वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 331–340
वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 331–340
पृष्ठ 331
पाठ पढ़ें पाठ छिपाएँ
म ० ८३-८४ ] वेदार्थं पारिजातभाष्यसहिता २ ९ ५ रूपवद्वा । पेश इति हिरण्यनाम च रूपनाम च । परिस्रुता परिस्रुतः सुराया रोहितं लोहितं रसं न रसं च वयति, वपुषो रञ्जनार्थमिति शेषः । अत एव वेदेषु रोहित इन्द्रः पठ्यते । अथ तदा नग्नहुः किण्वः सुराकन्दः पूर्वोक्तो धीरो धिमीरयतीति धीरो मादकः, तसरं वमनसाधनं वेम न वेमा च सम्पद्यते । नग्नहोः कर्तृत्वमात्रं विवक्षितम्, विवक्षातः कारकाणि भवन्तोति वैयाकरणानां प्रसिद्धेः । कुविन्दानां तसरवेमानौ प्रसिद्धावेव । अध्यात्मपक्षे - पूर्वोक्तमेव व्याख्यानम् । सर्वस्य ब्रह्मात्मकत्वात् सार्वात्म्यविवक्षया तत्तद्वर्णनम् । दयानन्दस्तु – ' सरस्वती मनसा वेम न यतः पेशलं दर्शतं वपुस्तसरं रोहितं परिस्रुता रसं न वसु वयति । नासत्याभ्यां नग्नहुर्वीरवास्ति, तो द्वो वयं प्राप्नुयामः ' इति, तदपि यत्किञ्चित् वेमपदस्य उत्पत्यर्थत्वे मानाभावात् । न विद्यतेऽसत्यं ययोस्ताभ्यां मातापितृभ्यामित्यपि निर्मूलमेव, तथात्वे सत्यवादिनि कस्मिश्चिदपि नरे नासत्यपदप्रयोगापत्तेः । नियमेन दस्रनासत्याश्विशब्दानां द्विवचनत्वस्य गतिश्चिन्त्या । नग्नं शुद्धं जुहोति गृह्णातीति
नग्नहुरित्यपि चिन्त्यम् । उद्धृतश्रुतिसूत्रविरोधस्तु स्पष्ट एव ॥ ८३ ॥
पय॑सा शुकम॒मृते॑ ज॒नित्र सुर॑या॒
मूत्रज्जनयन्त॒ रेत॑ः ।
अपाम॑ति दुर्म॒तिं बाध॑माना ऊव॑ध्य॒ वात॑ सव्वं तदारात् ॥ ८४ ॥
. मन्त्रार्थ - तीनों देवताओं ने निर्मल दूध के भाग से अमृतमय जननशील बीर्यं को उत्पन्न किया, समीप में स्थित होकर अज्ञान और दुर्मति को दूर करते हुए उसके आमाशय में अन्न को और पक्वाशय में अन्न के सुरा - रस को कल्पित कर मूत्र की कल्पना की ॥ ८४ ॥
अश्विनौ सरस्वती चेत्येता देवता पयसा दुग्धेन कारणेन प्रकृतस्य इन्द्रस्य शुक्रं शुक्लम् अमृतमविनश्वरं जनित्रं जनयतीति जनित्रं जयनशीलं रेतो वीयं जनयन्त उदपादयन्त, अडभाव आर्षः । आरात् समीपे स्थित्वा तत्प्रसिद्ध मूवध्यमामाशयगतमन्नम्, वातं नाडीगतं वायुं सब्वं पक्वाशयगतमन्नं च सर्वमशुचिमिति यावत् । सुरया कृत्वा मूत्राद् मूत्रं च अजनयन्त । कीदृशास्ते? तत्राह - अमतिम् अमननं वध्यभावं दुर्मति दुर्बुद्धि च अपबाधमाना निवर्तयन्तः, सद्बुद्धि ददत इत्यर्थः । यद्वा अश्विनौ सरस्वती चेति प्रकृता देवताः पयसा शुक्रं च अमृतं जनित्रमाजन्म जनयन्तः, सुरया मूत्राद् मूत्रम् विभक्तिव्यत्ययः, रेतश्च जनयन्तः, अमतिमज्ञानं दुर्मति च अपबाधमानाः, अवध्यमामाशयगतमन्नं वातं गुदद्वारेण बहिर्गमनशीलं सब्वं पक्वाशयगतमन्नं च आरात् सुरया सुरासन्निकर्षाद् जनयन्तः, सन्निकर्षो हि गन्धादिभिः, वयन्ति । अध्यात्मपक्षे - तत्तदवच्छिन्न चैतन्यरूपा देवता: । शेषं पूर्ववत् । दयानन्दस्तु - ' ये विद्वांसोऽमति दुर्मतिमपबाधमानाः सन्तो यदूवध्यमुरू वध्ये येन तत्, वर्णलोपः, वातं प्राप्तम्, सब्वं समवेतम्, ' षप् समवाये ' इति धातोरौणादिको वप्रत्ययः, पयसा सुरयोत्पन्नं मूत्राद् मूत्राधारेन्द्रियाद् जनित्रम् अमृतं शुक्रं रेतोऽस्ति तदाधाराज्जनयन्तस्ते प्रजावन्तो भवन्ति ' इति, तदपि यत्किञ्चित्, अध्याहारादिमूलकत्वात् । ऊवध्यं वातं सब्वमित्यादिपदानां निराधारे काल्पनिके व्याख्यानेऽपि विशृङ्खल-तैवार्थस्य । सुरया सोमलतादिरसेनेत्यपि निर्मूलमेव ॥ ८४ ॥
पृष्ठ 332
पाठ पढ़ें पाठ छिपाएँ
२ ९ ६ शुक्लयजुर्वेदसंहिता [ अ ० १ ९
इन्द्र॑ स॒त्रामा॒ हृद॑ये॑न स॒त्य॑ प॑रोडाशेन सवि॒ता जंजान ।
यकृ॑त् क्लोमानं वरु॑णो भिष॒ज्यन्मत॑स्ने वाय॒व्यैर्न मि॑िनाति॑ पि॒त्तम् ॥ ८५ ॥
-मन्त्रार्थ - सबको भली प्रकार से रक्षा करने वाला, पुरोडाश का अधिष्ठाता देव इन्द्र हृदय से हृदय को प्रकट करता है । सविता ने पुरोडाश से इन्द्र के सत्य को उत्पन्न किया है, वरुण ने चिकित्सा करते हुए हृदय की बाई दोनों ओर स्थित मांसपिण्ड रूप तिल्ली को और गले की नाड़ी को प्रकट किया है, सोम सम्बन्धी ऊर्ध्वं पात्रों से हृदय की ओर की हड्डियों का और पित्त का निर्माण किया है ॥ ८५ ॥
