वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 311–320

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 311–320

पृष्ठ 311

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 311 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५४-५५ ] वेदार्थ पारिजातभाष्यसहिता त्व सोम पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आत॑तन्थ I २७५ तस्मै त इन्दो हविषा विधेम वय ं स्या॑म॒ पत॑यो रयीणाम् ॥ ५४ ॥

" मन्त्रार्थ - हे सोम! पितरों के साथ संवाद करते हुए तुमने स्वर्ग और पृथ्वी का विस्तार किया है । है सोम! तुम्हारे लिये हम हवि का विधान करते हैं । तुम्हारी कृपा से हम धनवान् बनें ॥ ५४ ॥

हे सोम, यस्त्वं पितृभिः संविदानः संवादं कुर्वाणः, ' समो गमृच्छिभ्याम् ' ( पा ० सू ० १ | ३ | २ ९ ) इति स्थलीयेन विदिच्छस्व रतीनामुपसंख्यानम् ' इति वार्तिकेनात्मनेपदम्, ततः शानचि रूपसिद्धि: । द्यावापृथिवी द्यावापृथिव्यौ अन्वाततन्य विस्तारितवान् । ' तनु विस्तारे ' इत्यस्माल्लिटि ' बभूथाततन्थजगृम्भववर्थेति निगमे ' ( पा ० सू ० ७ | २ | ६४ ) इति निपातित: । है इन्दो, तस्मै ते तुभ्यं हविषा विधेम हविर्दद्मः विभक्तिव्यत्ययः । विदधतिर्दानार्थः । वयं च हविःप्रदानानन्तरं रयीणां पतयः स्याम भवेम । इत्येष सोमवतां पितॄणां षडृचः समाप्तः सम्पूर्णः । अध्यात्मपक्षे - हे सोम, पूर्वजैः पितृभिः संविदानः संवादं कुर्वाणोऽनायासेन द्यावापृथिव्यौ आततन्थ विस्तारितवान् । हे इन्दो चन्द्रवत्प्रियदर्शन चन्द्रशेखर, तस्मै ते हविर्नैवेद्यं समर्पयामः । वयं त्वत्प्रसादज्ज्ञानवैरा-ग्यादिदैव सम्पदां पतयोऽधिकारिणः स्याम भवेम । दयानन्दस्तु - ' हे सोम सुसन्तान, पितृभिः सह संविदानो यस्त्वं द्यावापृथिवी सुखमाततन्थ, हे इन्दो! तस्मै ते वयं हविषा सुखं विधेम, यतो रयीणां पतयः स्याम ' इति, तदपि यत्किञ्चित्, अध्याहारगौणार्थाश्रयत्वयो-निर्मूलत्वात् ॥ ५४ ॥

बर्हिषदः पितर ऊत्यर्वागमा वो ह॒व्या च॑कृ॒मा जु॒षध्व॑म् 1 त आग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ नः॒ शँथ्योर॑र॒पो व॑धात ॥ ५५ ॥

मन्त्रार्थ- - इस मन्त्र से बर्हिषद पितरों का उपस्थान करते हैं । हे कुशासन पर विराजमान होने वाले पितरों! आप सब हमारी रक्षा के लिये कल्याण बुद्धि से यहाँ आइये । आप लोगों के लिये हमने यह हवि तैयार की है । आप इसका सेवन कीजिये । परम सुखदायक इस हवि से तृप्त होकर आप लोग हमें सुख और अभय प्रदान कीजिये, पापों से हमें मुक्त रखिये ॥ ५५ ॥

बर्हिषद इति तस्र ऋचो बर्हिषदां पितॄणाम् । बर्हिषि दर्भे सोदन्तीति बर्हिषदः, पृषोदरादित्वादन्त्या-क्षरलोपः । एते पितरो हविर्यज्ञयाजिनः । हे बर्हिषदः पितरः! ते यूयमूत्या अवनेन मिमित्तेन अर्वागागत आगच्छत । किमर्थमिति चेत्? वो युष्माकम् इमा इमानि हव्या हव्यानि हवींषि वयं चक्रुम कृतवन्तः " तानि जुषध्वं सेवध्वम् । अथ अनन्तरं शन्तमेन सुखयितृतमेन अवसा अन्नेन तर्पिताः सन्तो नोऽस्माकं शंयोः, पद-द्वयमेतत्, शं सुखं । गशमनं योर्भेयपृथक्करणम्, अरपः पापाभावं च दधात धत्त स्थापयत । ' रपो रिप्रमिति पापनामनी भवतः, शमनं च रोगाणां यावनं च भयानाम् ' ( निरु ० ४।२१ ) । दधातेति ' तप्तनप्तनथनाश्व ' ( पा ० सू ० ७ | १ | ४५ ) इति तकारस्य तबादेशात् पित्त्वेन ङित्वाभावात् ' श्नाभ्यस्तयोरातः ' ( पा ० सू ० ६ | ४ | ११२ ) इत्यालोपाभावः ।

पृष्ठ 312

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 312 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७६ शुक्ल यजुर्वेद संहिता [ अ ० १ ९ अध्यात्मपक्षे - हे पितरः पितृतुल्या बर्हिषदो दर्भासीनास्तपोधनाः, यूयम् ऊती ऊत्या अवनेन हेतुना अर्वाक् परमात्मलोकादधस्ताद् बाह्यं जगद् आगत आगच्छत । वो युष्माकम् इमा इमानि हव्या हव्यानि ज्ञानलक्षणानि हवींषि वयं चकुम कृतवन्तः । वयं युष्मभ्यं सकाशात् सम्पादयिष्यामः । अथ आगमनानन्तरं शन्तमेन ज्ञानलक्षणेन अवसा अन्नेन नोऽस्माकं शंयोः शमनं रोगाणां यावनं च भयानाम्, अन्यदपि अरपं पापाभावं दधात धत्त, ' गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा । पापं तापं च दैन्यं च हन्ति साधुसमागमः ॥ ' इत्यभियुक्तोक्तेः । दयानन्दस्तु - ' हे बर्हिषदः, बर्हिषि उत्तमायां सभायां सीदन्तीति तथोक्ताः पितरः पालकाः, वयमर्वाग् येभ्यो वो युष्मभ्यमिमा इमानि हव्या अत्तुमर्हाणि चक्रम तानि यूयं जुषध्वम् । शन्तमेनावसा रक्षोघ्नेन सहागत । अथ नः शमरपश्च दधात दुःखं च योः दूरीकुरुत ' इति तदपि यत्किञ्चित् बर्हिषद इत्यस्य तथार्थत्वे माना-भावात् । अर्वागित्यस्य पश्चादित्यर्थोऽपि निर्मूल एव । संस्कृतानि कुर्म इत्यपि तथाभूत एवार्थः । न च सर्वैः सभासदां कृतेऽन्नानि संस्क्रियन्ते ॥ ५५ ॥

