वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 281–290
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 281–290
पृष्ठ 281
पाठ पढ़ें पाठ छिपाएँ
म ० १५-१६ ] वेदार्थ पारिजातभाष्यसहिता २४५ पयसाऽपाकृतेनाश्विनेन परिषिञ्चति ' ( का ० श्र ० १ ९ | १ | २३ ) | अश्विभ्यामपाकरोमीत्येकां गां हस्तेन स्पृष्ट्वा दोहयेत् । एवमपाकृताया एकस्वा गोः पयसा सुरां परिषिञ्चेदिति सूत्रार्थ: । ' सारस्वतेन द्वयोः प्रातः ' ( का ० श्र ० १ ९ / १ / २५ ) । प्रातद्वितीयेऽहनि सरस्वत्यै अपाकरोमीति द्वे गावी हस्तेन स्पृष्ट्रा दोहयेत् । एवमपाकृतेन सारस्वतेन द्वयोर्गावः पयसा सुरां परिषिञ्चेदिति सूत्रार्थः । ' ऐन्द्रेणोत्तमे तिसृणाम् ' ( का ० श्र ० १ ९ | १ | २७ ) । तृतीयेऽहनि ऐन्द्रेणापाकृतेन तिसृणां गवां पयसा सुरां परिषिञ्चेदिति सूत्रार्थः । अध्यात्मपक्षे— परमेश्वरस्य सार्वात्म्येन यज्ञतदुपकरणात्मकतापि ज्ञेया । दयानन्दस्तु - ' हे स्त्रियः! यथा सरस्वत्या प्रशस्त विद्याविज्ञानयुक्तया पल्या विदुष्या क्रीतस्य सोमस्य सोमाद्योषधिसमूहस्य परिस्रुद्यः परितः स्रुवति स रसो रूपमुत्तमस्वरूपम् अश्विभ्यां वैदिकविद्याव्यापिभ्यां विद्वद्भयां दुग्धं भेषजं सर्वौषधमिन्द्राय सर्वैश्वर्येच्छुकाय ऐन्द्रमिन्द्रो विद्युद् देवता यस्य तद् विज्ञानं परिषिच्यते, तथा यूयमप्याचरत ' इति, तदपि निःसारम् जलमपि परितः स्रवतीति तस्यापि परिस्रुत्पदव्यपदेश्यत्वापातात् । सोमस्य ओषधिगणस्येत्यपि निर्मूलम् । सरस्वतीपदस्य ज्ञानवतीत्यर्थत्वेऽपि तादृशी पत्नीत्यनर्थकमेव । किञ्च, विद्वत्क्रीतसोमापेक्षया विदुष्या क्रीते सोमे वैलक्षण्या भावाल्लाघवेन ज्ञानवत्क्रीतस्येत्येव तु स्यात् । अश्विभ्यामित्यत्र द्विवचनं किमभिप्रेत्याश्रितम्? इत्यपि विचार्यमेव । सर्वस्यैतस्य लोकसिद्धत्वाच्च तत्प्रतिपादने वेदस्य तात्पर्या-भावोऽपि ध्येयः ॥ १५ ॥
आ॒स॒न्दो रू॒प ँ, रा॑जास॒न्द्ये वेद्यं कुम्भी सुराधान । ७ अन्तरं उत्तरवे॒द्या रू॒पं करोत॒रो भि॒षक् ॥ १६ ॥
मन्त्रार्थ- - यजमान के अभिषेक की चौकी सोम के स्थापन के लिये मंचिका रूप है । सुरा रखने की फलशी सोम को वेदिका है । दोनों वेदियों का मध्य भाग उत्तर वेदिका का रूप है । सुरा को छानने की चलनो इन्द्र की औषधि हं ॥ १६ ॥
आसन्दी यजमानाभिषेकाय कल्पिता मञ्चिका । राजासन्धे, राज्ञः सोमस्यासन्दी राजासन्दी, तस्यै, चतुर्थी षष्ठ्यर्थे राजासन्द्या रूपम् अर्थात् सोमराजासन्दीरूपेण ध्येया । सुराधानी सुरा धीयते यस्यां सा । अधिकरणे ल्युट् । टित्वान्ङीप् । कुम्भी घटो वेद्ये वेद्याः सौमिक्या वेदे रूपम् । अन्तरः सोत्रामणीयाग वेद्योरन्तरो मध्यभागः सोमयागीयोत्तरवेदे रूपम्, उत्तरवेदीरूपेण ध्येय इत्यर्थः । कारोतरः सुरागलनसमर्थं वंशमयं पात्रं सुरापावनी गालिनी वा इन्द्रस्य यजमानस्य च भिषग् ज्ञेयः । अध्यात्मपक्षे – पूर्ववदेवार्थः । दयानन्दस्तु - ' हे मनुष्याः! युष्माभिर्यज्ञायासन्दीरूपं राजासन्धे या समन्तात् सन्यते सेव्यते सा सुक्रिया, राजानः सोदन्ति यस्यां तस्यै वेद्ये विदन्ति सुखानि यथा तस्ये । कुम्भी धान्यादिपदार्थाधारा । सुराधानी सुरा सोमरसो धीयते यस्यां सा गर्गरो । अन्तरो येनानिति प्राणिति स अन्नादिः । उत्तरवेद्या उत्तरायतासी वेदी तस्या रूपम् । कारोतरः कर्मकारी भिषग् वेद्यः, चैतानि संग्राह्याणि ' इति, तदेतदतीव साहसम्, वैदिकप्रसिद्धिविरोधात् । आसन्दीपदस्य सुक्रिया कथमर्थः? शष्कुलीकरपट्टिकादीनामप्यासेव्यमानत्वेन तत्त्वापत्तेः । राजासन्द्यं वेद्यं गर्गरोत्यस्य सम्बन्धासिद्धेश्चेति । अन्तर इत्यस्य अन्नमर्थ इत्यपि निर्मूलम्, अनतेस्तद्रूपासिद्धेः, जलादिना व्यभिचाराच्च । कारोतरः कर्मकारोत्यपि निर्मूलम्, सुक्रियारूपादोनां च कथं
संग्रहः? असम्भवदोषग्रस्तोऽयमर्थः । सर्वं चैतद् वैदिकविधानाज्ञानमूलकमेव ॥ १६ ॥
पृष्ठ 282
पाठ पढ़ें पाठ छिपाएँ
२४६ शुक्लयजुर्वेदसंहिता [ अ ० १ ९
