वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री — पृष्ठ 351–360

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री · पृष्ठ 351–360

पृष्ठ 351

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 351 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

५. म०१७-१८ ] वेदार्थं पारिजातभाष्यसहिता ३१५ अध्यात्मपक्षे - मास रकुम्भोपलक्षितः परमात्मैवात्र प्रार्थनीयः, तस्यैव सर्वपापनाशकत्वोपपत्तेः । व्याख्यानं पूर्ववत् । दयानन्दस्तु - ' हे विद्वन्! यद् ग्रामे सर्वस्य त्वमवयजनं दूरीकरणसाधनमसि, तस्मात् त्वं महा-शयोऽसि ' इति, तदपि पूर्वोक्तदूषणगणं नातिक्राम्यति ॥ १७ ॥

यदापो॑ अ॒घ्न्या इति॒ वरु॒णेति॒ शर्पामहे ततो वरुण नो मुञ्च । अवभृथ निचुम्पुण निच॒रुर॑सि निचुम्पुणः । अव॑ दे॒वेदे॑ कृ॒त॒मेनोऽय॒क्ष्यत्र॒ सत्य॑त्यैकृतं पुरु॒राव्णो देवा॑रि॒ष-स्पाहि ॥ १८ ॥

मन्त्रार्थ - जो जल स्वच्छ रखने योग्य है, अथवा जो सोमलता काटने योग्य नहीं है, उसको हमने जो अभित किया है, है वरुण देवता! उस पाप से हमें मुक्त कीजिये । घड़े को जल में डुबाकर कहे कि हे मन्दगति जलाशय अवभृथ! यद्यपि तुम अति गमनशील हो, तो भी मन्दगति हो जाओ, क्योंकि मैंने ज्ञानेन्द्रियों के द्वारा जानबूझ कर हवि के स्वामी देवताओं के प्रति जो कुछ अपराध किया है, उसे मैं इस जलाशय में छोड़ रहा हूँ । हमारे सहायक ऋत्विजों ने यज्ञ का दर्शन करने के लिये आये मनुष्यों की अवज्ञा कर जो पाप अर्जित किया है, उसे हमने इस जल में डुबो दिया है । हे यज्ञवेवता, विरुद्ध फल देने वाले पापों से हमारी रक्षा करो ॥ १८ ॥

यदाप इति कण्डिकैकदेशी व्याख्यातपूर्व ( ६।२२ ) इत्यत्र । ' पूर्ववन्मज्जनम् ' ( का ० श्री ० १ ९ | ५ | १४ ) । पूर्ववदिति अवभृथेत्यादि ओषधीरुताप इत्यन्तेन मन्त्रेण मासर ( सुरा ) कुम्भस्य जले मज्जनं कुर्यादिति सूत्रार्थः । अवभृथेति कण्डिकैकदेशो व्याख्यातपूर्वः ( ३।४८ ) इत्यत्र । इयान् विशेषः - अवायक्षि नाशितवानसि । यजेर्लुङि तङि उत्तमैकवचने रूपम् । यथात्र ' अयक्षि अव ' इति पदं तथा पूर्वत्र ' अयासिषमव ' इति पदम् । अवायक्षीतिवद् अवायासिषमिति यावत् । षष्ठेद्वाविंशी कण्डिका --- यदाहुरघ्न्या इति प्रकरणप्राप्तं व्याख्यानं पुनः स्मार्यते । यदाहुरिति वरुणदेवत्या गायत्री अवसानहीना । अघ्न्या इति गोनाम । हे वरुण, वेदस्मृतिलोकवाक्यानि अघ्न्या अहन्तव्या अवध्याः पूज्या गाव इति वदन्ति । इतिकरणेन वाक्यार्थमभिनयेन दर्शयति । हे वरुण, वयं तु शपामहे । इतिकरणं प्रदर्शनार्थम् । इति एवमनेन प्रकारेण अघ्न्याः शपामहे हिंस्मः शपतिहिंसार्थः । अत एव वयं याचामहे हे वरुण, ततस्तस्मादेनसो नो मुञ्च मोचय । अत्र ब्राह्मणम् —'यदापो अघ्न्या इति वरुणेति शपामहे ततो वरुण नो मुञ्चेति वरुण्यादेवैनमेनसो मुञ्चत्यवभृथ निचुम्पुण निचेरुरसि निचुम्पुण इति यो ह वा अयमपामावर्तः स हावभृथः स हैष वरुणस्य पुत्रो -वा भ्राता वा तमेवैतत् स्तौत्यव देवैर्दवकृतमेनोऽयक्षीति देवकृतमेवेनोऽवयजतेऽव मयैर्मत्यं कृतमिति मर्त्यकृतमेवे नोऽवयजते पुरुराव्णो देवरिषस्पाहीति सर्वाभ्यो मार्तिभ्यो गोपायेत्येवैतदाह ' ( श ० १२।९ ।२।४ ) । ' अवभृथ निचुम्पुण ' इति यज्ञदेवतं यजुः । अवाचीनानि पात्राणि जलमध्ये भ्रियन्ते यस्मिन् यज्ञविशेषे, सोऽयमवभृथः, तत्सम्बुद्धौ हे अवभृथ यज्ञ, हे निचुम्पुण नितरां चोपति मन्दं गच्छति गमनशीलोऽसि यः स, निचुम्पुणः तथाप्यत्र तत्सम्बुद्धौ हे निचुम्पुण, यद्यपि त्वं निचेरुः, नितरां चरतीति निचेरुः, नितरां, देवकृतं निचुम्पुणो भव मन्दगमनो भव । किमर्थमिति चेत्? तत्राह - देवेद्यतनात्मकैः, अस्मदीयैरिन्द्रियेः

पृष्ठ 352

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 352 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१६ शुक्लयजुर्वेदसंहिता [ अ ० २० देवेषु हविः स्वामिषु कृतमेनः पापं यदस्ति तदवायासिषं जलेऽहमवनीतवानस्मि । तथा मर्त्यैर्मनुष्ये रस्मत्सहायभूत-ऋत्विग्भिर्मर्त्यकृतं मर्त्येषु यज्ञदर्शनार्थमागतेषु कृतमवज्ञारूपं यदेनोऽस्ति तदप्यहमवायक्ष्यवायासिषम् । इदमस्मत्कृतं पापं यथा त्वां न व्याप्नोति तथा मन्दं गच्छ । यथा अवभृथाख्ययज्ञः पुरुरावा पुरु बहु रुद्धं फलं राति ददातीति पुरुरावा, तस्माद् रिषो वधात् पाहि पालय । अत्र ब्राह्मणम् —'अथाधिरोहति । वारुण्यर्चा वरुणो वै देवानां राजा स्वयैवैनमेतद्देवतयाऽभिषिञ्चति निषसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुरिति ' ( श ० १२ | ८ | ३ | १० ) । ' अथ सुवर्णरजतौ रुक्मौ व्युपास्यति । मृत्योः पाहि विद्योत्पाहीति वृष्टिर्वै विराट् तस्या एते घोरे तन्वौ विद्युच्च ह्रादुनिश्व ततः सुवर्ण एव रुक्मो विद्युतो रूपं रजतो ह्रादुनेस्ताभ्यामेवास्मै देवताभ्यां शर्म यच्छति तस्मात् सौत्रामण्येजानस्यैताभ्यां

