वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 341–350

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 341–350

पृष्ठ 341

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 341 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२-१ ]. वेदार्थपारिजातभाष्यसहिता निष॑साद धृतव्रतो वरु॑णः विद्या ॥ २ ॥

। ३०५ पस्त्यास्वा । साम्राज्याय सुक्रतुः । मृत्योः पहि मन्त्रार्थ- - यजमान उस पर बैठे । हे यजमान, तुम इस पर बैठने के फलस्वरूप दण्ड और पुरस्कार के द्वारा देश के अनिष्ट को दूर करने वाले न्यायपरायण और राजकार्य में चतुर होकर प्रजाओं के सम्राट् बनने में समर्थ हो जाओ । यजमान के वामचरण के नीचे चांदी का मंडलाकार रुक्म भूषण रखे हे रुक्म, अकाल मृत्यु से मेरी रक्षा करो । फिर दाहिने चरण के नीचे सुवर्ण का रुक्म रखे हे रुक्म, बिजली के उत्पात से मेरी रक्षा करो ॥ २ ॥

' तस्मिन्नास्ते यजमानो निषसादेति ' ( का ० श्रो ० १ ९ | ४ | ९ ) । यजमानः कृष्णाजिन उपविशेद् निषसादेति मन्त्रेणेति सूत्रार्थः । व्याख्यातेयं कण्डिका दशमेऽध्याये सप्तविंशे स्थाने । ' पादयो रुक्मा उपास्यति राजत ं, सध्ये मृत्योरिति ( का ० श्रौ ० १ ९ / ४ / १० ) । अध्वर्युरासन्द्यामुपविष्टस्य यजमानस्य सव्यपादसमीपे मृत्योः पाहीति मन्त्रेण राजतं दक्षिणपादसमीपे भूमो विद्योत्पाहीति मन्त्रेण सौवर्णं रुक्मं परिमण्डलमाभरणविशेषं निदध्यादिति सूत्रार्थः । ' सौवणं शिरस्येके विद्योदिति ' ( का ० श्री ० १ ९ / ४ ( ११ ) । सोवर्ण पुनः शिरस्येके आचार्या उपास्यन्ति एके दक्षिणपादे विद्योत्पाहीति मन्त्रेणेति सूत्रार्थः । रुक्मदेवत्ये यजुषी । देव्यौ बृहत्यैौ । हे रुक्म मृत्योरकालमरणान्मां पाहि । हे सौवर्ण रुक्म विद्योत्, विद्योतत इति विद्योत् विच्प्रत्यये सति गुणः, पञ्चम्याश्च लुक, विद्युत्पातादित्यर्थः । अध्यात्मपक्षे - असौ साधकः परत्यासु प्रजास्विन्द्रियादिरूपासु, आ समन्ताद् निषसाद आधिपत्येनोप-विवेश । कीदृश:? धृतव्रतः । वरुणो वारयत्यनिष्टमिति वरुणः । साम्राज्याय स्वस्वरूपे सम्यग्राजत इति सम्राट्, तस्य भावः साम्राज्यम्, तस्मै । सुक्रतुः शिवसङ्कल्पवान् । हे परमेश्वर, त्वमेतं मृत्योः संसारलक्षणात् पाहि । विद्योद् विद्युतो वोपमाद् मोहादपि रक्ष । दयानन्दस्तु – ' हे सभेश, भवान् सुक्रतुः धृतव्रतो वरुणः सन् साम्राज्याय पस्त्यासु न्यायगृहेषु आनिषसाद अस्मान् वीरान् मृत्योः पाहि अपमृत्युना प्राणत्यागात् पाहि । विद्योद् दीप्यमानाग्न्यादेः पाहि ' इति, तदपि यत्किञ्चित्, वीराणां तादृशाभ्यर्थनस्य लज्जास्पदत्वात् मनुष्यमात्रस्य अपमृत्यो रक्षकत्वासम्भवात् । पस्त्या-पदस्य न्यायगृहार्थतापि चिन्त्येव ॥ २ ॥

दे॒वस्य॑ त्वा सवितुः प्रसवेऽश्विनो ब॒हुभ्यां पूष्णो हस्ता॑भ्याम् । अ॒श्विनोर्भेष॑ज्येन तेज॑से ब्रह्मवर्च॒ पापाभिषि॑िङवामि॒ सर॑स्वत्यै॒ भ॑व॑ज्येन वी॒र्या॑या॒न्नाद्या॑या॒भिवि॑ञ्चा॒मन्द्र॑स्येन्द्रि॒-ये ये यश॑से॒ ऽभिषिञ्चामि ॥ ३ ॥

मन्त्रार्थं - अध्वर्यु यजमान का अभिषेक करे - हे यजमान, सविता देव की आज्ञा से अश्विनीकुमारों की मुजा और पूषा देवता के हाथों से तुम अश्विनीकुमारों की चिकित्सा के द्वारा कान्ति और ब्रह्मतेज को प्राप्त करो, इसके लिये तुम्हारा अभिषेक करता हूँ । सरस्वती के द्वारा प्राप्त की गई औषधि से पराक्रम और अन्नभक्षण की सामथ्यं के निमित्त तुम्हारा अभिषेक करता हूं, इन्द्र की इन्द्रिय- वृद्धि की सामर्थ्य से बलसमृद्धि और यश की प्राप्ति के लिये तुम्हारा अभिषेक करता हूँ ॥ ३ ॥