वेद्य॒ वेदि॒ समा॑प्यते ब॒र्हिषा॑ ब॒हिर॑िन्द्रि॒यम् ।
यूपेन यूप॑ आप्यते॒ प्रणी॑तो अ॒ग्निर॒ग्निना॑ ॥। १७ ॥
सम्बन्धी मन्त्रार्थ - वर्तमान वेदि के द्वारा सोम की वेदि भली प्रकार प्राप्त होती है । वर्तमान कुशा से सोम और वर्तमान अग्नि से प्रणीत नामक कुशा तथा बल प्राप्त होते हैं । वर्तमान यूप से सोमसम्बन्धी यूप प्राप्त होता है अग्नि प्राप्त होती है ॥ १७ ॥
अत्र सोत्रामणीयागे वर्तमानया वेद्या वेदिः सौमिकी वेदिः समाप्यते सम्यक् समाप्यत प्राप्यते, इति तद्रूपेण शेषः, ध्येयेत्यर्थः । बर्हिषा अत्रत्येन दर्भेण बहिः समाप्यते । इन्द्रियं वोयं सौमिकमॠत्येन । वीर्येण अग्निना अत्रत्येन प्रणीतः उभयोः फलदाने सामर्थ्यादिति भावः । यूपेन अत्रत्येन यूपः सौमिकः समाप्यते सौमिकोऽग्निः, आप्यते प्राप्यते । अध्यात्मपक्षे – पूर्ववदेवार्थः । दयानन्दस्तु - यथा विद्वद्भिर्वेद्या यज्ञसामग्र्या वेदिर्यज्ञभूमिः, बर्हिषा महता प्रणीतोऽग्निराप्यते पुरुषार्थेन बर्हिरिन्द्रियं , तथैव वृद्धं धनं समाप्यते, यूपेन मिश्रितामिश्रितव्यवहारेण यूपो मिश्रितो व्यवहारः, अग्निना परित्यज्याप्रसिद्धकाल्पनिक-यूयं साधनानि साधनैः सम्मेल्य सर्वं सुखमाप्नुत ' इति, तदपि साहसमेव प्रसिद्धार्थं । यूपो निरर्थकव्याख्याने व्यापृतेरकिञ्चित्करत्वात् । बर्हिषा महता पुरुषार्थेनेत्यपव्याख्यानम् ॥ १७ ॥, निर्मूलत्वात्
मिश्रितव्यवहारयत्नादय इत्यपि निर्मूलम् यौतेस्तावत्स्वर्थेषु प्रयोगे मानाभावात् ह॒वि॒िर्धानं यद॒श्विनाग्नं यत् सर॑स्वती । इन्द्रा॑य॒न्द्र ं सद॑स्कृतं प॑त्न॒शालं॒ गाहँपत्यः ॥। १८ ॥ मन्त्रार्थ - अश्विनीकुमार हविर्धान स्वरूप हैं, सरस्वती अग्नीध्र का रूप है, इन्द्र देवता वाला इन्द्र के निमित्त बनाया गया पत्नीशाल नामक स्थान गार्हपत्यस्थानीय है ॥ १८ ॥
अत्र सौत्रामण्यां यद् अश्विना अश्विनी देवते वर्तते, तेनाश्विसद्भावेन हविर्धानं सौमिकमाप्यत । सोमे इति पूर्वेणानुषज्यते । यद्वा - यदश्विदैवतं तेन हविर्धानमाप्यते । यत्सरस्वतीदैवतं तेनाग्नीध्रं सौमिकमाप्यते ऐन्द्रमिन्द्रदेवत्यं सदः कृतमस्ति । ऐन्द्रं सदः, पत्नीशालम् । पत्नीनां शाला पत्नीशालम्, ' विभाषा सेनासुराच्छाया-शालानिशानाम् ' ( पा ० सू ० २/४/२५ ) इति वैकल्पिकं क्लीबत्वम् । गार्हपत्यश्चेति । तदेतत् त्रयं सौत्रामण्यामिन्द्राय यद्धविः क्रियते तेनाप्यते । सौत्रामणीयागे यदिन्द्राय हविः क्रियते, तत्सौमिकेन्द्रसदः पत्नीशालगार्हपत्यरूपेण ध्येयमित्यर्थः । अध्यात्मपक्षे – पूर्ववदेवार्थः । अर्थात् सर्वात्मनो यज्ञात्म प्रदर्शनमेव । दयानन्दस्तु -- ' हे गृहस्थाः! यथा विद्वांसावश्विना यद्धविर्भानं कृतवन्तः, यच्च सरस्वती आग्नीध्रं कृतवती इन्द्रायैन्द्रं सदः पत्नोशालं च विद्वद्भिः कृतम्, तदिदं सर्वं गार्हपत्यो धर्म एवास्ति । तथा च तत्सर्वं, यूयमपि कुरुत ' इति, तदपि निःसारम् कथञ्चिद् मुख्यार्थं परित्यज्य गौणार्थाङ्गीकारेऽपि निरर्थकत्वात् विश्वङ्खलार्थत्वाच्च । यद्यपि सर्वमेतदीयं व्याख्यानं निरर्थकमेव, तथापि विदुषां विनोदाय कुतूहलाय च तदुपन्यस्तम् ॥ १८ ॥
पृष्ठ 283
पाठ पढ़ें पाठ छिपाएँ
म ० १ ९ -२० ] वेदार्थपारिजातभाष्यसहिता
वै॒षेभः प्रेषानप्नोत्या॒प्रोभि॑िरा॒प्रीय॒ज्ञस्य॑ ।1
प्र॒या॒जेभि॑रनुय॒जान् व॑षट्कारेभि॒राहु॑तीः ॥ १६ ॥
२४७ मन्त्रार्थ- - प्रेष नामक यज्ञीय कर्मों से यजमान प्रेषों को पाता है । प्रधाज्य याज्यों से यज्ञ को प्रसन्न करने वाली क्रियाओं के रूपों में थानों को पाता है । प्रयाजों से उत्तम यज्ञ कर्म रूप प्रयाजों को और अनुयाजों यज्ञ पदार्थ रूप अनुयाजों को पाता है । वषट्कारों से वषट्कारों को और आहुतियों से आहुतियों को पाता है ॥ से १६ अनुकूल ॥ प्रेषेभिः प्रैषैरत्रत्यैः सौमिकान् प्रेषानाप्नोति । अत्रत्याभिराप्रीभिः प्रियाभिः प्रयाजयाज्याभिर्यज्ञस्य सोम-यज्ञस्य आप्रीः प्रियाः प्रयाजयाज्या आप्नोति । अत्रत्यासु प्रयाजयाज्यासु सोमयागीयप्रयाजयाज्याबुद्धिः कर्तव्या । प्रयाजेभिरित्यादिचतुर्णां वाक्यानाम् विनापि प्रत्ययं पूर्वोत्तरपदयोर्वालोपो वाच्यः ' ( पा ० सू ० ५।