आहं पितॄन् सुविदत्राँ २ ॥ अवित्सि॒ि नपा॑तं च विक्रम॑णं च॒ विष्णोः ' ।

बह॒षसो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥ ५६ ॥

मन्त्रार्थ - मैं कल्याण देने वाले पितरों को अच्छी तरह से जानता हूँ । व्यापक और अच्युत देवयान मार्ग को और अनेक प्रकार के गमन वाले, जहाँ से कि लौट कर आना पड़ता है, पितृयान मार्ग को मैं जानता हूँ । कुशा के आसन पर बैठने वाले पितृगण स्वधा रूपी अन्न के साथ अभिषुत सोम का सेवन करने के लिये यहाँ पधारें ॥ ५६ ॥

अहं पितॄन् आ आभिमुख्येन अवित्सि वेद्मि विदितवान् । विदेर्लङि आत्मनेपदे उत्तमैकवचने रूपम् । कथंभूतान् पितॄन्? सुविदत्रान् सुष्ठु विशेषेण ददतीति सुविदत्राः कल्याणदानास्तान् । ' सुविदत्रं धनं भवति विन्दते कोपसर्गाद् दक्षतेर्वा स्याद् द्वयुपसर्गात् ' ( निरु ० ७१ ९ ) इति तत्रभवान् यास्क: । ' सुविदेः कत्र: ' ( उ ० ३।१०८ ) इति कत्रप्रत्ययेन साधुः । विष्णोः वेवेष्टीति विष्णुस्तस्य व्यापनशीलस्य यज्ञस्य, ' यज्ञो वै विष्णुरिति ( रा ० १ | १ | ३ | १ ) इति श्रुतेः । नपातं विक्रमणं च वेद्मि । नास्ति पातो यत्र स नपातो देवयानः पन्थाः । तत्र गतानां पातो नास्ति । विविधं क्रमणं गमनागमनं यत्र स विक्रमणः पितृयाणः पन्थाः । तत्र हि अरघट्टघटीवद् उत्तराधरं प्राणिनो गच्छन्ति, कर्मफलभोगान्ते पतन्तीति यावत् । यज्ञसम्बन्धिनो तो देवयानपितृयाणौ पन्थानौ अवेत्सि, आभिमुख्येन वेत्यर्थः । कर्मापासनसमुच्चयानुष्ठायी देवयानेन पथा ब्रह्मलोकमुपगत्य न पुनरावर्तते । केवल कर्मानुष्ठायी पितृयाणेन पथा पितृलोकमुपेत्य कर्मफलभोगान्ते पुनरावर्तते । अतो ब्रवीमि ये बर्हिषदः पितरः स्वधया सवनीयलक्षणेनान्नेन सह सुतस्याभिषुतस्य सोमस्य पित्वः पानं भजन्त भजन्ते सेवन्ते, ' भज सेवाय्यम् ', लङ् अडभावः, त इह पक्षे आगमिष्ठा आगच्छन्तु । लोडर्थे लुङ्, पुरुषवचनव्यत्ययश्च । अध्यात्मपक्षे – अहं शोभनदानान् पितृतुल्यान् दर्भासीनान् सिद्धान् ब्रह्मविद्वरिष्ठान् गुरून् आभिमुख्येन शुद्धभावनया वेद्मि तदुपास्ति करोमि । ' मायां न सेवे भद्रं ते न मृषा धर्ममाचरे । शुद्धभावं गतो भक्त्या शास्त्राद्वे जनार्दनम् || ' ( म ० मा ० उद्यो ० ६ ९ / ५ ) इति भगवद्वेदव्यासवचनात् । विष्णोर्भगवतो व्यापकस्य ब्रह्मणो नपातमपुनरावर्तनं पन्थानं विक्रमणं पुनरावर्तनं च पन्थानं वेद्मि । ये पितरस्तादृशाः स्वधयान्नेनोपभोग्येन ब्रह्मणा सह सुतस्य सोमस्य तज्ज्ञानामृतस्य पित्वः पानं भजन्ते, त इह स्थानेऽस्मदन्तःकरणे वा आगमिष्ठा भागच्छन्तु ।

पृष्ठ 313

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 313 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

मं ० ५६-५८ ] वेदार्थपारिजातभाष्यसहिता २७७ दयानन्दस्तु - ' ये बर्हिषदः पितरः स्वधया सुतस्य पित्वश्चाभजन्त सेवन्ते, त आगमिष्ठाः । य इह विष्णोर्नपातं विक्रमणं च विदन्ति तान् सुविदत्रान् पितॄनहमवित्सि ' इति, तदपि यत्किञ्चित् स्वधया अन्नेन सुतस्य निष्पादितस्य पित्वः सुरभिपानं भजन्त इति विसङ्गतेः । हिन्दीभाष्ये तु स्वधया तृप्तस्येति तद्विरुद्धमुक्तम् । ' अवित्सि विष्णोर्नपातं विक्रमणं च विदन्ति ' इत्यपव्याख्यानम् मन्त्रे विदन्तीति क्रियाया अभावात् । न च ' अविसि ' इत्यस्य सोऽर्थ इति वाच्यम्, ' वेद्मि ' इति त्वद्वयाख्यानविरोधात् ॥ ५६ ॥