, सुत्रामा सुष्ठु त्रायतइति तथोक्त इन्द्रः पुरोडाशदेवता । हृदयेन हृदयम्, इन्द्रस्येति शेषः, विभक्तिव्यत्ययः जजान जनयति । सविता च पुरोडाशेन इन्द्रस्य सत्यं जजान । वरुणो भिषज्यन् इन्द्रस्य चिकित्सां कुर्वन् यकृत् कालखण्डं क्लोमानं गलनाडिकां च जजान । ' यकृच्च क्लोमानश्च ' ( बृ ० १ | १ | १ ) इत्यत्र - ' यकृच्च क्लोमानश्च हृदयस्याधस्ताद् दक्षिणोत्तरौ मांसखण्डौ ' इति शङ्करभगवत्पादाः । वायव्यैः सौमिकैरूर्ध्वपात्रः, मतस्ने हृदयोभय-पार्श्वस्थे अस्थिनी पित्तं न पित्तं च मिनाति निर्मिमीते, सृजतीत्यर्थः । सौमिकान्यूर्ध्वपात्राणि वायव्यसंज्ञानि । अध्यात्मपक्षे - परमात्मैव तत्तद्देवता भूत्वा इन्द्रभावापन्नस्य स्वस्य तत्तत्साधनभूतैः स्वैरेव रूपैभिषज्यति । दयानन्दस्तु -- ' यथा सुत्रामा सवितेन्द्रो वरुणो विद्वान् भिषज्यन् सन् हृदयेन सत्यं जजान । पुरोडाशेन वायव्येश्व यकृत्वलोमानं मतस्ने पित्तं च मिनाति, तदेतत्सर्वं यूयं मा हिंस्त ' इति, तदपि साहसमात्रम् । वैदिकार्थानवबोधात्, पुरोडाशवायव्येयं कृत्क्लोमादीनां हननाप्राप्तेनिषेधासम्भवात् । चिकित्स्यस्य चिकित्सा भवति, न चात्मना यथार्थभावः प्रकटति ॥ ८५ ॥
आ॒न्त्राणि॑ स्थलम॑धु पिन्व॑माना॒ गुदा॒ाः पात्रा॑णि सुदु॒ध॒ न धे॒नुः ॥ श्ये॒नस्य॒ पत्र॒ न प्लीहा शची॑भिरास॒म्दो नाभिश्व न मा॒ता ॥ ८६ ॥
मन्त्रार्थ- - मधु से भरी हुई, दूध देने वाली स्थाली आँतों के स्थान पर आदित्य इष्टि और उसके पात्र द्वारा नाभिस्थान गुदास्थानापन्न, श्येन का पंख हृदय का वाम भाग और माता स्थान भूत आसन्दी ( चौकी ) कर्मों के और उदर रूप हुई ॥ ८६ ॥
। स्थाल्य इन्द्रस्य आन्त्राण्यभवन् । कीदृश्यः स्थाल्यः? मधु पिन्वमानाः क्षौद्रं मधुररसं वा सिञ्चन्त्यः पात्राण्यन्यानि यज्ञियानि तस्य गुदस्थानान्यभवन् । सुदुघा न धेनुः शोभनं दुग्धे सा सुदुघा दोग्ध्री गौश्च आदि-त्येष्टेर्दक्षिणारूपा इन्द्रस्य गुदा एवाभवत्, श्येनस्य पत्रं च प्लीहा हृदयवामभागस्थः शिथिलमांसखण्डो गुल्मसंज्ञो ऽ-भवत् । आसन्दी मञ्चका शचीभिः कर्मभिः सहिता इन्द्रस्य नाभिरुदरं चाभवत् । कोदृशी आसन्दी? माता जननीस्थानीया, आसन्द्यामभिषिच्यते, ततो जायत एवेति सा मातोच्यते । अध्यात्मपक्षे - सौत्रामणीयागगतानि स्थाल्यादीनि इन्द्रस्य आन्त्रादीनि संवृत्तानि । सर्वमेतत् परमात्म-विलासभूतमेव । स एवेन्द्रः, स एव सौत्रामणी, तद्गतोपकरणानि च स एवेति सार्वात्म्यं तस्य स्पष्टं भवति । दयानन्दस्तु - युक्तिमता पुरुषेण शचीभिः प्रज्ञाकर्मभिः स्थालीरग्नेरुपरि निधायोषधिपाकान् विधाय तत्र मधु प्रक्षिप्य भुक्त्वाऽन्त्राणि अन्नपाकाधारा नाडीः पिन्वाना गुदा गुह्येन्द्रियाणि पात्राणि भोजनार्थानि सुदुधा धेनुरिव प्लीहा श्येनस्य पत्रं न पत्रमिव माता, तेऽभीष्टं सुखं लभन्ते ' इति, तदपि यत्किञ्चित्, गोणालीकार्थ-स्वीकारेऽपि भावस्यास्पष्टत्वात् ॥ ८६ ॥
पृष्ठ 333
पाठ पढ़ें पाठ छिपाएँ
म ० ८७-८८ ] वेदार्थपारिजात भाष्यसहिता
कुम्भो व॑नि॒ष्ठ जैन॒ता शची॑भि॒र्य॑स्मि॒न्नयो॒ योन्य॒ गर्भो अ॒न्तः ।
प्लाशिन्यैः श॒तधा॑र॒ उत्सो ' दुहे न कुम्भो स्व॒धा॑ पि॒तृभ्य॑ ॥ ८७ ॥
२ ९ ७ मन्त्रार्थ- - रस के साधनभूत घड़े स्थूल आंत उत्पन्न करते हैं । जिस क्रुम्भरूप योनि के भीतर प्रथम सोम-रूप गर्भ स्थित हुआ, वह घट स्पष्ट जनमेन्द्रिय बना और सुराधानी पात्र ने पितरों के निमित्त स्वधा अन्न को प्रकट किया ॥ ८७ । कुम्भः सुराधानकुम्भः, शचीभिः कर्मभिः, वनिष्ठुः स्थूलान्त्रमिन्द्रस्य जनिता जनयति । यस्मिन् कुम्भे योन्यां कुम्भरूपे योनी स्थाने, अग्रे प्रथममन्तर्मध्ये गर्भः सारूप उषितः । शतधार उत्सः कूपतुल्यः कुम्भो व्यक्तः स्पष्टः प्लाशिः शिश्न इन्द्रस्याभवत् । कुम्भी सुराधानी च पितृभ्यः स्वधामन्नं दुहे दुग्धे प्रयति, ' लोपस्त आत्मनेपदेषु ' ( पा ० सू ० ७ । १ । ४१ ) इति तकारलोपः । अात्मपक्षे s पि पूर्वोक्तदिशा सार्वात्म्यविवक्षयाऽर्थो ज्ञातव्यः । दयानन्दस्तु — ' यः कुम्भः कलश इव वीर्यादिधातुभिः पूर्णो वनिष्ठुः सम्भाजी, ' वन सम्भक्ती ' इत्यस्माद् औणादिक इष्ठुप्प्रत्ययः जनितोत्पादकः यः प्रकृष्टतयाऽश्नुते स व्यक्त: । विविधाभिः प्रसिद्धः । शचीभिः कर्मभिः शतधार उत्सो दुहे न प्रपूर्तिकरे व्यवहार इव पुरुषो या च कुम्भीव स्त्री, तौ पितृभ्यः स्वधां प्रदद्याताम् । यस्मिन्नग्रे योन्यामन्तर्गर्भो धीयेत, तं सततं रक्षेताम् ' इति, तदपि यत्किञ्चित् निष्प्रमाणाध्याहारादिमूलकत्वात्, कुम्भकुम्भीशब्दाभ्यां स्त्रीपुंसयोर्ग्रहणे मानाभावाच्च ॥ ८७ ॥