देवताभ्यां न शङ्का भवत्यथो य एवमेतद्वेद ' ( श ० १२ । ८ । ३ । ११ ) ॥ १८ ॥

5 स॒मु॒द्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑ः । सुम॒त्रिया न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥ १ ९ ॥ LU मन्त्रार्थ - अवभृथ स्नान के अनन्तर दो डग चल कर अंजुलि में जल लेकर शत्रु की दिशा में उसे छोड़ा जाता है । हे सोम, तुम्हारा हृदय समुद्र के जल में स्थित है, वहाँ तुमको प्रेषित करता हूँ । वहाँ अन्य औषधियाँ और जल तुम्हारे साथ मिल जॉय, जल और औषधियाँ हमारे मित्र हों । जो काम हमारे प्रतिकूल हैं, जो हमारे शत्रु हैं, उनका नाश करने के लिये यह अंजुलि हम समर्पित करते हैं ॥ १ ९ ॥ ' सुमित्रिया न इत्यपोऽञ्जलिनादाय दुर्मित्रिया न इति द्वेष्यं परिषिञ्चति द्वौ विक्रमा उदङ्गत्वा ' ( का ० श्र ० १ ९ / ५ / १५ ) | यजमानोऽवभृथ प्रवेशदेशात् प्रक्रमद्वयमुदीच्यां गत्वा सुमित्रिया इति जलमादाय यस्यां दिशि द्वेष्यो भवेत् तस्यां दिशि ता अपो निषिञ्चेदिति सूत्रार्थः । समुद्रे ते इति द्विपदा विराट् अब्देवत्या । हे वरुण, समुद्रे अप्सु अन्तस्ते हृदयम्, तादृशं त्वा ओषधीरोषधयः, विभक्तिव्यत्ययः, उत आपो विशन्तु संसृज्यन्ताम् । अत्र ब्राह्मणम् —'समुद्रे ते हृदयमप्स्वन्तरिति । आपो वै समुद्रो रसो वा आपस्तदेनमेतेन रसेन स ँ-सृजति सन्त्वाविशन्त्वोषधीरुताप इति तदेनमेतेनोभयेन रसेन सं सृजति यश्वोषधिषु यश्चाप्सु द्वौ विक्रमा उदङ्ङुत्क्रामत्येतावतौ मनुष्ये जूतिर्यावान् विक्रमस्तद्यावत्येवास्मिन् जूतिस्तयैव पाप्मानं विजहाति ' ( श ० १२ | ९ | २५ ) । ' सुमित्रियान आप ओषधयः सन्त्विति । अञ्जलिनाप उपाचति वज्रो वा आपो वज्रेणैवैतन्मित्रधेयं कुरुते दुर्मित्रियास्तस्मै सन्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्म इति यामस्य दिशं द्वेष्यः स्यात् तां दिशं परासिञ्चेत् तेनैव तं पराभावयति ' ( श ० १२ / ९ / २ / ६ ) । अध्यात्मपक्षे - साधकानां हृदयं ब्रह्माकाराकारितवृत्तिमद् ब्रह्मानन्दरसपूर्णं च भूयात्, कामक्रोधादयो द्विषश्च पराभूयन्तामिति तात्पर्यम् ॥ १ ९ ॥ द्रुपदादिव मुमुचानः स्विन्नः स्नातो पूतं प॒वित्रे॑णे॒वाज्य॒माप॑ः शुन्धन्तु

मलादिव ।

मैनसः ॥ २० ॥

मन्त्रार्थ - पत्नीसहित यजमान पहिने हुए वस्त्रों को छोड़ दे । हे जल देवता, मुझे आप पाप से पवित्र करें । जैसे पुरुष पादुका को सहज हो छोड़ देता है, अथवा स्नान करने से जैसे शरीर के मैल से मुक्त हो जाता है, अथवा जैसे ऊन के वस्त्र से छाना हुआ घृत निर्मल हो जाता है, वैसे ही आप मुझे पापों से मुक्त कर दें ॥ २० ॥

पृष्ठ 353

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 353 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म २०-२१ ] वेदार्थपारिजातभाष्यसहिता ३१७ ' अवभृथवत् स्नात्वा वासोऽपासनं द्रुपदादिवेति ' ( का ० श्र ० १ ९ | ५ | १६ ) । जलस्थावेव जायापती सौमिकावभृथवत् स्नात्वा कर्मकाले धृतं वासोऽप्सु क्षिपत इति सूत्रार्थः । अब्देवत्याऽनुष्टुप् । आपो जलानि, एनसः पापात् मा मां शुन्धन्तु पुनन्तु, पापात् पृथक्कुर्वन्तु । एतस्मिन्नर्थे दृष्टान्तत्रयमुच्यते -—- द्रुपदादिवेति । द्रुस्तरु, तन्मयं पदं द्रुपदं पादुका, तस्माद् मुमुचानः पृथग्भवन् यथा पादुकादोषैरसम्बद्धो भवति, मुचेर्विकरणव्यत्ययेन शानचि जुहोत्यादिवाद् द्वित्वे मुमुचान इति रूपम् । यथा च स्विन्नः स्वेदयुक्तः स्नातः सन् मलात् पृथग् भवति । आज्यमिव यथा पवित्रेण कम्बलमयेन पूतं गालितमाज्यं घृतं कीटेभ्यः पृथग् भवति, तथाऽपो मां शुन्धन्तु । ' पलाशी द्रुद्रुमागमाः ' ( अ ० को ० २/४/५ ) इति कोषे द्रुमार्थको द्रुशब्द उक्तः । अत्र ब्राह्मणम् — ' द्रुपदादिव मुमुचानः । स्विन्नः स्नातो मलादिव पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनस इति वासोऽपप्लावयति यथेषीकां मुञ्जाद्विवृहेदेवमेन सर्वस्मात् पाप्मनो विवृहति स्नाति तम ( श ० १२ | ९ | २ | ७ ) । सूत्रमन्त्रव्याख्यानेन व्याख्यातप्रायं ब्राह्मणम् । एवापहते ' अध्यात्मपक्षे —- आपः अब्भावापन्नः परमेश्वरः, एनसो मां शुन्धन्तु शोधयतु । अन्यत् पूर्ववत् । दयानन्दस्तु - ' हे आपः प्राणवज्जलवत्पूता विद्वांसः भवन्तो द्रुपदादिव वृक्षात् फलादिवद् मुमुचानः स्विन्नः स्नातो मलादिव पवित्रेणेव यथा शुद्धिकरेणेव पूतं शुद्धमाज्यं घृतं तथा मामेनसः यत्किञ्चित्, मनुष्याणां सर्वेनसः पावनसामर्थ्यायोगात् ॥ २० ॥ शुद्धन्तु ' इति, तदपि