उप॑हूताः पि॒तर॑ः सो॒म्यास ' बह॒ष्येषु निधिषु ' प्रि॒येषु ' ।

त • आग॑मन्तु त इ॒ह भ॑व॒न्स्वध बुवन्तु तेऽवन्त्व॒स्मान् ॥ ५७ ॥

मन्त्रार्थ - हे पितृगण! आप लोग इस यज्ञ में आयें, प्रिय कुशाओं पर स्थित निधि के समान स्थापित हवियों के भक्षण के निमित्त बुलाये गये सोमपान के योग्य पितृगण हमारे इस आह्वान को सुनें । वे पिताओं को पुत्रों से जो कहना चाहिये, वह हमसे कहें और हमारी रक्षा करें ॥। ५७ ॥ हे पितरः! भवन्त इह यज्ञे आगमन्तु आगच्छन्तु, व्यत्ययेन शपो लुक् 1 आगत्य च श्रुवन्तु अस्मद्वचनं शृण्वन्तु । श्रुत्वा च अधिब्रुवन्तु पितृभिः पुत्राणां यद् वक्तव्यं तद् ब्रुवन्तु । सत्यसङ्कल्पद्वारा तत्प्रेरणयोपदिशन्तु । तथा तेऽस्मानवन्तु । कीदृशाः पितरः? प्रियेष्वभिरुचितेषु हविष्षु निमित्तभूतेषु उपहृताः । पुनः कीदृशाः? सोम्यासः सोम्याः । कीदृशेषु प्रियेषु? बर्हिष्येषु बर्हिषि दर्भे भवन्ति बर्हिष्याणि तेषु बर्हिषि सादितेषु । पुनः कीदृशेषु? निधिषु निधिवत्स्थापनीयेषु तादृशप्रियहविर्भागायोपहूता इत्यर्थः । अध्यात्मपक्षे – हे पितरः, उपहूताः सोम्यासो बर्हिष्येषु दर्भवत्पवित्रेषु साधकेषु भवेषु तद्धृदय स्थितेषु प्रियेषु भविषु - ' खं वायुमग्नि सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्समुद्रांश्च हरेः शरीरं यत्किञ्च भूतं प्रणमेदनन्यः ॥ ( भा ० पु ० ११ | २ | ४१ ) इत्यादिवचनसमर्थितेषु निधिषु निधिवत्पालनीयेषु निमित्तेषु, आगमन्तु आगच्छन्तु, साधकानां तत्त्वज्ञानदानार्थमागच्छन्तु, आगत्य च अस्मत्प्रश्नवच आशीर्वचो वा शृण्वन्तु । श्रुत्वा च अधिब्रुवन्तु तदुपरि तद्विषये यद्वक्तव्यं तद् ब्रुवन्तु । न केवलं ब्रुवन्तु, किन्तु विशेषानुग्रहेण तत्त्वज्ञानोत्पादनेन अविद्याजन्याज्जननमरणाविच्छेदलक्षणात् संसारादवन्तु । दयानन्दस्तु - ' ये सोम्यासः पितरो बर्हिष्येषु प्रियेषु निधिषु बर्हिषूत्तमेषु साधुषु निधिषु कोशेषु उपहूतास्त इहागमन्तु आगच्छन्तु । त इह श्रुवन्तु अधिब्रुवन्तु अवन्तु ' इति, तदपि यत्किञ्चित्, वेदेषु तदुपदेशासम्भवात् रत्नादिनिमित्तह्वानस्य लौकिकत्वात् पितृपुत्रादिव्यवहारस्यापि लोकत एव प्राप्तेः ॥ ५७ ॥

आय॑न्तु नः पि॒तर॑सो॒म्यासोऽग्निष्वात्ताः पथिभिर्देवयानः ।

अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मद॒न्तोऽधि॑ब्रुवन्तु॒ तेऽवन्त्व॒स्मान् ॥ ५८ ॥

मन्त्रार्थ - अग्निवास पितरों का अब उपस्थान करते हैं । सोम के योग्य अग्नि द्वारा स्वादित हमारे पितृगण देवयान मार्ग से आवें, इस यज्ञ में स्वधा नामक अन्न से प्रसन्न होते हुए हमें मानसिक उपदेश वें और हमारी रक्षा करें ॥ ५८ ॥

पृष्ठ 314

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 314 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२७८ शुक्लयजुर्वेदसंहिता [ अ ० १ ९ , सोम्यासः सोम्या: सोमपानार्हाः, अग्निष्वात्ता चतस्र ऋचोऽग्निष्वात्तानां पितॄणाम् । नः अस्माकम् कर्मानुष्ठायिनो देवयानैर्देवैः सह यान्ति अग्निना स्वात्ताः सुष्ठु स्वादिताः, अग्निर्यान् दहन स्वादयति, श्रौतस्मार्त । येषां पुत्रादिभिरेतत्कर्मानुष्ठीयते, त पितरो येषु ते देवयाना मार्गाः, तैः पथिभिर्मार्गः, आयन्तु आगच्छन्तु जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण आगच्छन्त्विति सम्बन्धः । तथा चाह भगवान् मनुः - ' पुत्रेण लोकान् आगत्य अस्मिन् यज्ञे स्वधयान्नेन मदन्तस्तृप्यन्तः, ब्रध्नस्याप्नोति विष्टपम् || ' ( म ० स्मृ ० ९ ।१३७ ) । किञ्च, पितर ब्रुवन्तु । तदीयात् तथाभूताद्वाक्यादेव वयमधिका तुष्टाः सन्त्विति यावत् । नः अस्मान् अधिब्रुवन्तु अधिकान् स्यामेत्यर्थः । ते पितरोऽस्मानवन्तु पालयन्तु । स्वादिताः, अध्यात्मपक्षे – नोऽस्माकं पितरस्ते पितृतुल्यास्ते येऽग्निष्वात्ता रिहायान्तु अग्निना । आगत्य ज्ञानेन ते स्वात्ताः स्वधया ब्रह्मलक्षणे-देवयानैः पथिभिर्देवीं सम्पदमुपगता:, यैः पथिभिर्मार्गच्छन्ति तैर्मार्गे तथोपदेशेन अस्मानवन्तु पालयन्तु । नान्नेन मदन्तस्तृप्यन्तो नोऽस्मभ्यमधि सर्वाधिकं ब्रह्म ब्रुवन्तु । ते । दयानन्दस्तु -- ' ये सोम्यासोऽग्निष्वात्ता गृहीताग्निविद्या नः पितरः सन्ति, ' ते इति देवयानैः , तदपि पथिभिरायन्तु यत्किञ्चित्, अस्मिन् यज्ञे वर्तमाना भूत्वा स्वधया मदन्तः सन्तोऽस्मानधिब्रुवन्तु कथमित्यनुक्तः , अस्मानवन्तु , धार्मिका धर्ममार्गेणैवायन्तोति गौणार्थाश्रयणात्, अग्निष्वात्ता इत्यस्य अग्निविद्यानैपुण्यमर्थः पुत्राणां तेभ्यस्तथोपदेशानुपपत्तेः ॥ ५८ ॥

अग्निष्वात्ताः पितर एह गच्छत् सर्वः सदः सदत सुप्रणीतयः । अ॒त्ता ह॒वोषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यि ं सबैवीरं दधातन ॥ ५६ ॥

-नीति वाक्यों का उपदेश करते मन्त्रार्थ - हे अग्निष्वात्त पितरों! हमारे इस यज्ञ में आप लोग आयें, सुन्दर पूर्वक भक्षण करें और सकल हुए इस समास्थान में विराजमान हों, कुशाओं पर नियम से स्थापित हवियों को पवित्रता ५ ९ ॥ वीरपुत्र, धन आदि को सब ओर से लाकर हमें दें ॥ हे अग्निष्वात्ताः पितरः इह यज्ञे यूयमागच्छत । आगत्य च सदः सदः कथंभूता प्रतिभक्तपुत्रादिगृहं यूयम्? सुप्रणीतयः सदत सोदत उपविशत । वीप्सायाम् ' नित्यवीप्सयो: ' ( पा ० सू ० ८ । १ । ४ ) इति द्वित्वम् हवींषि । अत्ता अत्त भक्षयत । अत्तेर्लोटि शोभना प्रणीतिः प्रणयनं येषां ते तथोक्ताः । ततः सदस्युपविष्टाः सन्तो स्थापितानि प्रकर्षेण यम्यन्ते नियम्युन्त संहितायां दीर्घः । कीदृशानि हवींषि? बर्हिषि दर्भे प्रयतानि नियमपूर्वक अनन्तरं तृप्ताः सन्तः सर्ववीरं सर्वे वीरा इति तानि । अथवा व्यपगत रागद्वेषमो हैरभिसंस्कृतानि शुचीनि । अथ ) इति ' अथा ' इति निपातस्य दीर्घः । यत्र तादृशं रयि धनं दधातन स्थापयत ' निपातस्य च ' तनबादेशः ( पा ० सू ० । ६।३।१३६ ' तप्तनप्तनथनाश्च ' ( पा ० सू ० ७ १/४५ ) इति तकारस्य अध्यात्मपक्षे -- हे अग्निष्वात्ता ज्ञानाग्निना स्वादवन्तः सुप्रणीतयः शोभना प्रणीतिर्वेदान्ततात्पर्यनिर्धारण- सदः पद्धतिर्येषां ते । पितरः पितृतुल्या ब्रह्मविद्वरिष्ठाः 1 यूयमिह जिज्ञासूनां सदस्सु आगच्छत, आगत्य च सदः प्रतिसदः सदत उपविशत । उपविष्टाः सन्तो हवींषि अत्त । कीदृशानि? बर्हिषि दर्भे प्रयतानि नियमपूर्वक-