३ ९

पृष्ठ 342

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 342 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३०६ शुक्ल यजुर्वेद संहिता [ अ ०२ ' सर्व सुरभ्युन्मृदित ४ ९ शेषैरभिषिञ्चत्या मुखादवस्रावयन् प्रतिदिशं सर्वत्र सावित्रमश्विनोः सरस्वत्या इन्द्रस्येति प्रतिमन्त्रम् ' ( का ० श्री ० १ ९ | ४ | १४ ) । सर्वसुरभिभिश्चन्दनकर्पूरकस्तूरिकाकेसरादिभिः, उद्वर्तितं आसन्द्यामुपविष्टं यजमानं वेतसपात्रस्थापितैर्वसाग्रहशेषैः प्रतिदिशं स्थितोऽध्वर्युरामुखादवस्रावयन् मन्त्रत्रयेण परिषिञ्चत् । तत्र मन्त्रत्रयेऽपि सावित्रं देवस्य त्वेति मन्त्रमनुषजेत् । ' सर्वाभिश्चतुर्थम् ' ( का ० श्रौ ० १ ९ ।४।१५ ) । चतुर्थमभिषेकं सर्वाभिर्देवताभिः " अश्विनोः सरस्वत्या इन्द्रस्येति त्रिभिर्मन्त्रैः समुच्चितैः, उत्तरे स्थितोऽध्वर्युः कुर्यात् । अत्रापि पूर्वं सावित्रमन्त्रप्रयोगः । ' महाव्याहृतिभिरेके ' ( का ० श्र ० १ ९ ४ १६ ) । एके महाव्याहृतिभि-चतुर्थमभिषेकं कुर्वन्ति । अस्मिन् पक्षे प्रथमाभिषेकोऽश्विनोरित्यादिसमुच्चयेन, द्वितीयश्च महाव्याहृतिभिः कार्यः । ' उत्तमेन वा ' ( का ० श्रौ ० १ ९ / ४ / १७ ) | अथवा प्रागुक्तानां त्रयाणां मन्त्राणामन्तिमेनेन्द्रस्येन्द्रियेणेत्यनेन चतुर्थ -मभिषिञ्चेदिति सूत्रार्थः । देवस्य त्वेति व्याख्यातम् । अश्विनोरित्यादिमन्त्रत्रयं लिङ्गोक्तदेवतम् । आद्या प्राजापत्या बृहती, द्वे ऋग्गायत्र्यौ । हे यजमान, अश्विनोर्भैषज्येन भिषजः कर्म भैषज्यं तेन भिषककर्मणा त्वामभिषिञ्चामि । किमर्थ -मित्यत आह- तेजसे कान्त्ये ब्रह्मवर्चसाय ब्रह्मणो वर्चो ब्रह्मवर्चमम्, सर्वत्रास्खलित वेदवेदाङ्गाध्ययनतदर्थानुष्ठान-जनता कीर्तिर्ब्रह्मवर्चसम्, तस्मै । सरस्वत्यै भैषज्येन सरस्वत्या भिषक्कर्मणा च वीर्याय सामर्थ्याय अन्नाद्याय अन्नभक्षणसामर्थ्याय च त्वामभिषिञ्चामि । इन्द्रस्य इन्द्रियेण इन्द्रियपाटवेन सामर्थ्येन च त्वामभिषिञ्चामि । किमर्थम्? बलाय सामर्थ्याय श्रिये सर्वसमृद्धयै यशसे कीर्त्यै चेति । अध्यात्मपक्षे - हे साधक, देवस्य सवितु: प्रेरणेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोरश्विनोरिव सुन्दरयोर्भवरोगवैद्ययो रामलक्ष्मणयो:, भैषज्येन आध्यात्मिकानुग्रहरूपेण तेजसे ब्रह्मवर्चसाय त्वामभिषिञ्चामि । सरस्वत्या ब्रह्मविद्याया भैषज्येन वीर्याय असत्त्वापादकाभानापादकावरणनिवृत्तिसामर्थ्याय अन्नाद्याय ब्रह्म-रसास्वादन सामर्थ्याय च त्वामभिषिञ्चामि । इन्द्रस्य परमेश्वरस्य इन्द्रियेण सामर्थ्यातिशयेन बलाय निष्ठा-दाय श्रियै देवीसम्पदे यशसेऽभिषिञ्चामि । दयानन्दस्तु --- ' हे शुभलक्षणान्वित पुरुष, सवितुः परमेश्वरस्य प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्या-मश्विनो भैषज्येन तेजसे प्रागल्भ्याय राजप्रजाजनोऽहं त्वामभिषिञ्चामि । सरस्वत्या भैषज्येन वीर्याय पराक्रमाय अन्नाद्याय अत्तुं योग्याय अन्नाय त्वामभिषिञ्चामि । इन्द्रस्य परमैश्वर्यस्य इन्द्रियेण धनेन बलाय पुष्टत्वाय सुशोभिताये राज्यलक्ष्म्यै यशसे कीर्त्यै च त्वामभिषिञ्चामि इति तदपि यत्किञ्चित् सम्बोधनस्यैव निर्मूल -त्वात्, सरस्वत्यै वाच इति भैषज्यसम्बन्धानुक्तेः परमैश्वर्यस्य धनेन कीदृशोऽभिषेक इत्यनुक्तेः, अभिषिञ्चामि स्वीकरोमीत्यस्य निर्मूलत्वात् श्रुतिसूत्रविरोधाच्च ॥ ३ ॥

को s सि कत॒मोऽसि कस्मै ' त्वा॒ कार्य त्वा । सुश्लोक सुम॑ल॒ सत्य॑राजन् ॥ ४ ॥

मन्त्रार्थ - अध्वर्यु यजमान का स्पर्श करते हुए कहता है- हे यजमान, तुम कौन से प्रजापति हो, प्रजापति पद की प्राप्ति के निमित्त तुम्हारा अभिषेक करता हूँ । प्रजापति की प्रीति के निमित्त तुम्हारा अभिषेक करता हूँ । इसका अभिप्राय यह है कि तुम कौन प्रधान पुरुष हो, तुमने किस देवता की प्रसन्नता के लिये इस महान् अनुष्ठान का आरम्भ किया है, यजमान उस देवता का नाम स्मरण करे । हे सुन्दर कीर्ति वाले, हे श्रेष्ठ मंगलमय, हे सत्यराज्य के प्रभो, आप यहाँ आवें ॥ ४ ॥

पृष्ठ 343

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 343 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

* ४-५ ] वेदार्थपारिजातभाष्यसहिता ३०७ ' यजमानमालभते कोऽसीति ' ( का ० श्र ० १ ९ | ४ | १ ९ ) । अध्वर्युर्यजमानं स्पृशति कोऽसीति मन्त्रेणेति सूत्रार्थः । प्राजापत्या गायत्री उष्णिगर्भा, ' षडक्षर: सप्ताक्षरस्तत एकादशाक्षर एषोष्णिग्गर्भा गायत्री ' ( ऋक्-प्रातिशाख्ये १६ ( २८ ) इति वचनात् । इयादिपुरणाद् द्वितीयस्य सप्ताक्षरत्वम् । हे यजमान, त्वं कः प्रजापतिरसि । कतमः? अत्यन्तं कः कतमः श्रेष्ठः प्रजापतिरसि, बहूनां प्रजापतीनां मध्ये उत्तमः प्रजापतिरसीति यावत् । कस्मै? प्रजापतिपदप्राप्तये त्वामहमभिषिक्तवानिति शेषः, काय प्रजापतिभावाय चाभिषिक्तवान्, अस्मीति शेषः । ' सुश्लोकेत्यालब्धो ह्वयति ' ( का ० श्र ० १ ९ | ४ | २० ) | अध्वर्युणा स्पृष्टो यजमानः सुश्लोकादिसंज्ञान् नरानाह्वयतीति सूत्रार्थः । हे सुश्लोक, एहीति शेषः । शोभनः श्लोकः कोर्तिर्यस्य स सुश्लोकस्तत्सम्बुद्धौ । हे सुमङ्गल शोभनं मङ्गलमभ्युदयो यस्य स सुमङ्गलस्तत्सम्बुद्धौ त्वमेहीति शेषः । हे सत्यराजन् सत्योऽविनाशी राजा प्रभुर्यस्य स सत्यराजा तत्सम्बुद्धौ त्वमेहीति शेषः । अध्यात्मपक्षे - हे साधक, त्वं कोऽसि हिरण्यगर्भोऽसि कतमोऽसि अतिशयितः प्रजापतिस्तत्साक्षि-रूपोऽसि । कस्मै तत्पदप्राप्तये काय प्रजापतिभावाय त्वामुपदिशामीति शेषः । तादृशोपास्यनिष्ठः साधक एव निष्ठादार्थ्याय सम्बोध्यते । हे सुश्लोक हे सुमङ्गल हे सत्यराजन् त्वं त्वदुपासननिष्ठो भवेति शेषः तादृशोपासनाया एव सुश्लोकत्वाद्यापादकत्वात् । दयानन्दस्तु – ' हे सुश्लोक सुमङ्गल सत्यराजन् त्वं कोऽसि सुखरूपोऽसि । कतमोऽतिशयेन सुखकारी असि । कस्मै सुखरूपाय परमेश्वराय काय ब्रह्मदेवत्याय वेदमन्त्राय त्वामहमभिषिञ्चामि ' इति, तदपि यत्किञ्चित्, विपरीतार्थस्यापि सम्भवात् । नहि खलु न्यायकारी सुमङ्गलः सुश्लोकः सुखरूप एव भवति, सुश्लोकानामपि नलादीनां दुःखित्वस्मरणात् । कतमः सुखकारीति व्याख्यानमयुक्तम्, निर्मूलत्वात् । काय ब्रह्मदेवत्यमन्त्रायेति च निर्मूलम्, तस्य तादृशशक्तौ मानाभावात् । किञ्च, सुखवाचिना कशब्देन नपुंसकेन भाव्यम् || ४ || शिरो ' मे श्रीय॑शो॒ मुखं त्वषि॒ः केशा॑श्च॒ श्मश्रूणि । राजा॑ मे प्रा॒णो अ॒मृत॑ स॒म्राट् चक्षु॑व॒राट् श्रोत्र॑म् ॥ ५ ॥

