वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 271–280

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 271–280

पृष्ठ 271

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 271 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५-६ ] वेदार्थं पारिजातभाष्यसहिता २३५ अध्यात्मपक्षे - हे सोमात्मना प्रादुर्भूत साम्बसदाशिव, शुक्रेण शुद्धेन वीर्येण त्वं देवताः पिपृग्धि । शेषं पूर्ववत् । अत्र ब्राह्मणम् -'ब्रह्म क्षत्रं पवत इति पथः पुनाति । ब्रह्मण एव तत् क्षत्रं जनयति ब्रह्मणो हि क्षत्रं जायते तेज इन्द्रियमिति तेज एवास्मिन्निन्द्रियं वीर्यं दधाति सुरया सोम इति सुरया हि सोमः सुत आसुत इत्या-सुताद्धिते मदायेति मदाय बाव सोमो मदाय सुरोभावेन सोममदं च सुरामदं चावरुन्धे शुक्रेण देव देवताः पिपरधीत शुक्रेण देव देवताः प्रीणीहीत्येवैतदाह रसेनान्नं यजमानाय धेहीति रसमेवान्नं यजमाने दधाति पूर्वे पोग्रहा गृह्यन्तेऽपरे सुराग्रहा विशं तत्क्षत्रस्यानुवर्त्मानं करोति ' ( श ० १२ | ७ | ३।१२ ) । दानन्दस्तु - ' हे देव विद्वन् यः शुक्रेण आशु शुद्धिकरेण मदाय आनन्दाय सुरया या स्मयते सा सुरा, तया चासुतः सम्पादितः सोमः समन्ताद्रोगनिवारणे सेवितस्तेज इन्द्रियं ब्रह्म विद्वत्कुलं क्षत्रं न्यायकारिकुलं च पवते तेन रसेनान्नं यजमानाय धेहि । देवताः पिपृग्धि ' इति, तदपि यत्किञ्चित् अनुपपत्तेः । तथा हि सुखदाता विद्वानत्र सम्बोध्य धर्मात्मने रसयुक्तान्नदानाय विदुषां प्रसादनाय च प्रार्थ्यते । यो विद्वान् स स्वयमेव स्वकर्तव्यं जानातीत्यपार्थमेव तद्वचनम् । या सूयते सा क्रियेत्यप्यपार्थकम् क्रियावतामपि सवनदर्शनात् तेषामपि क्रियात्वा-पत्तेः । मन्त्रे तु सुरासोमपदार्थयोश्चर्चा न त्वन्यौषधीनाम् । ब्रह्म च क्षत्रं च एतयोर्यागद्वारा सोमस्य पावकत्वं

वेदेषु प्रसिद्धम् । अन्यौषधिरसानां तथात्वं चिन्त्यमेव ॥ ५ ॥

कुविद॒ङ्ग यव॑मन्त॒यव॑ चि॒द्यथा॒ दाम॑नु॒पूर्वं वि॒यं । इ॒षां कृणु॒हि॒ भोज॑नानि॒ ये ब॒हिषो॒ नम॑उक्त॒ यज॑न्ति । उपया॒मगु 1 होतोऽस्य॒ श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ स्वेन्द्र स्वा सु॒त्राणे ' । ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॑यि त्वा॒ बला॑य त्वा ॥ ६ ॥

मन्त्रार्थ - हे सोम! जैसे किसान अकेला भी अपनी जोती हुई भूमि में अधिक उत्पन्न हुए धान्य को क्रम से काटता है, उसी प्रकार क्रम से सभी देवताओं को सोम रस का पान कराने के कारण तुम उनके परम प्रिय हो । यहाँ इन यजमानों के लिये भोज्य पदार्थों का संग्रह करो, जो कि कुश के आसन पर बैठ कर मन्त्रोच्चारण करते हुए हवि देते हैं । हे सोम! तुम उपयाम पात्र में गृहीत हो, अश्विनीकुमारों की प्रीति के निमित्त तुम्हें ग्रहण करता हूँ । यह तुम्हारा स्थान है । तेज के निमित्त तुम्हें यहां बैठाता हूँ । हे पयोग्रह! तुमको सरस्वती देवता की प्रीति के निमित्त, हे दूसरे पयोग्रह! तुमको वीरता की प्राप्ति के निमित्त हे तृतीयपग्रह! रक्षक इन्द्र देवता की प्रीति के निमित्त तुम्हें यहाँ स्थापित करता हूँ, बल के निमित्त तुम्हें यहाँ स्थापित करता हूँ ॥ ६ ॥

' पयोग्रहान् गृह्णाति कुविदङ्गेति पृथगुपयामयोनी ' ( का ० श्र ० १ ९ २ १२-१३ ) | एवं सुरापयसोः पावनं कृत्वा कुविदङ्गेति मन्त्रेणैव त्रीन् पयोग्रहान् गृह्णाति । मन्त्रपाठे उपप्रामगृहीतोऽसि एष ते योनिरिति द्वे यजुषी सकृत्पठिते अपि त्रिषु ग्रहेषु उपयामेति ग्रहग्रहणमन्त्रः, एष ते योनिरिति ग्रहासादनमन्त्रश्च पृथक् पृथग् भवतः । ततश्चेत्थं मन्त्रस्वरूपम् - प्रथमग्र ॐ कुविदङ्गेति ऋचं पठित्वा उपयामगृहोतोऽस्यश्विभ्यां त्वा गृह्णामि । ॐ एष योनिस्तेज त्वा सादयामि । ततो द्वितीयग्रहग्रहे ॐ कुविदङ्गेति ऋचं पठित्वा उपयामगृहीतोऽसि सरस्वत्यै त्वा गृह्णामि । ॐ एष ते योनिर्वीर्याय त्वा सादयामि । ततस्तृतीयग्रहग्रहे ॐ कुविदङ्गेति ऋचं पठित्वा उपयामगृही तो s सीन्द्राय त्वा सुत्राणे गृहामि । ॐ एष ते योनिर्बलाय त्वा सादयामि । कुविदङ्गेति ऋग् दशमेऽध्याये

पृष्ठ 272

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 272 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३६ शुक्लयजुर्वेदसहिता [ अ ० ] १ ९ द्वात्रिंश्यां कण्डिकायां व्याख्याता । हे पयोग्रह, त्वमुपयामेन पात्रेण गृहीतोऽसि सादयति - एष ते योनिः स्थानम् । ' योनिर्द्वयोः ( अ ० को ० २२६१७६ ) इति । अश्विभ्यामर्थे त्वां गृह्णामि । ततः तेजसे तेजोऽर्थं त्वां सादयामि । द्वितीयपयोग्रहे सरस्वत्यै त्वां गृह्णामि, कोषाद योनिशब्द उभयलिङ्गः । सुत्राणे सुष्ठु त्रायते रक्षतीति सुत्रामा तस्मै रक्षकाय इन्द्राय त्वां गृह्णामि, वीर्यार्थं बलाय त्वां सादयामि । तृतीयपोग्र क्रमादश्वत्योदुम्बरन्यग्रोधपात्रैर्ग्रहणम् । बलार्थं त्वां सादयामि । एतेषां अत्र ब्राह्मणम् -'कुविदङ्ग यवमन्तो यवं चिदिति । पयोग्रहान् गृह्णाति सोमांशवो पयः सोमेनैवेन, सोमं करोत्येकया गृह्णात्येकधैव यजमाने श्रियं वै यवाः सोमः ' कुविदङ्ग यवमन्तो यवं चिदिति पयोग्रहान् गृह्णाति ' इति पयोग्रहाणामुत्पत्तिवाक्यम् दधाति श्रोहि पयः ' ( श ० १२ | ७ | ३ | १३ ) | सुरासोमादयो देवताः ॥ ६ ॥ । मान्त्रवाणिक्य एव