उद्वयं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम् ।

दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ २१ ॥

मन्त्रार्थ- - अन्धकारमय लोक से परम श्रेष्ठ स्वर्ग लोक को देखते हुए, देवलोक में सूर्य देवता को देखते हम श्रेष्ठ ब्रह्मज्योति को प्राप्त करते हैं । इस मन्त्र का उच्चारण करते हुए यजमान जल से हुए बाहर निकले ॥ २१ ॥

' सोमवदुत्क्रमणमागमनं च ' ( का ० श्र ० १ ९ | ५ | १७ ) | सोमवद् उद्वयमिति मन्त्रेण जलान्निष्क्रमणम् अपाम सोममित्यृचं जपतां त्रिपशुदेशं प्रत्यागमनं भवतीति सूत्रार्थः । सूर्यदेवत्याऽनुष्टुप्, अगन्मेत्याख्यातेन सम्बन्धः । वयं तमसः परि तमोबहुलादस्मान्मृत्युलक्षणात् संसाराद् उदगन्म प्रस्कण्वदृष्टा । उदः गमेर्लङि शपि लुप्ते मस्य नः । कथम्भूता वयम्? उत्तरम् उत्कृष्टतरं स्वः स्वर्गं पश्यन्त उद्गता निर्गताः, देवत्रा देवलोके सूर्यं देवं पश्यन्तः । उत्तमं ज्योतिर्ब्रह्मरूपमुदगन्म प्राप्ताः । ईक्षमाणाः । ततोऽपि अत्र ब्राह्मणम् —'उद्वयं तमसस्परीति । पाप्मा वै तमः पाप्मानमेव तमोऽपहते स्वः पश्यन्त वे लोकोऽद्भय उत्तरोऽस्मिन्नेव लोके प्रतितिष्ठति देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति उत्तरमित्ययं ज्योतिरुत्तम ं स्वर्ग एव लोकेऽन्ततः प्रतितिष्ठत्यनपेक्षमेत्याहवनीयमुपतिष्ठते ' ( श ० १२ स्वर्गो २ ९ २२८ वे ) लोकः । तमः सूर्यो पदेन पाप्मा ग्राह्यः । अध्यात्मपक्षे - ब्रह्मोपासकाः स्वानुभवं प्रकाशयन्तः प्राहुः - वयं परि उपरि विद्यमानं स्वः ब्रह्मात्मकं स्वर्गम् उदगन्म ब्रह्मभावं प्राप्ताः तमसोऽज्ञानतत्कार्यात्मकात् प्रपञ्चात् पठति - उत्तरम् उत्कृष्टतरं सूर्यं देवं द्योतनात्मकं सूर्यमात्मानं पश्यन्तः । कीदृशा , ततोऽप्युत्तममुत्कृष्टतमं इत्याकाङ्क्षायां हेतुगर्भमुत्तरं ज्योति:

पृष्ठ 354

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 354 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३१८ शुक्लयजुर्वेदसंहिता [ अ ० / २० सूर्यमण्डलान्तर्गतं परमात्मज्योतिर्ज्योतिषामपि ज्योतिरगन्म साक्षात्कृतवन्तः, ' शेषः हिरण्यश्मश्रुर्हिरण्यकेश ।: ' ( छा ० १ | ६ | ६ ), ' अन्तस्तद्धर्मोपदेशात् ' ( ब्र ० सू ० १११।२० ) इति श्रुतिसूत्रयोः प्रसिद्धमिति परमेश्वरं वा दयानन्दस्तु - ' हे मनुष्याः, यथा वयं तमसः परं ज्योतिः सूयं सवितारं चराचरात्मानं परिपश्यन्तः सन्तो देवत्रा दिव्यगुणेषु देवेषुः स्वः सुखरूपं देवं दिव्यसुखप्रदं स्वरुत्तरमुत्तमं ज्योतिः स्वप्रकाशं । परमेश्वरमुदगन्य, तथैव यूयमप्येनं प्राप्तुत ' इति, तदपि यत्किञ्चित्, नीरूपस्य परमात्मनो दृग्गोचरत्वानुपपत्तेः देवं दिव्यसुखप्रदमित्यपि चिन्त्यम्, निर्मूलत्वात् । सिद्धान्ते तु प्रत्यक्षस्य सूर्यस्य चक्षुषा दर्शनम्, हिरण्यश्मश्रुत्वादि-विशिष्टस्य परमात्मनो ध्यानबलेन नीरूपस्य ब्रह्मज्योतिषस्तु प्रत्यगात्मना साक्षात्कारः । न च त्वन्मते तथा सम्भवति, प्रत्यगात्मपरमात्मनोर्वस्तुभेदस्य सत्त्वेनान्यात्मसाक्षात्कारासम्भवात् । मनसा स्वात्मन एव साक्षात्कारः सम्भवति, नान्यात्मनोऽपि ॥ २१ ॥

आ॒पो अ॒द्यान्व॑चारिष॒ रसेन॒ सम॑सृक्ष्महि । पय॑स्वानग्न॒ आग॑मं तं मा ससृ॑ज॒ वर्च॑सा प्र॒जया॑ च॒ धने॑न च ॥ २२ ॥

मन्त्रार्थ - हे अग्निदेव! आज मैं अवभृथ स्नान करते समय जल के भीतर चला हूँ, जल के रस से संपृक्त करें || हुआ हूँ, जल से पवित्र हुआ हूँ । अतः आप मुझे तेज से, पुत्र - पौत्र आदि से तथा है सुवर्ण ॥ २२ आदि ॥ धन से सम्पन्न इस मन्त्र का उच्चारण करते हुए यजमान आहवनीय अग्नि का उपस्थान करता ' आहवनीयमुपतिष्ठतेऽपो अद्येति ' ( का ० श्र ० १ ९ | ५ | १८ ) । आपो अद्येति मन्त्रेण यजमान आहवनीय-मुपतिष्ठेतेति सूत्रार्थः । अग्निदेवत्या पङ्क्तिः । अद्य अस्मिन्नहनि योऽहमपोऽन्वचारिषम्, अवभृथकर्मण । जलमनु-चरितवानस्मि प्राप्तवानस्मि यश्चाहमब्जेन रसेन समसूक्ष्महि संसृष्टवानस्मि वचनव्यत्ययः, यश्चाहं पुत्रपौत्रादि- पयस्वान् उदकवान् सन् आगमम् आगतवानस्मि हे अग्ने! तं मामागतवन्तं सन्तं वर्चसा ब्रह्मवर्चसेन च्लेरङि प्रजया आगममिति लक्षणया धनेन सुवर्णरत्नादिना च त्वं संसृज संयोजय । आङ्पूर्वकाद् गमेर्लुङि पुषादित्वात् रूपम् । अत्र ब्राह्मणम् -'अपो अद्यान्वचारिषमिति । अपामेव रसमवरुन्धे रसेन समसूक्ष्महीत्यपामेव रसमात्मन् धत्ते पयस्वानग्न आगमं तं मा संसृज वर्चसा प्रजया च धनेन चेत्याशिषमेवैतदाशास्ते ' ( श ० १२१ ९ / २ / ९ ) । अध्यात्मपक्षे - हे अग्ने परमात्मन् यश्चाहमस्मिन्नवसरेऽपो जलानि तत्समवेतानि कर्माणि तत्फलभूतान् लोकान् अन्वचारिषं प्राप्तवानस्मि यश्चाहं रसेन तत्फलभोगेन समसूक्ष्महि संसृष्टवान् यश्चाहं पयस्वान् पय-उपलक्षितसर्वभोगसामग्रीसम्पन्नः सन् आगमम् आगतवानस्मि तं मां वर्चसा ब्रह्मवर्चसेन प्रजया पुत्रशिष्यादिलक्षणया धनेन ब्रह्मविद्यालक्षणेन संसृज संयोजय । दयानन्दस्तु - ' हे अग्ने, यः पयस्वान् प्रशस्तजलविद्यायुक्तस्त्वामगमं प्राप्नुयाम्, अद्य अस्मिन् दिने सुसन्तानैः रसेन मधुरादिना सहापो जलानि अन्वचारिषम् आनुकूल्येन पिबामि तं मां वर्चसा वेदाध्ययनेन प्रजया , मनुष्यमात्रं प्रति धनेन च संसृज संयोजय, यत इमेऽहं च सर्वे वयं सुखाय समसूक्ष्महि ' इति, तदपि यत्किञ्चित् तादृशप्रार्थनायोगात् । पयस्वानित्यस्य जलविद्यायुक्त इत्यर्थोऽपि चिन्त्यः, निर्मूलत्वात् । व्यक्तिगतमधुरजलपान-वर्णनमपि निःसारमेव ॥ २२ ॥