मन्त्रार्थ - यजमान अपने शरीर का स्पर्शकरे मेरा सिर ब्रह्मतेज से संयुक्त हो, मुख वेदपाठ से यश-P स्वरूप हो, सिर के बाल और दाढ़ी मूछे हृदय में ब्रह्माग्नि के प्रकाश से कान्तिरूप हों, मेरा तेजस्वी प्राण समाधि - लाभ से अमृतमय हो, चक्षु इन्द्रिय विव्य दृष्टि से और श्रोत्रेन्द्रिय दूरश्रवण की शक्ति से सम्पन्न हो ॥ ५ ॥

' अङ्गानि चालभते यथालिङ्ग, शिरो म इति प्रतिमन्त्रम् ' ( का ० श्र ० १ ९ / ४ ( २१ ) । यजमानो यथालिङ्गमङ्गान्यालभते ' शिरो मे ' इत्यादिभिर्मन्त्रैरिति सूत्रार्थः । इन्द्रशरीरावयवदेवताकं पञ्चर्चम् । तत्र तृतीया गायत्री, अन्त्या व्यवसाना महापङ्क्तिः, शिष्टा अनुष्टुभः । अभिषिक्तो यजमान इन्द्ररूपः सन्नात्मनः सार्वात्म्यं पश्यन्नाह - मे मम शिरः श्रीः शोभास्तु | मे मुखं यशोऽस्तु । मम केशाः श्मश्रूणि मुखलोमानि त्विषिर्दीप्तिरस्तु । राजा दीप्यमानो मम प्राणो मुखवायुरमृतमस्तु । चक्षुरिन्द्रियं सम्राजस्तु । श्रोत्रमिन्द्रियं विराड् विविधं राजमान-मस्तु | यद्वा श्री शिरोऽस्ति । यशो मुखमस्ति । त्विषिः केशादयः । राजा प्राणोऽमृतं वर्तते । सम्राट् सङ्गतं राज्यं यत्र सः, चक्षुर्वर्तते । विराट् श्रोत्रमस्ति । प्रथमशरीरी विराडत्र ग्राह्यः । अध्यात्मपक्षे - गुरुणोपदिष्टः साधकः स्वाङ्गेषु श्रीयशआदिभावनां कृत्वा चिन्तयति । यद्वा भौतिकशिर-आदीन्यङ्गानि तिरोभाव्य श्रीयशआदीनि शिरआदिरूपेण चिन्तयति ।

पृष्ठ 344

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 344 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३०८ शुक्लयजुर्वेदसंहिता [ ०: दयानन्दस्तु - ' हे मनुष्याः, राज्येऽभिषिक्तस्य मम श्री शिरो यश! कथनं मुखं त्विषिर्याय प्रदीप्तिरिव केशाः श्मश्रूणि च राजा मे प्राणोऽमृतं मरणरहितं चेतनं ब्रह्म । सम्राट् चक्षुः । विराट् विविधशास्त्रश्रवणयुक्तं श्रोत्रं कस्येति यूयं जानीत ' इति, तदपि यत्किञ्चित्, मनुष्यमात्रस्य राज्ञः शिरआदोनां शोभाधानादिरूपत्वा-दर्शनात् । नहि न्यायप्रदोप्तिः केशादीनामेव सम्भवति भिन्नरूपत्वात् । न वा प्राणस्य चेतनब्रह्मरूपत्वं सम्भवति । यशःपदस्य न यशःकथनमर्थः । कथञ्चित्तथात्वेऽपि न मुखकीर्तिकथनयोरभेदः सम्भवति भिन्नरूपत्वप्रसिद्धेः । सम्राट्पदस्य चक्षुर्विशेषणत्वे प्रकरणविरोधश्च । विराट् श्रोत्रमित्यपि तथाविधमेव ॥ ५ ॥

' जि॒ह्वा में भ॒द्रं वाङ्महो मनो म॒न्युः स्व॒राड् भाम॑ः ॥ मोवा॑ प्रमो॒दा अ॒ङ्गुलरङ्गानि मित्रं मे सहः ॥ ६ ॥

मन्त्रार्थ - मेरी जीभ कल्याणरूप हो, वाणी वैदिक सिद्धान्त के प्रचार से पूजित हो, मन ' अहं ब्रह्मास्मि ' के उच्चारण से अहंभाव से युक्त हो, क्रोध अपनी मर्यादा में रहे, अंगुलियाँ आनन्दरूप हों, अंग परमानन्दरूप हों, मेरे मित्र शत्रु के नाशक हों ॥ ६ ॥

मे जिह्वा रसनेन्द्रियं भद्रं कल्याणरूपमस्तु । वाग् वागिन्द्रियं महो मह्यते पूज्यत इति मह: पूज्य -मानास्तु, पूजाकारिणी चास्तु, महे: ' सर्वधातुभ्योऽसुन् ' ( उ ० ४। १ ९ ० ) इत्यसुन्प्रत्ययः । मनो मन्युः क्रोधरूपमस्तु, क्रोधफलं वा ददातु । भामः क्रोधः स्वराट् स्वेनैव राजमानोऽस्तु, स्वराज्यक्षमोऽस्तु वर्तते वा । न कुतश्चित् प्रतिहन्यताम् । अवन्ध्यकोपत्वं मेऽस्त्वित्यर्थः । अङ्गुलयो मोदा मोदन्त इति मोदा आनन्दरूपाः सन्तु । पचाद्यच् । अङ्गानि प्रमोदाः प्रकृष्टहर्षाः सन्तु । मे मम मित्रं सोऽस्तु । सहनेऽभिभवति शत्रूनिति सहः, रिपुनाशकमस्तु । अध्यात्मपक्षे - भद्रं मे जिह्वा महो वाग् मन्युर्मनः स्वराड् भामो मोदा अङ्गुलयः प्रमोदा अङ्गानि शत्रुपराभवो मित्रमिति चिन्तनीयमिति । दयानन्दस्तु - ' हे मनुष्याः, मे जिह्वा भद्रं वाङ् महो मनो मन्युः स्वराड् भामो मोदाः प्रमोदा अङ्गुलीरङ्गानि मित्रं च सहो सहायो मे भवेत् ' इति, तदपि यत्किञ्चित् अङ्गुल्यङ्गानां मादप्रमोदरूपत्वा-सम्भवात् । सिद्धान्ते तु सार्वात्म्यभावनया तथा भाव्यते, शालग्रामे विष्णुबुद्धिवत्, योषायामग्निबुद्धिवच्चेति ध्येयम् || ६ || बा॒हू मे॒ बल॑मि॒न्द्रिय॒द्ध् हस्ता॑ मे॒ कर्म॑ वी॒र्य॒म् । आ॒त्मा क्ष॒त्रमु॒रो॒ मम॑ ॥ ७ ॥