नाना हि वां दे॒वह सदस्कतं मा ससृक्षायां पर॒मे व्योमन् । . सुरा त्वमसि शुष्मिणो सोमं॑ एष मा मा हिसीः स्वां योनि॑मावि॒शन्त ॥ ७ ॥

मन्त्रार्थ - हे सुरा - सोम! तुम दोनों देवताओं के हितकारी हो, तुम लोगों के लिये बनाये गये हैं, इसलिये तुम लोग इस विशाल हवन स्थान में ही रहो । आहवनीय अग्नि में दूध यहाँ अलग - अलग स्थान होमी जाती है, अतः अलग - अलग रहो । हे सुरा रस! तुम बलवान् देवताओं के स्वीकार और दक्षिणाग्नि में सुरा यह सोम शान्त है, अत: दक्षिणाग्नि में प्रवेश करते समय तुम सोम को पीड़ा मत दो || ७ करने योग्य रस से युक्त हो, || ' स्थालीभिः सौरान नाना हि वामिति व्यत्यासम् ' ( का ० श्री ० १ ९ / २ / २१ व्यत्यस्य स्थालीभिर्मृण्मयीभिगृहीयात् । तद्यथा - प्रथममाश्विनं पयोग्रहं गृहीत्वाऽऽसाद्य ) । त्रीन् सुराग्रहान् व्यत्यस्थ गृहीत्वाऽऽसादयेत् । ततः सारस्वतं पयोग्रहं ततः सारस्वतं सुराग्रहम् । तत तत आश्विनं सुराग्रहं क्रमेण वा उपयामयोनी । तथा च प्रथमे नाना हीति पठित्वा उपयामगृहीतोऽस्याश्विनं ऐन्द्रं पयोग्रहं तत ऐन्द्र सुराग्रहमिति । योनिर्मोहाय त्वेति सादनम् । द्वितीये नाना हीति पठित्वा उपयामगृहीतोऽसि तेज इति ग्रहणम्, एष ते योनिरानन्दाय त्वेति सादनम् । तृतीये नाना होत्यन्त उपयामगृहातोऽस्यैन्द्रबलमिति सारस्वतं वार्यमिति ग्रहणम् एष ते वेति सादनमिति सूत्रार्थः । ग्रहणम्, एष ते योनिमंहसे सुरा - सोमदेवत्या जगती । हे सुरासोमी, हि यस्मात् कारणाद् वां युवयोर्नाना कृतम्, सुरापयसोर्द्वे वेदी भवतः । कीदृशं सदः? देवहितं देवेभ्यो हितं पथ्यम् पृथक् पृथक् सदः स्थानं कारणात् परमे उत्कृष्टे व्योमन् व्योम्नि व्योमवद्विशाले हवनस्थाने युवां मा । यद्वा देवहितं स्थापितम् । अतः वनीये पयो हूयते, दक्षिणाग्नौ च सुरा । अतो न संसर्गः । एवं द्वावुक्त्वा संसृक्षायां संसर्ग मा कुरुतम् - आह-कीदृशी? तत्राह -- शुष्मिणी शुष्मं बलमणस्तीति बलवती । अतस्त्वां पीत्वा सुरां रौद्रमना प्रत्याह हे सुरे, त्वं सुरा असि । गुणः शान्तः । अतो ब्रवीमि स्वां योनिमाविशन्ती प्रविशन्ती सती सोमं मा हिंसीः भवति ॥ एष सोमः प्रख्यात -पादपूरणार्थः । माशब्दोऽनुदात्तोऽनर्थकः अत्र ब्राह्मणम् -'नाना हि वां देवहित, सदस्कृतमिति । सुराग्रहान् सुरा च देवहितमिति देवहिते ह्येते नाना सदस्कृतमिति द्वे हि वेदी भवतो मा ससृक्षाथां गृह्णाति नाना परमे हि व्योमन्निति सोमव