३।८३, वा ० ४ ) इति वार्त्तिकादर्धलोपः । प्रयाजेभिः प्रयाजैः प्रयाजानाप्नोति । अनुयाजैरनुयाजानाप्नोति । वषट्कारेभिर्वषट्कारै-वषट्कारानाप्नोति । आहुतिभिराहुती: प्राप्नोति प्रेषादीनामुभयत्र सत्त्वादिति भावः । सौत्रामणीप्रेषादयः सौमिकप्रयाजादिरूपेण ध्येया इत्यर्थः । अध्यात्मपक्षे - पूर्ववदेवार्थः । दयानन्दस्तु - ' यो विद्वान् प्रेषेभिः कर्मभिः प्रेषान् भृत्यान्, आप्रीभिः सर्वतः प्रसादिनीभिः क्रियाभिः आप्रीः प्रीत्युत्पादिकाः परिचारिकाः, यज्ञस्य प्रयाजेभिः प्रयजन्ति यैस्तैरनुयाजान् अनुकूलान् यज्ञपदार्थान्, वषट्कारेभिः कर्मभिः, आहुतिभिर्या आहूयन्ते प्रदीयन्ते ता आप्नोति स सुखी भवति ' इति, तदपि यत्किञ्चित्, अध्याहारस्य निर्मूलत्वात् प्रैषपदयोः कर्मभृत्यपरत्वे मानाभावात् । आप्रीपदयोरपि क्रियापरिचारिकापरत्वं बलप्रयुक्तमेव । अनुयाजपदस्य अनुकूलपदार्थतापि बलात्कार एव । वषट्कारैश्वाहुतयो दीयन्ते न प्राप्यन्ते । वैदिकप्रसिद्धिविरोधश्च ॥ १ ९ ॥
प॒शुभिः॑ प॒शूना॑प्नोति पुरोडाशैर्ह वो या ।
छन्दोभिः सामिधेनीय॒ज्याभि॑िर्वषट्कारान् ॥ २० ॥
मन्त्रार्थ - यजमान पशुओं से पशुओं को पाता है, पुरोडाशों से पुरोडाशों को और हवियों से हवियों को पाता है । छन्दों से छन्दों को और साथिधेनियों से सामिधेनियों को पाता है । वह याज्यों से याज्यों को और वषट्कारों वषट्कारों को प्राप्त करता है || २० || से अत्रत्यैः पशुभिः सौमिकान् पशूनाप्नोति, पुरोडाशैः पुरोडाशान् हविर्भिर्हवींषि, छन्दोभिश्छन्दांसि सामिधेनीभिः सामिधेनीः, याज्याभिर्याज्याः, वषट्कारैर्वषट्कारानाप्नोति । अत्रापि पूर्ववद् वाक्यार्धलोपो, द्रष्टव्यः । अध्यात्मपक्षे - पूर्ववदेवार्थः । • दयानन्दस्तु -- ' हे मनुष्याः! यथा गृहस्थः पशुभिः पशून् पुरोडाशैः पचनक्रिया संस्कृतैर्हवींषि होतुमर्हाणि वस्तूनि छन्दोभिः प्रज्ञापकैर्गायत्र्यादिभिः सामिधेनीः सम्यगिध्यन्ते याभिस्ताः समिधः, याज्याभिर्यज्ञ-क्रियाभिर्वषट्कारान् धर्मयुक्तक्रियाकर्तृन् आप्नोति, तथैतान् यूयमाप्नुत ' इति, तदपि यत्किञ्चित् पुरोडाशपदस्य पचनक्रियासंस्कृतार्थताया निर्मूलत्वात् समिधां प्राप्तौ छन्दसां हेतुत्वानुपपत्तेश्व यज्ञक्रियाणां यज्ञकर्तृप्राप्तौ हेतुत्वायोगाच्च ॥ २० ॥
पृष्ठ 284
पाठ पढ़ें पाठ छिपाएँ
२४८ शुक्लयजुर्वेदसंहिता [ अ ० १ ९
धा॒नाः क॑र॒म्भः सक्त॑वः परीवापः पयो दधि ।
सोम॑स्य रूप हविर्ष आमिक्षा वाजिनं मधु ' ॥ २१ ॥
ये सब सोम के रूप हैं । गरम दूध मन्त्रार्थ -- भुने हुए धान खोलें, उदमःथ, सत्तू, हविष्यक्ति, दूध रूप , दही है, अर्थात् इन सबकी सहायता से सोम में वही डालने पर होने वाला गाढा भाग आमिक्षा, शहद और अन्न हवि का की आहुति निष्पन्न होती है ॥ २१ ॥
उदकमन्थः, ' करम्भो अत्रत्या धानादयः सोमरूपेण ध्येया इत्यर्थः । धाना । भृष्टयवादयः परीवापः । हविष्पक्तिः करम्भः । पयोदधिनी प्रसिद्धे । दधिसक्तवः ' ( अ ० को ० २२ ९ १४८ ) इत्यमरः । सक्तवः प्रसिद्धाः वाजिनं च हविषो रूपम् । उष्णे पयसि दधिक्षेपे एतानि सर्वाणि सोमस्य रूपम् | आमिक्षा पयस्या, मधु मधुरम् वाजिनम् । परिणामिनः पयसो घनभाग आमिक्षा | शेषजलप्रायभागो अध्यात्मपक्षे - पूर्ववदर्थो योजनीयः । हविषो दयानन्दस्तु -- ' परीवापः परितः सर्वतो बीजारोपणं यस्मिन् सः येषु । तेषामिदं सोमस्य सारवस्तु अभिषोतुमर्हस्य ' इति, तदपि होमस्य आमिक्षा दधिदुग्धमिष्टेनिर्मिता । वाजः प्रशस्तान्नानि विद्यन्ते हविष्ट्वम् हविष्टेन होतुमर्हत्व-यत्किञ्चित् अभिषोतुमर्हाणामन्यासां वीरुधां सोमत्वायोगात् । वाजिभ्यो होतुमर्हत्वेन वाजिनम् ' इति रीत्या घनीभूतो भाग मित्यन्योन्याश्रयता । ' तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा आमिक्षा, द्रवरूपश्च वाजिनमिति ॥ २१ ॥