मन्त्रार्थ – मेरी दोनों भुजाएँ बलिष्ठ हों, मेरे दोनों हाथ देवाचन करने में समर्थ हों, मेरा अन्तरात्मा हृदय भी संसार से रक्षा करने में समर्थ हो ॥ ७ ॥

मे ' बाहूबलमस्तु, बलवन्तौ स्तामित्यर्थः । इन्द्रियं च बलं स्वकार्यक्षममस्तु । मे हस्तौ कर्म वीर्यं चास्तु, सत्कर्मकुशलो सामर्थ्यवन्तौ च स्तामित्यर्थः । मम च आत्मा अन्तरात्मा उरो हृदयं च क्षत्रं क्षतात् त्राणकरमस्तु । अध्यात्मपक्षे – बलं मे बाहू कर्म वीर्यं च हस्तौ उरुः क्षत्रं चात्मा स्यात् । दयानन्दस्तु - ' हे मनुष्याः, मे बलमिन्द्रियं बाहू में कर्म वीर्यं हस्तो ममात्मा उरः क्षत्रं च ' इति, तदपि चिन्त्यम्, अन्यत्रान्यबुद्धेर्भ्रान्तित्वात्, सम्पत्तीकोपासनादीनां त्वदनभिमतत्वाच्च ॥ ७ ॥

पृष्ठ 345

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 345 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म०८-२ ] पारिजात भाष्यसंहिता

पृष्ठी राष्ट्रमदमसौ ग्री॒वाश्च॒ श्रोणा॑ ।

ऊ॒रू अ॑र॒त्नो जानु॑नो॒ विशो मेऽङ्गानि स॒र्वतः॑ः ॥ ८ ॥

३० ९ मन्त्रार्थ - मेरा पृष्ठदेश सबको धारण करने वाले राष्ट्र के समान हो । पेट, कन्धे, गर्दन, दोनों ऊरु, दोनों हाथ, दोनों ओर का कटिभाग, दोनों जंघाएं और मेरे सभी अंग प्रजा के समान पोषणीय हों, अर्थात् राष्ट्ररूप शरीर में ये सब अंग निरुपद्रव रहें ॥ ८ ॥

मे मम पृष्ठीः पृष्ठप्रदेशो राष्ट्रं देशो देशवत् सर्वसाधारणमस्तु । मे मम उदरमंसौ स्कन्धी ग्रीवाः कण्ठदेशाः श्रोणो कटिदेशो ऊरू सक्थिनी अरत्नी हस्तदेशौ जानुनी च सर्वतोऽन्यान्यङ्गानि च विशः प्रजाः सन्तु, प्रजावत् पोष्याः सन्तु । अध्यात्मपक्षे - राष्ट्रादिषु पृष्ठ्यादिदृष्टयः कर्तव्याः व्यष्ट्यभिमानस्य मृत्युत्वात् अमृतत्वाच्च समष्ट्यभिमानस्य । दयानन्दस्तु – ' हे मनुष्या । मम पृष्ठदेशादयो राष्ट्रादयः ' इति, तदपि न सङ्गतम्, उपासनाङ्गोकार-मन्तरा अन्यत्रान्यदृष्टेरसङ्गतेः ॥ ८ ॥

नाभि॑र्मे चि॒त्तं वि॒ज्ञाने॑ पा॒युर्मेऽपचितिस॒सत् । आनन्द॒न॒न्दावा॒ण्डौ मे भग॒ः सौर्भाग्यं_ पर्सः । जङ्घभ्यां॑ प॒द्भ्यां॑ धर्मोऽस्मि वि॒शि राजा॒ प्रतिष्ठितः ॥ ९ ॥

मन्त्रार्थ - मेरो नाभि भगवान् के ध्यान से ज्ञानमय हो, मेरी पायु इन्द्रिय ज्ञानजनित संस्कार का आधार हो, मेरी स्त्री सन्तान को उत्पन्न करने में समर्थ हो, मेरे अण्डकोश आनन्द से समृद्ध हों, मेरो जननेन्द्रिय यागेश्वर्य और योगसम्पत्ति से सम्पन्न हो, मेरी जंघा और चरण धर्म मार्ग पर चलें, मैं प्रजाओं में प्रतिष्ठित राजा बनूँ ॥ ६ ॥

मेनाभिश्चित्तं ज्ञानरूपमस्तु | उब्वटाचार्यरीत्या तु नाभिर्म चित्तं विज्ञानं च वर्तते । तत्र विज्ञप्ति-विज्ञानम्, तज्जन्यः संस्कारश्चित्तम् । पायुर्म गुदेन्द्रियं विज्ञानं ज्ञानजनितसंस्काराधारमस्तु । भसत् स्त्रीप्रजनन-मपचितिः प्रजारूपमस्तु सुभगमस्तु । यजमानपत्नीविषयकमेतत् । उव्वटाचार्यास्तु - पायुर्गुदप्रदेशः, अपचितिः पूजा भसच्च वर्तते, भसत्शब्देन स्त्रोप्रजननं गोडा आहुः । न च यजमानस्यैतद् भवति, अतः पत्नीविषयकमेतद् दर्शनम् । ' बभस्तिरतिकर्मा ' ( नि ० ५। १२ ) इति तत्रभवान् यास्क: । बभस्ति भर्त्सयति दीप्यते भक्षयति वा स भसत् । ' भस भर्त्सनदीप्त्योः ' इत्यस्मात् ' शुभसोऽदि: ' ( उ ० १ १३० ) इति साधुः । मे मम आण्डो वृषणी आनन्दनन्दो आनन्देन सम्भोगजनितसुखेन नन्दत इति तथोक्तौ स्तामिति शेषः, तत्सुखभोक्तारौ भवतामित्यर्थः । पसो लिङ्गम्, ' पसः सपतेः स्पृशतिकर्मणः ' ( नि ० ५ १६ ) इति तत्रभवान् यास्कः । सपति समवैति स्त्रियेति पसः पृषोदरादित्वाद् वर्णविपर्ययः । अथवा सपति स्पृशति स्त्रियं स्त्रीयोनिमिति वा पसः । भगः सौभाग्यं चास्तु | भग ऐश्वर्यं सौभाग्य-सम्पत्तिर्वा । जङ्घाभ्यां पद्भ्यां चाहं धर्मोऽस्मि । उपलक्षणमेतत्, सर्वाङ्गेर्धर्मरूपोऽस्मीति यावत् । धर्मरूपत्वादेव विशि प्रजायां राजा प्रतिष्ठितोऽस्मि । धर्मप्रतिष्ठितो हि राजा भवति । अध्यात्मपक्षे - चित्तं विज्ञानं मे नाभिः । अपचितिर्भसच्च पायुः । आनन्दनन्दौ प्रहर्षहर्षावाण्डो । भग! सौभाग्यं मे पसः । धर्मो मे जङ्घे पादौ च । एतदुपलक्षितानि सर्वाण्यङ्गानि । कीदृशो धर्म:? विशि प्रतिष्ठितो राजा ।