पृष्ठ 273

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 273 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ७ 1 दार्थपारिजातभाष्यसहिता २३७ पाप्मनेवेनं व्यावर्तयति सुरा त्वमसि शुष्मिणीति सुरामेव सुरां करोति सोम एष इति सोममेव सोमं करोति मा मा हिंसीः स्वां योनिमाविशन्तीति यथायोन्यैवैनां व्यावर्तयत्यात्मनोऽहिंसाया एकया गृह्णात्येक-धैव यजमाने यशो दधाति यशो हि सुरा ' ( श ० १२ | ७ | ३ | १४ ) | नाना हि वां देवहितं सदस्कृतमिति सुराग्रहान् गृह्णातीति सुराग्रहाणामुत्पत्तिवाक्यम् । मान्त्रवाणिक्य एव सुरासोमादयो देवताः । ' क्षत्रं वे पयोग्रहाः । विट् सुराग्रहा यदव्यतिषिक्तान् गृह्णीयाद विशं क्षत्राद् व्यवच्छिन्द्यात् क्षेत्र विश: पापवस्यसं कुर्याद्यज्ञस्य व्यृद्धि व्यतिषक्तान् गृह्णाति विशमेव क्षेत्रेण सन्दधाति क्षत्रं विशा पापवस्यसस्य व्यावृत्त्यं यज्ञस्य समृद्धयै ' ( श ० १२ | ७ | ३।१५ ) । व्यतिषक्ता अन्योऽन्यमतिक्रान्ताः । सक्तांश्च गृह्णाति । पयोग्रहं गृहोत्वा सुराग्रहं गृह्णाति । सुराग्रहं गृहीत्वा पयग्रहान् गृह्णाति । अव्यतिषक्तग्रहणे हि क्षत्राद्विशो व्यवच्छेदः, विशश्च क्षत्रस्य । तदेतत् पापकं कर्म । तदेव वस्यसं वसुमत्तरं प्रशस्यं वा । यस्मिन् यज्ञे पापवस्यसं तस्य व्यृद्धिः । तस्माद्यज्ञसमृद्ध्यर्थं पापवस्थसं न कर्तव्यमिति । प्राणा वै पयोग्रहाः । शरीरं सुराग्रहा यदव्यतिषक्तान् गृह्णीयाच्छरीरं प्राणेभ्यो व्यवच्छिन्द्यात् प्राणान् शरोरात् प्रमायुको यजमानः स्याद्वयतिषक्तान् गृह्णाति शरीरमेव प्राणैः सन्दधाति प्राणान् शरीरेणाथो आयुरेवास्मिन् दधाति तस्मात् सौत्रामण्येजानः सर्वमायुरत्यथो एवमेतद्वेद ' ( श ० १२ | ७ | ३ | १६ ) | प्राणाः पयोग्रहाः, शरोरं सुराग्रहाः । अव्यतिषक्तग्रहणे प्राणेभ्यः शरीरस्य व्यवच्छेदः, शरीराच्च प्राणानाम् । तथा च यजमानो म्रियेत । व्यतिषक्तग्रहणे च शरीरं प्राणैः सन्दधाति प्राणांश्च शरीरेण । ' सोमो वै पयोग्रहाः । अन्नं सुराग्रहा यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते सोमपीथं चैवान्नाद्यं चावरुन्धे ' ( श ० १२ | ७ | ३ | १७ ) । सोमपीथं सोमपानमन्नाद्यं चावरुन्धे प्राप्नोति, यजमान इति शेषः । पशवो वै पयोग्रहाः । अन्न सुराग्रहा यत्पयोग हाच सुराग्रहाश्च गृह्यन्ते पशुश्चैवान्नाद्यं चावरुन्धे ' ( श ० १२ | ७ | ३ | १८ ) | स्पष्टार्था कण्डिका । ' ग्राम्या वै पशवः पयोग्रहाः । आरण्याः सुराग्रहा यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते ग्राम्यांश्चैव पशूनारण्यांश्चावरुन्वें ग्राम्येण चान्नेनारण्येत च पयोग्रहाञ्छ्रीणाति तस्माद् ग्राम्याणां पशूनां ग्राम्यं चैवान्नाद्यमारण्यं चावरुद्धम् ' ( श ० १२ | ७ | ३ | १ ९ ) । ' तदाहुः । एतस्यै वा एतदघलायै देवताये रूपं यदेते घोरा आरण्याः पशवो यदेतेषां पशूनां लोमभिःपयोग्रहान् श्रीणीयाद् स्वास्ये पशून पदद्वयाद-पशुर्यजमानः स्याद्यन्न श्रोणीयादनवरुद्धा अस्य पशवः स्यू रुद्रो हि पशूनामीष्ट इति सुराग्रहानेवेतेषां पशूनां लोमभि. श्रीणाति सुरायामेव तद्रौद्रं दधाति तस्मात् सुरां पोत्वा रौद्रमना अथों आरण्येष्वेव पशुषु रुद्रस्य हेत दधाति ग्राम्याणां पशूनामहि साया अवरुद्धा अस्य पशवा भवन्ति न रुद्रस्यास्ये पशूनपि दधाति ' ( श १२ | ७ | ३।२० ) । अघला अघं पापं लाति आदत्त इत्यघला हिंसाकारिणी । देवता रुद्रः । घोरा हर्तारः । आरण्याः पशवः सिंहवृकव्याघ्राः । रुद्रस्य वृकस्य | आस्ये मुखे । पशून् ग्रहान् । उग्ररूपार्थत्वाद् अपिदध्यात् संस्थापयेत् | अपशुर्यज-मानः स्यात् । आरण्यानां लोमभिः किञ्चिदपि श्रीणीयात् ततोऽनवरुद्धा अस्वीकृताः, अनादृता इति यावत् । कथं पुना रुद्रे आभक्षायास्ये पशवाऽवरुद्धा भवन्तीत्यर्थः । सुराग्रहानेव एतेषामारण्यानां लोमभिः श्रोणाति सुरायामेवैतद् रौद्रं रूपं दधाति । तस्माद् यज्ञानुकृत्या लोकेऽपि सुरां पीत्वा रौद्रचित्तो जिघांसुः पुरुषो भवति । “ अथ आरण्येष्वेव पशुमृगवराहमहिषगवयादिषु रुद्रस्य स्वभूतं हृतिमायुधं सिंहव्याघ्रात्मकं दधाति । किमर्थम्? ग्राम्याणां गवादानां पशूनामहिंसायं । अन्यथा व्याघ्रादयः सामान्यरूपेण आरण्यानिव एतानपि हिसिष्यन्ति । यत्सुराग्रहान् श्रीणन्ति तदास्येषु रुद्रस्य निदधाति यजमानः सुराग्रहाणामारण्यपशुवचनात् । एवं हि पशुपतिमाभजतोऽस्य यजमानस्य अवरुद्धाः पशवो भवन्ति । या व्याघ्रमिति द्वाभ्यामृग्भ्यां यजमान पावतः पाप्मनो व्यावर्तयति वियोजयति । अध्यात्मपक्षे — भगवदाराधनलक्षणो निवृत्तिमार्गीयो धर्मः शास्त्रसम्मता प्रवृत्तिश्च उभावप्यत्र सम्बोध्येते । वां युवयोः, हि यस्मान्नाना पृथक् पृथग् देवहितं देवानां हितावहम् देवैव हितं स्थापितं सदः स्थानं

पृष्ठ 274

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 274 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२३८ शुक्लयजुर्वेद संहिता [ अ ० ] १ ९ कृतम्, परमे उत्कृष्टे व्योमन् व्योमवद् व्यापके वैदिके धर्मे युवं युवां मा संसृक्षायां संसृष्टे भवेतम् । हे सुरे, सुष्ठु रमन्ते आस्तिका जना यत्र सा सुरा शास्त्रसम्मता प्रवृत्तिस्तत्सम्बुद्धौ त्वं शुष्मिणी बलवती । एष सोमः, सोम उमया सहितः साम्ब सदाशिवः सोमः तद्विषयको बोधोऽपि सोमशब्दभागुपचारात् । सर्वोत्तमप्रकृतिपरिणामत्वाद्वा सोमः । अग्निः पुरुषः, सोमः प्रकृतिः, ' अग्नीषोमात्मकं जगत् ' ( बृ जा ० २१४ ) इति श्रुतेः । स्वां योनि प्रकृति विशन्ती प्रविशन्ती त्वमेनं सोमज्ञानं मा हिंसीः । प्रकृत्या निवृत्तिलभ्यस्य नैष्कर्म्यव्य ज्ञानस्य बाधप्रसङ्गेऽपि तं माहिंसाः । दयानन्दस्तु - ' हे राजप्रजाजनौ नाना सदस्कृतं देवहितं विदुषां प्रियाचरणं वां प्राप्नोतु, स्वां योनि प्रविशन्ती शुष्मिणी बलवती सुरा सोमलतास्ति । त्वं परमे उत्कृष्टे व्योम्नि बुद्धवकाशे वर्तमानासि तां युवां प्राप्नुतम् । मादकद्रव्याणि मा संसृक्षाथाम् विद्वन् एष सोमोऽस्ति, तं मां च त्वं मा हिंसी: ' इति, तदपि यत्किञ्चित्, सुरापदस्य सोमार्थकत्वे प्रमाणाभावात् । अत एव सम्बोधनमपि निर्मूलमेव । वामित्यनेन युवयोः सुरासोमयोरेव, प्रसङ्गः । मन्त्रे च सुरा त्वमसि शुष्मिणी, सोम एष इति स्पष्टतयोभयोर्निर्देशः । न च सुरा बुद्धयवकाशे वर्तते तस्या बाह्यत्वात् ॥ ७ ॥

उपयोग होतोऽस्य श्विनं तेज॑ः सारस्व॒तं वी॒र्या॑ म॒न्द्रं बलम् । ए॒ष ते॒ योनि॒र्मोदा॑य स्वान॒दाय॑ त्वा॒ महसे त्वा ॥ ८ ॥

मन्त्रार्थ - हे सोम! तुम उपवास पात्र में गृहीत हो, तेजःस्वरूप तुमको अश्विनीकुमारों को प्रीति के निमित ग्रहण करता हूँ । हे प्रथम सुराग्रह! यह तुम्हारा स्थान है, आनन्द के निमित्त तुमको यहाँ स्थापित करता हूँ । है द्वितीय सुराग्रह! वीर्यं स्वरूप तुमको सरस्वती देवता की प्रीति के लिये उपयाम पात्र में गृहीत करता हूँ, आनन्द की प्राप्ति के लिये तुम्हें यहाँ स्थापित करता हूँ । हे तृतीय सुराग्रह! बल की प्राप्ति और इन्द्र देवता को प्रसन्नता के लिये उपयाम पात्र में तुम्हारा ग्रहण करता हूँ । महत्त्व की प्राप्ति की कामना से तुम्हें यहाँ स्थापित करता हूँ ॥ ८ ॥