पृष्ठ 315

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 315 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ५ ९ -६० ] वेदार्थ पारिजातभाष्यसहिता २७ ९ स्थापितानि । यद्वा दर्भवत्पवित्रे वेदान्ते प्रयतानि स्थापितानि हवींषि ब्रह्मलक्षणानि अत्त अनुभावयत | अन्तर्भावि-तण्यर्थो द्रष्टव्यः । पूजायां बहुवचनम् । दयानन्दस्तु - ' हे सुप्रणीतयोऽग्निष्वात्ताः पितरः, यूयमिहागच्छत । सदः सदः सदत । प्रयतानि हवींषि अत्त । बर्हिषि स्थित्वास्मदर्थं सर्ववीरं रयिं दधातन ' इति, तदपि यत्किञ्चित् बहिः पदस्य तादृशार्थत्वे माना-भावात्, विद्याप्रचारायागतानां सकाशात् सर्ववीरधनप्रार्थनानुपपत्तेश्च ॥ ५ ९ ॥ ये अ॒ग्निष्वात्ता ये अनग्निष्वात्ता मध्ये दिवः स्व॒धया॑ मादय॑न्ते । तेभ्यः॑ स्वराडसु॑नीतिमे॒तां य॑थाव॒शं तन्वं कल्पयाति ॥ ६० ॥

मन्त्रार्थ - जिन अग्निष्वात्त पितरों का विधिपूर्वक अग्निदाह कर और्ध्वदेहिक कर्म हुआ है और जिनका अग्नि सेवाह नहीं हुआ है, जो द्युलोक में अपने द्वारा उपार्जित कर्मों के भोग से प्रसन्न रहते हैं, स्वर्गपति धर्मराज उन पितरों को इच्छानुसार इस मनुष्य सम्बन्ध वाले प्राणयुक्त शरीर को देता है, अर्थात् यम की आज्ञा से उनको स्वकर्मानुसार पवनाश्रित शरीर मिलता है और वे अपने पुत्र आदि के द्वारा किये गये शास्त्रोक्त आह्वान में जाते हैं । उनके निमित्त दिया हुआ अ विश्वेदेव देवताओं के द्वारा सुक्ष्म भाव से प्राप्त होता है ॥ ६० ॥

ये पितरः अग्निष्वात्ता अग्निना स्वादिताः, अग्निना दग्धाः सन्तो विधिवदौर्ध्वदेहिकं प्राप्ताः, ये च अग्निष्वात्ता न अग्निना स्वादिताः श्मशानकर्माप्राप्ता अदग्धाः सन्तो दिवः स्वर्गस्य स्वधया अन्नेन, स्वकर्मोपार्जि-तेनेति यावत्, मादयन्ते तप्यन्ति सुखं सेवन्ते, तेभ्यः पितृभ्योऽर्थे स्वराट् स्वेनैव अन्यनिरपेक्षतया राजत इति स्वराड् अकृतकैश्वर्यौ यमो यथावशं वशमभिलाषमनतिक्रम्य वर्तत इति यथावशं यथाकाममेतां मनुष्य सम्बन्धिनीं तन्वं शरीरं कल्पयाति कल्पयत, तेभ्यो नरशरीरं यमो ददात्वित्यर्थः । कीदृशीं तन्वम्? असुनीतिम् असून् प्राणान् नयतीत्य सुनीतिः, महाप्राणयुक्ता इति यावत् चिरकालजीविनीति तात्पर्यम् । उव्वटाचार्यास्तु — तेभ्य इति स्थाने विभक्तिव्यत्ययेन तेषामिति विपरिणमय्य ' कृते ' इत्यध्याहृत्य एतामिति स्थाने लिङ्गव्यत्ययेन एतमिति विपरिणमय्य कण्डिकार्थं विदधति । अत्र पक्षे विपरिणामादिगौरवम् । अध्यात्मपक्षे- ये ब्रह्मोपासका ब्रह्माभ्यासपरायणास्तेऽग्निष्वात्ताः कृतोर्ध्वदेहिकाः, अनग्निष्वात्ता अकृतोर्ध्वदेहिका वा ते दिवो द्युलोकस्य मध्ये स्वधया दिव्यभोगेन मादयन्ते तृप्यन्ति, तेभ्यः पितृभ्यः पितृतुल्येभ्यो जगद्धितकारिभ्यो विशेषेण स्वराट् परमेश्वरो यथावशं यथारुचि एतामसुनीति चिरजोविनीं तन्वं कल्पयाति कल्पयति, संस्कारने रपेक्ष्येण तेषां सद्गतिरित्यर्थः । दयानन्दस्तु - ' येऽग्निष्वात्ता येऽनग्निष्वात्ता ज्ञाननिष्ठाः पितरो दिवो मध्ये स्वधया स्वकीयपदार्थधारण-क्रिया मादयन्ते आनन्दयन्ति तेभ्यः स्वराड् या असून् प्राणान्नयति तां यथावशं तन्वं कल्पयेत् समर्थां कुर्यात् ' इति, तदपि यत्किञ्चित् स्वधापदस्य तथार्थत्वे मानाभावात् । पदार्थविद्यावतामभीष्टतनुप्राप्तिरपि निर्मूलैव, तथात्वे कर्मोपासनज्ञानशून्यानामाधुनिकानां पदार्थविद्याकुशलानामपि सद्गतिसिद्धयापत्तेः । न चेष्टापत्तिः, वेदतदुक्तार्थनिष्ठानामेव सद्गतिरिति सिद्धान्तव्या कोपात् ॥ ६० ॥

पृष्ठ 316

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 316 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८० शुक्लयजुर्वेदसंहिता