पृष्ठ 355

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 355 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

म ० २३ ] वेदार्थपारिजातभाष्यसहिता I ३१ ९ एधो ' स्येधिषीमहि समिदसि तेजोऽसि तेजो मयि धेहि । समाव॑तं पृथि॒वी समुषाः समु सूर्यः । समु विश्वमिदं जग॑त् । वैश्वान॒रज्योतिर्भूयासं वि॒भून् कामान् व्य॒श्नवै भूः स्वाहा ॥ २३ ॥

32 मन्त्रार्थ - आहुति के निमित्त समिधा उठाते हुए यजमान कहता है कि हे समिधाकाष्ठ! तुम प्रकाश देने वाले हो, अनुग्रह करके हमारे धन - धान्य की वृद्धि करो । समिधा को आहवनीय में छोड़ने को उद्यत होकर कहे-हे समिधा, तुम पूर्ण प्रकाश करने वाली हो, तुम तेजःस्वरूप हो, मुझमें तेज का आधान करो । समिधा में घी लगावे । पृथ्वी प्रतिक्षण परिवर्तनशील है, प्रातःकाल निरन्तर आता जाता रहता है, सूर्य भी बार बार उदित और अस्त होता है, यह सारा संसार आवागमनशील है, कुछ भी स्थिर नहीं है । इतना कह कर उस समिधा की अग्नि में आहुति दे । सकल कामनाओं को पाने के लिये मैं सब प्राणियों के हितकारी परमात्मा की ज्योति को, नाना प्रकार के मनोरथों को प्राप्त करूँ, सत्यस्वरूप ब्रह्म को दी गई यह आहुति भली प्रकार गृहीत हो ॥ २३ ॥

' धोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसोति ' ( का ० श्र ० १ ९ | ५ | १ ९ ) । यजमान एधोऽसीति मन्त्रेण समिधं गृहीत्वा समिदसीति मन्त्रेणाग्नौ दधातीति सूत्रार्थः । समिद्देवत्ये यजुषी । हे समित् त्वमेधोऽसि, एधयति दीपयतीत्येधः, दीपिकाऽसि । वयं त्वत्प्रसादाद् एधिषीमहि धनादिभिवृद्धि प्राप्नुयाम । त्वं समिदसि समिन्धयति दीपयतीति समित्, तेजश्चासि तत्संयोगेनाग्नेर्ज्वलनात् । अतो मयि विषये तेजो धेहि धारय । ' जुहोति च समाववर्तीति ' ( का ० श्री ० १ ९ / ५ / २० ) | यजमानः सकृद् गृहीतमाज्यं समाववर्तीति कण्डिकाशेषेण जुहुयादिति सूत्रार्थ: । समाववर्तीति आग्नेयी गायत्री । वैश्वानरज्योतिरित्याग्नेयं यजुः । पृथिवी समाववत सम्यगावर्तते, नश्वरत्वाद् विनश्यतीत्यर्थः, विकरणव्यत्ययेन वृतेः शपः श्लुः । उषा दिवसोऽपि समाववत विनश्यति । उ एव विश्वमिदं जगत् सर्वं जनद् विनश्यति । अतोऽहं वैश्वानरज्योतिर्भूयासम् । विश्वश्वासौ नरश्चेति विश्वानरः, ' नरे संज्ञायाम् ' ( पा ० सू ० ६ | ३ | १२ ९ ) इति विश्वशब्दस्य दीर्घः, विश्वानरस्यायं वैश्वानरः परमात्मा, ' तस्येदम् ' ( पा ० सू ० ४।३।१२० ) इत्यणि रूपसिद्धि:, तद्रूपं ज्योतिर्ब्रह्मेव भूयासम् । विभून् महतोऽपि कामान् मनोरथान् व्यश्नवे प्राप्नुयाम् । भूः भवनं भूः सत्तामात्रं ब्रह्म तस्मै स्वाहा सुहुतमस्तु । महाव्याहृतीनामव्ययत्वात् चतुर्थ्यामपि तथैव रूपम्, ' सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ' इति तल्लक्षणात् । अत्र ब्राह्मणम् -'एधोऽस्येधिषीमहीति समिधमादत्ते । एधो ह वा अग्नेः समित् समिदसि तेजोऽसि तेजो मयि धेहीत्याहवनीये समिधमभ्यादधात्यग्निमेवैतया समिन्धे स एन समिद्धस्तेजसा समिन्धे ' ( श ० १२।९ ।२।१० ) । अध्यात्मपक्षे - हे समित्, समिन्धनात् समित्, सर्वभासिके चिते! त्वमेधो ऽसि सर्वदीपिकासि । त्वत्प्रसादाद्वयम् एधिषीमहि ज्ञानवैराग्यादिभिर्वृद्धिं प्राप्नुयास्म 1 । त्वं तेजोऽसि, ' येन सूर्यस्तपति तेजसेद्धः ' ( तै ० ब्रा ० ३ | १२ | ९ / ७ ) इति मन्त्रवर्णात् । तत्तेजो ज्योतिषामपि ज्योतीरूपं तेजो मयि धेहि आविर्भावय । पृथिवी धरित्री समाववति नश्वरत्वाद् विनश्यति, उषा दिवसोऽपि समाववति नश्यति । सूर्यः समावर्ति उ एव विनश्वरमेवेति । इदं दृश्यं विश्वं सर्वं जगत् समाववति विनश्यति । दृश्यं सर्वमपि बाध्यत्वादसदेव । वैश्वानरो विश्वेभ्यो नरेभ्यो हितो वा विश्वेषां नराणामनेकधा नयनाद्वा वैश्वानरः परमात्मा, तद्रूपं ज्योतिर्ब्रह्मरूपं भूयासं सर्वप्रपञ्चातीत-ब्रह्मरूपमेव भवामि, न तद्भिन्नकार्यकारणसङ्घातरूपस्तदुपहितो वा । विभून् महतोऽपि कामान् ब्रह्मात्मभावमन्यान् वा व्यश्नवे प्राप्नुयाम | भूः परब्रह्मणे स्वाहा, सर्वस्वमात्मानं च समर्पयामीति भावः ।