' सुरावन्तमिति जुहोति ' ( का ० श्र ० ९९ | ३ | १२ ) । त्रीनपि पयोग्रहानध्वर्युः सहैव जुहुयादिति सूत्रार्थः । ' पालाशैः सौरान् न मृण्मयमाहुतिमानश इति श्रुतेर्यस्त इति ' ( का ० श्री ० १ ९ | ३ | १३ ) । प्रतिप्रस्थाता दक्षिणेऽग्नौ सुराग्रहं पालाशैरुलूखलैर्जुहुयान्न मृण्मयीभिः स्थालीभिः । कुतः? ' न मृण्मयमाहुतिमानशे ' ( तै ० सं ० २ | ५ | ४ | ६ ) इति श्रुतेः, ' यस्ते रसः सम्भूतः ' ( वा ० सं ० १ ९ / ३३ ) इति मन्त्रेणेति सूत्रार्थः । उत्तरेऽग्नौ पयोग्रहान् दक्षिणे सुराग्रहान् हुत्वा भक्षयन्ति । ' प्राणभक्षमके ' ( का ० श्र ० १ ९ | ३ | १ ९ ) । एके शाखिनः सौरग्रहाणामवघ्राणमात्रं कुर्वन्ति, न मुखेन भक्षणमिति सूत्रार्थ: । ' परिक्रोतो वा वेश्यराजन्ययोरन्यतरः ' ( का ० श्र ० १ ९ ३ २० ) | अथवा वैश्यराजन्ययोरन्यतरो मूल्येन क्रीतः सौरान् ग्रहान् भक्षयेदिति सूत्रार्थः । ' अङ्गारेषु वा बहिष्परिधि दक्षिणतो जुहोत्याश्विनमुत्तरे मध्यम सारस्वतमैन्द्रं दक्षिण पितृभ्य इति प्रतिमन्त्रम् ' ( का ० श्र ० ९९ | ३ | २१ ) । अथवा दक्षिणस्याहवनीयस्याङ्गारेषु परिवर्बहिः प्रदेशे दक्षिणस्यां दिशि स्थापितेषु दक्षिणसंस्थेषु पितृभ्य इति होमाव-शिष्टान् सुराग्रहान् जुहुयात् । तत्राश्विनं सुराग्रहमुत्तरे, मध्यमे सारस्वतम् दक्षिण ऐन्द्रं सुराग्रहं जुहुयादिति सूत्रार्थः । उपयामगृहीतोऽसि । आश्विनं तेजः, अश्विनोरिदमाश्विनम् अश्विसम्बन्धि तेजः प्रकाशः प्रागल्भ्यं वा, साक्षात् त्वमवासि । सारस्वतं सरस्वत्या इदं सरस्वतीसम्बन्धि वीर्यं सामर्थ्यं च त्वमेवासि । ऐन्द्रम् इन्द्रस्य

पृष्ठ 275

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 275 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ८ - ९ ] der पारिजातभाष्यसहिता २३ ९ इदमिन्द्रसम्बन्धि बलं च त्वमेवासि । एवं प्रशस्य सादयति - एष ते योनिः स्थानम । मोदाय प्रमोदाय त्वा त्वां सादयामीति शेषः । आनन्दाय हर्षाय त्वा त्वां सादयामि । महसे, महति पूजितो भवति जनोऽनेनेति महः, ' सर्व-धातुभ्योऽसुन् ' ( उ ० ४ १८ ९ ) इत्यगुन, तस्मै महत्वाय च त्वा त्वां सादयामि । पूर्वोक्तसूत्रार्थ रीत्या प्रत्येकमत्रापि मन्त्रा उन्नेयाः । अध्यात्मपक्षे - हे सोम साम्बपरमेश्वर विज्ञान, त्वमाश्विनं तेजः, त्वमेव च सारस्वतं वीर्यम् त्वमेव च ऐन्द्रं परमैश्वर्यं निरुपधिबलम् । एष सोपाधिचिदात्मरूपः साधकस्ते योनिरभिव्यक्तिस्थानम् । मोदाय ब्रह्मोप-लब्धिजनितहर्षाय तदुपलब्धिनिष्ठाजनितानन्दाय महसे ब्रह्मात्मभावाय च त्वामत्र सादयामि । दयानन्दस्तु - ' हे राजप्रजाजन, यस्त्वमुपयामगृहीतोऽसि धर्मसम्बन्धनियमसंयुक्तोऽसि यस्य ते एष योनिररित, तस्य ते आश्विनं सूर्याचन्द्रमसोरिदं तेजः सारस्वतं वेदवाण्या इदं वीर्यम्, इन्द्रस्येदं बलं चास्तु, तं त्वामोदाय आनन्दाय महसे सत्काराय च सर्वे स्वीकुर्वन्तु ' इति, तदपि यत्किञ्चित् सम्बोधनादनिर्मूलत्वात्, तं त्वा सर्वे स्वीकुर्वन्तिस्य आर्थिकत्वात् यश्चार्थिकार्थो न स शब्दार्थ इति सिद्धान्तात् ॥ ८ ॥

-तेजोऽसि तेजो मयि धेहि वीर्य मसि वीर्यं मयि धेहि बल॑मसि॒ बल॑ मयि॑ धेोजो-स्योज॒ मयि॑ धेहि म॒न्युर॑सि म॒न्युं मयि॑ धेहि॒ि सहो ' ऽसि॒ सहो मयि॑ धेहि ॥ ९ ॥

मन्त्रार्थ - हे दूध! तम तेज को बढ़ाने वाले हो, मुझे तेज प्रदान करो । तम वीर्य स्वरूप हो, मुझे वीर्य प्रदान करो । तुम बलस्वरूप हो, मुझे बल प्रदान करो । हे सुरारस! तुम कान्तिस्वरूप हो, मुझे कान्ति प्रदान करो । तुम क्रोध स्वरूप हो, मुझे मन्यु ( अहंकार ) प्रदान करो । तुम साहनस्वरूप हो, मुझे साहस प्रदान करो || ६ || ' गोधूम - कुवलचूर्णानि चावति तेजोऽसीति ' ( का ० श्री ० १ ९ / २ / १६ ) | आश्विनग्रहग्रहणानन्तरं सादनात् प्राग् द्वे दर्भतृणे प्रागग्रे पात्रोपरि कृत्वा गोधूमकुवलयोश्चूर्णानि सहैव पयसि क्षिपतीति सूत्रार्थः । कुवलं स्थूलं बदरीफलम् | त्रीणि यजूंषि पयोदेवत्यानि । आद्यं यजुर्बृहती । हे पयः त्वं तेजोऽसि, अतो मयि तेजो धेहि । यो हि यदात्मकः, स तत्र नियोगमर्हतीति न्यायात् । पयोग्रहस्य प्रागल्भ्यहेतुत्वात् तेजस्वत्वम् । ' उपवाकबदरचूर्णानि च वीर्यमसीति ' ( का ० श्र ० १ ९ | २ | १८ ) । सारस्वते ग्रहे उपवाका इन्द्रयवा गोधूमवत्तुपरहिता गोधूमवर्णा यव-सदृशाः । बदरं सूक्ष्मबदरीफलम् । तयोश्चूर्णानि प्रक्षिपेदिति सूत्रार्थः । द्वितीयं यजुः पङ्क्तिः । हे ग्रह, त्वं वीर्यमसि सामर्थ्यमसि, अतो मयि वीर्यं सामर्थ्यं धेहि । यवकर्कन्धुचूर्णानि च बलमसीति ' ( का ० श्रौ ० १ ९ / २ / २० ) | या दीर्घशकाः प्रसिद्धाः । कर्कन्धुरतिस्थूलं बदरीफलम् । तयोश्चूर्णानि ऐन्द्रे पयोग्रहे क्षिपेद् बलमसीति मन्त्रेणेति सूत्रार्थः । तृतोयं यजुः पङ्क्तिः । हे ग्रह, त्वं बलमसि, अतो मयि विषये बलं धेहि । ' सुराग्रहाणा-त्योजोऽसीति वृक व्याघ्र - सिंहलोमभिः प्रतिमन्त्रं मिश्रः ( का ० श्र ० १ ९ १२ २३ ) । वृकादोनां मिश्रः केशैरोजोऽ-सोति प्रतिमन्त्रं सुराग्रहान् मिश्रयेत्, ओजोऽसीत्याश्विनम् मन्युरसीति सारस्वतम् सहोऽसीत्यैन्द्रमिति सूत्रार्थः । ' एके यथासंख्यम् ' ( का ० श्र ० १ ९ २२२४ ) । एके आचार्या वृकादिलोमानि त्रिषु सुराग्रहेषु यथासंख्यं प्रक्षिपेदिति वदन्ति । तथा च वृककेशराश्विनम् व्याघ्रकेशैः सारस्वतम्, सिंह केशैरेन्द्रमिति सूत्रार्थः । त्रीणि यपि सुरादेव-त्यानि । हे सुरे, त्वमोजोऽसि, अनो मयि विषये ओजः कान्ति धेहि स्थापय । त्वं मन्युः कोप:, मानसं प्रज्वलन -मिति यावत् असि । अतो मयि मन्युं धेहि । त्वं सहोऽसि बलमसि, अतो मयि सहो बलं धेहि ।