अग्निष्वात्तानृतुमतो ' हवामहे नाराश॒से सोमपीथं य आशुः ।

ते नो विप्रा॑सः सुहव भवन्तु व॒य, स्या॑म॒ पत॑यो रयीणाम् ॥ ६१ ॥

[ अ ० १ ९ मन्त्रार्थ - ऋतुमान् अग्निष्वात्त नामक पितरों को हम बुलाते हैं । जो पितृगण चमस पात्र में सोमपान करते हैं, वे वेदाध्ययनस्पस हमें सुख - सुविधा से सम्पन्न करें, हमें बिल धन का स्वामी बनायें ॥ ६१ ॥

अग्निष्वात्तान् ऋतुमतः ' वसन्ताय कपिञ्जलानालभते ' ( वा ० सं ० २४ ( २० ) इत्यादिविधिप्राप्तर्तुदेवता विद्यन्ते येषु ते ऋतुमन्तस्तान् ऋतुयुक्तान् पितॄन वयं हवामहे आह्वयामः । ये पितरो नाराशंसे चमसे सोमपीथं सोमपानम् आशुः अनन्त । नाराशंसे चमसे पितॄणां भक्षः श्रूयते । तथाहि श्रुतिः -- ' अथ यदि नाराश सेषु सन्नः । किञ्चिदापद्येत पितृभ्यो नाराशं सेभ्यः स्वाहेति जुहुयात् ' ( श ० १२/६/१/३३ ) इति । विप्रासो मेधाविनस्ते पितरो नोऽस्माकं सुहवा: स्वाह्वाना भवन्तु, अस्मदाहूताः शीघ्रमायान्त्वित्यर्थः । एवं पितृष्वाहूतेषु वयं तेषां प्रसादाद् रयीणां पतयः स्याम । अध्यात्मपक्षे - अग्निष्वात्तात् ऋतुमतः सर्वे प्रशस्ता ऋतवस्ताननुसरन्तीति ऋतुमन्तस्तान् पितॄन, ' भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ ' इति प्रशंसार्थे मतुब्विधानात् । ये च नाराशंसे चमसे सोमपीथं सोमपानमाशुः प्राप्नुयुः, ते चाहूयमाना विप्रासः सुहवाः स्वाङ्खाना भवन्तु । सार्वात्म्यविवक्षया वा परमेश्वर एवाग्निष्वात्तादिपितृरूपेण श्राद्धतर्पणादिभिः पूज्यते स्तूयते । दयानन्दस्तु - ' ये सोमपीथमाशुरश्नीयुः, यानृतुमतोऽग्निष्वात्तान् पितॄन् वयं नाराशंसे नराणां प्रशंसामये सत्कारव्यवहारे हवामहे, ते विप्रासो नः सुहवा भवन्तु वयं च तत्कृपातो रयीणां पतयः स्याम ' इति, तदपि यत्किञ्चित्, मनुष्यमात्राणां त्वदभिमतानां पितॄणां कृपातो रयिपतित्वासम्भवात्, नाराशंसाशब्दस्य सोमग्रह विशेषे रूढस्य नराणां प्रशंसामात्रार्थताया व्यवहारार्थतायाश्च निर्मूलत्वात् कर्मोपासनब्रह्मज्ञानवादिभिरपि नराणां प्रशंसा सम्भवेन तत्रातिव्याप्तेः ॥ ६१ ॥

आच्या जानुं दक्षिणतो निषद्येमं मा हिंसष्ट पितरः केचिन्नो यद्व

य॒ज्ञमभिर्गुणोत॒ विश्वे ।

आर्गः पुरुषता कराम ॥ ६२ ॥

मन्त्रार्थ - हे पितृगण! आप वाम जंघा को झुकाकर दक्षिण मुख बैठकर इस यज्ञ की प्रशंसा कीजिये । चित्त की चंचलता के कारण किसी प्रकार का अपराध हो जाने पर हमारे ऊपर क्रोध मत कीजिये, क्योंकि मनुष्य स्वभाव वश हमसे भूल हो जाती है, उसे आप लोग क्षमा करें ॥ ६२ ॥

दशर्चोऽनुवाकः । तत्र नव पित्र्याः । दशमी ऐन्द्री गायत्री । द्वितीया तृतीये नवमी चानुष्टुभा । शिष्टास्त्रिष्टुभः । यद्यपि कात्यायनेन आच्या जान्वित्यनुवाकस्य विनियोगो नोक्तः, तथापि पूर्वतनस्य उदीरतामिति त्रयोदशर्चस्य अस्य च आच्या जान्विति दर्शर्चस्य चानुवाकद्वयस्य श्राद्धेऽश्नत्सु द्विजेषु लैङ्गिको जपे विनियोगः कल्पनीयः । अनुवाकेऽस्मिन् नव पितृदेवत्याः । दशमी चैन्द्री । अन्त्या गायत्री, तृतीयाचतुर्थी नवम्योऽनुष्टुभा शिष्टास्त्रिष्टुभः । हे विश्वे सर्व पितरः सोमवन्तो बर्हिषदोऽग्निष्वात्ताश्च । यूयमिमं यज्ञं सोत्रामणीमभिगृणीत अभिष्टुवीत । दक्षिणा मन्त्रकाल कर्तृ हविर्यजमानोत्कर्षसौष्ठवात् साध्वयं यज्ञः सम्पन्न इति यज्ञस्यास्य स्तुति

पृष्ठ 317

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 317 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० ६२-६३ ] der पारिजातभाष्यसहिता २८१ कुरुतेत्यर्थः । किं कृत्वा? जानु वामजानु आच्य पातयित्वा तथा दक्षिणतो निषद्य दक्षिणाभिमुखा उपविश्य तेषां तथाविधस्वभावत्वात्, ' अथैनं पितरः प्राचीनावीतिनः सव्यं जान्वाच्योपासीदन् ' ( श ० २/४/२२ ) इति श्रुतेः । किञ्च, हे पितरः! केनचिदप्यपराधेन नोऽस्मान् मा हिसिष्ट अस्माकं वधमपकारं मा कार्ष्ट । पुरुषता पुरुषस्य भावः पुरुषता तथा । विभक्तिलोपः । पुरुषस्वभावेन अनवस्थितचित्तत्वेन वो युष्माकमागोऽपराधं वयं कराम कुर्मा यद् यद्यपि, तथापि मा हिसिष्ट मा बाधिष्ट । करोतेर्लङि शपि अडभावे च रूपम् । अध्यात्मपक्षे – अत्रापि पितृरूपेण परमेश्वर एव प्रार्थ्यते । व्याख्यानं तु पूर्ववदेव । दयानन्दस्तु - ' हे विश्वे पितर, यूयं केनचिद्धेतुना नो या पुरुषता, तां मा हिसिष्ट यतो वयं सुखं कराम | यद्वा आगस्तत्त्याजम्वेम । यूयमिमं यज्ञमभिगृणीत । वयमाच्य जानु दक्षिणतो निषद्य युष्मान् सततं सत्कुर्याम ' इति, तदपि यत्किञ्चित्, गौणार्याश्रयणात् । तथाहि - पुरुषतापदेन तादृशगौणार्थग्रहणे कि बीजम्? त्याजयेमेति पदं मन्त्रे कविद्यते? किञ्च, नहि सत्कारार्हाणामपराधं सत्कर्तारस्त्याजयन्तीति श्लिष्यते । न वा तान् स्वप्रशंसा-करणार्थं प्रेरयन्ति । न वा जानु पातयित्वा आराधकस्य पूज्यानां दक्षिणतः स्थानं युक्तमिति शिष्टाचारः । दिवङ्गत पितॄणां तु तादृशशिष्टाचार इत्युदाहृतश्रुत्यैव सिद्धम्, यत् पितर एव वामजान्वाच्य दक्षिणतः सीदन्तीति ॥ ६२ ॥

