगच्छ । लोड लिट् । आगत्य च पवि वज्रं संशाय तीक्ष्णीकृत्य निशितधारं कृत्वा, ' शो तनूकरणे इत्यस्य ल्यपि रूपम् | शत्रु विनादि विशेषेण ताडय । मृधः संग्रामांश्च farara विशेषेण प्रेरय दूरीकुरु । प्रधानान् हत्वा शेषान् मृधः संग्रामादपसारय । कीदृशं पविम्? सुक्रम्, शत्रुशरीरे गच्छनीति सृकस्तम् । पुनः कीदृशम्? तिग्मम् उत्साहवन्तम् अतितीक्ष्णं वा कृत्वा सरति तेजतेरुत्साहकर्मणः ' ( निरु ० १०१६ ) इति यास्कः । दूरादागत्य शत्रुविनाशने दृशन्तमाह- ' तिग्मं सिंह इव । यथा सिंहो दूरादेत्य प्राणिनो हन्ति, तद्वत् । कीदृशो मृगः? भीमो भयङ्करः । पुनः कीदृश मृगो: न मृगः कुत्सितं चरतीति कुचरः । पुनः कीदृश:? गिरिष्ठा गिरी तिष्ठतीति गिरिष्ठाः पर्वताश्रयः । तडिराघातार्थक- ? कुचरः चौरादिको हिंसाकर्मा । तस्य लोटि हो परे ' छन्दस्युभयथा ' ( पा ० सू ० ३ | ४ | ११७ ) इत्यार्धधातुकत्वे णिचो लोपे हे वेढलोपे दीर्घे च रूपम् । अध्यात्मपक्षे -- हे इन्द्र परमेश्वर, मृगो न यथा व्यानी सिंहो वा भीमो भीषणः कुचरः कुत्सितचारी सिः प्राणिवधजीवनो गिरिष्ठाः पर्वताश्रयो दूरदेशादागत्य दैत्यप्रायान् प्राणिविशेषान् तैरनभिभूयमानो हन्ति, तथा त्वं परस्या दूरदिशः परावतो दूरदेशाद् आजगन्थ आगच्छ । सर्वत्र व्याप्तस्यापि वैकुण्ठ- गोलोक -साकेतादि- ' लोकविशेषनिवासित्वात् तव दूरदेशादागमनं युक्तमेव । आगत्य च सृकं शत्रु देहेषु सरणशीलं तिग्मं पवि तेजनं वज्रं संशाय तीक्ष्णीकृत्य विताढि बाह्यानान्तराश्च शत्रून् विशेषेण ताड्य मारय । अवशिष्टान् मृधो विनुदस्व संग्रामादपुनरागमनाय पलायितुं प्रेरयस्व । दयानन्दस्तु - ' हे इन्द्र मेनेश, त्वं कुचरो गिरिष्ठा भीमो मृमो न परावत आजगन्थ । परस्यास्तिग्मं पवि सृकं संशाय शत्रून् विताढि मृधो विन्दस्व ' इति, तदपि यत्किञ्चित् गौणार्याश्रयणस्यैव दूषणत्वात् । कुचर -पदस्य कुटिलगतित्वं मृगपदस्य सिंहतुल्यार्थत्वं च काल्पनिकमेव ॥ ७१ ॥

वैश्वान॒रो न॑ ऋ॒तय॒ आ या॑तु॒ परा॒वत॑ः । अ॒ग्निनैः सुष्टुती ॥ ७२ ॥

मन्त्रार्थ- - सब प्राणियों का हितकारी अग्नि देव हमारी सुन्दर स्तुतियों को सुनने के लिये और हमारी रक्षा के लिये दूर देश से भी शीघ्र चले आयें!! ७२ ॥ वैश्वानरदेवल्या गायत्री । वैश्वानरोऽग्निर्नोऽस्माकमूतये अवनाय रक्षणाय तर्पणाय वा सुष्टुतीः शोभनाः स्तुतीरुप उपश्रोतुं परावतो दूरदेशाद् आप्रयातु आगच्छतु । नोऽस्माकं 1 अध्यात्मपक्षे - वैश्वानरः, विश्वे नरा यस्यासौ विश्वानरः, ' नरे संज्ञायाम् ' इति दीर्घः, विश्वानरस्यापत्यं वैश्वानरः, ' ऋष्यन्धकवृष्णिकुरुभ्यश्च ' ( पा ० सू ० ४ | ११ ११४ ( पा ० सू ० ६ | ३ | १२ ९ ) परमेश्वरः । अथवा विश्वेषां नराणां समष्टिविश्वानरः, स एव वैश्वानरः । समष्टिप्रपञ्चाभिमानी ) इत्यण् । अग्निरूपः नोऽस्माकमूतये रक्षणाय तर्पणाय च नः सुष्टुतोरुपश्रोतुं परावतो गोलोकादिदूरदेशाद् आप्रयातु: परमेश्वरः, दयानन्दस्तु - ' हे सेनेश समेश, यथा वैश्वानरोऽग्निः सूर्यः परावतः सर्वान् पदार्थान् प्राप्नोति तथा भवानूतये न आप्रयातु । यथाग्निविद्युत्सहितोऽस्ति तथा त्वं नः सुष्टुतीरुपशृणु ' इति, तदपि सम्बोधनस्यैव निर्मूलत्वात् । वैश्वानरवन्दस्य सूर्यार्थतापि प्रमाणसापेक्षा, परावत्पदमपि दूरदेशबोधकम् विसङ्गतमेव, तत्रत्यपदार्थबोधकम् | संहितेत्यस्य व्यापिकापि समीपस्था भवतीत्यर्थ उक्तः, सोऽपि चिन्त्य एव निर्मूलत्वात् , न तु नहि मनुष्य सुष्टुतिर्युक्ता, परमेश्वरस्यैव सुष्ठु स्तोतव्यत्वात् ॥ ७२ ॥ ।