पृष्ठ 356

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 356 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२० शुक्लयजुर्वेद संहिता [. अ ० २० दयानन्दस्तु - ' है जगदीश्वर, त्वमेधो वर्धकोऽसि समिदस्यग्नेरिन्धनमिवासि मनुष्याणामात्मनां प्रकाशकोऽसि । तेजोऽसि तीव्रप्रज्ञः, तस्मात्तेजो मयि धेहि । यो भवान् सर्वत्र समाववति सम्यग्वर्तेत, येन भवता पृथिवी उषाश्च संसृष्टाः सूर्यः संसृष्ट इदं विश्वं जगत् संसृष्टम्, तदु वैश्वानरज्योतिर्ब्रह्म प्राप्य वयमेधिषीमहि । यथाहं स्वया सत्यक्रियया सत्यवाचा वा भूः सत्तारूपां प्रकृति विभून् कामान् व्यश्नवै सुखी भूयासम्, तथैव यूयमपि सिद्धकामाः सुखिनः स्यात ' इति, तदपि यत्किञ्चित्, अध्याहारबाहुल्यात् येन भवता प्राप्य, संसृष्टा इत्यादि-शब्दानां मन्त्रेऽभावात्, स्वाहा पदस्यास्तादृशार्थत्वाच्च ॥ २३ ॥

अभ्यादधामि समिधमग्ने व्रतपते॒ स्वय॑ ।

व्रतं चं श्रद्धां चोपेमधे त्वां दोक्षितो अहम् ॥ २४ ॥

मन्त्रार्थ - अग्न्याधान और ब्राह्मणवरण के बाद यजमान आवहनीय अग्नि में तीन समिधाएं छोड़े । हे कर्म के पालक अग्निदेव, ये समिधाएँ तुमको समर्पित करता हूँ । यज्ञ में दीक्षित हुआ मैं कर्म और श्रद्धा से सम्पन्न होकर तुम्हें प्रदीप्त करता है ॥ २४ ॥

' अभ्यादधामीति प्रत्यृचमाहवनीये तिस्रः समिधोऽभ्यादधाति ' ( का ० श्र ० १ ९ | १ | १२ ) | सौत्रामण्यादा-वादित्येष्टि समाप्य त्रिपवर्थं माहवनीवदक्षिणाग्नी विहृत्याग्न्यन्वाधानं ब्रह्मवरणं च कृत्वा आहवनीये यजमानस्तिस्रः समिधः प्रत्यृचमादधीतेति सूत्रार्थः । अग्निदेवत्यास्तिस्रोऽनुष्टुभ आश्वतराश्विदृष्टाः । हे अग्ने व्रतपते व्रतस्य कर्मणः पति: पालको व्रतपतिस्तत्सम्बुद्धी, अहं समिधं त्वय्यभ्यादधामि जुहोमि । तेन समिदाधानेन दीक्षितः सन्नहं व्रतं कर्म श्रद्धां विश्वासं चोपैमि उपगच्छामि । त्वा त्वामिन्धे दीपयामि । अध्यात्मपक्षे - हे अग्ने परमात्मन, व्रतपते कर्मणां स्वामिन्, अहं त्वयि समिधं चक्षुरादिभिर्दीप्यमानं स्वात्मानं त्वयि समर्पयामि । तेन दीक्षितः सन्नहं व्रतं सङ्कल्पं श्रद्धां विश्वासं चोपैम्युपगच्छामि । त्वामिन्धेऽन्तः-करणे त्वदाकाराकारितया वृत्त्या त्वां पश्यामि । दयानन्दस्तु - ' हे व्रतपते अग्ने, त्वयि स्थिरीभूयाहं समिधमिव ध्यानमभ्यादधामि यतो व्रतं सत्य-भाषणादिकं कर्म श्रद्धां सत्यधारिकां क्रियां च उपैमि प्राप्नोमि दीक्षितः सन् त्वामिन्धे प्रकाशयामि ' इति, तदपि यत्किञ्चित्, समिधमिव ध्यानमिति गौणार्थस्वीकारस्य निर्मूलत्वात् । श्रद्धां सत्यधारिकां क्रियामित्यपि निर्मूलम्, श्रदित्यस्य विश्वासाधायकत्वप्रसिद्धेः ॥ २४ ॥

यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑

स॒भ्यञ्च॒ चर॑तः स॒ह ।

त॑ लो॒कं पुण्यं प्रज्ञेषं॒यत्र॑ दे॒वाः स॒हाग्निना॑ ॥ २५ ॥

मन्त्रार्थ - जहां ब्राह्मण और क्षत्रिय जाति एक साथ एक मन होकर विचरते हैं, जहाँ देवता अग्नि के साथ निवास करते हैं, उस पवित्र स्वर्ग लोक को मैं प्राप्त करूँ ॥ २५ ॥

यत्र लोके ब्रह्म ब्राह्मणजातिः, क्षत्रं क्षत्रियजातिश्च सम्यञ्चौ सहावियोगेन तिष्ठतः, समीची इति प्राप्ते लिङ्गव्यत्ययः, तं पुण्यं पवित्रं लोकं प्रज्ञेषं जानीयाम् । तल्लोकमप्राप्तानां तल्लोकज्ञानं न भवतीति स्वर्लोकगमनं

पृष्ठ 357

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 357 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२० २५-२७ ] वेदार्थ पारिजातभाष्यसहिता ३२१ प्रार्थ्यते । यत्र चाग्निना सह देवाश्चरन्ति, सदा ब्राह्मणाः क्षत्रियाश्च यत्राविरोधेन तिष्ठन्ति तं लोकं प्राप्नुया-मित्यर्थः । यद्वा यत्र ब्रह्म मूर्तिमद् ब्रह्म भौमब्रह्म ब्राह्मणत्वजातिविशिष्टं क्षतात्किल त्रायत इति क्षत्रं तच्च मूर्तिमत् क्षत्रियत्वजातिविशिष्टं सदा अवियोगेन सम्यञ्च सध्रीचीने चरतस्तिष्ठतः, यत्र चाग्निना सह देवाश्चरन्ति, तं पुण्यलोकं प्रज्ञेषं प्रज्ञानं वा प्राप्ता वयम् । अध्यात्मपक्षे - यत्र ब्रह्म ब्राह्मं तेजः शमदमाद्युपेतं क्षत्रं शौर्यवीर्याद्युपेतं क्षात्रं तेजो धैग्यं सहिष्णुता च सम्यञ्च समीची सहाविरोधेन चरतः यत्राग्निना सर्वकर्मदाह केनाग्निना ज्ञानरूपेण सह देवा इन्द्रियाणि भवन्ति, तं पुण्यं पवित्रं लोकम्, लोक्यते दृश्यते भुज्यत इति लोकः फलं देहं प्रज्ञेषं प्रज्ञानं च प्राप्ताः साधका अवश्यं निःश्रेयसाय प्रयतेरन्निति शेषः । दयानन्दस्तु - ' हे मनुष्याः, यथाहं यत्र परमात्मनि ब्रह्म च क्षत्रं च चकाराद् वैश्यकुलं च सम्यगेकी-भावेन चरन्तौ सह सार्धं वर्तेते, यत्र देवा विद्वांसः पृथिव्यादयो वा अग्निना विद्युता सह भवन्ति, तं लोके दर्शनार्ह पुण्यं प्रज्ञेषं जानीयाम्, जानातेर्लेटि सिपि रूपम् ' इति, तदपि यत्किञ्चित्, लोकप्रसिद्धपदार्थत्यागेऽप्रसिद्धार्थंकल्पने च मानाभावात् । त्वद्रीत्या च न सर्वं ब्रह्मणि वर्तते, त्वया तस्याधिष्ठानत्वानङ्गीकारात् । वेदान्तरीत्यैव ब्रह्मणः सर्वाधिष्ठानत्वम् ॥ २५ ॥

