वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 321–330
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 321–330
पृष्ठ 321
पाठ पढ़ें पाठ छिपाएँ
म ० ६८-६९ ] वेदार्थपारिजातभाष्यसहिता २८५ तस्मिन् आ निषत्ता आभिमुख्येन निषण्णाः, ' नसत्तनिषत्तानुत्तप्रतूर्त सूर्त गूर्तनि च्छन्दसि ' ( पा ० सू ० ८ २२६१ ) इति निष्ठायां नत्वाभावो निपातितः । ये वा, वा समुच्चयार्थः । ये च नूनं निश्चितं विक्षु यजमानलक्षणप्रजासु निषण्णाः । कीदृशीषु विक्षु? सुवृजनासु शोभनं वृजनं धर्मरूपं वृत्तरूपं वा बलं यासां ताः सुवृजनाः, तासु । तेभ्यश्चतुर्विधेभ्यः स्वर्ग ब्रह्माग्नियजमानस्थेभ्य: पितृभ्य इदं नमोऽन्नमस्तु । अद्य अस्मिन् दिने नमस्कारो वाऽस्तु । अध्यात्मपक्षे - ये पूर्वासः पूर्वं स्वर्ग मीयुः, ये चोपरासो निवृत्तव्यापाराः ये च पार्थिवे रजस्यग्नि-ज्योतिषि आभिमुख्येन निषण्णाः, ये च नूनं शोभनवृत्तासु प्रजासु निषण्णाः, तेभ्यः सर्वेभ्यः पितृभ्यस्तत्तदवच्छिन्न-चैतन्येभ्यः, अद्य अद्यतनमिदं नमोऽस्तु । दयानन्दस्तु - ' ये पितरः पूर्वासोऽस्मत्तो वृद्धाः य उपरासो वानप्रस्थाद्याश्रमं प्राप्ता भोगेभ्य उपरताः, ये पार्थिवे पृथिव्यां विदिते रजसि लोके, आनिषत्ताः कृतनिवासाः ये च नूनं सुवृजनासु शोभनगतिषु विक्षु प्रजासु प्रयतन्ते, तेभ्यः पितृभ्योऽद्येदं नमोऽन्नमस्तु ' इति, तदपि न सङ्गतम्, कोऽयमन्यः पार्थिवो लोक इत्यनुक्तेः । प्रयतन्त इत्यध्याहारोऽपि निर्मूल एव त्वद्रीत्या सर्वेषामेव भूलोकनिवासित्वाविशेषात् तद्विशेषानुपपत्तेश्च । विक्षु कीदृशः प्रयत्न इत्यपि चिन्त्यमेव । वस्तुतस्तु वेदानां चार्वाकसिद्धान्तपर्यवसायित्वापादनाय कलिहतकानामयं प्रयत्नः ॥ ६८ ॥
अधा॒ यथा॑ नः पि॒तरः परा॑सः प्रत्नासो ' अग्न ऋतमा॑षा॒नाः ।
शु॒चीव॑य॒न॒ दीधि॑तिमु॒क्थ॒शासः क्षामा॑ भि॒न्दन्तो ' अरु॒णोरप॑न् ॥ ६६ ॥
मन्त्रार्थ - हे अग्निदेव! हमारे उत्तम पुरातन यज्ञ को पाने वाले पितृगण जैसे देहयात्रा के अनन्तर निर्मल कान्ति वाले सूर्यमण्डल रूप देवयान मार्ग को ही प्राप्त हुए हैं, उसी प्रकार यज्ञों में शस्त्र नामक स्तोत्रों को पढ़ने वाले और पृथ्वी को वेदी के निमित्त खोदने वाले, अर्थात् सम्पूर्ण सामग्री से सम्पन्न यज्ञ का अनुष्ठान करने वाले हम भी सूर्य सम्बन्धी ज्योतिर्मागं को पावें ॥ ६६ ॥
हे अग्ने, नोऽस्माकं पितरः, अध अथ अनन्तरं शरीरत्यागानन्तरम् । यथा येन प्रकारेण शुचि शुचिम, अविभक्तिको निर्देशः । निर्मलं दीप्तं भास्वरमिति यावत् । इदेवार्थकः । दीधितिम् आदित्यरश्मि तत आदित्य-मण्डलमेव अयन् प्राप्ताः । लङि आडभाव आर्षः । कीदृशाः पितरः? परासः परा उत्कृष्टाः प्रत्नासः प्रत्नाः पुराणाः, ऋतं यज्ञमाशुषाणा अश्नुवाना व्याप्नुवन्तः । एतादृशाः पितरो यथा देवयानं पन्थानं प्राप्ताः, तथा वयमप्यरुणीररुणवर्णाः सूर्यदीधिती: सूर्यरश्मीन् अपवन अपवृणुमः, सूर्यरश्मीन् अपवृत्य देवयानमार्ग प्राप्तुम इत्यर्थः । श्नी लुप्ते लङि रूपम् । अडभावः पुरुषव्यत्ययश्च छान्दसः । कीदृशा वयम्? उक्थशासः, यज्ञेषु उक्थानि शस्त्राणि शंसन्ति वदन्ति ते उक्थशासः । क्विप् संहितायां दीर्घः । तथा क्षामा क्षामां भूमि भिन्दन्तो वेदिचात्वालयूपावटोपरादिखननै विदारयन्तः, सर्वोपकरणैर्यज्ञं कुर्वन्त इत्यर्थः । क्षामेत्यविभक्तिको निर्देशः । यद्वा क्षामाश्रयाणि व्रीहिपशुयूपादीनि यज्ञे भिन्दन्तः, सर्वोपकरणैर्यज्ञमनुतिष्ठन्त इत्यर्थः । अध्यात्मपक्षे -- हे अग्ने भगवन् परमेश्वर, यथा नः पितरः परासः प्रत्नास ऋतं सत्यं परं ब्रह्म आशु-षाणा अश्नुवानाः सेवमानाः शुचि शुचि परमनिर्मलमेव दीधिति भास्वरं परमात्मानमेव अयन् प्राप्ताः, तथा वयमपि अरुणीररुणवर्णाः, राजसोर्वृत्तीरिति यावत्, अपवृणुम, अपवृत्य च ता ऋतं ब्रह्मैव प्राप्तुम । कीदृशा वयम्?