मुख॒ सव॑स्य॒ शिर॒ इत्सते न जि॒ह्वा प॒वित्र॑म॒श्विना॒ासन् सर॑स्वती ।
चप्यं न वा॒युभि॒षज॑स्य॒ वालो ' वस्तिनं शेषो॒ हर॑सा तर॒स्वी ॥ ८८ ॥
मन्त्रार्थं - सत नामक पात्र इस इन्द्र का सुख हुआ, उसी पात्र से सिर की चिकित्सा हुई । पवित्र जिह्वा के संपादक अश्विनीकुमार और सरस्वती मुख में स्थित हुए, चप्य पायु इन्द्रिय हुई, रस का छानने का वस्त्र इसकी fareer हुई, गुदा तथा वेग से वीर्यवान् पुरुष की जननेन्द्रिय बनी ॥ ८८ ॥
अस्येन्द्रस्य सत् सतः, वेतसः पात्रविशेषः, अन्तलोपश्छान्दसः मुखमभूत् । तथा च श्रुतिः - ' मुख सतं जिह्वा पवित्रं चप्यं पायुर्बस्तिर्वाल: ' ( ०१२ | ९ || ३ ) इति । सतेन इत् तेन पात्रेणैव अस्य शिरोऽभूत् । पवित्रं जिह्वा चाभवत् । अश्विना अश्विनौ सरस्वती च आसन् अस्य आस्येऽभवन् । चप्यं न पिष्टपात्रं च ' चप्यं पिष्ट-पात्रम् ' इति तैत्तिरीय ब्राह्मणभाष्ये ( २/६/४/४ ) सायणः, पायुरिन्द्रियमभवत् । वाल: सुरागलनवस्त्रम्, भिषग्वेद्यो वस्तिर्गुदं शेफो लिङ्गं चाभूत्, वालेन एतत्त्रयं जातमिति यावत् । कीदृश:? हरसा वीर्येण तरस्वी वेगवान् । अध्यात्मपक्षे - सोत्रामण्युपकरणानि च प्रकृतस्य भिषज्यस्येन्द्रस्य तत्तदङ्गान्यभवन् । ब्रह्मण एतद्विलसितमिति । दयानन्दस्तु - ' हे मनुष्याः, यथा जिल्ह्वा सरस्वती स्त्री अस्य पत्युः सतेन उत्तमावयवैविभक्तेन शिरसा सह शिरः कुर्यात्, आसत् आस्ये पवित्रं मुखं कुर्यात् एवमश्विनी गृहाश्रमव्यवहारव्यापिनो इद् एव वर्तेताम्, ३८
पृष्ठ 334
पाठ पढ़ें पाठ छिपाएँ
२ ९ ८ शुक्लयजुर्वेद संहिता [ ० १ ९ यदस्य पायुभिषक् वालो बस्तिः शेपो हरसा बलेन तरस्वी भवति स चप्यं न सद् भवेत् सर्वं यथावत् कुर्यात् ' इति, तदपि तुच्छम् विसङ्गतेरस्पष्टार्थत्वाच्च । अश्विनावित्यनेन यदि दम्पत्योर्ग्रहणम्, तदा जिह्वेव सरस्वती स्त्रीति पृथक् स्त्रीग्रहणं निरर्थकमेव स्यात् । तत्र हिन्दीभाष्ये शिरसा सह शिरः कुर्यादित्युक्तम् । मूले च एक एव शिरः शब्दः । तत्र शिरसा इति तृतीयान्तस्याध्याहारे कि बीजम्? कुर्यादिति पदमपि मूले नास्ति । अश्विना -वित्यनेन ' परस्पररत्या संसक्तस्त्रीपुरुषौ ' इति त्वद्बुद्धावेव प्रस्फुरति । तरस्वीति प्रशस्तं तरो विद्यते यस्य सः, हिन्दी भाष्ये तु — ' करने हारा होता है ' इत्युक्तम् । तत्र केन कस्य सम्बन्ध:? चप्यमिति चपेषु सान्त्वनेषु भवं चप्यमिति ', हिन्दी भाष्ये च-- ' करने के समान ' इत्याद्यपि सर्वथाऽसम्बद्धमेव । शतपथी श्रुतिस्तु - ' हृदयमेवास्येन्द्रः पुरोडाशः । यकृत् सावित्रः क्लोमा वारुणो मतस्ने एवास्याश्वत्थं चपात्रमोदुम्बरं च पित्तं नैयग्रोधमान्त्राणि स्थाल्यो गुदा उपशयानि श्येनपत्रे प्लीहासन्दी नाभिः कुम्भो वनिष्ठुः प्लाशिः शतातृण्णा तद्यत् सा बहुधा वितृष्णा भवति तस्मात् प्लाशिर्बहुधा विकृतो मुखं सतं जिह्वा पवित्र चप्यं पायुर्बस्तिर्वाल: ' ( श ० १२ / ९ / १ / ३ ) इति स्पष्टमेवमर्थं ब्रूते ॥ ८८ ॥
अ॒श्विभ्या॒ चक्षु॑र॒मृतं॒ ग्रहा॑भ्या॒ छागेन तेजो ' ह॒विषा॑ शृतेनं । पक्ष्मा॑णि गोधूमेः कुर्बल॑ह॒तानि॒ पेशो न शुक्रमसितं वसते ॥ ८६ ॥
मन्त्रार्थ -- अश्विनीकुमार देवता वाले ग्रहों से अविनाशी नेत्र कल्पित हुए, बकरी के ' दूध में पके हुए हवि से चक्षु का तेज कल्पित हुआ । गेहूं से नेत्रों के नीचे के लोभ और बेरों से नेत्रों के ऊपर के लोम कल्पित हुए, जो कि नेत्रों की सफेदी और कालिमा को ढकते हैं ॥ ८ ९ ॥ अश्विभ्यामिन्द्रस्य चक्षुः संस्क्रियते । ग्रहाभ्यामश्विदेवल्याभ्यां सोमपात्राभ्यां चक्षुरेवामृतमनश्वरं क्रियते । ऋतेन पक्वेन हविषा छागेन छागरूपेण पक्वेन हविषा तेजश्चक्षुः सम्बन्धि क्रियते । गोधूमैः पक्ष्माणि नेत्रलोमानि क्रियन्ते । कुवलैर्बदरैरुतानि चक्षुर्निविष्टानि लोमानि क्रियन्ते । तैरेव शुक्रं शुक्लम् असितं कृष्णं च पेशो रूपं शुक्लकृष्णे नेत्रगते रूपे वसाते आच्छादयेते, कुर्वाते इत्यर्थः । प्रकृतत्वादश्विनी कर्तारौ । यथा पूर्वमश्विनी सरस्वती चास्येन्द्रस्य आसन् आस्येऽभवन्, तैरास्यमिन्द्रस्योत्पन्नमित्यर्थः तथैव प्रकृतमन्त्रेऽश्विनी अश्विभ्यां स्वस्वरूपाभ्यामेव इन्द्रस्य चक्षुश्चक्रतुः । अध्यात्मपक्षे - सार्वात्म्यं परस्यात्र प्रकाश्यते । अश्विनौ तदवच्छिन्नो चैतन्यरूपौ अश्विभ्यां तदवच्छिन्नाभ्यां चैतन्याभ्यामेव इन्द्रस्य देवविशेषावच्छिन्नस्य चक्षुस्तदवच्छिन्नं चेतन्यं चक्रतुः । एवमेवान्यदपि ज्ञेयम् । दयानन्दस्तु - ' यथा ग्रहाभ्यामश्विभ्यां बहुभोजिभ्यां स्त्रीपुरुषाभ्यां सह कोचिद्विद्वांसौ स्त्रीपुरुष उतानि सन्ततानि वस्त्राणि पक्ष्माणि परिगृहीतान्यन्यानि वसाते, यथा वा भवन्तोऽपि छागेनाजादिदुग्धेन शतेन हविषा सह तेजोऽमृतं चक्षुः कुवलैर्गोधूमैः शुक्रमसितं पेशो न स्वीक्रियेरन्, तथान्ये गृहस्था अपि कुर्युः ' इति, तदपि यत्किञ्चित्, मन्त्राक्षरासम्बद्धत्वात्, गौणार्थग्रहणेऽपि सङ्गतिविरहात् । अश्विभ्यां बहुभोजिभ्यां स्त्रीपुरुषाभ्या-मित्यपि निर्मूलम् । एवमेव पक्ष्माणि परिगृहीतान्यन्यानीत्यपि निर्मूलमेव ॥ ८ ९ ॥
पृष्ठ 335
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ० - ९ १ ] वेदार्थ पारिजातभाष्यसहिता २ ९९ अवि॒र्न मे॒षो नसि वीर्याय प्रा॒णस्य॒ पन्था॑ अ॒मृतं॒ प्रहा॑भ्याम् । सरस्वत्युवाकै व्यनं for ब॒हिर्बिद॑रेर्जजान ॥ ६० ॥
मन्त्रार्थ - भेड़ और मेढ़ा नासिका में बल के कारण हुए, सरस्वती सम्बन्धी ग्रहों से प्राण वायु का मार्ग अविनाशी हुआ । सरस्वती देवी ने जौ के अंकुरों से व्यान वायु को प्रकट किया, बेरों के साथ मिली कुशा नासिका को लोम हुई, अर्थात् इनकी उपयोगी क्रियाओं से बल प्रकट किया गया और इनसे इन्द्र तेजस्वी हुआ ॥ ९ ० ॥ अविः सारस्वतो मेषः, नसि इन्द्रस्य नासिकायां वीर्याय अवस्थितः । ग्रहाभ्यां सरस्वतीदेवत्याभ्यां प्राणस्थ प्राणवायोः पन्था मार्गः, अमृत: अनश्वरः क्रियते । सरस्वती उपवाकैर्यवाङ्कुरैर्व्यानं व्यानवायुं जजान जनयति । बहिर्दर्भो बदरैः सह मिलित्वा इन्द्रस्य नस्यानि नासाभवानि लोमानि जजान जनयति । अध्यात्मपक्षे - पूर्ववदर्थो योजनीयः । दयानन्दस्तु – ' यथा ग्रहाभ्यां सह सरस्वती बदरैरुपवा कैर्जजान, तथा वीर्याय नसि प्राणस्य अमृतः पन्था अविर्नमेषो व्यानं नस्यानि बहिश्व उपयुज्यते ' इति, तदपि निरर्गल प्रलाप एव मन्त्राक्षरासम्बद्धत्वात् । भावार्थस्तु ततोऽपि दूरतर! | को ग्रहणकर्तारौ याभ्यां प्रशस्तविज्ञानवती स्त्री बदरे: समान सामीप्यकारकैः कर्मभिः किमुत्पादयतीत्यादिकं सर्वमस्पष्टं निरर्थकं वेदाक्षरासंस्पृष्टं च ॥ ९ ० ॥ इन्द्र॑स्य रू॒पम॑ष॒भो बला॑य॒ कर्णौभ्या॒ यवा न ब॒र्हिर्भुवि केसराणि कर्कन्धु श्रोत्र॑म॒मृतं॒ ग्रहो॑भ्याम् । · 1 जज्ञे मधु॑ सार॒घं मुर्खात् ॥ ६१ ॥
मन्त्रार्थ- - बल के निमित्त ऋषभ से इन्द्र का रूप निखारा गया, श्रोत्र सम्बन्धी ग्रहों के द्वारा त्रिकाल के शब्द को सुनने वाली श्रोत्र इन्द्रिय संपादित हुई, जो और कुशा भौं के बालों को सम्पन्न करने वाले हुए, मुख से बेर के समान मधुमक्षिका, शहद के समान लार, श्लेष्मा आदि प्रकट हुए ॥ ९ १ ॥ ऋषभो बलाय इन्द्रस्य सामर्थ्याय रूपं चक्रे । ऐन्द्राभ्यां ग्रहाभ्याममृतं भूतभाविवर्तमान कालत्रयवर्त -शब्दग्राहकं श्रोत्रमिन्द्रियं कर्णाभ्यामिन्द्रस्य कर्णगोलकयोश्चक्रे, श्रोत्रेन्द्रियं कर्णशष्कुल्यो: स्थापितवानित्यर्थः । यवा बहिश्च भ्रुवि भ्रुवोः केसराणि लोमान्यभवन् । कर्कन्धु बदरं मुखात् सारवं मधु तत्तुल्यं लालाश्लेष्मादि जज्ञे । सरघा मधुमक्षिका, तद्भवं सारघं यथा मधु नानातरुभ्य आह्रियते, एवं लालादि सर्वाङ्गेभ्यो भवतीति लालादीनां मधुसाम्यम् । अध्यात्मपक्षे - पूर्ववदर्थः । दयानन्दस्तु — ' यथा ग्रहाभ्यां सहर्षभो बलाय यवा न कर्णाभ्यां श्रोत्रममृतं कर्कन्धु सार मधु बहि विसराणि मुखाज्जनयति तथैतत्सर्वमिन्द्रियं रूपं जज्ञे इति, तदपि यत्किञ्चित् मन्त्राक्षरासम्बद्धत्वात् । ऋषभो ज्ञानी ग्रहाभ्यां व्यवहारैर्यवसमानं कर्णाभ्यां श्रोत्रं शब्दविषयं धारयतीत्युक्तं हिन्दीभाष्ये । तत्र यवैः कस्य सादृश्यम्? कर्णयोः शब्दस्य वा? न च यवेः केनाप्यंशेन तत्र सादृश्यं लक्ष्यते । येन कर्म दधाति स कर्कन्धुः, कोऽसौ कर्मधारक इति तु नोक्तम् । केसराणि विज्ञानानीति व्याख्यानमपि निर्मूलमेव । सुषुम्णायां प्राणवायुमवरोध्येत्युक्तिस्तु मूर्खजनप्रतारणायेव । ज्ञानं मुखादुत्पादयतीत्यप्यशुद्धमेव, ज्ञानस्य मुखादनुत्पत्तेः ॥९ १ ॥