यत्रेन्द्र॑श्च वायुश्च॑ स॒म्यञ्च॒ चर॑तः सह ।

तं लोकं पुण्यं प्रज्ञेषं यत्र॑ स॒दिर्न वि॒द्यते ॥ २६ ॥

मन्त्रार्थ - जहाँ इन्द्र और वायु एक साथ एक मन होकर विचरते हैं, जहाँ अन्न की प्राप्ति के लिये कोई कष्ट नहीं उठाना पड़ता, उस पवित्र लोक को मैं प्राप्त करूँ ॥ २६ ॥

यत्र लोके इन्द्रश्च वायुश्च सम्यञ्चौ चरतः यत्र सेदिः सदनम् अन्नाप्राप्तिजनितं दुःखं न विद्यते, तं पुण्यं पवित्रं लोकं प्रज्ञेषं विजानीयाम्, षद्ल विशरणगत्यवसादनेषु ' इति धातो: ' आदृगमहनजनः किकिनौ लिट् च ' ( पा ० सू ० ३।२।१७१ ) इति चकारात् किप्रत्यये लिड्वद्भावादेत्वाभ्यासलोपयोः सतोः सेदिरिति रूपम् । अध्यात्मपक्षे -- इन्द्रः परं ब्रह्म वायुहिरण्यगर्भः सूत्रात्मा यत्र सम्यञ्चौ चरतः सेदिः संसारदुःखं च न भवति, तं पुण्यं लोकं प्रज्ञेषं जानीयामिति । वेदेषु परब्रह्मापरब्रह्मरूपेणोभयोः प्रसिद्धिरिति तयोः सध्रीचीनत्वम् । दयानन्दस्तु – ' हे मनुष्याः यथाहं यत्रेश्वरे इन्द्रः सर्वत्राभिध्याता विद्युच्च वायुर्धनञ्जयादिरूपः पवनश्च सम्यञ्चौ चरतः, यत्र सेदिर्नाश उत्पत्तिर्वा न विद्यते तं पुण्यं लोकं प्रज्ञेषम्, तथैव यूयं विजानीत ' इति, तदपि यत्किञ्चित्, हे मनुष्याः! यूयं तथैव विजानीतेत्यध्याहारस्य निर्मूलत्वात्, पूर्वोक्तदोषाच्च ॥ २६ ॥

अ॒ध॒श॒ना॑ ते अ॒शुः पृ॑च्यतां परु॑षा॒ परः ।

गन्धस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो अच्युतः ॥ २७ ॥

मन्त्रार्थ - हे महौषधि रस! तुम्हारा भाग सोम के भाग में मिल जाय, तुम्हारा पर्व सोम के पर्व से मिल जाय, तुम्हारी गन्ध अविनाशी हो, तुम रस और उल्लास को देने वाले हो, तुम सोम की रक्षा करो ॥ २७ ॥

४१

पृष्ठ 358

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 358 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२२ शुक्लयजुर्वेदसंहिता [ अ [ ० २० सुरा देवत्याऽनुष्टुप् सुरासंसर्जने विनियुक्ता । तत्सूत्रं तु - ' स्वाद्वीं त्वाशुना त इति ' ( का ० श्री ० १ ९ ।१।२१ ) । हे सुरे, ते तव अंशुर्भाग: सोमस्यांशुना भागेन सह पृच्यतां संयुज्यताम् । ते परुषा पर्वणा पृच्यताम् । ते तव गन्धः, अच्युतोऽनश्वरो रसश्च सोममवतु आलिङ्गतु । तव परुः पर्व सोमस्य मत्तताये । सुरायुक्तः सोमः पोतो मदजनको भवति, अत उभयोर्योगोऽस्तु । सौत्रामणीयागाङ्गभूताया किमर्थम्? मदाय सुराया वैदिकविधान निर्माणम्, तस्या अत्र सोमेन योगो विहितो नान्यस्या लौकिक्याः सुरायाः, तस्या निषेधात् यस्याः । अध्यात्मपक्षे - हे विश्वविस्मारिके ब्रह्मानन्दानुभूते, तवांशुर्भाग: सोमस्यांशुना भक्तिरसभागेन तव परुः पर्व सोमस्य साम्बसदाशिवस्य परुषा पर्वणा पृच्यताम् । ते तव गन्धोऽच्युतो रसश्च सोमं साम्ब पृच्यताम् । मालिङ्ग | किमर्थम्? मदाय ब्रह्मानन्दोन्मदाय | सदाशिव-दयानन्दस्तु - ' हे विद्वन्, ते तवांशुना भागेनांशुः परुषा मर्मणा परुः मर्म पृच्यताम् । तेऽच्युतो गन्धो समदाय सोममैश्वर्यमवतु ' इति, तदप्यसङ्गतम्, कस्य भागः कस्य भागेन कस्य मर्म कस्य मर्मणा पृच्यता-मित्यनुक्तेः । गन्धो रसश्च कथमच्युतः स्यात्? ह्यात्मनो गन्धो रसश्च तस्याभौतिकत्वात् । भौतिकयोर्गन्ध-रसयोर्व्यवहार्ययोश्च विनश्वरत्वमेवेति ॥ २७ ॥।

सि॒ञ्चन्ति॒ परिषिञ्च॒न्त्युत्सञ्चन्ति पुनन्ति च ।

सुरो बभ्रुवे म किन्त्वो व॑दति हि॒न्वः ॥ २८ ॥

मन्त्रार्थं -- पवित्र किये रस का ग्रहण करें । बल के धारक कपिल वर्णं महौषधियों के रस को पीकर इन्द्र प्रसन्नता से भर गया है, तुम कौन हो, तुम कौन हो, ऐसे कहता है । इसीलिये ऋत्विकगण पात्र में महौषधि के रस को भरते हैं, उसमें दूध मिलाते हैं, उसे ग्रहों में भरते हैं, पावन सुवणं आदि से पवित्र करते हैं ॥ २८ ॥

