वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 301–310
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 301–310
पृष्ठ 301
पाठ पढ़ें पाठ छिपाएँ
म ० ४४-४५ ] वेदार्थ पारिजातभाष्यसहिता २६५ अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् । ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥
अतुलं तत्र तत्तेजः सर्वदेवशरीरजस् । एकस्थं तदभून्नारी व्याप्य लोकत्रयं त्विषा ॥
यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् । याम्येन चाभवन् केशा बाहवो विष्णुतेजसा ॥
सौम्येन स्तनयोर्युग्मं मध्यं चन्द्रेण चाभवत् । वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥ ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा । वसूनां च कराङ्गुल्यः कौबेरेण च नासिका ॥
तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा । नयनत्रितयं जज्ञे तथा पावकतेजसा ॥
भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च । अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् । तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ॥
इत्येवंरूपेणोक्ता भगवती राजराजेश्वरी । सा च देवी देवीतिनाम्ना प्रसिद्धा । विश्वोद्भवविभव पराभव-क्रीडापरायणत्वाद् दीव्यति क्रीडते या सा देवी । पुनती विश्वमेव पावनं कुर्वाणा । आगात् श्रौतस्मार्त-लक्षणस्य धर्मस्य भक्तानां च रक्षणार्थमाविरभूत् । यस्यामिमा भक्तैः प्रत्यक्षतो दृश्यमाना बयोऽपरिगणिताः, वीत पृष्ठाः कामितस्वरूपास्तन्वः शरीराणि वर्तन्ते, सर्वदेवशक्त्तिसारनिर्मितत्वात् । तया भगवत्या हेतुभूतया क मदन्तस्तदनुग्रहेण प्रमोदमानाः सधमादेषु सह माद्यन्ति येषु तेषु यज्ञेषु ब्रह्मलोकेषु भगवत्याः सुधासिन्धो-र्मध्ये सुरविटपिवाटीपरिवृते नीपोपवनवति, पूजायां बहुवचनम्, रयीणां ज्ञानवेराग्यादीनां शमदमादीनां मोक्षादि-लक्ष्मीणां स्वाराज्यसाम्राज्यादिलक्ष्म्यादीनां पतयः स्याम | दयानन्दस्तु - ' हे मनुष्याः, या वैश्वदेवी विश्वासां देवीनां महिषीणां मध्ये इयं विदुषी पुनती देवी अध्यापिका ब्रह्मचारिणी कन्या अस्मान् आगात् । यस्यां सत्यामिमा बयस्तन्वो वीतपृष्ठा विविधानि तानि विदितानि पृष्ठानि प्रच्छन्नानि याभिस्ताः स्युः । तया सुशिक्षिता भार्याः प्राप्य वयं सहस्थानेषु मदन्तो रयीणां पतयः स्याम ' इति, तदपि यत्किञ्चित् कल्पनाबहुलत्वात्, सम्बोधनादेनिर्मूलत्वाच्च । भार्याः प्राप्येत्यध्याहारोऽपि निर्मूल एव । न च विदितानि प्रच्छन्नानि सम्भवन्तीति । ब्रह्मचारिणी अस्मानागतेत्यपि निर्मूलम् ॥ ४४ ॥
ये समानाः समनसः पितरों ' यमराज्ये ' ।
तेषाँ लोकः स्वधा नमो ' य॒ज्ञो दे॒वेषु ' कल्पताम् ॥ ४५ ॥
मन्त्रार्थ - अपसव्य, दक्षिण मुख होकर यजमान जुहू में एक बार घृत लेकर अग्नि में आहुति देता है । जो जातिमर्यादा आदि से समान सपिण्डकः पितृगण यमलोक में वर्तमान हैं, उन पितरों के लोक में स्वधा नामक अग्न दृष्टिगोचर हो अश्वा स्वधा नामक अन्न और नमस्कार प्राप्त हो । पितृयज्ञ वसु - रुद्र आदित्य देवताओं को तृप्त करने में समर्थ हो ॥ ४५ ॥
• ' ये समाना इति यजमानो जुहोति ' ( का ० श्री ० १ ९ । ३ । २७ ) | सकृद्गृहीतमाज्यं दक्षिणेऽग्नी प्राचीना-वीती दक्षिणमुखो यजमानो जुह्वा जुहोतीति सूत्रार्थः । द्वे अनुष्टुभी आधा पितृदेवत्या । यमराज्ये यमस्य धर्मराजस्य राज्यमाधिपत्यं यस्मिन्नसौ यमराज्यस्तस्मिन् । लोके संयमन्याम्, ' धर्मराजः पितृपतिः समवर्ती परेतराट् । कृतान्तो यमुनाभ्राता शमनो यमराज् यमः || ' ( अ ० को ० १ १ ५८ ) इति कोषात् । ये पितरो वर्तन्ते तेषां पितॄणाम्, लोको लोके, विभक्तिव्यत्ययः स्वधा स्वधाशब्दोपलक्षितं नमोऽन्नमस्तु | अथवा स्वधा अन्नम्, नमो नमस्कारश्चास्तु । कथम्भूताः पितरः? समाना जातिरूपादिभिस्तुल्याः । पुनः कथम्भूताः? समनसः समानं मनो येषां ते तथोक्ताः समानमनस्काः । यज्ञस्तु देवेषु कल्पतां देवांस्तर्पयितुं समर्थो भवत्वित्यर्थः । १४
पृष्ठ 302
पाठ पढ़ें पाठ छिपाएँ
२६६ शुक्लयजुर्वेदसंहिता [ अ ० १ ९ अध्यात्मपक्षे - सर्वात्मनो भगवतो यमराज्ये पितृरूपेणावस्थानम् । संयमनस्य राज्ये क्षेत्रे ये समानाः समनसः पितरः पालकाः सन्ति, तेभ्यो नमः । तेभ्यो नमोऽन्नमस्तु | यमस्य सर्वकारणत्वेन सर्वपितृत्वात् । देवेषु तदङ्गोपाङ्गभूतेषु यज्ञो यजनमस्तु । पूजायां बहुवचनम्, परमेश्वरस्यैव दयानन्दस्तु -- ' ये समानाः समनसः समानविज्ञानाः पितरः प्रजापालका यमराज्ये सभाधीशस्य सन्ति तेषां लोकः सभा दर्शनं वा स्वधान्तं नमो यज्ञो न्यायश्च देवेषु विद्वत्सु कल्पताम् ' इति राष्ट्र यमराज्यपदेन धर्मराजलोकप्रसिद्धेः, यमपदस्य सभाधीशपरत्वे मानाभावाच्च । पितृपदस्यापि , तदपि यत्किञ्चित्, मसम्प्रतिपन्नमेव । शतपथश्रुतिविरोधश्च । तथा चात्र ब्राह्मणम्- ' पितृलोकं वा एतेऽन्ववयन्ति पालकपरत्व-चरन्त्याज्याहुति जुहोति यज्ञो वा आज्यं यज्ञादेव यज्ञे प्रतितिष्ठन्ति ' ( श ० १२८/१११८ ) इति ॥ अत्र ये दक्षिणे sat पितॄणां होमविधानेन यमलोकसम्बन्धिनां पितॄणामेवावगमात् । ' ये समानाः समनसः पितरो दक्षिणेऽग्नो लोकः स्वधा नमो यज्ञों देवेषु कल्पतामिति पितृनेव यमे परिदधात्यथो पितृलोकमेव जयति यमराज्ये । तेषां कृत्वोत्तरमग्निमुपसमायान्त्ययं वै लोक उत्तरोऽग्निरस्मिन्नेव लोके प्रतितिष्ठन्त्याज्याहुति जुहोति सर्वे यज्ञोपवीतानि यज्ञादेव यज्ञे प्रतितिष्ठन्ति ' ( २० १२ / ८ / १ / १ ९ ) । अपसव्येन पितृकर्म क्रियते । तत एव देवकार्यार्थं यज्ञो यज्ञोपवीतानि वा आज्यं कृत्वेत्युक्तिः ॥ ४५ ॥
ये समानाः समन॑सो जीवा जीवेषु ' मामकाः ।
तेषा श्रीमयि कल्पताम॒ स्मिँल्लोके श॒तः समः ॥ ४६ ॥
मन्त्रार्थ - यजमान उपवीती होकर उत्तर वेदि में आहुति देता है । प्राणियों में समदर्शी afor ड पितृगण हैं, उनकी लक्ष्मी इस भूलोक में सौ वर्ष पर्यन्त हमारे ही पास मनस्वी हमारे जो रहे ॥ ४६ ॥
' उत्तरे च यज्ञोपवीत्युत्तरया ' ( का ० श्री ० १ ९ | ३ | २८ ) । उत्तरे उत्तरवेद्याहवनीये उत्तरया अग्रिमया ऋचा सकृद्गृहीतमाज्यं जुहुयादिति सूत्रार्थः । यजमानाशीः कृतसव्यो यजमान जीवास्तेषु प्राणिषु मध्ये ये समानास्तुल्या रूपगुणैश्वर्यादिभिः । समनसः । श्रीदेवत्या । जीवेषु, जीवन्तीति ' तवकममकावेकवचने ' ( पा ० सू ० ४१३ ( ३ ) इत्यस्मदो ममकादेशः । जीवा जीवनवन्तः समानमनस्काः मामका मदीयाः । या श्रीः सा तान् परित्यज्य अस्मिँल्लोके शतं समाः शतसंवत्सरपर्यन्तं सन्ति तेषां सम्बन्धिनी सहजमात्सर्यग्रस्तत्वादेवमभ्यर्थना । तथा च रामायणम् - मयि कल्पतां क्लृप्ता भवतु । गोत्रिणां जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस । हृष्यन्ति व्यसनेष्त्रेते प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस । ज्ञातयोऽप्यवमन्यन्ते ज्ञातीनां ज्ञातयः सदा ॥
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः । प्रच्छन्नहृदया शूरं परिभवन्ति च ॥ 1
श्रूयन्ते हस्तिभिर्गीता: श्लोकाः पद्मवने पुरा । पाशहस्तान्तरान् घोरा ज्ञातयस्तु भयावहाः ॥ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः । घोराः स्वार्थप्रयुक्तास्तु दृष्ट्वा शृणुष्व गदतो मम ॥ उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः । कृत्स्नाद् भयाज्ज्ञातिभयं ज्ञातयो सुकष्टं नो विदितं भयावहाः च नः ॥॥ ( युद्धकाण्डे, १६२३-८ ) अत्र ब्राह्मणम् -'स जुहोति । ये समानाः समनसो जीवा जीवेषु मामकाः मस्मिँल्लोके शत, समा इति स्वानामेव श्रियमवरुन्धेऽथो ज्योग्जीवातुमेवैषु । तेषां श्रीमंयि कल्पता-प्राणो वा अन्नं पयः प्राण एवान्नाद्येऽन्ततः प्रतितिष्ठन्ति ' ( श ० १२/८/१/२० ) । दधाति पयः समन्वारब्धेषु जुहोति
पृष्ठ 303
पाठ पढ़ें पाठ छिपाएँ
म ० ४६-४७ ] वेदार्थपारिजात भाष्यसहिता २६७ अध्यात्मपक्षे -- ये समाना: समनसश्च जीवा मामकाः सन्ति तेषां सम्बन्धिनी या श्रीमंब्रह्मनिष्ठा-रूपास्ति, सा तादृशी श्रीर्धर्मं ब्रह्मनिष्ठा मयि शतं समाः कल्पताम् । दयानन्दस्तु --- ' येऽस्मिँल्लोके जीवेषु समानाः समनसो मामका जीवाः सन्ति, तेषां श्रीमयि शतं समाः कल्पताम् ' इति, तदप्यसमञ्जसम् । प्रार्थनामात्रेण अन्यसम्बन्धिन्याः श्रियोऽन्यत्र सञ्चारायोगात् । सिद्धान्ते तु देवानां पितॄणां च प्रसादात् तन्नासम्भवम् ॥ ४६ ॥
•
द्वे सु॒तो अ॑शृ॒णव॑ पितॄणाम॒हं दे॒वाना॑मु॒त मर्त्यानाम् ।
ताभ्यामिदं विश्वमेजत्समे ति यद॑न्त॒रा पितरं मातरं च ॥ ४७ ॥
मन्त्रार्थ - मैंने मरणधर्मा प्राणियों के, देवताओं के और पितरों के गमन करने योग्य दो मार्गों को सुना है, जो कि लोक और भूलोक के मध्य में विद्यमान हैं । यह क्रियावान् जगत् उन दोनों मार्गों से प्राप्त होता है ॥ ४७ ॥।
' अन्वारब्धेषु पयो जुहोति द्वे सृती इति ' ( का ० श्र ० १ ९ । ३ । २ ९ ) । सर्वेषु ऋत्विक्षु यजमानमन्वारब्धेष्व-ध्वर्युः पयो जुहुयादिति सूत्रार्थः । अमुमेवार्थं पूर्वकण्डिकायामुद्धृता श्रुतिरप्याह । देवयानपितृयानमार्गदेवत्या त्रिष्टुप् । अहं मर्त्यानां मरणधर्मणां प्राणिनां द्वे सृती द्वौ मार्गों ये एते शुक्लकृष्णं सृती देवयानपितृयाणौ पन्थानौ अणवं श्रुतवानस्मि श्रुतित इति शेषः । सा च शतपथी श्रुतिः - स एष देवयानो वा पितृयाणो वा पन्थाः ' ( श ० १ | ९ | ३ | २ ) इति । के द्वे सृती? अत आह -- देवानां मार्ग एकः । उत अपि च पितॄणां मार्गोऽपरः । ताभ्यामिदं विश्वमेजत् समेति, तद: स्थाने यदो वृत्ति, ताभ्यां याभ्यां पथिभ्यामिदं सर्वं जगद् एजत् क्रियावत् समेति सङ्गच्छते । कीदृश्यौ सृती? पितरं मातरं चान्तरा द्यौः पिता पृथिवी माता, द्यावापृथिव्योमंध्ये ' असो वै पितेयं माता ' ( श ० १२।