वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 291–300

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 291–300

पृष्ठ 291

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 291 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३२-३३ ] वेदार्थपारिजात भाष्यसहिता २५५ अध्यात्मपक्षे - बर्हिषदं यज्ञं यज्ञरूपधरं विष्णुं महिषा महान्तो वशिष्ठादयो हिन्वन्ति वर्धयन्ति वर्धापनं मङ्गलाशासनं कुर्वन्ति । कीदृशं विष्णुम्? सुगवन्तम् । ये सुष्ठु रमन्ते ते सुराः, तद्वन्तम् । छान्दसो दीर्घः । अथवा सुष्ठु रमते भगवान् यासु ताः सुरा भगवच्छक्तयः, तद्वन्तम् । पुनः कीदृशम्? सुवीरम् । सुष्ठु शोभना वोरा ऋत्विजो हनुमदादयो वा यस्य तं सुवीरम् । कथम्भूता महिषाः? नमोभिरन्नैर्नमस्कारैर्वा सह दिवि स्वप्रकाशे धाम्नि स्वरूपे वर्तमानासु वर्तमानायाम्, पूजायां बहुवचनम्, देवतासु परदेवतायां विष्णो सोमं समर्पणीयं सोमादिहविः सोमात्मकं मनो वा दधानाः तैः सार्धं वयमिन्द्रं परमैश्वर्यवन्तं परमात्मानम्, यजमानाः श्रद्धयाऽर्चयन्तो मदेम हृष्येम । कीदृशा वयम्? स्वर्काः शोभनोऽर्चनीयः परमात्मा देवो येषां ते । दयानन्दस्तु - ' हे मनुष्याः, ये महिषा महान्तः स्वर्काः शोभनादिपदार्था यजमाना विद्वांसो नमोभिरन्नैः सुरावन्तं सुराः प्रशस्ताः सोमा यस्मिस्तं बर्हिषदं बर्हिषि आकाशे सोदति यस्तम् । सुवीरं शोभना वीराः शरीरात्मबलयुक्ता यस्मात्तम्, यज्ञं हिन्वन्ति वर्धयन्ति, ते दिवि शुद्धे व्यवहारे देवतासु विद्वत्सु सोममैश्वर्यं दधाना धरन्तः सन्तो वयं च मदेम हर्षेम ' इति, तदपि मन्दम् त्वद्रीत्या यज्ञस्य वायुशुद्धिहेतुत्वेन वीरप्राप्तिहेतुत्वानुपपत्तेः । न च यज्ञोऽन्तरिक्षे तिष्ठति, तस्येहैव समाप्तत्वात् । न चादृष्टरूपेण तदवस्थितिः, त्वया तदनङ्गीकारात् । सुरापदस्य प्रशस्त सोमार्थतापि चिन्त्या, तथैव सोमपदस्य ऐश्वर्यार्थतापि ॥ ३२ ॥

यस्ते रसः सम्भूत ओष॑धीष सोम॑स्य॒ शुष्मः सुरया स॒तस्य॑ ।

तेनं जिन्व॒ यज॑मानं मदेन सर॑स्वतीमश्विनाविन्द्र॑मग्निम् ॥ ३३ ॥

मन्त्रार्थ - हे सुरारस! औषधियों में जो तुम्हारा रस इकट्ठा हुआ है, वह सुरा के साथ अभिषुत सोम का बल है । उस आनन्दप्रद रस से यजमान, सरस्वती, दोनों अश्विनीकुमार और अग्नि को तुम तृप्त करो ॥ ३३ ॥

' पालाशैः सौरान्न मृन्मयमाहुतिमानश इति श्रुतेर्यस्त इति ' ( का ० श्र ० १ ९ | ३ | १३ ) । प्रतिप्रस्थाता दक्षिणेऽग्नौ सुराग्रह पालाशैरुलूखलैर्जुहुयाद् यस्त इति मन्त्रेण न मृन्मयीभिः स्थालीभिः । कुतः? ' हि मृन्मयमाहुतिमानशे ' ( तै ० सं ० २/५/४/६ ) इति श्रुतौ मृन्मयपात्रेण होमनिषेधादिति सूत्रार्थः । मृन्मयं पात्रमाहुति व्याप्नोतीति श्रुत्यर्थ: । हे सुरे, यस्ते तव ओषधीषु वर्तमानो रसः सम्भृत एकीकृतः ' अपां च वा एष ओष-धीनां च रसो यत्सुरा ' ( श ० १२ | ८ | ११४ ) इति श्रुतेः । सुरया सह सुतस्य सोमस्य च यः शुष्मो यद् बलम्, मदेन मदयति हर्षयति ग्लेपयति वेति मदः, तेन मदजनकेन तेन सुरारसेन सोमबलेन च यजमानं सरस्वतीमश्विना -विन्द्रमग्नि च जिन्व प्रोणीहि । अत्र ब्राह्मणम् -'स जुहोति । यस्ते रसः सम्भृत ओषधोष्वित्यषां च वा एष ओषधीनां च रसो यत्पुराणां चैवैनमेतदोषधीनां च रसेन समर्धयति सोमस्य शुष्मः सुरया सुतस्येति य एव सोमे शुष्मो यः सुरायां तमेवावरुन्धे तेन जिन्व यजमानं मदेनेति तेन प्रीणीहि यजमानं मदेनेत्येवेत्तदाह सरस्वतीमश्विना -विन्द्रमग्निमिति देवताभिरेव यज्ञ समर्धयति देवताभिर्यज्ञेन यजमान, हुत्वा भक्षयन्ति व्युद्धमेवास्य तत्समर्धयन्ति ' ( श ० १२ | ८ | ११४ ) । स जुहोति यस्ते रस इति । ते तव सोमस्य सोमात्मिकायाः सुरायाः सुतस्य त्वदात्मना सुतस्य शुष्मो बलवान् रसः सम्भूत ओषधीषु तेन रसेन त्वमुदकाकारण तर्पय सरस्वत्यादीन्, तद्वारेण यजमानमपि प्रीणाहि । सोमाधारमित्येवं मन्त्रार्थमादरीकृत्य यजमानमेव ओषधीनां च रसेन समर्ध-यतीत्याद्याह । देवताभिरेवान्वादिभिर्यज्ञं समर्धयति । देवताभिर्यज्ञेन च यजमानम्, तदर्थत्वाद् यज्ञस्य |