पृष्ठ 336
पाठ पढ़ें पाठ छिपाएँ
३०० शुक्लयजुर्वेद संहिता आ॒त्मन्नु॒षस्ये॒ न वृक॑स्य॒ लोम॒ मुखे श्मभू॑णि॒ न व्या॑लो॒म । [ अं ० १ ९ केशा न शी॒र्षन् यश॑से शि॒यै शिवा॑ स॒हस्य॒ लोम॒ त्विषि॑िरिन्द्रियाणि॑ि ॥ ६२ ॥
मन्त्रार्थ - अपने शरीर में उपस्थ और अधोभाग के रोम वृक ( भेड़िया ) के लोम से और मुख पर जो दाढ़ी-मूछों के बाल हैं, वे व्याघ्र के लोम से कल्पित हुए । सिर के बाल यश से कल्पित हैं, जो मनुष्य की शोभा बढ़ाते हैं । शिखा कान्ति है और सारी इन्द्रियां सिंह के रोम से कल्पित हैं ॥ ९ २ ॥ आत्मन् आत्मनि उपस्थे न गुह्ये च यानि लोमानि तानि वृकस्य लोमानि । लोमेति जातावेकवचनम् । मुखे यानि श्मश्रुणि तानि च व्याघ्रलोम । शीर्षन् शीणि शिरसि च यशसे यशोऽथं ये केशाः, या च श्रिये शोभाय शिखा, या च त्विषिः कान्तिः, यानि चेन्द्रियाणि तत्सर्वं सिंहस्य लोम । सौत्रामणीयागे वृक व्याघ्र - सिंहलोम्नामपि सुराग्रहादिभाजनेषु प्रयोगः । अध्यात्मपक्षे – पूर्ववदेव सार्वात्म्य प्रतिपादकतया व्याख्येयम् । -दयानन्दस्तु -- ' हे मनुष्य, यस्यात्मन्नुपस्थे सति वृकस्य लोम न व्याघ्रलोम न मुखे श्मश्रूणि शीर्षन् केशा न शिखा सिंहस्य लोमेब त्विषिरिन्द्रियाणि सन्ति, स यशसे श्रियै प्रभवति ' इति, तदपि यत्किञ्चित् मूले यस्य तस्येतिपदयोरभावात् मनुष्यस्य आत्मादौ वृक व्याघ्र - सिंहलोम्नामदर्शनात् । इवाध्याहारेऽपि न निर्वाहः, तत्र तत्सादृश्याभावात् ॥ ९ २ ॥ अङ्गन्यात्मन् भि॒षजा॒ तदश्विनात्मानमङ्गे: सम॑धात् सर॑स्वती । इन्द्र॑स्य रूप ं श॒तमा॑न॒मायु॑श्च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑नाः ॥ ९ ३ ॥ मन्त्रार्थ- - इन्द्र के रूप को सैकड़ों वर्षों से पूजनीय अथवा सौ वर्ष पूर्ण करने वाली आयु को प्रसन्नतादायक चन्द्र की ज्योति के द्वारा अमृतरूप, कभी न नष्ट होने वाला स्वरूप दिया गया । चिकित्सक अश्विनीकुमारों ने शरीर के सारे अंगों को सुव्यवस्थित किया और सरस्वती ने इस अवयव - संधान में सहायता की, अर्थात् अश्विनीकुमार और सरस्वती ने मिल कर पूर्वोक्त विधि से अंगों का संयोजन कर इस यज्ञशरीर को बनाया । इसके द्वारा इन्द्र यजमान को सुखमय जीवन और अमृतत्व को प्राप्त कराता है ॥ ९ ३ ॥ भिषजा भिषजौ वैद्यौ अश्विना अश्विनो दस्रौ आत्मन् आत्मन्यङ्गान्यवयवान् समधात् समधातां समयोजयताम् । सरस्वती आत्मानमङ्गः समधात् सन्दधे । कीदृशा अश्व्यादयः? इन्द्रस्य रूपं स्वरूपमायुश्च चन्द्रेणाह्लादकेन ज्योतिर्ज्योतिषा सहामृतमनश्वरं दधानाः सम्पादयन्तः । कीदृशं रूपम्? शतमानम्, शताना-मनेकेषां मानं पूजा यस्मिन् तज्जगत्पूज्यं रूपमित्यर्थः । अथवा यस्मिन्नात्मनि भिषजौ अश्विना अङ्गानि समधाताम्, तमात्मानमङ्गः समधात् सरस्वती च । एवमिन्द्रस्य रूपं शतमानं बहुप्रतिमानमायुश्च अश्विनी सरस्वती च चन्द्रेण ह्लादकेन ज्योतिषाऽमृतमनश्वरं दधाना इन्द्रस्यात्मानमङ्गी संयोजितवन्तः । दयानन्दस्तु - ' हे मनुष्याः, भिषजावश्विनो सिद्धसाधको यथा सरस्वती आत्मन् स्थिरा सती योगाङ्गान्य-नुष्ठाय आत्मानं समधात्, तथैवाङ्गेर्यदिन्द्रस्य रूपमस्ति, तत् सन्दध्याताम् । यथा योगं दधानाः शतमानमायुर्धरन्ति,
पृष्ठ 337
पाठ पढ़ें पाठ छिपाएँ
म ० ९ ३ - ९ ४ ] वेदार्थ पारिजातभाष्यसंहिता ३०१ तथेा चन्द्रेणामृतज्योतिर्दध्यात् ' इति, तदपि निरर्गलम्, विसङ्गतेः । मूलमन्त्रे इव यथा तथादिपदानामभावात्, भिषजा अश्विना इति समानयोरपि पदयोरेकत्र ' इव ' इत्यध्याहारः, अन्यत्र ' तदभावः ' इत्यत्र बीजानुक्तेः । अङ्ग-रित्यनेन योगाङ्गानामेव ग्रहणं न व्याकरणाद्यङ्गानामित्यत्र का विनिगमना? योगाङ्गान्यनुष्ठाय आत्मन् स्थिरे-त्यप्यसङ्गतम्, अनुष्ठाय - स्थिरेतिपदयोर्मूलेऽभावात् । न चात्मनि कस्यचित् स्थितिः सम्भवति, आत्माश्रयदोषात् । हरपि नः स्वस्कन्धमा रोढुं प्रभवति । नह्यात्मनः समाधानं भवति, किन्तु चित्तस्य समाधानं प्रसिद्धम् । तथा चाह पण्डितराज जगन्नाथो गङ्गालहर्याम् - ' समाधानं बुद्धेः ' इति । सिद्धान्तपव्याख्यानं तु श्रुतिसम्मतमेव । तथाहि - ' एतस्माद्वे यज्ञात् पुरुषो