८।१।२१ ) इति श्रुतेः । ताभ्यां देवयानपितृयाणमार्गाभ्याम्, सुहुतमस्त्विति शेषः । यद्वा पितरं मातरं चान्तरा द्यावापृथिव्योर्मध्ये यदेजत् कम्पमानं क्रियावद् विश्वं सर्वमिदं याभ्यां सृतिभ्यां समेति सङ्गच्छते, ताभ्यां सुहुतमस्तु । अध्यात्मपक्षे – मर्त्यानां मरणधर्मणां द्वे सृती अशृणवम् । ते चाग्न्याद्यधिष्ठातृदेवरूपिण्यौ । तथा चाह भगवान् गीतासु – ' अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ शुक्लकृष्णे गतो ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ ' ( भ ० गी ० ८ २४-२६ ) । अग्निधूमादीन् जडानाश्रित्य अल्पज्ञा अल्पशक्तयो मर्त्या न गन्तव्यं स्थानं प्राप्तुं शक्नुवन्ति, अतः परमेश्वरनियुक्ता अग्निधूमाद्य-धिष्ठातृदेवा एव तत्तन्मार्गाधिकारिणो जनान् यथायोग्यं ब्रह्मलोकं पितृलोकं वा प्रापयन्तीति । ‘ अचिरादिना तत्प्रथितेः ’ ( ब्र ० सू ० ४ | ३ | १ ) | सर्वो ब्रह्मप्रेप्सुरचिरादिनैवाध्वना रंहति । प्रथितो ह्येष मार्गः सर्वेषां विदुषाम् । ' वायुमब्दादविशेषविशेषाभ्याम् ' ( ब्र ० सू ० ४।३।२ ) इयचिरादिमार्गे वायोरपि सन्निवेश उक्तः । ' तेऽचिषमेवाभिसम्भवन्त्यचिषोऽहरह्न आपूर्यमाणपक्षमा पूर्यमाणपक्षाद्यान् षडुदङ्गेति मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यम् ' ( छा ० ५।१०।१-२ ) इत्यत्र संवत्सरात् पराञ्चमादित्यादर्वाञ्च वायुमभिसम्भवन्ति । कुत इति चेत्तत्राह सूत्रकारः - अविशेषविशेषाभ्याम् । तथा हि - ' स वायुलोकम् ' ( कौ ० १ ३ ) इत्यत्रा-विशेषोपदिष्टस्य वायोः श्रुत्यन्तरे विशेषोपदेशो दृश्यते - ' यदा वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति
पृष्ठ 304
पाठ पढ़ें पाठ छिपाएँ
२६८ शुक्लयजुर्वेदसंहिता [ अ ० ] १ ९ | तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति ' ( बृ ० ५1१०1१ ' स एवं ) एतस्मादादित्याद्वायोः पूर्वत्वदर्शनाद् विशेषादब्दादित्ययोरन्तराले वायुनिवेशयितव्यः । ननु -- परत्वदर्शनाद् देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम् ' ( कौ ० ११३ ) इत्यग्नेः क्रमवचनः अचिषोऽनन्तरं कथं न वायोर्निवेशः स्यादिति चेदत्रोच्यते - केवलोऽत्र पाठः पौर्वापर्येणावस्थितः, नात्र कश्चिच्छन्दोऽस्ति पदार्थोपदर्शनमात्रं ह्यत्र क्रियते --- एतमेतं चागच्छतीति । इतरत्र च पुनर्वायुप्रत्तेन रथचक्रमात्रेण छिद्रेणोर्ध्वमाक्रम्यादित्यमागच्छतीत्यवगम्यते क्रमः । तस्मात् सूक्तमविशेषविशेषाभ्यामिति । -वाजसनेयिनस्तु ' मासेभ्यो देवलोकं देवलोकादादित्यम् ' ( बृ ० ६ । २ । १५ ) इति समामनन्ति । तत्रादित्या नन्तर्याय देवलोकाद्वायुमभिसम्भवेयुः । वायुमब्दादिति तु छन्दोगश्रुत्यपेक्षयोक्तम् । छान्दोग्यवाजसनेयकयोस्त्वेकत्र ( छान्दोग्ये ) देवलोको न विद्यते, परत्र ( वाजसनेयके ) संवत्सरो न विद्यते । तत्र श्रुतिद्वयप्रत्ययादुभावप्युभयत्र । नहि मासो देवलोकेन ग्रथति । तत्रापि माससम्बन्धात् संवत्सरः पूर्व: पश्चिमो देवलोक इति विवेकः संवत्सरस्य मासानन्तर्यं सम्बद्धयते, किन्तु संवत्सरेण तस्मात्तयोः परस्परं सम्बन्धाद् मासारभ्यत्वाच्च आदित्यस्य स्थाने देवलोकाद्वायु-संवत्सरस्येति संवत्सरात् परस्ताद् देवलोकः । तत्रादित्यानन्तर्याय वायोः संवत्सरस्य मिति पठितव्यमित्यर्थः । ( छा ० ' तडितोऽधिवरुणः सम्बन्धात् ' ( ब्र ० सू ० ४ | ३ | ३ ) । ' आदित्याच्चन्द्रमसं हि चन्द्रमसो सम्बन्धो विद्युतम् विद्युद्वरुणयोः ', ४ | १५ | ५ ) इत्यस्या विद्युत उपरिष्टात्स वरुणलोकमित्ययं वरुणः सम्बद्ध्यते । अस्ति । विद्योतते स्तनयति वर्षिष्यति ' यदा हि विशाला विद्युतस्तोव्रस्तनितनिर्घोषा जीमूतोदरेषु प्रनृत्यन्त्यथापः इति श्रुतिस्मृति प्रपतन्ति प्रसिद्धिः । ' आतिवाहिकास्त-वा ' ( छा ० ७ | ११ | १ ) इति च ब्राह्मणम् । अपां चाधिपतिर्वरुण मार्गचिह्नान्युत भोगभुमयोऽथवा नेतारो लिङ्गात् ' ( ब्र ० सु ० ४ । ३ । ४ ) । तेष्वेवाचिरादिषु संशयः - किमेतानि कश्चिद् ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते-गन्तॄणामिति । तत्र मार्गलक्षणभूता अचिरादयः । यथा हि लोके नगरं वा प्राप्स्य सोत्येवमिहाप्यचिषोऽहरह्न गच्छं इतस्त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो, ' अग्निलोक-आपूर्यमाणपक्षमित्याद्याह । अथवा भोगभूमय इति । तथाहि लोकशब्देनाग्न्यादीननुबध्नाति मनुष्यलोकः पितृलोको देवलोकः ' मागच्छति ' ( कौ ० १।३ ) इत्यादि । लोकशब्दश्च प्राणिनां भोगायतनेषु प्रयुज्यते सज्जन्ते , ' ' इत्यादि । तस्मान्नातिवाहिका ( बृ ० उ ० १।५।