सुरादेवत्या इन्द्रदेवत्या चानुष्टुप् । पुतसुरादाने विनियोगः । तथा चाह परमर्षिः कात्यायन: -' पूतामादत्ते सिञ्चन्ति परिषिञ्चन्तीति ' ( का ० श्र ० १ ९ २२८ ) । कारोतरेण पूतां सुरां केनचित्पात्रेण गृह्णीयादिति सूत्रार्थः । ' श्वभ्रं खात्वा खरमपरेण चर्मावधाय परिस्रुतमासिच्य कारोतरमवदधाति कारोतराद्वा चर्मणि मन्त्रलिङ्गात् ' ( का ० श्रौ ० १ ९ / २ / ७ ) | दक्षिणवेदिखरमपरेण बहिर्वेदि श्वभ्रं = गतं खात्वा तत्र गर्ते गोचर्माविधाय परिस्रुतं = सुरां तत्रासिच्य सुराया उपरि कारोतरं वंशमयं पात्रं सुरागलनसमर्थं कृते मलमधस्तिष्ठति, गलिता सुरा कारोतरस्योपर्यायाति । अथवा पूर्वं चर्मणि कारोतरमवधाय निदध्यात् । एवं मासिञ्चति, कारोतराच्चर्मणि सुरा पतति । कुत:? ' कारोतरेण दधतो गवां त्वचि ( वा ० सं ० तत्र सुरा-मन्त्रलिङ्गात् । बभ्रुवै बभ्रुवर्णाय तस्यै सुरायै, षष्ठ्यर्थे चतुर्थी, बभ्रुवर्णायाः सुराया मदे स्थितः १ ९ ८२, ) अर्थात् इति सुरा मत्त इन्द्रः किन्त्वः किं त्वम्? कस्य त्वम्? इत्याद्यन्यतिरस्कारकरं वचो वदति । का सा सुरेति तत्राह याम् आचामामभावमुपगतां सुरां पात्रे ऋत्विजः सिञ्चन्ति आचामो भक्तमण्ड: । पयआदिभिरुत्सिञ्चॅन्ति -संश्लेषयन्ति, ग्रहैर्गोबा लपवित्रहिरण्यादिभिः पुतन्ति च । तस्याः सुराया मदे स्थित, ब्रूहीत्यादि वदतीति सम्बन्धः । इन्द्रः किं त्वं कस्य त्वं अध्यात्मपक्षे - यां ब्रह्मानन्दानुभूतिरूपां मदजननीं विश्वविस्मारिकां सुरां सिञ्चन्ति बुधाः परिषिञ्चन्ति शमादिलक्षणैः पयोभिः परिषिञ्चन्ति उत्सिञ्चन्ति ग्रहैर्मन तापत्रयशान्तये मीमांसापरिष्कृतैस्तः, तस्या मदे स्थित इन्द्रो जीवः साधकः किन्त्वः कस्य त्वम्, कस्त्वमित्यादि आदिभिर्ग्रहैः, यां च पुनन्ति ब्रह्मेवेति पश्यतीत्यर्थः । वदति । सर्वं

पृष्ठ 359

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 359 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

२४-३० ] वेदार्थ पारिजातभाष्यसहिता ३२३ दयानन्दस्तु - ' ये बभ्रुवे बलधारकाय सुराये सोमाय मदे आनन्दाय महौषधिरसं सिञ्चन्ति परि-षिञ्चन्ति उत्सिञ्चन्ति ते शरीरात्मबलं प्राप्नुवन्ति । यः किन्त्वः किन्त्वः किमन्य इति वदति स किञ्चिदपि नाप्नोति ' इति, तत्तुच्छम्, वेदाक्षरविरोधात् बभ्रुपदस्य बलधारकत्वार्थे प्रमाणाभावात् । सुरापदस्य सोमार्थता पि चिन्त्यैव । महौषधिरसपदाध्याहारोऽपि निर्मूल एवं पर्युदिति पदकृत्यमपि न निरूपितम् । किन्त्वो वदतीत्यप्य-व्याख्यातप्रायमेव || २८ ॥

धा॒नाव॑न्तं कर॒म्भिण॑म॒ पव॑न्तमु॒क्थिन॑म् । इन्द्र॑ प्रा॒तज्जु॑षस्व नः ॥ २६ ॥

मन्त्रार्थ है इन्द्र! प्रातःकाल हमारे खोलों से युक्त दही, सत्तू और मालपुए आदि से युक्त पुरोडाश को हमारी स्तुति के साथ सेवन करो ॥ इस मन्त्र से लाजा - होम किया जाता है ॥ २ ९ ॥ इन्द्रदेवत्या गायत्री विश्वामित्रदृष्टा स्मार्ते श्रवणाकर्मणि धानाहोमे विनियुक्ता, प्रातः सवने पुरोडाश-पुरोनुवाक्यापि । हे इन्द्र, त्वं प्रातःकाले नोऽस्माकं पुरोडाशं जुषस्व सेवस्व । कीदृशं पुरोडाशम्? धानावन्तं धाना विद्यन्ते यत्र तं धानाभिर्युक्तमित्यर्थः । करम्भिणं करम्भेण दधियुक्तेन सक्तुना युक्तम्, अपूपवन्तम् अपूपेन युक्तम् । उक्थिनम् उक्थं शस्त्रमस्ति यत्र तं स्तुतियुक्तम् । अध्यात्मपक्षे -- हे इन्द्र परमात्मन् । शेषं पूर्ववत् । -दयानन्दस्तु – ' हे इन्द्र सुखेच्छो विद्येश्वर्ययुक्त, त्वं नो धानावन्तं करम्भिणं सुष्ठु क्रियया निष्पन्न-मुक्थिनं प्रशस्तोक्यवाक्यजन्यबोधसम्पादितं भक्ष्याद्यन्वितं भोज्यमन्नरसादिकं प्रातर्जुषस्व ' इति, तदपि यत्किञ्चित्, अस्यार्थस्य लोकसिद्धत्वेन एतदनुवादनै रथंक्यात्, करम्भपदस्य सुष्ठुक्रियार्थताया निर्मूलत्वात् । इन्द्रपदार्थोऽपि निर्मूल एव ॥ २ ९ ॥

बृहदिन्द्रय गायत॒ महि॑तो वृत्र॒हन्त॑मम् ।

ये॑न॒ ज्योति॒रज॑नयन्नृता॒वृधो दे॒वं दे॒वाय॒ जागृ॑वि ॥ ३० ॥

मन्त्रार्थ - हे ऋत्विकगण! इन्द्र के निमित्त अति पापनाशक अथवा वृत्रासुर के नाशक बृहत्सम की गान करो, यज्ञ की वृद्धि करने वाले देवगण अथवा ऋत्विक्गण जिस सामगान से इन्द्र के निमित्त वीप्तिमान् अविनाशी तेज को प्राप्त कराते हैं । इसका अभिप्राय यह है कि सामगान से इन्द्र तेजस्वी होता है | इस मन्त्र से ब्रह्मा सामगान करता है ॥ ३० ॥