पृष्ठ 276

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 276 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४० शुक्लयजुर्वेदसंहिता | अ ० १ ९ अध्यात्मपक्षे - हे सर्वात्मन्, त्वं तेजोऽसि तेजो मयि धेहि । त्वं वीर्यमसि सर्वसामर्थ्याद्गमस्थानत्वादतः सामर्थ्यं मयि धेहि । बलमसि बलं मयि धेहि । ओजोऽसि ओजो मयि धेहि । सर्वात्मनः सर्वोत्तमसाररूपत्वात् ततस्तदपेक्षा युक्तेव । तन्मयि दयानन्दस्तु - ' हे शुभगुणकरराजन्, यत्त्वयि तेजोऽस्ति तत्तेजो मयि धेहि । यत्वयि वीर्यमस्ति हीत्यादि एतादृशमेव व्याख्यानम् ' इति, तदपि यत्किञ्चित् असम्भवात् । नह्यन्यो मनुष्यः स्वगतं तेजआदिक-मन्यत्र स्थापयितुं शक्नुयात् ॥ ९ ॥

या व्याघ्रं विषेचिकोभौ श्येनं प॑त॒त्रिणं Ü सि ँह वृकं च रक्षति । च से पात्व हंसः ॥ १० ॥

मन्त्रार्थ - जो सर्वत्र फैलने वाला उदर रोग व्याघ्र और भेड़ियों के समूह की रक्षा करता है, श्येन पक्षी और सिंह की रक्षा करता है, वह इस यजमान की पापमय व्याधि से रक्षा करे, अर्थात् सिंह, भेड़िये आदि को जंसे विसूचिका रोग नहीं होता, वैसे ही हमारे इस यजमान को भी न हो ॥ १० ॥

' दीक्षावत्पावयतोऽन्तः पात्ये श्येनपत्राभ्यां या व्याघ्रमिति ' ( का ० श्री ० १ ९ / २ / २७ ) । अध्वर्य प्रति-प्रस्थातारौ सहैव अन्तःपात्येऽवस्थितं प्राङ्मुखं यजमानं श्येनपिच्छाभ्यां पावयतः, दीक्षावदित्येकेन नाभेरूध्वं प्रदक्षिणं द्वितीयेन स दवाङ, यद्वोभाभ्यां नाभेरूर्ध्वमचश्व द्रिः ' या व्याघ्रम् ' इति मन्त्रेणेति सूत्रार्थ: । हैमवचिदृष्टा विषूचिकादेवत्या अनुष्टुप् । व्याध्यधिष्ठात्री विषूचिकानाम्नी देवता अत्र प्रार्थ्यते । ' विषु ' निपातो नानावचनः । विषु नानादेशेषु कालेषु च सर्वत्र सर्वदेत्यर्थः, अञ्चति गच्छतीति विषूची, सैव विषूचिका रोगविशेषः । ' केऽणः ' ( पा ० सू ० ७ | ४ | १३ ) इति ङीपो ह्रस्वः । या विषूचिका व्याघ्रं नृकं च उभौ रक्षति परिपाति तथा श्येनं पतत्रिणं पक्षिणं सिंहं च उभो रक्षति, एतेषामजीर्णताजनिताया व्यापत्तेरभावात् सा विषूचिका इमं यजमानमंहसो व्याधिहेतुभूतात् पापात् पातु रक्षतु । अत्र ब्राह्मणम् -'अध्वर्युश्च प्रतिप्रस्थाता च । जघनेन वेदि प्राञ्चमावृत्तं यजमान श्येनपत्राभ्यामूर्ध्वं चावाञ्चं च पावयतः प्राणोदानयोस्तद्रूपं प्राणोदानावेवावरुन्ध ऊर्ध्वश्व ह्ययमवाङ च प्राण आत्मानमनुसञ्चरति सम्पृचस्थ सं मा भद्रेण पृक्तेति परोग्रहान् सम्मृशति श्रियैवैनं यशसा समर्धयति विपृच स्थवि मा पाप्मना पृङ्क्तेति सुराग्रहान् पाप्मनैवेनं व्यावर्तयति ' ( श ० १२/७/३२२ ) । अध्यात्मपक्षे या अविद्या विषूचिका विष्वग्गतिः सर्वं बाधते, या व्याघ्रं विशेषेण आ समन्तात् सर्वं जिघ्रतीति व्याघ्रो यथा निर्भयः सन् स्वलक्ष्योन्मुखो भवति, तद्वद्यो निर्भयः सन् परमपुरुषार्थोन्मुखो भवति तं रक्षति न बाधते । वृकं च वृको यथा स्वलक्ष्यप्राप्त्यर्थं स्वात्मानं सङ्कोच्य तिष्ठति, अनुकूले चावसरे उत्पत्य लक्ष्यं स्वायत्तं करोति, तद्वद्यः कूर्मोऽङ्गानीव विषयेभ्यः कार्मकरणसङ्घातं सङ्कोच्य लक्ष्यं परमात्मानं प्राप्नोति तमपि रक्षति । सिंहवृत्ति श्येनवृत्ति तीव्रवेगेन लक्ष्यप्राप्त्यर्थं प्रयत्नवन्तं सिंहं सिंहवत्साधनामार्गे विक्रान्तं रक्षति, पुरुषार्थ साधने उदग्रमुन्नतं कुदाल वेगवन्तं विक्रान्तं रक्षति तद्भिन्नान् सर्वान् बाधते विषूचिकावदविद्या, सा इयं यजमानं पात्विति ।

पृष्ठ 277

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 277 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १०-११ ] वेदार्थपारिजातभाष्यसहिता २४ ९ दयानन्दस्तु - ' या विदुषी स्त्री राज्ञी विषूचिका विविधानर्थान् सूचयति सा व्याघ्रं वृकं श्येनं पतत्रिणं सिंह च हत्वा प्रजा रक्षति, साइमं राजानमंहसः पातु ' इति, तदपि यत्किञ्चित् असामञ्जस्यात् । लोके हि विषूचीशब्दो रोगविशेषे रूढः । सामान्यस्त्रिया अपि विषूचीनाम्ना व्यवहारे उद्वेगो जायते किमुत राज्ञ्या:? व्याघ्रादिकं हत्वा प्रजा रक्षतीति स्वातन्त्र्येणाध्याहारोऽस्य व्याख्यातुः स्वातन्त्र्यमुच्छृङ्खलतामेव वा सूचयति ॥ १० ॥