पृष्ठ 292

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 292 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५६ शुक्लयजुर्वेदसंहिता [ अ ० ] १ ९ सुरां भक्षयन्ति यजमान सप्तमा ऋत्विज एवेति यत् तत्तेन व्यृद्धेनैव लोकदृष्ट्या अस्य यजमानस्य समर्धयति । सोमं राजानमिह भक्षयामीत्यनयोपासनयेत्यभिप्राय इति श्रीमदाचार्यहरिस्वामी । अध्यात्मपक्षे – हे ब्रह्मन्, यस्ते तव स्वरूपभूतो रस ओषधीषु वर्तमानः सम्भृतः, ' गामाविश्य च भूतानि । धारयाम्यहमोजसा । पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ ' ( भ ० गी ० १५ १३ ) सोमवद्वलकरेण इति हि भगवद्वचनम् च रसेन सुरया सह सुतस्य सोमस्य च यः शुष्मो बलं तेन मदेन मदजनकेन सुरावन्मादकेन सरस्वतीं वाचमश्विनो प्राणापानौ इन्द्र जीवमग्निमीश्वरं च जिन्व प्रीणयसि । दयानन्दस्तु - ' हे विद्वन्, यस्ते रम आनन्द ओषधीषु वर्तमानः सुतस्य सिद्धस्य सोमस्य सर्वसुखदायकं सुरया उत्तम-दानशीलया स्त्रिया सम्भृतः सम्यग्वारितः, शुष्मो बलकरो रसः तेन मदेन आनन्ददायकेन यजमानं अग्नि सेनापति सरस्वती विद्यायुक्तां स्त्रियम् अश्विनौ विद्याव्याप्तौ अध्यापकोपदेशको इन्द्रमैश्वर्ययुक्तं सभापतिम् । आनन्द-जिन्व प्रसन्नं कुरु ' इति, तदपि यत्किञ्चित् विदुषो रसस्य आनन्दस्य ओषधीषु वर्तमानत्वासिद्धेः पुरुषेण वा धारणे वैशेष्यं स्त्वद्रीत्या आत्मधर्म इति स नौषधीषु स्थातुमर्हति । नहि रसस्य दानशीलया स्त्रिया वा प्रसादन-सिद्धयति । किञ्च किमर्थं विदुषा एकस्या विदुष्यास्तर्पणं क्रियते? द्वयोरध्यापकोपदेशकयोरेव मित्यनुक्तेः ॥ ३३ ॥

नर्मचेरासरादधि इमं त V, शुक्रं मधुमन्तमिन्दु, सोम॒

सर॑स्वत्यसुनो ' दिन्द्रियायं ।

राजानमिह भक्षयामि ॥ ३४ ॥

मन्त्रार्थं - दोनों अश्विनीकुमारों ने असुर के पुत्र नमुचि के पास से जिस सोम का आहरण किया, सरस्वती ने जिसको इन्द्र के बलवीर्यं या भैषज्य के लिये संस्कृत किया, उस स्वच्छ, मधुररसयुक्त, परम ऐश्वर्यवान्, सरस्वती से संस्कृत राजा सोम का मैं इस यज्ञ में भक्षण करता हूँ ॥ ३४ ॥

' अध्वर्युः प्रतिप्रस्थाताग्नीधमश्विनेत्याश्विनं भक्षयन्ति द्विद्विरावर्तम् ' ( का ० श्र ० १ ९ | ३ | १४ ) | अध्वर्युः, प्रतिप्रस्थाता, अग्नीत् - एते त्रय आश्विनं पयोग्रहं हस्ते गृहीत्वा यमश्विनेति मन्त्रेण एकवारं भक्षयित्वा पुनरनेनैव ' क्रमेण द्वितीयवारं भक्षयेयुः, मन्त्रस्य सकृदेव प्रयोग इति सूत्रार्थ: । ' होतृ - ब्रह्म- मैत्रावरुणाः सारस्वतमाश्विनवत् क्रमेण भक्षयित्वा ( का ० श्र ० १ ९ | ३ | १५ ) | होत्रादयः सारस्वतं पयोग्रहमाश्विनग्रहवदिति यमश्विनेति मन्त्रेण १७ ) । ऐन्द्रं पुनस्तेनैव क्रमेण भक्षयेयुः सकृदेव मन्त्रप्रयोग इति सूत्रार्थ: । ' ऐन्द्रं यजमानः ' ( का ० श्र ० ९९ | ३ तस्य | शिरसि योग्रहं यजमान एव भक्षयेदिति सूत्रार्थः । नमुचिरसुरः, इन्द्रस्य इन्द्रियं वीर्यमपिबत् । इन्द्रेण आसुरात्, च्छिन्ने लोहितमिश्रः सोम उदतिष्ठत् । तदुत्पूय देवा अपिबन्त । तदभिवादिनी एषा ऋक् – यमिति सोममाहरतारिति । असुरस्यापत्यं पुमानासुरः, तस्मात् । नमुचेरेतन्नामकात् । अधि सकाशाद् अश्विना अश्विनौयं सोमं सरस्वती शेषः, ' अश्विनो ह्येतं नमुचेरध्याहरताम् ' ( श ० १२ | ८ | १ | ३ ) इति श्रुतेः । अश्विभ्यामाहुतं यं असुनोत् । एतत्सर्वं किमर्थमिति चेत्? इन्द्रियाय वीर्याय, इन्द्रभैषज्याय वा । तमश्विभ्यामाहृतं सरस्वत्यभिषुत-मिमं राजानं सोममिह यज्ञेऽहं भक्षयामि । कीदृशं सोमम्? शुक्रं शुद्धं लोहितासंसृष्टं मधुमन्तं मधुररसोपेतमिन्दुं परमैश्वर्यप्रदम् । अध्यात्मपक्षे – हे भगवन्, यं त्वदीयस्वरूपभूतं रसं तत्त्वज्ञानं विना न मुञ्चतीति नमुचिर्मोहोऽ-ज्ञानम्, तस्माद् आसुरात् सु सुष्ठु शोभनं परं ब्रह्म तत्र ये रमन्ते ते सुराः । न सुरा असुराः, अनात्मरता

पृष्ठ 293

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 293 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३४-३५ ] वेदार्थपारिजातभाष्यसहिता २५७ इति यावत् तेषु भवतीत्यासुरस्तस्मात् नमुचेः सकाशाद् अश्विनौ गुरुशिष्यो प्रश्नोत्तररूपेण वादेनाध्याहरताम् । यं च अश्विभ्यामाहृतं सरस्वती ब्रह्मविद्यालक्षणा असुनोत्, इममपरोक्षं प्रत्यक चैतन्याभिन्नं परमात्मरूपं रसं शुक्रं शुक्लम विद्यातज्जनितोपाधिरहितम् मधुमन्तं परप्रेमास्पदमिन्दुं चन्द्रवदाह्लादकं सोमं साम्बसदाशिवरूपं राजानं राजमानं स्वप्रकाशमिह देहे स्थितः साधकरूपेणाहं भक्षयामि सर्वोपाध्यध्यासापोहेन शुद्धा स्वात्मतया -भवामि । दयानन्दस्तु – ' हे मनुष्याः, इहेन्द्रियाय नमुचेर्यो जलं न मुञ्चति स नमुचिः तस्मात् । आसुराद् असुरस्य मेघस्यायमासुरस्तस्मात् । अधि शुक्रं मधुमन्तमिन्दुं राजानं सोमं पुरुषार्थप्रेरकं सरस्वती असुनोत् अश्विनो सभामेने सुनुताम् तमिमं भक्षयामि ' इति, तदपि न क्षोदक्षमम् ओषधिरसस्य विदुषी नार्येव सम्पादयित्रीति हेतुविशेषानुपपत्तेः । तत्र सभापतेः सेनापतेश्व के उपयोगः? कोऽसौ भक्षयिता यदर्थं समासेन ईशाभ्यां सोमरस आह्रियते? उद्धृतश्रुतिविरोधश्च । श्रुतिस्तु आसुरान्नमुचेः सकाशादश्विनावध्याहरता-मित्याह ॥ ३४ ॥

यदत्र॑ रि॒प्त र॒सिनः सुतस्य यदिन्द्रो अबिच्छचौभिः ।

अ॒हं तद॑स्य॒ मन॑सा शिवेन॒ सोम, राजानमिह भ॑क्षयामि ॥ ३५ ॥

मन्त्रार्थ - रसवान् तथा भली प्रकार से संस्कृत सोम का जो भाग इस रस में मिला हुआ है, जिसको कर्मों के द्वारा शुद्ध करके इन्द्र ने पिया है, उस दीप्तिमान् सुरा रस से निकले हुए सोम को शुद्ध मन से मैं इस यज्ञ में पीता हूँ ॥ ३५ ॥