आसनासो अरुणीनामुपस्थे र ध॑न्त वा॒शुषे॒

मर्त्याय ।

पु॒त्रेभ्य॑ः पितरस्तस्य॒ वस्व॒ प्रय॑च्छत॒ त इ॒होर्जे दधात ॥ ६३ ॥

मन्त्रार्थ - हे पितृगण | लाल ऊन के आसनों पर अथवा अरुण वर्ण सूर्य की किरणों पर, सूर्य लोक की गोद में बैठे हुए आप लोग हवि देने वाले यजमान को धन दीजिये, पुत्रस्वरूप इनको धन दीजिये, जिससे कि वे भी इस यजमान के यज्ञ में आनन्दित हों ॥ ६३ ॥

हे पितरः! दाशुषे हवींषि दत्तवत्ते मर्त्याय यजमानाय रयिमभिलषितं धनं धत्त दत्त । कथम्भूता यूयम्? अरुणीनाम् अरुणवर्णानामूर्णानामुपस्थे उपरिभागे आसीनास आसीना उपविष्टाः 1 । याभिः कुतपाः क्रियन्ते, ता ऊर्णा अरुणा भवन्ति । ' कुतपं चासने दद्यात् ' इति स्मृतेः कुतपप्रियाः पितरः । यद्वा अरुणीनामरुणवर्णानां रश्मीनामुपस्थे उत्सङ्गे आसीना इत्यादित्यलोकजितः पितर उच्यन्ते । अपि च, हे पितर!! पुत्रेभ्यो यजमानेभ्यः । यजमानवचनोऽत्र पुत्रशब्दः, पितॄणां यज्ञे पुत्राणामेव यजमानत्वात् । पुत्राणां यजमानानां यदभीष्टं तस्य वस्वो वसुनो धनस्य प्रयच्छत दत्त । कर्मणि षष्ठ्यौ । ते यूयमिहास्मदोये यज्ञे ऊर्जं रसं दिव्यफलदानसामर्थ्य दधात स्थापयत । अध्यात्मपक्षे --- परमेश्वरस्यैव पितृरूपेण प्रार्थनम् । व्याख्यानं तथाविधमेव । दयानन्दस्तु – ' हे पितरः, यूयमिहारुणीनामरुणवर्णानां स्त्रीणामुपस्थे आसीनाः सन्तः पुत्रेभ्यो दाशुषे यत्र रयिं धत्त, तस्य वस्वोंऽशान् प्रयच्छत, यतस्त ऊर्जं दधात ' इति, तदपि यत्किञ्चित् निर्मूलाध्याहारगौणार्थ-स्वीकारबाहुल्यात् । नहि सत्कारार्हाः पूज्याः पितरः पुत्राणां समक्षमरुणवर्णानां स्त्रीणामुत्सङ्ग आसीना भवन्ति, शिष्टाचारविरोधात् । न च दाशुषे दत्तवत्ते धनदानं युक्तम्, तस्य स्वत एव धनवत्त्वात्, अन्यथा दातृत्वानुपपत्तेः । वस्तुतोऽत्र दिवङ्गत पितॄणामेव संस्तवनम् जानु पातयित्वा दक्षिणतोऽवस्थानस्य कुतपादिदानस्य च तेष्वेव सङ्गतेः । मृत पितॄणां श्राद्धतर्पणाद्यनङ्गीकारादेव क्लिष्टकल्पनया मन्त्राणामन्यथा नयनमर्धनास्तिकानाम् ॥ ६३ ॥

३६

पृष्ठ 318

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 318 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८२ शुक्लयजुर्वेदसंहिता

यमग्ने कव्यवाहन त्वं चि॒न्मन्यसे र॒यिम् ।

तं नो ' गीभिः श्रवाय्यं देवत्रा पंनया युज॑म् ॥ ६४ ॥

[ अ ] ० १ ९ मन्त्रार्थ - हे पितरों को अन्न पहुँचाने वाले अग्निदेव! आप हविरूप जिस धन को भली भाँति जानते हैं, वषट्कार आदि वाणियों से सुनने योग्य हमारी उस हवि को देवताओं के लिये सब ओर से पहुँचाइये ॥ ६४ ॥

चतसृभिर्ऋग्भिः स्विष्टकृदग्निरुच्यते । हे कव्यवाहन, कव्यं पितृभ्यो देयमन्नं वहतीति ' कव्यपुरीषपुरीष्येषु ज्युट् ' ( पा ० सू ० ३२२२६५ ) इति ज्युटि रूपसिद्धिः, तत्सम्बुद्धौ । हे अग्ने! त्वं चित् कव्यवाहनः त्वमपि, यं रयिं हविर्लक्षणं धनं मन्यसे उत्तममवगच्छसि, साधु शक्यते श्रेयः प्राप्तुमनेनेति नोऽस्माकं तं रयिं ' देवमनुष्य पुरुष पुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ' ( पा ० सू ० ५/४/५६ ) इति सप्तम्यर्थे त्राप्रत्ययः देवत्रा देवेषु, संहितायां दीर्घः । अत्र स्तुतेर्दान एव पर्यवसानम् । कीदृशं रयिम्? गीभिः पुरोनुवाक्या याज्या- वषट्कारलक्षणाभि- । पनया देहि । र्वाग्भिः श्रवाय्यं श्रोतं योग्यम्, ' श्रु दक्षिस्पृहिगृहिभ्य आय्य: ' ( उ ० ३३ ९ ६ ) इत्याय्यप्रत्यये याद्यज्ञपशी श्रवणीयेऽपि कीर्त्यते ' इति वेदान्ती महादेवः । युजम्, युज्यत रूपसिद्धिः । ' श्रवाय्यः ७६ ) इति किपि साधुः, तम् । नहि यथाकथञ्चित् सम्पादितं धनं योग्यं इति भवति युग्, अपि योग्यः तु, धर्मानुबन्धमर्थानुबन्ध ' किप् च ' ( पा ० सू ० धनं योग्यम् | अध्यात्मपक्षे - हे कव्यवाहन अग्ने, तत्तदुपाधिकपरमात्मन् त्वं चित् त्वमपि यत् श्रेष्ठं राय गोभिः स्तुतिलक्षणाभिर्वाग्भिः श्रवाय्यं श्रवणार्हं युजं योग्यं देवत्रा देवेभ्योऽर्थाय पनया देहि । धनं मन्यसे, दयानन्दस्तु --- ' हे कव्यवाहनाग्ने, कविषु साधुनि वस्तुनि वहति यस्तत्सम्बुद्धो, त्वं गीर्भिः श्रवाय्यं देवत्रा देवेषु विद्वत्सु युजं योक्तुमहं यं रयि मन्यसे, तमपि नोऽस्मभ्यं पनया देहि ' इति, तदपि न मनोज्ञम्, कव्यशब्दस्य पितृदेयान्नेषु रूढत्वात् । त्वद्वयुत्पत्त्या हव्यकव्ययोर्भेदाभावप्रसङ्गात् । त्वया तु णिजन्तादेव श्रुधातोराय्यो विहितः । तदपि तव कामवादमात्रम्, ततः प्रकृतेरेव आय्यविधानात् । अन्यथा दक्षिस्पृह्यादिवत् श्रावति णिजन्तमेव प्रयुञ्जीत । यदि तु धातुनिर्देशं मन्यसे तर्हि प्रकृतावेव कथं तद्वंधुर्यम्? हन्त! शास्त्रेषु सर्वेष्वस्य कामचारः ॥ ६४ ॥