' ऐन्द्रयां बृहत्यां गायति ' ( का ० श्र ० १ ९ | ५ | २ ) । अध्वर्युप्रेषितो ब्रह्मा इन्द्रदेवत्यायां बृहत्यां बृहदिन्द्राय गाय तेत्यस्यामृचि साम गायेदिति सूत्रार्थः । इन्द्रदेवत्या बृहती नृमेधपुरुषमेधदृष्टा । हे मरुतः, तद्वत्कर्मशीला ऋत्विजः इन्द्राय इन्द्रार्थं यूयं बृहत्साम गायत सामगानं कुरुत । कीदृशं साम? बृहद् वृत्रहन्तमम्. वृत्रं पापं प्रत्यतिशयेन हन्ति गच्छतीति वृत्रहन्तमस्तम् । अथवा वृत्रमसुरं नाशयति, तम् । ' नाद् घस्य ' ( पा ० सू ० ८ | २ | १७ ) इति नुम् । ऋतावृधः, ऋतं यज्ञं वर्धयन्ति ये ते ऋतावृधो देवा ऋत्विजो वा, ' अन्येषामपि दृश्यते ' ( पा ० सू ० ६।३।१३७ ) इति दीर्घः । येन सामगानेन देवाय इन्द्राय ज्योतिस्तेजः, अजनयन् उदपादयन् तं तादृशं बृहत्साम

पृष्ठ 360

वेदार्थ पारिजात - शुक्लयजुर्वेद करपात्र भाष्य - ६ - स्वामी करपात्री, पृष्ठ 360 का मूल पृष्ठ
पूरे पर्दे पर देखने के लिये चित्र दबाएँ
पाठ पढ़ें पाठ छिपाएँ

३२४ शुक्लयजुर्वेद संहिता [ अ ० २० जागर्तीति जागृवि गायतेति सम्बन्धः । कीदृशं ज्योतिरजनयन्नित्याकाङ्क्षायामाह -- देवम्, दीप्यमानम् ॥ जागृवि जागरणशीलम्, अविनश्वरमित्यर्थः । सामगानेनेन्द्रस्तेजस्वी जात इति भावः अध्यात्मपक्षे – इन्द्राय परमेश्वराय बृहत्साम गायत हे मरुतो देवा!! कीदृशं साम? वृत्रहन्तमम्, वृत्रं पापमतिशयेन हन्तीति वृत्रहन्तमम् । शेषं पूर्ववत् । देवं दयानन्दस्तु – ' हे मरुतो विद्वांसः, ऋतावृधो भवन्तो येन देवाय ' इन्द्राय इति, परमैश्वर्ययुक्ताय तदपि यत्किञ्चित् दिव्यसुखप्रदं जागृवि जागरूकं ज्योतिरजनयन्, तद् वृत्रहन्तमं बृहत् तस्मै मेघहन्तृसूर्य गायत साम्यस्यानिरूपणाच्च । नहि मरुत्पदस्य प्रसिद्धमर्थं विहायाप्रामाणिकार्थकल्पने मानाभावात् साम्नि ज्योतिरुत्पादयितुं क्षमाः, विद्वांसोऽपि मनुष्याः सत्यं वर्धयन्ति, तस्यैकरूपत्वेन वर्धनायोगात् । न च ते परस्मिन् परमात्मज्योतिषो नित्यत्वात् ॥ ३० ॥

अर्ध्वयो॒ अद्वभिः सु॒त ं सोमं॑ प॒वित्र॒ आन॑य । पु॒ना॒होन्द्रा॑य॒ पात॑वे ॥ ३१ ॥

1 , इसको इन्द्र के पीने मन्त्रार्थ - हे अध्वर्युगण! आप लोग पत्थरों से अभिषुत सोम को पवित्रे में ले जाओ के लिये पवित्र करो ॥ इस मन्त्र से दूध को अभिमन्त्रित किया जाता है ॥ ३१ ॥

मन्त्रेण ' ब्रह्मानुमन्त्रणमध्वर्यो अद्रिभिरिति ' ( का ० श्र ० १ ९ | २ | १३ ) | ब्रह्मा अध्वर्यो अद्रिभिरिति पाषाणैः सुतमभिषुतं पूयमानस्य पयसोऽनुमन्त्रणं कुर्यादिति सूत्रार्थः । ऐन्द्री गायत्री । हे अध्वर्यो, अद्रिभिग्रवभिः । पुनीहीति प्रेषितोऽध्वर्युः सोमं सोमं पवित्रे कम्बलमये पात्रे आनय आसिञ्च गालय । ततः पुनाहि पुनीहि पुनाति । किमर्थम्? इन्द्राय पातवे इन्द्रस्य पानार्थम् । अध्यात्मपक्षे – इन्द्राय परमेश्वरस्य पातवे पानार्थम् । यागादिकमपि परमेश्वरार्थमेव क्रियते । दयानन्दस्तु – ' योऽध्वरं यज्ञं युनक्ति सोऽध्वर्युः, तत्सम्बुद्धौ | त्वमिन्द्राय परमैश्वर्याय पवित्रय पातवे ' इति पातुमद्रिभि- , तदपि घैः सुतं निष्पन्नं सोमं सोमवल्ल्याद्योषधिसारं रसं पवित्रे शुद्धे व्यवहारे आनय पुनाहि परमैश्वर्यवान् कोऽस्ति यस् यत्किञ्चित्, सर्वासामोषधीनां मेघैनिष्पन्नत्वेन मेघैरिति पदस्य व्यावर्त्याभावात् इति । वाच्यम्, तस्य परमैश्वर्य -पानार्थं मेघैनिष्पन्नः सोमो व्यवहारे आनीयते । न च स्वकर्तृकं पानमेव व्यवहार ॥ ३१ ॥

वदर्थतानुपपत्ते:, तेन पुनीहीत्यस्याः क्रियायाः सकर्मकत्वेन पवित्रा भवेति हिन्दीव्याख्यानानुपपत्तेः T यो भूतानामधिपति॒र्य॑स्मँल्लो॒का अधि॑षि॒ताः । य ईशे ' मह॒तो म॒हाँस्तेन॑ गृह्णामि॒ त्वाम॒हं मयि॑ गृह्णामि॒ त्वम॒हम् ॥ ३२ ॥

मन्त्रार्थ - जो प्राणियों का पालन करने वाला है, भू आदि लोक जिस परमात्मा के आश्रय से ठहरे हुए हैं, जो सबसे बड़ा और बड़ों का भी नियन्ता है, है ग्रह! उसी परमात्मा की आज्ञा के अनुसार मैं ३२ उस ॥ परमात्मा के अनुग्रह से तुमको ग्रहण करता हूँ । मैं तुमको परमात्मभाव को प्राप्त हुए अपने में ग्रहण करता हूँ ॥ ' त्रयस्त्रिंशं वसाग्रहं गृह्णाति यो भूतानामिति ' ( का ० श्र ० १ ९ | ४ | २४ ) । ' सीसेन द्वात्रिंशत्सं- तन्त्रम् ' ( वा ० सं ० १ ९ / ८० ) इत्यादिभिः षोडशभिर्ऋग्भिरार्षभैः खुरैर्वसां गृहीत्वा एकेन मन्त्रेण द्वयोर्होमरीत्या