धानान रूपं कुर्वलं परी॑वा॒वस्य॑ गो॒धूमा॑ः ।
सक्त॑न रू॒पं बद॑रमुप॒वाः कर॒म्भस्य॑ ॥ २२ ॥
हैं । बदरी फल मन्त्रार्थ- - इस यज्ञ में कोमल बेर के फल धान की खीलों के रूप हैं, गेहूं हविष्यक्ति के रूप सत्तुओं के और यव करम्भ के रूप हैं ॥ २२ ॥
हविषां सोमस्य च ननु पूर्वस्मिन् मन्त्रे धानादीनां सोमरूपत्वमुक्तम् । तेऽत्र कुत्र सन्तोति धानादिसोम रूपमिति ध्येयम् । गोधूमाः सम्पत्तिः सौत्रामणीद्रव्येषूच्यते । कुवलं कोमलं बदरीफलं धानानां पूर्वोक्तानां रूपं ज्ञेयम् । परीवापस्य रूपम् । बदरं सर्वं बदरीफलं सक्तूनां रूपम् । उपवाका यवाः करम्भस्य अध्यात्मपक्षे -- उक्ता रीतिराश्रयणीया । सक्तूनां दयानन्दस्तु - ' हे मनुष्याः, यूयं धानानां कुवलमिव रूपम्, परीवापस्य यत्किञ्चित् गोधूमा रूपम् समानताज्ञानस्य । बदरीफलवद्रूपम् । करम्भस्य उपवाकाः समीपप्राप्तयवानां रूपम् ' इति, तदपि वैषम्यमेव । सक्तुबदरयोरपि निष्प्रयोजनत्वात् । समानताप्यनुपपन्नैव, धाना कुवलयोर्वैषम्यात् । परीवापगोधूमयोरपि दृष्टिः कर्तव्या, शालग्रामे साम्यं न दृश्यते । सिद्धान्ते तु सौत्रामणीगतेषु तत्तत्पदार्थेषु सोमीयतत्तत्पदार्थानां विष्णुबुद्धिवत्यृपे आदित्यबुद्धिवच्चेति न कोऽपि दोषः ॥ २२ ॥
पृष्ठ 285
पाठ पढ़ें पाठ छिपाएँ
म ० २३-२४ ] वेदार्थ पारिजातभाष्यसहिता पय॑सो रू॒पं यद्यवा॑ द॒ध्नो रूपं क॒र्कन्धूनि । 6 सोम॑स्य रू॒पं वाज॑न स॒म्यस्य॑ रू॒पमा॒मक्ष ॥ २३ ॥
२४ ९ मन्त्रार्थ - दूध के और बड़े बदरीफल दही के रूप हैं । अन्न सोम का रूप है और दही मिला गरम दूध सोम में पके हुए चरु का रूप है ॥ २३ ॥
यद् ये वास्ते पयसो रूपम्, कर्कन्धूनि स्थूलबदरीफलानि दध्नो रूपम् । वाजिनं सोमस्य रूपम् । आमिक्षा पयस्या सौम्यस्य चरो रूपं ज्ञेयम् । अध्यात्मपक्षे - पूर्ववदेवार्थः । दयानन्दस्तु - ' हे मनुष्याः, वाजिनमिति सोमस्य रूपमामिक्षेव सौम्यस्य रूपं सम्पादयत । यद्यवास्ते पयसो रूपम्, कर्कन्धुनि दध्नो रूपम्, वाजिनं बह्वन्नसाररूपम्, सौम्यस्य सोमानामोषधिसाराणां भावस्य रूपमामिक्षा ' इति, तदपि यत्किञ्चित् असम्बद्धत्वात् ॥ २३ ॥
आश्रवयेति स्तोत्रियः प्रत्याधा॒वो अ॑न॒रूपः ।
यजेतं धाय्यारूपं प्र॑गा॒था ये यजामहाः ॥ २४ ॥
मन्त्रार्थ - स्तोता आश्रावय शब्द कहता है, प्रत्याश्राव तीन ऋचा वाले अनुवाक का रूप है, यजन करो यह शब्द धाध्या का रूप है, येयजामहे यह प्रगाथ का रूप है ॥ २४ ॥
शस्त्रसम्पत्तिमाह - ' अनन्तं वे मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति ' ( बृ ० ३ | १ | ९ ) इत्यानन्त्यगुणेन यथा मनसि विश्वेदेवत्वं कल्प्यते, तथैव प्रकृतेऽपि प्रेष स्तोत्रिययोरभेदो ज्ञेयः । ' मनो ब्रह्मेत्युपासीत ' ( छा ० ३ | १८ | १ ), ' आदित्यो ब्रह्मेत्यादेश: ' ( छा ० ३ | १ ९ | १ ) इत्यध्यासरूपा वा दृष्टि: । तथा च मनआदित्यादिषु ब्रह्मदृष्ट्यध्यासः । विशिष्ट क्रियायोगनिमित्तमप्यभेदव्यवहारो भवति, यथा ' वायुर्वाव संवर्ग: ' ( छा ० ४ | ३ | १ ), ' प्राणो वाव संवर्ग: ' ( छा ० ४ | ३ | ३ ) इत्यादिकम् | आश्रावयेति, ओश्रावयेति प्रेषशब्दः स्तोत्रियरूपो ज्ञेयः । स्तोत्रे प्रथमस्तृचोऽनुवाकः स्तोत्रियः । प्रत्याश्राव: ' अस्तु श्रीषट् ' इति शब्दः । अनुरूप उत्तरतृचरूपः । यजेतिशब्दो धाय्याया रूपम् | अर्थाद् निष्कैवल्यशस्त्रे स्तोत्रियानुरूपयोरनन्तरं धाय्या शस्यते सा यजेतिशब्दो ज्ञेयः । धावारूपेण यजेतिशब्दो ध्येय इति यावत् । येयजामहाः, येयजामह इति शब्दः प्रगाथा: प्रगाथरूपेण ध्येयः । सौगता ओश्रावयेत्यादयः प्रेषशब्दाः सोमयागीय स्तोत्रियादिरूपेण ध्येया इत्यर्थः । अध्यात्मपक्षे - पूर्ववदेवार्थः ।. दयानन्दस्तु – ' हे विद्वन्, त्वं विद्यार्थिन आश्रावय विद्योपदेशान् कुरु । ये स्तोत्रियाः स्तोत्राणि अर्हन्ति तान् प्रत्याश्रावः, यः प्रतिश्राव्यते सः अनुरूपोऽनुकूलः । यजेति धाय्यारूपं या मह तस्या रूपम् । येयजामहाः प्रगाथा ये प्रकर्षण गीयन्ते ते । भृशं यजन्ति ते ' इति, तदपि वैदिकवृत्तान्तानभिज्ञानमूलम् । काल्प-निकोऽप्यर्थोऽसम्बद्ध एव || २४ || ३२