' स भक्षयति । यमश्विना नमुचेरासुरादधीत्यश्विनी ह्येतन्नमुचेरध्याहरताॐ सरस्वत्यसुनोदिन्द्रि यायेति सरस्वती ह्येतमसुनोदिन्द्रियायेमन्त शुक्रं मधुमन्तमिन्दुमिति शुक्रा वा एष मधुमानिन्दुर्यत्सोमः सोमं राजानमिह भक्षयामीति सोम एवास्य राजा भक्षितो भवति दक्षिणेऽग्नो सुराग्रहान् जुह्वति → पाप्मनैवैनं तद् व्यावर्तयन्ति ' ( ० १ २ | ८ | १ | ३ ) इत्युत्तरेऽग्नौ पयोग्रहान् दक्षिणे सुराग्रहान् दक्षिणतः हुत्वा ' भक्षयन्ति । तथा चाह कात्यायनः - ' यदत्रेति सौरान् भक्षयन्ति यथाभक्षितं प्राचीनावीतिनो ( का ० श्र ० १ ९ | ३ | १८ ) । विहारस्य दक्षिणत उपविष्टा कृतापसव्याः पयोग्रहभक्षणेतिकर्तव्यतानतिक्रमेण द्वि सौरान ग्रहान् भक्षयेयुरध्वर्य्यादयः । अध्वर्युः " प्रतिप्रस्थाता, आग्रीघ्रः - इत्येते त्रयः सौरमाश्विनं भक्षयन्ति । ततः सारस्वते शेषासेकः । तथा चाह कात्यायनः - ' शेष, शेषमा सिञ्चत्युत्तरे पूर्वस्य तच्छेषमैन्द्रे ' ( का ० श्रौ इति ० १ ९ ।३।१६ ) । पूर्वस्य ग्रहस्य भक्षितस्य शेषमुत्तरे ग्रहेऽवनयेत् । आश्विनस्य शेषं सारस्वते सूत्रार्थः । ' प्राणभक्षमेके ' ( का ० श्र ० १ ९ | ३ | १ ९ ) । एके शाखिनः सौरग्रहाणामवघ्राणमात्रं कुर्वन्ति वैश्यराजन्ययोरन्य- , न मुखेन भक्षणमिति सूत्रार्थः । ' परिक्रीतो वा वैश्यराजन्ययोरन्यतरः ' ( का ० श्र ० १ ९ | ३ | २० ) | अथवा । सुतस्य तरी मूल्येन क्रीतः सोरान् ग्रहान् भक्षयेदिति सूत्रार्थः । रसोऽस्त्यस्मिन्निति रसी, तस्य लिप्तम् रसवतः , सोमसम्बन्धि अभिषुतस्य सोमस्य । यत्, सामान्ये नपुंसकत्वम्, यो भाग इत्यर्थः । अत्र सुरायां रिप्तं कृत्वा इन्द्रोऽपिबत् । सोमं यत्सुरायां लग्नमिति यावत् । यच्च सुरालग्नं सोमांशं शचीभिः कर्मभिः शुद्धं सोमस्य राज्ञः, तत् तं राजानमिति द्वितीयान्तयोः षष्ठ्यन्तत्वेन विपरिणामः अस्येति विशेषणानुरोधात् । अस्य सुरानिर्गतं सोमं शिवेन शुद्धेन कल्याणमयेन मनसा इह यज्ञेऽहं सुरासकाशाच्छुद्धं कृत्वा भक्षयामि । ३३

पृष्ठ 294

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 294 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२५८ शुक्लयजुर्वेदसंहिता [ अ ० १ ९ सुतासुतयोरेव रसमवरुन्धे यदिन्द्रो अत्र ब्राह्मणम् -'स भक्षयति । यदत्र रिप्त रसिनः सुतस्येति इव वा एष भक्षो यत्सुरा ब्राह्मणस्य अपिबच्छचोभिरितीन्द्रो ह्येतदपिबच्छचीभिरहं तदस्य मनसा शिवेनेत्यशिव सोम एवास्य राजा भक्षितो भवति ' ( श ० १२ । ८ । शिवमेवैनमेतत् कृत्वात्मन् धत्ते सोमं राजानमिह भक्षयामीति , सारस्वतं होता ब्रह्मा मैत्रावरुणः, ऐन्द्रं यजमानः ' इति १५ ) । ' आश्विनं तावदध्वर्यः प्रतिप्रस्थाता आग्नीध्रः इत्येवैकवचनम् । सुतः सोमः असुतः सुरा, वचनाद् यो नाम भक्षयति, स अनेन मन्त्रेणेति प्रत्येकं मन्त्रो, वर्तत ' यदत्र रिप्तं रसिनः सुतस्य ' इति वचनात् । इन्द्रो तो रसमवन्ध इति सुरायाः साक्षात् सोमस्याप्युपासनम् कर्मभिर्हेतुभूतैः । पुनरिन्द्रकर्तृकं कर्म करिष्यामीत्येव-ह्येतत् सुरालिप्तं सोमलिप्तं सोममत्रापि पीतवान् शचीभिः मर्थः ' इत्याचार्यो हरिस्वामी । शोधितस्य यो भागो रिप्तं अध्यात्मपक्षे अत्र जगति रसिनो रसवतः परमात्मनः सुतस्य परिष्कृतस्य कर्मभिः शुद्धं कृत्वा अपिबत् स्वात्म-लिप्तोऽधिशनतया संसृष्टस्तत् तमिन्द्रः परमेश्वरः शचीभिर्विचारलक्षणैः स्वप्रकाशस्य साम्ब सदाशिवस्य स्वरूपभूतं तं शिवेन तादात्म्येनानुभूतवान् । अहं जीवोऽपि अस्य सोमस्य राज्ञः । शुद्धेन मनसा शुद्धं कृत्वा भक्षयामि स्वात्मतादात्म्येनानुभवामि -प्रशस्त रसयुक्तस्य पदार्थस्य दयानन्दस्तु — ' हे मनुष्य, यथाहमिह संसारेऽस्य सुतस्य सिद्धस्य रसिनः कर्मभिर्यं भागमपिबत्, तं राजानं यो भाग इह संसारे रिप्तं लिप्तं प्राप्तम् इन्द्रः सूर्यः पिबामि शचीभिराकर्षणादिभिः , तथैव यूयमपि पिबत ' इति, तदपि यत्किञ्चित्, प्रकाशमानं सोममोषधिरसं शिवेन मनसाहं भक्षयामि यदोषधिपानमुपदिशेत् । न वा सर्वे सर्वौषधिरसा-सम्बोधनादनिमूलत्वात्, निरर्थकत्वाच्च । नहीदं तत्सार्थक्यात् वैद्यकशास्त्रं ॥ ३५ ॥

धिकारिणः, तत्तदवस्थाविशेषविशिष्टान् प्रत्येव पितृभ्यः स्वधायिभ्य॑ स्व॒धा नम॑ः पितामहेभ्य॑ः स्वधायिभ्यः स्वधा नमः प्रपितामहेभ्य॑ः पितरः पितरः स्वधायिभ्य॑ः स्वधा नमः । अक्ष॑न् पि॒तरोऽर्मीमदन्त पितरोऽतीतृपन्त शुन्धध्वम् ॥ ३६ ॥