पृष्ठ 322
पाठ पढ़ें पाठ छिपाएँ
२८६ शुक्लयजुर्वेदसंहिता [ अ ० ] १ ९ उक्थशासः, यज्ञेषु शस्त्रशंसनेन शुद्धाः । क्षामा भिन्दन्तो वेदिचात्वालादिसाधनैर्यज्ञानुष्ठानेन विशुद्धसत्त्वा, विश्वतो विरज्य श्रवणादिभिः कृतब्रह्मात्मसाक्षात्काराः । यद्वा - उक्थशासो वेदाभ्यासपराः । क्षामा क्षामामविद्या-भूमि भिन्दन्तः । अरुणी राजसीर्वृतीः, राजसवृत्त्युपलक्षिता । सर्वा अपि वृत्तीरपाकृत्य निर्वृत्तिकचिन्तनेन निरावरणं ब्रह्म प्राप्नुम इत्यर्थः । रजसो लोहितत्वेन राजसीनां वृत्तीनामरुणीत्वं श्लिष्यते । दयानन्दस्तु - ' हे अग्ने विद्वन्, यथा नः परासः प्रत्नास उक्थशासः शुचि पवित्रं ऋतं सत्यम् आशुषाणाः प्राप्नुवन्तः पितरों दीधिति विद्याप्रकाशमरुणीः सुशीलतया प्रकाशमयीः स्त्रियः क्षामा निवासभूमि चायन् प्राप्तु-वन्ति, अधाथाविद्यां भिन्दन्त इद् एव आवरणान्यपवन् दूरीकुर्वन्ति, तांस्त्वं तथा सेवस्व ' इति, तदपि निरर्थकम्, अविद्यापदस्य आवरणपदस्य च मूलमन्त्रेऽभावात्, अरुणीपदस्य सुशोलानां स्त्रीणां बोधने मानाभावाच्च || ६ ९ || उ॒शन्त॑स्त्वा॒ निधमह्युशन्त॒ः समिधीमहि । 2 उ॒शन्त॑श॒त आव॑ह पि॒तन् ह॒विषे॒ अन्त॑वे ॥ ७० ॥
मन्त्रार्थ -- हे अग्निदेव! आपकी इच्छा करते हुए हम आपको यहाँ स्थापित करते हैं, यज्ञ का अनुष्ठान करने की इच्छा से आपको प्रज्वलित करते हैं । आप भी हमें चाहते हुए हवि चाहने वाले पितरों को हवि का भक्षण करने के निमित्त बुलाइये ॥ ७० ॥
हे अग्ने, यतो वयमुशन्तः कामयमानाः, त्वा त्वां निधीमहि स्थापयामहे, यतश्च उशन्तः कामयमाना एव समिधीमहि सन्दीपयामः । यतस्त्वमपि उशन् कामयमान एवं उशतः कामयमानानेव पितॄन् हविषे अत्तवे हविषोऽदनाय आवह आनय । कामनात्र प्रेमरूपैव, सौन्दर्यज्ञानजनितेच्छाया एव प्रेम्णो रूपत्वात् । प्रेम्णाग्नेः स्थापने प्रेम्णा तत्सन्दोपनेऽग्निरपि प्रेमयुक्तः प्रेमयुक्तान् पितॄन् हविषो भक्षणायानयति । अध्यात्मपक्षे - हे अग्ने, उशन्तस्त्वा हृदि स्थापयामः, उशन्त एव त्वां समिधीमहि मानस्यामचयां भूषणालङ्कारादिभिरलङ्कुर्मः, त्वं चोशन् प्रेम्णोपेतः सन् पितृन् पितृतुल्यान् ब्रह्मविद्वरिष्ठान् आवह आनय । किमर्थमिति चेत्, अस्माकं हविषे ब्रह्मसुखस्य अत्तवे भोगाय । दयानन्दस्तु - ' हे विद्यार्थिन् पुत्र वा, त्वामुशन्तो वयं त्वां निधीमहि, उशन्तः सन्तः समिधीमहि दीपये । उशन् कामयमानस्त्वं हविषे हविषोऽत्तवे अत्तुमुशतोऽस्मान् पितृनावह ' इति, तदपि यत्किञ्चित्. विद्यार्थिपुत्रयोः सम्बोधनस्य निर्मूलत्वात् । पूर्वस्मान्मन्त्राद् ' अग्ने ' इति सम्बोधनस्यानुवृत्तिसम्भवाच्चाग्निप्रार्थनैवात्र युक्ता, न पुत्रादिप्रार्थना, तदपेक्षया देवप्रार्थनाया उत्कर्षेण साफल्योपपत्तेः । स्थापनं सन्दीपनं चाग्नेरेव आञ्जस्येन संगच्छते ॥ ७० ॥
अ॒पां फेन॒ नम॑च॒ शर॑ इ॒न्द्रोद॑वर्तयः । विश्वा॒ यदज॑य॒ः स्पृधः ॥ ७१ ॥
मन्त्रार्थ - हे इन्द्रदेव! जब आप संग्रामों में विजय प्राप्त कर रहे थे, उस समय आपने जल के झाग से नमुचि नामक देश्य का सिर काट लिया था ॥ ७१ ॥
अयमैन्द्रो मन्त्रः सोमो राजेत्यस्याग्रिमस्यानुवाकस्य निदानभूतः पठ्यते । हे इन्द्र, यद् यदा त्वं विश्वाः स्पृधः सर्वान् संग्रामान् अजयः जितवानसि तदा अपां फेनेन जलोयफेनपुञ्जेन नमुचेरसुरस्य शिर उदवतंय उच्छिन्नवानसि । उत्पूर्वो वृतिश्छेदार्थः ।
पृष्ठ 323
पाठ पढ़ें पाठ छिपाएँ
म ० ७१-७२ ] वेदार्थपारिजातभाष्य सहिता २८७ अध्यात्मपक्षे - हे इन्द्र परमेश्वर, यद् यदा त्वं विश्वाः स्पृधः सर्वान् संग्रामान् अजयो जितवानसि तदा अपां फेनेन फेनवन्निःसारेण आविद्यकेन महावाक्य जन्यब्रह्माकारवृत्त्यात्मकेन ज्ञानेन नमुचेः, न जीवं मुञ्चति तत्त्वज्ञानं विनेति नमुचिरज्ञानम्, तस्य शिर उत्कृष्टभागं ममतापादकमावरणम् उदवर्तय उच्छिन्नवानसि । दयानन्दस्तु - ' हे इन्द्र, यथा सूर्योऽपां फेनेत वर्धनेत नमुचेर्मेघस्य शिरो घनाकारमुपरिभागं छिनत्ति, तथैव त्वं स्वकीयाः सेना उदवर्तय ऊर्ध्वं वर्तयः, यथा विश्वाः स्पृधः, या अस्य धनोपेताः शत्रुसेना:, ता अजयो जय ' इति, तदपि यत्किञ्चित् अपां वर्धनेन मेघशिरश्छेदादर्शनात् । न च मेघे शिरः सम्भवति, न च घनाकारस्योपरिभागत्वम्, सर्वस्यैव घनाकारत्वात् ॥ ७१ ॥
सोम॒ राजा॒ऽमृत॑ सु॒त ऋजषेण नान्मृत्युम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒धान॑ध् शुक्रमन्ध॑स॒ इन्द्र॑स्येन्द्र यमि॒दं य॒ोऽमृतं॒ मधु॑ ॥ ७२ ॥