यो अग्निः कव्यवाहनः पितन् यक्षंदृतावृधः ।

प्रेदु हव्यानि वोचति देवेभ्य॑श्च पि॒तृभ्य॒ आ ॥ ६५ ॥

मन्त्रार्थ -- जो कव्य पहुँचाने वाला अग्नि सत्य अथवा यज्ञ को बढ़ाने अग्नि देवताओं और पितरों के लिये हवियों को सब ओर से वाले पितरों का यजन करता था, वही ले जाता है ॥ ६५ ॥

यः कव्यवाहनोऽग्निः, ऋतावृध ऋतं सत्यं यज्ञं वा वर्धयन्ति ये वृधो यज्ञवृधो वा, तान् पितॄन् यक्षद् इष्टवान् यजेर्लेटि ' सिब्बहुलं लेटि ते ऋतावृधः, संहितायां दीर्घः, सत्य-बन्धलोपे तिपि ' इतश्च लोपः परस्मैपदेषु ' ( पा ० सू ० ३२४ / ९ ७ ) इतीकारलोपे ' ( पा ० सू ० ३ | १ | ३४ ) इति सिप्यनु-इत्यडागमे, ' व्रश्वभ्रस्जसृजमृजयजराजभ्राजच्छशां ष: ' ( पा ० सू ०८ / २ /, ' लेटो s डाटौ ' ( पा ० सू ० ३ | ४ | ९ ४ ) ८२/४१ ) इति षकारस्य ककारे, ' आदेशप्रत्यययो: ' ( पा ० सू ० ८ / ३ / ३६ ५ ९ ) ) इति इति षान्तादेशे सस्य मूर्धन्यादेशे , षढोः कः सि ' ( पा ० सू ० , कषयोः संयोगे

पृष्ठ 319

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 319 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

भ ० ६५-६६ ] वेदार्थ पारिजातभाष्यसहिता २८३ क्षत्वे रूपसिद्धिः । सोऽग्निः, इदानीं देवेभ्यश्च पितृभ्यश्च हव्यानि हवींषि प्रवोचति प्रब्रवीतु । इमानि देवेभ्यः, इमानि पितृभ्य इति वदस्वित्यर्थः । इत् - उ - निपातौ पादपूरणार्थी । आकारः समुच्चयार्थः । ' वच परिभाषणे ' इत्यस्य ' अदिप्रभृतिभ्यः शपः ' ( पा ० सू ० २ | ४ | ७२ ) इति प्राप्तशब्लोपस्य व्यत्ययेनाभावे, छन्दसि ' वच उम् ' ( पा ० सू ० ७/४/२० ) इत्युमागमे गुणे च रूपम् । अध्यात्मपक्षे --- कव्यवाहनाद्युपाधिकः परमेश्वरः प्रार्थ्यते । व्याख्यानं पूर्ववदेव, निरुपचारेण परमेश्वर एव तादृशसामर्थ्योपपत्तेः । दयानन्दस्तु — ' यः कवीनां प्रशस्तानि कर्माणि प्रापयति, स कव्यवाहनोऽग्निविद्वान् ऋतावृधः पितॄन् यक्षत्, इदु देवेभ्यः पितृभ्यो हव्यानि वा वोचति ' इति, तदपि यत्किञ्चित् देवेभ्यो विद्वद्भयः पितृभ्यो ज्ञानिभ्यो वाहयानां विज्ञानानां प्रवचनस्य निरर्थकत्वात् विज्ञानवतामेव विद्वत्त्वाज्ज्ञानित्वाच्च । किञ्च यः पितॄन् जति स एव तेभ्यो विज्ञानमुपदिशेदिति विप्रतिषिद्धम् । यत्तदोर्नित्यसम्बन्धवत्त्वेन व्यावर्त्यभावादेव इदिति न निर्धारणार्थकः ॥ ६५ ॥

स्वमग्न ईडितः कव्यवाहनावाढव्यानि सुरभीणि कवी ।

प्रादाः पि॒तृभ्य॑ स्व॒धया॒ ते अक्षन्नद्धि एवं देव प्रयंता हवीषि ॥ ६६ ॥

मन्त्रार्थ - हे कव्यवाहक अग्निदेव! ऋत्विजों की स्तुति से प्रसन्न होकर आप हवियों को मनोहर गन्ध भरकर देवताओं के पास पहुंचाते हैं । अब आप इसे पितृमन्त्रों से पितरों के पास पहुंचाइये 1 । वे इसका भक्षण करेंगे । हे वेव! आप भी इन शुद्ध हवियों को ग्रहण कीजिये ॥ ६६ ॥