पृष्ठ 286
पाठ पढ़ें पाठ छिपाएँ
२५० शुक्लयजुर्वेदसंहिता
अर्धऋचैरवथानां रूपं पराप्नोति नि॒विः ।
प्रणवैः श॒त्राणा॑ रू॒पं पय॑सा॒ सोम॑ आप्यते ॥ २५ ॥
[ अ ० ] १ ९ मन्त्रार्थ - आधी ऋचाओं में उक्थों का रूप वाया जाता है, प्रत्येक पद में न्यूंखों का और प्रणव में शस्त्रों का रूप पाया जाता है । इसी तरह दूध में सोम के रस की प्राप्ति होती है ॥ २५ ॥
अर्धॠचैः, ऋचामर्धान्यर्धऋचाः, ' अर्धर्चाः पुंसि च ' ( पा ० सू ० २ | ४ | ३१ ) इति पुंस्त्वम्, ' ऋत्यकः ' ( पा ० सू ० ६ ११ १२८ ) इति प्रकृतिभावत्वाद् गुणाभावः तैः सौत्रामणीयागगतैरर्धचः, उक्थानां शस्त्रविशेषाणां रूपमाप्यते । पदैर्निविदो न्यूङ्गान आप्नोति । प्रणवैः शस्त्राणां रूपमाप्यते । पयसा क्षीरेण सोम आप्यते । अर्ध उक्थरूपेण ध्येया इत्यर्थः । नितरामत्यन्नविषमप्रकारेण ऊङ्गनम उच्चारणं न्यूङ्खः । गवामयनस्य चतुर्थेऽहनि प्रातरनुवाकं प्रतिपद्यर्धर्चाद्यो न्यूङ्गः, द्वितीयं स्वरमोङ्कारं त्रिमात्रमदात्तमुच्चार्य त्रिस्तस्योपरिष्टादपरि गितान् पञ्च वाकाराननदात्तानुत्तमस्य तु त्रीन पूर्वमक्षरं निहन्यते ' न्यूङ्ख्यामाते ' ( आश्व ० श्री ० ७१११११-५ ) इति स्मरणात् । एतदर्थस्त - चतुर्थेऽहनि प्राप्ते सति प्रातरनुवाकस्य येयमृक् प्रथमास्ति, तस्या यो द्वावच तयोर्यावादी तयोराद्ययोर्न्यङ्गः कर्तव्यः । तद्यथा--आपो ' रेवती: क्षयथा हि वस्वः क्रतं च भद्रं बिभृतामृतं च । रायश्च॒ स्थ स्व॑पत्यस्य॒ पत्नी! सरस्वती तद् गृण॒ते वयो ' धातु ॥ ' ( ऋ ० सं ० १० | ३० | १२ ) . इति प्रातरनुवाकस्य प्रतिपत् । तस्याः पूर्वार्धस्यादौ योऽयं द्वितीयः स्वर ओकारः षकारादूर्ध्वभावी तं त्रिमात्रोपेतमुदात्तस्वरयुक्तं त्रिवारमुच्चारयेत् । त एते त्रय ओङ्काराः सम्पद्यन्ते । तत्रैकैकस्य ओकारस्योपरि पुनरप्योकारा अर्धस्वरूपा ह्रस्वमात्रा अपरिमिता उच्चारणीयाः । ते चार्धीकाराः सर्वेऽप्यनुदात्ताः । उत्तमस्य तु त्रिमात्रस्य ओकारस्योपरि पुनरप्योकारा अर्धस्वरूपा ह्रस्वमात्रा अपरिमिताः पञ्च वोच्चारणीयाः । एवमुदात्तास्त्रिमात्रास्त्रय ओकाराः, अर्धीकारास्त्रयोदश, इत्येवमोकाराः षोडश सम्पद्यन्ते । प्रथमद्वितीययो-, स्त्रिमात्रयोर्मध्ये पञ्चानुदात्ता अधकाराः, एवं द्वितीयतृतीययोरपि त्रिमात्रयोर्मध्ये पञ्चानुदात्ता अधकाराः, तृतीयस्य त्रिमात्रस्य उपरिष्टाद् अनुदात्ता अर्धीकारास्त्रयः । सोऽयमुच्चारणविशेषो न्यूङ्ख उच्यते । तद्यथा-' आ पो ३ ओ ओ ओ ओ ओ ओ ३ ओ ओ ओ ओ ओ ओ ३ ओ ओ ओ रेवतोः क्षयथा हि वस्वः ऋतं च भद्रं बिभृथामृतं च । रायो ३ ओ ओ ओ ओ ओ ओ ३ ओ ओ ओ ओ ओ ओ ३ ओ ओ ओ स्थ स्वपत्यस्य पत्नीः सरस्वती तद् गुणते वयोधो ३ मापो ३ ( आश्व ० श्री ० ७ ११७ ) । ' यज्ञकर्मण्यजपन्यूङ्खसामसु ' ( पा ० सू ० १ | २ | ३४ ) इति स्थले ' न्यूङ्खा ओकाराः षोडश तेषु केचिदुदात्ताः केचिदनुदात्ताः ' इति काशिका । ' षोडशेति पाठः ओकारा इति च न त्वेते मकारान्ता:, तेषु प्रथम सप्तम - त्रयोदशास्त्रय उदात्तास्त्रिमात्राः, इतरे त्रयोदशानुदात्ता अर्धीकाराः । एतच्च आश्वलायनेन चतुर्थेऽहनोत्यस्मिन् खण्डे लक्षणेनोक्तमुदाहृतं च ' इति पदमञ्जर्यं हरदत्तः । ' न्यूङ्खत्ते शब्दविशेषं कुर्वन्ति ' इति ऋग्वेदसंहिताभाष्ये ( १०१ ९ ४ | ३ ) सायण: । ' न्यूङ्खो नाम सोमयागे प्रातरनुवाकसंज्ञकं शस्त्रम् होत्रा शंसनोयत्वेन विहितम् ' इति । अध्यात्मपक्षे - पूर्ववदेवार्थः । दयानन्दस्तु - ' यो विद्वान् अर्ध - ऋचैरुक्थानां स्तोत्रविशेषाणां रूपम्, पदैविभक्त्यन्तैः पदेः प्रणवैः शस्त्राणां शंसन्ति यैस्तेषां रूपं निविद् ये निश्चयेन विदन्ति तान् आप्नोति, येन विदुषा पयसा सोम आप्यते स वेदवित् कथ्यते ' इति, तदपि यत्किञ्चित् स्वाच्छन्द्यमूलकत्वात् । अन्यथा कथमर्धरुक्थानां रूपं विज्ञायते?