मन्त्रार्थ -- यहाँ पयाग्रह का उपस्थापन किया जाता है कि वनस्पतियों का राजा अभिषुत सोम अमृतरूप होता है । नीरस स्थूल भाग को सोमलता से अलग कर दिया जाता है, तभी यह रस अमृतरूप होता है । इस सत्य के द्वारा सत्यरूप परमात्मा को जाना जाता है । इन्द्र का यह अन्न सोमसम्बन्धी शुद्ध रस वोर्यदायक, बलकारक, अजरता और अमरता को देने वाला मीठा दूध है ॥ ७२ ॥
' सोमो राजेत्यनुवाकेन ग्रहानुपतिष्ठते युगपत् ' ( का ० श्र ० १ ९ २२५ ) | अष्टर्चेन सोमो राजेत्यनुवाकेन समानकालमेव पयोग्रहान् सुराग्रहांश्च अध्वर्युर्युगपदुपतिष्ठेदिति सूत्रार्थ: । ' चतुर्भिर्वा पयोग्रहान् शेषेण सौरान् ' ( का ० श्रौ ० १ ९ ।२।२६ ) । यद्वा चतुर्भिः पयोग्रहान् चतुभिः सुराग्रहान् । ग्रहणानन्तरमेवोपस्थानम् । मन्त्रपाठक्रमा-लिखितम् । ' सोमो राजाष्टर्चमश्विसरस्वतीन्द्रा अपश्यन् ' इत्यनुक्रमणादश्विसरस्वतीन्द्रदृष्टा अष्टौ ऋचः । आद्यास्तिस्रो महावृहत्यः । यस्याश्चत्वारः पादा अष्टार्णाः पञ्चमो द्वादशार्णः सा महाबृहती । सोमो राजा सुतोऽ-भिषुतः सन् अमृतं सम्पद्यते, रसरूपो भवतीति यावत् । स्थूलस्य सूक्ष्मतापादनममृतीभावः । यत ऋजीषेण, ऋजीषं नीरसं सोमलताचूर्णम्, तेन ऋजीषरूपेण मृत्युं स्थौल्यं स्थूलभावमजहाद जहाति । मूर्तत्वाद् ऋजीष-भावस्य सत्यमेतत् । अनेन च ऋतेन सत्येन एतत् सत्यं ज्ञातं यद् अन्धसोऽन्नस्य सोमस्य विपानं विविक्तं लोहितात् सोमपानं दोषाद्विविच्य पीयते पानयोग्यं वा क्रियतेऽनेनेति विपानम्, शुक्रं शुक्लं शुद्धमत एवेन्द्रियं वीर्यप्रदं भूयात् । इन्द्रस्य पयश्चेदृशमिन्द्रियं वीर्यवद् अमृतम् अजरामरत्वप्रदम् मधु मधुरं च स्यात् । अपां फेनेनेत्यस्य मन्त्रस्य अस्याष्टर्चानुवाकस्य च सम्बन्धः श्रुत्यैवोक्तः । तद्यथा - ' तस्य शीर्षच्छिन्ने लोहितमिश्रः सोमोऽतिष्ठत्तस्मादबीभत्सन्त त एतदन्धसोर्विपानमपश्यन् सोमो राजामृतं सुत इति तेनैन स्वदयित्वा ss-त्मन्नदधत ' ( श ० १२ | ७ | ३ | ४ ) | यथा एककारणानि वस्तूनि विविच्यमानानि दृश्यन्ते यथा च पृथग्भूतानि सम्मृष्टानि पुनर्विविच्यन्ते, एवमयमपि लोहितमिश्रः सोमो विविक्तः सोम एवेति सर्वानुवाकतात्पर्यम् । अध्यात्मपक्षे - सोमः साम्बसदाशिवः परमेश्वरः, राजा सर्वत्र राजमानः शासकः परमेश्वर एव सार्वात्म्याद् राज्ञः सोमस्य रूपेण स्तूयते । स सोमो राजा सुतोऽभिषुतः संस्कृतः सन् अमृतं सम्पद्यत इत्यादिकं पूर्ववदेव व्याख्यानम् ।
पृष्ठ 324
पाठ पढ़ें पाठ छिपाएँ
२८८ शुक्लयजुर्वेद संहिता [ अ ० १ ९ सत्यं विद्यमानं विपानं दयानन्दस्तु — ' य ऋतेन सत्येन ब्रह्मणा सह अन्धसोऽन्नस्य सुसंस्कृतस्य सम्बन्धि परमैश्वर्यस्य इन्द्रियं विविधं पानं यस्मात् तत् शुक्रम् आशुकार्यकरम् इन्द्रियम् इन्द्रस्य जीवस्य लिङ्गम् ब्रह्म प्राप्तः इन्द्रस्य सन् सुतः सोम ऐश्वर्यवान् धनम्, इदं पयोऽमृतमेतत्स्वरूपमानन्दं मधु क्षौद्रं च संगृह्णीयात् सोऽमृतं यत्किञ्चित् परस्परविरुद्धत्वात् । प्रेरको राजा देदीप्यमान ऋजीषेण सरलभावेन मृत्युमजहाद जह्यात् ' इति, तदपि श्रोत्रादिकमित्युक्तम् । तथाहि हिन्दी भाष्ये तु शीघ्र कार्यकरमिन्द्रियं धनमिन्द्रियस्य परमैश्वर्यवतो जीवस्य इन्द्रियं संगृह्णीयादित्यादिकं मूलमन्त्रे नास्त्येव तथाप्यविस्पष्टमेव व्याख्यानम् ॥ ७२ ॥
वि॒पात॑छ॒ अ॒द्भ्यः क्षि॒रं व्य॑पि॒ब॒त् क्रुङ्गिरसो धिया । ऋतेन॑ स॒त्यमि॑न्द्रि॒यं शक्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयोऽमृतं मधु॑ ॥ ७३ ॥
5 में से दूध को पी जाता मन्त्रार्थ - शरीर के अंगों के रस को प्राण ऐसे पीता है, जैसे हंस बुद्धि के द्वारा जल शुद्ध रस, वीर्यदायक, बलकारक, अजरता है । इस सत्य से सत्य को जाना जाता है । इन्द्र का यह अन्न सोम सम्बन्धी और अमरता को देने वाला मीठा दूध है ॥ ७३ ॥
, तदभावेऽङ्गानां आङ्गिरसः, आङ्गानामयमाङ्गी, आङ्गी चासो रसश्चेत्याङ्गिरसोऽङ्गानां क्षीरोदकयोः रसः संसृष्टयोः प्राणः , अद्भयः सकाशात् नीरसत्वदर्शनात् । स तादृशः प्राणः, यथा क्रुङ् हंसो भूत्वा धिया प्रज्ञया सत्येनेदं सत्यं ज्ञायते यद् अन्धसो विपानं क्षीरं दुग्धं वियुत्य अपिबत् पिबतीति तस्य जातिस्वभावः । अनेन शुक्रं भवतु । अथेन्द्रस्य पयो वीर्यममृतं भवतु । अध्यात्मपक्षे – पूर्ववदेवार्थः । दुग्धं क्रुङ पक्षी यथाल्पमल्पं दयानन्दस्तु - ' य आङ्गिरसोऽङ्गिरसा कृतो विद्वान् धिया अद्भयः क्षीरं पयोऽमृतं मध्विन्द्रियं च प्राप्नुयात् ' व्यपिबत् पिबति, स ऋतेनेन्द्रस्यान्धसः सकाशादिदं सत्यं विपानं शुक्रमिन्द्रियं ॥ इति, तदपि किञ्चित् गौणार्थाश्रवणेनापि भावानभिव्यक्तेः ॥ ७३ सोम॑म॒द्भ्यो व्य॑पिवि॒च्छन्द॑सा सः शचिषत् । तेन॑ स॒त्यमन्द्रि॒यं वि॒पाज॑ 1 शुक्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥ ७४ ॥