अन्न की आहुति और प्रणाम मन्त्रार्थ - आश्विन ग्रह होम और स्वधा के प्रेमी पितरों के अर्थ स्वधा नामक स्वधा रूप अन्न की आहुति और प्रणाम प्राप्त प्राप्त हो । सारस्वत सुराग्रह होम और स्वधा के प्रेमी पितामहों के लिये नामक अन्न और प्रणाम प्राप्त हो । सुराग्रह हो । ऐन्द्र सुराग्रह होम और स्ववा के प्रेमी प्रपितामहों के लिये स्वधा पितरों ने अपने आहार को ग्रहण किया, पितृगण प्रक्षालन जल को आहवनीय अंगार के उत्तर में छिड़कते हुए कहे कि लोग आचमन द्वारा शुद्ध होइये || ३६ | तृप्त हो आनन्दित हुए पितृगण अत्यन्त तृप्त हुए । हे पितरों! अब आप दक्षिणे पितृभ्य इति ' अङ्गारेषु वा बहिष्परिधि दक्षिणतो जुहोत्याश्विनमुत्तरे मध्यमे सारस्वतमेन्द्रं , मूल्येन राजन्यवैश्यान्यतरकर्तृकं प्रतिमन्त्रम् ' ( का ० श्र ० १ ९ / ३ / २१ ) । सुराग्रहाणां भक्षणम्, अवघ्राणम् वेति । वा अथवा दक्षिणस्य आहव-पानमिति पक्षत्रयं पुरस्तान्निरूपितम् । अधुना चतुर्थ पक्षमाह - अङ्गारेषु पितृभ्य इति मन्त्रेण होमावशिष्टान् नीयस्य अङ्गारेषु परिधेर्बहिः प्रदेशे दक्षिणस्यां दिशि स्थापितेषु दक्षिणसंस्थेषु सुराग्रहं दक्षिणे जुहुयात् । अपसव्येन सुराग्रहान् जुहुयात् । तत्राश्विनं सुराग्रहमुत्तरे, सारस्वतं मध्यमे ( का, ० ऐन्द्रं श्र ० १ ९ | ३ | २२ ) । होमक्रमेण सौरग्रह-एतत्कर्म कर्तव्यम् । ' अक्षन् पितर इति प्रक्षालनेनोपसिञ्चति '

पृष्ठ 295

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 295 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भ ० ३६ ] वेदार्थ पारिजात भाष्यसहिता २५ ९ पात्रप्रक्षालनोदकेन यथास्वमङ्गारानुपसिञ्चेदिति सूत्रार्थं । ' पितरः शुन्धध्वमिति जपति ' ( का ० श्र ० १ ९ | ३ | २३ ) स्पष्टार्थमेतत् । पितृदेवत्यानि सप्त यजूंषि । पितृभ्यः स्वधा नमः पितृभ्यः स्वधासंज्ञकं नमोऽन्नमस्तु ' स्वधा वे पितॄणामन्नम् ' ( श ० १३ | ८ | ११४ ) इति श्रुतेः । यद्वा पितृभ्यः स्वधा अन्नमस्तु तेभ्यो नमो नमस्कारश्चास्तु | कीदृशेभ्यः पितृभ्यः? स्वधायिभ्यः स्वधामन्नं प्रति यन्ति गच्छन्ति तच्छीला इति स्वधायिनः स्वधोपपदात् ' इण् गतो ' इति धातोः ' सुप्यजाती णिनिस्ताच्छील्ये ' ( पा ० सू ० ३२७८ ) इति णिनिप्रत्यये, ' अचो ञ्णिति ' ( पा ० सू ० ७२।११५ ) इति वृद्धौ रूपम्, तेभ्यः । पितृभ्य इति बहुवचनं पितृव्याद्यपेक्षं पूजार्थ वा । पितामहेभ्यः स्वधायिभ्यः स्वधा नम इति द्वितीयं यजुः । प्रपितामहेभ्यः स्वधायिभ्यः स्वधा नम इति तृतीयं यजुः । अक्षन् भक्षितवन्तः । ' घस्लू अदने ' इत्यस्य लङि प्रथमपुरुषबहुवचनेऽडागमे ' गमहनजनखनघसां लोपः क्ङित्यनङि ' ( पा ० सू ० ६।४।९ ८ ) इत्युपधालोपे, ' शासिवसिघसोनां च ' ( पा ० सू ० ८ | ३ | ६० ) इति सकारस्य मूर्धन्या देशे, ' खरि च ' ( पा ० सू ० ८ | ४ | ५५ ) इति चर्खे रूपम् । पितर इति चतुर्थं यजुः । अमोमदन्त, ' मद तृप्तियोगे ' इत्यस्य लुङि प्रथमबहुवचने रूपम् । मादिताः पितर इति पञ्चमं यजुः । अतीतृपन्त पितरः, तर्पिता अस्माभिरिति । यद्वा अस्मानतोतृपन्त तर्पयन्ति तृप्ताः सन्तोऽभीष्टदानेनेति षष्ठं यजुः । हे पितरः यूयं शुन्धध्वं पाणिप्रक्षालनेन शुद्धा भवतेति सप्तमं यजुः । अत्र ब्राह्मणम् - ' तद्धेतदन्येऽध्वर्यवः । राजन्यं वा वैश्यं वा परिक्रीणन्ति स एतद् भक्षयिष्यतीति तदु तथा न कुर्याद्यो वा एतद् भक्षयति तस्य हैवं पितॄन् पितामहानेष सोमपाथोऽन्वेति दक्षिणस्यैवाग्नेस्त्रीनङ्गारा-निर्वत्यं बहिष्परिधि तदेताभिर्व्याहृतिभिर्जुहुयात् ' ( श ० १२ | ८ | १ | ६ ), ' पितृभ्यः स्वधायिभ्यः स्वधा नम इति । पितृनेव पितृलाके स्वधायां दधाति पितामहेभ्यः स्वधायिभ्यः स्वधा नम इति पितामहानेव पितामहलो के स्वधायां दधाति प्रपितामहभ्यः स्वधायिभ्यः स्वधा नम इति प्रपितामहानेव प्रपितामहलाके स्वधायां दधाति ' ( श ० १२ | ८ | १ | ७ ) । एतत्सुरापाने कर्तव्ये यो ह वै एतद् हुतोच्छिष्टं भक्षयति तस्यैव पितृष्वेष सोमपाथः साम-पानं मान्त्रवणिकमस्त्येव । न च राजन्यवैश्ययाः सोमपोथाऽस्तोत्यभिप्रायः । दक्षिणस्यैवाग्नेरेकदेशभूतानङ्गारान् निर्वर्त्य बहिष्कृत्य पितृवद्दक्षिणोत्तरात् तत् तेषु एताभिर्व्याहृतिभिजुहुयात् । ' पितृभ्यः स्वधायिभ्यः स्वधा नमः ' इत्याश्विनशेषमुत्तरार्धे जुहाति । एतेन च पितॄनेव यजमानस्य पितृलाके दधाति स्थापयति । पितामहेभ्य इति सारस्वतं मध्यम । प्रपितामहेभ्य इत्येन्द्रं दक्षिण इत्याचार्यो हरिस्वामी । ' अप आनोय निनयति । अक्षन् पितर इत्यन्नाद्यमेवँषु दधात्यममिदन्त पितर इति मदयत्येवेनानतीतृपन्त पितर इति तर्पयत्येवैनान् पितरः शुन्धध्व-मित्यनुपूर्वमेवेनान् सर्वान् पावयति पवित्रं वै सोत्रामणी ' ( श ० १२८ ( ११८ ) । अप आनीय ग्रहपात्रेषु ततस्तद्धाम-देशे च यथाक्रमं निनयति । अन्नाद्यमेवैषु दधातोत्येतदन्नस्यादनविषयत्वादपक्वं नित्यमनेनेवान्नाद्यमुपात्त-मित्यभिप्रायः । ' पितरः शुन्धध्वम् ' इति जपति, क्रियान्तरस्यानुपदेशादिति भावः । अनुपूर्वमेव एनान् पित्रादोन् पावयति तर्पयतीत्याचार्या हरिस्वामी । अध्यात्मपक्षे-— परमेश्वरस्यैव पितृपितामहप्रपितामहादिरूपेणापि पूज्यत्वम्, तस्येव सर्वहेतुत्वात् । पृथि व्यादोनां कारणत्वमाकाशे पर्यवस्यति, आकाशस्य जनकत्वमहमि, तस्य महति, तस्याप्यव्यक्ते, अव्यक्तस्यापि कारणं सत्तत्त्वम्, ' तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ' ( म ० भा ० १२/३३४१३१ ), ' अव्यक्तं पुरुषे ब्रह्मन्निगुणे सम्प्रलीयते ’ ( म ० भा ० १२ | ३३ ९ | ३१ ) इत्यादिवचनेभ्यः । तथा चाकाशस्य वृद्धप्रपितामहत्वं परस्मिन् सति ब्रह्मणि पर्यवस्यति । अत एव येषां पितृपितामहादयो ब्रह्मविद्वरिष्ठत्वान्मुक्तास्तेषां मुक्तानामपि पुत्रपोत्रप्रपौत्रशिष्य-प्रशिष्यादिभिः पितृरूप जनार्दनाराधनबुद्धयैव पित्रादिसमर्थनं क्रियते । सर्वत्र बहुवचनं पितृव्याद्यपेक्षया पूजायां