पृष्ठ 346

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 346 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१० शुक्लयजुर्वेदसंहिता [ अ ० २० दयानन्दस्तु - ' हे मनुष्याः, मे चित्तं स्मरणवृत्तिर्नाभिः, विज्ञानं विशेषज्ञानमनेकज्ञानं वा मे पायुः पसः, मूलेन्द्रियं मेऽपचितिः, प्रजाजनकं भसद् भगेन्द्रियम्, आनन्दनन्दौ आण्डौ अण्डाकारी वृषणी मे भग ऐश्वर्यं सौभाग्ययुक्तं स्यात् । एवमहं जङ्घाभ्यां पद्भ्यां सह विशि प्रतिष्ठितो धर्मो राजास्मि तस्माद्ययं मदनुकूला भवत ' इति, तदपि यत्किञ्चित्, नाभ्या विज्ञानपाय्वोर्भेदस्य लोकप्रसिद्धत्वादभेदानुपपत्तेः । तथैव सर्वत्र उद्देश्यानां विधेयानां च भेद् एव । न च राजापि जङ्घाभ्यां पद्भयां विशि प्रतितिष्ठति, किन्तु सर्व इव राजापि भूमावेव

पद्भयां जङ्घाभ्यां च तिष्ठति । तस्मात् पूर्वोक्तं व्याख्यानमेव युक्तम् ॥ ९ ॥

प्रति॑ि क्ष॒त्रे प्रति॑ितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठा सि॒ि गोषु॑ । प्रत्यङ्गेषु प्रति-तिष्ठाम्यात्मन् प्रति प्राणेषु प्रतितिष्ठामि पुष्ट प्रति॒ द्यावा॑पृथि॒व्योः प्रतितिष्ठामि य॒ज्ञे ॥१० ॥

मन्त्रार्थ - मैं क्षत्रिय जाति में और राष्ट्र में प्रतिष्ठा चाहता हूँ, मैं घोड़ों का और गायों का स्वामी बनना को शान्ति चाहता हूँ । मैं प्राणों में धन - सम्पत्ति में, चाहता हूँ, शरीर के अवयवों में नोरोग प्रतिष्ठित रह कर चित्त स्वर्ग और भूलोक में तथा यज्ञ के विषय में प्रतिष्ठा पाना चाहता हूँ ॥ १० ॥

' कृष्णाजिनेऽवरोहति प्रतिक्षत्र इति ' ( का ० श्र ० १ ९ ४ २३ ) । यजमान आसन्दीतः कृष्णाजिनेऽवतरति प्रतिक्षत्र इति मन्त्रेणेति सूत्रार्थः । विश्वेदेवदेवत्यं यजुः, अतिशकरी । अहं यजमानः क्षत्रे क्षत्रियजातौ प्रतितिष्ठामि प्रतिष्ठायुक्तो भवामि । राष्ट्रे देशे, अश्वेषु गोषु, अङ्गेषु करपादाद्यवयवेषु, आत्मन् आत्मनि चित्ते प्राणेषु पञ्चसु, पुष्टे पुष्टौ समृद्धी द्यावापृथिव्योरिहलाक परलोकयोः प्रतितिष्ठामि यज्ञे ज्योतिष्टोमादौ च प्रतितिष्ठामि यज्ञानुष्ठाननिष्ठो भवामीत्यर्थः । प्रतितिष्ठामीति क्रियापदावृत्तिः प्रत्येकफलस्य प्राधान्यद्योतनार्था । क्षत्रराष्ट्रयोः प्रतिष्ठा तयोर्वशीकरणम् । गोऽश्वप्रतिष्ठा तत्प्राप्तिः । प्राणाङ्गप्रतिष्ठा नोरोगत्वम् । आत्मप्रतिष्ठा आधिराहित्यम् । पुष्टप्रतिष्ठा धनसमृद्धिः । द्यावापृथिव्योः प्रतिष्ठा उभयलोककातिः । यज्ञे प्रतिष्ठा तदनुष्ठाननिष्ठा । वश्यविश्वः पशुमान्निराधिव्याधिः श्रीमान् यज्ञकर्ता च भवेयमिति । महोधराचार्य: । प्रतिपदं प्रतितिष्ठामीत्यस्य एकदेशो ज्ञातव्यः, सत्यभामा सत्या, भीमसेनो भीम इत्यादिवत् अध्यात्मपक्षे – समष्टिभावनया साधकः स्वात्मवैभवं कामयते । क्षत्रे राष्ट्रेऽश्वेषु गोष्वङ्गेष्वात्मनि प्राणेषु पुष्टे द्यावापृथिव्योर्यज्ञे चाह प्रतितिष्ठामि । दयानन्दस्तु --- ' विशि प्रतिष्ठितो राजाहं धर्म्येण क्षत्रे क्षताद्रक्ष के क्षत्रियकुले प्रतितिष्ठामि, राष्ट्रे प्रतितिष्ठामि, यज्ञे च प्रतितिष्ठामि ' इति, तदपि यत्किञ्चित् धर्म्येण व्यवहारेणेत्यंशस्य निर्मूलत्वात् । न च शब्दमात्रे कश्चन प्रतितिष्ठति । सिद्धान्ते तु सोत्रामणीयागानुष्ठानाभिषेकमन्त्रपूर्वकात्ममनोभावनादिबलात् तत्सम्पत्तिरिति ॥ १० ॥

त्र॒या दे॒वा एकदश त्रयस्त्रिशाः सुराधसः । बृहस्पति॑पु॒रोहि॑ता दे॒वस्य॑ सवि॒तुः स॒वे । दे॒वा दे॒वैर॑वन्तु मा ॥। ११ ॥ मन्त्रार्थ - सुन्दर धन वाले बृहस्पति पुरोहित के साथ विद्यमान ब्रह्मा, विष्णु, महेश नामक तीन देवता, ग्यारह देवता और तैंतीस देवता इन सबके प्रेरक सविता देवता की आज्ञा में वर्तमान सभी देवता मेरी रक्षा करें ॥११ ॥

पृष्ठ 347

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 347 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