को जल में से अलग कर वेट के मन्त्रार्थ - निर्मल आकाश में विचरण करने वाला आदित्य जल मिले सोम चाहिये । इन्द्र का यह अन्न सोम द्वारा अथवा अपनी किरणों के द्वारा पी जाता है । इस सत्य से सत्य को जानना मीठा दूध है || ७४ ॥ सम्बन्धी शुद्ध रस, वीर्यदायक, बलकारक, अजरता और अमरता को देने वाला छन्दसा हन्ति एक एवाकाशे गच्छतीति हंस आदित्यः गत्यर्थकस्य हन्ते रूपम्, | सोमोदकयोः अद्भयः सकाशात् संसृष्टयोर्वियुत्य छन्दो निबद्धेन वेदेन, अथवा वेदरूपैः किरणैः, यथा सोमं व्यपिवत् पिबति? शुचिषत् शुचौ निर्मले सोममेव रविः पिवति, अनेन ऋतेन सत्येन इदं सत्यमित्याद्युक्तम् । कीदृशो हंसः आकाशे सीदतीति तथोक्तः ।
पृष्ठ 325
पाठ पढ़ें पाठ छिपाएँ
म ० ७४-७५ ] वेदार्थपारिजातभाष्यसहिता २८ ९ अध्यात्मपक्षे — क्षीरनीरविवेक निपुणहंसवत् सारासारविवेकनिपुणः, अद्भूयो मृगतृष्णोदकोपमात् संसाराद् वियुत्य सोमं शिवमधिष्ठानतत्त्वमेव पिबति हृदये धत्ते । अनेन तेन सत्येन इदं सत्यमित्यादि पूर्ववत् । दयानन्दस्तु - ' यः शुचिषद् हंसो विवेकी जनश्छन्दसा स्वच्छन्दतया अद्भयः सोमं सोमलतासारं व्यपिबत्स ऋतेन अन्धसो दोषनिवर्तकं शुक्रं विपानं सत्यमिन्द्रियमिन्द्रस्य प्रापकमिदं पयोऽमृतं मध्विन्द्रियं प्राप्तुमर्हति स एवाखिलमानन्दमाप्नोति ' इति, तदपि यत्किञ्चित्, स्वच्छन्दताया अनर्थहेतुत्वात् । नहि वेदशास्त्रा-नुयायी स्वाच्छन्द्यं भजते । ऋतेन सत्येन वेदविज्ञानेन अन्धसः सुसंस्कृतान्नस्य दोषनिवर्तकं शुक्रं विपान विविधरक्षायुक्तं सत्यं परमेश्वरादिसत्यपदार्थेषूत्तममिन्द्रियं विज्ञानरूपं य इन्द्रस्य योगविद्योत्पन्नस्य ऐश्वर्यस्य इदं पय उत्तमज्ञानरसोपेतम्, अमृतं मधुविद्यायुक्तमिन्द्रियं जीवैः सेवितं सुखं प्राप्तुमर्हो भवति ' इत्यत्र केन कि दिलभ्यते? इति सुधियो विदाङ्कुर्वन्तु ॥ ७४ ॥
-अन्ना॑त् परि॒स्रुतो रसं॒ ब्रह्म॑णा॒ व्य॒पिवत् क्ष॒त्रं पय॒ सोमे॑ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्य-मिन्द्रि॒यं वि॒पात॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु ' ॥ ७५ ॥
मन्त्रार्थ - प्रजापति ने परिस्रुत अन्न से रसमय सोम में मिले हुए दूध को गायत्रीलक्षण ब्रह्मस्वरूप से विचार कर पिया और क्षत्रिय को अपने वश में किया । इस सत्य से सत्य को जानना चाहिये । इन्द्र का यह अन्न सोम सम्बन्धी शुद्ध रस, वीर्यदायक, बलकारक, अजरता और अमरता को देने वाला मीठा दूध है ॥ ७५ ॥
अतिजगती द्वापञ्चाशदक्षरा । प्रजापतिः प्रथमशरीरी परिस्रुतः सुरारूपादन्नाद् रसं गायत्रीलक्षणेन ब्रह्मणा यी लक्षणेन वा व्यपिबद् विविच्य पीतवान्, गायत्रीमन्त्रेण वा विविच्य पीतवान् । क्षत्रं च व्यपिबद् वशीचकार | क्षत्रियस्य पानं वशीकरणम् । पयः सोमं च व्यपिबत् । अनेन सत्येनेदं सत्यमित्यादि समानम् । अध्यात्मपक्षे - देवानामसुराणां च राजसतामसवृत्तिविशेषाणां प्रजानां जनयिता पालकश्च जीवो यथा परिस्रुतो मादकादन्नात् संसाराद् ब्रह्मणा वेदेन रसं सारमधिष्ठानं ब्रह्मात्मकं रसं विविच्य गृह्णाति क्षत्रं वर्धिष्णु जयिष्णु च वशीकरोति । अनेन सत्येनान्धसोऽन्नस्य संसारस्य सम्बन्धि विपानं लोहिताद् मायामयाद् विविच्य पानमिन्द्रियं वीर्यप्रदं शुक्रं शुद्धं शोधकं भूयात् । इन्द्रस्य परमेश्वरस्येदं पयः स्वरूपमिन्द्रियं वीर्यप्रदं शुक्रं शुद्धं मधु मधुरं च भवति । दयानन्दस्तु – ' यो ब्रह्मणा सह प्रजापतिः परिस्रुतोऽन्नान्निःसृतं पयः सोमं रसं क्षत्रं च व्यपिबत्, स ऋतेनान्धसो निर्वर्तकं शुक्रं विपानं सत्यमिन्द्रियमिन्द्रस्य प्रापकमिदं पयोऽमृतं मध्विन्द्रियं च प्राप्नुयात् स सदा सुखी भवेत् ' इति, तदपि यत्किञ्चित् पक्कान्नरसपानस्य लौकिकत्वेन धर्मं ब्रह्मबोध के वेदे तदुपदेशस्याकिञ्चि-त्करत्वात् । अन्धस इत्यस्य अन्धकारार्थता तु शब्दसाम्यजनितभ्रान्तिमूलिका । स्वजन - श्वजनयोः सकृच्छकृतोरिव तयोरन्धान्धसोर्महावेषम्यात् । ' अन्ध दृष्टयुपघाते ' इति चौरादिकस्य ' सर्वधातुभ्योऽसुन् ' ( उ ० ४ १ ९ ० ) इत्यसुन्-प्रत्ययात्तस्य अन्धार्थंकता सुतरां सिद्धेति न शङ्कनीयम्, केनापि कोषकारेण ' अन्धस् ' शब्दस्यास्मिन्नर्थे उल्लेखाभावात् । इन्द्रे राजभिर्जुष्टं न्यायस्य चरणमित्यादिकं शब्दन्याये सर्वथा स्वातन्त्र्यमेव ॥ ७५ ॥