पृष्ठ 296

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 296 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६० शुक्लयजुर्वेदसंहिता [ अ ० १ ९ वा, ' पितामस्य जगतः ' ( भ ० गी ० ९ | १७ ) इति रीत्या परमेश्वरः सर्वस्य पिता । पितुरपि पितृत्वात् पितामहत्वम्, तस्यापि पितृत्वात् प्रपितामहत्वम् तस्यापि पितृत्वात् वृद्धप्रपितामहत्वमिति तेभ्यः स्वधायिभ्यः स्वधां प्रति गमनशीलेभ्यः स्वधारूपं नमोऽन्नमस्तु । स्वधास्तु नमस्कारश्चास्तु | सर्वे चैते पितरः अक्षन् भक्षितवन्तः, अस्मत्समर्पितं हविरिति शेषः । पितरः सर्वेऽमीमदन्त अतीतृपन्त । हे पितरः, यूयं शुन्धध्वम्, पाणिप्रक्षालनं कुरुध्वमित्यर्थः । स्वात्मवदेव देवानां पितॄणां चोपासनमर्चनं च क्रियते । नन्दस्तु — ' अस्माभिः पुत्रशिष्य मनुष्यैर्येभ्यः स्वधायिभ्यः पालकेभ्यो जनकाध्यापकादिभ्यो ज्ञानिभ्यो वा स्वधा अन्नजलादिकं नमस्कारश्चास्तु तथैव पितामहेभ्यो बह्वन्नं नमः सत्कारश्चास्तु तथैव पितामह -पितृभ्योऽपि स्वधान्नं नमोऽस्तु । हे पितरः, यूयं सुनिर्मित भोजनमक्षन् अदन्तु । हे ज्ञानिनः, अमोमदन्त यूयमतिशयेन हर्षयत । शुन्धध्वं पवित्रीकुरुत ' इति, अत्रोच्यते - यदि मृतानां पित्रादीनामेतद्भोजनादिदानम्, तदा अपसिद्धान्तापातः । यदि जीवतामेवैतत् तदा स्वधादिमन्त्रोच्चारणनैरर्थक्यमेव । शास्त्रेषु मनुष्येभ्यो हन्तकारः, पितृभ्यः स्वधाकारः, देवेभ्यः स्वाहाकारो हविरादिदाने प्रयुज्यते । तादृशे भेदे किं मूलमित्यनुक्तेः । सर्वथापि स्वरित्वमर्थ प्रक्रियायामस्य महात्मनः प्रतिफलति ॥ ३६ ॥

पुनन्तु मा पि॒तरः सोम्यासः पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः पवित्रेण शतायुषा । पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः प॒वित्रेण श॒तायु॑षा॒ विश्व॒मायुष्यं श्नवं ॥ ३७ ॥

मन्त्रार्थ - सौम्यमूर्ति पितृगण पूर्ण आयु देने वाले पवित्रे से मुझे पवित्र करें, पितामह मुझे पवित्र करें, प्रपिता-मह मुझे पवित्र करें । पितामह शतायु देने वाले पवित्रे से मुझे पवित्र करें, प्रपितामह अतिपवित्र आनन्दयुक्त सौ वर्ष की आयु प्रदान करें । इस प्रकार मैं सम्पूर्ण आयु को प्राप्त करूँ ॥ ३७ ॥

' कुम्भीमासज्य कुम्भवच्छतवितृष्णां वालपवित्रहिरण्यान्यन्तर्धाय नवर्च वाचयति पुनन्तु मेति ' ( का ० श्रौ ० १ ९ ।३।२४ ) । चरकसौत्रामणी कुम्भवत् पञ्चदशेऽध्याये दशम्यां कण्डिकायां ' भक्षमाहृत्य ' इत्यादिके षोडशे सूत्रे प्रतिपादितपद्धतिवत् शतच्छिद्रां कुम्भीमासज्य दक्षिणस्याहवनीयस्योपरि शिक्ये कृत्वा तत्र वाल-पवित्रहिरण्यान्यन्तर्धाय तत्र परिस्रुच्छेषमा सिञ्चेत् । ततस्तस्यां सुरायामग्नेरुपरि स्रवन्त्यां पुनन्तु मेति नवचं वाचयेत् । वालो गोवालनिर्मितः सुरागलनम् । पवित्रमजाविलोमनिर्मितं पयोगलनम् । तथा च दक्षिणाहवनीय-पार्श्वयोः स्तम्भद्वयोपरि दक्षिणाग्रं वंशं निधाय कुम्भीतले वालादीनि निधाय तत्र सुराशेषं सिक्त्वाग्नेरुपरि स्रवन्त्यां सुरायां नवचं यजमानं वाचयेत् । हिरण्यं शतमानमितम् । प्रत्यृचं वाचनमिति सूत्रार्थः । पितृदेव अनुष्टुभौ । पितरो मा मां पुनन्तु शोधयन्तु । केन? पवित्रेण गोऽश्ववालकृतेन पवित्रेण । कीदृशेन पवित्रेण? शतायुषा शतं शतवर्षमितम् आयुर्जीवनं यस्मात्तत् शक्तायुः तेन । येन पूतः पुरुषः शतायुर्भवति तादृशेन पवित्रेण मां पुनन्त्विति सम्बन्धः । पितामहाश्च मां पुनन्तु । प्रपितामहाश्च मां पुनन्तु । कीदृशाः पित्रा-दयः? सोम्यासः सोम्याः । सोमं सम्पादयन्तोति सोम्या: । ते परिस्रुतमपि सोमं कुर्वन्ति तेषामचिन्त्यशक्ति-त्वम् । आदरार्थं पुनर्वचनम् । पितामहाः प्रपितामहाश्च मां पुनन्तु शतायुषा पवित्रेण । एव पित्रादिभिः पूतोऽहं विश्वं सर्वमायुर्व्यश्नवे व्याप्नवे, प्राप्नुयामिति यावत् । ' अशूङ् व्याप्तौ सङ्घाते च ' लोटि उत्तमैकवचनम् ।