१६ ) इति च । तथा च ब्राह्मणम् – ' अहोरात्रेषु ते लोकेषु नेतार इति सिद्धान्तितम् । अचिरादय इत्येवं पूर्वपक्षयित्वा सिद्धान्ते आतिवाहिका अचिरादयो गन्तॄणां गमयति ' ( छा ० ४/१५/५ ) तलिङ्गादिति तत्र हेतुरुक्तः । तथाहि - ' चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स प्राप्तमानवत्वनिवृत्तिपरत्वाद्विशेषणस्य एतान् ब्रह्म । इति सिद्धवद् गमथितृत्वं दर्शयति । तद्वचनं तद्विषयमेवोपक्षीणमिति चेन्न इति । यद्यचरादिषु पुरुषा गमयितारः प्राप्तास्ते च मानवास्ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणममानव ये ननु तल्लिङ्गमात्रगमकं न्यायाभावात् नैव दोषः - ' उभयव्यामोहात्तत्सिद्धेः ' ( ब्र ० सू ० ४ | ३ | ५ ) । तावदचरादिमार्गास्ते देहवियोगात् सम्पिण्डितकरणग्रामा इत्यस्वतन्त्रा गम्यते अचिरादीनामप्यचेतनत्वादस्वातन्त्र्य- । लोकेऽपि हि मत्तमूच्छितादयः मित्यतोऽचिराद्यभिमानिनश्चेतना देवताविशेषा सतियात्रायां नियुक्ता इति मार्गलक्षणत्वोपपत्तिः । नहि रात्रौ सम्पिण्डित करणाः परप्रयुक्तवर्त्मानो भवन्ति । अनवस्थितत्वादयचिरादीनां न कर्मनियतत्वात् । ध्रुवत्वात्तु मृतस्याहःस्वरूपाभिसम्भव उपपद्यते । न च मरणं दिनं वा रात्रि वा प्रतीक्षते, तस्य । ' अर्चिषोऽह: ' ( छा ० ४/१५/५, देवतात्मनां नायं दोषो भवति । अर्चिरादिशब्दता चैषामचिराद्यभिमानादुपपद्यते । अह्ना हेतुनाऽऽपूर्व-५।१०।१ ) इत्यादिनिर्देशस्त्वातिवाहिकत्वेऽपि न विरुद्धयते । अर्चिषा दृश्यते हेतुनाऽहरभिसम्भवति - गच्छ त्वमितो बलवर्माणम्, ततो माणपक्षमिति । लोके प्रसिद्धेष्वप्यातिवाहिकेष्वेवजातीयक उपदेशो
पृष्ठ 305
पाठ पढ़ें पाठ छिपाएँ
म ० ४७-४८ ] वेदार्थ पारिजातभाष्यसहिता २६ ९ जयसिंहम्, ततः कृष्णगुप्तमिति । अपि चोपक्रमे - ' तेऽचिरभिसम्भवन्ति ' ( वृ ० ६ | २ | १५ ) इति सम्बन्धमात्रमुक्तम्, न च सम्बन्धविशेषः कश्चित् । उपसंहारे तु — ' स एतान् ब्रह्म गमयति ' ( छा ० ४।१५ / ६ ) इति सम्बन्धविशेषोऽति-वाह्यातिवाहकत्वलक्षण उक्तः । तेन स एवोपक्रमेऽपीति निर्धार्यते । सम्पिण्डितकरणत्वादेव च गन्तॄणां न तत्रोप-भोगसम्भवः । लोकशब्दस्त्वनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते, अन्येषां तल्लोकवासिनां भोगभूमित्वात् । अतोऽग्निस्वामिकं लोकं प्राप्तोऽग्निनातिवाह्यते, वायुस्वामिकं प्राप्तो वायुनेति योजयितव्यम् । वातिवाहित्वपक्षे वरुणादिषु कथं तत्सम्भवः? विद्युतो ह्यधि वरुणादय उपक्षिप्ताः । विद्युतस्त्वनन्तर-मा ब्रह्मप्राप्तेरमानवस्यैव पुरुषस्य गमयितृत्वं श्रुतमिति शङ्का सूत्रकृतैवोत्तरिता - ' वैद्युतेनैव ततस्तच्छ्रुतेः ' ( ब्र ० स ० ४ ( ३६ ) । ततो विद्युदभिसम्भवनादूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वति वाह्यमाना ब्रह्मलोकं गच्छन्तीत्यवगन्तव्यम्, ' तान् वैद्युतात् पुरुषोऽमानवः स एत्य ब्रह्मलोकं गमयति ' इति तस्यैव गमयितृत्व-श्रुतेः । वरुणादयस्तु तस्यैवा प्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचिदनुग्राहका इत्यवगन्तव्यमिति भगवत्पादाः । अत्र ब्राह्मणम् --- ' स जुहोति । द्वे सृती अशृणवं पितॄणामहमिति द्वे वाव सृती इत्याहुर्देवानां चैव पितॄणां चेति ताभ्यामिदं विश्वमेजत्समेतीति ताभ्या, हीदं सर्वमेजत्समेति यदन्तरा पितरं मातरं चेत्यसो पितेयं माताऽऽभ्यामेव पितॄन् देवलोकमपिनयति ' ( श ० १२ | ८ | १ | २१ ) । स जुहोति । ताभ्यामिदं द्यावापृथिव्योः सकाशात् पितॄन् देवलोकमपिनयत्यनेन देवयान पितृयाणौ तर्पयित्वेति हरिस्वामी । दयानन्दस्तु - ' हे मनुष्याः, अहं ये पितॄणां जनकादीनां देवानामाचार्यादीनां विदुषां द्वे सृती गच्छन्त्या-गच्छन्ति च जीवा ययोस्ते अशृणवं शृणोमि । ताभ्यामिदं विश्वमेजत्समेति यत् पितरं जनकं मातरं जननीमन्तरा पृथग्भूत्वा शरीरान्तरेणान्यौ मातापितरौ प्राप्नोति? तदेतद् यूयं विजानीत ' इति, तदपि विसङ्गतमेव, अनुपपत्तेः । जनकादीनामाचार्याणां च मनुष्यत्वावैशेष्ये तद्भेदान्मार्गभेदासम्भवात् । न च जनकादीनामविद्वत्वेन देवाद्भिन्न-त्वम् तेषामपि विद्वत्त्वसम्भवात् । न च विदुषामविदुषां जननमरणभेदोऽपि वक्तुं शक्यः । न च जननमरणे एव द्वे गती, तयोः सर्वसाधारणत्वात् । न च ' पितरं मातरमन्तरा ' इति वाक्यस्य पितरं मातरं चान्तरा पृथग्भूय शरीरान्तरेण अन्यौ मातापितरौ प्राप्नोतीत्यर्थः सम्भवति, तत्र तादृशार्थासामर्थ्यात् । न चाध्याहार बलात्तथार्थ इति मन्तव्यम्, अध्याहारे मानाभावात् श्रुतिस्मृतिसूत्र विरोधश्च । उद्धृतश्रुतौ स्पष्टमेव मातृपितृशब्दाभ्यां द्यावापृथिव्योर्ग्रहणम् । ' सृती ' इत्यनेन देवयानपितृयाणयोरेव ग्रहणम्, न जननमरणयोरिति ॥ ४७ ॥
I इ॒द ं ह॒विः प्र॒जन॑नं मे अस्तु दर्शवीर, सर्वगण, स्व॒स्तये॑ । आ॒त्म॒सनि॑ प्रजा॒ा-सनि॑ पशुसन लोक॒सन्य॑भय॒सनि॑ । अ॒ग्निः प्र॒जां बहुला में करोत्वन्नं पयो रेतो अ॒स्मासु॑ धत्त ॥ ४५ ॥