३७
पृष्ठ 326
पाठ पढ़ें पाठ छिपाएँ
२ ९ ० -शुक्लयजुर्वेद संहिता [ अ ० १ ९ रेतो॒ मूत्रं विज॑हाति॒ योनि॑ प्रव॒शव॑न्द्रि॒यम् । गर्भो ज॒राय॒णाव॑त॒ उल्बे जहाति॒ जन्म॑ना । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पाज॑ शुक्रमन्ध॑स इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ' ॥ ७६ ॥
मन्त्रार्थ -- इन्द्रिय योनि में प्रवेश कर वीर्य को छोड़ती है तथा अन्यत्र मूत्र को त्यागती है, अर्थात् एक ही मार्ग से कार्यवश भिन्न - भिन्न वस्तु निकलती है । वीर्य से गर्भस्थिति होती है । झिल्ली से ढका हुआ गर्भ जन्म के बाव झिल्ली को त्याग देता है, तब भूमि पर आता है । इस सत्य से सत्य को जानना चाहिये । इन्द्र का यह अन्न सोमसम्बन्धी शुद्ध रस, वीर्यदायक, बलकारक, अजरता और अमरता को देने वाला मोठा दूध है ॥ ७६ ॥
अतिशय । षष्ट्यक्षरातिशकरी । इन्द्रियं पुंप्रजननम् । अन्यत्र ज्ञानक्रियाकरणसामान्यबोधकोऽपी-न्द्रियशब्दोऽत्र शिश्नेन्द्रियमेव बोधयति । योनि स्त्रीप्रजननं प्रविशत् सद् रेतो वीर्यं विजहाति त्यजति । योनि-प्रवेशादन्यत्र मूत्रं विजहाति । तुल्यद्वारयोरपि रेतोमूत्रयोर्मूत्रस्थानादन्यत्र रेतोऽवतिष्ठते । जरायुणा गर्भवेष्टनावृतो गर्भो जन्मना प्रसवेन कृत्वा उल्बं जरायुं जहाति । भिन्नस्थानानामेकद्वाराणामाद्यमुदाहरणम् । एक-स्थानानामनेकद्वाराणां द्वितीयम् । सत्यमेतत् । अनेन सत्येनैतत् सत्यं ज्ञातं यदन्धसो विपानं शुक्रमित्यादि पूर्ववद् व्याख्येयम् । अध्यात्मपक्षे - इन्द्रियम् इन्द्रस्य परमात्मन इदम् ' इन्द्रियमिन्द्रलिङ्गम् ' ( पा ० सू ० ५ / २ / ९ ३ ) इत्यादिना निपातितोऽयं शब्दः प्रत्यक चैतन्यं योनि प्रकृति प्रविशद् रेतोवत् सारं परात्ममति जहाति स्थापयति । मूत्रवद्धेयं निःसारमनात्मजातं जहात्यनात्मत्वेन त्यजति । जरायुणा जरायुवदावरणेन अज्ञानेनावृतो गर्भो गर्भभाग् भवति । जन्मना ब्रह्माकारवृत्तावाविर्भूत्या उल्बं च जहाति । ऋतेनान्नेनान्धसो विपानमित्यादि पूर्ववत् । दयानन्दस्तु - ' इन्द्रियं योनिं प्रविशत् सद् रेतो विजहाति, अतोऽन्यत्र मूत्रं विजहाति । तज्जरायुणा वृतो गर्भो जायते । जन्मनोल्वं जहाति । स ऋतेनान्धसो निवर्तकं विपानं शुक्रं सत्यमिन्द्रस्येन्द्रियमिदं पयोमृतं मध्विन्द्रियं चेति ' इति, तदपि यत्किञ्चित्, अस्पष्टत्वात् । एवमेव — ऋतेन बाह्येन वायुना अन्धस आवरणस्य निवर्तकं विपानं विविधं पानं साधनं शुक्रं पवित्रं सत्यं वर्तमाने साधु । इन्द्रस्य जीवस्येन्द्रियं धनम्, इदं पयोरस-वदमृतं मधु येन मन्यते, तद् मध्विन्द्रियं चैति ' इति, तदपि तथाविधमेव, अन्धस इत्यस्य कथञ्चिदावरणार्थंक-त्वेऽपि निवर्तकमिति पदस्याप्रमाणकत्वात् । तथाप्यस्पष्टार्थता सुस्थिरा । भक्षितेऽपि लशुने न शान्तो व्याधिः ॥ ७६ ॥
दृष्ट्वा रूपे व्यार्करोत् सत्यान॒ते प्र॒जाप॑तिः । अब॑द्धामन॒तेऽद॑धाच्छ्र द्वा ँ, स॒त्ये प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानं॑ श॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं य॒मृतं मधु ॥ ७७ ॥
मन्त्रार्थ - प्रजापति ने मूर्तिमान् सत् और असत् को पहचान कर विचारपूर्वक दोनों को अलग अलग स्थापित किया। उस परमात्मा ने मिथ्याभाषण रूप अनृतभाषण में नास्तिकता और अश्रद्धा को तथा सत्य में आस्तिक्य बुद्धि और श्रद्धा को स्थापित किया । इस सत्य से सत्य को जानना चाहिये । इन्द्र का यह अन्न सोमसम्बन्धी शुद्ध रस, वीर्यदायक, बलकारक और अमरता को देने वाला मीठा दूध है ॥ ७७ ॥
पृष्ठ 327
पाठ पढ़ें पाठ छिपाएँ
म ० ७७-७९ ] वेदार्थ पारिजातभाष्यसहिता २ ९ १ प्रजापतिः सत्यानृतयो रूपे दृष्ट्वा उपलभ्य इदं सत्यमेवंरूपम्, इदमनृतमेवंरूपमिति व्याकरोत् पृथग-वस्थापयत् । अश्रद्धां नास्तिक्यमनृतेऽदधाद् अस्थापयत्, अश्रद्धाया अनृतनिमित्तत्वात् । श्रद्धामास्तिक्यं सत्येदधात्, सत्यस्य श्रद्धानिमित्तत्वात् । ऋतेनेत्यादि पूर्ववत् । अध्यात्मपक्षे — प्रजापतिः परमेश्वर एव सत्यानृतव्याकर्ता । तद्भेदेनैव आस्तिक्यनास्तिक्ययोर्व्यवस्थेति पूर्ववदेव व्याख्येयम् । दयानन्दस्तु - ' ऋतेन स्वकीयेन सत्येन विज्ञानेन सत्यानृते रूपे दृष्टा व्याकरोत् ' इत्याह तन्न, रूपरूपिणो-धर्मधर्मिभावेन तादात्म्यानुपपत्तेः । अन्धसो निवर्तकमित्यनुपपत्तिरत्रापि तथैव ॥ ७७ ॥