यो पिपेषं मातरं पुत्रः प्रम॑दितो धय॑न् । एतत्तद॑ग्ने अन॒णो भ॑वा॒म्यह॑तौ पि॒तरो॑ मया॑ । स॒म्पृच॑स्य॒ से मा॑ भ॒द्रेण॑ पृ॒ङ्क्त । वि॒पृच॑ स्थ॒ वि मा॑ पा॒मना॑ पृ॒ङ्क्त ॥ ११ ॥

मन्त्रार्थ- -माता का दूध पीते समय अति प्रसन्नता से मैंने जो माता को चरणों से ताड़ित किया है, हे अग्नि-देव! उससे मैं तुम्हारी साक्षी में तीनों ऋणों के साथ मुक्त हो गया हूँ । मुझसे माता - पिता पीड़ित नहीं हुए, क्योंकि मैं पयोग्रह का अनुष्ठान करता हूँ । हे अग्निदेव! यह पयोग्रह सोम और सुरा से संयुक्त हो हमारा कल्याण करे । हे सुराग्रह! तुम वियोजक हो, अतः मुझे पापों से अलग करो ॥ ११ ॥

' अग्नि प्रेक्षयति यदापिपेषेति ' ( का ० श्र ० ९९ २ २८ ) । अग्नि प्रेक्षस्वेति प्रेषेण अध्वर्युर्यजमानमग्नि दर्शयति, स प्रेषित औत्तरवेदिकमग्निमीक्षत इति सूत्रार्थः । अग्निदेवत्या बृहती । पुत्रोऽहं प्रमुदितः प्रहृष्टो धयन् स्तन्यपानं कुर्वन् सन् यन्मातरं जननी मापिपेष आपिष्टवान् पद्भ्यां पीडितवान् । पिषेर्लिटि उत्तमैकवचने रूपम् | अग्ने, तदेतत् त्वत्समक्षमेव अहमनृणो भवामि, स्वाध्यायाध्ययनयजनप्रजादिभिस्त्रिभिर्ऋणैर्विनिर्मुक्तः कृतकृत्यो भवामि । अत एव भुजा उत्क्षिप्य ब्रवीमि मया पितरौ माता च पिता च पितरौ मातापितरौ, अहतो न पीडितो । यो हि प्रत्युपकर्तुमसमर्थस्तेनैव मातापितरौ हिंसितौ भवत इत्यभिप्राय: । ' पयो ग्रहसम्मर्शन, सम्पृच स्थेति ' ( का ० श्री ० १ ९ / २ / २ ९ ) । त्रीन् पयोग्रहान् युगपद् यजमानः स्पृशेत् सम्पृच स्थ सं मा भद्रेण पृङ्क्तेति मन्त्रेणेति सूत्रार्थः । पयो ग्रहदेवत्यं यजुस्त्रिष्टुप् । हे पयोग्रहाः, यूयं सम्पृचः सम्पृञ्चन्ति संयोजयन्तीति सम्पृचः स्वत एव संयोजकाः स्थ भवत । ' सम्पृच स्थ ' इत्यत्र ' खर्परे शरि वा विसर्ग लोपो वक्तव्य: ' ( पा ० सू ० ८ | ३ | ३६, वा ० १ ) इति विसर्ग लोपः । अतो मा मां भद्रेण कल्याणेन सम्पृक्त संसृजत, कल्याणयुक्तं मां कुरुतेत्यर्थः । सम्पूर्वात् पृचेः किपि सम्पृचः, पृचे रोधादिकाल्लोटि मध्यमबहुवचने पृतेति । ' विपृच स्थेति सौराणाम् ' ( का ० श्र ० १ ९ २ २ ९ -३ | १ ) यजमानः सुराग्रहान् विपृच स्थेति मन्त्रेण स्पृशतीति सूत्रार्थः । हे सुराग्रहाः, यूयं विपृच स्थ विपृञ्चन्तीति विपृचो वियोजकाः स्थ भवत । अतो मा मां पाप्मना विपृक्त मां निष्कल्मषं कुरुतेत्यर्थः । अध्यात्मपक्षे - हे अग्ने भगवन्, यदा पुत्रः प्रमुदितो मातुः स्तनं पिबन् आपिपेष आपीडितवान्, अहं तदेतत् तवाग्रे समक्षमेव भगवदाराधनबुद्धया यज्ञादिकमनुष्ठाय अनृणो भवामि । तेन पितरौ न हिसितौ, किन्तु त्वदाराधनलक्षणेन यज्ञेन तारिती तावित्यर्थः । हे भगवन्तः, पूजायां बहुवचनम् । यूयं सम्पृचः शुभसंयोजन -शक्तियुक्ताः स्थ, अतो मां भद्रेण कल्याणेन सम्पृक्त संसृजत । हे भगवन्तः, यूयं विपृचोऽशुभवियोजनशक्तिमन्तः, अतो मा मां विपृक्त कल्मषेण विगतसंसर्ग मां कुरुतेत्यर्थः । दयानन्दस्तु – ' हे अग्ने विद्वन्, यद्यः प्रमुदितः पुत्रो दुग्धं धयन् मातरमापिपेष तेन पुत्रेण अनृणो भवामि, यतो मे पितरावहतो मया भद्रेण सह वर्तमानौ च स्याताम् । हे मनुष्याः, यूयं सम्पूच स्थ भद्रेण सम्पृक्त । ३१

पृष्ठ 278

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 278 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४२ शुक्लयजुर्वेदसंहिता [ ० १ ९ , सर्वथाऽनुपपत्तेः । पाप्मना विपचस्थ माप्येतेन विपृङ्क्त तदेतत् सुखं प्रापयत ' इति, भवति तदेतत्सर्वमज्ञानविजृम्भितम् ? कार्यकारणभावानुपपत्तेः । भावार्थ-पुत्रः प्रमुदितो दुग्धं धयत् मातरमापीडयति, तेन पिता कथमनृणो तु तस्य चर्चाऽपि नास्ति । तेन पुत्रेण पितुः भाषायां तु पित्रोर्यथावत् सेवनेन पितृऋणाद्विमुच्यत इत्युक्तम्, मन्त्रे स्याताम्? किञ्च, कोऽयं मनुष्यानभ्य-पितरौ कथमहतो भवेताम्? कथं च पुत्रस्य पुत्रेण तत्पितरौ भद्रेण युक्तौ अतो मां पाप्मना विपङ्क्तेति? न र्थयते - यूयं सत्यसम्बन्धिनो मां भद्रेण सम्पृक्त यूयं पाप्मना विपृच स्थ, मनुष्येभ्योऽल्पशक्तिभ्यस्तादृगभीष्ट-परमेश्वरः, निरपेक्षस्य तस्य सतस्तादृशप्रार्थनानुपपत्तेः । नापि कश्चिन्मनुष्यः, पुण्येनान्यः समवेति । न सिद्धयसम्भवात्, पुण्यप्राप्तिपापनिवृत्त्योः स्वकर्तृकप्रयत्नसाध्यत्वात् । नह्यन्यगतेन चैतद् व्याख्यानमिति ॥ ११ ॥