जायते ' ( श ० १२ २ ९ | १ | १ ) इति सौत्रामणीयज्ञात्पुरुषस्योत्पत्तिरुक्ता । ततः प्राक् - ' त्वष्टा हतपुत्रः । अभिचरणीयमपेन्द्र सोममाहरत् तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोममपिबत् स विष्वङ् व्याच्छेत् तस्य मुखात् प्राणेभ्यः श्रीयशसान्यूर्ध्वान्युदक्राम-स्वानि पशु प्राविशैस्तस्मात् पशवो यशो यशो ह भवति य एवं विद्वान् सौत्रामण्याऽभिषिच्यते ' ( श ० १२ | ८ | ३ | १ ), ' ततोऽस्मा एतमश्विनौ सरस्वती च । यज्ञ, समभरन् सौत्रामणीं भैषज्याय तयैनमभ्यषिञ्चस्ततो वै स देवाना श्रेष्ठोऽभवच्छ्रेष्ठः स्वानां भवति य एनयाऽभिषिच्यते ' ( श ० १२८ ३ २ ) इति श्रुतिमनुसृत्यैव उव्वटमहीधरादिभि-स्तत्परत्वेन मन्त्रा व्याख्याताः ॥ ९ ३ ॥
सर॑स्वती योग्य गर्भमन्तरश्विभ्यां पत्नी सुकृतं बिभत ।
अपा रसेन वरु॑णो न सानेन्द्र॑ प्रि॒ये॑ ज॒नय॑न्न॒प्सु राजां ॥ ६४ ॥
मन्त्रार्थ - सरस्वती देवी अश्विनीकुमारों की पत्नी बन कर इन्द्र रूप गर्भ को भली - भांति धारण करती है । जल का देवता राजा वरुण जल के सारभूत रस के द्वारा साम के प्रभाव से जगत् की शोभा बढ़ाने वाले अथवा ऐश्वर्य के निमिभूत इन्द्र का पिता के समान पोषण करता है | अथवा पत्नी सरस्वती इसको धारण करती है और अश्विनी-कुमारों की सहायता से वरुण इस इन्द्र का पोषण करता है । यहाँ इन्द्र पद से ऐश्वर्यवान् यज्ञ का वर्णन है । वाणी ही सरस्वती है । जिस वेदवाणी में यह यज्ञ स्थापित होता है, द्युलोक और भूमि के अधिष्ठाता देव इसकी रक्षा करते हैं, अथवा अहोरात्र इसके रक्षक हैं ॥ ६४ ॥
सरस्वती अश्विभ्यां पत्नी अश्विनोः पत्नी भूत्वा योन्यामन्तर्मध्ये गर्भमिन्द्रलक्षणं सुकृतं यथा शोभनं कृतं बिभर्ति | अप्सु राजा अपामीश्वरो वरुणोऽपां रसेन साम्ना उदकरसभूतेन साम्ना इन्द्रं श्रिये जनयन् सन् बिभर्तीत्यनुषज्यते । नश्वार्थः । अध्यात्मपक्षे - अश्विद्वयमसंयुक्तं सगुणं निर्गुणं ब्रह्मैव । सरस्वती च तनिष्ठाऽनन्तब्रह्माण्डोत्पादिनी शक्तिरेव । एत्रमर्थो ज्ञातव्यः । दयानन्दस्तु - ' हे योगिन्! यथा सरस्वती पत्नी पत्युर्योन्यामन्तः सुकृतं गर्भं बिर्भात, यथा वा वरुण राजा अश्विभ्यामपां रसेन अप्सु साम्ना न सुखेनेन्द्रं श्रिये जनयन् विराजते, तथा त्वं भव ' इति, तदपि यत्किञ्चित्, अश्विभ्यामिति पदेनाध्यापकोपदेशकयोर्ग्रहणे मानाभावः । अध्याहारश्च निर्मूल एव ॥ ९ ४ ॥
पृष्ठ 338
पाठ पढ़ें पाठ छिपाएँ
३०२ शुक्लयजुर्वेद संहिता तेज॑ः पशूना॑ ह॒विर॑न्द्रि॒याव॑त् परिस्रुता॒ पय॑सा सार॒घं मधु ' । [ अ ० १ ९ अ॒श्विभ्यां॑ दु॒ग्धं भिषजा॒ सर॑स्वत्या सु॒तासुताभ्या॑म॒मृतः सोम इन्दुः ॥ ६५ ॥
ऊनविंशोऽध्यायः समाप्तः ॥ मन्त्रार्थ - चिकित्सा करने वाले अश्विनीकुमार और सरस्वती ने वीर्यवान् पशुसम्बन्धी दुग्ध दोहन , घृत किया तथा । मधुमक्षिकाओं के बनाये हुए शहत की हवि को लेकर परिस्रुत किये हुए दूध से इन्द्र के निमित्त और तेज का सरस्वती आदि ने सुत और असुत दुग्ध से अमृतरूप ऐश्वर्यदायक सोम को निकाला । इस प्रकार अश्विनीकुमार मिल कर अनेकों द्रव्यों से रस लेकर इन्द्र का उपकार किया, उसको बलशाली बनाया ॥ ६५ ॥
भिषजा भिषग्भ्यामश्विभ्यां सरस्वत्या च इन्द्रियावद् इन्द्रियवद् वीर्यवत् पशूनां सम्बन्धि हविरादाय परिता पयसा च सह सारघं मधु चादाय इन्द्रार्थे तेजो दुग्धं स्रावितम् । सुतासुताभ्यां परिस्रुत्पयोभ्यां सकाशाद् अमृतोऽमृतरूप इन्दुरैश्वर्यप्रदः सोमश्च दुग्धः । एवं यैः सरस्वत्यविभिरिन्द्राय नानाद्रव्येभ्यो नानारसानादाय उपकारः कृत ।, तेभ्यः सौत्रामणिद्रष्टृभ्य ऋषिभ्यो नमः । अध्यात्मपक्षे - सोत्रामणीद्रष्ट्रपाध्यवच्छिन्नाथ परस्मै ब्रह्मणे नमः । दयानन्दस्तु - ' हे मनुष्याः याभ्यां सुतासुताभ्यां निष्पादिताऽनिष्पादिताभ्यां भिषजाश्विभ्यां पशूनां गवादीनां परिस्रुता पयसा तेन इन्द्रियावत् सारघं मधु हविर्दुग्धम्, सरस्वत्यामृतः सोम इन्दुश्चोत्पाद्यते, तौ योगसिद्धि प्राप्तुत: ' इति, तदपि यत्किञ्चित्, अश्विभ्यामिति द्वित्वास्वारस्यात् । ब्राह्मणेषु परिस्रुत्पयसोद्विवचनस्वारस्येन ' सुतासुताभ्याम् ' इत्यनेनायमेवार्थी युक्तो लभ्यते । अनेन महात्मना कृतस्य व्याख्यानस्य श्रुतिविरोधाद् व्याख्याना-पसदत्वमेव । तानि च