११-१२ ] वेदार्थपारिजाताभाष्यसहिता ३११ ' त्रया देवा इति शस्त्रान्ते जुहोति ' ( का ० श्र ० १ ९ | ५ | ८ ) । शस्त्रसमाप्तो वषट्कृते या इति afusatara मन्त्रेण त्रयस्त्रिंशं वसाग्रहं जुहोतीति सूत्रार्थः । त्र्यवसाना विश्वेदेवदेवत्या पङ्क्तिः । एकादश-देवा वक्ष्यमाणैर्देवैः सह मामवन्तु रक्षन्तु । कीदृशा देवा:? त्रयाः, त्रयोऽवयवा येषां ते तथोक्ताः, ' संख्याया अवयवे तयप् ' ( पा ० सू ० ५ | २ | ४२ ) इति त्रिशब्दात्तयपि, ' द्वित्रिभ्यां तपस्यायज्वा ' ( पा ० सू ० ५ | २ | ४२ ) इति अयजादेशे, ' यस्येति च ' ( पा ० सू ० ६।४।१४८ ) इतीकारलोपे रूपम् । ते च कति भवन्तीति मन्त्रः स्वयमेवाह-त्रयस्त्रिशा इति । तिसृभिरधिका त्रिशत्संख्या येषां ते त्रयस्त्रिशाः त्रयस्त्रिशत्संख्या इत्यर्थः । सुराधसः शोभनं राधोधनं येषां ते । ' राध इति धननाम, राध्नुवन्त्यनेन ' ( नि ० ४ ४ ) इति यास्कोक्तिः । तथा बृहस्पतिपुरोहिता बृहस्पतिः पुरोहितो येषां ते तथोक्ताः । सवितुर्देवस्य सवे आज्ञायां वर्तमानाः । देवा दीप्यमानाः । अध्यात्मपक्षे - देवैः सह ये एकादश देवा त्रयास्त्रिप्रकाराः ये चैकीकृतास्त्रयस्त्रिंशत् सम्पद्यन्ते ये च सुराधसः शोभनधनाः, ये च बृहस्पतिपुरोहिताः, ते सर्वे सवितुः परमेश्वरस्य प्रसवे आज्ञायां प्रवर्तमाना वक्ष्यमाणैर्देवैः सह मामवन्तु ब्रह्मज्ञान प्रतिबन्धापनयनेन ब्रह्मज्ञानसम्पादनेनाविद्यालक्षणसंसारमृत्यो रक्षन्तु । दयानन्दस्तु — ' ये त्रयास्त्रयाणामवयवभूता देवा दिव्यगुणा बृहस्पतिपुरोहिता बृहस्पतिः सूर्यः पुरः पूर्वः हितो धृतो येषु ते । सुराधसः सुष्ठु राधसः संसिद्धयोगेभ्य एकादशसंख्याकास्त्रयस्त्रिशाः सवितुर्देवस्य परमेश्वरस्य सपरमैश्वर्ययुक्ते प्रेरयितव्ये जगति वर्तन्ते तैर्देवैः सहितं देवा विद्वांसो मामवन्तु ' इति, तदपि यत्किञ्चित्, मनुष्याणां विदुषां पृथिव्याकाशादीनां पालने सामर्थ्याभावात् । पृथिव्यप्तेजोवाय्वाकाशद्यचन्द्रनक्षत्राणि अष्टो वसवः । प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जया एकादशो जीवात्मा द्वादशमासा विद्युद्यज्ञावित्येते त्रयस्त्रशद्देवाः । एतेषां पालने रक्षणे मनुष्याणामल्पशक्तिमतां विदुषामपि न सामर्थ्यं दश्यते । यदि जीवात्मापि त्रयस्त्रिंशदन्तर्गत एव तर्हि तैः सह मामवन्त्विति मपदप्रयोगो व्यर्थ एव स्यात् । किञ्चात्र एकादश रुद्रा ये बृहदारण्यकादो देवत्वेनोक्ताः, त्वयापि भूमिकायामङ्गीकृताः, तानपहायान्येषां ग्रहणे का विनिगमना? ॥ ११ ॥

प्र॒थ॒मा वि॒तोमे॑ह॒तीयो॑स्तृ॒तीये॑स्त॒तोया॑ः स॒त्येन॑ स॒त्य॑ य॒ज्ञेन॑ य॒ज्ञो यज॑भि॒र्य॑ज॑षि॒ साम॑भिः॒ सामा॑न्य॒ग्भिर्ऋच॑ पुरोनुवा॒क्याभिः पुरोनुवा॒क्या याज्याभिय॒ज्या वषट्कारेवैषट्-कारा आहु॑तिभि॒िराहु॑तयो मे कामान् सम॑धयन्तु भूः स्वाहा॑ ॥ १२ ॥

८ मन्त्रार्थ - पहले कहे हुए वसु देवता, दूसरे रुद्र देवताओं के साथ मिलकर मेरी रक्षा करें, दूसरे देवता तीसरे देवताओं के साथ और तीसरे आदित्य देवता सत्यरूप ब्रह्म के साथ, ब्रह्म यज्ञ के साथ, यज्ञ यजुर्वेद के मन्त्रों के साथ, यजुः साम मन्त्रों के साथ, साम ऋचाओं के साथ, ऋचाएं पुरोनुवाक्या मन्त्रों के साथ, पुरोनुवाक्या याज्या मन्त्रों के साथ, याज्या हविःसमर्पक वषट्कार मन्त्रों के साथ वषट्कार आहुतियों के साथ मेरी कामनाओं को पूर्ण करें । भुवन को मली प्रकार दी हुई आहुति स्वीकृत हो ॥ १२ ॥

विश्वेदेवदेवत्यमाशीर्लिङ्गं यजुः । प्रकृतिश्छन्दः, ' तान्यभि सं व्या- प्रेभ्यः कृतिः ' ( पि ० सू ० ४।३ ) इति चतुरशीत्यक्षरस्य प्रकृतित्वात् । ' इयादिपुरण: ' ( पि ० सू ० ३ ( २ ) इति चतुरशीत्यक्षरत्वं ज्ञेयम् । कथमवत्विति जिज्ञासायामाह - प्रथमा इति । प्रथमा देवा द्वितीयः सहिता मामवन्तु द्वितीया देवास्तृतीयः सहावन्तु, तृतीयाः सत्येन सह, सत्यं यज्ञेन सह, यज्ञो यजुभिः सह यजूंषि सामभिः सह सामानि ऋग्भिः सह ऋचः पुरोनुवा -