पृष्ठ 297

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 297 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ३७-३८ ] वेदार्थपारिजात भाष्यसहिता २६१ अत्र ब्राह्मणम् —'त्रिभिः पवित्रैः पावयन्ति । त्रयो वा इमे लोका एभिरेवैनं लोकैः पुनन्ति ( श ० १२ | ८ | १ | ९ ) । ' पावमानीभिः पावयन्ति । पवित्रं वै पावमान्यः पवित्रेणैवैनं पुनन्ति ' ( श ० १२ | ८ | १ | १० ), ( तिसृभि-स्तिसृभिः पावयन्ति । त्रयो वै प्राणाः प्राण उदानो व्यानस्तैरेवेनं पुनन्ति ' ( श ०१२ | ८ | १ | ११ ), ' नवभि: पाव-यन्ति । नव वै प्राणाः प्राणैरेवैनं पुनन्ति प्राणेषु पुनः पूतं प्रतिष्ठापयन्ति ' ( श ० १२ | ८ | १ | १२ ), ' पवित्रेण पावयन्ति । अजाविकस्य वा एतद्रूपं यत्पवित्रमजाविकेनैवैनं पुनन्ति ' ( ० १२ | ८ | १ | १३ ), वालेन पावयन्ति । गोऽश्वस्य वा एतद्रूपं यद्वालो गोऽश्वेनैवेनं पुनन्ति ' ( श ० १२ | ८ | १ | १४ ), ' हिरण्येन पावयन्ति । देवानां वा एतद्रूपं यद्धिरण्यं देवानामेवन, रूपेण पुनन्ति ' ( श ० १२/८/१/१५ ), सुरया पावयन्ति । सुरा हि पूता पूतयैवैनं पुनन्ति । तद्यथा सुरा पूयमाना बल्सेन विविच्यत एवमेवैतद्यजमानः सर्वस्मात् पाप्मनो निर्मुच्यते य एवं विद्वान् सौत्रामण्या यजते यो वैतदेवं वेद ' ( श ० १२ | ८ | १ | १६ ) । पवित्रेण अजाविलोममयेन वालेन गोऽश्ववालेन हिरण्येन । एतानि त्रीण्यन्तर्धाय सुरां क्षारयन्तो वाचयन्ति । सुरया यजमानस्य प्रकृतपूतया वालपवित्रहिरण्यैः पूयमानया यजमानं वाचयन्ति । बल्कसेन किदिसेन विविच्यते, तस्मात् पृथग्भवतीत्याचार्यो हरिस्वामी । अध्यात्मपक्षे - अपूजिताः पितरोऽसोम्या भवन्ति । संराधितास्तु सोम्या: सोमवत्प्रियदर्शना भवन्ति । मां पुनन्तु । पितामहाः प्रपितामहाश्च पूर्वोक्तरीत्या परमेश्वराः शतायुषा पवित्रेण पुनन्तु । तैः पूतः सर्वमायु-र्व्यश्नवै । शेषं पूर्ववत् । दयानन्दस्तु – ' सोम्यासः पितरो ज्ञानप्रदानेन पालकाः पवित्रेण शुद्धाचरणयुक्तेन शतायुषा मां पुनन्तु । सोम्यासः पितामहाः पवित्रेण शतायुषा पुनन्तु । प्रपितामहाः पुनन्तु । यतोऽहं विश्वमायुव्यंश्नवै प्राप्नुयाम् ' इति, तदपि यत्किञ्चित् शतायुष्ट्फलस्य पावनं प्रति करणत्वायोगात् । न च लौकिकमनुष्याणां पावकत्वं सम्भवति, स्वकर्तृकशुद्धाचरणेनैव स्वशुद्धिसम्भवात् । न च शुद्धाचरणोपदेशकत्वेन तेषां पावकत्वम्, कुलालपितुर्घटं प्रति कारणत्ववदन्यथासिद्धत्वात् ॥ ३७ ॥

अग्न॒ आयु॑षि पवस॒ आसु॒वोर्ज॒मिषं च नः । आ॒रे बाधस्व दु॒च्छुना॑म् ॥ ३८ ।

मन्त्रार्थ - हे अग्निदेव! आप हो आयु प्राप्त कराने वाले कर्मों के कर्ता हैं, रस बीजिये, दूर स्थित दुष्ट कुत्तों के समान दुर्जनों की बाधा से हमारी रक्षा कीजिये, से बच सकें ॥ ३८ ॥

हमें धन - धान्य और वही आदि जिससे कि हम उनके आक्रमण प्रजापतेरार्षम् | अग्निदेवत्या गायत्री । हे अग्ने, यतस्त्वमायूंषि आयुःप्रापकाणि कर्माणि पवसे पावयसे, स्वभावत एव चेष्टयसे, अन्तर्भावितण्यर्थः । अत एव त्वां प्रार्थयामहे । नोऽस्माकं कृते इषं व्रीह्यादिकमन्नं यदभीष्टं तद्वा ऊर्जं दध्यादिकमुपसेचनं च आसुव अभ्यनुजानीहि देहोत्यर्थः, अन्नाद्यन्तरा आयुः प्राप्त्यसम्भवात् । किञ्च, आरे दूरे एव अवस्थितानां दुछुनां दुष्टाश्च ते श्वानश्च दुश्छ्वानस्तेषाम् । कर्मणि षष्ठी । श्वभिरत्र दुर्जना उपलक्ष्यन्ते । तान् सारमेयप्रायान् दुर्जनान् बाधस्व नाशयसि तद्राहित्यस्य परमायुः प्राप्तिहेतुत्वात् । अध्यात्मपक्षे - हे अग्ने परमेश्वर, सर्वान्तर्यामित्वात् त्वमेव आयूंषि दीर्घायुःप्रापककर्माणि चेष्टयसे, अतस्तत्सिद्धयर्थमिषमिष्यमाणमभोष्टमन्नमूर्जं रसं च आसुव ज्ञापय देहीत्यर्थः । आरे स्थितानपि दुर्जनान् बाधस्व, दुर्जनसामीप्यस्य दीर्घायुष्टुप्रतिबन्धकत्वात् ।

पृष्ठ 298

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 298 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६२ शुक्लयजुर्वेदसंहिता [ अ ० ] १ ९ पवसे पवित्री -दयानन्दस्तु - ' हे अग्ने विद्वन् पितः पितामह प्रपितामह, त्वं न आयष्यन्नादीनि साधय । दुछुनां सङ्गं कुर्या: । स त्वमूर्जं पराक्रममिषमिच्छासिद्धि च आसुव आसमन्तात् पराक्रमेच्छासिद्धिदानेऽपि सुव वें तदसामर्थ्याच्च । बाधस्व ' इति, तदपि विसङ्गतमेव, मनुष्याणामायुः पावकत्वायोगात् विशिष्टसामर्थ्य सम्पन्नत्वेन तथा पारम्पर्येण तद्धेतुत्वे त्वन्ययासिद्धिरेव । सिद्धान्ते तु देवानामिव पित्रादीनामपि प्रेरणे दाने च सामर्थ्य सत्त्वेनादोषात् ॥ ३८ ॥