मन्त्रार्थ - यह प्रजा को उत्पन्न करने वाला हवि दस प्राण और दस इन्द्रियों को उन्नति देने वाला है । सब अंगों को पुष्टि देनेवाला, आत्मा को प्रसन्न करने वाला, प्रजा को उन्नति देने वाला, पशुधन को वृद्धि करने वाला, लोक में प्रतिष्ठा देने वाला, बल प्रदान कर अभय देने वाला यह हवि मेरे लिये कल्याणकारक हो । अग्नि देवता मेरी प्रजा की वृद्धि करें । हमारे लिये अन्न, दूध और वीर्य को धारण करें ॥ ४८ ॥
. ' शेषं यजमानो भक्षयतीद, हविरिति ' ( का ० श्री ० १ ९ | ३ | ३० ) । उखास्थितं शेषं पयो यजमानों भक्षयेदिति सूत्रार्थः । अत्र ब्राह्मणम् - ' एकाकी हुतोच्छिष्टं भक्षयत्येकधैव श्रियमात्मन् धत्ते श्रीहि पयः '
पृष्ठ 306
पाठ पढ़ें पाठ छिपाएँ
२७० शुक्लयजुर्वेद संहिता [ अ ० १ ९ ( श ० १२ | ८ | १ | २१ ) । एकाकी असहायः हुतोच्छिष्टं भक्षयति न ऋत्विग्भिः सार्धम् । तेन एकधैव श्रियमात्मन् धत्ते । | यजमानाशीर्देवत्या ' त्र्यवसाना ' अष्टिः, एको ' व्यूहः । इदं हविः पयोरूपं मे मम स्वस्तये अविनाशायास्तु कीदृशं हविः? प्रजननं प्रजनयतीति तथोक्तम्, प्रजोत्पादकम् । पुनः कीदृशम्? नागकूर्म दशवीरम् कुकरदेवदत्तधनञ्ज- दश दशसंख्याका वीराः प्राणलक्षणा यत्र यत् तथोक्तम् । यस्मिन् पीते प्राणापानव्यानसमानोदान यस्मिन् पोते सर्वाणि याख्याः स्वास्थ्यं लभन्त इति । तथा सर्वगणं सर्वे गणा अङ्गानि यस्मिंस्तत् तथोक्तम् । सनति सम्भजते वा तत् हस्तपादमुखादीन्यङ्गानि स्वस्थानि भवन्तीत्यर्थः । आत्मसनि आत्मानं सनोति यस्मिन् ददाति पीते परमात्मलाभसामथ्यं सनि । औणादिक इ: । ' षणु दाने ' तनादिः ' षण् सम्भक्तौ ' भ्वादि: । ददाति सनति सम्भजते जायते, आत्मसम्भजनं वा जायते, तत्तादृशमिदं हविरित्यर्थः । प्रजासनि प्रजाः सनोति सर्वविधपशुपरम् । वा तत् तथोक्तम् । पशुसनि पशून सनाति ददाति सनति सम्भजते वा तथाक्तम् । अत्र । पशुपदं अभयर्सेनि अभयं स्वर्गं लोकसनि लोकर्महिकं सनोति, ऐहिकं सुखं ददातीत्यर्थः, सनति सम्भजते वा तथोक्तंम् स्वस्तयेऽस्त्विति सम्बन्धः । एवं सनोति ददाति सनति सम्भजते वा तथोक्तम् । तत्तदुक्त गुणविशिष्टमपि मम हविरभ्यर्थ्य अग्नि प्रार्थयते - अग्निर्देवो मम प्रजां बहुलां प्रवृद्धां करोतु । एवमग्निमुक्त्वा स्थापयत । ऋत्विजः प्रत्याह-हे ऋत्विजः, अस्मासु अन्नं व्रीह्यादि पयो दुग्धं रेतः शुक्रं वीर्यवतां वोयं वा धत्त अत्र ब्राह्मणम् —'स भक्षयति । इदथं हविः प्रजननं में अस्त्विति प्रजनन हि यदि पयो यदि सोमो दशवीरमिति प्राणा वै दश वीराः प्राणानेवात्मन् धत्ते सर्वगणमित्यङ्गानि वे सर्व गणा अङ्गान्येवात्मन् स्वर्गो वे लोकोऽ- धत्ते स्वस्तय आत्मसनीत्यात्मानमेव सनोति प्रजासनीति लोकाय वै यजते तमेव जयत्यभयसनीति भय ं , स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठत्यग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्तेति तद्य एवैनमेते याजयन्ति तानेतदाहैतन्मयि सर्वं धत्तेति हिरण्येन मार्जयन्तेऽमृतं वे हिरण्यममृत एवान्ततः प्रतितिष्ठन्ति ' ( श ० १२ | ८ | १।२२ ) । प्रजननं हि हविः, यदि पयो लोकदृष्ट्या । यदि सोम उपासनया । प्राणा वै दश विक्रान्ता वीराः । ते तर्पयितव्या अस्य सन्तीति दशवीरम् । एवं हस्तादीनि सर्वाण्यङ्गान्येव तर्पयितव्यानि विद्यन्तेऽस्येति सर्वगणम् । एवमङ्गान्येवात्मन् धत्ते । स्वस्तये अविनाशाय । आत्म - प्रजा - पशु - लोक स्वर्गाद्यभीष्ट-प्रदमिदं हविरन्ततः स्वर्गे लोके प्रतितिष्ठति । पवित्र वाल - हिरण्यानां मध्ये हिरण्येन मार्जयन्ते, ऋत्विज इति शेषः । हिरण्यं चामृतमग्निदाहेऽप्यनष्टम् । तेन मार्जनेन यजमान आत्मानमेवामृतं करोति । अध्यात्मपक्षे - इदं हविर्भगवदुपभुक्तं वस्तु भुक्तं सत् प्रजननं ज्ञानवेराग्याद्युत्पादकं भवति । अत्र दशवीराणां प्राणानां सर्वगणानां सर्वाङ्गानां च आप्यायनसामर्थ्यमस्तीति तत्तादृशं हविदेशवीरं सर्वगणम् । तच्च आत्मनि आत्मा कार्यकरणसङ्घातः, आत्मा मनः, आत्मा प्रत्यगभिन्नः परमात्मा, सङ्घातादीनां स्वास्थ्यकरं पावकम्, परमात्मप्रापकं च भवति । अग्निः सर्वपापतापसंहारको भगवान् मे प्रजां पुत्रशिष्यादिरूपां बहुलां बाहुल्योपेतां करोतु | अन्नं पयो रेतः प्रसिद्धानि । अन्तं ज्ञानमशनायादिनिवर्तकत्वात् पयो वैराग्यं ज्ञानसह-कारित्वात्, रेतो ब्रह्मात्मनिष्ठासामथ्यं दाढ्यं च । एतानि हे ऋत्विजः! सेव्यमानाः सन्तो वाऽस्मासु त स्थापयत । १. २. t यवसानानि विरामा यस्यां सा तथाभुता 1 अष्टिछन्दस्का । ३. अष्टौ चतुःषष्टयक्षराणि भवन्ति, अत्र कण्डिकायां त्रिषष्ट्यक्षराणि, अतो व्यूहेन ( स्वस्तये इत्यत्र सुवस्तये ) चतुःषष्ट्यक्षराणि कार्याणि ।
पृष्ठ 307
पाठ पढ़ें पाठ छिपाएँ