ब्राह्मणान्युद्भियन्ते - ' अङ्गान्येवास्याश्विनः पशुः । आत्मा सारस्वतो रूपमेन्द्र ऋषभस्तस्मा -दाहुर्गावः पुरुषस्य रूपमित्यायुर्हिरण्यं तच्छतमानं भवति तस्माच्छतायुः पुरुषः ' ( श ० १२ २ ९ | ११४ ) । एतच्छ्रुत्यनु-रोधेनैव ' अङ्गान्यात्मन् भिषजा तदश्विनात्मानम् ' ( वा ० सं ० १ ९ / ९ ३ ) इत्यादिकण्डिकाव्याख्यानम् । तथाहि-आश्विनः पशुः अस्येन्द्रस्य अङ्गानि सारस्वत ऋषभः पशुरस्यात्मा शरीरम् । अश्विनौ सरस्वती चैवमिन्द्रस्य रूपमायुश्च ज्योतिहिरण्यमयं शतमानं सम्पादितवन्तः । ' चक्षुषो एवास्याश्विनौ ग्रहो । पक्ष्माणि गोधूमसक्तवश्च कुवलसतवश्च नासिके एवास्य सारस्वतौ ग्रहावथ यानि नासिकयोलमानि तान्युपवाकसक्तवश्च बदरसक्तवश्च श्रोत्रे एवास्यन्द्र ग्रहावथ यानि कर्णयालमानि यानि च भ्रुवोस्तानि यवसक्तवश्च कर्कन्धुसक्तवश्च ' ( श ० १२ ९ | १ | ५ ) । एतच्छ्रुत्यनुरोधेनैवान्या अपि कण्डिका व्याख्याताः । तथाहि-- आश्विनौ अस्येन्द्रस्य चक्षुषी निर्मितवन्तौ, अर्थाद् आश्विनाभ्यां ग्रहाभ्यां चक्षुरमृतमनश्वरं चक्रतुः । गोधूमसक्तवः कुवलसक्तवश्च पक्ष्माणि पक्ष्मनिविष्टानि, पक्ष्मसु निविष्टानि रोमाण्यभवत् । सारस्वती ग्रहो नासिके सजाते । उपवासक्तवश्च बदरसक्तवश्च नासिकयो -मानि जातानि । ऐन्द्रौ ग्रहौ श्रोत्रे सम्भूते । यवसक्तवः कर्कन्धुसक्तवश्च कर्णयोर्भुवोश्च लोमानि सम्पन्नानि । ' अथ यान्युपस्थे लोमानि यानि चाधस्तात् तानि वृकलोमान्यथ यान्युरसि लामानि यानि च निकयोस्तान व्याघ्रलोमानि केशाश्च श्मश्रूणि च सि, हलोमानि ' ( ० १२ / ९ / १६ ) । एतेन - ' वृक व्याघ्रसिंहानामिव लोमानि श्मश्रुणि भवन्ति 1 स श्रिया यशसा वर्धते ' इत्यादिकं व्याख्यानमपव्याख्यानमेव वेदितव्यम् । ' त्रयः पशवो भवन्ति । त्रेधा विहितो वा अयं पुरुषस्यात्मात्मानमेवास्य ते स्पृणोति यदवाङ् नाभे-स्तदाश्विनेन यदृध्वं नाभेरवाचीन शीर्ष्णस्तत्सारस्वतेन शिर ऐन्द्रेण यथारूपमेव यथादेवतमात्मानं मृत्यो
पृष्ठ 339
पाठ पढ़ें पाठ छिपाएँ
मने ९ ] वेदार्थ पारिजात भाष्यसहिता ३०३ स्पृत्वाऽमृतं कुरुते ' ( श ० १२ २ ९ | ११७ ) । ' त्रयः पुरोडाशा भवन्ति । त्रेधा विहितं वा इदं पुरुषस्य वयो वय एवास्य तैः स्पृणोति पूर्ववयसमेवेन्द्रेण मध्यमवयस, सावित्रेणोत्तमवयसं वारुणेन यथारूपमेव यथादेवतं वयो मृत्यो स्पृत्वाऽमृतं कुरुते ' ( श ० १२।९ ।१।८ ) । श्रुत्यैवाध्यात्मपि व्याख्यानं दर्शितम् । तथाहि - ' षड् ग्रहा भवन्ति । षड् वा इमे शीर्षन् प्राणाः प्राणानेवास्य तैः स्पृणोति चक्षुषी एवाश्विनाभ्यां नासिके सारस्वताभ्या श्रोत्रे ऐन्द्राभ्यां यथारूपमेव यथादेवतं प्राणान् मृत्यो स्पृत्वाऽमृतान् कुरुते ' ( श ० १२ / ९ / १ / ९ ) । ' सन्तता याज्या पुरोऽनुवाक्या भवन्ति । समानदेवत्याः प्राणानां सन्तत्या अव्यवच्छेदाय सर्वाः पुरोऽनुवाक्या भवन्ति सर्वा याज्यास्तस्मात् प्राणाः सर्वे पराञ्चः सर्वे प्रत्यञ्चः सर्वाः प्रथमा भवन्ति सर्वा मध्यमाः सर्वा उत्तमास्तस्मात् प्राणाः सर्वे प्रथमाः सर्वे मध्यमाः सर्वं उत्तमाः सर्वेषां ग्रहाणां द्वे याज्यापुरोऽनुवाक्ये भवतः प्राणोदानयोस्तद्रूपं प्राणोदानावेवावरुन्धे तस्मात् सर्वे प्राणाः प्राणोदान-योरेव प्रतिष्ठिताः ' ( श ० १२२ ९ ।१।१० ) । ' स वा एष आत्मैव यत् सौत्रामणी । मन एव प्रत्यक्षाद्वाग्यजमानस्तस्यात्मैव वेदिः प्रजोत्तरवेदिः पशवो बहिरङ्गान्यृत्विजोऽस्थीनीध्म आज्यं मज्जा मुखमग्निरन्नमाहुतिर्वयः सस्था तस्मात् सोत्रामण्येजानो वय उपगच्छति ' ( श ० १२ ९ | १ | ११ ) | आत्मा शरीरम्, वेदिर्वयः, स्थाविरं संस्था | ' तोह वा इमी पुरुषाविवाक्ष्योः । एतावेवाश्विनावथ यत्कृष्णं तत्सारस्वतं यच्छुक्लं तदेन्द्रं तद्यदाश्विने पशी सत्यर्थता देवताः सह यजत्येतान्येवैतत् सार्धं कृत्वात्मन् धत्ते ' ( श ० ११।९ १।