कव्यवाहन, हे अग्ने! त्वं हव्यानि हवींषि सुरभीणि सुगन्धीनि कृत्वो कृत्वा, ' स्नाव्यादयश्च ' ( पा ० सू ० ७ | १ | ४ ९ ) इत्यत्र सूत्रगत आदिशब्दः प्रकारार्थः, आकारस्य ईकारो निपात्यते । अवाट् ऊढवानसि । वहते लुङि मध्यमैकवचने इडागमाभावे सिचो लोपे वृद्धो च रूपम् । कीदृशस्त्वम्? ईडितः स्तुतः देवैर्ऋत्विग्भिश्च । किञ्च, हव्यानि ऊवा स्वधया पितृमन्त्रेण पितृभ्यः प्रादाः प्रदत्तवानसि । ते च पितरः अक्षन् अभक्षयन् । अदो लुङि लुङ्सनोर्घस्लृ ' ( पा ० सू ० २/४/३७ ) इति घस्लादेशे, ' मन्त्रे घसह्वर ' ( पा ० सू ० २/४/८० ) इत्यादिना च्लेर्लोपे, ' गमहनजनखनघसां लोपः क्ङित्यनङि ' ( पा ० सू ० ६ / ४ / ९ ८ ) इत्युपधालोपे, ' शासिवसिघसीनां च ' ( पा ० सू ० ८ | ३ | ६० ) इति षत्वे रूपम् । हे देव, त्वमपि अद्धि हवींषि भक्षय । कीदृशानि हवींषि? प्रयता प्रयतानि शुचीनि अध्यात्मपक्षे - पूर्ववदेवार्थः । -दयानन्दस्तु — ' हे कव्यवाहनाने पुत्र, ईडितस्त्वं सुरभीणि हव्यानि कृत्वा अवाड् वहसि । तानि पितृभ्यः प्रादाः । ते पितरः स्वधया सहैतान्यक्षन् । हे देव, त्वमप्येतानि हवींष्यद्धि ' इति, तदप्यकिञ्चित्करम् कव्यवाहन-पदेन कवीनां प्रागल्भ्याणि प्राययति यः स पुत्र एव कथमिति विनिगमनाविरहात् हव्यस्वधयोर्भेदाभावे साहचर्यानुपपत्तेश्व ॥ ६६ ॥

पृष्ठ 320

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 320 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२८४ शुक्लयजुर्वेदसंहिता [ अ ० १ ९

ये चह पितरो ये च नेह याँश्च विद्म याँ २ ॥ उं च न प्रविद्य ।

त्वं वेत्थ यति॒ ते जातवेदः स्वधाभिर्यज्ञ, सुकृतं जुषस्व ॥ ६७ ॥

मन्त्रार्थ -- जो पितृगण इस लोक में हैं और जो इस लोक में नहीं हैं, अर्थात् स्वर्ग में हैं, जिन पितरों को हम जानते हैं और स्मरण न रहने से जिनको नहीं जानते, हे अग्निदेव! उन सबको आप भली - भांति जानते हैं । उन सब पितरों के निमित्त यज्ञ के द्वारा श्रेष्ठ अन्न को पहुँचाइये ॥ ६७ ॥

ये पितर इह लोके असते, ये च इह लोके न सन्ति यांश्च पितॄन् वयं विद्म जानीमः । उः पादपूरणः । यांश्च पितॄन वयं न प्रविद्म न प्रकर्षण जानीमः । हे जातवेदः, ते पितरो यति यावन्तो वर्तन्ते, या संख्या येषां ते यति, ' किंमः संख्यापरिमाणे इति च ' ( पा ० सू ० ५/२/४१ ) इति छान्दसो इति:, ' बहुगणवतुडति संख्या ' ( पा ० सू १११ ( २३ ) इति संख्या संज्ञायाम्, ' डति च ' ( पा ० सू ० १११।२५ ) इति षट्संज्ञायाम्, ' षड्भ्या लुक् ' ( पा ० ७११२२ ) इति जसो लुकि रूपम् । यद्वा यति यतीन् नित्यनैमित्तिकानुष्ठानैनिष्पापान्, छान्दसो विभक्तिलोपः ० सू ० । ते तान् व्यत्ययेन जस् । त्वं वेत्थ । हे जातवेदः, अत एवमुच्यसे यत् स्वधाभिः पितॄणामन्नैः, सुकृतं शोभनं कृतं यज्ञं त्वं जुषस्व सेवस्व । अध्यात्मपक्षे - हे जातवेदः, जातवेदोऽवच्छिन्नचं तन्यस्वरूप परमेश्वर! शेषं पूर्ववत् । दयानन्दस्तु -- ' हे जातवेदः, ये चेह पितरो ये चेह न सन्ति > वयं यांश्व प्रविध यांश्च न प्रविध, तान् यति या संख्या येषां तान् यावतस्त्वं वेत्थ उ ते त्वां विदुस्तत्सेवामयं सुकृतं यज्ञं स्वधाभिर्जुषस्व ' इति यत्किञ्चित् जातवेदः पदेन यस्यकस्यचिज्जातप्रज्ञस्य मनुष्यस्य सम्बोधने कथं स प्रार्थित सम्पादयिष्यति , तदपि? सम्बन्धाभावात् । पुत्रस्य सम्बोधनमपि नोपपद्यते, पित्रादिभिरविज्ञातानामसन्निहितानां पितॄणां पुत्रकर्तृकसेवा-नुपपत्तेः, सेबामयमित्यंशस्य मन्त्रेऽभावाच्च, यावतस्त्वं वेत्थ तावतामेव सेवनोपदेशे ये चेह पितरः सन्ति नेह यांश्च विद्म यान् उ च न प्रविद्म इत्युक्तेरानर्थक्यापत्तेः । तस्मात् सिद्धान्तानुसारं ते पितरो यति विद्यन्ते तांस्त्वं वेत्थ - इत्येव व्याख्यानं युक्तम् ॥ ६७ ॥ यावन्तो

इदं पि॒तृभ्यो नमो अद्य ये पूर्वोसो य उपरास ईयुः ये पार्थिवे॒ रज॑स्था निष॑त्ता ये वा नू न, सुवजनासु विक्षु ॥ ६८ ॥

. मन्त्रार्थ- -- आज यह अन्न उन पितरों के निमित्त है, जो पहले स्वर्ग जा चुके हैं । कृतकृत्य होकर ब्रह्म को प्राप्त हुए हैं, जो पृथ्वी पर होने वाली अग्निरूप ज्योति में स्थित हैं या स्वर्ग में स्थित हैं, जो पितृगण परम बलयुक्त प्रजाओं में देहधारण कर विद्यमान हैं, उन पितरों के निमित्त भी हम धन देते हैं । जो धर्मरूप उत्पन्न ज्येष्ठ भ्राता, पितामह आदि पितृलोक को प्राप्त हुए हैं, जो यजमान का जन्म होने के पितृगण उपरान्त यजमान से पूर्व छाता, पुत्र आदि पितृलोक को प्राप्त हुए हैं और इस पितृ कार्य में हवि को स्वीकार करने के लिये आकर उत्पन्न हुए सबके लिये हम आहुति देते हैं ॥ ६८ ॥ बैठे हैं, उन

ये पितरः पूर्वासः पूर्वे ईयुः स्वर्गं जग्मुः, ये च उपरास उपराः, उपरमन्ते विरमन्तीति उपरतव्यापाराः कृतकृत्याः सन्त ईयुः परं ब्रह्म प्रापुः, ये च पार्थिवे रजसि पृथिव्यां भवं पार्थिवं रजो ज्योतिरग्निः तथोक्ता,