म ० ४८-४९ ] वेदार्थ पारिजातभाष्यसहिता २७१ दयानन्दस्तु - ' अग्निः पतिर्मे बहुलां बहुसुखप्रदां प्रजां करोतु । यदिदं प्रजननमुत्पत्तिनिमित्तं हविर्दातुमादातुं योग्यं दशवीरं दशसन्तानोत्पादकं सर्वगणं सर्वे गणा गण्याः प्रशंसनीयाः पदार्था यस्मिन्, यस्मादात्मसेवनम् प्रजासेवनम्, पशुसेवनम् लोकसेवनम् अभयदानं च सम्पद्यते, तादृशं सन्तानं स्वस्तये सुखायास्तु | हे मातृपितृप्रभृतिजनाः अस्मासु अन्नं पयो रेतो वीर्यं धत्त ' इति, तदसङ्गतम्, सर्वथाप्यनुपपत्तेः । अग्निपदेन पत्युर्ग्रहणे मानाभावः । नहि गच्छतीति व्युत्पत्त्यापि मनुष्यो महिषो वा गौः सम्भवति । हविर्दातु-मादातुं योग्यम्, दशसन्तानोत्पादकमिदं प्रजननं किम्? इत्यधुनापि न स्पष्टम् । स्त्रीव्यञ्जनं चेत्, सर्वगणमिति विशेषणानुपपत्तिः प्रजां बहुलां करोत्वित्युक्त्यैव गतार्थत्वात् । तादृशाश्लीलवर्णनस्य न किमपि प्रयोजन-मुत्पश्यामः । किञ्चात्मसन्यादिकं यस्य सन्तानस्य विशेषणम्, तथोक्तस्य तु मन्त्रे चर्चापि नास्ति, कुतस्तदुपपत्तिः? पूर्वोद्धृतब्राह्मणविरोधश्च । न च मातापित्रादयो दुहितृषु प्रजां रेतो वा धारयितुं शक्नुवन्तीति तदर्थनापि व्यर्थैव ॥ ४८ ॥
उ ौरतामवर उत्परोस उन्मध्यमाः पि॒तरः सोम्यासः ।
असुं य इ॒युर॑व॒का ऋत॒ज्ञास्ते नो ऽवन्तु पि॒तरो॒ हवे॑षु ॥ ४ ९ ॥
मन्त्रार्थ - इस लोक में स्थित, परलोक में स्थित और मध्यलोक में स्थित सोमपायो पितृगण ऊपर के लोक को प्राप्त हों । जो पितृगण प्राण रूप को प्राप्त हैं, वे शत्रुरहित होने से निरपेक्ष रूप के ज्ञाता स्वाध्यायनिष्ठ पितृगण बुलाने पर हमारी रक्षा के लिये तुरन्त आ जाँय ॥ ४६ ॥
' सोमवतां बर्हिषदामग्निष्वात्तानां च ' ( का ० श्र ० १ ९ ३ २५ ) । अस्य सूत्रस्यार्थः परस्ताद्वर्ण-यिष्यते । अत्रैवं विभावनीयम् - उदीरतामित्यादिकत्रयोदशर्चोऽयमनुवाकः । अस्मिन् उदीरताम् ( ४ ९ ), अङ्गिरसः ( ५० ), ये नः पूर्वे ( ५१ ) इति ऋक्त्रयस्य, अग्निष्वात्तानिति त्रयोदश्याश्च ऋचो विनियोगः कल्पकृता प्रोक्तः । अवशिष्टास्तु मध्यपातिन्यो नवर्चः । तत्र त्वं सोम ( ५२ ), त्वया हि नः ( ५३ ), त्वं सोम पितृभिः ( ५४ ) इति तृचं सोमवतां पितॄणाम; बर्हिषदः पितरः ( ५५ ), आहं पितॄन ( ५६ ), उपहूताः पितरः ( ५७ ) इति तृचं बर्हिषदां पितॄणाम् आयन्तु नः ( ५८ ), अग्निष्वात्ताः पितरः ( ५ ९ ), ये अग्निष्वात्ताः ( ६० ) इति तृचमग्नि-ष्वात्तानाम् । तत्र ' नवचं वाचयति पुनन्तु मेति ' ( का ० श्र ० १ ९ | ३ | २४ ) इति प्रतिपादितनवर्च वाचनानन्तरं सोमवत्पितृदेवत्यं बर्हिषत्पितृदेवत्यमग्निष्वात्तपितृदेवत्यं च तृचत्रयम् अर्थान्नवर्चम् त्वं सोम प्रचिकित इत्यारभ्य तन्वं कल्पयातीत्यन्तं प्रत्यृचमध्वर्युर्य जमानेन वाचयतीति सूत्रार्थः । अथमनुवाकः शङ्खदृष्टः पितृदेवत्यः । अस्मिन्ननुवाके ' अग्निष्वात्ताः पितरः ' ( ५ ९ ) इत्यृग् जगती, अन्या द्वादश त्रिष्टुभः । अवरे अपकृष्टे अस्मिँल्लोकेऽवस्थिताः पितरः, उदीरताम् ऊर्ध्वं क्रमन्ताम् ऊर्ध्वलोकं गच्छन्तु । ' ईर गतो कम्पने च ' इत्यादादिकस्य लोटि रूपम् । परासः पराः परस्मिन् लोके स्थिताः पितर उदीरतां तस्मादपि स्थानात् परं स्थानं गच्छन्तु । मध्यमा मध्ये भवाः पितरः उदीरताम् । कीदृशाः पितरः? सोम्यासः सोम्याः । सोमं सम्पादयन्ति ये ते सोम्याः, सोममर्हन्ति वा । ' सोममर्हति य: ' ( पा ० सू ० ४ | ४ | १३७ ) इति साधुः । ये च असुं प्राणमयुतात्मानो वातरूपं प्राप्ताः । अवृकाः, न वृका अवृकाः, वृकवदकुटिलहृदयाः, शत्रुष्वपि माध्यस्थ्यमव-लम्बमाना उदासीनाः । अथवा अविद्यमानो वृकः शत्रुर्येषां ते । ऋतज्ञाः सत्यज्ञानाः, यज्ञज्ञाः स्वाध्यायनिष्ठा वा saas विशिष्टतरं स्थानमुदीरतां गच्छन्तु । एवं च ये स्वकीयेन कर्मणा अस्मदीयेन श्राद्धतर्पणादिना
पृष्ठ 308
पाठ पढ़ें पाठ छिपाएँ
२७२ शुक्लयजुर्वेदसंहिता [ अ ० १ ९ वा उन्नति प्राप्तास्ते नोऽस्मान् हवेष्वाह्वानेषु अवन्तु रक्षन्तु यदा वयमाह्वयेम तदा अस्मदीयमाह्वानं श्रुत्वा तत्क्षणमेव तेऽस्मान् रक्षन्त्वित्यर्थः । अध्यात्मपक्षे - परमेश्वर एव तत्तल्लोकेषु पितृरूपेण रूपान्तरेण च पूज्यते, औपाधिकरूपेण तस्यैव अधस्तात् परस्तादवस्थानं ततस्ततः परतरस्थानगमनं च न विरुध्यते । ये पितृतुल्याः साधका वा उत्कृष्टाप-कृष्टभूमिषु स्थितास्ते ततस्तत उत्कृष्टभूमिकागमनाय प्रोत्साह्यन्ते । दयानन्दस्तु -- ' हे मनुष्याः, ये अवृका ऋतज्ञाः पितरः पालका हवेषु संग्रामादिव्यवहारेषु समुदीयुस्तेन न उदवन्तु, ये सोम्यासोऽवरे परासो मध्यमास्तेऽस्मान् हवेषु उदीरताम् ' इति, तदपि यत्किञ्चित्, वृकशब्दस्य चौर्यार्थत्वासिद्धेः, संग्रामे पितॄणां पुत्रादिनियोगाप्रसङ्गाच्च ॥ ४ ९ ॥ अङ्गिरसो नः पितरो नव॑ग्वा अर्थर्वाणो भृग॑वः सोम्यासः । तेषां वय, समतो यज्ञियानामपि भद्रे सौमन॒से स्याम ॥ ५० ॥