पृष्ठ 287
पाठ पढ़ें पाठ छिपाएँ
म ० २५-२७ ] वेदार्थ पारिजातभाष्यसहिता २५१ वै सर्वा वाक् ' तादृशोक्यानां खपुष्पायमाणत्वात्, शस्त्राणामेव किं सर्वेषां स्तोत्राणामपि पदैर्निष्पन्नत्वात् । ' अकारो ( ऐ ० आ ० २ | ३ | ६ ) इत्यादिश्रुत्या सर्वस्यैव वाङ्मयस्य अकारमूलकत्वेन शस्त्राणामेव पदप्रणवमूलकत्वोक्तेरभिप्रायो वर्णनीय आसीत् ॥ २५ ॥
अ॒श्विभ्यां॑ प्रातःसव॒न॒मिन्द्र॑णे॒न्द्रं माध्य॑न्दिनम् । व॒श्व॒दे॒वछ॒ सर॑स्वत्या त॒तीय॑मा॒प्त सव॑नम् ॥ २६ ॥
मन्त्रार्थ - अश्विनीकुमारों के द्वारा प्रातः सवन की, इन्द्र के द्वारा इन्द्र देवता वाले माध्यन्विन सवन की और सरस्वती के द्वारा विश्वेदेव देवता वाले तृतीय सायंसवन की प्राप्ति होती हैं, अर्थात् तीनों कालों में इन देवताओं की आराधना करनी चाहिये ॥ २६ ॥
सवनसम्पत्तिमाह — अश्विभ्यां नासत्याभ्यां देवाभ्यामत्रत्याभ्यां प्रातः सवनमाप्तम् । इन्द्रेण देवेन ऐन्द्रमिन्द्रदेवत्यं माध्यन्दिनं सवनमाप्तं प्राप्तम् । सरस्वत्या वाग्देवतथा कृत्वा वैश्वदेवं विश्वदेवदेवत्यं तृतीयं सायंसवनं प्राप्तम् । अध्यात्मपक्षे – तादृशप्रातः सवनादिकं बुद्धिशुद्धयादिद्वारा परमात्मावगमहेतुः । देवताः परमात्मविकारत्वात् परमात्मरूपाः, तत्प्रधानं प्रातरादिसवनमपि परमात्माराधनमेव । अवीन्द्रसरस्वत्यो दयानन्दस्तु — ' यैरश्विभ्यां प्रथमं प्रातः सवनम् इन्द्रेण ऐन्द्रं द्वितीयं माध्यन्दिनं सवनम्, सरस्वत्या वैश्वदेवं तृतीयं सवनमाप्तम्, ते जगदुपकारकाः सन्ति ' इति, तदपि यत्किञ्चित् प्रातरादियज्ञक्रियासामान्यस्य सवनत्वाप्रसिद्धेः, क्रियाविशेषस्य चानिरुक्तः । न च सूर्यशशिभ्यां प्रातः सवनस्य निष्पत्तिः, न वा सामान्य- विद्युता माध्यन्दिनसवनस्य सम्बन्धः, न वारोग्यकरं कर्म सवनं भवति, तथात्वं साम्प्रतिकचिकित्सकादिचिकित्सा स्यापि सवनत्वापातात् ॥ २६ ॥
वाय॒व्ये वा॑य॒व्यान्याप्नोति॒ सतेन द्रोणकल॒शम् । 10m क॒म्भोभ्य॑मम्भृणी॑ सु॒ते स्था॒लोभिः स्या॒लीराप्नोति ॥ २७ ॥
मन्त्रार्थ - - वायव्य सोम पात्रों से वायव्य पात्रों की प्राप्ति होती है । वेत के पात्र से द्रोणकलश की प्राप्ति होती है । सो छिद्र वाली झारी और दक्षिणाग्नि पर स्थापित होने वाले सुराधानी पात्र से पूतभृत् और आधवनीय को सोमाभिषव होने पर पाता है । स्थालियों के द्वारा स्थालियों की प्राप्ति होती है ॥ २७ ॥
वायव्यानि सोमपात्राणि । सर्वेषामेव सोमपात्राणां वायव्यानीति संज्ञा । वायव्यैरत्रत्यैर्वायुदेवताकैर्ग्र है -राप्नोति । सतेन वैतसेन पात्रेण, ' वैतसः सतो भवति । अप्सुयोनिर्वै वेतस आपो वे सर्वा देवताः सर्वाभिरेवैन-मेतद्देवताभिरभिषिञ्चति ' ( श ० १२ | ८ | ३ | १५ ) इति श्रुतेः । द्रोणकलशं सौमिकमाप्नोति । कुम्भीभ्यां सुराधानी -भ्यां शतच्छिद्राभ्यामम्भृणी पूतभृदात्रवनोयी सुतेऽभिषुते सोमे यौ भवतस्तौ प्राप्नोति । स्थालीभ्यामत्रत्याभ्यां सोमिकी: स्थालीराप्नोति, स्थालीनामुभयत्र सत्त्वात् ।
पृष्ठ 288
पाठ पढ़ें पाठ छिपाएँ
२५२ शुक्लयजुर्वेद संहिता [ अ ० १ ९ अध्यात्मपक्षे - उक्तैव रीतिः । प्राप्नोति, सतेन दयानन्दस्तु – ' यो विद्वान् वायव्यैर्वायुदेवताकैर्वायुषु भवैर्वा वायव्यानि कर्माणि विभक्तेन कर्मणा द्रोणकलशं च द्रोणपरिमाणं कलशं चाप्नोति । कुम्भीभ्यां धान्यजलाधाराभ्याम् अम्भृणी यत्किञ्चित् अपो ताभ्यां तो सते निष्पादिते स्थालीभिः स्थालीः प्राप्नोति स आढ्यो भवति ' इति, तदपि इति भावः || २७ || प्रकृतहानाप्रकृतक्र्सङ्गापातात् । कार्यकारणभावसिद्धावन्यथासिद्धिविरहोऽपेक्षितः । अत्र तदभाव
यजुभिराप्यन्ते ' ग्रहाग्रहः स्तोम॑श्च॒ विष्टतः ।
छन्दो'भिरुक्थाश॒स्त्राणि॒ साम्॑ ऽवभृथ आप्यते ॥ २८ ॥
मन्त्रार्थ - जुर्मन्त्रों के द्वारा ग्रह की प्राप्ति होती है, ग्रहों से स्तोम और अनेकों प्रकार की स्तुतियाँ सम्पन्न होती हैं । छन्दों से उक्थ और कथन करने योग्य स्तुतियाँ सम्पन्न होती हैं । साम से अवभृथ प्राप्त होता है ॥ २८ ॥
यजुभिर्यजुष्याप्यन्ते । ग्रहा ग्रहैराप्यन्ते । स्तोमैः स्तोमा आप्यन्ते । विष्टुतिभिर्विविधाभिः । साम्ना स्तुति- साम भिर्विष्टुतोविष्टुतयः प्राप्यन्ते । छन्दोभिर्गायत्र्यादिभिरुक्था उक्थानि शस्त्राणि च प्राप्यन्ते, उभयत्र आप्यते । अवभृथेन अवभृथ आप्यते । अत्रत्येषु यजुरादिषु सोमिकानि यजुरादीनि चिन्त्यानीत्यर्थः तेषां सत्त्वात् । अध्यात्मपक्षे - प्रदर्शितपूर्वः पन्थाः । च दयानन्दस्तु – हे मनुष्याः, यूयं यजुभिर्ग्रहा ग्रहैः स्तोमा विष्टुतीश्व छन्दोभिरुक्था , वैदिककर्मानभिज्ञत्वात् शस्त्राणि, प्राप्यन्ते । साम्नावभृथ आप्यते । तेषामुपयोगो यथावत् कर्तव्यः ' इति, तदपि यत्किञ्चित् उक्तानां परस्परं हेतुहेतुमद्भावासिद्धेः कीदृशश्च तेषामुपयोग इत्यनुक्तेश्व ॥ २८ ॥