वाऽन्यपाप्मराहित्येनान्यः संसृज्यते । पूर्वकण्डिकायामुद्धृतब्राह्मणेन विरुद्धयते

दे॒वा य॒ज्ञम॑तम्वत भेषजं भिषजाऽश्विना ।

वा॒चा सर॑स्वती भि॒षगिन्द्र [ येन्द्रि॒यासि॒ दध॑तः ॥ १२ ॥

दिन त्याज्य मद्य मन्त्रार्थ - संस्काररहित रस को पीने से इन्द्र के बलवीर्य को असुरों ने हर लिया, जो रात -कहती है कि देवताओं ने इन्द्र को सुरा कह कर पीते हैं, उनके पतित होने में कुछ भी संदेह नहीं है । इस प्रसंग में श्रुति सरस्वती वाणी ने इन्द्र में पुनः के औषध रूप सौत्रामणी यज्ञ को विस्तृत किया । वैद्य अश्विनीकुमार और त्रयीरूप सामर्थ्य का आधान किया ॥ १२ ॥

विशतिः देवा यज्ञमित्यादि कण्डिकाविंशतिर्ब्राह्मणरूपा, अतो विनियोगाभावः । ब्राह्मणानुवाको निदानवतां मन्त्राणां पूर्वं निदानं वक्तव्यम्, येन afuser अनुष्टुभः सौत्रामण्याः सोमसाम्य प्रतिपादिकाः । इन्द्रस्य वीर्यं नमुचिरसुरोऽपिबत् । सखेनार्थावबोधो जायेत । अत्रेतिहासमाचक्षते - अनुपहूत सोमपानाद् भ्रष्टस्य त्वोषधम् । तथा च श्रुतिः - ' त्वष्टा तत्र देवैरिन्द्रस्य भैषज्यं कृतम् । तत्राश्विनौ सरस्वती च भिषजः, सौत्रामणी सोममपिबत् स विष्वङ् व्यार्च्छत् हतपुत्रः । अभिचरणीयमपेन्द्र, सोममाहरत् तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा पशवो यशो यशो हि भवति य एवं तस्य मुखात् प्राणेभ्यः श्रीयशसान्युर्ध्वान्युदक्रामंस्तानि पशून् प्राविशंस्तस्मात् च सरस्वती च यज्ञ ँ , समभरन् विद्वान् सौत्रामण्याभिषिच्यते ' ( श ० १२ | ८ | ३ | १ ) । ' ततोऽस्मा एतमश्विनौ स्वानां भवति य एनयाऽभिषिच्यते ' सौत्रामणी भैषज्याय तयैनमभ्यषिञ्चस्ततो वै देवानां श्रेष्ठोऽभवच्छ्रेष्ठः ( श ० १२ | ८ | ३ | २ ) | ( यज्ञच्छिद्रं ) विश्वरूपवधादमर्षी हतपुत्रस्त्वष्टा इन्द्रायाभिचरन् अपेन्द्रं सोममाहरत् श्रीयशसानि । इन्द्रो यज्ञवेशसं श्रेयस्यः सुखनीयाः कृत्वा प्रसह्य सोममपिबत् । स विष्वङ् व्याच्र्च्छत् । तस्य तेजआदीनि मुखात् प्राणेभ्यश्च यथोक्तानि, ऊर्ध्वानि सोमेन सहोत्क्रान्तानि । कायस्य साराः, ता यशांसि च लोकेऽगर्हितानि यशस्वोनि - देवा यज्ञं सौत्रामणीनामकं तानि च पशुषु प्रविविशुः । तस्मात्ते पशवो यशस्विनोऽभ्यर्हिताः । कण्डिकाभावार्थस्तु चिकित्सकावास्ताम् । सरस्वती वाचा भेषजमिन्द्रस्योषधरूपमतन्वत विस्तारितवन्तः तदा अश्विनो भिषजौ? इन्द्राय इन्द्रियाणि वीर्याणि वाणी, लक्षणया वेदत्रयी, भिवग् वैद्या आसीत् । कीदृशास्ते सरस्वत्यश्विनाः सामर्थ्यानि दधतो ददतः । अध्यात्मपक्षे -- इन्द्रो जीवोऽनधिकार चेष्टया सोममभीष्टान् विषयान् अपिबत् । तेनैव असुरशक्त्यावेशात् यज्ञं चिकित्सा-तस्य सामर्थ्यानि विनेशुः । देवा इन्द्रियाधिष्ठातारस्तस्य पुनः सामर्थ्यलाभाय परमेश्वराराधनलक्षणं

पृष्ठ 279

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 279 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० १२-१३ ] वेदार्थपारिजातभाष्यसहिता २४३ रूपमतन्वत । तत्र नियमितो प्राणापानौ भिषजो सरस्वती वागधिष्ठात्री च त्रयीलक्षणया वाचा वैद्यासीत् । त एते चिकित्सकाः सामर्थ्यानीन्द्राय ददतः । दयानन्दस्तु - ' हे मनुष्याः यथेन्द्रियाणि धनं वा दधतो भिषक् सरस्वती भिषजाश्विना च देवा वाचे-न्द्राय भेषजं यज्ञमतन्वत, तथैव यूयं कुरुत ' इति, तदपि विसङ्गतमेव अतन्वतेत्यस्य विस्तृतं कुरुते त्यर्थस्य लकार-विरुद्धत्वात् । यथेन्द्रियाणि धनं वा धारयन्तो भिषजो देवाश्च वाचा इन्द्रियाय परमैश्वर्य्याय भेषजं रोगविनाशकं सुखप्रदं यज्ञं विस्तृतवन्तस्तथा यूयमपि कुरुतेति दृष्टान्तस्यैवास्पष्टत्वात् । न च वाचा रोगनिवारणं भवति, न वा तयैश्वर्य प्राप्तिः सम्भवति तथा कार्यकारणभावासिद्धेः । न चात्र भिषजां त्रित्वम्, तत्र द्वयोः पुस्त्वं स्त्रीत्वं चान्यस्येत्यत्र हेतुविशेष उपपद्यते ॥ १२ ॥

दोक्षाय रूप शब्वणि प्राय॒णोय॑स्य॒ तोक्मा॑नि । क्रस्य॑ रूप सोम॑स्य लाजः सोमाशवो रू॒प Ü, मधु ॥ १३ ॥