पृष्ठ 348

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 348 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१२ शुक्लयजुर्वेदसंहिता [ अ 0 क्याभिः सह पुरोनुवाक्या याज्याभि: सह याज्या वषट्कारैः सह वषट्कारा आहुतिभिः सह एवं त्रिप्रकारैरेका-दशसंख्यैर्देवैरुत्तरोत्तरं पालिता आहुतयो मे मम कामानभिलाषान् समर्धयन्तु पूरयन्तु 1 । भूः भवतीति भूर्भुवनम् अथवा भवति सम्पद्यत इति भूराहुतिरूपम्, स्वाहा सुहुतमस्तु । अध्यात्मपक्षे – रक्षणप्रकारमेवाहानया कण्डिकयेति । तथाहि - ' तमेतं वेदानुवचनेन ब्राह्मणा विविदि-न्ति यज्ञेन दानेन तपसाऽनाशकेन ' ( बृ ० ४।४।२२ ), ' सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ' ( ब्र ० सू ० ३।४।२६ ) इति श्रुतिसूत्राभ्यां ब्रह्मात्मसाक्षात्कारे सर्वापेक्षा गम्यते । एवं त्रिप्रकारैर्देवैरुत्तरोत्तरं पालिता आहुतयोऽभीष्टकामान् पूरयन्ति । दयानन्दस्तु – ' हे विद्वांसः, यथा प्रथमा द्वितीयैः प्राणाद्यै रुद्रैः, द्वितीयास्तृतीयैर्द्वादशादित्यैः, तृतीयाः सत्येन कारणेन, सत्यं यज्ञेन शिल्पक्रियया, यज्ञो यजुभिः, यजूंषि सामभिः सामानि ऋग्भिः ऋचः पुरोनु-वाक्याभिरथर्ववेदप्रकरणैः, पुरोनुवाक्या याज्याभिर्यज्ञसम्बद्ध क्रियाभिः, याज्या वषट्कारैरुत्तमकर्मभिः, वषट्कारा आहुतिभिः आहुतयः स्वाहा एते स्वाहा सत्यक्रियया एते सर्वे भूरस्यां भूमौ मे मम कामान् समर्धयन्तु, तथा मां भवन्तो बोधयन्तु ' इति, तदतीवोपहासास्पदम्, वैदिकपदार्थाज्ञानविजृम्भितत्वात् । शस्त्र - स्तोत्र - पुरोनु-वाक्या याज्या धाय्यानां वैदिकानां शब्दानां मन्त्रविशेषे रूढत्वात् । न च पुरोऽनुवाक्याशब्देना थर्ववेदप्रकरणानि बोध्यन्ते, मानाभावात् । न च याज्यापदेन यज्ञसम्बन्धिन्यः क्रिया प्रसिद्धाः सन्ति । एवमेव वषट्कारैरुत्तमकर्मभि-रित्यपि व्याख्यानं निर्मूलमेव ॥ १२ ॥

लोमा॑नि॒ प्रय॑तिम॒म् त्वङ्म॒ आन॑ति॒राज॑तिः ।

मा॒सं म उप॑नति॒र्वस्वस्थि मज्जा म आनंतिः ॥ १३ ॥

म मन्त्रार्थ - मेरे सारे रोम विशाल हों, मेरी त्वचा ऐसी हो कि उसे देख कर झुक कर सब लोग प्रणाम करें, मेरे पास आवें । मेरा मांस प्राणियों को नमन कराने वाला हो, मेरी हड्डियाँ धनरूप हों, मेरी मज्जा, अर्थात् हड्डी के भीतर का भाग जगत् को नमन कराने वाला हो । तात्पर्य यह है कि मेरे शरीर की सातों धातुएँ जगत् को वश में कर सकें ॥ १३ ॥

' प्रत्यक्षभक्षं यजमानो लोमानि प्रयतिरिति ' ( का ० श्र ० १ ९ | ५ | १० ) । यजमानो ग्रहशेषं प्रत्यक्षमुपहव-पूर्वकं भक्षयति लोमानीत्यादिमन्त्रेणेति सूत्रार्थः । लोमत्वगादिदेवत्या अनुष्टुप् । मम लोमानि प्रयतिः प्रयतनम्, प्रयत्नो वर्तते तथोद्यमशीलः स्यां यथा लोमस्वपि प्रयत्नः स्यात् । मे त्वग् आनतिरागतिश्च, आनयन्ति भूतानि यस्यां सा आनतिः, आगच्छन्ति भुतातियां प्रति सा आगतिः । मदीयां त्वचं दृष्ट्रा भुतान्यागच्छन्ति नमन्ति चेति भावः । मे मम मांसमुपनतिः, उपनयन्ति भुतानि यत्र सा । मम अस्थि वसु धनं धनरूपमेव I | मे मज्या आनतिः । उपलक्षणमेतत् । मम सप्तापि धातवो जगद्वशीकरणसमर्थां भूयासुरित्यभिप्रायः । अध्यात्मपक्षे - प्रयत्यादिषु लोमादिदृष्टयः क्रियन्ते । तेन नाहं भौतिकव्यष्टिकार्यकारणसङ्घातरूपः, किन्तु समष्टिसूक्ष्म प्रयत्नाद्युपलक्षितहिरण्यगर्भरूप इति भावयेत् । दयानन्दस्तु – ' हे अध्यापकोपदेशकाः, यथा मम लोमानि प्रयतिर्मे त्वगानतिमसमागतिर्मे वसूपनतिर्मेऽ-स्थि मज्जा चानतिः, तथा यूयं प्रयतध्वम् ' इति, तदपि यत्किञ्चित्, अध्यापकोपदेशकादीनां लोमादीनां प्रयत्ना-

पृष्ठ 349

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 349 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

१३-१५ ] वेदार्थपारिजातभाष्यसहिता ३१३ दिरूपेण परिणमनसामर्थ्यादर्शनात् । सिद्धान्ते तु सौत्रामणीयागमन्त्रप्रभावेण लोमादिषु तादृशश्चमत्कारो ना-सम्भवः । अध्यात्मपक्षे तु व्यष्टिसमष्टयभेदचिन्तनमुपासनारूपमेव । ' पादा मात्रा मात्राश्च पादा: ' ( माण्डूक्यो ० ८ ) इतिवत् ॥ १३ ॥

यद् देवा देवहेर्डनं

देवसश्चक्रमा व॒यम् ।

अ॒ग्निम॒ तस्मा॒देन॑सो॒ विश्वा॑द् मुञ्च॒त्व ह॑सः ॥ १४ ॥

मन्त्रार्थ - हे प्रकाशसम्पन्न देवताओं, हमसे जो आप लोगों का कोई अपराध हुआ हो, तो उस पाप से और सकल विघ्नरूप पापों से अग्नि देवता हमें मुक्त कर दें ॥ १४ ॥

' मासरकुम्भं प्लावयति यद्देवा इति ' ( का ० श्रो ० १ ९ | ५ | १३ ) । अवभृथेष्टि कृत्वा यद्देवा इत्यादिना वरुण नो मुञ्चेत्यन्तेन सार्धकण्डिकाचतुष्कात्मकेन मन्त्रेण मासरकुम्भं जले तारयेदिति सूत्रार्थः । अग्नि वायु-सूर्य देवत्यास्तिस्रोऽनुष्टुभः कूष्माण्डीसंज्ञाः । देवा दीव्यन्तीति देवा द्योतमानाः, हे देवासो देवाः! वयं यद्देवहेडनं देवानामनादरम्, देवापराधमिति यावत्, चकृमा कृतवन्तः करोतेर्लिट् संहितायां छान्दसो दीर्घः, अग्नि-स्तस्मादेनसः पापात् मा मां मुञ्चतु पृथक्करोतु । तथा विश्वाद् विश्वस्मात् अंहसः विघ्नाच्च मुञ्चतु पृथक्करोतु । विश्वादित्यत्र ङः स्मादभाव आर्षः । अध्यात्मपक्षे - तथैव व्याख्यानम् । यद्वयं देवहेडनं प्रमादात् कृतवन्तः, हे देवा:! भवतामनुरोधेन अग्निः परमेश्वरस्तज्जनितात् पापान्मां मोचयतु । न केवलं तस्मादेव, किन्तु विश्वस्मात् सर्वस्मात् पापान्मां मोचयतु | दयानन्दस्तु C - ' हे विद्वान्, यद्वयं देवाः अन्ये देवासश्च परस्परं देवहेडनं देवानामनादरं चकुम, तस्माद् विश्वास व अग्नि मुञ्चतु ' इति, तत्रापि विचारणीयम् - हे देवास इति सम्बोधनमपहाय हे विद्वन्निति सम्बोधनकल्पनं मोदकं परित्यज्य करं लेढीत्या भाणकमनुहरति । न चेको विद्वान् बहूनामनादरापराधं क्षन्तुमधिकृतः समर्थो वा, मानाभावात् देवपदेन योनिविशेष एव गृह्यत इत्यस्य भूमिकायां साधितत्वाच्च ॥१४ ॥