इडभिर्भ॒क्षानाप्नोति
सूक्तवाकेनाशिषः ।
श॑थु॒ना॑ पत्नोस॑य॒जान् स॑मिष्टय॒जुषा॑ स॒स्थाम् ॥ २ ९ ॥
मन्त्रार्थ- - यजमान अन्न से मक्ष्य पदार्थों को पाता है । सूक्तवाक से आशीर्वाद पाता है, शंयु होम से शंयु को और पत्नीसंयाज से पत्नीसंयाज को पाता है । यजुःसमूह से उसे संस्था को प्राप्ति होती है ॥ २६ ॥
इडाभिरिडामाप्नोति । भक्षैक्षानाप्नोति । सूक्तवाकेन सूक्तवाकमाप्नोति । आशीभिराशिष आप्नोति । शंयुना होमविशेषेण शंयुमाप्नोति । पत्नोसंयाजः पत्नी संयाजानाप्नोति । समिष्टयजुषा समिष्टयजु- । राप्नोति | संस्थया संस्थामाप्नोति । इडादीनामुभयत्र सत्त्वात् । सौत्रामण्या इडादिषु सौमिकेडादिदृष्टयः कर्तव्याः वाक्योत्तरार्ध लोपो ज्ञातव्यः । अध्यात्मपक्षे - प्रदर्शिता रीतिः । दयानन्दस्तु — ' इडाभिः पृथिवीभिर्भक्षयितुमर्हानन्नादीन्, सूक्तवाकेन सुष्ठुच्यते यत् तत् समीचीनेष्टसाधकै- सूक्तवाकन्, तेन आशिष इच्छाः, शंयुना सुखमयेन पत्नीसंयाजान् ये पत्न्या सह समिज्यन्ते तान्, समिष्टयजुषा, र्याजुषैः कर्मभिः संस्थां सुष्ठु स्थानं प्राप्नोति, स सुखी कथं न स्यात् ' इति, तदपि यत्किञ्चित्, अस्पष्टार्थत्वात् कार्यकारणासिद्धेश्च । इदं व्याख्यानमेव सूचयति यदस्य इडादिपदार्थानवबोधः ॥ २ ९ ॥
पृष्ठ 289
पाठ पढ़ें पाठ छिपाएँ
म ० ३०-३१ ] वेदार्थपारिजात भाष्यसहिता
व्र॒तेन॑ द॒क्षमा॑नोति॑ द॒क्षय॑प्नोति॒ दक्षि॑णाम् ।
दक्षिणा श्रद्धाप्नोति श्रद्धय॑ स॒त्यम॑प्यते ॥ ३० ॥
२५३ मन्त्रार्थ - हुतशेषभक्षण रूप चार रात्रि के व्रत से यजमान दोक्षा को पाता है । दीक्षा से दक्षिणा को और दक्षिण से आस्तिक्य बुद्धि को पाता है । आस्तिक्य बुद्धि रूप श्रद्धा के द्वारा यजमान सत्यस्वरूप परमात्मा को पाता है ॥ ३० ॥
' हुतोच्छिष्टभक्षः, चतुरात्रम्, अग्निहोत्रं जुहोति ' ( का ० श्री ० १ ९ | १ | १३-१५ ) । हुतोच्छिष्टभक्षो यजमानः, स्यादिति शेषः । तथा च प्रतिदिनं सायं प्रातश्चाग्निहोत्रं हुत्वा स्थालीस्थस्य हुतशेषस्य हविषो भक्षणार्थं स्थापनं कुर्यात् । चतुर्दिनसाध्योऽयं क्रतुरिति । प्रतिषेधाभावात् पुनविधानसामर्थ्यात् स्वयमेवाग्निहोत्रं जुहुयादिति नियमः । एवं सूत्राणामर्थः । व्रतेन हुतोच्छिष्टभक्षश्चतूरात्रमग्निहोत्रं जुहोतीति प्रतिपादितव्रतेन दीक्षामाप्नोति । दीक्षया दक्षिणामाप्नोति । दक्षिणा दक्षिणया, विभक्तिलोपो व्यत्ययेन वा प्रथमा, ' सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्यायाजाल: ' ( पा ० सू ० ७ । १ । ३ ९ ) इति । श्रद्धां श्रत् सत्यं धीयतेऽस्यां सा श्रद्धा, ताम् आस्तिक्यबुद्धिम् । पुण्यकृतां मनोवृत्तिविशेषम्, ' श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वं मन एव ' ( बृ ० उ ० १।५।३ ) इति श्रुतेः । श्रद्धया सत्यं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्म ' ( तै ० उ ० २।१।१ ) इति श्रुतेः, आप्यते प्राप्यते, श्रद्धां विना साङ्गश्रवणाद्यभावेन तत्त्वज्ञानानुत्पत्तेः । अध्यात्मपक्षे - पूर्व प्रदर्शित एव पन्थाः । दयानन्दस्तु - ' यो बालको मनुष्यो वा व्रतेन सत्यभाषणादिनियमेन दोक्षां ब्रह्मचर्यविद्यादिसुशिक्षाम्, दीक्षा दक्षिणां प्रतिष्ठां श्रियं वा प्राप्नोति तथा श्रद्धां श्रत् सत्यं दधाति यया इच्छया तामाप्नोति, श्रद्धया सत्यं सत्सु नित्येषु पदार्थषु व्यवहारेषु वा साधुस्तं परमेश्वरं धर्मं वा आप्यते प्राप्यते ' इति, तदप्यसङ्गतम्, व्रत- दीक्षा - दक्षिणादिशब्दानां तथार्थत्वे मानाभावात् । न वा श्रिया प्रतिष्ठया वा सत्यधारणप्रीतिरुपलभ्यते, विपरीतस्यैव सुवचत्वात् । तं परमेश्वरं धर्मं वा आप्यत इत्यस्य साधुत्वमपि चिन्त्यम् ॥ ३० ॥
ए॒ताव॑द् रूपं य॒ज्ञस्य॒ यद् दे॒व॑ब्र॑ह्म॑णा कृ॒तम् ।
तये॒तत् सर्व॑माप्नोति य॒ज्ञे सौत्रामणीसुते ॥ ३१ ॥
मन्त्रार्थ - देवताओं ने और प्रजापति ब्रह्मा ने जिस यज्ञ का अनुष्ठान किया है, उसका इतना ही रूप है । सोत्रामणी यज्ञ में सुरा - सोम का अभिषवण होने पर यह याग पूर्णता को प्राप्त करता ॥ ३१ ॥