मन्त्रार्थ -- नये उत्पन्न हुए व्रीहि इस यज्ञ को दक्षिणा के

प्राथगीय इष्टि का रूप है । खरोबी हुई लाजा सोम का रूप है ।

॥ १३ ॥

लिये आवश्यक होते हैं । नवीन प्ररूढ़ यव स्वादिष्ट लाजा सोम का मधुमय खण्ड अत्र सौत्रामण्याः सोमसम्पत्तिरुच्यते । शष्पाणि नवप्ररूढव्रीहिरूपाणि पूर्वोक्तानि दीक्षाये दीक्षायाः, षष्ठ्यर्थे चतुर्थी, दीक्षणोयेष्टेरिति यावत् रूपम् । शष्याणि दीक्षणोयात्वेन ध्येयानीत्यर्थः । तोक्मानि नवोद्गताङ्कुरा यवाः प्रायणीयस्य रूपम्, प्रायणीयेष्टिरूपेण ध्येयानोत्यर्थः । सोमस्य क्रयस्य रूपं लाजा भर्जन प्रफुल्लिताः । सोमे सोमक्रयः । अत्र लाजास्तस्य रूपम् । लाजाः सोमक्रयरूपेण ध्येया इत्यर्थः । सोमक्रयस्येति समासे प्राप्ते पदयो-र्व्यत्ययः, रूपशब्देन व्यवधानं च छान्दसम् । मधु सोमांशवः सोमखण्डाः, मधु सोमखण्डरूपेण ध्येयम् । यद्वा लाजा एव मधु मधुरस्वादाः सोमांशवो ध्येया इत्यर्थः । अध्यात्मपक्षे - सर्वात्मनः सर्वरूपस्य भगवतः सौत्रामणीतदुपकरणादिरूपेणापि वर्णनम् । व्याख्यान-मुक्तमेव । यद्वा पत्रपुष्पफलादिभिः सेवमानस्य भक्तस्य भगवति समर्पितानि लौकिकान्यप्युपकरणानि सोमयज्ञस्या-ङ्गापाङ्गरूपाणि भवन्तीति वयं ते । समर्पितानि शष्पाणि नवोद्गताङ्कुरा ब्रोहयो दोक्षाया रूपम्, सोमयागगत-दीक्षणोयेष्टिरूपाणि भवन्ति । तोक्मानि नवोद्गताङ्कुरा यवाश्च प्रायणीयस्य रूपम्, प्रायणीयेष्टिरूपाणि भवन्ति । लाभृष्टा व्रोहयो मधु मधुरास्वादाः सोमक्रयस्य रूपम्, सोमक्रयरूपा भवन्ति । दयानन्दस्तु - ' हे मनुष्याः, धानि प्रायणीयस्य प्रकृष्टं सुखयन्ति येन व्यवहारेण तत्र भवस्य दीक्षाये यज्ञसाधननियमपालनाय रूपम् । तोक्मान्यपत्यानि ' तोक्मेत्यपत्यनाम ' ( निव ० २ २/४ ), क्रयस्य द्रव्यविक्रयस्य रूपम् । शष्पाणि आहत्य संशोध्य ग्राह्याणि धान्यानि । यस्य ओषविरसस्य लाजाः प्रफुल्लितव्रोहयः सोमांशवः सामस्थांशा मधु च सन्ति, तानि यूयमतन्वत कुरुत इति, तत्त्वतोब मन्दम्, निरर्थकत्वात् । अत्र हिन्दी भाषामये-नाप्यर्थन न किञ्चिदवगन्तुं शक्यम् । वस्तुतस्तु दोक्षाप्रायणीयादिवेदिकार्थानभिज्ञानमूलकमेवेदमनर्गलं प्रल-पितम् ॥ १३ ॥

पृष्ठ 280

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 280 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४४ शुक्लयजुर्वेदसंहिता आ॒ति॒थ्य॒रूपं मास॑रं महावो॒रस्य॑ न॒ग्नः रू॒पम॑प॒सदा॑मे॒तत् ति॒स्रो रात्रीः सुराता ॥ १४ ॥

[ अ ० १ ९ मन्त्रार्थ - आतिथ्य के लिये व्रीहि, श्यामाक, लाजा आदि को मिला कर चूर्ण बनाया जाता है । २६ वस्तुओं को मिला कर बनाया हुआ नग्नहु नामक पदार्थ महावीर की तृप्ति के लिये है । तीन रात तक अभिषुत सुरारस उपलब नामक इष्टि का रूप है ॥ १४ ॥

एकोनविंशेऽस्मिन्नध्याये प्रथमकण्डिकाव्याख्यान एव मासरं निरूपितम् । तन्मासरं सौत्रामणीयागगत-मातिथ्यरूपं सोमयागगतातिथ्येष्टिरूपेण चिन्तनीयम् । नग्नहुः महावोरस्य रूपम् । सौत्रामणीगतो नग्नहुः महावीररूपेण चिन्तनीयः । महावीरो धर्मः प्रवर्ग्यरूपः । उपसदामेतद् रूपं क्रियते । यस्मिस्तिस्रो रात्रोः सुरा अभिषुता तिष्ठति, तिस्रो रात्रीरित्यत्र ' कालाध्वनोरत्यन्तसंयोगे ' ( पा ० सू ० २ | ३ | ५ ) इति द्वितीया । पूर्वोक्तं सर्वमेकपात्रे कृत्वा स्वाद्वीं त्वेति मन्त्रेण यद् गर्ते त्रिरात्रं स्थापनम् एतदुपसदामुपसत्संज्ञकानामिष्टीनां रूपम्, तत्रोपसत्त्रयदृष्टिः कर्तव्येत्यर्थः । अध्यात्मपक्षे – अत्रापि भगवतः सार्वात्म्यस्योपवर्णनम् । एभिर्वा सर्वैर्यज्ञैर्भगवानेवार्हणीय इति वार्थः । दयानन्दस्तु – ' हे मनुष्याः, यानि मासरं येनातिथयो मासेषु रमन्ते तत् । महावीरस्य यो नग्नान् जुहाति आदत्ते रूपं सुरूपकरणमुपसदाम्, य उपसीदन्ति तेषामतिथीनां तिस्रो रात्रीनिवासनमेतद्रूपम्, सुता सुरा आसुता च समन्तान्निष्पादिता च । सन्ति तानि यूयं गृह्णीत ' इति, तदपि यत्किञ्चित् मासर - नग्नहु- महावीरादि-शब्दा वैदिकपारिभाषिकाः, तदज्ञानमूलक एवैतस्य स्वामिनोऽर्थः । इदमपरमपि चिन्तनीयम् - मासरपदस्य आतिथ्यबोधकत्वे आतिथ्यपदस्य निरर्थकत्वापातः । न ह्यतिथ्य एव मासेषु रमन्ते, किन्तु ते तूपलब्धान्नपानादौ रमन्ते । न चैतत्स्वाम्यभिप्रेतस्यापि महावीर - नग्नहुरूपत्वं सम्भवति । न वा नग्नादानं कार्यमेव सम्भवति । न च महावीरो नग्नमाददाति, किन्तु नग्नेभ्यो वस्त्रादिकमेव ददाति । उपसत्पदेनापि यद्यतिथय एव गृह्येरन्, तदा पुन: पौनरुक्त्यम् । न च तेषां रात्रित्रयवासविधानार्थं तदनुवाद इति वाच्यम्, मूले वासबोधकपदस्था-लोकत्वात् ॥ १४ ॥

सोम॑स्य रूपं क्रीतस्य॑ पर॒स्रुत् परिषिच्यते । अश्विभ्यां दुग्धं भेषजमिन्द्रा॑य॒न्द्र ं सर॑स्वत्या ॥ १५ ॥

मन्त्रार्थ-- इन्द्र के निमित्त इन्द्रसम्बन्धी औषध, सरस्वती और अश्विनीकुमार के लिये दुहा हुआ दूध, अभिषुत महौषधि रस - इन सबको सुरा के साथ तीन दिन तक सींचा जाता है । यह खरीदे गये सोम का रूप है, अर्थात् सोम के साथ अभिषुत करने के लिये अश्विनीकुमार, सरस्वतीऔर इन्द्र के लिये भिन्न - भिन्न प्रकार के दूध को आवश्यकता पड़ती है ॥ १५ ॥

यदश्विभ्यां सरस्वत्या च ऐन्द्रमिन्द्रदेवत्यमिन्द्राय भेषजमिन्द्रार्थे औषधं दुग्धं पयोऽश्विभ्यामपा-करोमीति दुग्धेन एकयोः पयसा सरस्वत्या अपकरोमोति दुग्वेन गोद्वयपयसा इन्द्रायापाकरोमीति, दुग्धेन गोत्रयपयसा दिनत्रये परिस्रुत् सुरा यत् परिषिच्यते, तत् क्रांतस्य सोमस्य रूपं ज्ञातव्यमित्यर्थः । ' एकस्याः