यदि॒ दिवा॒ यदि॒ नक्त॒मेना॑सि चकृ॒मा व॒यम् ।

वा॒युर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑द् मुञ्च॒त्वह॑सः ॥ १५ ॥

मन्त्रार्थ- हमने दिन में और रात में अज्ञानवश जो भी पाप किये हों, वायु देवता उस पाप से अथवा सभी पार्क से हमारी रक्षा करें ॥ १५ ॥

यदि दिवा दिने यदि नक्तं रात्रौ वयमेनांसि पापानि चकृमा, वायुस्तस्मादेनसो विश्वाद् विश्वस्मादेनसश्च मां मुञ्चतु । अध्यात्मपक्षे - वायुभावापन्नः परमेश्वरो मां मुञ्चतु । अन्यत् पूर्ववत् । दयानन्दस्तु - ' हे विद्वन्, यदि दिवा यदि नक्तमेनांसि वयं चक्रम, वायुर्मां मुञ्चतु ' इति, तदपि तुच्छम्, मनुष्यस्य वायोस्तथा सामर्थ्याभावात् ॥ १५ ॥

४०

पृष्ठ 350

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 350 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१४ शुक्लयजुर्वेदसंहिता

यदि जाग्र॒द् यदि॒ स्वप्न॒ एना॑सि चकृ॒मा व॒यम् ।

सूर्यो ' मा॒ तस्मा॒देन॑सो॒ विश्वोद् मुञ्चत्वंह॑सः ॥ १६ ॥

| अ ० २०० और अन्य सभी मन्त्रार्थ- हमने यदि जागते में या सोते समय कुछ पाप किये हैं, सूर्य बेबता उस पाप से प्रकार के पापों से हमें मुक्त कर दें ॥ १६ ॥

चक्रमा यदि जाग्रद् जाग्रति जाग्रदवस्थायाम् सप्तमी लुप्ता | यदि स्वप्ने स्वप्नावस्थायां वयमेनांसि । देवकृतादेवैन-कृतवन्तः, सूर्यस्तस्मादेनसो विश्वस्माच्चांहसो मां मुञ्चतु । अत्र ब्राह्मणम्- ' यद्देवा देवहेडनमिति मुञ्चति यदि जाग्रद्यदि मेनो मुञ्चति यदि दिवा यदि नक्तसिति यदेवाहोरात्राभ्यामेनः करोति तस्मादेवैनं मुञ्चति ' ( श ० १२ | ९ | २ | २ ) । स्वप्न इति मनुष्या व जागरितं पितरः सुप्तं मनुष्य किल्बिषाच्चैवैनं पितुकिल्बिषाच्च करोति तस्मान्मुञ्चति, देवहेडनमित्यनेन देवकृतादेनसो मृञ्चति यदि दिवा यदि नक्तमिति यदेवाहोरात्राभ्यामेनः । यदि जाग्रदित्यनेन मनुष्य किल्विषान्मुञ्चति, यदि स्वप्न इत्यनेन पितृकिल्बिषान्मुञ्चतीत्यर्थः न्यायात् । इति अध्यात्मपक्षे – सूर्यमण्डलान्तर्गतः पुरुषः परमेश्वरः, ' अन्तस्तद्धमं पिदेशात् ' ( ब्र ० सू ० १।१।२० ) , दयानन्दस्तु - ' हे विद्वन्, यदि जाग्रद् यदि " ' सूर्य इव भवान् मां मुञ्चतु तेभ्यो ' इति, मोचनस्य तदपि तुच्छम् दूरतो मनुष्यस्य अन्यदीयजाग्रत्स्वप्नगतापराधानां विश्वेषां चापराधानां ज्ञानासम्भवात् निरस्तत्वात् ॥ १६ ॥

यद् ग्रामे॒ यदर॑ण्य॒ यत्स॒भाया॒ यदि॑न्द्रि॒ये । यच्छूद्रे यदय॒ यदेन॑श्चकृ॒मा व॒यं यदेक्-स्याधि॒ धर्मेण तस्मा॑व॒यज॑नमसि ॥ १७ ॥

मन्त्रार्थ -- ग्राम में अथवा वन में वृक्षछेवनरूप, सभा में असत्य भाषणरूप, सकल इन्द्रियों से परदोष कथन पाप, परनारी दर्शन आदि देवताओं के प्रति, दास वर्ग के प्रति, वैश्यों के प्रति जो हमने अपराध या पाप किये हैं, जो के अधिष्ठात्री देवताओं! पत्नीसहित यजमान के इस कर्म में किया गया है, उन सब पापों से है देवताओं, अथवा हे कुम्भ हमें मुक्त कीजिये ॥ १७ ॥

लिङ्गोक्तदेवतं यजुः । यद् ग्रामे यच्चारण्ये यत् सभायां पक्षपातादिरूपमेनः यदिन्द्रिये इन्द्रियविषये सू ० परापवादनारीदर्शनादि, अथवा इन्द्रियविषये देवविषये वा शूद्रेऽर्ये वेश्ये, ' अर्य: स्वामिवैश्ययो , आवयोर्दम्पत्योः : ' ( पा ० ३ | १ | १०३ ) इति निपातः, यदेनः पापं वयं चक्रमा कृतवन्तः यच्चेतद्वयतिरिक्तं पापं वयं कृतवन्तः पत्नीयजमानयोरेकस्य अधिधर्मणि कर्मण्यधिकर्मविषये यदेनो धर्मलोपलक्षणं कृतवन्तस्तस्यैनसः पापस्य अवयजनं नाशनं त्वमसीति मासरकुम्भं प्रति वचनम् । अवपूर्वयजेर्नाशने वृत्तिः । अत्र ब्राह्मणम् - ' यद्ग्रामे यदरण्य इति । ग्रामे वा ह्यरण्ये वैनः क्रियते तस्मादेवैनं मुञ्चति यत्सभायामिति सभ्यादेवैनमेनसो मुञ्चति यदिन्द्रिय इति देवादेवेनमेनसो मुञ्चति यच्छूद्रे यदर्ये यदेनश्च मा वयं यदेकस्याधिधर्मणि तस्यावयजनमसीति सर्वस्मादेवैनमेतस्मादेनसो मुञ्चति ' ( श ० १२ ९ / २ ( ३ ) । यदिन्द्रिय इत्यत्रेन्द्रियपदेन देवो गृह्यते । देवविषये यदेनश्च कृमेति तदर्थः ।