यज्ञस्य सोमयज्ञस्य एतावदेतत्परिमाणं रूपं देवैर्ब्रह्मणा प्रजापतिना च यद्रूपं कृतं दृष्टम् सुप्तप्रति-बुद्धन्यायेन प्राक्कल्पीयस्य विद्यमानस्यैव दर्शनम् । बुद्धिपूर्वकमविद्यमानस्य निर्माणं करणम् । सौत्रामणी सौत्रामण्याम् सप्तम्येकवचनस्य पूर्वसवर्णदीर्घः, यज्ञे सौत्रामण्याख्ये सुते सुरासोमेऽभिषुते सति तदेतत् सोमयागरूपं सर्वमाप्नोति । अध्यात्मपक्षे -- सर्वमेतद् यज्ञस्य विष्णो रूपं यन्मन्त्रेषु प्रतिपादितम्, ' यज्ञो वै विष्णुः ' इति श्रुतेः ।
पृष्ठ 290
पाठ पढ़ें पाठ छिपाएँ
२५४ शुक्ल यजुर्वेद संहिता [ अ ० १ ९ दयानन्दस्तु - ' यो मनुष्यो यद्देवैविद्वद्भिर्ब्रह्मणा परमेश्वरेण वेदचतुष्टयेन वा यज्ञस्यैतावद्रूपं कृतं निष्पादितं प्रकाशितं वा तत्परोक्षमेतत् प्रत्यक्षम् । सर्व सौत्रामणीसूत्राणि यज्ञोपवीतादीनि मणिना ग्रन्थिना युक्तानि प्रियन्ते यस्मिन् तस्मिन् सुते सम्पादिते यज्ञे आप्नोति स द्विजत्वारम्भं करोति ' इति, तदेतदज्ञानविजृ-भितम् श्रुतिसूत्रप्रसिद्धस्य सौत्रामण्याख्ययागरूपार्थस्य परित्यागेन क्लिष्टकल्पनया यज्ञोपवीतादिग्रन्थियुक्तधारणं यज्ञ इत्यर्थस्य खपुष्पायमाणस्य कल्पनानुपपत्तेः कोऽयं तादृशो यज्ञो यस्मिन् यज्ञस्य एतत्परिमाणं रूपं प्रत्यक्ष-मित्यनुक्तेः । प्रत्युत यज्ञस्य एतावद्रूपमित्युक्त्या पूर्वोक्तमन्त्रेषु यज्ञस्य रूपमेव वर्णितम् । यत् त्वया कथञ्चिदन्यत्र नयनाय बलात्कारः कृतः । प्रसिद्धाश्च वैदिकेषु श्रुतिसूत्रादिषु पत्नीसंया जेष्ट यजुः संस्थादयः पदार्थाः । सर्वमेत-द्यज्ञस्य रूपम् | ' यज्ञो वै विष्णुः ' इति श्रुत्यनुसारेण अध्यात्मं सर्व वैष्णवमेव रूपम् ॥ ३१ ॥
सुरवन्तं बर्हिषदं सुवीरं य॒ज्ञ हिन्वन्ति महिषा नमोभिः । | दधा॑नाः सोमे॑ दि॒वि दे॒वता॑सु॒ मदे॒सेन्द्रं यज॑मानाः स्वकः ॥ ३२ ॥
मन्त्रार्थ -- देवताओं को नमन करते हुए, अन्न के द्वारा स्वर्ग में स्थित देवताओं को आहुति देते हुए, सोमा-मिव करते हुए, महान् ऋत्विकगण कुशा के आसन पर बैठे हुए देवताओं के निमित्त सौत्रामणी याग का अनुष्ठान करते हैं । इस यज्ञ में शुभ मन्त्र वाले इन्द्र का यजन करते हुए हम हर्ष को प्राप्त हों ॥ ३२ ॥
सुरावन्तमिति जुहोति ' ( का ० श्र ० १ ९ | ३ | १२ ) | अध्वर्युस्त्रीनपि पयाग्रहान् सहैव जुहोतीत्यर्थः । एवं सौत्रामयाः सोमसम्पत्तिमापाद्य प्रकृतमनुसरति - सुरावन्तमिति । चतस्रस्त्रिष्टुभोऽश्विसरस्वतीन्द्रदेवत्याः । कण्डिकार्थस्तु - महिषा महान्त ऋत्विजः । यद्यपि महिषशब्दो निघण्टौ ( ३ ३ ८ ) महनामसु पठितः, तथाप्यत्र ऋत्विग्वाचकः, ' महिषा नमोभिरित्यृत्विजो वे महिषाः ' ( श ० १२ | ८ | १ | २ ) इति श्रुतेः । यज्ञं सौत्रामणीसंज्ञ हिन्वन्ति वर्धयन्ति प्रापयन्ति वा । किंभूतं यज्ञम्? बर्हिषदं बर्हिषि सीदन्ति देवा यत्र स बर्हिषत् तम् । पुनः कथं-भूतम्? सुरावन्तम्, सुरा विधिपूर्वकं निर्मिता विद्यते यत्र स सुरावान् तम्, ' सुरावान् वा एष बर्हिषद्यज्ञा यत्सौत्रा-मणी ' ( श ० १२२८/११२ ) इति श्रुतेः । पुनः कीदृशम्? सुवोरम्, सुष्ठु शोभना वीरा ऋत्विजो यत्र तम् । कीदृशा महिषाः? नमोभिरन्नैर्नमस्कारैर्वा सह दिवि स्वर्गे वर्तमानासु देवतासु सोमं दधाना धारयन्तः । तत्र यज्ञे इन्द्रं यजमाना यजन्तः सन्तो वयं मदेम हृष्येम । किंभूता वयम्? स्वर्काः शोभनोऽर्कोऽचंनं मन्त्रा वा येषां ते स्वर्काः । यह शोभन sas नं येषां ते स्वर्काः, ' अर्को वै देवानामन्नमन्नं यज्ञो यज्ञेनैवैनमन्नाद्येन समर्धयति ' ( श ० १२८ ( ११२ ) इति श्रुतेः, ' अर्को देवो भवति यदेनमर्चन्ति, अर्को मन्त्रो भवति यदनेनार्चन्ति, अर्कमन्नं भवत्यर्चति भूतानि, अर्को वृक्षो भवति संवृतः कटुकिम्ना ' ( नि ० ५१४ ) इति तत्रभवतो यास्कस्योक्तेश्च । अत्र ब्राह्मणम् -'स जुहोति । सुरावन्तं बर्हिषद सुवोरमिति सुरावान् वा एष बर्हिषद्यज्ञो यत्सत्रामणी बहिषैवैनं यज्ञेन समर्द्धयति यज्ञ, हिन्वन्ति महिषा नमोभिरिति ऋत्विजो वै महिषा यज्ञो नम ऋत्विग्भिरेव यज्ञ, समर्द्धयति यज्ञेन यजमानं दधानाः सो मिति सोमपीथमेवास्मिन् दधति दिवि देवतास्विति दिव्येवैनं देवतासु दधति मदेमेन्द्रमिति मदाय वाव सोमो मदाय सुरोभावेन सोममदं च सुरामदं चावरुन्वे यजमानाः स्वका इत्यकां वै देवानामन्नमन्नं यज्ञो यज्ञेनेवनमन्नाद्येन समर्द्धयति हुत्वा भक्षयन्ति समृद्धमेवास्य तद्वर्धयन्ति ' ( श ० १२८/११२ ) । स जुहोतीति होमं विधाय मन्त्रे व्याचष्टे - सुरावन्तमिति ।