मन्त्रार्थ -- स्तुति करने योग्य, नवीन गति वाले, सोम रस के सम्पादक, अंगिरावंशी, अथर्ववंशी और मृतुवंशी हमारे पितृगण, जो इस समय पितृलोक में विराजमान हैं, उन यज्ञों के शुभचिन्तक पूजनीय पितरों की सुम्दर बुद्धि में तथा कल्याणकारक मन में हम सदा विद्यमान रहें, अर्थात् पितरों की बुद्धि और मन सदा हमारा कल्याण करने में लगी रहे ॥ ५० ॥
ये नोऽस्माकं पितरस्तेषां पितॄणां सुमती शोभनायां बुद्धी वयं स्याम भवेम तेऽस्मासु शोभनामनुग्रह-पूर्णां दयार्द्रा बुद्धिं कुर्वन्त्वित्यर्थः । तेषां भद्रे कल्याणकरे सौमनसे सुमनसो भावः सौमनसं तस्मिन् । तेऽस्मासु शुभानुसन्धानोपेतं मनः कुर्वन्त्वित्यर्थः । कीदृशानां पितॄणाम्? यज्ञियानाम्, यज्ञे हिता यज्ञियास्तेषाम्, अनुयोगिनि सप्तमी, प्रतियोगिनि तु चतुर्थी, यज्ञसम्पादनेऽनुकूलानाम् । कीदृशाः पितरः? अङ्गिरसः, अङ्गिरसोऽपत्या-न्यङ्गिरसः, बहुत्वे ' अत्रिभृगु कुत्सवशिष्ठ गोतमाङ्गि रोभ्यश्च ' ( पा ० सू ० २२४/६५ ) इति तद्धितलोपः, अङ्गिरसोऽपत्य-रूपाः । नवग्वाः, नवा नूतना ग्वा गतिर्येषां ते, नवा नवनीया स्तोतव्या ग्वा येषामिति वा । अथर्वाणः, अथर्वणो मुनेर्बहून्यपत्यानि । भृगवः भृगोरपत्यानि । सोम्यासः सोममर्हन्तीति सोम्यासः सोम्याः, सोमसम्पादिन इत्यर्थः । ' सोममर्हति य: ' ( पा ० सू ० ४ । ४ । १३७ ) इति साधुः । अध्यात्मपक्षे -- पितरः पितृतुल्या अङ्गिरसोऽङ्गिरः कुलोत्पन्नाः, नवग्वा नवा: स्तोतव्या ग्वा गतयोऽ-णिमादिसिद्धिरूपाः, मुक्त्यादिप्राप्तिरूपाः निष्कामभक्तिप्राप्तिरूपा वा येषां ते । अथर्वाणः, अथर्वषिकुलोत्पन्ना बहवः । भृगवों भृगोर्बहवोऽपत्यरूपाः । सोम्यासः सोमवदाह्लादकाः । साधका मुक्ता वा ये सन्ति तेषां सुमतौ वयं स्याम, तेषामनुसन्धानमात्रेण नृणां कल्याणसम्भवात्, ' यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वार्थगोचरा । तद्दृष्टिगोचरा: सर्वे पूताः स्युरप्रयत्नतः ॥ ' इत्यभियुक्तोक्तेः । यज्ञियानां ज्ञानयोगनिष्ठानां तेषां भद्रे कल्याणमये सोमनसे शोभनमनोभावे वयं स्याम । दयानन्दस्तु - हे मनुष्याः, ये नोऽङ्गिरसः सर्वसिद्धान्तविद्याविदो नवग्वा अथर्वाणोऽहिंसका भृगवः परिपक्क विज्ञानाः सोम्यासः पितरः पालकाः सन्ति तेषां यज्ञियानां सुमतौ भद्रे सौमनसे स्याम ' इति, तदपि यत्किञ्चित्, प्रसिद्धार्थत्यागे मानाभावात् सुमतौ भद्रे सोमनसे भवनस्यानिरूपणात् । न च तदनुगुणप्रवृत्तिरेव भवनम् भवतस्तथार्थत्वे मानाभावात् । त्वत्कृतार्थस्य प्रामाणिकत्वे भृगव इति पदेनैव गतार्थत्वेन अङ्गिरसादि-पदानां वैयर्थ्यापातात् परिपकज्ञानेषु सिद्धान्तविद्यादीनामर्थसिद्धत्वात् ॥ ५० ॥
पृष्ठ 309
पाठ पढ़ें पाठ छिपाएँ
म ० ५१-५२ ] वेदार्थपारिजातभाष्यसहिता
ये नः॒ पूर्वे॑ पि॒तरः॑ स॒म्यासो ऽनूहिरे सोमपीथं वसिष्ठाः ।
तेभि॑र्य॒मः स॑रा॒णो ह॒वष्य॒शन्नुशद्भिः प्रतिका॒मम॑त्तु ॥ ५१ ॥
२७३ मन्त्रार्थं - हमारे जिन सोम- सम्पादक वशिष्ठवंशी पूर्वं पितरों ने सोमपान के निमित्त देवताओं का आह्वान किया था, वहीं इस समय सोमपान के लिये आमन्त्रित हैं । सोम की इच्छा वाले पितृपति उन सब पितरों के साथ प्रसन्न मन से हमारी दी हुई हवियों को यथेच्छ भक्षण करे ॥ ५१ । स्माकं पूर्वे वसिष्ठा वसिष्ठस्य बहून्यपत्यानि सोम्यासः सोमसम्पादिनः पितरः सोमपीथं सोमपानम् अनु ऊहिरे अनुवहन्ति स्म देवान् प्रापितवन्तः, तेभिस्तैः पितृभिः, उशद्भिः कामयमानैः, संरराणः प्रीयमाणः सन् उशन् कामयमानो यमः संयमनीपतिः पितृपतिः प्रतिकामं यथाकामं हवींषि अत्तु । ' ऊहिरे ' इति ‘ वह प्रापणे ' इत्यस्य लिटि प्रथमाबहुवचने, संपूर्वस्य ' रा दाने ' इत्यस्य शानचि शपः श्ली संरराण इति, ' वश कान्ती ' इत्यस्य शतरि उशन्निति रूपम् । अध्यात्मपक्षे - ये पितरो वसिष्ठाः सोम्यासो वसिष्ठोपलक्षिततत्तदृषिकुलोत्पन्नाः, सोमपीथं सोमपान-मनूहिरे देवान् पायितवन्तः तैरुशद्भिर्भगवन्तं कामयमानैः संरराणः प्रीयमाणः तांश्वोशन् कामयमानो यमः सर्वनियन्ता भगवान् हवींषि भक्तेः समर्पितानि नैवेद्यानि अत्तु भक्षयतु । दयानन्दस्तु — ' ये नः सोम्यासो वसिष्ठा अतिशयेन धनिनः पूर्वे पितरो ज्ञानिनः सोमपीथमनूहि रे अनुवहन्ति पुनः पुनः प्राप्नुवन्ति च तेभिस्तैरुद्भिः सह हवींष्युशन् संरराणो यमो न्यायी संयमी सन्तानः प्रतिकाममत्तु ' इति, तदपि निरर्थकम् यमशब्दस्य सन्तानार्थकत्वासिद्धेः ॥ ५१ ॥
स्व ँ
, सो'म प्रचिकितो मनी॒षा स्व, रजि॑ष्ठ॒मनु॑नेषि॒ पन्था॑म् ।
तव॒ प्रणी॑तो पि॒तरो॑ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीरा॑ः ॥ ५२ ॥
मन्त्रार्थ - हे सोम! तुम कान्ति और चेतना से युक्त हो, तुम अपनी बुद्धि के द्वारा अतिसरल देवयान मार्ग को प्राप्त कराते हो । हे सोम! हमारे धैर्यवान् पितरों ने तुम्हारे आश्रय से देवताओं में श्रेष्ठ यज्ञफल को पाया है ॥५२ ॥