१२ ) । मन एवेन्द्रः । वाक् सरस्वती श्रोत्रे अश्विनौ यद्वै मनसा ध्यायति तद्वाचा वदति यद्वाचा वदति तत्कर्णाभ्यां शृणोति तद्यत्सारस्वते पशी सत्यता देवताः सह यजत्येतान्येवैतत् सार्धं कृत्वात्मन् धत्ते ' ( श ० १२ १ ९ | १ | १३ ) | ( ( प्राण एवेन्द्रः । जिह्वा सरस्वती नासिके अश्विनो यद्वे प्राणेनान्नमात्मन प्रणयते तत्प्राणस्य प्राणत्वं जिह्वया वा अन्नस्य रसं विजानाति नासिके उ वे प्राणस्य पन्थास्तद्यदैन्द्रे पशौ सत्यथैता देवताः सह यजत्येतान्येवैतत्सार्धं कृत्वात्मन् धत्ते ' ( श ० १२ | ९ | १ | १४ ) । ' हृदयमेवेन्द्रः । यकृत् सविता क्लोमा वरुणस्तद्यदैन्द्रे पुरोडाशे सत्यथैता देवताः सह यजत्येतान्येवे-तत् सार्धं कृत्वात्मन् धत्ते ' ( श ० १२ ९ | १ | १५ ) । ' प्राण एव सविता । व्यानो वरुणः शिश्नमिन्द्रो यद्वै प्राणेनान्नमत्ति तद्वयानेन व्यनिति शिश्नेन वा अन्नस्य रस रेतः सिञ्चति तद्यत् सावित्रे पुरोडाशे सत्यथैता देवताः सह यजत्येतान्येवैतत् साधं कृत्वात्मन् धत्ते ' ( श ० १२ | ९ | १ | १६ ) । ' योनिरेव वरुणः । रेत इन्द्रः सवितैव रेतसः प्रजनयिता तद्यद्वारुणे पुरोडाशे सत्यथैता देवताः सह यजत्येतान्येवैतत् सार्धं कृत्वात्मन् धत्ते स य एवमेतद्वेदैता एव देवता अनुसम्भवत्येता देवता अनु प्रजायत आ प्रजया पशुभिः प्यायते प्रत्यस्मिँल्लोके तिष्ठत्यभि स्वर्ग लोकं जयति य एवं विद्वान् सौत्रामण्या यजते यो वैतदेवं वेद ' ( श ० १२।९ ।१।१७ ) । इत्येवं सर्वथापि ब्राह्मणानुरोधेन पूर्वोक्तं सिद्धान्तसम्मतमेव व्याख्यानं क्षोदक्षमम्, न दयानन्दीयमिति युक्तमुत्पश्यामः ॥ ९ ५ ॥ श्री शुक्लयजुर्वेद माध्यन्दिनसंहितायां वेदार्थपारिजातभाष्यमण्डितायां एकोनविंशोऽध्यायः समाप्तः ॥
पृष्ठ 340
पाठ पढ़ें पाठ छिपाएँ
विंशोऽध्यायः क्षत्रस्य योनिरस क्षत्रस्य नाभिरसि माहिसोमा मोहिसीः ॥ १ ॥
मन्त्रार्थ- - इस मन्त्र को पढ़ता हुआ चौकी के दो पाये दक्षिण वेदी पर और दो उत्तर बेदी पर रखे । आसन्दी, तुम क्षत्रिय जाति की राजपदवी की उत्पत्तिस्थली हो, तुम क्षत्रिय जाति को नाभि, अर्थात् एकता के बन्धनका कारण हो । तब चौकी पर मृगचर्म बिछावे । हे कृष्णाजिन, आसन्दी तुमको पोड़ा न दे, तुम मुझे पीड़ा मत पहुँचाओ ॥ १ ॥
' सोमासन्दीवदासन्दी जानुमात्रपादी वेद्योनिदधाति क्षत्रस्य योनिरिति ' ( का ० श्री ० १ ९ | ४ | ७ ) । मुजरज्ज्वा व्यूतामौदुम्बरीमरत्निप्रमाणां जानुमात्रपादीमासन्दीं वेद्योनिदध्यात्, आसन्द्याः पादद्वयं दक्षिणवेद्यां पादद्वयं चोत्तरवेद्यां कुर्यादिति सूत्रार्थः । पूर्वं प्रकृतौ नाभिमात्रपादा आसन्दी उक्ता । तद्बाधनार्थमत्र जानुमात्र-पादीमित्युच्यते । आसन्दीदेवत्या द्विपदा गायत्री । हे आसन्दि, क्षत्रस्य योनिरुत्पत्तिस्थानमसि । आसन्द्यामभि-षिक्तो गुणधर्मानर्हति राजेत्यभिप्रायकं योनित्वम् । क्षत्रस्य नाभिर्नहनं बन्धनं चासि । ' कृष्णाजिनमस्यामास्तृणाति मा त्वेति ' ( का ० श्र ० १ ९ / ४ ( ८ ) । अस्यामासन्द्यां कृष्णाजिनं स्तृणुयादाच्छादयेदिति सूत्रार्थः । कृष्णाजिनदेवत्यं यजुः । यज्ञाध्यासेन कृष्णाजिनं प्रार्थ्यते । हे कृष्णाजिन, आसन्दी त्वा त्वां मा हिंसीत् । त्वं च मा मां मा हिंसीः, | अत्र ब्राह्मणम् – ' अथैनां कृष्णाजिनेनास्तृणाति । मा त्वा हि सीन्मा मा हि सोरिति यज्ञो वे कृष्णाजिनं यज्ञस्य चैवात्मनश्चाहिथं सायै ' ( श ० १२ | ८ | ३ | ९ ) । प्रसन्नं ब्राह्मणम् । अध्यात्मपक्षे - हे परमात्मन् त्वं क्षत्रस्य योनिः कारणमसि, धर्मरूपत्वात् । क्षतात् त्रायत इति क्षत्रम्, पृषोदरादिः, तस्य क्षत्रस्य नाभिरसि बन्धनमसि, ' तदेतत् क्षत्रस्य क्षत्रम् ' ( श ० १४ | ४ | २ | २६ ) इति श्रुतेः । धर्मेणैव क्षत्रं नियम्यते । अन्यथाऽङ्कुशमन्तरा गज इव वल्गामन्तराश्व इवानियन्त्रितं क्षत्रं जगन्नाशकमेव स्यात् । तादृशं त्वां कोऽपि मा हिसीत् । त्वं च मां मा हिंसीः, ' धर्म एव हतो हन्ति ' ( म ० स्मृ ० ८।१५ ) इति स्मृतेः । दयानन्दस्तु – ' यतस्त्वं क्षत्रस्य राज्यस्य योनिर्निमित्तं क्षत्रस्य राजकुलस्य नाभिरिव जीवनहेतुरसि वेदा-, तस्मात् त्वां कोऽपि मा हिसीत् त्वं च मां मा हिंसी: ' इति, तदपि यत्किञ्चित्, लोकसिद्धस्यार्थस्य बोधने प्रवृत्तेः । क्षत्रियशब्दो जातिविशेषे रूढः । तथा च ' क्षत्राद् घः ' ( पा ० सू ० ४। १ । १३८ ) इत्यत्र काशिका - ' क्षत्रियः, अयमपि जातिशब्द एव ' इति, ' क्षत्रिय, जातावित्येव ' इति सिद्धान्तकौमुदी । तथा च महाकविप्रयोगः-' क्षतात् किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ' ( २० वं ० २।५३ ) । एतेन जातिविशेषे रूढोऽयं शब्दो न राज्यस्य बोधक इति ज्ञायते ॥ १ ॥