पुनन्तु मा देवजनाः पुनन्तु मन॑सा॒ धियः ।

पुनन्तु॒ विश्वा॑ भू॒तानि॒ जात॑वेदः पुनीहि मा॑ ॥ ३६ ॥

हमें मन्त्रार्थ - देवानुगामी भूतगण हमें पवित्र करें, मन सहित हमारी बुद्धि को पवित्र करें, समस्त प्राणी पवित्र करें । हे अग्निदेव! आप भी हमें पवित्र करें ॥ ३ ९ ॥ लिङ्गोक्तदेवतात्वाद् देवजनधीविश्वभूतजातवेदोदेवत्या अनुष्टुप् । मां देवजनाः पुनन्तु, । देवानां विश्वा विश्वानि जना देवजनाः सर्वाणि, देवानुगामिनो जनाः, मां पुनन्तु । मनसा युक्ता धियो बुद्धयः कर्माणि वा अग्ने! अथवा जात आविर्भूतो भूतानि मां पुनन्तु । हे जातवेदः, जातं वेत्तीति जातवेदाः, तत्सम्बुद्धी, हे सर्वज्ञ वेदो यस्मात् स जातवेदास्तत्सम्बुद्धी, त्वमपि मां पुनीहि । अध्यात्मपक्षे - देवजना देवीं सम्पदमुपगता जनाः, मनसा युक्ता विवश्व मां पुनन्तु भावितानि मनोबुद्धयोरन्त- तानि मुखताया एव प्राधान्येन शुद्धिहेतुत्वात् । विश्वा सर्वाणि भूतानि परमात्मविकारत्वात् , हे जातवेदो तद्भावनया भग ५ त्वं च मां च मां पुनन्तु । जातवेदः, जाताः सर्वे वेदा यस्मात् स जातवेदाः, तत्सम्बुद्धी || ' ( वा ० पुनीहि ' तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे । छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत सं ० ३१।७ ) इति मन्त्रवर्णात् । जनाः, मनसा दयानन्दस्तु - ' हे जातवेदो विद्वन्, जातेषु जातेषु ज्ञानिन् यथा देवजना देवा , तदपि विद्वांसश्च न युक्तम् ते, विशेषानुप-मां पुनन्तु मम धियश्च पुनन्तु मम विश्वा भूतानि मां पुनन्तु तथा त्वं पुनीहि ' इति कथं पावकत्व-पत्तेः, विद्वज्जनानां पावकत्वे जाते पुनः विदुषः पावकत्वाभ्यर्थनानुपपत्तेः सर्वभूतानां मित्यनुक्तेश्व ॥ ३ ९ ॥ 1 प॒वित्रे॑ण पुनोह मा शुक्रेण॑ देव॒ दोद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतूं २॥रनु ' ॥ ४० ॥

मन्त्रार्थं - - हे अग्निदेव! दीप्ति से सम्पन्न होकर आप शुद्ध पवित्रे से, अर्थात् शुद्ध ज्योति के द्वारा हमें पवित्र करें, हमारे यज्ञ का निरीक्षण करते हुए अपने ज्वलन आदि कर्मों से उसे पवित्र करें ॥ ४० ॥

अग्निदेवता गायत्री । हे अग्ने देव द्योतमान, शुक्रेण शुक्लेन अशबलेन, शुद्धेनेति यावत्, पवित्रेण मा मां पुनीहि पवित्रय । कथम्भूतस्त्वम्? दीद्यत्, अतिशयं दीव्यतीति दोद्यत् दिवेर्यङ्लुगन्तस्य रूपम् । यद्वा । अथवा क्रतून् सम्बुद्धिः । किञ्च, हे अग्ने क्रतून् अनु अस्माकं यज्ञानतुलक्ष्य क्रत्वा क्रतुना कर्मणा त्वं यज्ञे मां पुनीहि यज्ञान् पुनीहि, सम्यग् वैगुण्यरहितान् यज्ञान् कारयेत्यर्थः ।

पृष्ठ 299

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 299 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ४०-४२ ] वेदार्थ पारिजातभाष्यसहिता २६३ अध्यात्मपक्षे - हे अग्ने परमेश्वर, त्वं शुक्रेण अशबलेन पवित्रेण ज्ञानेन मां पुनीहि । दोद्यत् हे स्वप्रकाश, क्रत्वा स्वसत्यसङ्कल्पेन क्रतूनस्माकं त्वत्प्राप्तिविषयान् सङ्कल्पान्, सफलयेति शेषः । दयानन्दस्तु — ' हे दोद्यद् देवाग्ने, त्वं पवित्रेण शुक्रेण वीर्येण पराक्रमेण स्वयं पवित्रो भूत्वा मां च तदनु पुनीहि । स्वस्य क्रत्वा प्रज्ञया कर्मणा वा स्वां प्रज्ञां स्वं कर्म च पवित्रीकृत्य अस्माकं क्रतून् पुनीहि ' इति, तदपि न युक्तम् । शिष्यपुत्रादीनां पित्रादीन् प्रति तथोपदेशानुपपत्तेः, मन्त्रपदैस्तथार्थानवगमाच्च, निर्मूलाध्याहारस्य अनादरणीयत्वाच्च ॥ ४० ॥

यत्ते॑ म॒वित्र॑म॒चिष्यग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनातु मा ॥ ४१ ॥

मन्त्रार्थ - हे अग्निदेव! आपकी ज्वाला के मध्य में जो त्रयीरूप शुद्ध ब्रह्म स्थित है, उसके प्रभाव से आप मुझे पवित्र करें ॥ ४१ ॥

आग्नेयी गायत्री । तृतीय: पादो ब्रह्मदेवत्यः । हे अग्ने, ते तव अर्चिषि ज्वालायामन्तरा मध्ये यद् ब्रह्म त्रयीलक्षणं परब्रह्मरूपं सत्यज्ञानानन्दलक्षणं वा पवित्रं विततं विस्तृतं प्रसारितम् तेन पवित्रेण अग्न्यनुज्ञातेन मा मां भवान् पुनातु । अध्यात्मपक्षे - हे अग्ने परमात्मन्, ते तव अर्चिषि नित्यज्ञानरूपे ज्योतिषि यद् ब्रह्म त्रयीलक्षणं पवित्रं विश्वशुद्धिकरं विततं व्याप्तम् तेन पवित्रेण भवान् मां पुनातु । दयानन्दस्तु - ' हे अग्ने जगदीश्वर, तेऽचिषि सत्कारयोग्ये तेजः स्वरूपेऽन्तरा सर्वतो भिन्ने यद् विततं व्याप्तं पवित्रं शुद्धस्वरूपं ब्रह्म वेदविद्या, तेन मां भवान् पुनातु ' इति, तदपि न समञ्जसम् शब्दराशिमयस्य वेदस्य ब्रह्मज्योतिषि व्याप्त्यनुपपत्तेः । परस्या वाचो ब्रह्मरूपेण शक्त्यात्मना वा वेदानामेवानन्त्याद्वा विततत्वोक्तिः