वेदे'न रू॒पे व्य॑पिबत् सु॒तास॒तौ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पात॑ शुक्र-मन्ध॑स इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु 1 ॥ ७६ ॥
मन्त्रार्थ - प्रजापति ने प्रेरित अथवा अप्रेरित धर्म और अधर्म के रूपों को ज्ञान के द्वारा अथवा वेदों को सहायता से पहचाना, अथवा प्रजापति ने सुत और असुत दोनों प्रकार के पदार्थों को अपना भक्ष्य जान कर खा लिया । इस सत्य से सत्य को जानना चाहिये । इन्द्र का यह अन्न सोमसम्बन्धी शुद्ध रस, वीर्यदायक, बलकारक, अजरता और अमरता को देने वाला मीठा दूध है ॥ ७८ ॥
महाबृहती । प्रजापतिः सुतासुतौ सुतासुतयोः, विभक्तिव्यत्ययः सुतः सोमः असुतः पयः । परिस्रुत् सुरा च । रूपे वेदेन परिज्ञानेन त्रय्या विद्यया वा व्यपिबद् विविच्य पीतवान् । ऋतेनेत्यादि पूर्ववत् । प्रजापति-कृतस्यैव अधुनातनैर्यजमानैरनुकरणीयत्वात् । अध्यात्मपक्षे - प्रजापतिः परमात्मैव तत्तदुपहितः सन् वेदेन सुतासुतौ व्यपिबत् । दयानन्दस्तु - ' यः प्रजापतिर्ऋतेन सुतासुतो प्रेरिताप्रेरितो धर्माधर्मौ ' इत्याह तच्चासङ्गतम्, तदभिमते मन्त्रात्मके वेदे विधिनिषेधयोरभावेन धर्माधर्मयोर्बोधकत्वायोगात् विधिनिषेधबहुलस्य ब्राह्मणस्य तेन वेदत्वानभ्युपगमात् ॥ ७८ ॥
वृष्ट्वा प॑रि॒स्रुतो॒ रस॑ शुक्रेण॑ शु॒क्रं व्य॑पिव॒त् पय॒ सोमे॑ प्र॒जाप॑तिः 1 । ऋतेन॑ स॒त्य-मि॑न्द्रि॒यं वि॒पात॑ शु॒क्रमन्ध॑स॒ इन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं मधु ' ॥ ७६ ॥
मन्त्रार्थ --- प्रजापति ने परिस्रुत के रस को देखकर शुद्ध मन्त्र से दुग्ध और सोम को पवित्र करके पिया, अथवा प्रजापति रूप सूर्य ने परिस्रुत के रस, दुग्ध और सोम को देखकर इनको किरणों से स्वच्छ करके पिया | इस सत्य से सत्य को जानना चाहिये । इन्द्र का यह अन्न सोम सम्बन्धी शुद्ध रस वीर्यदायक, बलकारक, अजरता और अमरता को देने वाला मीठा दूध है । ७२ से ७६ संख्या के इन मन्त्रों में सोम की शुद्धि और सोमपान की विधि बताई गई है । यद्यपि सोम एक लता का नाम है, किन्तु अन्न, दूध आदि में उसका सार रहता है । उसी को ग्रहण करने की रीति यहाँ बताई गई है ॥ ७६ ॥
पृष्ठ 328
पाठ पढ़ें पाठ छिपाएँ
२ ९ २ शुक्लयजुर्वेदसंहिता [ अ ० १ ९ अतिजगती । प्रजापतिः परिस्रुतः सुराया रसं दृष्ट्वा शुक्रेण शुद्धेन मन्त्रेण पयः सोमं च शुक्रं शुक्लं शुद्धं कृत्वा व्यपिबद् वियुज्य पीतवान् । ऋतेनेत्यादि पूर्ववत् । अध्यात्मपक्षे - प्रजापत्युपहितः परमात्मा एव पाता, शुद्धे तदयोगात् । दयानन्दस्तु - ' परिस्रुतः सर्वतः प्राप्तः शुक्रेण शुद्धेन भावेन शुक्रं शीघ्रसुखकरं सोममोषधिरसम् ' इत्याह । तच्चायुक्तम्, परिस्रुच्छब्दस्य सौत्रामणीयागगतायां विशिष्टौषधिनिर्मितसुरायां प्रसिद्धत्वात् ॥ ७ ९ ॥ -सोसेन॒ तन्त्र॒ मन॑सा मनी॒षिण॑ ऊर्णासूत्रेण॑ क॒वयो वयन्ति । अ॒श्विना॑ य॒ज्ञ ँ , स॑वि॒ता सर॑स्व॒तीन्द्र॑स्य रू॒पं वरु॑णो भिष॒ज्यन् ॥ ८० ॥
मन्त्रार्थ - अश्विनीकुमार, सविता देव, सरस्वती, वरुण, मनीषी कविगण इन्द्र के रोगी रूप को देखकर उसको नीरोग करने के विचार से सौत्रामणी यज्ञ का अनुष्ठान करते हैं । वे शीशे से अंगव अलंकार को और उसके धागे से इन्द्र के लिये वस्त्र बुनते हैं ॥ ८० ॥
' खुरैर्वाग्रहान् द्वात्रिशतं जुहोति सीसेनेति प्रत्यृचम् ' ( का ० श्री ० १ ९ | ४ | १२ ) । ' पञ्चपलो ग्रहः ' इति परिशिष्टोक्तेः, ऋषभखुराणां महत्त्वाच्च द्वात्रिंशदृषभखुरानादाय अग्नितप्तान् कृत्वा तन्मध्यान्मांस निष्कास्य ग्रहयोग्यान् कृत्वा अध्वर्युः सर्वेषां पशूनां वसामेकस्मिन् पात्रे कृत्वा तैः खुरैः पर्यायेण द्वात्रिंशद्वशाग्रहान् जुहुयात् | अत्रेकेकेन मन्त्रेण द्वयोर्होम: । ' द्वौ द्वौ हुत्वा शेषान् सते करोति ' ( का ० श्र ० ९९ | ४ | १३ ) । एकैकेन मन्त्रेण द्वौ द्वौ वसाग्रही हुत्वा तयोर्ग्रहयोः शेषान् सते वेतसे पात्रे प्रतिहोमं नयेदिति सूत्रद्वयार्थः । अत्र ब्राह्मणम् —'शफग्रहा भवन्ति । शफैर्वै पशवः प्रतितिष्ठन्ति प्रतिष्ठामेवेनङ्गमयति त्रयस्त्रि-शग्रहा भवन्ति त्रयस्त्रिंशद्वै सर्वा देवताः सर्वाभिरेवैनमेतद्देवताभिरभिषिञ्चति जगतीभिर्जुहोति जागता वै पशवो जगत्यैवास्मे पशूनवरुन्धे षोडशभिर्ऋग्भिर्जुहोति षोडशकला वे पशवोऽनुकलमेवास्मिञ्छ्रियं दधाति ' ( श ० १२।