हे सोम, त्वं प्रचिकितः प्रकर्षेण चेतनावान् विशिष्टज्ञानविज्ञानसम्पन्नः, मनीषा यज्वनां मनसो विशिष्टतरेच्छा असि । यद्वा हे सोम, त्वं मनीषा मनीषया स्वप्रज्ञया यावज्ज्ञातव्यं तस्य प्रचिकितः प्रकर्षेण ज्ञातांसि । ' कित निवासे रोगापनयने च ', अत्र ज्ञाने वृत्तिः । त्वं च रजिष्ठम् अतिशयेन ऋजु इति रजिष्ठम् ' अतिशायने तमष्ठतो ' ( पा ० सू ० ५। ३ ५५ ) इति तमपि ' विभाष जोश्छन्दसि ' ( पा ० सू ० ६ | ४ | १६२ ) इत्युकारस्य रेफे रूपम् । ऋजुतमं देवयानाख्यं पन्यां पन्थानम् पथिनुशब्दाद् द्वितीयैकवचने सर्वनामस्थानेऽपि ' अयस्मयादीनि छन्दसि ' ( पा ० सू ० १/४/२० ) इति यथायोग्यं पदत्वे ' नलोपः प्रातिपदिकान्तस्य ' ( पा ० सू ० ८/२/७ ) इति नकारलोपे सवर्णदीर्घे च पन्थामिति रूपम् । अनुनेषि अधिकारिणो जनान् अनुनयसि । नयतेः शपि लुप्ते गुणे लटि रूपम् । किञ्च, हे इन्दो! तव प्रणीतो प्रणोत्या प्रणयनेन तवाभ्यनुज्ञया नो धीरा धीमन्तो यज्ञादिज्ञानवन्तः पितरो देवेषु मध्ये रत्नं रमणीयं यज्ञफलम् अभजन्त सिषेविरे, सोमयागेनैवोत्तमफललाभात् । यद्वा हे सोम, त्वं ३५
पृष्ठ 310
पाठ पढ़ें पाठ छिपाएँ
.२७४ शुक्लयजुर्वेद संहिता [ अ ० १ ९ सम्बन्धः । मनीषेति तृतीयैकवचने मनीषा मनीषया स्वप्रज्ञया रजिष्ठं देवयानं पन्थानमनुनयसि प्रापयसीति पूर्वसवर्णदीर्घः । सर्वज्ञोऽसि । हे इन्दो! सोमवत्प्रियदर्शन अध्यात्मपक्षे - हे सोम साम्बसदाशिव, त्वं प्रचिकितः प्रकृष्टज्ञानः त्वत्प्रापकं पन्थां पन्थानम् अनुनेषि चन्द्रशेखर, त्वं मनीषया स्वप्रज्ञयाऽधिकारिजनान् रजिष्ठम् धीमन्तः ऋजुतमं पितरः पितृतुल्याः साधकाः सिद्धाश्च देवेषु अनुनयसि प्रापयसि । तव प्रणीती प्रणीत्या प्रणयनेन धीरा सिषेविरे प्राप्नुवन्ति च । स्वप्रभया भासमानेषु भक्तेषु मध्ये रत्नं रमणीयं फलमभजन्त प्राप्तविज्ञानस्त्वं मनीषा प्रज्ञया यं रजिष्ठम् अतिशयेन दयानन्दस्तु — ' हे सोम विविधैश्वर्ययुक्त, प्रचिकितः इन्दो! चन्द्र इव वर्तमान, ये तव प्रणीती प्रकृष्टा चासौ ऋजुं कोमलं पन्थां नेषि नयसि तं त्वं मामनुनय । हे सेवनीयाः सन्तु ' इति, तदपि यत्किञ्चित्, यम् - तम् - माम्-नीतिश्च धीराः पितरो देवेषु रत्नम् अभजन्त तेऽस्माभिर्नित्यं यस्य प्रणीत्या सह धीरा वर्तन्ते, ते च किमर्थं विद्वत्सु सम्बोध-इत्यादिपदानां मूलेऽभावात् । कोऽयं सम्बोधनीयो त्रिर्थे रत्नं भजेरन्, नान्यार्थेऽन्यो रत्नं भजति ॥ ५२ ॥
। त्वया॒ हि नः॑ पि॒तर॑ः सोम॒ पूर्व॒ कर्म॑ण च॒क्रुः प॑वमान॒ धीराः ५३ ॥ व॒न्वन्नवा॑तः परि॒ध२॥रपोर्णु वी॒रेभि॒रश्वे॑म॒घवा॑ भवा नः ॥ ने तुम्हारी सहायता से यज्ञ आदि कर्मों मन्त्रार्थं - हे सबको पवित्र करने वाले सोम! हमारे धीर पितरों के उपद्रवों को की रक्षा में लगे हुए तुम वात आदि को पूरा किया है । इस कारण हम प्रार्थना करते हैं कि इस कर्म हमें सब ओर से धन प्राप्त कराओ ॥ ५३ ॥
और उपद्रवकारियों को यहाँ से दूर करो । वीर अश्वों के द्वारा यस्मात् त्वया आश्रयभूतेन हे सोम है पवमान शोधक, नोऽस्माकं पूर्वे पूर्वजा धीरा , अतस्त्वां धीमन्तः प्रार्थये पितरो यत् हि त्वं परिधीन् परितः सर्वतो कर्माणि सोमसमवेतज्योतिष्टोमादीनि यज्ञादीनि चक्र: कृतवन्तः, अपोर्ण अपगमय । कथम्भूतस्त्वम्? दधति उपद्रवाय तिष्ठन्तीति परिधयः सर्वतो निहिता यज्ञोपद्रवकारिणस्तान - अवातो वाताद्युपद्रवरहितः स्वस्थचित्तः परिधीन् वन्वन् सम्भजमानः । तान्यस्मदीयानि कर्माणि अव रक्ष मघवा । यद्वा धनवान् भव । मघं धनमस्यामस्तीति मघवा । यो अपोर्णु । किञ्च, वीरेभिर्वीरैरश्वैश्च सहितः सन्नोऽस्माकं इति संहितायां दीर्घः । ' परिधों अप ' इत्यत्र ' दीर्घादटि यस्मै ददाति स तस्य धनवानिति बुद्धया तथोक्तिः । भवा समानपादे ' ( पा ० सू ० ८ । ३ । ९ ) इति नकारस्य रुः । धीरा धीमन्तः पूर्वे अध्यात्मपक्षे - हे सोम साम्बसदाशिव, हि यस्मात् त्वया आश्रयभूतेन हे पवमान नोऽस्माकं , नाम्नैव विश्वपावन बन्वन् पूर्वजाः पितरः कर्माणि त्वदाराधनलक्षणानि चक्रुः, अतोऽस्मात् कारणाद् यज्ञोपद्रवकारिणोऽपोर्ण अपगमय । वीरेभिः अस्मदीयानि कर्माणि अव रक्ष । परिधीन् सर्वतो निहितान् धनं धनवांश्च सर्वं त्वमेव भव । वीरैरश्वेश्व सहितो नोऽस्माकं मघवा धनवान् भव । अस्माकं पूर्वे धीराः पितरो यानि धर्म्याणि कर्माणि दयानन्दस्तु - ' हे पवमान सोम, त्वया विदुषा सह नः वीरेभिरश्वैश्च सह नः शत्रून् परिधीन् अपोर्णु चक्रुस्तानि हि वयमप्यनुतिष्ठेम । अवातो वन्वन् धर्मं सेवमानस्त्वं । तानि वयमप्यनुतिष्ठेत्यस्य मघवा च भव ' इति, तदपि यत्किञ्चित् निर्मूलाध्याहारकल्पनाभूयस्त्वात् ' इत्यर्थेऽपि धर्मसन्तानादिपदानां मूलेऽभाव एव ॥ ५३ ॥
मूलेऽनुपलम्भ एव । ' धर्मं वन्वन् सन्तानस्त्वं शत्रूनपोर्णु