सङ्गच्छते, ‘ अनन्ता वै वेदा: ' ( तै ० ब्रा ० ३ । १० । ११।४ ) इति श्रुतेः ॥। ४१ ॥

पव॑मान॒ः सो अ॒द्य न॑ः प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पुनातु मा ॥ ४२ ॥

मन्त्रार्थ - जो देव मनुष्य के किये और न किये हुए कर्मों को जानता है, स्वयं पवित्र और दूसरों को पवित्र करने वाला है, वह आज मुझे पवित्रे से पवित्र करे ॥ ४२ ॥

सोमदेवत्या गायत्री । तृतीय: पादो वायुदेवत्यः । स पवमानः पवतेऽसौ पवमानः शोधकः सोमः अद्य अस्मिन् दिवसे, नोऽस्मान् पवित्रेण पुनातु । कीदृशः सोमः? विचर्षणिः, विविधं चष्टे पश्यतीति तथोक्तः कृताकृता-वेक्षक इति यावत् पुनातु । यद्वा विविधाश्चर्षणयो मनुष्या ऋत्विजो यस्य सः । ऋत्विग्भिर्यजनीय इत्यर्थः । यश्व स्वभावतः पोता । पुनातीति पोता, पवते वा स पोता वायुः, स मां पुनातु पवित्रयतु । अध्यात्मपक्षे - स वेदान्तेषु ब्रह्मविद्वरिष्ठेषु च प्रसिद्धः पवमानो ब्रह्माकारवृत्तिविषयत्वेनाभिव्यज्यमानः, नोऽस्मान् पवित्रेण स्वविषयज्ञानेन पुनातु । यो विचर्षणिः सर्वद्रष्टा पोता स्वभावत एव पवित्रयिता, समां पुनातु 1 दयानन्दस्तु - ' यो जगदीश्वरः, नो मध्ये पवित्रेण पवमानो विचर्षणिः, सोऽद्यास्माकं पवित्रकर्तोपदेशक-वास्ति । स पोता मां पुनातु ' इति, तदप्यसङ्गतम्, ईश्वरस्य स्वतः शुद्धत्वेन तस्य शुद्धाचरणमूलकशुद्धय-योगात् ॥ ४२ ॥

पृष्ठ 300

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 300 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२६४ शुक्लयजुर्वेदसंहिता [ अ ० ] १ ९ ४३ ॥

उ॒भाभ्यां॑ देव सवितः प॒वित्रेण स॒वेन॑ च । मां पुंनीहि वि॒श्वत॑ः ॥

पवित्रे और सबको पवित्र करने वाली अपनी मन्त्रार्थ - हे सबके प्रेरक सविता देव! आप शुद्ध करने वाले यज्ञ की सिद्धि मिलती है ॥ ४३ ॥

आज्ञा से मुझे सब ओर से पवित्र करें, क्योंकि आपको आज्ञा से ही , उभाभ्यां पवित्रेण अजाविलोमनिर्मितेन सवितृदेवत्या गायत्री । हे देव द्योतमान सवितः! जगत्कारण पुनीहि । त्वदनुज्ञया यज्ञसिद्धिरिति भावः । सवेन अभ्यनुज्ञया च यज्ञानुष्ठानप्रेरणया च विश्वतः सर्वतो मां ! पवित्रेण अध्यात्मपक्ष - हे देव, प्रमाणानपेक्षतया स्वप्रकाशत्वेन दीप्यमान भगवद्वचनान् सवितः जगदुत्पत्त्यादिहेतो , सवेन शुभकर्मप्रेरणया, ज्ञानेन, ' नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ' ( भ ० गी ० ४ | ३८ ) इति इत्युभाभ्यां सर्वतो मां पुनीहि । उभाभ्यां विद्यापुरुषार्थाभ्यां दयानन्दस्तु - ' हे देव, सवितः त्वं पवित्रेण शुद्धाचरणेन सर्वनैश्वर्येण । अन्यथा धनिनां राज्ञां च शुद्धिरेव विश्वतो मां पुनीहि ' इति, तदपि न, ऐश्वर्यस्य स्वतः शोधकत्वायोगात् स्यात् ॥ ४३ ॥

वै॒श्वदे॒वी पु॑न॒तो दे॒व्यागा॒द्यस्या॑मि॒मा ब॒ह्वह्यस्त॒न्वो वी॒तपृ॑ष्ठाः ।

॥ ४४ ॥

तया॒ मद॑न्तः सध॒मादेषु व॒य ँ स्या॑म॒ पत॑यो रयीणाम् वाली महानारायण की शक्ति सबको पवित्र करतो मन्त्रार्थ - नाना प्रकार के अवतारों के रूप में क्रीड़ा करने प्रकार के शरीरधारी स्तुति इस परा नामक शक्ति में अनेक हुई, विश्व भर को प्रकाशित करती हुई, हमें प्राप्त हुई है । यज्ञ स्थान में आनन्द मनाते हुए हम नाना प्रकार के धन - धान्य करते हुए दिखायी पड़ते हैं । उस परा शक्ति के प्रसाद से

के स्वामी हों । ४४ ॥

काञ्चिदेव देवतामङ्गीकृत्य विश्वेदेवदेवत्या त्रिष्टुप | प्रर्वाह्निकेव अनिर्ज्ञाताभिधेयेति । सा महीधरोव्वटी वा स्यात्, सौत्रामणी । तत्र वा स्यात्, वाग् वा स्यात्, व्याचक्ष्महे । दक्षिणाग्नेरुपरिष्टात् शतातृष्णा कुम्भी क्षरति तथोक्ता, विश्वेभ्यो देवेभ्यों हिता वा । देवी द्योतमाना उखा वा स्यात् । वैश्वदेवी विश्वेभ्यो देवेभ्य आगता सा यस्यां सुराकुम्भ्यामिमाः प्रत्यक्ष तो दृश्यमानाः । बह्वयो सुराकुम्भी पुननी पावनं कुर्वती । आगाद् आगता । कीदृश्यस्तन्वः ।? वीतपृष्ठाः, वीतमिष्टं पृष्ठं स्वरूपं यासां ताः बहुसंख्याकाः । तन्वः शरीराया धारा वर्तन्ते तया सुराकुम्भ्या सधमादेषु सह माद्यन्ति देवा येषु ते समाराः, कामितशरीराः । काम्यन्ते हि सुराधाराः सुरैः, सधादेशः, यज्ञस्थानानि तेषु । मदन्तो मोदमानाः ' सधमादस्थयोश्छन्दसि ' ( पा ० सू ० ६ / ३ / ९ ६ ) इति । एवमेव सहशब्दस्य सौत्रामण्यादियज्ञेऽपि यथायथं व्याख्योन्नेया । सन्तो वयं रयीणां धनानां पतयः स्याम भवेम । सप्तशत्या द्वितीयाध्याये अध्यात्मपक्षे - वैश्वदेवी विश्वेभ्यो देवेभ्य आगता आविर्भूता भगवती चैतज्ज्ञेयम् - शङ्करस्य च ॥

ततोऽतिकोपपूर्ण चक्रिणो वदनात्ततः । निश्चक्राम महत्तेजो ब्रह्मणः समगच्छत ॥

अन्येषां चैव देवानां शक्रादीनां शरीरतः । निर्गतं सुमहत्तेजस्तच्चैक्यं