८।३।१३ ) । शफाः खुराः । त्रयस्त्रिशद् ग्रहा भवन्ति । तैर्वंसाग्रहा गृह्यन्ते । प्रत्यचं द्वौ द्वौ हुत्वा तच्छेषान् सते वैतसे पात्रे समवनीय तैस्तैः संस्रवैः स संहितो यजमानोऽभिषिच्यत इत्येतत् । यः अभिषेकोत्तरं स्तोत्रशस्त्रो वसाग्रहो गृह्यते स त्रयस्त्रिशः । ' सीसेन तन्त्रं मनसा मनीषिण इति । द्वौ द्वौ समास, हुत्वा सते संस्रवान् समवनयत्यहोरात्राण्येवैतदर्धमासान् मासानृतून् संवत्सरे प्रतिष्ठापयति तानीमान्यहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरे प्रतिष्ठिताः ' ( श ० १२ | ८ | ३ | १४ ) । सत्रस्य समस्य समासम् । अहोरात्राण्येवैतदर्धमासान् । अहोरात्राभ्या-महोरात्रं चतुर्विंशत्यर्धमासान् । तेषामेव द्वादशभिर्युगलैर्मासान् । षड्भिर्मासयुगलैः षडृतु नित्यभिप्रायः । ' वैतसः सतो भवति । अयोनि वेतस आपो वै सर्वा देवताः सर्वाभिरेवैनमेतद्देवताभिरभिषिञ्चति ' ( श ०१२ | ८ | ३ | १३५ ), ' सर्व सुरभ्युन्मर्दनं भवति । परमो वा एष गन्धो यत्सर्व सुरभ्युन्मर्दनं गन्धेनैवैनमेतदभिषिञ्चति ' ( श ० १२।८।३।१६ ) । सर्वसुरभि चन्दनादि, उन्मर्दनमुद्वर्तनं यजमानस्य भवति । तेनोन्मृदितगात्रोऽभिषेक्तव्य इत्यभिप्रायः । अश्विसरस्वतीन्द्रदेवत्याः षोडश जगत्यः । ' जगतीभिर्जुहोति ' ( श ० १२ | ८ | ३ | १३ ) इति श्रुतिबलाद् बक्षरन्यूनानामपि कासाञ्चिदृचां जगतीत्वमेव । तथा चानुक्रान्तम्- ' सीसेन तन्त्रमश्विसरस्वतीन्द्रदेवत्याः षोडश जगत्यः ' इति । अनेन षोडशर्चेनानुवाकेन अश्व्यादिभिर्यथा इन्द्रस्य भैषज्यं कृतं तत्प्रतिपाद्यते । अश्विना अश्विनी दस्रो सविता सरस्वती वरुणश्च मनसा विचार्य यज्ञं सौत्रामणीं वयन्ति निष्पादयन्ति । केन? सीसेन ऊर्णासूत्रेण च ।
पृष्ठ 329
पाठ पढ़ें पाठ छिपाएँ
म ० ८०-८१ ] वेदार्थपारिजात भाष्यसहिता २ ९ ३ सीसेन शष्पक्रयणात्, ऊर्णया तोक्मक्रयणाच्च ताभ्यां यज्ञनिष्पादन मित्यर्थः । अत्र प्रथमचें यज्ञः पटादिभिरुप-मीयते । यथा सूत्रः पटं वयति तन्तुवायः, तथाश्व्यादयः सीसेन ऊर्णासूत्रेण च तन्त्रमिव पूर्वापरे: सूत्रैर्दक्षिणोत्तरेश्व यज्ञं वयन्ति । यथा कश्चित् सीसेन धातुविशेषेण तन्त्रमङ्गदविशेषं कटकविशेषं वा ( चूड़ीति ख्यातम् ) वयति, ऊर्णासूत्रेण च तन्त्रं पटं वयति, तद्वत् । ' तन्त्र कुटुम्बकृत्ये स्यात् सिद्धान्ते चौषधोत्तमे । प्रधाने तन्तुवाये च शास्त्रभेदे परिच्छदे ॥ श्रुतिशाखान्तरे हेतावुभयार्थ प्रयोजके । इतिकर्तव्यतायां च ' इति मेदिनीकोषात् । अत्र तन्तुवायेत्यत्र तन्तुवानेति पाठभेदः । तस्मात् पट इत्यर्थः । तन्तुवायेति पाठेऽपि पटोऽर्थो भवितुं शक्यः । कीदृशा अश्व्यादयः? मनीषिणो मेधाविनः । कवयः क्रान्तदर्शनाः । इन्द्रस्य रूपं भिषज्यन् भिषज्यन्तः । ' भिषज् चिकित्सा-याम् ' कण्ड्वादित्वाद् यत्, ततः शता, वचनव्यत्ययः । इन्द्रभैषज्याय यज्ञं वयन्तीत्यर्थः । अध्यात्मपक्षे - इन्द्रस्य परमात्मन औपाधिकं विकृतं जैवं रूपमश्विनो मातापितरी, सविता प्रकाशको गुरुः, सरस्वती त्रयी, वरुणः पाशाधिष्ठाता, अर्थात् प्रतिबन्धाधिष्ठाता, एते मनीषिणो मेधाविनः कवयः क्रान्त-दर्शना मनसा पर्यालोच्य सीसेन ऊर्णातन्तुना च तन्त्रमिव यज्ञं ज्ञानयज्ञं वयन्ति निष्पादयन्ति यथा कश्चित् सीसेन धातुविशेषेण तन्त्रं कटकमूर्णासूत्रेण च तन्त्रं पटं वयति, तद्वत् । अश्व्यादयो नियन्त्रितदेहेन्द्रियान्तःकरणरूपेण धातुविशेषेण वेदवेदान्तजन्यविचाररूपेण ऊर्णासूत्रेण ब्रह्मात्मसाक्षात्काररूपं यज्ञं निष्पादयन्ति, वरुणः प्रतिबन्धात्रि-वारयति । मातापितरौ नियन्त्रितं कार्यकरणसंघातं प्रयच्छतः । आचार्यस्त्रयी च वेदान्तविचारानुपस्थापयन्ति । एवं ज्ञानयज्ञेन जैवमोपाधिकं रूपं भिषज्यन्ति, उपाध्यपोहेन प्रत्यगात्मानं ब्रह्मरूपेणावस्थाप्य ऐन्द्रं वास्तवमेव रूपं व्यञ्जयन्ति । दयानन्दस्तु - हे मनुष्याः, यथा कवयो मनीषिणः सीसेन सीसकधातुपात्रेणेव ऊर्णासूत्रेण ऊर्णा-कम्बलेनेव मनसा अन्तःकरणेन तन्त्रं कुटुम्बधारणमिव तन्त्र कला निर्माणं वयन्ति यथा सविता विद्याव्यवहारेषु प्रेरकः, सरस्वती प्रशस्त विज्ञानयुक्त सरस्वती, अश्विनौ अध्यापकोपदेशकौ यज्ञं सङ्गन्तुमर्ह व्यवहारं कुरुत, यथा भिषज्यन् चिकित्सुर्वरुणः श्रेष्ठ इन्द्रस्य रूपं विदधाति तथा यूयमप्याचरत ' इति, तदपि यत्किञ्चित्, मूले इवपदा-भावात्, सीससूत्राभ्यां मनसः सादृश्याभावाच्च । अत्र यज्ञं वयन्तीत्येकस्यामेव क्रियायामव्यादिकर्तणां सम्बन्ध-सम्भवे विदधातीत्यादिक्रियान्तरकल्पनाया निर्मूलत्वात् । सम्बोधनमपि निर्मूलमेव ॥ ८० ॥
तद॑स्य रू॒पम॒मृत॒ Ü शवो॑भिस्ति॒स्रो द॑धुर्दे॒वता॑ः संरराणाः ।
लोमा॑नि॒ शपैर्बहुधा न तोक्म॑भि॒स्त्वग॑स्य म॒ध॒सम॑भव॒न्न ल॒जाः ॥ ८१ ॥
मन्त्रार्थ - दोनों अश्विनीकुमार और सरस्वती, इन तीनों देवताओं ने मली - मांति देखभाल कर इन्द्र के उस मरणधर्मरहित रूप को अपनी युक्तियों के द्वारा नोरोग किया था, मिल जुल कर सौत्रामणी यज्ञ का निर्माण किया था, इस इन्द्र के रोमों को जमे हुए धान से और त्वचा को जमे हुए यवों से बनाया था, खोलों से इसके मांस को पुष्ट किया था ॥ ८१ ॥
तिस्रो देवता अविसरस्वत्यः सं सम्यक् रराणा रममाणाः सत्यः अस्येन्द्रस्य तदमृतममरणधर्म रूप शचीभिः कर्मभिः सन्दधुः कर्माङ्गः सन्धानं चक्रुः । कथं सन्दधुरिति चेत्, लोमानि इन्द्रस्य रोमाणि शष्पैर्विरूढ-व्रीहिभिः सन्दधुः । नकाराः समुच्चयार्थी आध्याय समाप्तेः । अस्येन्द्रस्य त्वग् न त्वचं च बहुधा तोक्मभि-विरूढैरङ्कुरितैर्यवैः सन्दधुः । विभक्तिव्यत्ययः । लाजा न लाजाश्चास्य मांसं समभवन्, लाजाभिरस्य मांस सन्दधुरित्यर्थः ।
पृष्ठ 330
पाठ पढ़ें पाठ छिपाएँ
२ ९ ४ शुक्लयजुर्वेद संहिता | अ ० १ ९ अध्यात्मपक्षे -—- अस्येन्द्रस्य तदुपहितस्य परमात्मनस्तदमृतममरणधर्म रूपं तिस्रो देवताः सम्यग् रममाणाः सन्दधुः । शेषं पूर्ववत् । प्रज्ञाभिः कर्मभिर्वा दयानन्द स्तु - ' तिस्रो देवताः पठकाः पाठकाः परीक्षकाश्व देवता विद्वांसः शचीभिः । बहुधा यज्ञं शष्पैर्दीर्घलोमभिः सह लोमानि च दधुः । तदस्यामृतं रूपं यूयं विजानीत । अयं तोक्मभिर्बालकैर्नानुष्ठेयः । शष्पपदस्य अस्य मध्ये त्वङ् मांसं लाजा वा हविर्नाऽभवदिति च वित्त ' इति, तदपि विनोदमात्रम्, निर्मूलत्वात् दीर्घलोमार्थतासिद्धेश्व, दीर्घा लोका इति हिन्दीभाष्यविरोधाच्च, दीर्घलोमभिः सह लोमानि सन्दधुरित्यसङ्गतेश्व 1 यागधारणे लोम्नामुपयोगासिद्धेश्व, ' अनुष्ठेयः, अभवत् ' इति पदयोरध्याहारस्य निर्मूलत्वाच्च ॥ ८१ ॥
तद॒श्विना॑ भि॒षजा॑ रु॒द्रव॑र्तन॒ सर॑स्वती वयति॒ पेशो॒ अन्त॑रम् ।
अस्थि मज्जानं मासरैः कारोत॒रेण॒ दध॑तो गवां त्वचि ॥
८२ ॥
करते हुए, रुद्र के समान मन्त्रार्थ - पृथ्वी की त्वचा, अर्थात् मिट्टी के पके हुए पात्र में सोम को स्थापित के चूर्ण-पराक्रम वाले वैद्य अश्विनीकुमार और बाग्देवी सरस्वती ने इन्द्र के रूप को निखार दिया को था परिपूर्ण । इन्होंने किया मासर था ॥ ८२ ॥
मय चरु को टपका कर इन्द्र की हड्डियों को और सोमरस को छानने वाले रस से मज्जा रुद्रवर्तनी रुद्रस्येव वर्तनिर्मार्गो ययोस्ती, रुग्णवर्तनी वा, रोरूयमाणौ वर्तते इति वा । भिषजा भिषजो adit अश्विना अश्विनी, सरस्वती च तदन्तरं शरीरान्तर्वर्ति पेश इन्द्रस्य रूपम्, सकारान्तः,, वयन्ति सम्बध्नन्ति, वचनव्यत्ययः । कथं वयन्ति? तदाह - मासरैः शष्पादिचूर्णचरुनिःस्रावैः? अस्थीनि सम्बध्नन्ति । कारोतरेण सच्छिद्रेण पात्रेण गालिन्या वा मज्जानं वयन्ति निष्पादयन्ति । किं कुर्वाणास्ते तदाह - गवां त्वचि चर्मणि दधतः सुरां स्थापयन्तः । अध्यात्मपक्षे - अश्व्याद्यवच्छिन्नः परमेश्वरः सौत्रामणीगततत्तन्नियतसाधनावच्छिनैश्चैतन्यंरिन्द्रस्य आन्तरं रूपं वयति । रुद्रवर्तनी दयानन्दस्तु - ' यत्सरस्वती वयति तत्पेशोऽस्थिमज्जानमन्तरं मासरैः कारोतरेण गवां त्वचि भिषजो वेद्यो अश्विनो दधतो दध्याताम् ' इति, तदपि निःसारम् निरर्थकत्वात्, व्याख्यानद्वयेनापि भावानवगमात् भावार्थस्य च मूलसम्बन्धवैधुर्यात् ॥ ८२ ॥
सर॑स्वती॒ मन॑सा पेश॒लं वसु॒ नास॑त्या॒भ्यां वयति वश॒तं वः ।
रसे परिस्रुता न रोहि॑ितं न॒ग्नहुर्धीर॒स्तस॑रं॒ न वेम॑ ॥ ८३ ॥
मन्त्रार्थं --- दोनों अश्विनीकुमार और सरस्वती, ये तीनों परस्पर विचार कर इन्द्र के सुवर्ण और रजतरूप धन को तथा दर्शनीय रूप को उत्पन्न करते हैं । परिस्रुत सुरा रस से इन्द्र के शरीर को दधिर से पूर्ण करते हैं । इसीलिये ॥८३ इन्द्र ॥ को वेदों में रोहित कहा गया है । इन्होंने सर्ज की छाल से रस को पूर्ण किया और टसर बुनने के लिये दण्ड दिया नासत्याभ्यामश्विभ्यां सहिता सरस्वती मनसाऽन्तःकरणेन पर्यालोच्य प्रकृतस्येन्द्रस्य वसु धनं दर्शतं दर्शनीयं वपुः शरीरं च वयति पटमिव सृजति । कीदृशं वपुः? पेशलम्, पेशं लाति गृह्णातीति, हिरण्यवद्वा